श्री दत्त सहस्त्र नाम स्तोत्र

नामावली  > श्री दत्तात्रेय नामावली Posted at 2018-10-27 13:11:29
श्रीदत्तसहस्रनामस्तोत्रम्  ॥ श्रीगणेशाय नमः । अथ दत्तसहस्रनामप्रारम्भः ॥ श्रीदत्तात्रेयाय सच्चिदानन्दाय सर्वान्तरात्मने सद्गुरवे परब्रह्मणे नमः । कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् । किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १॥ बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः । स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २॥ उवाच शङ्करं तत्र पतद्रूपमधारयत् । प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३॥ उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् । दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४॥ जपेषु पुण्यतीर्थेषु चान्द्रायणशतेषु च । यज्ञव्रतादिदानेषु सर्वपुण्यफलप्रदम् ॥ ५॥ शतवारं जपेन्नित्यं कर्मसिद्धिर्न संशयः । एकेनोच्चारमात्रेण तत्स्वरूपं लभेन्नरः ॥ ६॥ योगत्रयं च लभते सर्वयोगान्न संशयः । मातृपितृगुरूणां च हत्यादोषो विनश्यति ॥ ७॥ अनेन यः किमित्युक्त्वा रौरवं नरकं व्रजेत् । पठितव्यं श्रावितव्यं श्रद्धाभक्तिसमन्वितैः ॥ ८॥ सङ्करीकृतपापैश्च मलिनीकरणैरपि । पापकोटिसहस्रैश्च मुच्यते नात्र संशयः ॥ ९॥ यद्गृहे संस्थितं स्तोत्रं नामदत्तसहस्रकम् । सर्वावश्यादिकर्माणि समुच्चार्य जपेद्ध्रुवम् ॥ १०॥ तत्तत्कार्यं च लभते मोक्षवान् योगवान् भवेत् ॥ ॐ अस्य श्रीदत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मऋषिः । अनुष्टुप्छन्दः । श्रीदत्तपुरुषः परमात्मा देवता। ॐ हंसहंसाय विद्महे इति बीजम् । सोऽहं सोऽहं च धीमहि इति शक्तिः। हंसः सोऽहं च प्रचोदयात् इति कीलकम् । श्रीपरमपुरुषपरमहंसपरमात्मप्रीत्यर्थे जपे विनियोगः ॥ अथः न्यासः । ॐ हंसो गणेशाय अङ्गुष्ठाम्यां नमः । ॐ हंसी प्रजापतये तर्जनीभ्यां नमः । ॐ हंसूं महाविष्णवे मध्यमाभ्यां नमः । ॐ हंसैः शम्भवे अनामिकाभ्यां नमः । ॐ हंसौ जीवात्मने कनिष्ठिकाम्यां नगः । ॐ हंसः परमात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिषडङ्गन्यासः । ॐ हंसः सोऽहं हंसः इति दिग्बन्धः ॥ अथ ध्यानम् । बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्माद्यैः सनकादिभिः परिवृतं सिद्धैर्महायोगिभि- र्दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिनाम् ॥ १॥ ॐ श्रीमान्देवो विरूपाक्षो पुराणपुरुषोत्तमः । ब्रह्मा परो यतीनाथो दीनबन्धुः कृपानिधिः ॥ १॥ सारस्वतो मुनिर्मुख्यस्तेजस्वी भक्तवत्सलः । धर्मो धर्ममयो धर्मी धर्मदो धर्मभावनः ॥ २॥ भाग्यदो भोगदो भोगी भाग्यवान् भानुरञ्जनः । भास्करो भयहा भर्ता भावभूर्भवतारणः ॥ ३॥ कृष्णो लक्ष्मीपतिर्देवः पारिजातापहारकः । सिंहाद्रिनिलयः शम्भुर्व्यङ्कटाचलवासकः ॥ ४॥ कोल्लापुरः श्रीजपवान् माहुरार्जितभिक्षुकः । सेतुतीर्थविशुद्धात्मा रामध्यानपरायणः ॥ ५॥ रामार्चितो रामगुरुः रामात्मा रामदैवतः ॥ ५॥ श्रीरामशिष्यो रामज्ञो रामैकाक्षरतत्परः ॥ ६॥ श्रीराममन्त्रविख्यातो राममन्त्राब्धिपारगः । रामभक्तो रामसखा रामवान् रामहर्षणः ॥ ७॥ अनसूयात्मजो देवदत्तश्चात्रेयनामकः । सुरूपः सुमतिः प्राज्ञः श्रीदो वैकुण्ठवल्लभः ॥ ८॥ विरजस्थानकः श्रेष्ठः सर्वो नारायणः प्रभुः । कर्मज्ञः कर्मनिरतो नृसिंहो वामनोऽच्युतः ॥ ९॥ कविः काव्यो जगन्नाथो जगन्मूर्तिरनामयः । मत्स्यः कूर्मो वराहश्च हरिः कृष्णो महास्मयः ॥ १०॥ रामो रामो रघुपतिर्बुद्धः कल्की जनार्दनः । गोविन्दो माधवो विष्णुः श्रीधरो देवनायकः ॥ ११॥ त्रिविक्रमः केशवश्च वासुदेवो महेश्वरः । सङ्कर्षणः पद्मनाभो दामोदरपरः शुचिः ॥ १२॥ श्रीशैलवनचारी च भार्गवस्थानकोविदः । शेषाचलनिवासी च स्वामी पुष्करिणीप्रियः ॥ १३॥ अहोबिलनिवासी कुम्भकोणनिवासी च काञ्चिवासी रसेश्वरः । रसानुभोक्ता सिद्धेशः सिद्धिमान् सिद्धवत्सलः ॥ १४॥ सिद्धरूपः सिद्धविधिः सिद्धाचारप्रवर्तकः । रसाहारो विषाहारो गन्धकादि प्रसेवकः ॥ १५॥ योगी योगपरो राजा धृतिमान् मतिमान्सुखी । बुद्धिमान्नीतिमान् बालो ह्युन्मत्तो ज्ञानसागरः ॥ १६॥ योगिस्तुतो योगिचन्द्रो योगिवन्द्यो यतीश्वरः । योगादिमान् योगरूपो योगीशो योगिपूजितः ॥ १७॥ काष्ठायोगी दृढप्रज्ञो लम्बिकायोगवान् दृढः । खेचरश्च खगः पूषा रश्मिवान्भूतभावनः ॥ १८॥ ब्रह्मज्ञः सनकादिभ्यः श्रीपतिः कार्यसिद्धिमान् । स्पृष्टास्पृष्टविहीनात्मा योगज्ञो योगमूर्तिमान् ॥ १९॥ मोक्षश्रीर्मोक्षदो मोक्षी मोक्षरूपो विशेषवान् । सुखप्रदः सुखः सौख्यः सुखरूपः सुखात्मकः ॥ २०॥ रात्रिरूपो दिवारूपः सन्ध्याऽऽत्मा कालरूपकः । कालः कालविवर्णश्च बालः प्रभुरतुल्यकः ॥ २१॥ सहस्रशीर्षा पुरुषो वेदात्मा वेदपारगः । सहस्रचरणोऽनन्तः सहस्राक्षो जितेन्द्रियः ॥ २२॥ स्थूलसूक्ष्मो निराकारो निर्मोहो भक्तमोहवान् । महीयान्परमाणुश्च जितक्रोधो भयापहः ॥ २३॥ योगानन्दप्रदाता च योगो योगविशारदः । नित्यो नित्यात्मवान् योगी नित्यपूर्णो निरामयः ॥ २४॥ दत्तात्रेयो देयदत्तो योगी परमभास्करः । अवधूतः सर्वनाथः सत्कर्ता पुरुषोत्तमः ॥ २५॥ ज्ञानी लोकविभुः कान्तः शीतोष्णसमबुद्धकः । विद्वेषी जनसंहर्ता धर्मबुद्धिविचक्षणः ॥ २६॥ नित्यतृप्तो विशोकश्च द्विभुजः कामरूपकः । कल्याणोऽभिजनो धीरो विशिष्टः सुविचक्षणः ॥ २७॥ श्रीमद्भागवतार्थज्ञो रामायणविशेषवान् । अष्टादशपुराणज्ञो षड्दर्शनविजृम्भकः ॥ २८॥ निर्विकल्पः सुरश्रेष्ठो ह्युत्तमो लोकपूजितः । गुणातीतः पूर्णगुणो ब्रह्मण्यो द्विजसंवृतः ॥ २९॥ दिगम्बरो महाज्ञेयो विश्वात्माऽऽत्मपरायणः । वेदान्तश्रवणो वेदी कलावान्निष्कलङ्कवान् ॥ ३०॥ कालावान्निष्कलत्रवान् मितभाष्यमितभाषी च सौम्यो रामो जयः शिवः । सर्वजित् सर्वतोभद्रो जयकाङ्क्षी सुखावहः ॥ ३१॥ प्रत्यर्थिकीर्तिसंहर्ता मन्दरार्चितपादुकः । वैकुण्ठवासी देवेशो विरजास्नातमानसः ॥ ३२॥ श्रीमेरुनिलयो योगी बालार्कसमकान्तिमान् । रक्ताङ्गः श्यामलाङ्गश्च बहुवेषो बहुप्रियः ॥ ३३॥ महालक्ष्म्यन्नपूर्णेशः स्वधाकारो यतीश्वरः । स्वर्णरूपः स्वर्णदायी मूलिकायन्त्रकोविदः ॥ ३४॥ आनीतमूलिकायन्त्रो भक्ताभीष्टप्रदो महान् । शान्ताकारो महामायो माहुरस्थो जगन्मयः ॥ ३५॥ बद्धाशनश्च सूक्ष्मांशी मिताहारो निरुद्यमः । ध्यानात्मा ध्यानयोगात्मा ध्यानस्थो ध्यानसत्प्रियः ॥ ३६॥ सत्यध्यानः सत्यमयः सत्यरूपो निजाकृतिः । त्रिलोकगुरुरेकात्मा भस्मोद्धूलितविग्रहः ॥ ३७॥ प्रियाप्रियसमः पूर्णो लाभालाभसमप्रियः । सुखदुःखसमो ह्रीमान् हिताहितसमः परः ॥ ३८॥ गुरुर्ब्रह्मा च विष्णुश्च महाविष्णुः सनातनः । सदाशिवो महेन्द्रश्च गोविन्दो मधुसूदनः ॥ ३९॥ कर्ता कारयिता रुद्रः सर्वचारी तु याचकः । सम्पत्प्रदो वृष्टिरूपो मेघरूपस्तपःप्रियः ॥ ४०॥ तपोमूर्तिस्तपोराशिस्तपस्वी च तपोधनः । तपोमयस्तपःशुद्धो जनको विश्वसृग्विधिः ॥ ४१॥ तपःसिद्धस्तपःसाध्यस्तपःकर्ता तपःक्रतुः । तपःशमस्तपःकीर्तिस्तपोदारस्तपोऽत्ययः ॥ ४२॥ तपोरेतस्तपोज्योतिस्तपात्मा चात्रिनन्दनः । निष्कल्मषो निष्कपटो निर्विघ्नो धर्मभीरुकः ॥ ४३॥ वैद्युतस्तारकः कर्मवैदिको ब्राह्मणो यतिः । नक्षत्रतेजा दीप्तात्मा परिशुद्धो विमत्सरः ॥ ४४॥ जटी कृष्णाजिनपदो व्याघ्रचर्मधरो वशी । जितेन्द्रियश्चीरवासाः शुक्लवस्त्राम्बरो हरिः ॥ ४५॥ चन्द्रानुजश्चन्द्रमुखः शुकयोगी वरप्रदः । दिव्ययोगी पञ्चतपो मासर्तुवत्सराननः ॥ ४६॥ भूतज्ञो वर्तमानज्ञ भाविज्ञो धर्मवत्सलः । (भूत-वर्तमान-भावि) प्रजाहितः सर्वहित अनिन्द्यो लोकवन्दितः ॥ ४७॥ आकुञ्चयोगसम्बद्धमलमूत्ररसादिकः । कनकीभूतमलवान् राजयोगविचक्षणः ॥ ४८॥ शकटादिविशेषज्ञो लम्बिकानीतितत्परः । प्रपञ्चरूपी बलवान् एककौपीनवस्त्रकः ॥ ४९॥ दिगम्बरः सोत्तरीयः सजटः सकमण्डलुः । निर्दण्डश्चासिदण्डश्व स्त्रीवेषः पुरुषाकृतिः ॥ ५०॥ तुलसीकाष्ठमाली च रौद्रः स्फटिकमालिकः । निर्मालिकः शुद्धतरः स्वेच्छा अमरवान् परः ॥ ५१॥ उर्ध्वपुण्ड्रस्त्रिपुण्ड्राङ्को द्वन्द्वहीनः सुनिर्मलः । निर्जटः सुजटो हेयो भस्मशायी सुभोगवान् ॥ ५२॥ मूत्रस्पर्शो मलस्पर्शोजातिहीनः सुजातिकः । अभक्ष्याभक्षो निर्भक्षो जगद्वन्दितदेहवान् ॥ ५३॥ भूषणो दूषणसमः कालाकालो दयानिधिः । बालप्रियो बालरुचिर्बालवानतिबालकः ॥ ५४॥ बालक्रीडो बालरतो बालसङ्घवृतो बली । बाललीलाविनोदश्च कर्णाकर्षणकारकः ॥ ५५॥ क्रयानीतवणिक्पण्यो गुडसूपादिभक्षकः । बालवद्गीतहृष्टश्च मुष्टियुद्धकरश्चलः ॥ ५६॥ अदृश्यो दृश्यमानश्च द्वन्द्वयुद्धप्रवर्तकः । पलायमानो बालाढ्यो बालहासः सुसङ्गतः ॥ ५७॥ प्रत्यागतः पुनर्गच्छच्चक्रवद्गमनाकुलः । चोरवद्धृतसर्वस्वो जनताऽऽर्तिकदेहवान् ॥ ५८॥ प्रहसन्प्रवदन्दत्तो दिव्यमङ्गलविग्रहः । मायाबालश्च मायावी पूर्णलीलो मुनीश्वरः ॥ ५९॥ माहुरेशो विशुद्धात्मा यशस्वी कीर्तिमान् युवा । सविकल्पः सच्चिदाभो गुणवान् सौम्यभावनः ॥ ६०॥ पिनाकी शशिमौली च वासुदेवो दिवस्पतिः । सुशिराः सूर्यतेजश्च श्रीगम्भीरोष्ठ उन्नतिः ॥ ६१॥ दशपद्मा त्रिशीर्षश्च त्रिभिर्व्याप्तो द्विशुक्लवान् । त्रिसमश्च त्रितात्मश्च त्रिलोकश्च त्रयम्बकः ॥ ६२॥ चतुर्द्वन्द्वस्त्रियवनस्त्रिकामो हंसवाहनः । चतुष्कलश्चतुर्दंष्ट्रो गतिः शम्भुः प्रियाननः ॥ ६३॥ चतुर्मतिर्महादंष्ट्रो वेदाङ्गी चतुराननः । पञ्चशुद्धो महायोगी महाद्वादशवानकः ॥ ६४॥ चतुर्मुखो नरतनुरजेयश्चाष्टवंशवान् । चतुर्दशसमद्वन्द्वो मुकुराङ्को दशांशवान् ॥ ६५॥ वृषाङ्को वृषभारूढश्चन्द्रतेजाः सुदर्शनः । सामप्रियो महेशानश्चिदाकारोः नरोत्तमः ॥ ६६॥ दयावान् करुणापूर्णो महेन्द्रो माहुरेश्वरः । वीरासनसमासीनो रामो रामपरायणः ॥ ६७॥ इन्द्रो वह्निर्यमः कालो निरृतिर्वरुणो यमः । वायुश्च रुद्रश्चेशानो लोकपालो महायशाः ॥ ६८॥ यक्षगन्धर्वनागश्च किन्नरः शुद्धरूपकः । विद्याधरश्चाहिपतिश्चारणः पन्नगेश्वरः ॥ ६९॥ चण्डिकेशः प्रचण्डश्च घण्टानादरतः प्रियः । वीणाध्वनिर्वैनतेयो नारदस्तुम्बरुर्हरः ॥ ७०॥ वीणाप्रचण्डसौन्दर्यो राजीवाक्षश्च मन्मथः । चन्द्रो दिवाकरो गोपः केसरी सोमसोदरः ॥ ७१॥ सनकः शुकयोगी च नन्दी षण्मुखरागकः । गणेशो विघ्नराजश्च चन्द्राभो विजयो जयः ॥ ७२॥ अतीतकालचक्रश्च तामसः कालदण्डवान् । विष्णुचक्रः त्रिशूलेन्द्रो ब्रह्मदण्डो विरुद्धकः ॥ ७३॥ ब्रह्मास्त्ररूपः सत्येन्द्रः कीर्तिमान्गोपतिर्भवः । वसिष्ठो वामदेवश्च जाबाली कण्वरूपकः ॥ ७४॥ संवर्तरूपो मौद्गल्यो मार्कण्डेयश्च कश्यपः । त्रिजटो गार्ग्यरूपी च विषनाथो महोदयः ॥ ७५॥ त्वष्टा निशाकरः कर्मकाश्यपश्च त्रिरूपवान् । जमदग्निः सर्वरूपः सर्वनादो यतीश्वरः ॥ ७६॥ अश्वरूपी वैद्यपतिर्गरकण्ठोऽम्बिकार्चितः । चिन्तामणिः कल्पवृक्षो रत्नाद्रिरुदधिप्रियः ॥ ७७॥ महामण्डूकरूपी च कालाग्निसमविग्रहः । आधारशक्तिरूपी च कूर्मः पञ्चाग्निरूपकः ॥ ७८॥ क्षीरार्णवो महारूपी वराहश्च धृतावनिः । ऐरावतो जनः पद्मो वामनः कुमुदात्मवान् ॥ ७९॥ पुण्डरीकः पुष्पदन्तो मेघच्छन्नोऽभ्रचारकः । सितोत्पलाभो द्युतिमान् दृढोरस्कः सुरार्चितः ॥ ८०॥ पद्मनाभः सुनाभश्च दशशीर्षः शतोदरः । अवाङ्मुखो पञ्चवक्त्रो रक्षाख्यात्मा द्विरूपकः ॥ ८१॥ स्वर्णमण्डलसञ्चारी वेदिस्थः सर्वपूजितः । स्वप्रसन्नः प्रसन्नात्मा स्वभक्ताभिमुखो मृदुः ॥ ८२॥ आवाहितः सन्निहितो वरदो ज्ञानिवत्स्थितः । शालिग्रामात्मको ध्यातो रत्नसिंहासनस्थितः ॥ ८३॥ अर्घ्यप्रियः पाद्यतुष्टश्चाचम्यार्चितपादुकः । पञ्चामृतः स्नानविधिः शुद्धोदकसुसञ्चितः ॥ ८४॥ गन्धाक्षतसुसम्प्रीतः पुष्पालङ्कारभूषणः । अङ्गपूजाप्रियः सर्वो महाकीर्तिर्महाभुजः ॥ ८५॥ नामपूजाविशेषज्ञः सर्वनामस्वरूपकः । धूपितो दिव्यधूपात्मा दीपितो बहुदीपवान् ॥ ८६॥ बहुनैवेद्यसंहृष्टो निराजनविराजितः । सर्वातिरञ्जितानन्दः सौख्यवान् धवलार्जुनः ॥ ८७॥ विरागो निर्विरागश्च यज्ञार्चाङ्गो विभूतिकः । उन्मत्तो भ्रान्तचित्तश्च शुभचित्तः शुभाहुतिः ॥ ८८॥ सुरैरिष्टो लघिष्टश्च बंहिष्ठो बहुदायकः । महिष्ठः सुमहौजाश्च बलिष्ठः सुप्रतिष्ठितः ॥ ८९॥ काशीगङ्गाम्बुमज्जश्च कुलश्रीमन्त्रजापकः । चिकुरान्वितभालश्च सर्वाङ्गालिप्तभूतिकः ॥ ९०॥ अनादिनिधनो ज्योतिभार्गवाद्यः सनातनः । तापत्रयोपशमनो मानवासो महोदयः ॥ ९१॥ ज्येष्ठः श्रेष्ठो महारौद्रः कालमूर्तिः सुनिश्चयः । ऊर्ध्वः समूर्ध्वलिङ्गश्च हिरण्यो हेमलिङ्गवान् ॥ ९२॥ सुवर्णः स्वर्णलिङ्गश्च दिव्यसूतिर्दिवस्पतिः । दिव्यलिङ्गो भवो भव्यः सर्वलिङ्गस्तु सर्वकः ॥ ९३॥ शिवलिङ्गः शिवो मायो ज्वलस्तूज्ज्वललिङ्गवान् । आत्मा चैवात्मलिङ्गश्च परमो लिङ्गपारगः ॥ ९४॥ सोमः सूर्यः सर्वलिङ्गः पाणियन्त्रपवित्रवान् । सद्योजातो तपोरूपो भवोद्भव अनीश्वरः ॥ ९५॥ तत्सविद्रूपसविता वरेण्यश्च प्रचोदयात् । दूरदृष्टिर्दूरगतो दूरश्रवणतर्पितः ॥ ९६॥ योगपीठस्थितो विद्वान् नमस्कारितरासभः । नमत्कृतशुनश्चापि वज्रकष्ट्यातिभीषणः ॥ ९७॥ ज्वलन्मुखः प्रतिवीणा सखड्गो द्रावितप्रजः । पशुघ्नश्च रसोन्मत्तो रसोर्ध्वमुखरञ्जितः ॥ ९८॥ रसप्रियो रसात्मा च रसरूपी रसेश्वरः । रसाधिदैवतो भौमो रसाङ्गो रसभावनः ॥ ९९॥ रसोन्मयो रसकरो रसेन्द्रो रसपूजकः । रससिद्धः सिद्धरसो रसद्रव्यो रसोन्मुखः ॥ १००॥ रसाङ्कितो रसापूर्णो रसदो रसिको रसी । गन्धकादस्तालकादो गौरःस्फटिकसेवनः ॥ १०१॥ कार्यसिद्धः कार्यरुचिर्बहुकार्यो न कार्यवान् । अभेदी जनकर्ता च शङ्खचक्रगदाधरः ॥ १०२॥ कृष्णाजिनकिरीटी च श्रीकृष्णाजिनकञ्चुकः । मृगयायी मृगेन्द्रश्च गजरूपी गजेश्वरः ॥ १०३॥ दृढव्रतः सत्यवादी कृतज्ञो बलवान्बलः । गुणवान् कार्यवान् दान्तः कृतशोभो दुरासदः ॥ १०४॥ सुकालो भूतनिहितः समर्थश्चाण्डनायकः । सम्पूर्णदृष्टिरक्षुब्धो जनैकप्रियदर्शनः ॥ १०५॥ नियतात्मा पद्मधरो ब्रह्मवांश्चानसूयकः । उञ्च्छवृत्तिरनीशश्च राजभोगी सुमालिकः ॥ १०६॥ सुकुमारो जराहीने चोरघ्नो मञ्जुलक्षणः । सुपदः स्वङ्गुलीकश्च सुजङ्घः शुभजानुकः ॥ १०७॥ शुभोरुः शुभलिङ्गश्च सुनाभो जघनोत्तमः । सुपार्श्वः सुस्तनो नीलः सुवक्षश्च सुजत्रुकः ॥ १०८॥ नीलग्रीवो महास्कन्धः सुभुजो दिव्यजङ्घकः । सुहस्तरेखो लक्ष्मीवान् दीर्घपृष्ठो यतिश्चलः ॥ १०९॥ बिम्बोष्ठः शुभदन्तश्च विद्युज्जिह्वः सुतालुकः । दीर्घनासः सुताम्राक्षः सुकपोलः सुकर्णकः ॥ ११०॥ निमीलितोन्मीलितश्च विशालाक्षश्च शुभ्रकः । शुभमध्यः सुभालश्च सुशिरा नीलरोमकः ॥ १११॥ विशिष्टग्रामणिस्कन्धः शिखिवर्णो विभावसुः । कैलासेशो विचित्रज्ञो वैकुण्ठेन्द्रो विचित्रवान् ॥ ११२॥ मनसेन्द्रश्चक्रवालो महेन्द्रो मन्दारधिपः । मलयो विन्ध्यरूपश्च हिमवान् मेरुरूपकः ॥ ११३॥ सुवेषो नव्यरूपात्मा मैनाको गन्धमादनः । सिंहलश्चैव वेदाद्रिः श्रीशैलः क्रकचात्मकः ॥ ११४॥ नानाचलश्चित्रकूटो दुर्वासाः पर्वतात्मजः । यमुनाकृष्णवेणीशो भद्रेशो गौतमीपतिः ॥ ११५॥ गोदावरीशो गङ्गात्मा शोणकः कौशिकीपतिः । नर्मदेशस्तु कावेरीताम्रपर्णीश्वरो जटी ॥ ११६॥ सरिद्रूपा नदात्मा च समुद्रः सरिदीश्वरः । ह्रादिनीशः पावनीशो नलिनीशः सुचक्षुमान् ॥ ११७॥ सीतानदीपतिः सिन्धूरेवेशो मुरलीपतिः । लवणेक्षुः क्षीरनिधिः सुराब्धिः सर्पिरम्बुधिः ॥ ११८॥ दयाब्धिशुद्धजलधिस्तत्वरोपो धनाधिपः । भूपालमधुरागज्ञो मालतीरागकोविदः ॥ ११९॥ पौण्ड्रक्रियाज्ञः श्रीरागो नानारागार्णवान्तकः । वेदादिरूपो ह्रीरूपो क्लंरूपः क्लींविकारकः ॥ १२०॥ व्रुम्मयः क्लीम्मयः प्रख्यो हुम्मयः क्रोम्मयो भटः । ध्रीमयो लुङ्ग्मयो गाङ्गो घम्मयो खम्मयो खगः ॥ १२१॥ खम्मयो ज्ञम्मयश्चाङ्गो बीजाङ्गो बीजजम्मयः । झंङ्करष्टङ्करःष्टङ्गो डङ्करी ठङ्करोऽणुकः ॥ १२२॥ तङ्क्ररस्थङ्करस्तुङ्गो द्राम्मुद्रारूपकः सुदः । दक्षो दण्डी दानवघ्नो अप्रतिद्वन्द्ववामदः ॥ १२३॥ धंरूपो नंस्वरूपश्च पङ्कजाक्षश्च फम्मयः । महेन्द्रो मधुभोक्ता च मन्दरेतास्तु भम्मयः ॥ १२४॥ रम्मयो रिङ्करो रङ्गो लङ्करः वम्मयः शरः । रं, लं, वं शङ्करःषण्मुखो हंसः शङ्करः शङ्करो क्षयः ॥ १२५॥ शङ्करोऽक्षयः ओमित्येकाक्षरात्मा च सर्वबीजस्वरूपकः । श्रीकरः श्रीपदः श्रीशः श्रीनिधिः श्रीनिकेतनः ॥ १२६॥ पुरुषोत्तमः सुखी योगी दत्तात्रेयो हृदिप्रियः । तत्संयुतः सदायोगी धीरतन्त्रसुसाधकः ॥ १२७॥ पुरुषोत्तमो यतिश्रेष्ठो दत्तात्रेयः सखीत्ववान् । वसिष्ठवामदेवाभ्यां दत्तः पुरुषः ईरितः ॥ १२८॥ यावत्तिष्ठते ह्यस्मिन् तावत्तिष्ठति तत्सुखी । य इदं शृणुयान्नित्यं ब्रह्मसायुज्यतां व्रजेत् ॥ १२९॥ भुक्तिमुक्तिकरं तस्य नात्रकार्या विचारणा । आयुष्मत्पुत्रपौत्रांश्च दत्तात्रेयः प्रदर्शयेत् ॥ १३०॥ धन्यं यशस्यमायुष्यं पुत्रभाग्यविवर्धनम् । करोति लेखनादेव परार्थं वा न संशयः ॥ १३१॥ यः करोत्युपदेशं च नामदत्तसहस्रकम् । स च याति च सायुज्यं श्रीमान् श्रीमान् न संशयः ॥ १३२॥ पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् । खेचरत्वं कार्यसिद्धिं योगसिद्धिमवाप्नुयात् ॥ १३६॥ व्रह्मराक्षसवेतालैः पिशाचैः कामिनीमुखैः । पीडाकरैः सुखकरैर्ग्रहैर्दुष्टैर्न बाध्यते ॥ १३४॥ देवैः पिशाचैर्मुच्येत सकृदुच्चारणेन तु । यस्मिन्देशे स्थितं चैतत्पुस्तकं दत्तनामकम् ॥ १३५॥ पञ्चयोजनविस्तारं रक्षणं नात्र संशयः । सर्वबीजसमायुक्तं स्तोत्रं नामसहस्रकम् ॥ १३६॥ सर्वमन्त्रस्वरूपं च दत्तात्रेयस्वरूपकम् । एकवारं पठित्वा तु ताम्रपात्रे जलं स्पृशेत् ॥ १३७॥ पीत्वा चेत्सर्वरोगैश्च मुच्यते नात्र संशयः । स्त्रीवश्यं पुरुषवश्यं राजवश्यं जयावहम् ॥ १३८॥ सम्पत्प्रदं मोक्षकरं पठेन्नित्यमतन्द्रितः । लीयतेऽस्मिन्प्रपञ्चार्थान् वैरिशोकादिकारितः ॥ १३९॥ पठनात्तु प्रसन्नोऽहं शङ्कराचार्य बुद्धिमान् । भविष्यसि न सन्देहः पठितः प्रातरेव माम् ॥ १४०॥ उपदेक्ष्ये सर्वयोगान् लम्बिकादिबहून्वरान् । दत्तात्रेयस्तु चेत्युक्त्वा स्वप्ने चान्तरधीयत ॥ १४१॥ स्वप्नादुत्थाय चाचार्यः शङ्करो विस्मयं गतः । स्वप्नोपदेशितं स्तोत्रं दत्तात्रेयेन योगिना ॥ १४२॥ सहस्रनामकं दिव्यं पठित्वा योगवान्भवेत् । ज्ञानयोगयतित्वं च पराकायप्रवेशनम् ॥ १४३॥ बहुविद्याखेचरत्वं दीर्घायुस्तत्प्रसादतः । तदारभ्य भुवि श्रेष्ठः प्रसिद्धश्चाभवद्यती ॥ १४४॥ इति श्रीशङ्कराचार्यस्वप्नावस्थायां दत्तात्रेयोपदेशितं सकलपुराणवेदोक्तप्रपञ्चार्थसारवत्स्तोत्रं सम्पूर्णम् ॥

Search

Search here.