श्रीदत्तात्रेयप्रार्थना

स्तोत्र - मंत्र  > श्री दत्तात्रेय स्तोत्र Posted at 2018-10-27 15:01:48
श्रीदत्तात्रेयप्रार्थना श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तास्मान्पाहि देवाधिदेव ॥ भावग्राह्य क्लेशहारिन्सुकीर्तें । घोरात्कष्‍टादुद्धरास्मान्नमस्ते । त्वं नो माता त्वं पिताऽऽतोधिपस्त्वं । त्राता योगक्षेमकृत्सद्गुरुस्त्वम्। त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते । घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥ पापं तापं व्याधिमाधिं च दैन्यं। भितिं क्लेशं त्वं हराशु त्वदैन्यम् । त्रातारं नो वीक्ष ईशास्तजूर्ते । घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥ नान्यस्त्राता नापि दाता न भर्ता । त्वत्तो देव त्वं शरण्योऽकहर्ता । कुर्वात्रेयानुग्रहंपूर्णराते । घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥ धर्मे प्रीतिं सन्मतिं देवभक्तिं । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् । भावासक्तिं चाखिलानंदमूर्ते । घोरात्कष्‍टादुद्धरास्मान्नमस्ते ॥ श्र्लोकपंचकमेतद्यो लोकमंगलवर्धनं ॥ प्रपठेन्नियतो भक्तया स श्रीदत्तप्रियो भवेत् ।

Search

Search here.