गणेश नामाष्टक स्तोत्र

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2019-02-22 05:13:36
गणेश नामाष्टक स्तोत्र विष्णुरुवाच –  गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्। लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम्।। नामाष्टार्थं च पुत्रस्य श्रृणु मातर्हरप्रिये। स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम्।। ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः। तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम्।। एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः। बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम्।। दीनार्थवाचको हेश्च रम्बः पालकवाचकः । दीनानां परिपालकं हेरम्बं प्रणमाम्यहम्।। विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः। विपत्खण्डनकारकं नमामि विघ्नायकम्।। विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा। पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम्।। शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ। सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम्।। विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम्। तद् गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम्।। गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये। वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्।। एतन्नामाष्टकं दुर्गे नामभिः संयुतं परम्। पुत्रस्य पश्य वेदे च तदा कोपं तथा कुरु।। ततो विघ्नाः पलायन्ते वैनतेयाद् यथोरगाः। गणेश्वरप्रसादेन महाज्ञानी भवेद् ध्रुवम्।। पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम्। महाजडः कवीन्द्रश्च विद्यावांश्च भवेद् ध्रुवम्।।

Search

Search here.