श्री मङ्गलचण्डिका स्तोत्रम्

स्तोत्र - मंत्र  > देवी स्तोत्र Posted at 2018-10-27 15:37:49
श्री मङ्गलचण्डिका स्तोत्रम् ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके । ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥२०॥ पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः । दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥२१॥ मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः । ध्यानञ्च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥२२॥ देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् । सर्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥२३॥ श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् । वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥२४॥ बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् । बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥२५॥ ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् । जगद्धात्रीञ्च दात्रीञ्च सर्वेभ्यः सर्वसम्पदाम् ॥२६॥ संसारसागरे घोरे पीतरुपां वरां भजे ॥२७॥ देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने । प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥२८॥ ॥शङ्कर उवाच ॥ रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । संगत्रिं विपदां राशेर्हर्षमङ्गलकारिके ॥२९॥ हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके । शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥३०॥ मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥३१॥ पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥३२॥ मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले । संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥३३॥ सारे च मङ्गलाधारे पारेत्वं सर्वकर्मणाम् । प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ॥३४॥ स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां कृत्वागतः शिवः ॥३५॥ देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः । तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ॥३६॥ ॥इति श्री ब्रह्मवैवर्ते द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे मङ्गलचण्डिका स्तोत्रं सम्पूर्णम् ॥

Search

Search here.