राहु अष्टोत्तरशतनाम स्तोत्र

Posted at 2018-11-07 09:34:01
<strong>॥ राहु अष्टोत्तरशतनामस्तोत्र ॥</strong>

राहु बीज मन्त्र --

<strong><i>॥ ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥</i></strong>

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥ फणिर्गार्ग्यायनस्तथा सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः । सुरारिर्नील खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥ शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् ।
वर्णो पताकवान् दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३॥ दंष्ट्राकरालकः शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः । माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥
काश्यप उल्कापातयिताशुली निधिपः कृष्णसर्पराट् । उल्कापातजनिः शूली विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥
शात्रवप्रदः रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः । द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥ चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥ उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥
कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११॥ सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२॥
जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥ जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥
द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥
नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६॥ कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥ महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥ पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः । दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९॥
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥
श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् । सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥ ॥

इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Search

Search will be available shortly.