वैकृतिक रहस्यम्

ग्रंथ - पोथी  > दुर्गा सप्तशती संस्कृत Posted at 2019-02-14 18:49:09
॥ अथ वैकृतिकं रहस्यम् ॥ ऋषिरुवाच ॥ त्रिगुणा तामसी देवी सात्त्विका या त्वयोदिता ॥ सा शर्वा चंडिका दुर्गा भद्रा भगवतीर्यते ॥१॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा ॥ मधुकैटभनाशार्थ यां तुष्टावाम्बुजासनः ॥२॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ॥ विशालया राजमाना त्रिंशल्लोचनमालया ॥३॥ स्फुरद्दशनदंष्ट्रा सा भीमरुपापि भूमिप ॥ रुपसौभाग्यकांतीनां सा प्रतिष्ठा महाश्रियाम् ॥४॥ खङ्गबाणगदाशूलशंख चक्रभुशुंडिभृत ॥ परिघं कार्मुकं शीर्ष निश्च्योतद्रुधिरं दधौ ॥५॥ एषा सा वैष्णवी माया महाकाली दुरत्यया ॥ आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् ॥६॥ सर्वदेवशरीरेभ्यो याविर्भूताऽमितप्रभा ॥ त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥७॥ श्वेतानना नीलभुजा सुश्वेतस्तनमंडला ॥ रक्तमध्या रक्तपादा रक्तजंघोरुरुन्मदा ॥८॥ सुचित्रजघना चित्रमाल्यांबरविभूषणा ॥ चित्रानुलेपना कांतिरुपसौभाग्यशालिनी ॥९॥ अष्टादशभुजा पूज्या सा सहस्त्रभुजा सती ॥ आयुधान्यत्र वक्ष्यंते दक्षिणाधः करक्रमात् ॥१०॥ अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ॥ चक्रं त्रिशूलं परशुः शंखो घंटा च पाशकः ॥११॥ शक्तिर्दडश्चर्म चापं पानपात्रं कमण्डलुः ॥ अलंकृतभुजामेभीरायुधैः कमलासनाम् ॥१२॥ सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ॥ पूजयेत्सर्वलोकानां स देवानां प्रभुर्भवेत् ॥१३॥ गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया ॥ साक्षात्सरस्वती प्रोक्ता शुंभ सुरनिबर्हिणी ॥१४॥ दधौ चाष्टभुजा बाणान्मुसलं शूलचक्रभृत् ॥ शंखं घंटां लांगलं च कार्मुकं वसुधाधिप ॥१५॥ एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति ॥ निशुंभमथिनी देवी शुंभासुरनिबर्हिणी ॥१६॥ इत्युक्तानि स्वरुपाणि मूर्तीनां तव पार्थिव ॥ उपासनं जगन्मातुः पृथगासां निशामय ॥१७॥ महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती ॥ दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् ॥१८॥ विरंचिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे ॥ वामे लक्ष्म्या हषीकेशः पुरतो देवतात्रयम् ॥१९॥ अष्टादशभुजा मध्ये वामे चास्या दशानना ॥ दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥२०॥ अष्टादशभुजा चैषा यदा पूज्या नराधिप ॥ दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥२१॥ कालमृत्यू च संपूज्यौ सर्वारिष्टप्रशांतये ॥ यदा चाष्टभुजा पूज्या शुंभासुरनिबर्हिणी ॥२२॥ नवास्याः शक्त्यः पूज्यास्तदा रुद्रविनायकौ ॥ नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् ॥२३॥ अवतारत्रयार्चायां स्तोत्रमंत्रास्तदाश्रयाः ॥ अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥२४॥ महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ॥ ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ॥ ॥२५॥ महिषांतकरी येन पूजिता स जगत्प्रभुः ॥ पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥२६॥ अर्घादिभिरलंकारैर्गधपुष्पैस्तथोत्तमैः ॥ धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥२७॥ रुधिराक्तेन बलिना मांसेन सुरया नृप ॥ प्रणामाचमनीयैश्च चंदनेन सुगंधिना ॥२८॥ सकर्पूरैश्च तांबूलैर्भक्तिभावसमन्वितैः ॥ वामभागेऽग्रतो देव्याश्छिन्नशीर्ष महासुरम् ॥२९॥ पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ॥ दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरम् ॥३०॥ वाहनं पूजयेद्देव्या धृतं येन चराचरम् ॥ ततः कृतांजलिर्भूत्वा स्तुवीत चरितैरिमैः ॥३१॥ एकेन वा मध्यमेन नैकेनतरयोरिह ॥ चारितार्ध तु न जपेज्जपञ्छिद्रमवाप्नुयात् ॥३२॥ स्तोत्रमंत्रैः स्तुवीतेमां यदि वा जगदंबिकाम् ॥ प्रदक्षिणानमस्कारान् कृत्वा मूर्ध्नि कृतांजलिः ॥३३॥ क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतंद्रितः ॥ प्रति श्लोकं च जुहुयात् पायसं तिल सर्पिषा ॥३४॥ जुहुयात्स्तोत्रमंत्रैर्वा चंडिकायै शुभं हविः ॥ नमोनमः पदैर्देवीं पूजयेत्सुसमाहितः ॥३५॥ प्रयतः प्रांजलिः प्रह्नः प्राणानारोप्य चात्मनि ॥ सुचिरं भावयेद्देवीं चंडिकां तन्मयो भवेत् ॥३६॥ एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् ॥ भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ॥३७॥ यो न पूजयते नित्यं चंडिकां भक्तवत्सलाम् ॥ भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी ॥३८॥ तस्मात्पूजय भूपाल सर्वलोकमहेश्वरीम् ॥ यथोक्तेन विधानेन चण्डिका सुखमाप्स्यसि ॥३९॥ मार्कडेयपुराणे वैकृतिकं रहस्यम् ॥

Search

Search here.