शतपथ ब्राह्मणम् 10

Posted at 2016-03-13 05:00:43
शतपथ ब्राह्मणम् 10

१३.१.१.[१]

ब्रह्मौदनं पचति रेत एव तद्धत्ते यदाज्यमुच्छिष्यते तेन
रशनामभ्यज्यादत्ते तेजो वा आज्यं प्राजापत्योऽश्वः प्रजापतिमेव तेजसा
समर्धयत्यपूतो वा एषोऽमेध्यो यदश्वः

१३.१.१.[२]

दर्भमयी रशना भवति पवित्रं वै दर्भाः पुनात्येवैनं पूतमेवैनम्
मेध्यमालभते

१३.१.१.[३]

अश्वस्य वा आलब्धस्य रेत उदक्रामत्तत्सुवर्णं हिरण्यमभवद्यत्सुवर्णं
हिरण्यं ददात्यश्वमेव रेतसा समर्धयति

१३.१.१.[४]

प्रजापतिर्यज्ञमसृजत तस्य महिमापाक्रामत्स महर्त्विजः प्राविशत्तम्
महर्त्विग्भिरन्वैच्छत्तं महर्त्विग्भिरन्वविन्दद्यन्महर्त्विजो ब्रह्मौदनम्
प्राश्नन्ति महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्द्धे ब्रह्मौदने सुवर्णं
हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यं रेतसैवास्मिंस्तद्रेतो दधाति शतमानम्
भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते
चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति ता दिग्भ्यः समाहृता भवन्ति
दिक्षु वा अन्नमन्नमापोऽन्नेनैवास्मा अन्नमवरुन्द्धे
अथ परिशेषाख्य भागे अश्वमेधसंज्ञकं त्रयोदशं काण्डम्।
१३.१.१
ब्रह्मौदनं पचति। रेत एव तद्धत्ते। यदाज्यमुच्छिष्यते। तेन रशनामभ्यज्यादत्ते। तेजो वा आज्यम्। प्राजापत्योऽश्वः। प्रजापतिमेव तेजसा समर्द्धयति। अपूतो वा एषोऽमेध्यो यदश्वः॥१॥
दर्भमयी रशना भवति। पवित्रं वै दर्भाः। पुनात्येवैनम्। पूतमेवैनं मेध्यमालभते॥२॥
अश्वस्य वा आलब्धस्य रेत उदक्रामत्। तत्सुवर्णं हिरण्यमभवत्। यत्सुवर्णं हिरण्यं ददाति। अश्वमेव रेतसा समर्द्धयति॥३॥
प्रजापतिर्यमसृत। तस्य महिमाऽपाक्रमत्। स महर्त्विजः प्राविशत्। तं महर्त्विग्भिरन्वैच्छत्। तं महर्त्विग्भिरन्वविंदत्। यन्महर्त्विजो ब्रहमौदनं प्राश्नंति। महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्धे। ब्रह्मौदने सुवर्णं हिरण्यं ददाति। रेतो वा ओदनः। रेतो हिरण्यम्। रेतसैवास्मिंस्तद्रेतो दधाति। शतमानं भवति। शतायुर्वै पुरुषः शतेन्द्रियः। आयुरेवैन्द्रियं वीर्यमात्मन् धत्ते। चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति। ता दिग्भ्यः समाहृता भवन्ति। दिक्षु वा अन्नम्। अन्नमापः। अन्नेनैवास्मा अन्नमवरुन्द्धे॥४॥
इति प्रथमप्रपाठके प्रथमं ब्राह्मणम्॥

१३.१.२.[१]

व्यृद्धमु वा एतद्यज्ञस्य यदयजुष्केण क्रियत
इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै
द्वादशारत्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति

१३.१.२.[२]

तदाहुः द्वादशारत्नी रशना कार्या३ त्रयोदशारत्नी३ इत्यृषभो वा एष ऋतूनां
यत्संवत्सरस्तस्य त्रयोदशो मासो विष्टपमृषभ एष यज्ञानां यदश्वमेधो
यथा वा ऋषभस्य विष्टपमेवमेतस्य विष्टपं त्रयोदशमरत्निं
रशनायामुपादध्यात्तद्यथ ऋषभस्य विष्टपं संस्त्रियते तादृक्तत्

१३.१.२.[३]

अभिधा असीति तस्मादश्वमेधयाजी सर्वा दिशोऽभिजयति भुवनमसीति भुवनं
तज्जयति यन्तासि धर्तेति यन्तारमेवैनं धर्तारं करोति स त्वमग्निं
वैश्वानरमित्यग्निमेवैनं वैश्वानरं गमयति सप्रथसं गच्छेति
प्रजयैवैनं पशुभिः प्रथयति स्वाहाकृत इति वषट्कार एवास्यैष स्वगा त्वा
देवेभ्य इति देवेभ्य एवैनं स्वगा करोति प्रजापतय इति प्राजापत्योऽश्वः
स्वयैवैनं देवतया समर्धयति

१३.१.२.[४]

ईश्वरो वा एषः आर्तिमार्तोर्यो ब्रह्मणे देवेभ्योऽप्रतिप्रोच्याश्वं बध्नाति
ब्रह्मन्नश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति
ब्रह्माणमामन्त्रयते ब्रह्मण एवैनं प्रतिप्रोच्य बध्नाति नार्तिमार्चति तं
बधान देवेभ्यः प्रजापतये तेन राध्नुहीति ब्रह्मा प्रसौति स्वयैवैनं
देवतया समर्धयत्यथ प्रोक्षत्यसावेव बन्धुः

१३.१.२.[५]

स प्रोक्षति प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रजापतिर्वै देवानां वीर्यवत्तमो
वीर्यमेवास्मिन्दधाति तस्मादश्वः पशूनां वीर्यवत्तमः

१३.१.२.[६]

इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामीति इन्द्राग्नी वै देवानामोजस्वितमा ओज
एवास्मिन्दधाति तस्मादश्वः पशूनामोजस्वितमः

१३.१.२.[७]

वायवे त्वा जुष्टं प्रोक्षामीति वायुर्वै देवानामाशिष्ठो जवमेवास्मिन्दधाति
तस्मादश्वः पशूनामाशिष्ठः

१३.१.२.[८]

विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति विश्वे वै देवा देवानां यशस्वितमा
यश एवास्मिन्दधाति तस्मादश्वः पशूनां यशस्वितमः सर्वेभ्यस्त्वा देवेभ्यो
जुष्टं प्रोक्षामीति
१३.१.२.[९]

तदाहुः यत्प्राजापत्योऽश्वोऽथ कथाप्यन्याभ्यो देवताभ्यः प्रोक्षतीति सर्वा वै
देवता अश्वमेधेऽन्वायत्ता यदाह सर्वेभ्यस्त्वा देवेभ्यः प्रोक्षामीति सर्वा
एवास्मिन्देवता अन्वायातयति तस्मादश्वमेधे सर्वा देवता अन्वायत्ताः पाप्मा वा
एतम्
भ्रातृव्य ईप्सति योऽश्वमेधेन यजेत वज्रोऽश्वः परो मर्तः परः श्वेति श्वानं
चतुरक्षं हत्वाधस्पदमश्वस्योपप्लावयति वज्रेणैवैनमवक्रामति नैनम्
पाप्मा भ्रातृव्य आप्नोति

१३.१.३.[१]

यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यं
निक्तमनालब्धमुत्सृजन्ति यत्स्तोकीया जुहोति सर्वहुतमेवैनं
जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति सहस्रं जुहोति सहस्रसम्मितो
वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै

१३.१.३.[२]

तदाहुः यन्मिता जुहुयात्परिमितमवरुन्धीतेत्यमिता
जुहोत्यपरिमितस्यैवावरुद्ध्या उवाच ह प्रजापति स्तोकीयासु वा अहमश्वमेधं
संस्थापयामि तेन संस्थितेनैवात ऊर्ध्वं चरामीति

१३.१.३.[३]

अग्नये स्वाहेति अग्नय एवैनं जुहोति सोमाय स्वाहेति सोमायैवैनं जुहोत्यपाम्
मोदाय स्वाहेत्यद्भ्य एवैनं जुहोति सवित्रे स्वाहेति सवित्र एवैनं जुहोति वायवे
स्वाहेति वायव एवैनं जुहोति विष्णवे स्वाहेति विष्णव एवैनं जुहोतीन्द्राय
स्वाहेतीन्द्रायैवैनं जुहोति बृहस्पतये स्वाहेति बृहस्पतय एवैनं जुहोति मित्राय
स्वाहेति मित्रायैवैनं जुहोति वरुणाय स्वाहेति वरुणायैवैनं जुहोत्येतावन्तो वै
सर्वे देवास्तेभ्य एवैनं जुहोति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य
लोकस्याभिजित्यै

१३.१.३.[४]

ईश्वरो वा एषः पराङ्प्रदघोर्यः पराचीराहुतीर्जुहोति पुनरावर्ततेऽस्मिन्नेव लोके
प्रतितिष्ठत्येतां ह वाव स यज्ञस्य संस्थितिमुवाचास्कन्दायास्कन्नं हि
तद्यद्धुतस्य स्कन्दति

१३.१.३.[५]

यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यम्
प्रोक्षितमनालब्धमुत्सृजन्ति यद्रूपाणि जुहोति सर्वहुतमेवैनं
जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति हिङ्काराय स्वाहा हिङ्कृताय
स्वाहेत्येतानि वा अश्वस्य रूपाणि तान्येवावरुन्द्धे
१३.१.३.[६]

तदाहुः अनाहुतिर्वै रूपाणि नैता होतव्या इत्यथो खल्वाहुरत्र वा अश्वमेधः
संतिष्ठते यद्रूपाणि जुहोति होतव्या एवेति बहिर्धा वा एतमायतनात्करोति
भ्रातृव्यमस्मै जनयति यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति

१३.१.३.[७]

सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यायतन
एवाहुतीर्जुहोति नास्मै भ्रातृव्यं जनयति यज्ञमुखेयज्ञमुखे जुहोति यज्ञस्य
संतत्या अव्यवच्छेदाय

१३.१.३.[८]

तदाहुः यद्यज्ञमुखेयज्ञमुखे जुहुयात्पशुभिर्व्यृध्येत
पापोयान्त्स्यात्सकृदेव होतव्या न पशुभिर्व्यृध्यते न
पापीयान्भवत्यष्टाचत्वारिंशतं जुहोत्यष्टाचत्वारिंशदक्षरा जगती जागताः पशवो
जगत्यैवास्मै पशूनवरुन्द्ध एकमतिरिक्तं जुहोति तस्मादेकः प्रजास्वर्धुकः

१३.१.४.[१]

प्रजापतिरश्वमेधमसृजत सोऽस्मात्सृष्टः पराङैत्स दिशोऽनुप्राविशत्तं देवाः
प्रैषमैचंस्तमिष्टिभिरनुप्रायुञ्जत
तमिष्टिभिरन्वैचंस्तमिष्टिभिरन्वविन्दन्यदिष्टिभिर्यजतेऽश्वमेव तन्मेध्यं
यजमानोऽन्विच्छति

१३.१.४.[२]

सावित्र्यो भवन्ति इयं वै सविता यो वा अस्यां निलयते योऽन्यत्रैत्यस्यां वाव
तमनुविन्दन्ति न वा इमां कश्चन तिर्यङ्नोर्ध्वोऽत्येतुमर्हति यत्सावित्र्यो
भवन्त्यश्वस्यैवानुवित्त्यै

१३.१.४.[३]

तदाहुः प्र वा एतदश्वो मीयते यत्पराङेति न ह्येनं प्रत्यावर्तयन्तीति यत्सायं
धृतीर्जुहोति क्षेमो वै धृतिः क्षेमो रात्रिः क्षेमेणैवैनं दाधार तस्मात्सायम्
मनुष्याश्च पशवश्च क्षेम्या भवन्त्यथ यत्प्रातरिष्टिभिर्यजत इच्छत्येवैनं
तत्तस्माद्दिवा नष्टैष एति यद्वेव सायं धृतीर्जुहोति प्रातरिष्टिभिर्यजते
योगक्षेममेव तद्यजमानः कल्पयते तस्माद्यत्रैतेन यज्ञेन यजन्ते कॢप्तः
प्रजानां योगक्षेमो भवति

१३.१.५.[१]

अप वा एतस्मात् श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते यदा वै पुरुषः श्रियं
गच्छति वीणास्मै वाद्यते ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः श्रियै वा
एतद्रूपं यद्वीणा श्रियमेवास्मिंस्तद्धत्तः

१३.१.५.[२]

तदाहुः यदुभौ ब्राह्मणौ गायेतामपास्मात्क्षत्रं क्रामेद्ब्रह्मणो वा
एतद्रूपं यद्ब्राह्मणो न वै ब्रह्मणि क्षत्रं रमत इति

१३.१.५.[३]

यदुभौ राजन्यौ अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं
यद्राजन्यो न वै क्षत्रे ब्रह्मवर्चसं रमत इति ब्राह्मणोऽन्यो गायति
राजन्योऽन्यो ब्रह्म वै ब्राह्मणः क्षत्रं राजन्यस्तदस्य ब्रह्मणा च क्षत्रेण
चोभयतः श्रीः परिगृहीता भवति

१३.१.५.[४]

तदाहुः यदुभौ दिवा गायेतां प्रभ्रंशुकास्माच्रीः स्याद्ब्रह्मणो वा एतद्रूपं
यदहर्यदा वै राजा कामयतेऽथ ब्राह्मणं जिनाति पापीयांस्तु भवति

१३.१.५.[५]

यदुभौ नक्तम् अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं
यद्रात्रिर्न वै क्षत्रे ब्रह्मवर्चसं रमत इति दिवा ब्राह्मणो गायति नक्तं
राजन्यस्तथो हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवतीति

१३.१.५.[६]

अयजतेत्यददादिति ब्राह्मणो गायतीष्टापूर्तं वै ब्राह्मणस्येष्टापूर्तेनैवैनं स
समर्धयतीत्ययुध्यतेत्यमुं संग्राममजयदिति राजन्यो युद्धं वै
राजन्यस्य वीर्यं वीर्येणैवैनं स समर्धयति तिस्रोऽन्यो गाथा गायति तिस्रोऽन्यः
षट्सम्पद्यन्ते षडृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति ताभ्यां
शतं ददाति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते

१३.१.६.[१]

विभूर्मात्रा प्रभूः पित्रेति इयं वै मातासौ पिताभ्यामेवैनं परिददात्यश्वोऽसि
हयोऽसीति शास्त्येवैनं तत्तस्माच्छिष्टाः प्रजा जायन्तेऽत्योऽसि मयोऽसीत्यत्येवैनं नयति
तस्मादश्वः पशूनां श्रैष्ठ्यं गच्छत्यर्वासि सप्तिरसि वाज्यसीति
यथायजुरेवैतद्वृषासि नृमणा असीति मिथुनत्वाय ययुर्नामासि शिशुर्नामासीत्येतद्वा
अश्वस्य प्रियं नामधेयं प्रियेणैवैनं नाम्नाभिवदति तस्मादप्यामित्रौ
संगत्य नाम्ना चेदभिवदतोऽन्योऽन्यं समेव जानाते

१३.१.६.[२]

आदित्यानां पत्वान्विहीति आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वम्
मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनम्
परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति
संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम्
बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागच्छति षोडश नवतीरेता वा अश्वस्य
बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तो बन्धनं न जहाति

१३.१.६.[३]

राष्ट्रं वा अश्वमेधः राष्ट्र एते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं
गच्छन्ति राष्ट्रेणैव ते राष्ट्रं भवन्त्यथ ये नोदृचं गच्छन्ति राष्ट्रात्ते
व्यवच्छिद्यन्ते तस्माद्राष्ट्र्यश्वमेधेन यजेत परा वा एष सिच्यते
योऽबलोऽश्वमेधेन यजते यद्यमित्रा अश्वं विन्देरन्यज्ञोऽस्य विच्छिद्येत
पापीयान्त्स्याच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अव्यवच्छेदाय न
पापीयान्भवत्यथान्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः

१३.१.७.[१]

प्रजापतिरकामयत अश्वमेधेन यजेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य
तप्तस्य सप्तधात्मनो देवता अपाक्रामन्त्सा दीक्षाभवत्स एतानि
वैश्वदेवान्यपश्यत्तान्यजुहोत्तैर्वै स दीक्षामवारुन्द्ध यद्वैश्वदेवानि जुहोति
दीक्षामेव तैर्यजमानोऽवरुन्द्धेऽन्वहं जुहोत्यन्वहमेव दीक्षामवरुन्द्धे
सप्त जुहोति सप्त वै ता देवता अपाक्रामंस्ताभिरेवास्मै दीक्षामवरुन्द्धे

१३.१.७.[२]

अप वा एतेभ्यः प्राणाः क्रामन्ति ये दीक्षामतिरेचयन्ति सप्ताहं प्रचरन्ति सप्त
वै शीर्षण्याः प्राणाः प्राणा दीक्षा प्राणैरेवास्मै प्राणान्दीक्षामवरुन्द्धे त्रेधा
विभज्य देवतां जुहोति त्र्यावृतो वै देवास्त्र्यावृत इमे लोका ऋद्ध्यामेव वीर्य एषु
लोकेषु प्रतितिष्ठति

१३.१.७.[३]

एकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य
एकविंशस्तद्दैवं क्षत्रं सा श्रीस्तदाधिपत्यं तद्ब्रध्नस्य विष्टपं
तत्स्वाराज्यमश्नुते

१३.१.७.[४]

त्रिंशतमौद्ग्रभणानि जुहोति त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं
कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै चत्वार्यौद्ग्रभणानि जुहोति त्रीणि वैश्वदेवानि
सप्त सम्पद्यन्ते सप्त वै शीर्षण्याः प्राणाः प्राणा प्राणैरेवास्मै
प्राणान्दीक्षामवरुन्द्धे पूर्णाहुतिमुत्तमां जुहोति प्रत्युत्तब्ध्यै सयुक्त्वाय

१३.१.८.[१]

प्रजापतिरश्वमेधमसृजत स सृष्टः प्रर्चमव्लीनात्प्र साम तं
वैश्वदेवान्युदयच्छन्यद्वैश्वदेवानि जुहोत्यश्वमेधस्यैवोद्यत्यै

१३.१.८.[२]

काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्यं मुख्यं करोति
प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छति

१३.१.८.[३]

स्वाहाधिमाधीताय स्वाहा मनः प्रजापतये स्वाहा चित्तं विज्ञातायेति यदेव
पूर्वासां ब्राह्मणं तदत्र

१३.१.८.[४]

अदित्यै स्वाहा अदित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहेतीयं वा
अदितिरनयैवैनमुद्यच्छति

१३.१.८.[५]

सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहेति वाग्वै
सरस्वती वाचैवैनमुद्यच्छति

१३.१.८.[६]

पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहेति पशवो वै पूषा
पशुभिरेवैनमुद्यच्छति

१३.१.८.[७]

त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेति त्वष्टा वै
पशूनां मिथुनानां रूपकृद्रूपैरेवैनमुद्यच्छति
१३.१.८.[८]

विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहेति यज्ञो वै
विष्णुर्यज्ञेनैवैनमुद्यच्छति विश्वो देवस्य नेतुरिति पूर्णाहुतिमुत्तमां जुहोतीयं
वै पूर्णाहुतिरस्यामेवान्ततः प्रतितिष्ठति

१३.१.९.[१]

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामिति ब्राह्मण एव ब्रह्मवर्चसं
दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे

१३.१.९.[२]

आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतामिति राजन्य एव शौर्यम्
महिमानं दधाति तस्मात्पुरा राजन्यः शूर इषव्योऽतिव्याधी महारथो जज्ञे

१३.१.९.[३]

दोग्ध्री धेनुरिति धेन्वामेव पयो दधाति तस्मात्पुरा धेनुर्दोग्ध्री जज्ञे

१३.१.९.[४]

वोढानड्वानिति अनडुह्येव बलं दधाति तस्मात्पुरानड्वान्वोढा जज्ञे

१३.१.९.[५]

आशुः सप्तिरिति अश्व एव जवं दधाति तस्मात्पुराश्वः सर्ता जज्ञे

१३.१.९.[६]

पुरंधिर्येषेति योषित्येव रूपं दधाति तस्माद्रूपिणी युवतिः प्रिया भावुका

१३.१.९.[७]

जिष्णू रथेष्ठा इति राजन्य एव जैत्रं महिमानं दधाति तस्मात्पुरा राजन्यो
जिष्णुर्जज्ञे

१३.१.९.[८]

सभेयो युवेति एष वै सभेयो युवा यः प्रथमवयसी तस्मात्प्रथमवयसी
स्त्रीणां प्रियो भावुकः

१३.१.९.[९]

आस्य यजमानस्य वीरो जायतामिति यजमानस्यैव प्रजायां वीर्यं दधाति
तस्मात्पुरेजानस्य वीरो जज्ञे

१३.१.९.[१०]

निकामे नः पर्जन्यो वर्षत्विति निकामेनिकामे वै तत्र पर्जन्यो वर्षति यत्रैतेन
यज्ञेन यजन्ते फलवत्यो न ओषधयः पच्यन्तामिति फलवत्यो वै
तत्रौषधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो नः कल्पतामिति
योगक्षेमो वै तत्र कल्पते यत्रैतेन यज्ञेन यजन्ते तस्माद्यत्रैतेन यज्ञेन
यजन्ते कॢप्तः प्रजानां योगक्षेमो भवति

१३.२.१.[१]

प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् स आत्मन्नश्वमेधमधत्त ते देवाः
प्रजापतिमब्रुवन्नेष वै यज्ञो यदश्वमेधोऽपि नोऽत्रास्तु भग इति तेभ्य
एतानन्नहोमान्कल्पयद्यदन्नहोमान्जुहोति देवानेव तत्प्रीणाति

१३.२.१.[२]

आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै
देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति

१३.२.१.[३]

सक्तुभिर्जुहोति देवानां वा एतद्रूपं यत्सक्तवो देवानेव तत्प्रीणाति

१३.२.१.[४]

धानाभिर्जुहोति अहोरात्राणां वा एतद्रूपं यद्धानां अहोरात्राण्येव तत्प्रीणाति

१३.२.१.[५]

लाजैर्जुहोति नक्षत्राणां वा एतद्रूपं यल्लजा नक्षत्राण्येव तत्प्रीणाति प्राणाय
स्वाहापानाय स्वाहेति नामग्राहं जुहोति नामग्राहमेवैनांस्तत्प्रीणात्येकस्मै स्वाहा
द्वाभ्यां स्वाहा शताय स्वाहैकशताय स्वाहेत्यनुपूर्वं
जुहोत्यनुपूर्वमेवैनांस्तत्प्रीणात्येकोत्तरा जुहोत्येकवृद्वै स्वर्गो लोक
एकधैवैनं स्वर्गं लोकं गमयति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः
स्वर्गस्य लोकस्याभिजित्यै

१३.२.१.[६]

ईश्वरो वा एषः पराङ्प्रदघोर्यः पराचीराहुतिर्जुहोति नैकशतमत्येति
यदेकशतमतीयादायुषा यजमानं व्यर्धयेदेकशतं जुहोति शतायुर्वै पुरुष
आत्मैकशत आयुष्येवात्मन्प्रतितिष्ठति व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेत्युत्तमे आहुती
जुहोति रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत्प्रीणाति

१३.२.१.[७]

तदाहुः यदुभे दिवा वा नक्तं वा जुहुयादहोरात्रे मोहयेद्व्युष्ट्यै
स्वाहेत्यनुदित आदित्ये जुहोति स्वर्गाय स्वाहेत्युदितेऽहोरात्रयोरव्यतिमोहाय

१३.२.२.[१]

राजा वा एष यज्ञानां यदश्वमेधः यजमानो वा अश्द्यज्ञमारभतेवमेधो
यजमानो यज्ञो यदश्वे पशून्नियुनक्ति यज्ञ एव त

१३.२.२.[२]

अश्वं तूपरं गोमृगमिति तान्मध्यमे यूप आलभते सेनामुखमेवास्यैतेन
संश्यति तस्माद्राज्ञः सेनामुखं भीष्मं भावुकम्

१३.२.२.[३]

कृष्णग्रीवमाग्नेयं रराटे पुरस्तात् पूर्वाग्निमेव तं कुरुते तस्माद्राज्ञः
पूर्वाग्निर्भावुकः

१३.२.२.[४]

सारस्वतीं मेषीमधस्ताद्धन्वोः स्त्रीरेव तदनुगाः कुरुते तस्मात्स्त्रियः
पुंसोऽनुवर्त्मानो भावुकाः

१३.२.२.[५]

आश्विनावधोरामौ बाह्वोः बाह्वोरेव बलं धत्ते तस्माद्राजा बाहुबली भावुकः
१३.२.२.[६]

सौमापौष्णं श्यामं नाभ्याम् प्रतिष्ठामेव तां कुरुत इयं वै पूषास्यामेव
प्रतितिष्ठति

१३.२.२.[७]

सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः कवचे एव ते कुरुते तस्माद्राजा
संनद्धो वीर्यं करोति

१३.२.२.[८]

त्वाष्ट्रो लोमशसक्थौ सक्थ्योः ऊर्वोरेव बलं धत्ते तस्माद्राजोरुबली भावुकः

१३.२.२.[९]

वायव्यं श्वेतं पुच्छे उत्सेधमेव तं कुरुते तस्मादुत्सेधं प्रज्!
भयेऽभिसंश्रयन्तीन्द्राय स्वपस्याय वेहतं यज्ञस्य सेन्द्रतायै वैष्णवो
वामनो यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठति

१३.२.२.[१०]

ते वा एते पञ्चदश पर्यङ्ग्याः पशवो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो
वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते

१३.२.२.[११]

पञ्चदश पञ्चदशो एवेतरेषु पञ्चदशो वै वज्रो वीर्यं वज्रो
वज्रेणवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते

१३.२.२.[१२]

तदाहुः अपाहैवैतैः पाप्मानं हता इत्यकृत्स्नं च त्वै प्रजापतिं संस्करोति न
चेदं सर्वमवरुन्द्धे

१३.२.२.[१३]

सप्तदशैव पशून्मध्यमे यूप आलभेत सप्तदशो वै प्रजापतिम्
प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै षोडश षोडशेतरेषु षोडशकलं वा
इदं सर्वं तदिदं सर्व मवरुन्द्धे
१३.२.२.[१४]

तान्कथमाप्रीणीयादित्याहुः समिद्धो अञ्जन्कृदरं मतीनामिति
बार्हदुक्थीभिराप्रीणीयाद्बृहदुक्थो ह वै वामदेव्योऽश्वो वा
सामुद्रिरश्वस्याप्रीर्ददर्श ता एतास्ताभिरेवैनमेतदाप्रीणीम इति वदन्तो न तथा
कुर्याज्जामदग्नीभिरेवाप्रीणीयात्प्रजापतिर्वै जमदग्निः सोऽश्वमेधः स्वयैवैनं
देवतया समर्धयति तस्माज्जामदग्नीभिरेवाप्रीणीयात्

१३.२.२.[१५]

तद्धैके एतेषां पर्यङ्ग्याणां नाना याज्यापुरोऽनुवाक्याः कुर्वन्ति विन्दाम
एतेषामवित्त्येतरेषां न कुर्म इति न तथा कुर्यात्क्षत्रं वा अश्वो विडितरे पशवः
प्रतिप्रतिनीं ह ते प्रत्युद्यामिनीं क्षत्राय विशं कुर्वन्त्यथो आयुषा यजमानं
व्यर्धयन्ति ये तथा कुर्वन्ति तस्मात्प्राजापत्य एवाश्वो देवदेवत्या इतरे
क्षत्रायैव तद्विशं कृता?उकरामनुवर्त्मानं करोत्यथो आयुषैव यजमानं
समर्धयति

१३.२.२.[१६]

हिरण्मयोऽश्वस्य शासो भवति लोहमयाः पर्यङ्ग्याणामायसा इतरेषां ज्योतिर्वै
हिरण्यं राष्ट्रमश्वमेधो ज्योतिरेव तद्राष्ट्रे दधात्यथो हिरण्यज्योतिषैव
यजमानः स्वर्गं लोकमेत्यथो अनूकाशमेव तं कुरुते स्वर्गस्य लोकस्य
समष्ट्यै

१३.२.२.[१७]

अथो क्षत्रं वा अश्वः क्षत्रस्यैतद्रूपं यद्धिरण्यं क्षत्रमेव तत्क्षत्रेण
समर्धयति

१३.२.२.[१८]

अथ यल्लोहमयाः पर्यङ्ग्याणाम् यथा वै राज्ञो राजानो राजकृतः सूतग्रामण्य एवं
वा एतेऽश्वस्य यत्पर्यङ्ग्या एवमु वा एतद्धिरण्यस्य यल्लोहं स्वेनैवैनांस्तद्रूपेण
समर्धयति

१३.२.२.[१९]

अथ यदायसा इतरेषाम् विड्वा इतरे पशवो विश एतद्रूपं यदयो विशमेव तद्विशा
समर्धयति वैतस इटसून उत्तरतोऽश्वस्यावद्यन्त्यानुष्टुभो वा अश्व
आनुष्टुभैषा दिक्ष्वायामेवैनं तद्दिशि दधात्यथ यद्वैतस इटसूनेऽप्सुयोनिर्वा
अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति
१३.२.३.[१]

देवा वा अश्वमेधे पवमानं स्वर्गं लोकं न प्राजानंस्तमश्वः
प्राजानाद्यदश्वमेधेऽश्वेन पवमानाय सर्पन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै
पुच्छमन्वारभन्ते स्वर्गस्यैव लोकस्य समष्ट्यै न वै मनुष्यः स्वर्गं
लोकमञ्जसा वेदाश्वो वै स्वर्गं लोकमञ्जसा वेद

१३.२.३.[२]

यदुद्गातोद्गायेत् यथाक्षेत्रज्ञोऽन्येन पथा नयेत्तादृक्तदथ
यदुद्गातारमवरुध्याश्वमुद्गीथाय वृणीते यथा क्षेत्रज्ञोऽञ्जसा
नयेदेवमेवैतद्यजमानमश्वः स्वर्गं लोकमञ्जसा नयति हिङ्करोति सामैव
तद्धिङ्करोत्युद्गीथ एव स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार
उपगायन्ति तादृक्तद्धिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तं ब्राह्मणम्

१३.२.४.[१]

प्रजापतिरकामयत उभौ लोकावभिजयेयं देवलोकं च मनुष्यलोकं चेति स
एतान्पशूनपश्यद्ग्राम्यांश्च तानालभत तैरिमौ लोकाववारुन्द्ध ग्राम्यैरेव
पशुभिरिमं लोकमवारुन्द्धारण्यैरमुमयं वै लोको मनुष्यलोकोऽथासौ
देवलोको यद्ग्राम्यान्पशूनालभत इममेव तैर्लोकं यजमानोऽवरुन्द्धे
यदारण्यानमुं तैः

१३.२.४.[२]

स यद्ग्राम्यैः संस्थापयेत् समध्वानः क्रामेयुः समन्तिकं
ग्रामयोर्ग्रामान्तौ स्यातां नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण
आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्यदारण्यैर्व्यध्वानः क्रामेयुर्विदूरं
ग्रामयोर्ग्रामान्तौ स्यातामृक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा
अरण्येष्वाजायेरन्

१३.२.४.[३]

तदाहुः अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं
यजमानमरण्यं मृतं हरेयुररण्यभागा ह्यारण्याः पशवो यन्न
जुहुयाद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव हुतं नाहुतं न
यजमानमरण्यं मृतं हरन्ति न यज्ञवेशसं भवति

१३.२.४.[४]

ग्राम्यैः संस्थापयति वि पितापुत्राववस्यतः समध्वानः क्रामन्ति समन्तिकं
ग्रामयोर्ग्रामान्तौ भवतो नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण
आव्याधिन्यस्तस्करा अरण्येष्वाजायन्ते
१३.२.५.[१]

प्रजापतिरश्वमेधमसृजत सोऽस्मात्सृष्टः पराङैत्स पङ्क्तिर्भूत्वा संवत्सरम्
प्राविशत्तेऽर्धमासा अभवंस्तं पञ्चदशिभिरनुप्रायुङ्क्त तमाप्नोत्तमाप्त्वा
पञ्चदशिभिरवारुन्द्धार्धमासानां वा एषा प्रतिमा यत्पञ्चदशिनो
यत्पञ्चदशिन आलभतेऽर्धमासानेव तैर्यजमानोऽवरुन्द्धे

१३.२.५.[२]

तदाहुः अनवरुद्धो वा एतस्य संवत्सरो भवति योऽन्यत्र चातुर्मास्येभ्यः
संवत्सरं तनुत इत्येष वै साक्षात्संवत्सरो यच्चातुर्मास्यानि
यच्चातुर्मास्यान्पशूनालभते साक्षादेव तत्संवत्सरमवरुन्द्धे वि वा एष प्रजया
पशुभिर्ऋध्यतेऽप स्वर्गं लोकं राध्नोति योऽन्यत्रैकादशिनेभ्यः संवत्सरं
तनुत इत्यैष वै सम्प्रति स्वर्गो लोको यदेकादशिनी प्रजा वै पशव एकादशिनी
यदैकादशिनान्पशूनालभते न स्वर्गं लोकमपराध्नोति न प्रजया
पशुभिर्व्यृद्यते

१३.२.५.[३]

प्रजापतिर्विराजमसृजत सास्मात्सृष्टा पराच्येत्साश्वं मेध्यं प्राविशत्तां
दशिभिरनुप्रायुङ्क्त तामाप्नोत्तामाप्त्वा दशिभिरवारुन्द्ध यद्दशिन आलभते
विराजमेव तैर्यजमानोऽवरुन्द्धे शतमालभते शतायुर्वै पुरुषः शतेन्द्रिय
आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते

१३.२.५.[४]

एकादश दशत आलभते एकादशाक्षरा वै त्रिष्टुबिन्द्रियमु वै वीर्यं
त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्या एकादश दशत आलभते दश वै पशोः प्राणा
आत्मैकादशः प्राणैरेव पशून्त्समर्धयति वैश्वदेवा भवन्ति वैश्वदेवो वा
अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा
भवन्ति तस्मान्नानारूपाः पशवः

१३.२.६.[१]

युञ्जन्ति ब्रध्नमरुषं चरन्तमिति असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्मा
आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै

१३.२.६.[२]

तदाहुः पराङ्वा एतस्माद्यज्ञ एति यस्य पशुरुपाकृतोऽन्यत्र वेदेरेतीत्येतं
स्तोतरनेन पथा पुनरश्वमावर्तयासि न इति वायुर्वै स्तोता तमेवास्मा
एतत्परस्ताद्दधाति तथा नात्येति

१३.२.६.[३]

अप वा एतस्मात् तेज इन्द्रियं पशवः श्रीः क्रामन्ति योऽश्वमेधेन यजते

१३.२.६.[४]

वसवस्त्वाञ्जन्तु गायत्रेण च्छन्दसेति महिष्यभ्यनक्ति तेजो वा आज्यं तेजो गायत्री
तेजसी एवास्मिन्त्समीची दधाति

१३.२.६.[५]

रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन च्छन्दसेति वावाता तेजो वा आज्यमिन्द्रियं
त्रिष्टुप्तेजश्चैवास्मिन्निन्द्रियं च समीची दधाति

१३.२.६.[६]

आदित्यास्त्वाञ्जन्तु जागतेन च्छन्दसेति परिवृक्ता तेजो वा आज्यं पशवो जगती
तेजश्चैवास्मिन्पशूंश्च समीची दधाति

१३.२.६.[७]

पत्न्योऽभ्यञ्जन्ति श्रियै वा एतद्रूपं यत्पत्न्यः श्रियमेवास्मिंस्तद्दधति
नास्मात्तेज इन्द्रियं पशवः श्रीरपक्रामन्ति

१३.२.६.[८]

यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यस्य निक्तस्य लोमानि
शीयन्ते यत्काचानावयन्ति लोमान्येवास्य सम्भरन्ति हिरण्मया भवन्ति तस्योक्तं
ब्राह्मणमेकश तमेकशतं काचानावयन्ति शतायुर्वै पुरुष आत्मैकशत
आयुष्येवात्मन्प्रतितिष्ठति भूर्भुवः स्वरिति प्राजापत्याभिरावयन्ति प्राजापत्योऽश्वः
स्वयैवैनं देवतया समर्धयन्ति लाजी३ञ्चाची३ यव्ये गव्य
इत्यतिरिक्तमन्नमश्वायोपावहरति प्रजामेवान्नादीं कुरुत एतदन्नमत्त देवा
एतदन्नमद्धि प्रजापत इति प्रजामेवान्नाद्येन समर्धयति

१३.२.६.[९]

अप वा एतस्मात् तेजो ब्रह्मवर्चसं क्रामति योऽश्वमेधेन यजते होता च ब्रह्मा
च ब्रह्मोद्यं वदत आग्नेयो वै होता बार्हस्पत्यो ब्रह्मा ब्रह्म
बृहस्पतिस्तेजश्चैवास्मिन्ब्रह्मवर्चसं च समीची धत्तो यूपमभितो वदतो
यजमानो वै यूपो यजमानमेवैतत्तेजसा च ब्रह्मवर्चसेन चोभयतः
परिधत्तः
१३.२.६.[१०]

कः स्विदेकाकी चरतीति असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसम्
ब्रह्मवर्चसमेवास्मिंस्तद्धत्तः

१३.२.६.[११]

क उ स्विज्जायते पुनरिति चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्तः

१३.२.६.[१२]

किं स्विद्धिमस्य भेषजमिति अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्तः

१३.२.६.[१३]

किम्वावपनं महदिति अयं वै लोकं आवपनं महदस्मिन्नेव लोके
प्रतितिष्ठति

१३.२.६.[१४]

का स्विदासीत्पूर्वचित्तिरिति द्यौर्वै वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे

१३.२.६.[१५]

किं स्विदासीद्बृहद्वय इति अश्वो वै बृहद्वय आयुरेवावरुन्द्धे

१३.२.६.[१६]

का स्विदासीत्पिलिप्पिलेति श्रीर्वै पिलिप्पिला श्रियमेवावरुन्द्धे

१३.२.६.[१७]

का स्विदासीत्पिशंगिलेति अहोरात्रे वै पिशंगिले अहोरात्रयोरेव प्रतितिष्ठति

१३.२.७.[१]

नियुक्तेषु पशुषु प्रोक्षणीरध्वर्युरादत्तेऽश्वं प्रोक्षिष्यन्नन्वारब्धे
यजमान आध्वरिकं यजुरनुद्रुत्याश्वमेधिकं यजुः प्रतिपद्यते
१३.२.७.[२]

वायुष्ट्वा पचतैरवत्विति वायुरेवैनं पचत्यसितग्रीवश्चागैरित्यग्निर्वा
असितग्रीवोऽग्निरेवैनं च्छागैः पचति

१३.२.७.[३]

न्यग्रोधश्चमसैरिति यत्र वै देवा यज्ञेनायजन्त त एतांश्चमसान्न्यौब्जंस्ते
न्यञ्चो न्यग्रोधा रोहन्ति

१३.२.७.[४]

शल्मलिर्वृद्ध्येति शल्मलौ वृद्धिं दधाति तस्माच्छल्मलिर्वनस्पतीनां वर्षिष्थं
वर्धते

१३.२.७.[५]

एष स्य राथ्यो वृषेति अश्वेनैव रथं सम्पादयति तस्मादश्वो नान्यद्रथाद्वहति

१३.२.७.[६]

षड्भिश्चतुर्भिरेदगन्निति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठत्यथ युक्तः सर्वैः
पद्भिः सममायुते

१३.२.७.[७]

ब्रह्माकृष्णश्च नोऽवत्विति चन्द्रमा वै ब्रह्माकृष्णश्चन्द्रमस एवैनम्
परिददाति नमोऽग्नय इत्यग्नय एव नमस्करोति

१३.२.७.[८]

संशितो रश्मिना रथ इति रश्मिनैव रथं सम्पादयति तस्माद्रथः पर्युतो
दर्शनीयतमो भवति

१३.२.७.[९]

संशितो रश्मिना हय इति रश्मिनैवाश्वं सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो
भूयिष्ठं रोचते
१३.२.७.[१०]

संशितो अप्स्वप्सुजा इति अप्सुयोनिर्वा अश्वः स्वयैवैनं योन्या समर्धयति ब्रह्मा
सोमपुरोगव इति सोमपुरोगवमेवैनं स्वर्गं लोकं गमयति

१३.२.७.[११]

स्वयं वाजिंस्तन्वं कल्पयस्वेति स्वयं रूपं कुरुष्व यादृशमिच्छसीत्येवैनं
तदाह स्वयं यजस्वेति स्वाराज्यमेवास्मिन्दधाति स्वयं जुषस्वेति स्वयं लोकं
रोचयस्व यावन्तमिच्छसीत्येवैनं तदाह महिमा तेऽन्येन न संनश इत्यश्वमेव
महिम्ना समर्धयति

१३.२.७.[१२]

न वा उ एतन्म्रियसे न रिष्यसीति प्रश्वासयत्येवैनं तद्देवां इदेषि पथिभिः
सुगेभिरिति देवयानानेवैनं पथो दर्शयति यत्रासते सुकृतो यत्र ते ययुरिति
सुकृद्भिरेवैनं सलोकं करोति तत्र त्वा देवः सविता दधात्विति सवितैवैनं स्वर्गे
लोके दधाति प्रजापतये त्वा जुष्टं प्रोक्षामीत्युपांश्वथोपगृह्णाति

१३.२.७.[१३]

अग्निः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति
तं जेष्यसि पिबैता अप इति यावानग्नेर्विजयो यावांलोको यावदैश्वर्यं तावांस्ते
विजयस्तावांलोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह

१३.२.७.[१४]

वायुः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति
तं जेष्यसि पिबैता अप इति यावान्वायोर्विजयो यावांलोको

१३.२.७.[१५]

सूर्यः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति
तं जेष्यसि पिबैता अप इति यावान्त्सूर्यस्य विजयो यावांलोको यावदैश्वर्यं तावांस्ते
विजयस्तावांलोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह तर्पयित्वाश्वं पुनः
संस्कृत्य प्रोक्षणीरितरान्पशून्प्रोक्षति तस्यातः

१३.२.८.[१]

देवा वा उदञ्चः स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वेनोदञ्चो यन्ति
स्वर्गस्य लोकस्य प्रज्ञात्यै वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति यथा
नान्यस्मै पशवे तस्मिन्नेनमधि संज्ञपयन्त्यन्यैरेवैनं
तत्पशुभिर्व्याकुर्वन्ति
१३.२.८.[२]

घ्नन्ति वा एतत्पशुम् यदेनं संज्ञपयन्ति प्राणाय स्वाहापानाय स्वाहा व्यानाय
स्वाहेति संज्ञप्यमान आहुतीर्जुहोति प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन
जीवतैव पशुनेष्टं भवति

१३.२.८.[३]

अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चनेति पत्नीरुदानयत्यह्वतैवैना एतदथो
मेध्या एवैनाः करोति

१३.२.८.[४]

गणानां त्वा गणपतिं हवामह इति पत्न्यः परियन्त्यपह्नुवत एवास्मा एतदतो
न्येवास्मै ह्नुवतेऽथो ध्रुवत एवैनं त्रिः परियन्ति त्रयो वा इमे लोका
एभिरेवैनं लोकैर्धुवते त्रिः पुनः परियन्ति षट्सम्पद्यन्ते षड्वा ऋतव
ऋतुभिरेवैनं धुवते

१३.२.८.[५]

अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते नव कृत्वः परियन्ति
नव वै प्राणाः प्राणानेवात्मन्दधते नैभ्यः प्राणा अपक्रामन्त्याहमजानि
गर्भधमा त्वमजासि गर्भधमिति प्रजा वै पशवो गर्भः प्रजामेव
पशूनात्मन्धत्ते ता उभौ चतुरः पदः सम्प्रसारयावेति मिथुनस्यावरुद्ध्यै
स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशुं संज्ञपयन्ति
तस्मादेवमाह वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैवावरुद्ध्यै

१३.२.९.[१]

अप वा एतस्मात् श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते

१३.२.९.[२]

ऊर्ध्वामेनामुच्रापयेति श्रीर्वै राष्ट्रमश्वमेधः श्रियमेवास्मै
राष्ट्रमूर्ध्वमुच्रयति

१३.२.९.[३]

गिरौ भारं हरन्निवेति श्रीर्वै राष्ट्रस्य भारः श्रियमेवास्मै राष्ट्रं
संनह्यत्यथो श्रियमेवास्मिन्राष्ट्रमधिनिदधाति
१३.२.९.[४]

अथास्यै मध्यमेधतामिति श्रीर्वै राष्ट्रस्य मध्यं श्रियमेव राष्ट्रे
मध्यतोऽन्नाद्यं दधाति

१३.२.९.[५]

शीते वाते पुनन्निवेति क्षेमो वै राष्ट्रस्य शीतं क्षेममेवास्मै करोति

१३.२.९.[६]

यकासकौ शकुन्तिकेति विड्वै शकुन्तिकाहलगिति वञ्चतीति विशो वै राष्ट्राय
वञ्चन्त्याहन्ति गभे पसो निगल्गलीति धारकेति विड्वै गभो राष्ट्रं पसो
राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्रो विशं घातुकः

१३.२.९.[७]

माता च ते पिता च त इति इयं वै मातासौ पिताभ्यामेवैनं स्वर्गं लोकं
गमयत्यग्रं वृक्षस्य रोहत इति श्रीर्वै राष्ट्रस्याग्रं श्रियमेवैनं
राष्ट्रस्याग्रं गमयति प्रतिलामीति ते पिता गभे मुष्टिमतंसयदिति विड्वै गभो
राष्ट्रं मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विषं घातुकः

१३.२.९.[८]

यद्धरिणो यवमत्तीति विड्वै यवो राष्ट्रं हरिणो विशमेव राष्ट्रायाद्यां करोति
तस्माद्राष्ट्रो विशमत्ति न पुष्टं पशु मन्यत इति तस्माद्राजा पशून्न पुष्यति
शूद्रा यदर्यजारा न पोषाय न धनायतीति तस्माद्वैशीपुत्रं नाभिषिञ्चति

१३.२.९.[९]

अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञेऽपूतां वाचं वदन्ति दधिक्राव्णो
अकारिषमिति सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनते नैभ्यः प्राणा
अपक्रामन्ति

१३.२.१०.[१]

यदसिपथान्कल्पयन्ति सेतुमेव तं संक्रमणं यजमानः कुरुते स्वर्गस्य
लोकस्य समष्ट्यै

१३.२.१०.[२]
सूचीभिः कल्पयन्ति विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन्राष्ट्रं च
समीची दधति हिरण्यमय्यो भवन्ति तस्योक्तं ब्राह्मणम्

१३.२.१०.[३]

त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो
रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिष्चोर्ध्वाभिश्च बहुरूपा
भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः

१३.२.११.[१]

प्रजापतिरकामयत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ
ग्रहावपश्यत्तावजुहोत्ततो वै स महान्भूयानभवत्स यः कामयेत
महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहौ जुहुयान्महान्हैव
भूयान्भवति

१३.२.११.[२]

वपामभितो जुहोति यजमानो वा अश्वमेधो राजा महिमा राज्येनैवैनमुभयतः
परिगृह्णाति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये
तानेवैतत्प्रीणाति स्वाहा देवेभ्यो देवेभ्यः स्वाहेति राज्ञा वपां परिजयति ये
चैवास्मिंलोके देवा य उ चामुष्मिंस्तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः
स्वर्गं लोकमभिवहन्ति

१३.३.१.[१]

प्रजापतेरक्ष्यश्वयत् तत्परापतत्ततोऽश्वः
समभवद्यदश्वयत्तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैव प्रत्यदधुरेष
ह वै प्रजापतिं सर्वं करोति योऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा
एषा प्रायश्चित्तिः सर्वस्य भेषजं सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा
एतेन ब्रह्महत्यामतरंस्तरति सर्वं पाप्मानं तरति ब्रह्महत्यां
योऽश्वमेधेन यजते

१३.३.१.[२]

उत्तरं वै तत्प्रजापतेरक्ष्यश्वयत् तस्मादुत्तरतोऽश्वस्यावद्यन्ति
दक्षिणतोऽन्येषां पशूनाम्

१३.३.१.[३]

वैतसः कटो भवति अप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या
समर्धयति
१३.३.१.[४]

चतुष्टोम स्तोमो भवति सरड्वा अश्वस्य सक्थ्याबृहत्तद्देवाश्चतुष्टोमेनैव
स्तोमेन प्रत्यदधुर्यच्चतुष्टोम स्तोमो भवत्यश्वस्यैव सर्वत्वाय
सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः
सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.३.२.[१]

परमेण वा एष स्तोमेन जित्वा चतुष्टोमेन कृतेनायानामुत्तरेऽहन्नेकविंशे
प्रतिष्ठायां प्रतितिष्ठत्येकविंशात्प्रतिष्ठाया उत्तरमहर्ऋतूनन्वारोहत्यृतवो वै
पृष्ठान्यृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति

१३.३.२.[२]

शक्वर्यः पृष्ठं भवन्ति अन्यदन्यच्चन्दोऽन्येऽन्ये वा अत्र पशव आलभ्यन्त
उतेव ग्राम्या उतेवारण्या यच्छक्वर्यः पृष्ठं भवन्त्यश्वस्यैव सर्वत्वायान्ये
पशव आलभ्यन्तेऽन्येऽन्ये हि स्तोमाः क्रियन्ते

१३.३.२.[३]

तदाहुः नैते सर्वे पशवो यदजावयश्चारण्याश्चैते वै सर्वे पशवो यद्गव्या इति
गव्या उत्तमेऽहन्नालभत एते वै सर्वे पशवो यद्गव्याः सर्वानेव पशूनालभते
वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति
तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः

१३.३.३.[१]

यत्तिस्रोऽनुष्टुभो भवन्ति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति यच्चतस्रो
गायत्र्यस्तस्मादश्वः सर्वैः पद्भिः प्रतिदधत्पलायते परमं वा एतच्चन्दो
यदनुष्टुप्परमोऽश्वः पशूनां परमश्चतुष्टोम स्तोमानां परमेणैवैनम्
परमतां गमयति

१३.३.३.[२]

शक्वर्यः पृष्ठं भवन्ति अन्यदन्यच्चन्दोऽन्येऽन्ये हि स्तोमाः क्रियन्ते
यच्छक्वर्यः पृष्ठं भवन्त्यश्वस्यैव सर्वत्वाय

१३.३.३.[३]

एकविंशं मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः
स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति
१३.३.३.[४]

वामदेव्यं मैत्रावरुणसाम भवति प्रजापतिर्वै वामदेव्यं प्राजापत्योऽश्वः
स्वयैवैनं देवतया समर्धयति

१३.३.३.[५]

पार्थुरश्मं ब्रह्मसाम भवति रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतो
प्रतिष्ठितः परां परावतं गन्तोर्यत्पार्थुरश्मं ब्रह्मसाम
भवत्यश्वस्यैव धृत्यै

१३.३.३.[६]

संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य
क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय
सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः
सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.३.३.[७]

एकविंशोऽग्निर्भवति एकविंश स्तोम एकविंशतिर्यूपा यथा वा ऋषभा वा वृषाणो वा
संस्फुरेरन्नेवमेते स्तोमाः समृच्छन्ते
यदेकविंशास्तान्यत्समर्पयेदार्तिमार्च्छेद्यजमानो हन्येतास्य यज्ञः

१३.३.३.[८]

द्वादश एवाग्निः स्यात् एकादश यूपा यद्द्वादशोऽग्निर्भवति द्वादश मासाः
संवत्सरः संवत्सरमेव यज्ञमाप्नोति यदेकादश यूपा विराड्वा एषा सम्मीयते
यदेकादशिनी तस्यै य एकादश स्तन एवास्यै स दुह एवैनां तेन

१३.३.३.[९]

तदाहुः यद्द्वादशोऽग्निः स्यादेकादश यूपा यथा स्थूरिणा यायात्तादृक्तदित्येकविंश
एवाग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपास्तद्यथा प्रष्टिभिर्यायात्तादृक्तत्

१३.३.३.[१०]

शिरो वा एतद्यज्ञस्य यदेकविंशः यो वा अश्वमेधे त्रीणि शीर्षाणि वेद शिरो ह
राज्ञां भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एतानि वा
अश्वमेधे त्रीणि शीर्षाणि तानि य एवं वेद शिरो ह राज्ञां भवति यो वा अश्वमेधे
तिस्रः ककुदो वेद ककुद्ध राज्ञां भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम
एकविंशतिर्यूपा एता अश्वमेधे तिस्रः ककुदस्ता य एवं वेद ककुद्ध राज्ञाम्
भवति

१३.३.४.[१]

सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते यत्प्राजापत्यं कुर्याद्या देवता अपिभागास्ता
भागधेयेन व्यर्धयेच्छादं दद्भिरवकां दन्तमूलैरित्याज्यमवदाना कृत्वा
प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन
समर्धयत्यरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोति
द्यावापृथिव्योर्वै सर्वा देवताः प्रतिष्ठितास्ता एवैतत्प्रीणाति देवासुराः संयत्ता आसन्

१३.३.४.[२]

तेऽब्रुवन् अग्नयः स्विष्टकृतोऽश्वस्य वयमुद्धारमुद्धरामहै
तेनासुरानभिभविष्याम इति ते लोहितमुदहरन्त भ्रातृव्याभिभूत्यै
यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य
द्विषन्भ्रातृव्यो भवति य एवं वेद

१३.३.४.[३]

गोमृगकण्ठेन प्रथमामाहुतिं जुहोति पशवो वै गोमृगा रुद्रः
स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र
रुद्रः पशूनभिमन्यते

१३.३.४.[४]

अश्वशफेन द्वितीयामाहुतिं जुहोति पशवो वा एकशफा रुद्रः स्विष्टकृत्पशू>

१३.३.४.[५]

अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति आयस्यो वै प्रजा रुद्रः स्विष्टकृत्प्रजा एव
रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः प्रजा
अभिमन्यते

१३.३.५.[१]

सर्वेषु वै लोकेषु मृत्यवोऽन्वायत्तास्तेभ्यो यदाहुतीर्न जुहुयाल्लोकेलोक एनम्
मृत्युर्विन्देद्यन्मृत्युभ्य आहुतीर्जुहोति लोकेलोक एव मृत्युमपजयति

१३.३.५.[२]

तदाहुः यदमुष्मै स्वाहामुष्मै स्वाहेति जुह्वत्संचक्षीत बहुम्
मृत्युममित्रं कुर्वीत मृत्यव आत्मानमपिदध्यादिति मृत्यवे स्वाहेत्येकस्मा
एवैकामाहुतिं जुहोत्येको ह वा अमुष्मिंलोके मृत्युरशनायैव
तमेवामुष्मिंलोकेऽपजयति

१३.३.५.[३]

ब्रह्महत्यायै स्वाहेति द्वितीयामाहुतिं जुहोति अमृत्युर्ह वा अन्यो ब्रह्महत्यायै
मृत्युरेष ह वै साक्षान्मृत्युर्यद्ब्रह्महत्या साक्षादेव मृत्युमपजयति

१३.३.५.[४]

एतां ह वै मुण्डिभ औदन्यः ब्रह्महत्यायै प्रायश्चित्तिं विदां चकार
यद्ब्रह्मैहत्याया आहुतिं जुहोति मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा
ब्रह्मघ्ने भेषजं करोति तस्माद्यस्यैषाश्वमेध आहुतिर्हूयतेऽपि योऽस्यापरीषु
प्रजायां ब्राह्मैणं हन्ति तस्मै भेषजं करोति

१३.३.६.[१]

अश्वस्य वा आलब्धस्य मेध उदक्रामत्तदश्वस्तोमीयमभवद्यदश्वस्तोमीयं
जुहोत्यश्वमेव मेधसा समर्धयति

१३.३.६.[२]

आज्येन जुहोति मेधो वा आज्यं मेधोऽश्वस्तोमीयं मेधसैवास्मिंस्तन्मेधो
दधात्याज्येन जुहोत्येतद्वै देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना
समर्धयति

१३.३.६.[३]

अश्वस्तोमीयं हुत्वा द्विपदा जुहोति अश्वो वा अश्वस्तोमीयं पुरुषो द्विपदा
द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनं प्रतिष्ठया समर्धयति

१३.३.६.[४]

तदाहुः अश्वस्तोमीयं पूर्वं होतव्यां३ द्विपदा३ इति पशवो वा अश्वस्तोमीयम्
पुरुषो द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात्पुरुष
उपरिष्टात्पशूनधितिष्ठति

१३.३.६.[५]

षोडशाश्वस्तोमीया जुहोति षोडशकला वै पशवः सा पशूनां मात्रा पशूनेन
मात्रया समर्धयति यत्कनीयसीर्वा भूयसीर्वा जुहुयात्पशून्मात्रया
व्यर्धयेत्षोडश जुहोति षोडशकला वै पशवः सा पशूनां मात्रा पशूनेव
मात्रया समर्धयति नान्यामुत्तमामाहुतिं जुहोति यदन्यामुत्तमामाहुतिं
जुहुयात्प्रतिष्ठायै च्यवेत द्विपदा उत्तमा जुहोति प्रतिष्ठा वै द्विपदाः प्रत्येव
तिष्ठति जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति वरुणो वै जुम्बकः
साक्षादेव वरुणमवयजते शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि
जुहोत्येतद्वै वरुणस्य रूपं रूपेणैव वरुणमवयजते

१३.३.६.[६]

द्वादश ब्रह्मौदनानुत्थाय निर्वपति द्वादशभिर्वेष्टिभिर्यजते
तदाहुर्यज्ञस्य वा एतद्रूपं यदिष्टयो यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः
स्यात्पापीयांस्तु स्याद्यातयामानि वा एतदीजानस्य छन्दांसि भवन्ति तानि किमेतावदाशु
प्रयुञ्जीत सर्वा वै संस्थिते यज्ञे वागाप्यते सात्राप्ता यातयाम्नी भवति क्रूरीकृतेव
हि भवत्यरुष्कृता वाग्वै यज्ञस्तस्मान्न प्रयुञ्जीतेति

१३.३.६.[७]

द्वादशैव ब्रह्मौदनानुत्थाय निर्वपेत् प्रजापतिर्वा ओदनः प्रजापतिः
संवत्सरः प्रजापतिर्यज्ञः संवत्सरमेव यज्ञमाप्नोत्युपनामुक एनं यज्ञो
भवति न पापीयान्भवति

१३.३.७.[१]

एष वै प्रभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रभूतम्
भवति

१३.३.७.[२]

एष वै विभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव विभूतं भवति

१३.३.७.[३]

एष वै व्यष्टिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यष्टं भवति

१३.३.७.[४]

एष वै विधृतिर्नाम यज्ञः यत्रैतेन यजन्ते सर्वमेव विधृतं भवति

१३.३.७.[५]
एष वै व्यावृत्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तम्
भवति

१३.३.७.[६]

एष वा ऊर्जस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेवोर्जस्वद्भवति

१३.३.७.[७]

एष वै पयस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव पयस्वद्भवति

१३.३.७.[८]

एष वै ब्रह्मवर्चसी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ ब्राह्मणो
ब्रह्मवर्चसी जायते

१३.३.७.[९]

एष वा अतिव्याधी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ राजन्योऽतिव्याधी जायते

१३.३.७.[१०]

एष वै दीर्घो नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ दीर्घारण्यं जायते

१३.३.७.[११]

एष वै कॢप्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव कॢप्तं भवति

१३.३.७.[१२]

एष वै प्रतिष्ठा नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम्
भवति

१३.३.८.[१]

अथातः प्रायश्चित्तीनाम् यद्यश्वो वडवां स्कन्देद्वायव्यम्
पयोऽनुनिर्वपेद्वायुर्वै रेतसां विकर्ता प्राणो वै वायुः प्राणो हि रेतसां विकर्ता
रेतसैवास्मिंस्तद्रेतो दधाति
१३.३.८.[२]

अथ यदि स्रामो विन्देत् पौष्णं चरुमनुनिर्वपेत्पूषा वै पशूनामीष्टे स
यस्यैव पशवो यः पशूनामीष्टे तमेवैतत्प्रीणात्यगदो हैव भवति

१३.३.८.[३]

अथ यद्यक्षतामयो विन्देत् वैश्वानरं द्वादशकपालं भूमिकपालम्
पुरोडाशमनुनिर्वपेदियं वै वैश्वानर इमामेवैतत्प्रीणात्यगदो हैव भवति

१३.३.८.[४]

अथ यद्यक्ष्यामयो विन्देत् सौर्यं चरुमनुनिर्वपेत्सूर्यो वै प्रजानां
चक्षुर्यदा ह्येवैष उदेत्यथेदं सर्वं चरति चक्षुषैवास्मिंस्तच्चक्षुर्दधाति
स यच्चरुर्भवति चक्षुषा ह्ययमात्मा चरति

१३.३.८.[५]

अथ यद्युदके म्रियेत वारुणं यवमयं चरुमनुनिर्वपेद्वरुणो वा एतं
गृह्णाति योऽप्सु म्रियते सा यैवैनं देवता गृह्णाति तामेवैतत्प्रीणाति सास्मै
प्रीतान्यमालम्भायानुमन्यते तयानुमतमालभते स यद्यवमयो भवति
वरुण्या हि यवाः

१३.३.८.[६]

अथ यदि नश्येत् त्रिहविषमिष्टिमनुनिर्वपेद्द्यावापृथिव्यमेककपालम्
पुरोडाशं वायव्यं पयः सौर्यं चरुं यद्वै किं च नश्यत्यन्तरैव
तद्द्यावापृथिवी नश्यति तद्वायुरुपवात्यादित्योऽभितपति नैताभ्यो देवताभ्य ऋते किं
चन नश्यति सैषा पृथगेव नष्टवेदनी स यद्यस्याप्यन्यन्नश्येदेतयैव
यजेतानु हैवैनद्विन्दत्यथ यद्यमित्रा अश्वं विन्देरन्यदि वा म्रियेत यदि
वाप्स्वन्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः

१३.४.१.[१]

प्रजापतिरकामयत सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति स
एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वा
सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत सर्वान्ह वै कामानाप्नोति सर्वा
व्यष्टीर्व्यश्नुते योऽश्वमेधेन यजते

१३.४.१.[२]

तदाहुः कस्मिन्नृतावभ्यारम्भ इति ग्रीष्मेऽभ्यारभेतेत्यु हैक आहुर्ग्रीष्मो वै
क्षत्रियस्यर्तुः क्षत्रिययज्ञ उ वा एष यदश्वमेध इति

१३.४.१.[३]

तद्वै वसन्त एवाभ्यारभेत वसन्तो वै ब्रह्मणस्यर्तुर्य उ वै कश्च यजते
ब्राह्मणीभूयेवैव यजते तस्माद्वसन्त एवाभ्यारभेत

१३.४.१.[४]

सा यासौ फाल्गुनी पौर्णमासी भवति तस्यै पुरस्तात्षडहे वा सप्ताहे वर्त्विज
उपसमायन्त्यध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान्वा अन्वन्य ऋत्विजः

१३.४.१.[५]

तेभ्योऽध्वर्युश्चातुष्प्राश्यं ब्रह्मौदनं निर्वपति तस्योक्तं ब्राह्मणं
चतुरः पात्रांश्चतुरोऽञ्जलींश्चतुरः प्रसृतान्द्वादशविधं द्वादश मासाः
संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.४.१.[६]

तमेते चत्वार ऋत्विजः प्राश्नन्ति तेषामुक्तं ब्राह्मणं तेभ्यश्चत्वारि सहस्राणि
ददाति सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै
चत्वारि च सुवर्णानि शतमानानि हिरण्यानि तस्यो एवोक्तम्

१३.४.१.[७]

अथास्मा अध्वर्युर्निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसि शुक्रममृतमिति तेजो वै
शुक्रममृतं हिरण्यं तेज एवास्मिञ्चुक्रममृतं दधात्यायुष्पा आयुर्मे
पाहीत्यायुरेवास्मिन्दधात्यथैनमाह वाचं यच्छेति वाग्वै यज्ञो
यज्ञस्यैवाभ्यारम्भाय

१३.४.१.[८]

चतस्रो जाया उपकॢप्ता भवन्ति महिषी वावाता परिवृक्ता पालागली सर्वा
निष्किन्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारं प्रपद्यते पूर्वया
द्वारा यजमानो दक्षिणया पत्न्यः

१३.४.१.[९]

सायमाहुत्यां हुतायाम् जघनेन गार्हपत्यमुदङ्वावातया सह संविशति
तदेवापीतराः संविशन्ति सोऽन्तरोरू असंवर्तमानः शेतेऽनेन तपसा स्वस्ति
संवत्सरस्योदृचं समश्नवा इति

१३.४.१.[१०]

प्रातराहुत्यां हुतायां अध्वर्युः पूर्णाहुतिं जुहोति सर्वं वै पूर्णं
सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै तस्यां वरेण वाचं विसृजते
वरं ददामि ब्रह्मण इति सर्वं वै वरः सर्वमश्वमेधः सर्वस्याप्त्यै
सर्वस्यावरुद्ध्यै

१३.४.१.[११]

अथ योऽस्य निष्कः प्रतिमुक्तो भवति तमध्वर्यवे ददात्यध्वर्यवे
दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यम्

१३.४.१.[१२]

अथाग्नेयीमिष्टिं निर्वपति पथश्च कामाय यज्ञमुखस्य चाच्छम्बट्कारायाथो
अग्निमुखा उ वै सर्वा देवताः सर्वे कामा अश्वमेधे मुखतः सर्वान्देवान्प्रीत्वा
सर्वान्कामानाप्नवानीति

१३.४.१.[१३]

तस्यै पञ्चदश सामिधेन्यो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो
वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते वार्त्रघ्नावाज्यभागौ
पाप्मा वै वृत्रः पाप्मनोऽपहत्या अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य
रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति
सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या अथ यत्सद्वती
सदेवावरुन्द्धे विराजौ संयाज्ये सर्वदेवत्यं वा एतच्चन्दो यद्विराट्सर्वे कामा
अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति हिरण्यं दक्षिणा सुवर्णं
शतमानं तस्योक्तं ब्राह्मणम्

१३.४.१.[१४]

अथ पौष्णीं निर्वपति पूषा वै पथीनामधिपतिरश्वायैवैतत्स्वस्त्ययनं
करोत्यथो इयं वै पूषेमामेवास्मा एतद्गोप्त्रीं करोति तस्य हि नार्तिरस्ति न ह्वला
यमियमध्वन्गोपायतीमामेवास्मा एतद्गोप्त्रीं करोति

१३.४.१.[१५]

तस्यै सप्तदश सामिधेन्यो भवन्ति सप्तदशो वै प्रजापतिः
प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वृधन्वन्तावाज्यभागौ यजमानस्यैव
वृद्ध्यै पूषंस्तव व्रते वयं पथस्पथः परिपतिं वचस्येत्युपांशु हविषो
याज्यानुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्या वीर्यं वै व्रतं वीर्यस्याप्त्यै
वीर्यस्यावरुद्ध्या अथ यत्पथन्वत्यश्वायैवैतत्स्वस्त्ययनं करोत्यनुष्टुभौ
संयाज्ये वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै
वासःशतं दक्षिणा रूपं वा एतत्पुरुषस्य यद्वासस्तस्माद्यमेव कं च
सुवाससमाहुः को न्वयमिति रूपसमृद्धो हि भवति रूपेणैवैनं समर्धयति
शतं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते

१३.४.२.[१]

एतस्यां तायमानायाम् अश्वं निक्त्वोदानयन्ति यस्मिन्त्सर्वाणि रूपाणि भवन्ति यो वा
जवसमृद्धः सहस्रार्हं पूर्व्यं यो दक्षिणायां धुर्यप्रतिधुरः

१३.४.२.[२]

तद्यत्सर्वरूपो भवति सर्वं वै रूपं सर्वमश्वमेधः सर्वस्याप्त्यै
सर्वस्यावरुद्ध्या अथ यज्जवसमृद्धो वीर्यं वै जवो वीर्यस्याप्त्यै
वीर्यस्यावरुद्ध्या अथ यत्सहस्रार्हः सर्वं वै सहस्रं सर्वमश्वमेधः
सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यत्पूर्व्य एष वा अपरिमितं
वीर्यमभिवर्धते यत्पूर्व्योऽपरिमितस्यैव वीर्यस्यावरुद्ध्या अथ यद्दक्षिणायां
धुर्यपर्तिधुर एष वा एष य एष तपति न वा एतं कश्चन
प्रतिप्रतिरेतस्यैवावरुद्ध्यै

१३.४.२.[३]

तदु होवाच भाल्लबेयो द्विरूप एवैषोऽश्वः स्यात्कृष्णसारंगः प्रजापतेर्वा
एषोऽक्ष्णः समभवद्द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णं च तदेनं
स्वेन रूपेण समर्धयतीति

१३.४.२.[४]

अथ होवाच सात्ययज्ञिः त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः
शुक्लोऽपरार्धः कृत्तिकाञ्जिः पुरस्तात्तद्यत्कृष्णः पूर्वार्धो भवति यदेवेदं
कृष्णमक्ष्णस्तदस्य तदथ यच्छुक्लोऽपरार्धो यदेवेदं शुक्लमक्ष्णस्तदस्य
तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनका स एव रूपसमृद्धोऽतो
यतमोऽस्योपकल्पेत बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन
त्वेव समृद्धः स्यात्

१३.४.२.[५]

तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति राजपुत्राः कवचिनः शतं राजन्या
निषङ्गिणः शतं सूतग्रामण्यां पुत्रा इषुपर्षिणः शतं क्षात्त्रसंग्रहीतॄणाम्
पुत्रा दण्डिनः शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति

१३.४.२.[६]
अथ सावित्रीमिष्टिं निर्वपति सवित्रे प्रसवित्रे द्वादशकपालं पुरोडाशं सविता वै
प्रसविता सविता म इमं यज्ञं प्रसुवादिति

१३.४.२.[७]

तस्यै पञ्चदश सामिधेन्यो भवन्ति वार्त्रघ्नावाज्यभागौ य इमा विश्वा जातान्या
देवो यातु सविता सुरत्न इत्युपांशु हविषो याज्यानुवाक्ये विराजौ संयाज्ये हिरण्यं
दक्षिणा सुवर्णं शतमानं तस्योक्तं ब्राह्मणम्

१३.४.२.[८]

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत
उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति
तस्योक्तं ब्राह्मणम्

१३.४.२.[९]

अथ द्वितीयां निर्वपति सवित्र आसवित्रे द्वादशकपालं पुरोडाशं सविता वा आसविता
सविता म इमं यज्ञमासुवादिति

१३.४.२.[१०]

तस्यै सप्तदश सामिधेन्यो भवन्ति सद्वन्तावाज्यभागौ सदेवावरुन्द्धे विश्वानि
देव सवितः स घा नो देवः सविता सहावेत्युपांशु हविषो याज्यानुवाक्ये
अनुष्टुभौ संयाज्ये रजतं हिरण्यं दक्षिणा नानारूपताया अथो
उत्क्रमायानपक्रमाय शतमानं भवति शतायुर्वै पुरुषः शतेन्द्रिय
आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते

१३.४.२.[११]

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणा>

१३.४.२.[१२]

अथ तृतीयां निर्वपति सवित्रे सत्यप्रसवाय द्वादशकपालं पुरोडाशमेष ह वै
सत्यः प्रसवो यः सवितुः सत्येन मे प्रसवेनेमं यज्ञं प्रसुवादिति

१३.४.२.[१३]

तस्यै सप्तदशैव सामिधेन्यो भवन्ति रयिमन्तावाज्यभागौ वीर्यं वै
रयिवीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या आ विश्वदेवं सत्पतिं न प्रमिये
सवितुर्दैव्यस्य तदित्युपांशु हविषो याज्यानुवाक्ये नित्ये संयाज्ये
नेद्यज्ञपथादयानीति कॢप्त एव यज्ञेऽन्ततः प्रतितिष्ठति त्रिष्टुभौ भवत इन्द्रे
वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्यै हिरण्यं दक्षिणा सुवर्णं
शतमानं तस्योक्तं ब्राह्मणम्

१३.४.२.[१४]

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणा>

१३.४.२.[१५]

एतस्यां संस्थितायाम् उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्ण आजपतो
विभूर्मात्रा प्रभूः पित्रेति तस्योक्तं ब्राह्मणमथैनमुदञ्चं प्राञ्चम्
प्रसृजत एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनं
तद्दिषि धत्तो न वै स्व आयतने प्रतिष्ठितो रिष्यत्यरिष्ट्यै

१३.४.२.[१६]

स आह देवा आशापालाः एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं रक्षतेत्युक्ता
मानुषा आशापाला अथैते दैवा आप्याः साध्या अन्वाध्या मरुतस्तमेत उभये
देवमनुष्याः संविदाना अप्रत्यावर्तयन्तः संवत्सरं रक्षन्ति तद्यं न
प्रत्यावर्तयन्त्येष वा एष तपति क उ ह्येतमर्हति प्रत्या !वयितुं यद्येनम्
प्रत्यावर्तयेयुः परागेवेदं सर्वं स्यात्तस्मादप्रत्यावर्तयन्तो रक्षन्ति

१३.४.२.[१७]

स आहाशापालाः ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते भविष्यन्ति राजानो
भविष्यन्त्यभिषेचनीया अथ य एतस्योदृचं न गमिष्यन्त्यराष्ट्रं ते
भविष्यन्त्यराजानो भविष्यन्ति राजन्या विशोऽनभिषेचनीयास्तस्मान्मा प्रमदत
स्नात्वाच्चैवैनमुदकान्निरुन्धीध्वं वडवाभ्यश्च ते
यद्यद्ब्राह्मणजातमुपनिगच्छेत तत्तत्पृच्छेत ब्राह्मणाः कियद्यूयमश्वमेधस्य
वित्थेति ते ये न विद्युर्जिनीयात तान्त्सर्वं वा अश्वमेधः सर्वस्यैष न वेद यो
ब्राह्मणः सन्नश्वमेधस्य न वेद सोऽब्राह्मणो ज्येय एव स पानं करवाथ
खादं निवपाथाथ यत्किं च जनपदे कृतान्नं सर्वं वस्तत्सुतं तेषां
रथकारकुल एव वो वसतिस्तद्ध्यश्वस्यायतनमिति

पारिप्लवाख्यानब्राह्मणम्

१३.४.३.[१]

प्रमुच्याश्वं दक्षिणेन वेदिं हिरण्मयं कशिपूपस्तृणाति तस्मिन्होतोपविशति
दक्षिणेन होतारं हिरण्मये कूर्चे यजमानो दक्षिणतो ब्रह्मा चोद्गाता च
हिरण्मय्योः कशिपुनोः पुरस्तात्प्रत्यङ्ङध्वर्युर्हिरण्मये वा कूर्चे हिरण्मये वा
फलके

१३.४.३.[२]

समुपविष्टेष्वध्वर्युः सम्प्रेष्यति होतर्भूतान्याचक्ष्व भूतेष्विमं
यजमानमध्यूहेति सम्प्रैषितो होताध्वर्युमामन्त्रयते
पारिप्लवमाख्यानमाख्यास्यन्नध्वर्यविति हवै होतरित्यध्वर्युः

१३.४.३.[३]

मनुर्वैवस्वतो राजेत्याह तस्य मनुष्या विशस्त इम आसत इत्यश्रोत्रिया
गृहमेधिन उपसमेता भवन्ति तानुपदि=अत्यृचो वेदः सोऽयमित्यृचां सूक्तं
व्याचक्षाण इवानुद्रवेद्वीणागणगिन उपसमेता भवन्ति तानध्वर्युः सम्प्रेष्यति
वीणागणगिन इत्याह पुराणैरिमं यजमानं राजभिः साधुकृद्भिः संगायतेति तं
ते
तथा संगायन्ति तद्यदेनमेवं संगायन्ति पुराणैरेवैनं तद्राजभिः
साधुकृद्भिः सलोकं कुर्वन्ति

१३.४.३.[४]

सम्प्रैष्याध्वर्युः प्रक्रमान्जुहोति अन्वाहार्यपचने वाश्वस्य वा पदम्
परिलिख्य यतरथास्य तत्रावृद्भवति पूर्वा त्वेव स्थितिः

१३.४.३.[५]

सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यथ सायं
धृतिषु हूयमानासु राजन्यो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः
स्वयंसम्भृता गाथा गायतीत्ययुध्यतेत्यमुं संग्राममजयदिति तस्योक्तम्
ब्राह्मणम्

१३.४.३.[६]

अथ श्वो भूते द्वितीयेऽहन् एवमेवैतासु सावित्रीष्विष्टिषु
संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्यमो वैवस्वतो राजेत्याह
तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमेता भवन्ति तानुपदिशति यजूंषि
वेदः सोऽयमिति यजुषामनुवाकं व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः
सम्प्रेष्यति न प्रक्रमान्जुहोति

१३.४.३.[७]

अथ तृतीयेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युर्वरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्त इम आसत इति
युवानः शोभना उपसमेता भवन्ति तानुपदिशत्यथर्वाणो वेदः
सोऽयमित्यथर्वणामेकं पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः
सम्प्रेष्यति न प्रक्रमान्जुहोति
१३.४.३.[८]

अथ चतुर्थेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा आसत इति
युवतयः शोभनाः उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सोऽ यमित्यङ्गिरसामेकं पर्व व्याचक्षाण इवानुद्रवेत्। एवमेवाध्वर्युः संप्रेष्यति। न प्रक्रमान् जुहोति।

१३.४.३.[९]

अथ पञ्चमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युरर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशस्त इम आसत इति
सर्पाश्च सर्वविदश्चोपसमेता भवन्ति तानुपदिशति सर्पविद्या वेदः सोऽयमिति
सर्पविद्याया एकं पर्व व्याचक्षाण इवानुद्र>

१३.४.३.[१०]

अथ षष्ठेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युः कुबेरो वैश्रवणो राजेत्याह तस्य रक्षांसि विशस्तानीमान्यासत
इति सेलगाः पादकृत उपसमेता भवन्ति तानुपदिशति देवजनविद्या वेदः सोऽयमिति
देवजनविद्याया एकं पर्व व्याचक्षाण इवानुद्र>

१३.४.३.[११]

अथ सप्तमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युरसितो धान्वो राजेत्याह तस्यासुरा विशस्त इम आसत इति कुसीदिन
उपसमेता भवन्ति तानुपदिशति माया वेदः सोऽयमिति कांचिन्मायां
कुर्यादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति

१३.४.३.[१२]

अथाष्टमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युर्मत्स्यः साम्मदो राजेत्याह तस्योदकेचरा विशस्त इम आसत इति
मत्स्याश्च मत्स्यहनश्चोपसमेता भवन्ति तानुपदिशतीतिहासो वेदः सोऽयमिति
कंचिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति

१३.४.३.[१३]

अथ नवमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युस्तार्क्ष्यो वैपश्यतो राजेत्याह तस्य वयांसि विशस्तानीमान्यासत इति
वयांसि च वायोविद्यिकाश्चोपसमेता भवन्ति तानुपदिशति पुराणं वेदः सोऽयमिति
किंचित्पुराणमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति

१३.४.३.[१४]
अथ दशमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै
होतरित्येवाध्वर्युर्धर्म इन्द्रो राजेत्याह तस्य देवा विशस्त इम आसत इति श्रोत्रिया
अप्रतिग्राहका उपसमेता भवन्ति तानुपदिशति सामानि वेदः सोऽयमिति साम्नां
दशतं ब्रूयादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोतीति

१३.४.३.[१५]

एतत्पारिप्लवम् सर्वाणि राज्यान्याचष्टे सर्वा विशः सर्वान्वेदान्त्सर्वान्देवान्त्सर्वाणि
भूतानि सर्वेषां ह वै स एतेषां राज्यानां सायुज्यं सलोकतामश्नुते सर्वासां
विशामैश्वर्यमाधिपत्यं गच्छति सर्वान्वेदानवरुन्द्धे सर्वान्देवान्प्रीत्वा सर्वेषु
भूतेष्वन्ततः प्रतितिष्ठति यस्यैवंविदेतद्धोता पारिप्लवमाख्यानमाचष्टे यो
वैतदेवं वेदैतदेव समानमाख्यानं पुनः पुनः संवत्सरं परिप्लवते
तद्यत्पुनः पुनः परिप्लवते तस्मात्पारिप्लवं षट्त्रिंशतं दशाहानाचष्टे
षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बृहत्यैवास्मै पशूनवरुन्द्धे

१३.४.४.[१]

संवत्सरे पर्यवेते दीक्षा प्राजापत्यमालभ्योत्सीदन्तीष्टयः पुरोहितस्याग्निषु
यजेतेत्यु हैक आहुः किमु दीक्षितो यजेत द्वादश दीक्षा द्वादशोपसदस्तिस्रः
सुत्यास्तत्त्रिणवमभिसम्पद्यते वज्रो वै त्रिणवः क्षत्रमश्वः क्षत्रं राजन्यो
वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति

१३.४.४.[२]

दीक्षणीयायां संस्थितायाम् सायं वाचि विसृष्टायां वीणागणगिन उपसमेता भवन्ति
तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह देवैरिमं यजमानं संगायतेति तं
ते तथा संगायन्ति

१३.४.४.[३]

अहरहर्वाचि विसृष्टायाम् अग्नीषोमीयाणामन्ततः संस्थायां परिहृतासु
वसतीवरीषु तद्यदेनं देवैः संगायन्ति देवैरेवैनं तत्सलोकं कुर्वन्ति

१३.४.४.[४]

प्रजापतिना सुत्यासु एवमेवाहरहः परिहृतास्वेव
वसतीवरीषूदवसानीयायामन्ततः संस्थितायां तद्यदेनं प्रजापतिना संगायन्ति
प्रजापतिनैवैनं तदन्ततः सलोकं कुर्वन्ति

१३.४.४.[५]

एकविंशतिर्यूपाः सर्व एकविंशत्यरत्नयो राज्जुदालोऽग्निष्ठो भवति
पैतुदारवावभितः षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्षट्खादिरास्त्रय एवेत्थात्त्रय
इत्थात्षट्पालाशास्त्रय एवेत्थात्त्रय इत्थात्

१३.४.४.[६]

तद्यदेत एवं यूपा भवन्ति प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं
श्वयितुमध्रियत तस्य यः श्लेष्मासीत्स सार्धं समवद्रुत्य मध्यतो नस्त
उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणाः श्लेष्मणो हि
समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्सोऽग्निष्ठो भवति मध्यं
वा एतद्यूपानां यदग्निष्ठो मध्यमेतत्प्राणानां यन्नासिके स्व एवैनं तदायतने
दधाति

१३.४.४.[७]

अथ यदापोमयं तेज आसीत् यो गन्धः स सार्धं समवद्रुत्य चक्षुष्ट
उदभिनत्स एष वनस्पतिरभवत्पोतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि
समभवत्तस्मादु ज्वलनस्तेजसो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति
तद्यत्तावभितोऽग्निष्ठं भवतस्तस्मादिमे अभितो नासिकां चक्षुषी स्व एवैनौ
तदायतने दधाति

१३.४.४.[८]

अथ यत्कुन्तापमासीत् यो मज्जा स सार्धं समवद्रुत्य श्रोत्रत उदभिनत्स एष
वनस्पतिरभवद्बिल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यं भवति
तस्मादु हारिद्र इव भवति हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण
समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये
श्रोत्रे स्व एवैनांस्तदायतने दधाति

१३.४.४.[९]

अस्थिभ्य एवास्य खदिरः समभवत् तस्मात्स दारुणो बहुसारो दारुणमिव ह्यस्थि
तेनैवैनं तद्रूपेण समर्धयत्यन्तरे बैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि
मज्जानो बाह्यान्यस्थीनि स्व एवैनांस्तदायतने दधाति

१३.४.४.[१०]

मांसेभ्य एवास्य पलाशः समभवत् तस्मात्स बहुरसो लोहितरसो लोहितमिव हि
मांसं तेनैवैनं तद्रूपेण समर्धयत्यन्तरे खादिरा भवन्ति बाह्ये पालाश
अन्तराणि ह्यस्थीनि बाह्यानि मांसानि स्व एवैनांस्तदायतने दधाति

१३.४.४.[११]

अथ यदेकविंशतिर्भवन्ति एकविंशत्यरत्नय एकविंशो वा एष तपति द्वादश
मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः सोऽश्वमेध एष
प्रजापतिरेवमेतं प्रजापतिं यज्ञं कृत्स्नं संस्कृत्य
तस्मिन्नेकविंशतिमग्नीषोमीयान्पशूनालभते तेषां समानं
कर्मेत्येतत्पूर्वेद्युः कर्म

१३.५.१.[१]

अथ प्रातर्गोतमस्य चतुरुत्तर स्तोमो भवति तस्य चतसृषु
बहिष्पवमानमष्टास्वष्टास्वाज्यानि द्वादशसु माध्यन्दिनः पवमानः षोडशसु
पृष्ठानि विंशत्यामार्भवः पवमानश्चतुर्विंशत्यामग्निष्टोमसाम

१३.५.१.[२]

तस्य हैके अग्निष्टोमसाम चतुःसाम कुर्वन्ति नाग्निष्टोमो नोक्थ्य इति
वदन्तस्तद्यदि तथा कुर्युः सार्धं स्तोत्रियं शस्त्वा सार्धमनुरूपं
शंसेद्रथन्तरं पृष्ठं राथन्तरं शस्त्रमग्निष्टोमो यज्ञस्तेनेमं
लोकमृध्नोति

१३.५.१.[३]

एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानं कर्मेत्यु हैक आहुर्द्वे
त्वेवैते एकादशिन्यावालभेत य एवैकादशिनेषु कामस्तस्य कामस्याप्त्यै

१३.५.१.[४]

संस्थितेऽग्निष्टोमे परिहृतासु वसतीवरीष्वध्वर्युरन्नहोमान्जुहोति
तेषामुक्तं ब्राह्मणं प्राणाय स्वाहापानाय स्वाहेति द्वादशभिरनुवाकैर्द्वादश
मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै
सर्वस्यावरुद्ध्यै

१३.५.१.[५]

एकविंशं मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः
स्वेनैवैनं स्तोमेन स्वायां देवतायां प्रतिष्ठापयति तस्मादेकविंशम्

१३.५.१.[६]

यद्वेवैकविंशम् एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या
आत्मैकविंशस्तदनेनैकविंशेनात्मनैतस्मिन्नेकविंशे प्रतिष्ठायां प्रतितिष्ठति
तस्मादेकविंशम्

१३.५.१.[७]

यद्वेवैकविंशम् एकविंशो वै स्तोमानां प्रतिष्ठा बहु खलु वा
एतदेतस्मिन्नहन्युच्चावचमिव कर्म क्रियते तद्यदेतदेतस्मिन्नहन्युच्चावचम्
बहु कर्म क्रियते तदेतस्मिन्नेकविंशे प्रतिष्ठायां प्रतिष्ठितं क्रियाता इति
तस्माद्वेवैतदेकविंशमहः

१३.५.१.[८]

तस्य प्रातःसवनम् अग्निं तं मन्ये यो वसुरिति होता पाङ्क्तमाज्यं
शस्त्वैकाहिकमुपसंशंसति बार्हतं च प्रौगं माधुच्छन्दसं च त्रिचश उभे
संशंसति यश्च बार्हते प्रौगे कामो य उ च माधुच्छन्दसे तयोरुभयोः
कामयोराप्त्यै कॢप्तं प्रातःसवनम्

१३.५.१.[९]

अथातो माध्यन्दिनं सवनं अतिच्छन्दाः प्रतिपन्मरुत्वतीयस्य त्रिकद्रुकेषु
महिषो यवाशिरमित्यतिष्ठा वा एषा च्छन्दसां यदतिच्छन्दा अतिष्ठा अश्वमेधो
यज्ञानामश्वमेधस्यैवाप्त्यै सैषैव त्रिः शस्ता त्रिचः सम्पद्यते तेनो तं
काममाप्नोति यस्त्रिच इदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातान इत्था
हि सोम इन्मदेऽवितासि सुन्वतो वृक्तबर्हिष इति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके
निविदं दधातीति मरुत्वतीयम्

१३.५.१.[१०]

अथातो निष्केवल्यम् महानाम्न्यः पृष्ठं भवन्ति सानुरूपाः सप्रगाथाः शंसति
सर्वे वै कामा महानाम्नीषु सर्वे कामा अश्वमेधे सर्वेषां कामानामाप्त्याइन्द्रो
मदाय वावृधे प्रेदं ब्रह्म वृत्रतूर्येष्वाविथे ति पङ्क्तीश्च ष+पदाश्च
शस्त्वैकाहिके निविदं दधाति कॢप्तं माध्यन्दिनं सवनम्

१३.५.१.[११]

अथातस्तृतीयसवनम् अतिच्छन्दा एव प्रतिपद्वैश्वदेवस्याभित्यं देवं
सवितारमोण्योरिति तस्या एतदेव ब्राह्मणं यत्पूर्वस्या अभित्वा देव
सवितरित्यनुचरोऽभिवान्भिभूत्यै रूपमुदु ष्य देवः सविता दमूना इति सावित्रं
शस्त्वैकाहिके निविदं दधाति मही द्यावापृथिवीइह ज्येष्थे इति चतुर्ऋचं
द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधात्यृभुर्विभ्वा वाज इन्द्रो नो
अच्छेत्यार्भवं शस्त्वैकाहिके निविदं दधाति को नु वां मित्रावरुणावृतायन्निति
वैश्वदेवं शस्त्वैकाहिके निविदं दधातीति वैश्वदेवम्

१३.५.१.[१२]

अथात आग्निमारुतम् मूर्धानं दिवो अरतिं पृथिव्या इति वैश्वानरीयं शस्त्वैकाहिके
निविदं दधात्या रुद्रास इन्द्रवन्तः सजोषस इति मारुतं शस्त्वैकाहिके निविदं
दधातीममूषु वो अतिथिमुषर्बुधमिति नवर्चं जातवेदसीयं शस्त्वैकाहिके
निविदं दधाति तद्यदैकाहिकानि निविद्धानानि भवन्ति प्रतिष्ठा वै ज्योतिष्तोमः
प्रतिष्ठाया अप्रच्युत्यै

१३.५.१.[१३]

तस्यैते पशवो भवन्ति अश्वस्तूपरो गोमृग इति पञ्चदश पर्यङ्ग्यास्तेषामुक्तम्
ब्राह्मणमथैत आरण्या वसन्ताय कपिञ्जलानालभते ग्रीष्माय
कलविङ्कान्वर्षाभ्यस्तित्तिरीनिति तेषाम्वेवोक्तम्

१३.५.१.[१४]

अथैतानेकविंशतये चातुर्मास्यदेवताभ्य एक्विंशतिमेकविंशतिं पशूनालभत
एतावन्तो वै सर्वे देवा यावत्यश्चातुर्मास्यदेवताः सर्वे कामा अश्वमेधे
सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति न तथा कुर्यात्

१३.५.१.[१५]

सप्तदशैव पशून्मध्यमे यूप आलभेत् प्रजापतिः सप्तदशः सर्वं सप्तदशः
सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै षोडश षोडशेतरेषु
षोडश्कलं वा इदं सर्वं सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै
त्रयोदश त्रयोदशारण्यानाकाशेष्वालभते त्रयोदश मासाः सम्वत्सरः सर्वं
सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै

१३.५.१.[१६]

अथ पुरा बहिष्पवमानात् अश्वं निक्त्वोदानयन्ति तेन पावमानाय सर्पन्ति
तस्योक्तं ब्राह्मणं स्तुते बहिष्पवमानेऽश्वमास्तावमाक्रमयन्ति स यद्यव वा
जिघ्रेद्वि वा वर्तेत् समृद्धो मे यज्ञ इति ह विद्यात्तमुपाकृत्याध्वर्युराह
होतरभिष्टुहीति तमेकादशभिर्होताभिष्टौति

१३.५.१.[१७]

यदक्रन्दः प्रथमं जायमान इति त्रिः प्रथमया त्रिरुत्तमया ताः पञ्चदश
सम्पद्यन्ते पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः
पुरस्तात्पाप्मां वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते
तद्वै यजमानायैव वज्रः प्रदीयते योऽस्य स्तृत्यस्तं स्तर्तव उप प्रागाच्छसनम्
वाज्यर्वोप प्रागात्परमंयत्सधस्थमिति

१३.५.१.[१८]

एते उद्धृत्य मा नो मित्रो वरुणो अर्यमायुरित्येतत्सूक्तमध्रिगावावपति
चतुस्त्रिंशद्वाजिनो देवबन्धोरित्यु हैक एतां वङ्क्रीणां पुरस्ताद्दधति
नेदनायतने प्रणवं दधामेत्यथो नेदेकवचनेन बहुवचनं व्यवायामेति
न तथा कुर्यात्सार्धमेष सूक्तमावपेदुप प्रागाच्छसनं वाज्यर्वोप
प्रागात्परमंयत्सधस्थमिति

१३.५.२.[१]

एतेउक्त्वा यदध्रिगोः परिशिष्टं भवति तदाह वासोऽधिवासं
हिरण्यमित्यश्वायोपस्तृणन्ति तस्मिन्नेनमधि सञ्ज्ञपयन्ति सञ्ज्ञप्तेषु पशुषु
पत्न्यः पान्नेजनैरुदायन्ति चतस्रश्च जायाः कुमारी पञ्चमी चत्वारि च
शतान्यनुचरीणाम्

१३.५.२.[२]

निष्थितेषु पान्नेजनेषु महिषीमश्वायोपनिपादयन्त्यथैनावधिवासेन
सम्प्रोर्णुवन्ति स्वर्गेलोके प्रोर्णुवथामित्येष वै स्वर्गो लोको यत्र पशुं
सञ्ज्ञपयन्ति निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो
दधात्विति मिथुनस्यैव सर्वत्वाय

१३.५.२.[३]

तयोः शयानयोः अश्वं यजमानोऽभिमेथत्युत्सक्थ्या अव गुदं धेहीति तं न
कश्चन प्रत्यभिमेथति नेद्यजमानं प्रतिप्रतिः कश्चिदसदिति

१३.५.२.[४]

अथाध्वर्युः कुमारीमभिमेथति कुमारि हयेहये कुमारि यकासकौ शकुन्तिकेति
तं कुमारी प्रत्यभिमेथत्यध्वर्यो हयेहयेऽध्वर्यो यकोऽसकौ शकुन्तक इति

१३.५.२.[५]

अथ ब्रह्मा महिषीमभिमेथति महिषि हयेहये महिषि माता च ते पिता च
तेऽग्रं वृक्षस्य रोहत इति तस्यै शतं राजपुत्र्योऽनुचर्यो भवन्ति ता ब्रह्माणम्
प्रत्यभिमेथन्ति ब्रह्मन्हयेहये ब्रह्मन्माता च ते पिता च तेऽग्रे वृक्षस्य
क्रीडत इति

१३.५.२.[६]

अथोद्गाता वावातामभिमेथति वावाते हयेहये वावात ऊर्ध्वामेनामुच्रापयेति
त्!स्यै शतं राजन्या अनुचर्यो भवन्ति ता उद्गातारम्
प्रत्यभिमेथन्त्युद्गातर्हयेहय उद्गातरूध्वर्मेनमुच्रयतादिति

१३.५.२.[७]
अथ होता परिवृक्तामभिमेथति परिवृक्ते हयेहये परिवृक्ते यदस्या अंहुभेद्या
इति तस्यै शतं सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारम्
प्रत्यभिमेथन्ति होतर्हयेहये होतर्यद्देवासो ललामगुमिति

१३.५.२.[८]

अथ क्षत्ता पालागलीमभिमेथति पालागलि हयेहये पालागलि यद्धरिणो यवमत्ति
न पुष्टं पशु मन्यत इति तस्यै शतं क्षात्रसङ्ग्रहीतॄणां दुहितरोऽनुचर्यो
भवन्ति ताः क्षत्तारं प्रत्यभिमेथन्ति क्षत्तर्हयेहये क्षत्तर्यद्धरिणो
यवमत्ति न पुष्टं बहु मन्यत इति

१३.५.२.[९]

सर्वाप्तिर्वाएषा वाचः यदभिमेथिकाः सर्वे कामा अश्वमेधे सर्वया वाचा
सर्वान्कामानाप्नवामेत्युत्थापयन्ति महिषीं ततस्ता यथेतम्
प्रतिप्!रायन्त्यथेतरे सुरभिमतीमृचमन्ततोऽन्वाहुर्दधिक्राव्णोअकारिषमिति

१३.५.२.[१०]

अप वा एतेभ्य आयुर्देवताः क्रामन्ति ये यज्ञेपूतां वा चं वदन्ति
वाचमेवैतत्पुनते देवयज्यायै देवतानामनपक्रमाय या च गोमृगे वपा भवति
या चाजेतूपरे ते अश्वे प्रत्यवधायाहरन्ति नाश्वस्य वपास्तीति वदन्तो न तथा
कुर्यादश्वस्यैव प्रत्यक्षं मेद आहरेत्प्रज्ञाता इतराः

१३.५.२.[११]

शृतासु वपासु स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि ब्रह्मोद्यम्
वदन्ति पूर्वया द्वारा प्रपद्य यथाधिष्ण्यं व्युपविशन्ति

१३.५.२.[१२]

स होताध्वर्युं पृच्छति कः स्विदेकाकी चरतीति तं प्रत्याह सूर्य एकाकी चरतीति

१३.५.२.[१३]

अथाध्वर्युर्होतारं पृच्छति किं स्वित्सूर्यसमं ज्योतिरिति तं प्रत्याह ब्रह्म
सूर्यसमं ज्योतिरिति

१३.५.२.[१४]

अथ ब्रह्मोद्गातारं पृच्छति पृच्छामि त्वा चितये देवसखेति तं प्रत्याहापि तेषु
त्रिषु पदेष्वस्मीति

१३.५.२.[१५]

अथोद्गाता ब्रह्माणं पृच्छति केष्वन्तः पुरुष आविवेशेति तं प्रत्याह पञ्चस्वन्तः
पुरुष आविवेशेति

१३.५.२.[१६]

एतस्यामुक्तायामुत्थाय स्!दसोऽधि प्राञ्चो यजमानमभ्यायन्त्यग्रेण हविर्धाने
आसीनमेत्य यथायतनं पर्युपविशन्ति

१३.५.२.[१७]

स होताध्वर्युं पृच्छति का स्विदासीत्पूर्वचित्तिरिति तं प्रत्याह द्यौरासीत्पूर्वचित्तिरिति

१३.५.२.[१८]

अथाध्वर्युर्होतारं पृच्छति क ईमरे पिशङ्गिलेति तं प्रत्याहाजारे पिशञ्गिलेति

१३.५.२.[१९]

अथ ब्रह्मोद्गातारं पृच्छति कत्यस्य विष्ठाः कत्यक्षराणीति तं प्रत्याह षडस्य
विष्थाः शतमक्षराणीति

१३.५.२.[२०]

अथोद्गाता ब्रह्माणं पृच्छति को अस्य वेद भुवनस्य नाभिमिति तं प्रत्याह
वेदाहमस्य भुवनस्य नाभिमिति

१३.५.२.[२१]

अथाध्वर्युं यजमानः पृच्छति पृच्छामि त्वा परमन्तं पृथिव्या इति तम्
प्रत्याहेयं वेदिः परो अन्तः पृथिव्या इति

१३.५.२.[२२]

सर्वाप्तिर्वा एषा वाचः यद्ब्रह्मोद्यं सर्वे कामा अश्वमेधे सर्वया वाचा
सर्वान्कामानाप्नवामेति
१३.५.२.[२३]

उदिते ब्रह्मोद्ये प्रपद्याध्वर्युर्हिरण्मयेने पात्रेण प्राजापत्यं महिमानं
ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या
सुभूः स्वयम्भूः प्रथम इति होता यक्षत्प्रजापतिमिति प्रैषः प्रजापते न
त्वदेतान्यन्य इति होता यजति वषट्कृते जुहोति यस्तेऽहन्त्सम्वत्सरे महिमा
सम्बभूवेति नानुवषट्करोति सर्वहुतं हि जुहोति ३०५०१०१ थातो वपानां होमः
नानैव चरेयुरा वैश्वदेवस्य वपायै वैश्वदेवस्य वपायां हुतायां
तदन्वितराजुहुयुरिति ह स्माह सत्यकामो जाबालो विश्वे वै सर्वे
देवास्तदेनान्यथादेवतं प्रीणातीति

१३.५.३.[१]

ऐन्द्राग्नस्य वदायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माहतुः सौमापौ
मानुतन्तव्याविन्द्राग्नी वै सर्वे देवास्तदेवैनान्यथादेवतं प्रीणातीति

१३.५.३.[२]

कायस्य वपायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माह इनान्यथादेवतम्
प्रीणातीति शैलालिः प्रजापतिर्वै कः प्रजापतिमु वा अनु सर्वे
देवास्तदेवैनान्यथादेवतं प्रीणातीति

१३.५.३.[३]

एकविंशतिं चातुर्मास्यदेवता अनुहुत्य एक्विंशतिधा कृत्वा प्रचरेयुरिति ह स्माह
भाल्लबेय एतावन्तो वै सर्वे देवायावत्यश्चातुर्मास्यदेवतास्तदेवैनान्यथादेवतम्
प्रीणातीति

१३.५.३.[४]

नानैव चरेयुः इतीन्द्रोतः शौनकः किमुत त्वरेरंस्तदेवैनान्यथादेवतम्
प्रीणातीत्येतदह तेषां वचोऽन्या त्वेवात स्थितिः

१३.५.३.[५]

अथ होवाच याज्ञवल्क्यः सकृदेव प्राजापत्याभिः प्रचरेयुः
सकृद्देवदेवत्याभिस्तदेवैनान्यथादेवतं प्रीणात्यञ्जसा यज्ञस्य संस्थामुपैति
न ह्वलतीति

१३.५.३.[६]

हुतासु वपासु प्रपद्याध्वर्यू रजतेन पात्रेण प्राजापत्यं महिमानमुत्तरं
ग्रहं गृह्णाति तस्य पुरोरुग्यः प्राणतो निमिषतो महित्वेति विपर्यस्ते याज्यानुवाक्ये
अयातयामताया एष एव प्रैषो वषट्कृते जुहोति यस्ते रात्रौ सम्वत्सरे महिमा
सम्बभूवेति नानुवषट्करोति तस्योक्तं ब्राह्मणम्

१३.५.३.[७]

नान्येषां पशूनां तेदन्या अवद्यन्ति अवद्यन्त्यश्वस्य दक्षिणतोऽन्येषाम्
पशूनामवद्यन्त्युत्तरतोऽश्वस्य प्लक्षशाखास्वन्येषां पशूनामवद्यन्ति
वेतसशाखास्वश्वस्य

१३.५.३.[८]

तदु होवाच सात्ययज्ञिः इतरथैव कुर्युः पथ एव नापोदित्यमिति पूर्वा त्वेव
स्थितिरुक्थ्यो यज्ञस्तेनान्तरिक्षलोकमृध्नोति सर्वस्तोमोऽतिरात्र
उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्तै
सर्वस्यावरुद्ध्यै

१३.५.३.[९]

तस्य त्रिवृद्बहिष्पवमानम् पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान
एकविंशानि पृष्थानि त्रिणवस्तृतीयः
पवमानस्त्रयस्त्रिंशमग्निष्टोमसामैकविंशान्युक्थान्येकविंशः षोडशी
पञ्चदशी रात्रिस्त्रिवृत्सन्धिर्यद्द्वितीयस्याह्नः पृष्ठ्यस्य षडहस्य
तच्छस्त्रमतिरात्रो यज्ञस्तेनामुं लोकमृध्नोति

१३.५.३.[१०]

एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानंकर्मेत्यु हैक
आहुश्चतुर्विंशतिं त्वेवैतान्गव्यानालभेत् द्वादशभ्यो देवताभ्यो द्वादश मासाः
सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै

१३.५.४.[१]

एतेन हेन्द्रोतो दैवापः शौनकः जनमेजयं पारिक्षितं याजयां चकार
तेनेष्ट्वा सर्वां पापकृत्यां सर्वां ब्रह्महत्यामपजघान सर्वां ह वै
पापकृत्यां सर्वां ब्रह्महत्यामपहन्ति योऽश्वमेधेन यजते

१३.५.४.[२]

तदेतद्गाथयाभिगीतम् आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्
अबध्नादश्वं सारङ्गं देवेभ्यो जनमेजय इति
१३.५.४.[३]

एते एव पूर्वे अहनी ज्योतिरतिरात्रस्तेन भीमसेनमेते एव पूर्वे अहनी
गौरतिरात्रस्तेनोग्रसेनमेते एव पूर्वे अहनी आयुरतिरात्रस्तेन श्रुतसेनमित्येते
पारिक्षितीयास्तदेतद्गाथयाभिगीतं पारिक्षिता यजमाना अश्वमेधैः परोऽवरम्
अजहुः कर्म पापकं पुण्याः पुण्येन कर्मणेति

१३.५.४.[४]

एते एव पूर्वे अहनी अभिजिदतिरात्रस्तेन ह पर आट्णार ईजे कौसल्यो राजा
तदेतद्गाथयाभिगीतमट्णारस्य परः पुत्रोऽश्वं मेध्यमबन्धयत्
हैरण्यनाभः कौसल्यो दिशः पूर्णा अमंहतेति

१३.५.४.[५]

एते एव पूर्वे अहनी विश्वजिदतिरात्रस्तेन ह पुरुकुत्सो दौर्गहेणेज ऐक्ष्वाको राजा
तस्मादेतदृषिणाभ्यनूक्तमस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे
बध्यमान इति

१३.५.४.[६]

एते एव पूर्वे अहनी महाव्रतमतिरात्रस्तेन ह मरुत्त आविक्षित ईज आयोगवो राजा
तस्य ह ततो मरुतः परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो
बभूवुस्तदेतद्गाथयाभिगीतं मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्याग्निः क्षत्ता विश्वे देवाः सभासद इति मरुतो ह वै तस्य
परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो भवन्ति योऽश्वमेधेन यजते

१३.५.४.[७]

एते एव पूर्वे अहनी अप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैव्यईजे पाञ्चालो राजा क्रिवय इति
ह वै पुरा पञ्चालानाचक्षते तदेतद्गाथयाभिगीतमश्वं मेध्यमालभत
क्रिवीणामतिपूरुषः पाञ्चालः परिवक्रायां सहस्रशतदक्षिणमिति

१३.५.४.[८]

अथ द्वितीयया सहस्रमासन्नयुता शता च पञ्चविंशतिः दिक्तोदिक्तः पञ्चालानाम्
ब्राह्मणा या विभेजिर इति

१३.५.४.[९]

त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदशं तृतीयमहः सोक्थकमेकविंशः
षोडशी पञ्च्=दशी रात्रिस्त्रिवृत्सन्धिरित्येषोऽनुष्टुप्सम्पन्नस्तेन हैतेन ध्वसा
द्वैतवनईजे मात्स्यो राजा यत्रैतद्द्वैतवनं सरस्तदेतद्गाथयाभिगीतं
चतुर्दश द्वैतवनो राजा सङ्ग्रामजिद्धयानिन्द्राय
वृत्रघ्नेऽबध्नात्तस्माद्द्वैतवनं सर इति

१३.५.४.[१०]

चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना
एकविंशमभ्यावर्तमष्टाचत्वारिंशाः
पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामाद्द्यात्रिंशान्युक्थान्येकविंशः
षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिरिति

१३.५.४.[११]

एतद्विष्णोः क्रान्तम् तेन हैतेन भरतो दौःषन्तिरीजे तेनेष्ट्वेमां व्यष्टिम्
व्यानशे येयं भरतानां तदेतद्गाथयाभिगीतमष्टासप्ततिं भरतो
दौषन्तिर्यमुनामनु गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयानिति

१३.५.४.[१२]

अथ द्वितीयया त्रयस्त्रिंशं शतं राजाश्वान्बद्ध्वाय मेध्यान्
सौद्युम्निरत्यष्ठादन्यानमायान्मायवत्तर इति

१३.५.४.[१३]

अथ तृतीयया शकुन्तला नाडपित्यप्सरा भरतं दधे
परःसहस्रानिन्द्रायाश्वान्मेधान्य आहरद्विजित्य पृथिवीं सर्वामिति

१३.५.४.[१४]

अथ चतुर्थ्या महदद्य भरतस्य न पूर्वे नापरे जनाः दिवं मर्त्यैव
बाहुभ्यां नोदापुः पञ्च मानवा इति

१३.५.४.[१५]

एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे श्विक्नानां राजा तदेतद्गाथयाभिगीतं
याज्ञतुरे यजमाने ब्रह्माण ऋषभे जना अश्वमेधे धनं लब्ध्वा विभजन्ते
स्म दक्षिणा इति

१३.५.४.[१६]

त्रयस्त्रिंशस्तोमेन शोणः सात्रासाह ईजे पाञ्चालो राजा तदेतद्गाथयाभिगीतं
सात्रासहे
यजमानेऽश्वमेधेन तौर्वशाः उदीरते त्रयस्त्रिंशाः षट्सहस्राणि वर्मिणामिति

१३.५.४.[१७]

अथ द्वितीयया षट्षट्षड्गा सहस्राणि यज्ञे कोकपितुस्तव उदीरते त्रयस्त्रिंशाः
षट्सहस्राणि वर्मिणामिति

१३.५.४.[१८]

अथ तृतीयया सात्रासहे यजमाने पाञ्चाले राज्ञि सुस्रजि अमाद्यदिन्द्रः
सोमेनातृप्यन्ब्राह्मणा धनैरिति

१३.५.४.[१९]

गोविनतेन शतानीकः सात्राजित ईजे काश्यस्याश्वमादाय ततो
हैतर्दवाक्काशयोऽग्नीन्नादधत आत्तसोमपीथाः स्म इति वदन्तः

१३.५.४.[२०]

तस्य विधा चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना
एक्विंशान्याज्यानि त्रिणवान्युक्थान्येकविंशानि पृष्ठानि षट्त्रिंशाः
पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः
षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

१३.५.४.[२१]

तदेतद्गाथयाभिगीतम् शतानीकः समन्तासु मेध्यं सात्राजितो हयमादत्त
यज्ञं काशीनां भरतः सत्वतामिवेति

१३.५.४.[२२]

अथ द्वितीयया श्वेतं समन्तासु वशं चरन्तं शतानीको ध्रृतराष्ट्रस्य मेध्यम्
आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन हेज इति

१३.५.४.[२३]

अथ चतुर्थ्या महदद्य भरतानां न पूर्वे नापरे जनाः दिवं मर्त्यैव
पक्षाभ्यां नोदापुः सप्तमा नवा इति
१३.५.४.[२४]

अथातो दक्षिणानाम् मध्यं प्रति राष्ट्रस्य यदन्यद्भूमेश्च पुरुषेभ्यश्च
ब्राह्मणस्य च वित्तात्प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः
प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः

१३.५.४.[२५]

उदयनीयायां सम्स्थितायाम् एकविंशतिं वशा अनूबन्ध्या आलभते
मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्यान्त्या
भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति

१३.५.४.[२६]

अथ यदेकविंशतिर्भवन्ति एकविंशो वा एष य एष तपति द्वादश मासाः
पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम्

१३.५.४.[२७]

उदवसानीयायां संस्थितायाम् चतस्रश्च जायाः कुमारीं पञ्चमीं चत्वारि च
शतान्यनुचरीणां यथासमुदितं दक्षिणां ददति

१३.५.४.[२८]

अथोत्तरं सम्वत्सरमृतुपशुभिर्यजते षड्भिराग्नेयैर्वसन्ते
षड्भिरैन्द्रैर्ग्रीष्मे षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु
षड्भिर्मैत्रावरुणैः शरदि षड्भिरैन्द्रावैष्णवैर्हेमन्ते
षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे षडृतवः सम्वत्सरः ऋतुष्वेव सम्वत्सरे
प्रतितिष्ठति षट्त्रिंशदेते पशवो भवन्ति षट्त्रिंशदक्षरा बृहती बृहत्यामधि
स्वर्गो लोकः प्रतिष्ठितस्तद्वन्ततो बृहत्यैव च्छन्दसा स्वर्गे लोके प्रतितिष्ठति

१३.६.१.[१]

पुरुषो ह नारायणोऽकामयत अतितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं
स्यामिति स एतं पुरुषमेधं पञ्चरात्रम्
यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्यतिष्ठत्सर्वाणि भूतानीदं
सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवम्
विद्वान्पुरुषमेधेन यजते यो वैतदेवं वेद

१३.६.१.[२]

तस्य त्रयोविंशतिर्दीक्षाः द्वादशोपसदः पञ्च सुत्याः स एष चत्वारिंशद्रात्रः
सदीक्षोपसत्कश्चत्वारिंशदक्षरा विराट्तद्विराजमभिसम्पद्यते ततो विराडजायत
विराजो अधि पूरुष इत्येषा वै सा विराडेतस्या एवैतद्विराजो यज्ञं पुरुषं जनयति

१३.६.१.[३]

ता वा एताः चतस्रो दशतो भवन्ति तद्यदेताश्चतस्रो दशतो भवन्त्येषां चैव
लोकानामाप्त्ये दिशां चेममेव लोकं प्रथमया दशताप्नुवन्नन्तरिक्षं
द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्या तथैवैतद्यजमान इममेव लोकम्
प्रथमया दशताप्नोत्यन्तरिक्षं द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्यैतावद्वा
इदं सर्वं यावादिमे च लोका दिशश्च सर्वं पुरुषमेधः सर्वस्याप्त्यै
स्!र्वस्यावरुद्ध्यै

१३.६.१.[४]

एकादशाग्निषोमीयाः पशव उपवसथे तेषां समानं कर्मैकादश यूपा
एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः
पुरस्तात्पाप्मानमपहते

१३.६.१.[५]

एकादशिनाः सुत्यासु पशवो भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं
त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते

१३.६.१.[६]

यद्वेवैकादशिना भवन्ति एकादशिनी वा इदं सर्वं प्रजापतिर्ह्येकादशिनी सर्वं
हि प्रजापतिः सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.६.१.[७]

स वा एष पुरुषमेधः पञ्चरात्रो यज्ञक्रतुर्भवति पाङ्क्तो यज्ञः पाङ्क्तः
पशुः पञ्चर्तवः सम्वत्सरो यत्किं च पञ्चविधमधिदेवतमध्यात्मं
तदेनेन सर्वमाप्नोति

१३.६.१.[८]

तस्याग्निष्टोमः प्रथममहर्भवति अथोक्थ्योऽथातिरात्रोऽथोक्थ्योऽथाग्निष्टोमः
स वा एष उभयतोज्योतिरुभयतौक्थ्यः

१३.६.१.[९]

यवमध्यः पञ्चरात्रो भवति इमे वै लोकाः पुरुषमेध उभयतोज्योतिषो वा
इमे लोका अग्निनेत आदित्येनामुतस्तस्मादुभयतोज्योतिरन्नमुक्थ्य
आत्मातिरात्रस्तद्यदेता उक्थ्यावतिरात्रमभितो भवतस्तस्मादयमात्मान्नेन
परिवृढोऽथ यदेष वर्षिष्टोऽतिरात्रोऽह्नां स मध्ये तस्माद्यवमध्यो युते ह
वै द्विषन्तं भ्रात्रृव्यमयमेवास्ति नास्य द्विषन्भ्रातृव्य इत्याहुर्य एवं वेद

१३.६.१.[१०]

तस्यास्यमेव लोकः प्रथममहः अयमस्य लोको वसन्त
ऋतुर्यदूर्ध्वमस्माल्लोकादर्वाचीनमन्तरिक्षात्तद्द्वितीयमहस्तद्वस्याग्रीष्म
ऋतुरन्तरिक्षमेवास्य मध्यममहरन्तरिक्षमस्य वर्षाशरदावृतू
यदूर्ध्वम्न्तरिक्षादर्वाचीनं दिवस्तच्चतुर्थमहस्तद्वस्य हेमन्त
ऋतुर्द्यौरेवास्य पञ्चममहर्द्यौरस्य शिशिर ऋतुरित्यधिदेवतम्

१३.६.१.[११]

अथाध्यात्मम् प्रतिष्थैवास्य प्रथममहः प्रतिष्ठो अस्य वसन्त
ऋतुर्यदूर्ध्वं प्रतिष्ठाया अवाचीनं मद्ध्यात्तद्द्वितीयमहस्तद्वस्य ग्रीष्म
ऋतुर्मध्यमेवास्य मध्यममहर्मध्यमस्य वर्षाशरदावृतू यदूर्ध्वम्
मध्यादवाचीनं शीर्ष्णस्तच्चतुर्थमहस्तद्वस्य हेमन्त ऋतुः शिर एवास्य
पञ्चममहः शिरोऽस्य शिशिर ऋतुरेवमिमे च लोका सम्वत्सरश्चात्मा च
पुरुषमेधमभिसम्पद्यन्ते सर्वं वा इमे लोकाः सर्वं सम्वत्सरः
सर्वमात्मा सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.६.२.[१]

अथ यस्मात्पुरुषमेधो नाम इमे वै लोकाः पूरयमेव पुरुषो योऽयं पवते
सोऽस्यां पुरि शेते तस्मात्पुरुषस्तस्य यदेषु लोकेष्वन्नं तदस्यान्नम्
मेधस्तद्यदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधोऽथो
यदस्मिन्मेध्यान्पुरुषानालभते तस्माद्वेव पुरुषमेधः

१३.६.२.[२]

तान्वै मध्यमेऽहन्नालभते अन्तरिक्षं वै मध्यममहरन्तरिक्षमु वै
सर्वेषां भूतानामायतनमथो अन्नं वा एते पशव उदरम्
मध्यममहरुदरे तदन्नं दधाति

१३.६.२.[३]

तान्वै दशदशालभते दशाक्षरा विराड्विराडु कृत्स्नमन्नं
कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै

१३.६.२.[४]
एकादश दशत आलभते एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं
त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते

१३.६.२.[५]

अष्टाचत्वारिंशतं मध्यमे यूप आलभते अष्टाचत्वारिंशदक्षरा जगती जागताः
पशवो जगत्यैवास्मै पशूनवरुन्द्धे

१३.६.२.[६]

एकादशैकादशेतरेषु एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं
त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते

१३.६.२.[७]

अष्टा उत्तमानालभते अष्टाक्षरा गायत्री ब्रह्म गायत्री तद्ब्रह्मैवैतदस्य
सर्वस्योत्तमं करोति तस्माद्ब्रह्मास्य सर्वस्योत्तममित्याहुः

१३.६.२.[८]

ते वै प्राजापत्या भवन्ति ब्रह्म वै प्रजापतिर्ब्राह्मो हि
प्रजापतिस्तस्मात्प्राजापत्या भवन्ति

१३.६.२.[९]

स वै पशूनुपाकरिष्यन् एतास्तिस्रः सावित्रीराहुतीर्जुहोति देव
सवितस्तत्सवितुर्वरेण्यं विश्वानि देव सवितरिति सवितारं प्रीणाति सोऽस्मै प्रीत
एतान्पुरुषान्प्रसौति तेन प्रसूतानालभते

१३.६.२.[१०]

ब्रह्मणे ब्राह्मणमालभते ब्रह्म वै ब्राह्मणो ब्रह्मेव तद्ब्रह्मणा
समर्धयति क्षत्राय राजन्यं क्षत्रं वै राजन्यः क्षत्रमेव तत्क्षत्रेण
समर्धयति मरुद्भ्यो वैश्यम्ं विशो वै मरुतो विशमेव तद्विशा समर्धयति
तपसे शूद्रं तपो वै शूद्रस्तप एव तत्तपसा समर्धयत्येवमेता देवता
यथारूपं पशुभिः समर्धयति ता एनं समृद्धाः समर्धयन्ति सर्वैः कामैः

१३.६.२.[११]

आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै
देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति त एनं
समृद्धाः समर्धयन्ति सर्वैः कामैः

१३.६.२.[१२]

नियुक्तान्पुरुषान् ब्रह्मा दक्षिणतः पुरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा
पुरुषः सहस्राक्षः सहस्रपादित्येतेन षोडशर्चेन षोडशकलं वा इदं सर्वं
सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या
इत्थमसीत्थमसीत्युपस्तौत्येवैनमेतन्महयत्येवाथो यथैष
तथैनमेतदाह तत्पर्यग्निकृताः पशवो बभूवुरसञ्ज्ञप्ताः

१३.६.२.[१३]

अथ हैनं वागभ्युवाद पुरुष मा सन्तिष्ठिपो यदि संस्थापयिष्यसि पुरुष
एव पुरुषमत्स्यतीति तान्पर्यग्निकृतानेवोदसृजत्तद्देवत्या आहुतीरजुहोत्ताभिस्ता
देवता अप्रीणात्ता एनं प्रीता अप्रीणन्त्सर्वैः कामैः

१३.६.२.[१४]

आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधाति

१३.६.२.[१५]

एकादशिनैः संस्थापयति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं
त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते

१३.६.२.[१६]

उदयनीयायां संस्थितायाम् एकादश वशा अनूबन्ध्या आलभते
मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्या
अन्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति

१३.६.२.[१७]

अथ वदेकादश भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं
त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते
त्रैधातव्युदवसानीयासावेव बन्धुः

१३.६.२.[१८]

अथातो दक्षिणानाम् मध्यं प्रति राष्ट्रस्य यदन्यद्भूमेश्च ब्राह्मणस्य च
वित्तात्सत्पुरुषं प्राची दिग्घोर्तुदक्षिणा ब्रह्मणः
प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः

१३.६.२.[१९]

अथ यदि ब्राह्मणो यजेत् सर्ववेदसं दद्यात्सर्वं वै ब्राह्मणः सर्वं
सर्ववेदसं सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.६.२.[२०]

अथात्मन्नग्नी समारोह्य
उत्तरनारायणेनादित्यमुदस्थायानपेक्षमाणोऽरण्यमभिप्रेयात्तदेव
मनुष्येभ्यस्तिरो भवति यद्यु ग्रामे विवत्सेदरण्योरग्नी
समारोह्योत्तरनारायणेनैवादित्यमुपस्थाय गृहेषु प्रत्यवस्येदथ
तान्यज्ञक्रतूनाहरेत यानभ्याप्नुयात्स वा एष न सर्वस्मा अनुवक्तव्यः सर्वं हि
पुरुषमेधो नेत्सर्वस्माऽइव सर्वं ब्रवाणीति यो न्वेव ज्ञातस्तस्मै ब्रूयादथ
योऽनूचानोऽथ योऽस्य प्रियः स्यान्नैत्त्वेव सर्वस्मा इव

१३.७.१.[१]

ब्रह्म वै स्वयम्भु तपोऽतप्यत तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहम्
भूतेष्वात्मानं जुहवानि भूतानि चात्त्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा
भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यम्
पर्यैत्तथैवैतद्यजमानः सर्वमेधे सर्वान्मेधान्हुत्वा सर्वाणि भूतानि
श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति

१३.७.१.[२]

स वा एष सर्वमेधो दशरात्रो यज्ञक्रतुर्भवति दशाक्षरा विराड्विराडु
कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै तस्मिन्नग्निं परार्ध्यं चिनोति
परमो वा एष यज्ञक्रतूनां यत्सर्वमेधः परमेणैवैनं परमतां गमयति

१३.७.१.[३]

तस्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति अग्निर्वा
अग्निष्टुदग्निष्टोमोऽग्निमुखा उ वै सर्वे देवाः सर्वेषां देवानामाप्त्यै तस्याग्नेया
ग्रहा भवन्त्यग्निय्यः पुरोरुचः सर्वमाग्नेयमसदिति

१३.७.१.[४]

इन्द्रस्तुदुक्थ्यो द्वितीयमहर्भवति इन्द्रो वै सर्वे देवाः सर्वेषां
देवानामाप्त्यै तस्यैन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसदिति
१३.७.१.[५]

सूर्यस्तुदुक्थ्यस्तृतीयमहर्भवति सूर्यो वै सर्वे देवाः सर्वेषां देवानामाप्त्यै
सौर्या ग्रहा भवन्ति सौर्य्यः पुरोरुचः सर्वं सौर्यमसदिति

१३.७.१.[६]

वैश्वदेवश्चतुर्थमहर्भवति विश्वे वै सर्वे देवाः सर्वेषां देवानामाप्त्यै
वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः परोरुचः सर्वं वैश्वदेवमसदिति

१३.७.१.[७]

आश्वमेधिकं मध्यमं पञ्चममहर्भवति तस्मिन्नश्वम्
मेध्यमालभतेऽश्वमेधस्यैवाप्त्यै

१३.७.१.[८]

पौरुषमेधिकं मध्यमं षष्ठमहर्भवति
तस्मिन्मेध्यान्पुरुषानालभते पुरुषमेधस्यैवाप्त्यै

१३.७.१.[९]

अप्तोर्यामः सप्तममहर्भवति सर्वेषां यज्ञक्रतूनामाप्त्यै
तस्मिन्त्सर्वान्मेध्यानालभते यच्च प्राणि यच्चाप्राणं वपा वपावतं जुहोति त्वच
उत्कर्तमवपाकानां सम्व्रश्चमोषधिवनस्पतीनां प्रकिरन्ति शुष्काणां
चार्द्राणां चान्नमन्नं जुहोत्यन्नस्यान्नस्याप्त्यै सर्वं जुहोति सर्वस्मै जुहोति
सर्वस्याप्त्यज्सर्वस्यावरुद्ध्यै प्रातःसवने हुतासु वपास्वेवमेव तृतीयसवने
हुतेषु हविःषु

१३.७.१.[१०]

त्रिणवमष्टममहर्भवति वज्रो वै त्रिणवो वज्रेण खलु वै क्षत्रं स्पृतं
तद्वज्रेणैव क्षत्रं स्पृणोति

१३.७.१.[११]

त्रयस्त्रिंशं नवममहर्भवति प्रतिष्ठा वै त्रवस्त्रिंशः प्रतिष्ठित्यै

१३.७.१.[१२]

विश्वजित्सर्वपृष्ठोऽतिरात्रो दशममहर्भवति सर्वं वै
विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै

१३.७.१.[१३]

अथातो दक्षिणानाम् मध्यं प्रति राष्ट्रस्य यदन्यद्ब्राह्मणस्य वित्तात्सभूमि
सपुरुषं प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव
होतृका अन्वाभक्ताः

१३.७.१.[१४]

तेन हैतेन विश्वकर्मा भौवन ईजे तेनेष्ट्वात्यतिष्ठत्सर्वाणि भूतानीदं
सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवम्
विद्वान्त्सर्वमेधेन यजते यो वैतदेवं वेद

१३.७.१.[१५]

तं ह कश्यपो याजयां चकार तदपि भूमिः श्लोकं जगौ न मा मर्त्यः कश्चन
दातुमर्हति विश्वकर्मन्भौवन मन्द आसिथ उपमञ्घ्यति स्या सलिलस्य मध्ये
मृषैष ते सङ्गरः कश्यपायेति

१३.८.१.[१]

अथास्मै कल्याणं कुर्वन्ति अथास्मै श्मशानं कुर्वन्ति गृहान्वा प्रज्ञानं वा यो
वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति तस्माच्छवान्नं शवान्नं ह वै
तच्मशानमित्याचक्षते परोक्षं श्मशा उ हैव नाम पितॄणामत्तारस्ते
हामुष्मिंलोकेऽकृतश्मशानस्य साधुकृत्यामुपदम्भयन्ति तेभ्य एतदन्नं
करोति तस्माच्मशान्नं श्मशान्नं ह वै तच्मशानमित्याचक्षते परोऽक्षम्

१३.८.१.[२]

तद्वै न क्षिप्रं कुर्यात् नेन्नवमघं करवाणीति चिर एव कुर्यादघमेव
तत्तिरः करोति यत्र समानानु चन स्मरेयुरश्रुतिमेव तदघं गमयति
यद्यनुस्मरेयुः

१३.८.१.[३]

अयुङ्गेषु सम्वत्सरेषु कुर्यात् अयुङ्गं हि पितॄणामेकनक्षत्र एकनक्षत्रं हि
पितॄणाममावास्यायाममावास्या वा एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि
भूतानि सम्वसन्ति तेनो तं काममाप्नोति यः सर्वेषु नक्षत्रेषु

१३.८.१.[४]
शरदि कुर्यात् स्वधा वै शरत्स्वधो वै पितॄणामन्नं तदेनमन्ने स्वधायां
दधाति माघे वा मा नोऽघं भूदिति निदाघे वा नि नोऽघं धीयाता इति

१३.८.१.[५]

चतुःस्रक्ति देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्धन्त ते
देवाअसुरान्त्सपत्नान्भ्रातृव्यान्दिग्भ्योऽनुदन्त तेऽदिक्काः पराभवंस्तस्माद्या
दैव्यः प्रजाश्चतुःस्रक्तीनि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये
त्वत्परिमण्डलानि तेऽनुदन्त ह्येनान्दिग्भ्य उभे दिशावन्तरेण विदधाति प्राचीं च
दक्षिणां चैतस्यां ह दिशि पितृलोकस्य द्वारं द्वारैवैनं पितृलोकं प्रपादयति
स्रक्तिभिर्दिक्षु प्रतितिष्ठतीतरेणात्मनावन्तरदिक्षु तदेनं सर्वासु दिक्षु
प्रतिष्ठापयति

१३.८.१.[६]

अथातो भूमिजोषणस्य उदीचीनप्रवणे करोत्युदीची वै मनुष्याणां दिक्तदेनम्
मनुष्यलोक आभजत्येतद्ध वै पितरो मनुष्यलोक आभक्ता भवन्ति यदेषाम्
प्रजा भवति प्रजा हास्स्य श्रेयसी भवति

१३.८.१.[७]

दक्षिणाप्रवणे कुर्यादित्याहुः दक्षिणाप्रवणो वै पितृलोकस्तदेनं पितृलोक
आभजतीति न तथा कुर्यादामीवद्ध नाम तच्मशानकरणं क्षिप्रे
हैषामपरोऽनुप्रैति

१३.८.१.[८]

दक्षिणाप्रवणस्य प्रत्यर्षे कुर्यादित्यु हैक आहुः तत्प्रत्युच्रितमघं भवतीति
नो एव त्!था कुर्याद्यद्वा उदीचीनप्रवणे करोति तदेव प्रत्युच्रितमघं भवति

१३.८.१.[९]

यस्यैव समस्य सतः दक्षिणतह्पुरस्तादाप एत्य संस्थायाप्रघ्नत्य एतां
दिशमभिनिष्पद्याक्षय्या अपोऽपिपद्येरंस्तत्कुर्यादन्नम्
वाऽआपोऽन्नाद्यमेवास्माऽएतत्पुरस्तात्प्रत्यग्दधात्यमृतमु वा आप एषो ह जीवानाम्
दिगन्तरेण सप्तर्षीणां चोदयनमादित्यस्यचास्तमयनममृतमेव तज्जीवेषु
दधाति तद्धैतत्प्रतिमीवन्नाम श्मशानकरणं जीवेभ्यो हितं यद्वाव
जीवेभ्यो हितं तत्पितृभ्यः

१३.८.१.[१०]

कम्वति कुर्यात् कं मेऽसदित्यथो शम्वति शं मेऽसदिति नाधिपथं
कुर्यान्नाकाशे नेदाविरघं करवाणीति
१३.८.१.[११]

गुहा सदवतापि स्यात् तद्यद्गुहा भवत्यघमेव तद्गुहा करोत्यथ
यदवताप्यसौ वा आदित्यः पाप्मनोऽपहन्ता स एवास्मात्पाप्मानमपहन्त्यथो
आदित्यज्योतिषमेवैनं करोति

१३.८.१.[१२]

न तस्मिन्कुर्यात् यस्येत्थादनूकाशः स्याद्याचमानं ह नाम तत्क्षिप्रे
हैषामपरोऽनुप्रैति

१३.८.१.[१३]

चित्रं पश्चात्स्यात् प्रजा वै चित्रं चित्रं हास्य प्रजा भवति यदि चित्रं न स्यादापः
पश्चाद्वोत्तरतो वा स्युरापोह्येव चित्र्!ं हैवास्य प्रजा भवति

१३.८.१.[१४]

ऊषरे करोति रेतो वा ऊषाः प्रजननं तदेनं प्रजनन आभजत्येतद्ध वै
पितरः प्रजनन आभक्ता भवन्ति यदेषां प्रजा भवति प्रजा हास्य श्रेयसी
भवति

१३.८.१.[१५]

समूले समूलं हि पितॄणां वीरिणमिश्रमेतद्धास्याः पित्र्यमनतिरिक्तमथो
अघमेव तद्बद्धृ करोति

१३.८.१.[१६]

न भूमिपाशमभिविदध्यात् न शरं नाश्मगन्धां नाध्याण्डां न पृश्निपर्णी
नाश्वत्थस्यान्तिकं कुर्यान्न विभीतकस्य न तिल्वकस्य न स्फूर्जकस्य न
हरिद्रोर्न न्यग्रोधस्य ये चान्ये पापनामानो मङ्गलोपेप्सया नाम्नामेव
परिहाराय

१३.८.१.[१७]

अथात आवृदेव अग्निविधयाग्निचितः श्मशानं करोति यद्वै यजमानोऽग्निं
चिनुतेऽमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुत एतदु ह यज्ञियं
कर्मासंस्थितमा श्मशानकरणात्तद्यदग्निविधयाग्निचितः श्मशानं
करोत्यग्निचित्यामेव तत्संस्थापयति
१३.८.१.[१८]

तद्वै न महत्जुर्यात् नेन्महदघं करवाणीति
यावानपक्षपुचोऽग्निस्तावत्जुर्यादित्यु हैक आहुः समानो ह्यस्यैष आत्मा
यथैवाग्नेस्तथेति

१३.८.१.[१९]

पुरुषमात्रं त्वेव कुर्यात् तथापरस्मा अवकाशं न करोति पश्चाद्वरीयः प्रजा
वै पश्चात्प्रजामेव तद्वरीयसीं कुरुत उत्तरतो वर्षीयः प्रजा वा उत्तरा प्रजामेव
तद्वर्षीयसीं कुरुते तद्विधायापसलविसृष्टाभि स्पन्द्याभिः पर्यातनोत्यपसलवि
पित्र्यं हि कर्म

१३.८.१.[२०]

अथोद्धन्तवा आह स यावत्येव निवप्स्यन्त्स्यात्तावदुद्धन्यात्पुरुषमात्रं
त्वेवोद्धन्यात्तथापरस्मा अवकाशं न करोत्यथो ओषधिलोको वै पितव्र
ओषधीनां ह मूलान्युपसर्पन्त्यथो नेदस्या अन्तर्हितोऽसदिति

१३.८.२.[१]

अन्तर्धावो हैके निवपन्ति देवाश्चासुराश्चोभये प्राजापत्या अस्मिंलोकेऽस्पर्धन्त ते
देवा असुरान्त्सपत्नान्भ्रातृव्यानस्माल्लोकादनुदन्त तस्माद्या दैव्यः प्रजा
अनन्तर्हितानि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वदन्तर्हितानि ते
चम्वां त्वद्यस्मिंस्त्वत्

१३.८.२.[२]

अथैनत्परिश्रिद्भिः परिश्रवति या एवामूः परिश्रितस्ता एता यजुषा ताः परिश्रयति
तूष्णीमिमा दैवं तत्पित्र्यं च व्याकरोत्यपरिमिताभिरपरिमितो ह्यसौ लोकः

१३.८.२.[३]

अथैनत्पलाशशाखया व्युदूहति यदेवादो व्युदूहनं तदेतदपेतो यन्तु
पणयोऽसुम्ना देवपीयव इति
पणीनेवैतदसुम्नान्देवपीयूनसुररक्षसान्यस्माल्लोकादपहन्त्यस्य लोकः
सुतावत इति सुतवान्हि य ईजानोद्युभिरहोभिरक्तुभिर्व्यक्तमिति
तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति

१३.८.२.[४]

यमो ददात्ववसानमस्मा इति यमो ह वा अस्यामवसानस्येष्टे तमेवास्मा
अस्यामवसानं याचति तां दक्षिणोदस्यत्युदगितरां दैवं चैव तत्पित्र्यं च
व्याकरोति

१३.८.२.[५]

अथ दक्षिणतः सीरं युनक्ति उत्तरत इत्यु हैक आहुः स यथा कामयेत तथा
कुर्याद्युङ्क्तेति सम्प्रेष्याभिमन्त्रयते सविता ते शरीरेभ्यः पृथिव्यां
लोकमिच्छत्विति सवितैवास्यैतच्छरीरेभ्यः पृथिव्यां लोकमिच्छति तस्मै युज्यन्तामुस्रिया
इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते

१३.८.२.[६]

षङ्गवं भवति षडृतवः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्वरे
प्रतिष्ठायां प्रतिष्ठापयति तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमां
सीतां कृषति वायुः पुनात्विति जघनार्धेन दक्षिणाग्नेर्भ्राजसेति दक्षिणार्धेन
प्राचीं सूर्यस्य वर्चसेत्यग्रेणोदीचीम्

१३.८.२.[७]

चतस्रः सीता यजुषा कृषति तद्यच्चतसृषु दिक्ष्वन्नं
तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो
तद्यदिमा दिशः

१३.८.२.[८]

अथात्मानं विकृषति तद्यदेव सम्वत्सरेऽन्नं
तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तूष्णीमपरिमिताभिरपरिमितोह्यसौ लोकः

१३.८.२.[९]

अथैनद्विमुञ्चति कृत्वा तत्कर्म यस्मै कर्मण एनद्युङ्क्ते विमुच्यन्तामुस्रिया
इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते तद्दक्षिणोदस्यत्युदगितरद्दैवं चैव
तत्पित्र्यं च व्याकरोति

१३.८.३.[१]

अथ सर्वौषधं वपति यदेवादः सर्वौषधं
तदेतद्बह्वीभिस्तद्वपत्येकयेदं दैवं चैव तत्पित्र्यं च व्याकरोत्यश्वत्थे वो
निषदनं पर्णे वो वसतिष्कृतेति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो
हैषामेकैकोऽपरो जरसानुप्रैति

१३.८.३.[२]

अथैनन्निवपति इयं वै पृथिवी प्रतिष्ठास्यामेवैनमेतत्प्रतिष्ठायाम्
प्रतिष्ठापयति पुरादित्यस्योदयात्तिरैव वै पितरस्तिरैव रात्रिस्तिर एव तत्करोति
यथा कुर्वतोऽभ्युदियात्तदेनमुभयोरहोरात्रयोः प्रतिष्ठापयति

१३.८.३.[३]

सविता ते शरीराणि मातुरुपस्थ आवपत्विति सवितैवास्यैतच्छरीराण्यस्यै पृथिव्यै
मातुरुपस्थ आवपति तस्यै पृथिवि शम्भवेति यथैवास्मा इयं शं
स्यादेवमेतदाह प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसाविति नाम
गृह्णात्ययं वै लोक उपोदकस्तदेनं प्रजापतौ देवतायामुपोदके लोके निदधाति

१३.८.३.[४]

अथ कञ्चिदाह एतां दिशमनवानन्त्सृत्वा कुम्भं प्रक्षीयाणप्रेक्षमाण एहीति
तत्र जपति परं मृत्यो अनु परेहि पन्थां यस्ते अन्य इतरो देवयानात् चक्षुष्मते
शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति ज्योग्जीवातुमेवैभ्य
एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रैति

१३.८.३.[५]

अथैनं यथाङ्गं कल्पयति शं वातः शं हि ते घृणिः शं ते भवन्त्विष्टकाः
शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभिशूशुचन् कल्पन्तां ते दिशस्तुभ्यमापः
शिवतमास्तुभ्यं भवन्तु सिन्धवः अन्तरिक्षं शिवं तुभ्यं कल्पन्तां ते दिशः
सर्वा इत्येतदेवास्मै सर्वं कल्पयत्येतदस्मै शिवं करोति

१३.८.३.[६]

अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवन्ति या एवामूरग्नाविष्टकास्ता
एता यजुषा ता उपदधाति तूष्णीमिमा दैवं चैव तत्पित्र्यं च व्याकरोति

१३.८.३.[७]

त्रयोदश भवन्ति त्रयोदश मासाः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्सरे
प्रतिष्ठायां प्रतिष्ठापयति

१३.८.३.[८]

पादमात्र्यो भवन्ति प्रतिष्ठा वै पादः प्रतिष्ठामेवास्मै करोत्यलक्षणा
भवन्ति तिरैव वै पितरस्तिरैव तद्यदलक्षणं तिर एव तत्तिरः करोति
१३.८.३.[९]

तासामेकां मध्ये प्राचीमुपदधाति स आत्मा तिस्रः
पुरस्तान्मूर्धस+हितास्तच्छिरस्तिस्रो दक्षिणतः स दक्षिणः पक्षस्तिस्र उत्तरतः स
उत्तरः पक्षस्तिस्रः पश्चात्तत्पुचं सोऽस्यैष पक्षपुच्छवानात्मा यथैवाग्नेस्तथा

१३.८.३.[१०]

अथ प्रदरात्पुरीषमाहर्तवा आह एतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव
तद्बद्धृ करोत्यस्मिन्नु हैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्वन्ति
परिकृषन्त्यु हैके दक्षिणतः पश्चादुत्तरतस्ततोऽभ्याहारं कुर्वन्ति स यथा
कामयेत तथा कुर्यात्

१३.८.३.[११]

तद्वै न महत्कुर्यात् नेन्महदघं करवाणीति यावानुद्बाहुः
पुरुषस्तावत्क्षत्रियस्य कुर्यान्मुखदघ्नं ब्राह्मणस्योपस्थदघ्नं स्त्रिया
ऊरुदघ्नं वैश्यस्याष्ठीवद्दघ्नं शूद्रस्यैवम्वीर्या ह्येत इति

१३.८.३.[१२]

अधोजानु त्वेव कुर्यात् तथापरस्मा अवकाशं न करोति तस्य क्रियमाणस्य
तेजनीमुत्तरतो धारयन्ति प्रजा ह सा प्रजामेव तदुत्तरतो धारयन्ति तां न
न्यस्येद्धृत्वा वैनामूढ्वा वा गृहेषूच्रयेत्प्रजामेव तद्गृहेषूच्रयति

१३.८.३.[१३]

कृत्वा यवान्वपति अघं मे यवयानित्यवकाभिः प्रच्छादयति कं मेऽसदिति
दर्भैः प्रच्छादयत्यरूक्षतायै

१३.८.४.[१]

अथैनच्छङ्कुभिः परिणिहन्ति पालाशं पुरस्ताद्ब्रह्म वै पलाशो
ब्रह्मपुरोगवमेवैनं स्वर्गं लोकं गमयति शमीमयमुत्तरतः शम्
मेऽसदिति वारणं पश्चादघं मे वारयाता इति वृत्रशङ्कुं
दक्षिणतोऽघस्यैवानत्ययाय

१३.८.४.[२]

अथ दक्षिणतः परिवक्रे खनन्ति ते क्षीरेण चोदकेन च पूरयन्ति ते
हैनममुष्मिंलोकेऋक्षिते कुल्ये उपधावतः सप्तोत्तरस्ता उदकेन पूरयन्ति न ह
वै सप्त स्रवन्तीरघमत्येतुमर्हत्यघस्यैवानत्ययाय
१३.८.४.[३]

अश्मनस्त्रींस्त्रीन्प्रकिरन्ति ता अभ्युत्तरन्त्यश्मन्वती रीयते
संरभध्वमुत्तिष्ठत प्रतरत सखायः अत्रा जहीमोऽशिवा ये
असञ्चिवान्वयमुत्तरेमाभि वाजानिति यथैव यजुस्तथा बन्धुः

१३.८.४.[४]

अपामार्गैरपमृजते अघमेव तदपमृजतेऽपाघमप किल्विषमप कृत्यामपो
रपः अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुवेति यथैव यजुस्तथा बन्धुः

१३.८.४.[५]

यत्रोदकं भवति तत्स्नान्ति सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति
वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु
योऽस्मान्द्वेष्टि यं चपरासिञ्चेत्तेनैव तं पराभावयति

१३.८.४.[६]

स य्!दि स्थावरा आपो भवन्ति स्थापयन्त्येषां पाप्मानमथ यदि वहन्ति
वहन्त्येवैषां पाद्मानं स्नात्वाहतानि वासांसि परिधायानडुहः
पुच्छमन्वारभ्यायन्त्यास्नेयो वा अनड्वानग्निमुखा एव
तत्पितृलोकाज्जीवलोकमभ्यायन्त्यथो अग्निर्वै पथोऽतिवोडा स एनानतिवहति

१३.८.४.[७]

उद्वयं तमसस्परीति एतामृचं जपन्तो यन्ति तत्तमसः पितृलोकादादित्यं
ज्योतिरभ्यायन्ति तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयच्छन्त्येष ह
मानुषोऽलङ्कारस्तेनैव तं मृत्युमन्तर्दधते

१३.८.४.[८]

अथ गृहेष्वग्निं समाधाय वारणान्परिधीन्परिधाय वारणेन स्रुवेणाग्नय
आयुष्मत आहुतिं जुहोत्यग्निर्वा आ आयुष्मानायुष ईष्टे तमेवैभ्य आयुर्याचत्यग्न
आयूंषि पवस इति पुरोऽनुवाक्याभाजनम्

१३.८.४.[९]

अथ जुहोति आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि गृतं पीत्वा
मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमान्त्स्वाहेति
यथैवैनानभिरक्षेद्यथाभिगोपायेदेवमेतदाह
१३.८.४.[१०]

तस्य पुराणोऽनड्वान्दक्षिणा पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषा न्वादिष्टा
दक्षिणा कामं यथाश्रद्धं भूयसीर्दद्यादिति न्वग्निचितः

१३.८.४.[११]

अथानग्निचितः एतदेव भूमिजोषणमेतत्समानं कर्म यदन्यदग्निकर्मणः
कुर्वादाहिताग्नेः शर्करा इत्यु हैक आहुर्या एवामूरग्न्याधेयशर्करास्ता एता इति न
कुर्यादित्येक ईश्वरो हैता अनग्निचितं सन्तप्तोरिति स यथा कामयेत तथा कुर्यात्

१३.८.४.[१२]

मर्यादाया एव लोष्टमाहृत्य अन्तरेण निदधातीमं जीवेभ्यः परिधिं दधामि
मैषां नु गादपरो अर्थमेतं शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं
दधतां पर्वतेनेति जीवेभ्यश्चैवैतां पितृभ्यश्च मर्यादां करोत्यसम्भेदाय
तस्मादु हैतज्जीवाश्च पितरश्च न सन्दृश्यन्ते

१४.१.१.[१]

ओम् देवा ह वै सत्त्रं निषेदुः अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवा
अन्यत्रैवाश्विभ्याम्

१४.१.१.[२]

तेषां कुरुक्षेत्रं देवयजनमास तस्मादाहुः कुरुक्षेत्रं देवानां
देवयजनमिति तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति तदेव मन्यत इदम्
देवयजनमिति तद्धि देवानां देवयजनम्
१४.१.१.[३]

त आसत श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति तथो एवेमे सत्त्रमासते श्रियं
गच्छेम यशः स्यामान्नादाः स्यामेति
१४.१.१.[४]

ते होचुः यो नः श्रमेण तपसा श्रद्धया यैञेनाहुतिभिर्यज्ञस्योदृचम्
पूर्वोऽवगच्छात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति
१४.१.१.[५]

तद्विष्णुः प्रथमः प्राप स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां
श्रेष्ठ इति
१४.१.१.[६]

स यः स विष्णुर्यज्ञः स स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्नुर्न
शशाक संयन्तु तदिदमप्येतर्हि नैव सर्वैव यशः शक्नोति संयन्तुम्
१४.१.१.[७]

स तिसृधन्वमादायापचक्राम स धनुरार्त्न्या शिर उपस्तभ्य तस्थौ तं देवा
अनभिधृष्णुवन्तः समन्तं परिण्यविशन्त
१४.१.१.[८]

ता ह वम्र्य ऊचुः इमा वै वम्र्यो यदुपदीका योऽस्य ज्यामप्यद्यात्किमस्मै
प्रयच्छेतेत्यन्नाद्यमस्मै प्रयच्छेमापि धन्वन्नपोऽधिगच्छेत्तथास्मै
सर्वमन्नाद्यं प्रयच्छेमेति तथेति
१४.१.१.[९]

तस्योपपरासृत्य ज्यामपिजक्षुस्तस्यां च्छिन्नायां धनुरार्त्न्यौ विष्फुरन्त्यौ
विष्णोः शिरः प्रचिच्छिदतुः
१४.१.१.[१०]

तद्घृङ्ङिति पपात तत्पतित्वासावादित्योऽभवदथेतरः प्राङेव प्रावृज्यत
तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मोऽथ यत्प्रावृज्यत तस्मात्प्रवर्ग्यः
१४.१.१.[११]

ते देवा अब्रुवन् महान्बत नो वीरोऽदादीति तस्मान्महावीरस्तस्य यो रसो
व्यक्षरत्तं पाणिभिः सम्ममृजुस्तस्मात्सम्म्राट्
१४.१.१.[१२]

तं देवा अभ्यमृज्यन्त यथा वित्तिं वेत्स्यमाना एवं तमिन्द्रः प्रथमः प्राप
तमन्वङ्गमनुन्यपद्यत तं पर्यगृह्णात्तं परिगृह्येदं
यशोऽभवद्यदिदमिन्द्रो यशो यशो ह भवति य एवं वेद
१४.१.१.[१३]

स उ एव मखः स विष्णुः तत इन्द्रो मखवानभवन्मखवान्ह वै तम्
मघवानित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः
१४.१.१.[१४]

ताभ्यो वम्रीभ्योऽन्नाद्यं प्रायच्छन् आपो वै सर्वमन्नं
ताभिर्हीदमभिक्नूयमिवादन्ति यदिदं किम्वदन्ति
१४.१.१.[१५]

अथेमं विष्णुं यज्ञं त्रेधा व्यभजन्त वसवः प्रातःसवनं रुद्रा
माध्यन्दिनं सवनमादित्यास्तृतीयसवनम्
१४.१.१.[१६]

अग्निः प्रातःसवनम् इन्द्रो माध्यन्दिनं सवनं विश्वे देवास्तृतीयसवनम्
१४.१.१.[१७]

गायत्री प्रतःसवनम् त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं
तेनापशीर्ष्णा यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुः
१४.१.१.[१८]

दध्यङ्ह वा आथर्वणः एतं शुक्रमेतं यज्ञं विदां चकार
यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति
१४.१.१.[१९]

स हेन्द्रेणोक्त आस एतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्चिन्द्यामिति
१४.१.१.[२०]

तदु हाश्विनोरनुश्रुतमास दध्यङ्ङु ह वा आथर्वण एतं शुक्रमेतं यज्ञम्
वेद यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति
१४.१.१.[२१]

तौ हेत्योचतुः उप त्वायावेति किमनुवक्ष्यमाणावित्येतं शुक्रमेतं यज्ञम्
यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवतीति
१४.१.१.[२२]

स होवाच इन्द्रेण वा उक्तोऽस्म्येतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्चिन्द्यामिति
तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्यान्न वामुपनेष्य इति
१४.१.१.[२३]

तौ होचतुः आवां त्वा तस्मात्त्रास्यावह इति कथं मा त्रास्येथे इति यदा ना
उपनेष्यसेऽथ ते शिरश्चित्त्वान्यत्रापनिधास्यावोऽथाश्वस्य शिर आहृत्य तत्ते
प्रतिधास्यावस्तेन नावनुवक्ष्यसि स यदा नावनुवक्ष्यस्यथ ते शिरश्चेत्स्यत्यथ
ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति तथेति
१४.१.१.[२४]

तौ होपनिन्ये तौ यदोपनिन्येऽथास्य शिरश्चित्त्वान्यत्रापनिदधतुरथाश्वस्य शिर
आहृत्य तद्धास्य प्रतिदधतुस्तेन हाभ्यामनूवाच स यदाभ्यामनूवाचाथास्य
तदिन्द्रः शिरश्चिच्छेदाथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुः
१४.१.१.[२५]

तस्मादेतदृषिणाभ्यनूक्तम् दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र
यदीमुवाचेत्ययतं तदुवाचेति हैवैतदुक्तम्
१४.१.१.[२६]
तन्न सर्वस्मा अनुब्रूयात् एनस्यं हि तदथो नेन्म इन्द्रः शिरश्चिनददिति यो न्वेव
ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्न त्वेव सर्वस्मा इव
१४.१.१.[२७]

सम्वत्सरवासिनेऽनुब्रूयात् एष वै सम्वत्सरो य एष तपत्येष उ
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्सम्वत्सरवासिनेऽनुब्रूयात्
१४.१.१.[२८]

तिस्रो रात्रीर्व्रतं चरति त्रयो वा ऋतवः सम्वत्सरस्य सम्वत्सर एष य एष
तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्तिस्रो रात्रीर्व्रतं चरति
१४.१.१.[२९]

तप्तमाचामति तपस्व्यनुब्रवा इत्यमांसाश्यनुब्रूते तपस्व्यनुब्रवा इति
१४.१.१.[३०]

अमृन्मयपायी अस्ति वा अस्यां संसृष्टमिव यदस्यामनृतं वदति
तस्मादमृन्मयदायी
१४.१.१.[३१]

अशूद्रोच्छिष्टी एष वै धर्मो य एष तपति सैषा श्रीः सत्यं ज्योतिरनृतं स्त्री शूद्रः
श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत नेच्रियं च पाप्मानं च नेज्ज्योतिश्च तमश्च
नेत्सत्यानृते संसृजानीति
१४.१.१.[३२]

अथैष वाव यशः य एष तपति तद्यत्तदादित्यो यशो यज्ञो हैव
तद्यशस्तद्यत्तद्यज्ञो यशो यजमानो हैव तद्यशस्तद्यत्तद्यजमानो यश ऋत्विजो
हैव तद्यशस्तद्यत्तदृत्विजो यशो दक्षिणा हैव तद्यशस्तस्माद्यामस्मै
दक्षिणामानयेयुर्न ता इत्सद्योऽन्यस्मा अतिदिशेन्नेद्यन्मेदं यश
आगंस्तत्सद्योऽन्यस्मा अतिदिशानीति श्वो वैव भूते द्व्यहे वा तदात्मन्येवैतद्यशः
कृत्वा यदेव तद्भवति तत्स ददाति हिरण्यं गां वासोऽश्वं वा
१४.१.१.[३३]

अथैतद्वा आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूतेभक्षयति वा तस्य
व्रतचर्या नातपति प्रच्छादयेत नेदेतस्मात्तिरोऽसानीति नातपति
निष्ठीवेन्नेदेतमभिनिष्ठीवानीति नातपति प्रस्रावयेत नेदेतमभिप्रस्रावया इति
यावद्वा एष आतपति तावानेष नेदेतमेतैर्हिनसानीत्यवज्योत्य
रात्रावश्नीयात्तदेतदस्य रूपं क्रियते य एष तपति तदु होवाचासुरिरेकं ह वै
देवा व्रतं चरन्ति यत्सत्यं तस्मादु सत्यमेव वदेत्
१४.१.२.[१]
स वै सम्भारान्त्सम्भरति स यद्वा एनानित्थाच्चेत्थाच्च सम्भरति
तत्सम्भाराणां सम्भारत्वं स वै यत्रयत्र यज्ञस्य न्यक्तं ततस्ततः
सम्भरति
१४.१.२.[२]

कृष्णाजिनं सम्भरति यज्ञो वै कृष्णजिनं यज्ञ एवैनमेतत्सम्भरति
लोमतश्चन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरत्युत्तरत उदीची हि
मनुष्याणां दिक्प्राचीनग्रीवे तद्धि देवत्रा
१४.१.२.[३]

अभ्र्या वज्रो वा अभ्रिर्वीर्यं वै वज्रो वीर्येणैवैनमेतत्समर्धयति कृत्स्नं
करोति
१४.१.२.[४]

औदुम्बरी भवति ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति
कृत्स्नं करोति
१४.१.२.[५]

अथो वैकङ्कती प्रजापतिर्यां प्रथमामाहुतिमजुहोत्स हुत्वा यत्र न्यमृष्ट ततो
विकङ्कतः समभवद्यज्ञो वा आहुतिर्यज्ञो विकङ्कतो
यज्ञेनैवैनमेतत्समर्धयति कृत्स्नं करोति
१४.१.२.[६]

अरत्निमात्री भवति बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव
तद्भवति वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति
१४.१.२.[७]

तामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे
नारिरसीत्यसावेव बन्धुः
१४.१.२.[८]

तां सव्ये पाणौ कृत्वा दक्षिणेनाभिमृश्य जपति युञ्जते मन उत युञ्जते धियो
विप्रा विप्रस्य बृहतो विपश्चितः वि होत्रा दधे वयुनाविदेक इन्मही देवस्य
सवितुः परिष्टुतिरित्यसावेव बन्धुः
१४.१.२.[९]

अथ मृत्पिण्डं पव्रिगृह्णाति अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतो देवी
द्यावापृथिवी इति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी
अगच्छद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति
तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति तस्मादाह देवी द्यावापृथिवी इति
मखस्य वामद्य शिरो राध्यासमिति यज्ञो वै मखो यज्ञस्य वामद्य शिरो
राध्यासमित्येवैतदाह देवयजने पृथिव्या इति देवयजने हि पृथिव्यै सम्भरति
मखाय त्वा मखस्य त्वा शीर्ष्ण इति यज्ञो वै मखो यज्ञाय त्वा यज्ञस्य त्वा
शीर्ष्ण इत्येवैतदाह
१४.१.२.[१०]

अथ वल्मीकवपाम् देव्यो वम्र्य इत्येता वा एतदकुर्वत यथायथैतद्यज्ञस्य
शिरोऽच्छिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति भूतस्य प्रथमजा
इतीयं वै पृथिवी भूतस्य प्रथमजा तदनयैवैनमेतत्समर्धयति कृत्स्नं
करोति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य
त्वा शीर्ष्ण इत्यसावेव बन्धुः
१४.१.२.[११]

अथ वराहविहतम् इयत्यग्र आसीदितीयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री
तामेमूष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन
प्रियेण धाम्ना समर्धयति कृत्स्नं करोति मखस्य तेऽद्य शिरो राध्यासं
देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः
१४.१.२.[१२]

अथादारान् इन्द्रस्यौज स्थेति यत्र वा एनमिन्द्र ओजसा पर्यगृह्णात्तदस्य
परिगृहीतस्य रसो व्यक्षरत्स पूयन्निवाशेत सोऽब्रवीदादीर्येव बत म एष
रसोऽस्तौषीदिति तस्मादादारा अथ यत्पूयन्निवाशेत
तस्मात्पूतीकास्तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति तस्मादु सुरभयो यज्ञस्य हि
रसात्सम्भूता अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात्तस्मादाहेन्द्रस्यौज स्थेति
मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा
शीर्ष्ण इत्यसावेव बन्धुः
१४.१.२.[१३]

अथाजाक्षीरम् यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत्ततोऽजा
समभवत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य
त्वा शीर्ष्ण इत्यसावेव बन्धुः
१४.१.२.[१४]

तान्वा एतान्पञ्च सम्भारान्सम्भरति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः
सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति
तान्त्सम्भृतानभिमृशति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुः
१४.१.२.[१५]

अथोत्तरतः परिश्रितं भवति तदभिप्रयन्तो जपन्ति प्रैतु ब्रह्मणस्पतिरित्येष
वै ब्रह्मणस्पतिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह
प्रैतु ब्रह्मणस्पतिरिति प्रदेव्येतु सूनृतेति देवी ह्येषा सूनृताच्छा वीरं नर्यम्
पङ्क्तिराधसमित्युपस्तौत्येवैनमेतन्महयत्येव देवा यज्ञं नयन्तु न इति
सर्वानेवास्मा एतद्देवानभिगोप्तॄ!न्करोति
१४.१.२.[१६]

परिश्रितं भवति एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न
हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरं परिष्रयति
१४.१.२.[१७]

अथ खरे सादयति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरथ
मृत्पिण्डमपादाय महावीरं करोति मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव
बन्धुः प्रादेशमात्रं प्रादेशमात्रमिव हि शिरो मध्ये सङ्गृहीतं मध्ये
सङ्गृहीतमिव हि शिरोऽथास्योपरिष्टात्त्र्यङ्गुलं मुखमुन्नयति
नासिकामेवास्मिन्नेतद्दधाति तं निष्ठितमभिमृशति मखस्य शिरोऽसीति मखस्य
ह्येतत्सौम्यस्य शिर एवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले
१४.१.२.[१८]

प्रजापतिर्वा एष यज्ञो भवति उभयं वा एतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च
परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमितं रूपं
तदस्य तेन संस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य
तेन संस्करोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवम्
विद्वानेतदेवं करोत्यथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः
१४.१.२.[१९]

अथ गवेधुकाभिर्हिन्वति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो
जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य
त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले
१४.१.२.[२०]

अथैनान्धूपयति अश्वस्य त्वा वृष्णः शक्ना धूपयामीति वृषा वा अश्वो वीर्यं वै
वृषा वीर्येणैवैनमेतत्समर्धयति कृत्स्नं करोति देवयजने पृथिव्या मखाय
त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्नीं
रौहिणकपाले
१४.१.२.[२१]

अथैनाञ्च्रपयति शृतं हि देवानामिष्ट्काभिः श्रपयत्येत वा एतदकुर्वत
यथायथैतद्यज्ञस्य शिरोऽच्छिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति
तदु येनैव सुशृताः स्युस्तेन श्रपयेदथ पचनमवधाय महावीरमवदधाति
मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव बन्धुरेवमितरौ तूष्णीं पिन्वने
तूष्णीं रौहिणकपाले तान्दिवैवोपवपेद्दिवोद्वपेदहर्हि देवानाम्
१४.१.२.[२२]

स उद्वपति ऋजवे त्वेत्यसौ वै लोक ऋजुः सत्यं ह्यृजुः सत्यमेष य एष तव्पत्येष
उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वेति
१४.१.२.[२३]

साधवे त्वेति अयं वै साधुर्योऽयं पवत एष हीमांलोकान्त्सिद्धोऽनुपवत एष
उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह साधवे त्वेति
१४.१.२.[२४]

सुक्षित्यै त्वेति अयं वै लोकः सुक्षितिरस्मिन्हि लोके सर्वाणि भूतानि क्षियन्त्यथो
अग्निर्वै सुक्षितिरग्निर्ह्येवास्मिंलोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वेति तूष्णीं पिन्वने तूष्णीं
रौहिणकपाले
१४.१.२.[२५]

अथैनानाचृणत्ति अजायै पयसा मखाय त्वा मखस्य त्वा शीर्ष्ण इत्यसावेव
बन्धुरेवमितरौ तूष्णीं पिन्वने तूष्णीं रौहिणकपाले
१४.१.२.[२६]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य
व्रतचर्या या सृष्टौ
१४.१.३.[१]

स यदैतदातिथ्येन प्रचरति अथ प्रवर्ग्येण चरिष्यन्पुरोपसदोऽग्रेण
गार्हपत्यं प्राचः कुशान्त्संस्तीर्य द्वन्द्वं पात्राण्युपसादयत्युपयमनीम्
महावीरं परीषासौ पिन्वने रौहिणकपाले रौहिणहवन्यौ स्रुचौ यदु
चान्यद्भवति तद्दश दशाक्षरा वै विराड्विराड्वै
यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वम्द्वन्द्वं वै
वीर्यं यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतो द्वन्द्वं वै मिथुनम्
प्रजननं मिथुनेनैवैनमेतत्प्रजननेन समर्धयति कृत्स्नं करोति
१४.१.३.[२]

अथाध्वर्युः प्रोक्षणीरादायोपोत्तिष्ठन्नाह ब्रह्मन्प्रचरिष्यामो
होतरभिष्टुहीति ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता
तमेवैतदाहाप्रमत्त आस्स्व यज्ञस्य शिरः प्रतिधास्याम इति होतरभिष्टुहीति यज्ञो
वै होता तमेवैतदाह यज्ञस्य शिरः प्रतिधेहीति प्रतिपद्यते होता
१४.१.३.[३]

ब्रह्म जज्ञानं प्रथमं पुरस्तादिति असौ वा आदित्यो ब्रह्माहरहः
पुरस्ताज्जायत एष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह ब्रह्म जज्ञानम्
प्रथमं पुरस्तादित्यथ प्रोक्षत्यसावेव बन्धुः
१४.१.३.[४]

स प्रोक्षति यमाय त्वेत्येष वै यमो य एष तपत्येष हीदं सर्वं
यमयत्येतेनेदं सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह
यमाय त्वेति
१४.१.३.[५]

मखाय त्वेति एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति
तस्मादाह मखाय त्वेति
१४.१.३.[६]

सूर्यस्य त्वा तपस इति एष वै सूर्यो य एष तपत्येष
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपस इति
१४.१.३.[७]

पूर्वया द्वारा स्थूणां निर्हृत्य दक्षिणतो निमिन्वन्ति यथैनां
होताभिष्टुवन्परापश्येद्यज्ञो वै होता स एवास्यामेतद्यज्ञं प्रतिदधाति तथैषा
घर्मं पिन्वते
१४.१.३.[८]

अग्रेणाहवनीयम् सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयत्युत्तरां
राजासन्द्यै
१४.१.३.[९]

औदुम्बरी भवति ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति
कृत्स्नं करोति
१४.१.३.[१०]

अंसदघ्ना भवति अंसयोर्वा इदं शिरः प्रतिष्थितं तदंसयोरेवैतच्छिरः
प्रतिष्ठापयति
१४.१.३.[११]

बाल्वजीभी रज्जुभिर्व्युता भवति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता
ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति
१४.१.३.[१२]

अथ यदुत्तरत आसादयति यज्ञो वै सोमः शिरः प्रवर्ग्य उत्तरं वै
शिरस्तस्मादुत्तरत आसादयत्यथो राजा वै सोमः सम्राट्प्रवर्ग्य उत्तरं वै
राज्यात्साम्राज्यं तस्मादुत्तरत आसादयति

१४.१.३.[१३]

स यत्रैतां होतान्वाह अञ्जन्ति यं प्रथयन्तो न विप्रा इति तदेतं प्रचरणीयम्
महावीरमाज्येन समनक्ति देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानाम्
प्रसविता सर्वम्वा इदं मधु यदिदं किं च तदेनमनेन सर्वेण समनक्ति
तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति
१४.१.३.[१४]

अथोत्तरतः सिकता उपकीर्णा भवन्ति तद्रजतं हिरण्यमधस्तादुपास्यति पृथिव्याः
संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षांसि नाष्ट्रा न
हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो पृथिव्यु
ह वा एतस्माद्बिभयां चकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या
एतदन्तर्दधाति रजतं भवति रजतैव हीयं पृथिवी
१४.१.३.[१५]

स यत्रैतां होतान्वाह संसीदस्व महां महाम् असीति तदुभयत आदीप्ता
मौञ्जाः प्रलवा भवन्ति तानुपास्य तेषु प्रवृणक्ति यज्ञस्य शीर्षच्छिन्नस्य रसो
व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं
करोति
१४.१.३.[१६]

अथ यदुभयत आदीप्ता भवन्ति सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा
अपहन्ति तस्मिन्प्रवृज्यमाने पत्नी शिरः प्रोर्णुते तप्तो वा एष शुशुचानो भवति
नेन्मेऽयं तप्तः शुशुचानश्चक्षुः प्रमुष्णादिति
१४.१.३.[१७]

स प्रवृणक्ति अर्चिरसि शोचिरसि तपोऽसीत्येष वै घर्मो य एष तपति सर्वं वा
एतदेष तदेतमेवैतत्प्रीणाति तस्मादाहार्चिरसि शोचिरसि तपोऽसीति
१४.१.३.[१८]

अथास्यामाशिष आशास्त इयं वै यज्ञोऽस्यामेवैतदाशिष आशास्ते ता अस्मा इयं सर्वाः
समर्धयति
१४.१.३.[१९]

अनाधृष्टा पुरस्तादिति अनाधृष्टा ह्येषा
पुरस्ताद्रक्षोभिर्नाष्ट्राभिरग्नेराधिपत्य इत्यग्निमेवास्या अधिपतिं करोति
नाष्ट्राणां रक्षसामपहत्या आयुर्मे दा इत्यायुरेवात्मन्धत्ते तथो सर्वमायुरेति
१४.१.३.[२०]

पुत्रवती दक्षिणत इति नात्र तिरोहितमिवास्तीन्द्रस्याधिपत्य इतीन्द्रमेवास्या
अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै प्रजां मे दा इति प्रजामेव
पशूनात्मन्धत्ते तथो ह पुत्री पशुमान्भवति
१४.१.३.[२१]

सुषदा पश्चादिव्ति नात्र तिरोहितमिवास्ति देवस्य सवितुराधिपत्य इति देवमेवास्यै
सवितारमधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै चक्षुर्मे दा इति
चक्षुरेवात्मन्धत्ते तथो ह चक्षुष्मान्भवति
१४.१.३.[२२]

आश्रुतिरुत्तरत इति आश्रावयन्नुत्तरत इत्येवैतदाह धातुराधिपत्य इति
धातारमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै रायस्पोषं मे दा
इति रयिमेव पुष्टिमात्मन्धत्ते तथो ह रयिमान्पुष्टिमान्भवति
१४.१.३.[२३]

विधृतिरुपरिष्टादिति विधारयन्नुपरिष्टादित्येवैतदाह बृहस्पतेराधिपत्य इति
बृहस्पतिमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्या ओजो मे दा इत्योज
एवात्मन्धत्ते तथौजस्वी बलवान्भवति
१४.१.३.[२४]

अथ दक्षिणत उत्तानेन पाणिना निह्नुते विश्वाभ्यो मा नाष्ट्राभ्यस्पाहीति सर्वाभ्यो
मार्तिभ्यो गोपायेत्येवैतदाह यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स]
पितॄ!नगच्छत्त्रया वै पितरस्तैरेवैनमेतत्समर्धयति कृत्स्नं करोति
१४.१.३.[२५]

अथेमामभिमृश्य जपति मनोरश्वासीत्यश्वा ह वा इयं भूत्वा मनुमुवाह
सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति
कृत्स्नं करोति
१४.१.३.[२६]

अथ वैकङ्कतौ शकलौ परिश्रयति प्राञ्चौ स्वाहा मरुद्भिः परिश्रीयस्वेत्यवरं
स्वाहाकारं करोति परां देवतामेष वै स्वाहाकारो य एष तपत्येष उ
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादवरं स्वाहाकारं करोति दरां देवताम्
१४.१.३.[२७]

मरुद्भिः परिश्रीयस्वेति विशो वै मरुतो विशैवैतत्क्षत्रं परिबृंहति तदिदं
क्षत्रमुभयतो विशा परिबृढं तूष्णीमुदञ्चौ तूष्णीं प्राञ्चौ तूष्णीमुदञ्चौ
तूष्णीं प्राञ्चौ
१४.१.३.[२८]

त्रयोदश सम्पादयति त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सर एष य एष
तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्त्रयोदश सम्पादयति
१४.१.३.[२९]

अथ सुवर्णं हिरण्यमुपरिष्टान्निदधाति दिवः संस्पृशस्पाहीत्येतद्वै देवा
अबिभयुर्यद्वै न इममुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो
यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो द्यौर्ह वा एतस्माद्बिभयां चकार
यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति हरितम्
भवति हरिणीव हि द्यौः
१४.१.३.[३०]

अथ धवित्रैराधूनोति मधु मध्विति त्रिः प्राणो वै मधु
प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानो
व्यानस्तानेवास्मिन्नेतद्दधाति
१४.१.३.[३१]

अथापसलवि त्रिर्धून्वन्ति यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स]
पितॄ!नगच्छत्त्रया वै पितरस्तैरेवैनमेतत्समीरयति
१४.१.३.[३२]

अप वा एतेभ्यःप्रणाः क्रामन्ति ये यज्ञे धुवनं तन्वते पुनः प्रसलवि
त्रिर्धून्वन्ति षट्सम्पद्यन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति
श्रपयन्ति रौहिणौ स यदार्चिर्जायते अथ हिरण्यमादत्ते
१४.१.३.[३३]

स यत्रैतां होतान्वाह अप्नस्वतीमश्विना वाचमस्मे इति
तदध्वर्युरुपोत्तिष्ठन्नाह रुचितो घर्म इति स यदि रुचितः स्याच्रेयान्यजमानो
भविष्यतीति विद्यादथ यद्यरुचितः पापीयान्भविष्यतीति विद्यादथ यदि नैव
रुचितो नारुचितो नैव श्रेयन्न पापीयान्भविष्यतीति विद्याद्यथा न्वेव रुचितः
स्यात्तथा धवितव्यः
१४.१.३.[३४]

अथैतद्वै आय्रेतज्ज्योतिः प्रविशति य एतमनुवा ब्रूते भक्ष् ।यति वा तस्य व्रतचर्या
या सृस्।त् ।ौ
१४.१.४.[१]

स यदैतदध्वर्युः उपोत्तिष्ठन्नाह रुचितो घर्म इति
तदुपोत्थायावकाशैरुपतिष्ठन्ते प्राणा वा अवकाशाः प्राणानेवास्मिन्नेतद्दधाति
षडुपतिष्ठन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति
१४.१.४.[२]

गर्भो देवानामिति एष वै गर्भो देवानां य एष तपत्येष हीदं सर्वं
गृह्णात्येतेनेदं सर्वं गृभीतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह
गर्भो देवानामिति
१४.१.४.[३]

पिता मतीनामिति पिता ह्येष मतीनां पतिः प्रजानामिति पतिर्ह्येष प्रजानाम्
१४.१.४.[४]

सं देवो देवेन सवित्रागतेति सं हि देवो देवेन सवित्रागत सं सूर्येण रोचत इति सं
हि सूर्येण रोचते
१४.१.४.[५]

समग्निरग्निनागतेति सं ह्यग्निरग्निनागत सं दैवेन सवित्रेति सं हि दैवेन
सवित्रागत सं सूर्येणारोचिष्टेति सं हि सूर्येणारोचिष्ट
१४.१.४.[६]

स्वाहा समग्निस्तपसागतेति सं ह्यग्निस्तपसागतावरं स्वाहाकारं करोति परां
देवतामसावेव बन्धुः सं दैव्येन सवित्रेति सं हि दैव्येन सवित्रागत सं
सूर्येणारूरुचतेति सं हि सूर्येणारूरुचत
१४.१.४.[७]

ते वा एते त्रयोऽवकाशा भवन्ति त्रयो वै प्राणाः प्राण उदानो
व्यानस्तेनैवास्मिन्नेतद्दधाति
१४.१.४.[८]

धर्ता दिवो विभाति तपसस्पृथिव्यामिति धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां
धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा
वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन
देवान्प्रीणामेत्येवैतदाह
१४.१.४.[९]

अपश्यं गोपामनिपद्यमानमिति एष वै गोपा य एष तपत्येष हीदं सर्वं
गोपायत्यथो न निपद्यते तस्मादाहापश्यं गोपामनिपद्यमानमिति
१४.१.४.[१०]

आ च परा च पथिभिश्चरन्तमिति आ च ह्येष परा च देवैः पथिभिश्चरति स
सध्रीचीः स विशूचीर्वसान इति सध्रीचीश्च ह्येष विशूचीश्च दिशो वस्तेऽथो
रश्मीनावरीवर्त्ति भुवनेष्वन्तरिति पुनःपुनर्ह्येष एषु लोकेषु
वरीवर्त्यमानश्चरति
१४.१.४.[११]

विश्वासां भुवां पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य
वचसस्पत इत्येतस्य सर्वस्य पत इत्येतद्देवश्रुत्त्वं देव घर्म देवो
देवान्पाहीति नात्र तिरोहितमिवास्ति
१४.१.४.[१२]

अत्र प्रावीरनु वां देववीतय इति अश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः
प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहात्र प्रावीरनु वां देववीतय इति
१४.१.४.[१३]

मधु माध्वीभ्यां मधु माधूचीभ्यामिति दध्यङ्ह वा आभ्यामाथर्वणो
मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति
तस्मादाह मधु माध्वीभ्यां मधु माधूचीभ्यामिति
१४.१.४.[१४]

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ऊर्ध्वो अध्वरं दिवि देवेषु धेहीति नात्र
तिरोहितमिवास्ति
१४.१.४.[१५]

पिता नोऽसि पिता नो बोधीति एष वै पिता य एष तपत्येष उ
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पिता नोऽसि पिता नो बोधीति नमस्ते अस्तु
मा मा हिंसीरित्याशिषमेवैतदाशास्ते
१४.१.४.[१६]

अथ पत्न्यै शिरोऽपवृत्य महावीरमीक्षमाणां वाचयति त्वष्टृमन्तस्त्वा सपेमेति
वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते
१४.१.४.[१७]

अथैतद्वै आयुरेत्ज्ज्योतिः प्रविशति य एतमु वा ब्रूतेभ्क्ष् ।यति वा तस्य ब्रतचर्या या
सृस्।त् ।ौ
१४.२.१.[१]

अथातो रोहिणौ जुहोति अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा
प्राता रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा सायम्

१४.२.१.[२]

तद्यद्रोहिणौ जुहोति अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्यां हि देवताभ्यां
यजमानाः स्वर्गं लोकं रोहन्ति
१४.२.१.[३]

अथो अहोरात्रे वै रौहिणौ आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्राभ्याम्
परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः
१४.२.१.[४]

अथो इमौ वै लोकौ रौहिणौ आदित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां लोकाभ्याम्
परिगृह्णाति तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः
१४.२.१.[५]

अथो चक्षुषी वै रौहिणौ शिरः प्रवर्ग्यः शीर्षंस्तच्चक्षुर्दधाति
१४.२.१.[६]

अथ रज्जुमादत्ते देवेभ्यस्त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यामाददे रास्नासीत्यसावेव बन्धुः
१४.२.१.[७]

अथ गामाह्वयति जघनेन गार्हपत्यं यन्निड एह्यदित एहि सरस्वत्येहीतीडा हि
गौरदितिर्हि गौः सरस्वती हि गौरथो तैराह्वयति नाम्नासावेह्यसावेहीति त्रिः
१४.२.१.[८]

तामागतामभिदधाति अदित्यै रास्नासीन्द्राण्या उष्णीष इतीन्द्राणी ह वा इन्द्रस्य प्रिया
पत्नी तस्या उष्णीषो विश्वरूपतमः सोऽसीति तदाह तमेवैनमेतत्करोति
१४.२.१.[९]

अथ वत्समुपार्जति पूषासीत्ययं वै पूषा योयं पवत एष हीदं सर्वम्
पुष्यत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पूषासीति
१४.२.१.[१०]

अथोन्नयति घर्माय दीष्वेत्येष वा अत्र घर्मो रसो भवति यमेषा पिन्वते
तस्यै दयस्वेत्येवैतदाह
१४.२.१.[११]
अथ पिन्वने पिन्वयति अश्विभ्यां पिन्वस्वेत्यश्विनावेवैतदाहाश्विनौ वा
एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहाश्विभ्यां पिन्वस्वेति
१४.२.१.[१२]

सरस्वत्यै पिन्वस्वेति वाग्वै सरस्वती वाचा वा एतदश्विनौ यज्ञस्य शिरः
प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाह सरस्वत्यै पिन्वस्वेति
१४.२.१.[१३]

इन्द्राय पिन्वस्वेति इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता
तयैवैतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहेन्द्राय
पिन्वस्वेति
१४.२.१.[१४]

अथ विप्रुषोऽभिमन्त्रयते स्वाहेन्द्रवत्स्वाहेन्द्रवदितीन्द्रो वै यज्ञस्य देवता सा
यैव यज्ञस्य देवता तामेवैतत्प्रीणाति तस्मादाह स्वाहेन्द्रवत्स्वाहेन्द्रवदिति
त्रिष्कृत्व आह त्रिवृद्धि यज्ञोऽवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः
१४.२.१.[१५]

अथास्यै स्तनमभिपद्यते यस्ते स्तनः शशयो यो मयोभूरिति यस्ते स्तनो निहितो
गुहायामित्येवैतदाह यो रत्नधा वसुविद्यः सुदत्र इति यो धनानां दाता
वसुवित्पणाव्य इत्येवैतदाह येन विश्वा पुष्यसि वार्याणीति येन सर्वान्देवान्त्सर्वाणि
भूतानि बिभर्षीत्येवैतदाह सरस्वति तमिह धातवेऽकरिति वाग्वै सरस्वती सैषा
घर्मदुघा यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन
देवान्प्रीणामेत्येवैतदाहाथ
गार्हपत्यस्यार्धमैत्युर्वन्तरिक्षमन्वेमीत्यसावेव बन्धुः
१४.२.१.[१६]

अथ शफावादत्ते गायत्रं च्छन्दोऽसि त्रैष्टुभं च्छन्दोऽसीति गायत्रेण
चैवैनावेतत्त्रैष्टुभेन च च्छन्दसादत्ते द्यावापृथिवीभ्यां त्वा परिगृह्णामीतीमे
वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां
द्यावापृथिवीभ्यां परिगृह्णात्यथ मौञ्जेन वेदेनोपमार्ष्ट्यसावेव बन्धुः
१४.२.१.[१७]

अथोदयमन्योपगृह्णाति अन्तरिक्षेणोपयच्छामीत्यन्तरिक्षं वा
उपयमन्यन्तरिक्षेण हीदं सर्वमुपयतमत्>ओ उदरं वा उपयमन्युदरेण
हीदं सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयचामीति
१४.२.१.[१८]

अथाजाक्षीरमानयति तप्तो वा एष शुशुचानो भवति तमेवैतच्छमयति तस्मिञ्चान्ते
गोक्षीरमानयति

१४.२.१.[१९]

इन्द्राश्विनेति इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता
तामेवैतत्प्रीणात्यश्विनेत्यश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां
तावेवैतत्प्रीणाति तस्मादाहेन्द्राश्विनेति
१४.२.१.[२०]

मधुनः सारघस्येति एतद्वै मधु सारघं घर्मं पातेति रसम्
पातेत्येवैतदाह वसव इत्येते वै वसव एते हीदं सर्वं वासयन्ते यजत वाडिति
तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति
१४.२.१.[२१]

स्वाहा सूर्यस्य रश्मये वृष्टिवनय इति सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम
येनेमाः सर्वाः प्रजा बिभर्ति तमेवैतत्प्रीणाति तस्मादाह स्वाहा सूर्यस्य रश्मये
वृष्टिवनय इत्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः
१४.२.१.[२२]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्ष् ।यति वा तस्य
व्रतचर्या य॑! सृस्।त् ।ौ
१४.२.२.[१]

स यत्रैतां होतान्वाह प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृतेति तदध्वर्युः
प्राङुदायन्वातनामानि जुहोत्येतद्वै देवा अबिभयुर्यद्वै न इममन्तरा रक्षांसि
नाष्ट्रा न हन्युरिति तमेतत्पुरैवाहवनीयात्स्वाहाकारेणाजुहवुस्तं हुतमेव
सन्तमग्नाव जुहुवुस्तथो एवैनमेष एतत्पुरैवाहवनीयात्स्वाहाकारेण जुहोति तं
हुतमेव सन्तमग्नौ जुहोति
१४.२.२.[२]

समुद्राय त्वा वाताय स्वाहेति अयं वै समुद्रो योऽयं पवत एतस्माद्वै
समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति तस्मादाह
समुद्राय त्वा वाताय स्वाहा
१४.२.२.[३]

सरिराय त्वा वाताय स्वाहेति अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे
देवाः सर्वाणि भूतानि सहेरते तस्मा एवैनं जुहोति तस्मादाह सरिराय त्वा वाताय
स्वाहा
१४.२.२.[४]
अनाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहेति अयं वा
अनाधृष्योऽप्रतिधृष्यो योऽयं पवते तस्मा एवैनं जुहोति तस्मादाहानाधृष्याय
त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहेति
१४.२.२.[५]

अवस्यवे त्वा वाताय स्वाहाशिमिदाय त्वा वाताय स्वाहेति अयं वा अवस्युरशिमिदो योऽयम्
पवते तस्मा एवैनं जुहोति तस्मादाहावस्यवे त्वा वाताय स्वाहाशिमिदाय त्वा वाताय
स्वाहेति
१४.२.२.[६]

इन्द्राय त्वा वसुमते रुद्रवते स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं
जुहोति तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च
रुद्रांश्चाभजत्यथो प्रातःसवनस्य चैवैतन्माध्यन्दिनस्य च सवनस्य रूपं
क्रियते
१४.२.२.[७]

इन्द्राय त्वादित्यवते स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं जुहोति
तस्मादाहेन्द्राय त्वेत्यादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजत्यथो
तृतीयसवनस्यैवैतद्रूपं क्रियते
१४.२.२.[८]

इन्द्राय त्वाभिमातिघ्ने स्वाहेति अयं वा इन्द्रो योऽयं पवते तस्मा एवैनं जुहोति
तस्मादाहेन्द्राय त्वेत्यभिमातिघ्न इति सपत्नो वाअभिमातिरिन्द्राय त्वा सपत्नघ्न
इत्येवैतदाह सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते देवेभ्यः
१४.२.२.[९]

सवित्रे त्व ऋभुमते विभुमते वाजवते स्वाहेति अयं वै सविता योऽयं पवते
तस्मा एवैनं जुहोति तस्मादाह सवित्रे त्वेत्यृभुमते विभुमते वाजवत इति
तदस्मिन्विश्वान्देवानन्वाभजति
१४.२.२.[१०]

बृहस्पतये त्वा विश्वदेव्यावते स्वाहेति अयं वै बृहस्पतिर्योऽयं पवते तस्मा
एवैनं जुहोति तस्मादाह बृहस्पतये त्वेति विश्वदेव्यावत इति
तदस्मिन्विश्वान्त्सर्वान्देवान्न्वाभजति
१४.२.२.[११]

यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति अयं वै यमो योऽयं पवते तस्मा एवैनं
जुहोति तस्मादाह यमाय त्वेत्यङ्गिरस्वते पितृमत इति यज्ञस्य शीर्षच्छिन्नस्य [रसो
व्यक्षरत्स] पितॄ!नगच्छत्त्रया वै पितरस्तानेवैतदन्वाभजति
१४.२.२.[१२]

द्वादशैतानि नामानि भवन्ति द्वादश वै मासाः सम्वत्सरस्य सम्वत्सर एष य
एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्माद्द्वादश भवन्ति
१४.२.२.[१३]

अथोपयमन्या महावीर आनयति स्वाहा घर्मायेत्येष वै घर्मो य एष
तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह स्वाहा घर्मायेत्यवरं
स्वाहाकारं करोति परां देवतामसावेव बन्धुः
१४.२.२.[१४]

आनीते जपति स्वाहा घर्मः पित्र इति यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स]
पितॄ!नगच्छत्त्रया वै पितरस्तानेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां
देवतामसावेव बन्धुः
१४.२.२.[१५]

नानुवाक्यामन्वाह सकृदु ह्येव पराञ्चः
पितरस्तस्मान्नानुवाक्यामन्वाहातिक्रम्याश्राव्याह घर्मस्य यजेति वषट्कृते जुहोति
१४.२.२.[१६]

विश्वा आशा दक्षिणसदिति सर्वा आशा दक्षिणसदित्येवैतदाह विश्वान्देवानयाडिहेति
सर्वान्देवानयाक्षीदिहेत्येवैतदाह स्वाहाकृतस्य घर्मस्य मधोः
पिबतमश्विनेत्यश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः प्रत्यधत्तां
तावेवैतत्प्रीणात्यवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः
१४.२.२.[१७]

अथ हुत्वोर्ध्वमुत्कम्पयति दिवि धा इमं यज्ञमिमं यज्ञं दिवि धा इत्यसौ
वा आदित्यो घर्मो यज्ञो दिवि वा एष हितो दिवि प्रतिष्ठितस्तमेवैतत्प्रीणाति तस्मादाह
दिवि धा इमं यज्ञमिमं यैञं दिवि धा इत्यनुवषट्कृते जुहोति
१४.२.२.[१८]

स्वाहाग्नये यज्ञियायेति तत्स्विष्टकृद्भाजनमग्निर्हि स्विष्टकृचं यजुर्भ्य इति
यजुर्भिर्ह्येषोऽस्मिंलोके प्रतिष्ठितस्तान्येवैतत्प्रीणात्यवरं स्वाहाकारं करोति
परां देवतामसावेव बन्धुः
१४.२.२.[१९]

अथ ब्रह्मानुमन्त्रयते ब्रह्मा वा ऋत्विजां भिषक्तमस्तद्य एवर्त्विजाम्
भिषक्तमस्तेनैवैनमेतद्यज्ञं भिषज्यति
१४.२.२.[२०]
अश्विना घर्मं पातमिति अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः
प्रत्यधत्तां तावेवैतत्प्रीणाति
१४.२.२.[२१]

हार्द्वानमहर्दिवाभिरूतिभिरिति अनिरुक्तमन् रुक्तो वै प्रजापतिः
प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति
१४.२.२.[२२]

तन्त्रायिण इति एष वै तन्त्रायी य एष तपत्येष
हीमांलोकांस्तन्त्रमिवानुसञ्चरत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह
तन्त्रायिण इति
१४.२.२.[२३]

नमो द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यां निह्नुते ययोरिदं
सर्वमधि
१४.२.२.[२४]

अथ यजमानः यज्ञो वै यजमानो यज्ञेनेवैतद्यज्ञं भिषज्यति
१४.२.२.[२५]

अपातामश्विना घर्ममिति अश्विनावेवैतदाहाश्विनौ ह्येतद्यज्ञस्य शिरः
प्रत्यधत्तां तावेवैतत्प्रीणाति
१४.२.२.[२६]

अनुद्यावापृथिवी अमंसातामिति तदिमे द्यावापृथिवी आह ययोरिदं सर्वमधीहैव
रातयः सन्त्वितीहैव नो धनानि सन्त्वित्येवैतदाह
१४.२.२.[२७]

अथ पिन्वमानमनुमन्त्रयते इषे पिन्वस्वेति वृष्ट्यै तदाह यदाहेषे
पिन्वस्वेत्यूर्जे पिन्वस्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह ब्रह्मणे पिन्वस्वेति
तद्ब्रह्मण आह क्षत्राय पिन्वस्वेति तत्क्षत्रायाह द्यावापृथिवीभ्यां पिन्वस्वेति
तदाभ्यां द्यावापृथिवीभ्यामाह ययोरिदं सर्वमधि
१४.२.२.[२८]

स यदूर्ध्वः पिन्वते तद्यजमानाय पिन्वते यत्प्राङ्तद्देवेभ्यो यद्दक्षिणा
तत्पितृभ्यो यत्प्रत्यङ्तत्पशुभ्यो यदुदङ्तत्प्रजाया अनपराद्धं न्वेव
यजमानस्योर्ध्वो ह्येव पिन्वत्याथ यां दिशं पिन्वते तां पिन्वते यदा शाम्यन्ति
विप्रुषः

१४.२.२.[२९]

अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष
हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति
१४.२.२.[३०]

अथ खरे सादयति अमेन्यस्मे नृम्णानि धारयेत्यक्रुध्यन्नो धनानि
धारयेत्येवैतदाह ब्रह्म धारय क्षत्रं धारय विशं धारयेत्येतत्सर्वं
धारयेत्येवैतदाह
१४.२.२.[३१]

अथ शाकलैर्जुहोति प्राणा वै शाकलाः प्राणानेवास्मिन्नेतद्दधाति
१४.२.२.[३२]

स्वाहा पूष्णे शरस इति अयं वै पूषा योऽयं पवत एष हीदं सर्वं पुष्यत्येष
उ प्राणः प्राणमेवास्मिन्नेतद्दधाति तस्मादाह स्वाहा पूष्णे शरस इत्यवरं
स्वाहाकारं करोति परां देवतामसावेव बन्धुर्हुत्वा मध्यमे परिधाउपश्रयति
१४.२.२.[३३]

स्वाहा ग्रावभ्य इति प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे
परिधाउपश्रयति
१४.२.२.[३४]

स्वाहा प्रतिरवेभ्य इति प्राणा वै प्रतिरवाः प्राणान्हीदं सर्वं प्रतिरतम्
प्राणानेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिधाउपश्रयति
१४.२.२.[३५]

स्वाहा पितृभ्य ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्य इति अहुत्वैवोदङ्ङीक्षमाणो
दक्षिणार्धे बर्हिष उपगूहति यज्ञस्य शीर्षच्>इन्नस्य [रसो व्यक्षरत्स]
पितॄ!नगच्छत्त्रया वै पितरस्तानेवैतत्प्रीणात्यथ यन्न प्रेक्षते सकृदु ह्येव
पराञ्चः पितरः
१४.२.२.[३६]

स्वाहा द्यावापृथिवीभ्यामिति प्राणोदानौ वै
द्यावापृथिवीप्राणोदानावेवास्मिन्नेतद्दधाति हुत्वा मध्यमे परिद्>आउपश्रयति
१४.२.२.[३७]

स्वाहा विश्वेभ्यो देवेभ्य इति प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति
हुत्वा
मध्यमे परिधाउपश्रयति
१४.२.२.[३८]

स्वाहा रुद्राय रुद्रहूतय इति अहुत्वैव दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति
तं स उत्तरतः शालाया उदञ्चं निरस्यत्येषा ह्येतस्य देवस्य
दिक्ष्वायामेवैनमेतद्दिशि प्रीणात्यथ यन्न प्रेक्षते नेन्मा रुद्रो हिनसदिति
१४.२.२.[३९]

सप्तैता आहुतयो भ्वन्ति सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति
१४.२.२.[४०]

अथ महावीरादुपयमन्यां प्रत्यानयति स्वाहा सं ज्योतिषा ज्योतिरिति ज्योतिर्वा
इतरस्मिन्पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते अवरं
स्वाहाकारं करोति परां देवतामसावेव बन्दुः
१४.२.२.[४१]

अथ रौहिणौ जुहोति अहः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धू
रात्रिः केतुना जुषतां सुज्योतिर्ज्योतिषा स्वाहेत्यसावेव बन्धुः
१४.२.२.[४२]

अथ यजमानाय घर्मोच्छिष्टं प्रयच्छति स उपहवमिष्ट्वा भक्षयति मधु
हुतमिन्द्रतमे अग्नाविति मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाहाश्याम ते
देव घर्म नमस्ते अस्तु मा मा हिंसीरित्याशिषमेवैतदाशास्ते
१४.२.२.[४३]

अथ दक्षिणतः सिकता उपकीर्णा भवन्ति तन्मार्जयन्ते य एव मार्जालीये बन्धुः
सोऽत्रानुप्रहरति शाकलानथोपसदा चरन्त्येतदु यज्ञस्य शिरः संस्कृतं
यथायथैनं तदश्विनौ प्रत्यधत्ताम्
१४.२.२.[४४]

तं न प्रथमयज्ञे प्रवृञ्ज्यात् एनस्यं हि तदथो नेन्म इन्द्रः शिरश्चिनददिति
द्वितीये वैव तृतीये वापशीर्ष्णा ह्येवाग्रे यज्ञेन देवा अर्चन्तः
श्राम्यन्तश्चेरुस्तस्माद्द्वितीये वैव तृतीये वाथो तप्तो वा एष शुशुचानो भवति
१४.२.२.[४५]

तं यत्प्रथमय]ञे प्रवृञ्ज्यात् एषोऽस्य तप्तः शुशुचानः प्रजां च पशूंश्च
प्रदहेदथो आयुः प्रमायुको यजमानः स्यात्तस्माद्द्वितीये वैव तृतीये वा

१४.२.२.[४६]

तं न सर्वस्मा इव प्रवृञ्ज्यात् सर्वं वै प्रवर्ग्यो नेत्सर्वस्मा इव सर्वं
करवाणीति यो न्वेव ज्ञतस्तस्मै प्रवृञ्ज्याद्यो वास्य प्रियः स्याद्यो
वानूचानोऽनूक्तेनैनं प्राप्नुयात्
१४.२.२.[४७]

सहस्रे प्रवृञ्ज्यात् सर्वं वै सहस्रं सर्वमेष सर्ववेदसे प्रवृञ्ज्यात्सर्वं वै
सर्ववेदसं सर्वमेष विश्वजिति सर्वपृष्थे प्रवृञ्ज्यात्सर्वं वै
विश्वजित्सर्वपृष्ठः सर्वमेष वाजपेये राजसूये प्रवृञ्ज्यात्सर्वं हि तत्सत्त्रे
प्रवृञ्ज्यात्सर्वं वै सत्त्रं सर्वमेष एतान्यस्य प्रवर्जनान्यतो नान्यत्र
१४.२.२.[४८]

तदाहुः यदपशिरा अप्रवर्ग्योऽथ केनास्याग्निहोत्रं
शीर्षण्वद्भवतीत्याहवनीयेनेति ब्रूयात्कथं दर्शपूर्णमासावित्याज्येन च
पुरोडाशेन चेति ब्रूयात्कथं चातुर्मास्यानीति पयस्ययेति ब्रूयात्कथं पशुबन्ध
इति पशुना च पुरोडाशेन चेति ब्रूयात्कथं सौम्योऽध्वर इति हविर्धानेनेति ब्रूयात्
१४.२.२.[४९]

अथो आहुः यज्ञस्य शीर्षच्छिन्नस्य शिर एतद्देवाः प्रत्यदधुर्यदातिथ्यं न ह वा
अस्यापशीर्ष्णा केन चन यज्ञेनेष्टं भवति य एवमेतद्वेद
१४.२.२.[५०]

तदाहुः यत्प्रणीताः प्रणयन्ति यज्ञेऽथ कस्मादत्र न प्रणयतीति शिरो वा
एतद्यज्ञास्य यत्प्रणीताः शिरः प्रवर्ग्यो नेच्छिरसा शिरोऽभ्यारोहयाणीति
१४.२.२.[५१]

तदाहुः यत्प्रयाजानुयाजा अन्यत्र भवन्त्यथ कस्मादत्र न भवन्तीति प्राणा वै
प्रयाजानुयाजाः प्राणा अवकाशाः प्राणाः शाकल नेत्प्राणैः प्राणानभ्यारोहयाणीति

१४.२.२.[५२]

तदाहुः यदाज्यभागावन्यत्र जुह्वत्यथ कस्मादत्र न जुहोतीति चक्षुषी वा एते
यज्ञस्य यदाज्यभागौ चक्षुषी रौहिणौ नेच्चक्षुषा चक्षुरभ्यारोहयाणीति
१४.२.२.[५३]

तदाहुः यद्वानस्पत्यैर्देवेभ्यो जुह्वत्यथ कस्मादेतं म्ंमयेनैव जुहोतीति
यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्स इमे द्यावापृथिवी अगच्छद्यन्मृदियं
तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन
समर्धयति कृत्स्नं करोति

१४.२.२.[५४]

स यद्वानस्पत्यः स्यात् प्रदह्येत यद्धिरण्मयः स्यात्प्रलीयेत यल्लोहमयः
स्यात्प्रसिच्येत यदयस्मयः स्यात्प्रदहेत्परीशासावथैष एवैतस्माअतिष्ठत
तस्मादेतं मृन्मयेनैव जुहोति
१४.२.२.[५५]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्ष् ।यति वा तस्य
व्रतचर्या या सृस्।त् ।ौ
१४.३.१.[१]

स वै तृतीयेऽहन् षष्ठे वा द्वादशे वा प्रवर्ग्योपसदौ समस्य
प्रवर्ग्यमुत्सादयत्युत्सन्नमिव हीदं शिरस्तद्यदेतमभितो भवति तत्सर्वं
समादायाग्रेण शालामन्तर्वेद्युपसमायन्ति

१४.३.१.[२]

अथाग्नीध्रः आहवनीये त्रीञ्चालाकानुपकल्पयते तेषामेकमुज्ज्वलय्य
मुखदघ्ने धारयमाणो जुहोति यज्ञस्य शीर्षच्छिन्नस्य
शुगुदक्रामत्सेमांलोकानाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति
१४.३.१.[३]

अथ यन्मुखदघ्ने उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ
लोकस्तद्यामुं लोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति
१४.३.१.[४]

या ते घर्म दिव्या शुगिति यैव दिव्या शुग्या गायत्र्यांहविर्धान इति यैव गायत्र्यां
हविर्धाने सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति
१४.३.१.[५]

अथ द्वितीयमुज्ज्वलय्य नाभिदघ्ने धारयमाणो जुहोति मध्यमिव वै
तद्यन्नाभिदघ्नं मध्यमिवान्तरिक्षलोकस्तद्यान्तरिक्षलोकं
शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति
१४.३.१.[६]

याते घर्मान्तरिक्षे शुगिति यैवान्तरिक्षे शुग्या त्रिष्टुभ्याग्नीध्र इति यैव
त्रिष्टुभ्याग्नीध्रे सा त आप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति
१४.३.१.[७]

अथ तृतीयमभ्याधाय तस्मिन्नासीनो जुहोत्यधैव वै तद्यदासीनोऽधैव
तद्यदयं लोकस्तद्येमं लोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं
करोति
१४.३.१.[८]

या ते घर्म पृथिव्यां शुगिति यैव पृथिव्यां शुग्या जगत्यां सदस्येति यैव
जगत्यां सदस्या सा तआप्यायतां निष्ट्यायतां तस्यै ते स्वाहेति नात्र तिरोहितमिवास्ति
१४.३.१.[९]

अथोपनिष्क्रामति क्षत्रस्य त्वा परस्पायेत्येतद्वै दैवं क्षत्रं य एष
तपत्यस्य त्वा मानुषस्य क्षत्रस्य परस्पत्वायेत्येवैतदाह ब्रह्मणस्तन्वम्
पाहीति ब्रह्मण आत्मानं गोपायेत्येवैतदाह विशस्त्वा धर्मणा वयमिति यज्ञो वै
विड्यज्ञस्य त्वारिष्ट्या इत्येवैतदामानुक्रामाम सुविताय नव्यस इति यज्ञस्य
त्वारिष्ट्या अह्वलाया इत्येवैतदाह
१४.३.१.[१०]

अथाह साम गायेति साम ब्रूहीति वा गायेति त्वेव ब्रूयाद्गायन्ति हि साम तद्यत्साम
गायति नेदिमान्बहिर्धा यज्ञाच्छरीरान्नाष्ट्रा रक्षांसि हिनसन्निति साम हि नाष्ट्राणां
रक्षसामपहन्ता
१४.३.१.[११]

आग्नेय्यां गायति अग्निर्हि रक्षसामपहन्तातिच्छन्दसि गायत्येषा वै सर्वाणि छन्दांसि
यदव्तिच्छन्दास्तस्मादतिच्छन्दसि गायति
१४.३.१.[१२]

स गायति अग्निष्टपति प्रतिदहत्यहावोऽहाव इति तन्नाष्ट्रा वै
तद्रक्षांस्यतोऽपहन्ति
१४.३.१.[१३]

त उदञ्चो निष्क्रामन्ति जग्>अनेन चात्वालमग्रेणाग्नीध्रमेषा हि यज्ञस्य द्वाः स
यस्यां ततो दिश्यापो भवन्ति तद्यन्ति
१४.३.१.[१४]

तं वै परिष्यन्द उत्सादयेत् तप्तो वा एष शुशुचानो भवति तं
यदस्यामुत्सादयेदिमामस्य शुगृच्छेद्यदप्सूत्सादयेदपोऽस्य शुगृच्छेदथ
यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति
तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति
तस्मात्परिष्यन्द उत्सादयेत्
१४.३.१.[१५]
उत्तरवेदौ त्वेवोत्सादयेत् यज्ञो वा उत्तरवेदिः शिरः प्रवर्ग्यो यज्ञ एवतच्छिरः
प्रतिदधाति
१४.३.१.[१६]

उत्तरनाभ्या संस्पृष्टम् प्रथमं प्रवर्ग्यमुत्सादयति वाग्वा उत्तरनाभिः
शिरः प्रवर्ग्यः शीर्षंस्तद्वाचं दधाति
१४.३.१.[१७]

चतुःस्रक्तिरिति एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयस्तस्मादाह
चतुःस्रक्तिरिति
१४.३.१.[१८]

नाभिर्ऋतस्य सप्रथा इति सत्यं वा ऋतं सत्यस्य नाभिः सप्रथा इत्येवैतदाह स नो
विश्वायुः सप्रथा इति स नः सर्वायुः सप्रथा इत्येवैतदाह
१४.३.१.[१९]

अप द्वेषो अप ह्वर इति नात्र तिरोहितमिवास्त्यन्यव्रतस्य सश्चिमेत्यन्यद्वा एतस्य
व्रतमन्यन्मनुष्याणां तस्मादाहान्यव्रतस्य सश्चिमेत्येवमितरौ प्राञ्चौ
तत्त्रिवृत्त्रिवृद्धीदं शिरः
१४.३.१.[२०]

पुरस्तादुपशयां मृदम् मांसमेवास्मिन्नेतद्दधाति तदभितः परीशासौ बाहू
एवास्मिन्नेतद्दधात्यभितः परे रौहिणहवन्यौ स्रुचौ
हस्तावेवास्मिन्नेतद्दधाति
१४.३.१.[२१]

उत्तरतोऽभ्रिम् तद्धि तस्या आयतनं दक्षिणतः सम्राडासन्दीं तद्धि तस्या
आयतनमुत्तरतः कृष्णाजिनं तद्धि तस्यायतनं सर्वतो धवित्राणि प्राणा वै
धवित्राणि प्राणानेवास्मिन्नेतद्दद्>आति त्रीणि भवन्ति त्रयो वै प्राणाः प्र्ण उदानो
व्यानस्तानेवास्मिन्नेतद्दधाति
१४.३.१.[२२]

अथैतद्रज्जुसन्दानम् उपयमन्यामाधाय
पश्चात्प्राचीमासादयत्युदरमेवास्मिन्नेतद्दधाति तदभितः पिन्वने
आण्डावेवास्मिन्नेतद्दधात्याण्डाभ्यां हि वृषा पिन्वते पश्चात्स्थूणामयूखमूरू
एवास्मिन्नेतद्दधाति पश्चाद्रौहिणकपाले जानुनी एवास्मिन्नेतद्दधाति ते
यदेककपाले भवत एककपाले इव हीमे जानुनी पश्चाद्धृष्टी
पादावेवास्मिन्नेतद्दधाति पादाभ्यां हि धृष्टं प्रहरत्युत्तरतः खरौ
प्रचरणीयौ तद्धि तयोरायतनं दक्षिणतो मार्जालीयं तद्धि तस्यायतनम्
१४.३.१.[२३]

अथास्मिन्पय आनयति घर्मैतत्ते पुरीषमित्यन्नं वै
पुरीषमन्नमेवास्मिन्नेतद्दधाति तेन वर्धस्व चा च प्यायस्वेति नात्र
तिरोहितमिवास्ति वर्धिषीमहि च वयमा च प्यासिषीमहीत्याशिषमेवैतदाशास्ते
१४.३.१.[२४]

स वै न सर्वमिवानयेत् नेद्यजमानात्परागन्नमसदित्यर्धं वा भूयो वा
परिषिनष्टि तस्मिन्नपराह्णे यजमानाय व्रतमभ्युत्सिच्य प्रयच्छति तद्यजमान
एवैतदन्नाद्यं दधाति तथो ह यजमानान्न परागन्नं भवति
१४.३.१.[२५]

अथैनमद्भिः परिषिञ्चति शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति
सर्वत एवैनमेतच्छमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृद्धि यज्ञः
१४.३.१.[२६]

अथाह वार्षाहरं साम गायति एष वै वृषा हरिर्य एष तपत्येष उ
प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह वार्षाहरं साम गायति
१४.३.१.[२७]

अथ चात्वाले मार्जयन्ते सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति वज्रो
वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं
च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात्तां दिशं परासिञ्चेत्तेनैव तम्
पराभावयति
१४.३.१.[२८]

अथ प्राङिवोदङ्ङुत्क्रामति उद्वयं तमसस्परीति पाप्मा वै तमः पाप्मानमेव
तमोऽपहते स्वः पश्यन्त उत्तरमित्ययं वै लोकोऽद्भ्य उत्तरोऽस्मिन्नेव लोके
प्रतितिष्ठति देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति स्वर्गो वै लोकः सूर्यो
ज्योतिरुत्तमं स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठत्यनपेक्षमेत्याहवनीये
समिधमभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्याशिषमेवैतदाशास्ते
१४.३.१.[२९]

अथ प्रसुते दधिघर्मेण चरन्ति यज्ञो वै सोमः शिरः प्रवर्ग्यो यज्ञ
एवैतच्छिरः प्रतिदधाति माध्यन्दिने सवन एतद्वा इन्द्रस्य निष्केवल्यं सवनं
यन्माध्यन्दिनं सवनं स्व एवैनमेतद्भागे प्रीणाति स्तुते माध्यन्दिने
पवमाने प्राणो वै माध्यन्दिनः पवमानः
प्राणमेवास्मिन्नेतद्दधात्यग्निहोत्रहवण्या मुखं वा एतद्यज्ञानां
यदग्निहोत्रं शीर्षंस्तन्मुखं दधाति
१४.३.१.[३०]

स आनीयमान आह होतर्वदस्व यत्ते वाद्यमिति वदते ह्यत्र
होताथोपोत्तिष्ठन्नाह श्रातं हविरिति श्रातं हि भवत्यतिक्रम्याश्राव्याह
दधिघर्मस्य यजेति वषट्कृते जुहोत्यनुवषट्कृत आहरति भक्षं तं
यजमानाय प्रयच्छति
१४.३.१.[३१]

स उपहवमिष्ट्वा भक्षयति मयि त्यदिन्द्रियं बृहदित्येतद्वा इन्द्रियं बृहद्य
एष तपति मयि दक्षो मयि क्रतुरिति क्रतूदक्षावेवात्मन्धत्ते
घर्मस्त्रिशुग्विराजतीति घर्मो ह्येष त्रिशुग्विराजति विराजा ज्योतिषा सहेति विराजा ह्येष
ज्योतिषा सह ब्रह्मणा तेजसा सहेति ब्रह्मणा ह्येष तेजसा सह पयसो रेत
आभृतमिति पयसो ह्येतद्रेत आभृतं तस्य दोहमशीमह्युत्तरामुत्तरां
समामित्याशिषमेवैतदाशास्तेऽथ चात्वाले मार्जयन्तेऽसावेव बन्धुः
१४.३.१.[३२]

अथातो दक्षिणानाम् सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददात्यासीनो वै ब्रह्मा
यशः शयानं हिरण्यं तस्मात्सुवर्णं हिरण्यं शतमानं ब्रह्मणे ददाति
१४.३.१.[३३]

अथ यैषा घर्मदुघा तामध्वर्यवे ददाति तप्तैव वै
घर्मस्तप्तमिवाध्वर्युर्निष्क्रामति तस्मात्तामध्वर्य वे ददाति
१४.३.१.[३४]

अथ यैषा यजमानस्य व्रतदुघा तां होत्रे ददाति यज्ञो वै होता यज्ञो
यजमानस्तस्मात्तां होत्रे ददाति
१४.३.१.[३५]

अथ यैषा पत्न्यै व्रतदुघा तामुद्गातृभ्यो ददाति पत्नीकर्मेव वा एतेऽत्र
कुर्वन्ति यदुद्गातारस्तस्मात्तामुद्गातृभ्यो ददाति
१४.३.१.[३६]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य
व्रतचर्या या सृष्टौ
१४.३.२.[१]

सर्वेषां वा एष भूतानाम् सर्वेषां देवानामात्मा यद्यज्ञस्तस्य समृद्धिमनु
यजमानः प्रजया पशुभिर्ऋध्यते वि वा एष प्रजया पशुभिर्ऋध्यते यस्य घर्मो
विदीर्यते तत्र प्रायश्चित्तिः
१४.३.२.[२]
पूर्णाहुतिं जुहोति सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं
यज्ञस्य
१४.३.२.[३]

स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति मनो वै प्राणानामधिपतिर्मनसि हि सर्वे
प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य
१४.३.२.[४]

पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं
तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य
१४.३.२.[५]

अग्नये स्वाहेति अग्निर्वै सर्वेषां देवानामात्मा
तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृड्>अं यज्ञस्य
१४.३.२.[६]

अन्तरिक्षाय स्वाहेति अन्तरिक्षं वै सर्वेषां देवानामायतनं तत्सर्वा>
१४.३.२.[७]

वायवे स्वाहेति वायुर्वै सर्वेषां देवानामात्मा तत्सर्वा>
१४.३.२.[८]

दिवे स्वाहेति द्यौर्वै सर्वेषां देवानामायतनं तत्सर्वा>
१४.३.२.[९]

सूर्याय स्वाहेति सूर्यो वै सर्वेषां देवानामात्मा तत्सर्वा>
१४.३.२.[१०]

दिग्भ्यः स्वाहेति दिशो वै सर्वेषां देवानामायतनं तत्सर्वा>
१४.३.२.[११]

चन्द्राय स्वाहेति चन्द्रो वै सर्वेषां देवानामात्मा तत्सर्वा>
१४.३.२.[१२]

नक्षत्रेभ्यः स्वाहेति नक्षत्राणि वै सर्वेषां देवानामायतनं तत्सर्वा>

१४.३.२.[१३]

अद्भ्यः स्वाहेति आपो वै सर्वेषां देवानामायतनं तत्सर्वा>
१४.३.२.[१४]

वरुणाय स्वाहेति वरुणो वै सर्वेषां देवानामात्मा तत्सर्वा>
१४.३.२.[१५]

नाभ्यै स्वाहा पूताय स्वाहेति अनिरुक्तमनिरुक्तो वै प्रजापतिः
प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति
१४.३.२.[१६]

त्रयोदशैता आहुतयो भवन्ति त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सरः
प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति
१४.३.२.[१७]

वाचे स्वाहेति मुखमेवास्मिन्नेतद्दधाति प्राणाय स्वाहा प्राणाय स्वाहेति नासिके
एवास्मिन्नेतद्दधाति चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्दधाति
श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति
१४.३.२.[१८]

सप्तैता आहुतयो भवन्ति सप्त वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति
पूर्णाहुतिमुत्तमां जुहोति सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च
विवृढं यज्ञस्य
१४.३.२.[१९]

मनसः काममाकूतिमिति मनसा वा इदं सर्वमाप्तं तन्मनसैवैतद्भिषज्यति
यत्किं च विवृढं यज्ञस्य
१४.३.२.[२०]

वाचः सत्यमशीयेति वाचा वा इदं सर्वमाप्तं तद्वाचैवैतद्भिषज्यति यत्किं च
विवृढं यज्ञस्य पशूनां रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि
स्वाहेत्याशिषमेवैतदाशास्ते
१४.३.२.[२१]

अथ तं चोपशयां च पिष्ट्वा मार्त्स्नया मृदा संसृज्यावृता करोत्यावृता
पचत्युत्सादनार्थमथ य उपशययोर्दृढः स्यात्तेन प्रचरेत्

१४.३.२.[२२]

संवत्सरो वै प्रवर्ग्यः सर्वं वै संवत्सरः सर्वं प्रवर्ग्यः स
यत्प्रवृक्तस्तद्वसन्तो यद्रुचितस्तद्ग्रीष्मो यत्पिन्वितस्तद्वर्षा यदा वै वर्षाह्
पिन्वन्तेऽथैनाः सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वाअस्मै वर्षा य
एवमेतद्वेद
१४.३.२.[२३]

इमे वै लोकाः प्रवर्ग्यः सर्वं वा इमे लोकाः सर्वं प्रवर्ग्यः स
यत्प्रवृक्तस्तदयं लोको यद्रुचितस्तदन्तरिक्षलोको यत्पिन्वितस्तदसौ लोको यदा वा
असौ लोकः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्म्
असौ लोको य एवमेतद्वेद
१४.३.२.[२४]

एता वै देवताः प्रवर्ग्यः अग्निर्वायुरादित्यः सर्वं वा एता देवता सर्वम्
प्रवर्ग्यः स यत्प्रवृक्तस्तदग्निर्यद्रुचितस्तद्वायुर्यत्पिन्वितस्तदसावादित्यो यदा वा
असावादित्यःपिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा
असावादित्यो य एवमेतद्वेद
१४.३.२.[२५]

यजमानो वै प्रवर्ग्यः तस्यात्मा प्रजा पशवः सर्वं वै यजमानः सर्वम्
प्रवर्ग्यः स यत्प्रवृक्तस्तदात्मा यद्रुचितस्तत्प्रजा यत्पिन्वितस्तत्पशवो यदा वै
पशवः पिन्वतेऽथैनान्त्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै
पशवो य एवमेतद्वेद
१४.३.२.[२६]

अग्निहोत्रं वै प्रवर्ग्यः सर्वं वाअग्निहोत्रं सर्वं प्रवर्ग्यः स यदधिश्रितं
तत्प्रवृक्तो यदुन्नीतं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वाअग्निहोत्रम्
पिन्वतेऽथैनत्सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा अस्मा अग्निहोत्रं
य एवमेतद्वेद
१४.३.२.[२७]

दर्शपूर्णमासौ वै प्रवर्ग्यः सर्वं वै दर्शपूर्णमासौ सर्वं प्रवर्ग्यः स
यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रुचितो यद्धुतं तत्पिन्वितो यदा वै
दर्शपूर्णमासौ पिन्वेते अथैनौ सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वेते ह
वा अस्मै दर्शपूर्णमासौ य एवमेतद्वेद
१४.३.२.[२८]

चातुर्मास्यानि वै प्रवर्ग्यः सर्वं वै चातुर्मास्यानि सर्वं प्रवर्ग्यः स
यदधिश्रितं तत्प्रवृक्तो यदासन्नं तद्रु

दते fरि, २६ जुल्१ऋऋ६ १५४३२२ ०६०० (च्स्थ्fरोम् "व्. प्. लेह्मन्न्"
<लेह्मन्न्॰उत्क्ष्व्म्स्.च्च्.उतेक्षस्.एदु>सुब्जेच्त् स्ब्१४ ओ
ज्गर्द्नेर्॰ब्लुए.वेएग्.उइओवैदुमिमेवेर्सिओन् १.० ततुस्रोक्ष्स्ततुस्
चितो यद्धुतं तत्पिन्वितो यदा वै चातुर्मास्यानि पिन्वन्तेऽथैनानि सर्वे देवाः सर्वाणि
भूतान्युपजीवन्ति पिन्वन्ते ह वा अस्मै चातुर्मास्यानि य एवमेतद्वेद
१४.३.२.[२९]

पशुबन्धो वै प्रवर्ग्यः सर्वं वै पशुबन्धः सर्वं प्रवर्ग्यः स
यदधिश्रितस्तत्प्रवृक्तो यदासन्नस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै
पशुबन्धः पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपजीवन्ति पिन्वते ह वा
अस्मै पशुबन्धो य एवमेतद्वेद
१४.३.२.[३०]

सोमो वै प्रवर्ग्यः सर्वं वै सोमः सर्वं प्रवर्ग्यः स
यदभिषुतस्तत्प्रवृक्तो यदुन्नीतस्तद्रुचितो यद्धुतस्तत्पिन्वितो यदा वै सोमः
पिन्वतेऽथैनं सर्वे देवाः सर्वाणि भूतान्युपयुञ्जन्ति पिन्वते ह वा अस्मै सोमो य
एवमेतद्वेद न ह वा अस्याप्रवर्ग्येण केन चन यज्ञेनेष्टं भवति य
एवमेतद्वेद
१४.३.२.[३१]

अथैतद्वै आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य
व्रतचर्या या सृष्टौ
१४.४.१.१

द्वया ह प्राजापत्याः देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्तएषु
लोकेष्वस्पर्धन्त

Search

Search will be available shortly.