शतपथ ब्राह्मणम् 4

Posted at 2016-03-12 17:23:41
शतपथ ब्राह्मणम् 4

 

५.१.१.[१]

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव
कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव
पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः

५.१.१.[२]

अथ देवाः । अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानं प्रददौ
यज्ञो हैषामास यज्ञो हि देवानामन्नम्

५.१.१.[३]

ते होचुः । कस्य न इदं भविष्यतीति ते मम ममेत्येव न सम्पादयां चक्रुस्ते
हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदं भविष्यतीति
तथेति तस्मिन्नाजिमाजन्त

५.१.१.[४]

स बृहस्पतिः । सवितारमेव प्रसवायोपाधावत्सविता वै देवानां प्रसवितेदं मे
प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत
उदजयत्स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं ह्युदजयत्सर्वमु
ह्येवेदं प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत्तस्माद्यश्च वेद यश्च
नैषोर्ध्वा बृहस्पतेर्दिगित्येवाहुः

५.१.१.[५]

तद्ये ह स्म पुरा वाजपेयेन यजन्ते । एतां ह स्मैवोर्ध्वा दिशमुत्क्रामन्ति तत
औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततोऽर्वाचीनं प्रत्यवरोहन्ति

५.१.१.[६]

तेनेन्द्रोऽयजत । स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं
ह्युदजयत्सर्वमु ह्येवेदं प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत्

५.१.१.[७]

तद्ये ह स्म पुरा वाजपेयेन यजन्ते । एतां ह स्मैवोर्ध्वां दिशमुत्क्रामन्ति तत
औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततोऽर्वाचीनं प्रत्यवरोहन्ति
५.१.१.[८]

स यो वाजपेयेन यजते । स इदं सर्वं भवति स इदं सर्वमुज्जयति प्रजापतिं
ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः

५.१.१.[९]

तदाहुः । न वाजपेयेन यजेत सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते
प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः स इह न किं चन परिशिनष्टि
तस्येश्वरः प्रजा पापीयसी भवितोरिति

५.१.१.[१०]

तदु वै यजेतैव । य एवमेतं यज्ञं कॢप्तं विद्युर्ऋक्तो यजुष्टः सामतो ये
प्रजज्ञयस्त एनं याजयेयुरेषा ह त्वेतस्य यज्ञस्य समृद्धिर्यदेनं विद्वांसो
याजयन्ति तस्मादु यजेतैव

५.१.१.[११]

स वा एष ब्राह्मणस्यैव यज्ञः । यदेनेन बृहस्पतिरयजत ब्रह्म हि
बृहस्पतिर्ब्रह्म हि ब्राह्मणोऽथो राजन्यस्य यदेनेनेन्द्रोऽयजत क्षत्रं
हीन्द्रं क्षत्रं राजन्यः

५.१.१.[१२]

राज्ञ एव राजसूयम् । राजा वै राजसूयेनेष्ट्वा भवति न वै ब्राह्मणो
राज्यायालमवरं वै राजसूयं परं वाजपेयम्

५.१.१.[१३]

राजा वै राजसूयेनेष्ट्वा भवति । सम्राङ्वाजपेयेनावरं हि राज्यं परं साम्राज्यं
कामयेत वै राजा सम्राड्भवितुमवरं हि राज्यं परं साम्राज्यं न
सम्राट्कामयेत राजा भवितुमवरं हि राज्यं परं साम्राज्यम्

५.१.१.[१४]

स यो वाजपेयेनेष्ट्वा सम्राड्भवति । स इदं सर्वं संवृङ्क्ते स
कर्मणःकर्मणः पुरस्तादेतां सावित्रीमाहुतिं जुहोति देव सवितः प्रसुव यज्ञम्
प्रसुव यज्ञपतिं भगायेति

५.१.१.[१५]

तद्यथैवादो बृहस्पतिः । सवितारं प्रसवायोपाधावत्सविता वै देवानाम्
प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता
प्रासुवत्तत्सवितृप्रसूत उदजयदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति
सविता वै देवानां प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै
सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति

५.१.१.[१६]

तस्मादाह । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो
गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं नः स्वदतु स्वाहेति
प्रजापतिर्वै वाचस्पतिरन्नं वाजः प्रजापतिर्न इदमद्यान्नं स्वदत्वित्येवैतदाह
स एतामेवाहुतिं जुहोत्या श्वःसुत्याया एतद्ध्यस्यैतत्कर्मारब्धं भवति प्रसन्न
एतं यज्ञं भवति

५.१.२.[१]

अंशुं गृह्णाति । सर्वत्वायैव तस्माद्वा अंशुं
गृह्णात्यथैतान्प्रज्ञातानेवाग्निष्टोमिकान्ग्रहान्गृह्णात्याग्रयणात्

५.१.२.[२]

अथ पृष्ठ्यान्गृह्णाति । तद्यदेवैतैर्देवा उदजयंस्तदेवैष एतैरुज्जयति

५.१.२.[३]

अथ षोडशिनं गृह्णाति । तद्यदेवैतेनेन्द्र उदजयत्तदेवैष एतेनोज्जयति

५.१.२.[४]

अथैतान्पञ्च वाजपेयग्रहान्गृह्णाति । ध्रुवसदं त्वा नृषदम्
मनःसदमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा
जुष्टतममिति सादयत्येषां वै लोकानामयमेव ध्रुव इयं पृथिवीममेवैतेन
लोकमुज्जयति

५.१.२.[५]

अप्सुषदं त्वा घृतसदं व्योमसदमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं
गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येषां वै लोकानामयमेव
व्योमेदमन्तरिक्षमन्तरिक्षलोकमेवैतेनोज्जयति
५.१.२.[६]

पृथिविसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदमुपयामगृहीतो
ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येष वै
देवसन्नाकसदेष एव देवलोको देवलोकमेवैतेनोज्जयति

५.१.२.[७]

अपां रसमुद्वयसं सूर्ये सन्तं समाहितमपां रसस्य यो रसस्तं वो
गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय
त्वा जुष्टतममिति सादयत्येष वा अपां रसो योऽयं पवते स एष सूर्ये समाहितः
सूर्यात्पवत एतमेवैतेन रसमुज्जयति

५.१.२.[८]

ग्रहा ऊर्जाहुतयः । व्यन्तो विप्राय मतिं तेषां विशिप्रियाणां वोऽहमिषमूर्जं
समग्रभमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टमेष ते योनिरिन्द्राय त्वा
जुष्टतममिति सादयत्यूर्ग्वै रसो रसमेवैतेनोज्जयति

५.१.२.[९]

तान्वा एतान् । पञ्च वाजपेयग्रहान्गृह्णाति प्रजापतिं वा एष उज्जयति यो वाजपेयेन
यजते संवत्सरो वै प्रजापतिः पञ्च वा ऋतवः संवत्सरस्य तत्प्रजापतिमुज्जयति
तस्मात्पञ्च वाजपेयग्रहान्गृह्णाति

५.१.२.[१०]

अथ सप्तदश सोमग्रहान्गृह्णाति । सप्तदश सुराग्रहान्प्रजापतेर्वा एते अन्धसी
यत्सोमश्च सुरा च ततः सत्यं श्रीर्ज्योतिः सोमोऽनृतं पाप्मा तमः सुरैते
एवैतदुभे अन्धसी उज्जयति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते
प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः

५.१.२.[११]

स यत्सप्तदश । सोमग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स
यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतत्सत्यं श्रियं ज्योतिरुज्जयति

५.१.२.[१२]

अथ यत्सप्तदश । सुराग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स
यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतदनृतं पाप्मानं तम उज्जयति
५.१.२.[१३]

त उभये चतुस्त्रिंशद्ग्रहाः सम्पद्यन्ते । त्रयस्त्रिंशद्वै देवाः
प्रजापतिश्चतुस्त्रिंशस्तत्प्रजापतिमुज्जयति

५.१.२.[१४]

अथ यत्र राजानं क्रीणाति । तद्दक्षिणतः प्रतिवेशतः केशवात्पुरुषात्सीसेन
परिस्रुतं क्रीणाति न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह पुमांस्तेन न
स्त्री यदु केशवस्तेन न पुमान्नैतदयो न हिरण्यं यत्सीसं नैष सोमो न सुरा
यत्परिस्रुत्तस्मात्केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति

५.१.२.[१५]

अथ पूर्वेद्युः । द्वौ खरौ कुर्वन्ति पुरोऽक्षमेवान्यं पश्चादक्षमन्यं
नेत्सोमग्रहांश्च सुराग्रहांश्च सह सादयामेति तस्मात्पूर्वेद्युर्द्वौ खरौ
कुर्वन्ति पुरोऽक्षमेवान्यं पश्चादक्षमन्यम्

५.१.२.[१६]

अथ यत्र पूर्वया द्वारा । वसतीवरीः प्रपादयन्ति तदपरया द्वारा नेष्टा
परिस्रुतं प्रपादयति दक्षिणतः पात्राण्यभ्यवहरन्ति पुरोऽक्षमेव
प्रत्यङ्ङासीनोऽध्वर्युः सोमग्रहान्गृह्णाति पश्चादक्षं प्राङासीनो नेष्टा
सुराग्रहान्त्सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्टा
सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्ट्वेवमेवैनान्व्यत्यासं गृह्णीतः

५.१.२.[१७]

न प्रत्यञ्चमक्षमध्वर्युः । सोमग्रहमतिहरति न प्राञ्चमक्षं नेष्टा
सुराग्रहं नेज्ज्योतिश्च तमश्च संसृजावेति

५.१.२.[१८]

उपर्युपर्येवाक्षमध्वर्युः । सोमग्रहं धारयत्यधोऽधोऽक्षं नेष्टा
सुराग्रहं सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तमिति नेत्पापमिति ब्रवावेति तौ
पुनर्विहरतो विपृचौ स्थो वि मा पाप्मना पृङ्क्तमिति तद्यथेषीकाम्
मुञ्जाद्विवृहेदेवमेनं सर्वस्मात्पाप्मनो विवृहतस्तस्मिन्न तावच्चनैनो भवति
यावत्तृणस्याग्रं तौ सादयतः

५.१.२.[१९]

अथाध्वर्युः । हिरण्यपात्रेण मधुग्रहं गृह्णाति तं मध्ये सोमग्रहाणां
सादयत्यथोक्थ्यं गृह्णात्यथ ध्रुवमथैतान्त्सोमग्रहानुत्तमे स्तोत्र ऋत्विजां
चमसेषु व्यवनीय जुह्वति तान्भक्षयन्त्यथ माध्यन्दिने सवने
मधुग्रहस्य च सुराग्रहाणां चोद्यते तस्यातः

५.१.३.[१]

आग्नेयमग्निष्टोम आलभते । अग्निर्वा अग्निष्टोमो
ऽग्निष्टोममेवैतेनोज्जयत्यैन्द्राग्नमुक्थेभ्य आलभत ऐन्द्राग्नानि वा
उक्थ्यान्युक्थान्येवैतेनोज्जयत्यैन्द्रं षोडशिन आलभत इन्द्रो वै षोडशी
षोडशिनमेवैतेनोज्जयति

५.१.३.[२]

सारस्वतं सप्तदशाय स्तोत्रायालभते । तदेतदनतिरात्रे सति रात्रे रूपं क्रियते
प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते संवत्सरो वै प्रजापतिस्तदेतेन
सारस्वतेन रात्रिमुज्जयति तस्मादेतदनतिरात्रे सति रात्रे रूपं क्रियते

५.१.३.[३]

अथ मरुद्भ्य उज्जेषेभ्यः । वशां पृश्निमालभत इयं वै वशा
पृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्टितं तेनेयं वशा पृश्निरन्नं
वा एष उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं विशो वै
मरुतोऽन्नं वै विश उज्जेषेभ्य इत्युज्जित्या एव दुर्वेदे उज्जेषवत्यौ याज्यानुवाक्ये
यद्युज्जेषवत्यौ न विन्देदपि ये एव के च मारुत्यौ स्यातां दुर्वेदो एव वशा
पृश्निर्यदि वशां पृश्नि न विन्देदपि यैव का च वशा स्यात्

५.१.३.[४]

तस्या आवृत् । यत्र होता माहेन्द्रं ग्रहमनुशंसति तदस्यै वपया प्रचरेयुरेष
वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रोऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं
निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तन्मध्यत एवैतद्यजमाने वीर्यं
दधाति तस्मादस्या अत्र वपया प्रचरेयुः

५.१.३.[५]

द्वेधावदानानि श्रपयन्ति । ततोऽर्धानां जुह्वामुपस्तीर्य द्विर्द्विरवद्यति
सकृदभिघारयति प्रत्यनक्त्यवदानान्यथोपभृति सकृत्सकृदवद्यति
द्विरभिघारयति न प्रत्यनक्त्यवदानानि तद्यदर्धानां द्विर्द्विरवद्यति
तथैषा कृत्स्नां भवत्यथ यदेतैः प्रचरति तेन दैवीं विशमुज्जयत्यथार्धानि
मानुष्यै विश उपहरति तेनो मानुषीं विशमुज्जयति

५.१.३.[६]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं
करोति तस्माद्यत्रैवैतरेषां पशूनां वपाभिः प्रचरन्ति तदेवैतस्यै वपया
प्रचरेयुरेकधावदानानि श्रपयन्ति न मानुष्यै विश उपहरन्ति

५.१.३.[७]

अथ सप्तदश प्राजापत्यान्पशूनालभते । ते वै सर्वे तूपरा भवन्ति सर्वे श्यामाः
सर्वे मुष्कराः प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजतेऽन्नं वै प्रजापतिः
पशुर्वा अन्नं तत्प्रजापतिमुज्जयति सोमो वै प्रजापतिः पशुर्वै प्रत्यक्षं
सोमस्तत्प्रत्यक्षं प्रजापतिमुज्जयति सप्तदश भवन्ति सप्तदशो वै
प्रजापतिस्तत्प्रजापतिमुज्जयति

५.१.३.[८]

ते वै सर्वे तूपरा भवन्ति । पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयं तूपरो
ऽविषाणस्तूपरो वा अविषाणः प्रजापतिः प्राजापत्या एते तस्मात्सर्वे तूपरा भवन्ति

५.१.३.[९]

सर्वे श्यामाः । द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै
मिथुनं प्रजननं प्रजननं प्रजापतिः प्राजापत्या एते तस्मात्सर्वे श्यामा
भवन्ति

५.१.३.[१०]

सर्वे मुष्कराः । प्रजननं वै मुष्करः प्रजननं प्रजापतिः प्राजापत्या एते
तस्मात्सर्वे मुष्करा भवन्ति दुर्वेदा एवंसमृद्धाः पशवो
यद्येवंसमृद्धान्न विन्देदपि कतिपया एवैवंसमृद्धाः स्युः सर्वमु
ह्येवेदं प्रजापतिः

५.१.३.[११]

तद्धैके । वाच उत्तममालभन्ते यदि वै प्रजापतेः परमस्ति वागेव
तदेतद्वाचमुज्जयाम इति वदन्तस्तदु तथा न कुर्यात्सर्वं वा इदम्
प्रजापतिर्यदिमे लोका यदिदं किं च सा यदेवैषु लोकेषु वाग्वदति
तद्वाचमुज्जयति तस्मादु तन्नाद्रियेत

५.१.३.[१२]

तेषामावृत् । यत्र मैत्रावरुणो वामदेव्यमनुशंसति तदेषां वपाभिः प्रचरेयुः
प्रजननं वै वामदेव्यं प्रजननं प्रजापतिः प्राजापत्या एते तस्मादेषां
वपाभिरत्र प्रचरेयुः
५.१.३.[१३]

अथेष्टा अनुयाजा भवन्ति । अव्यूढे स्रुचावथैषां हविर्भिः प्रचरन्ति सोऽन्तोऽन्तो
वै प्रजापतिस्तदन्तत एवैतत्प्रजापतिमुज्जयत्यथ यत्पुरा प्रचरेद्यथा
यमध्वानमेष्यन्त्स्यात्तं गत्वा स क्व ततः स्यादेवं तत्तस्मादेषामत्र
हविर्भिः प्रचरन्ति

५.१.३.[१४]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं
करोति तस्माद्यत्रैवेतरेषां पशूनां वपाभिः प्रचरन्ति तदेवैतेषां वपाभिः
प्रचरेयुर्यवेतरेषां पशूनां हविर्भिः प्रचरन्ति तदेवैतेषां हविषा
प्रचरेयुरेकानुवाक्या एका याज्यैकदेवत्या हि प्रजापतय इत्युपांशूक्त्वा च्छागानां
हविषोऽनुब्रूहीति प्रजापतय इत्युपांशूक्त्वा च्छागानां हविः प्रस्थितं प्रेष्येति
वषट्कृते जुहोति

५.१.४.[१]

तं वै माध्यन्दिने सवनेऽभिषिञ्चति । माध्यन्दिने सवन आजिं धावन्त्येष वै
प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु
प्रजायन्ते तन्मध्यत एवैतत्प्रजापतिमुज्जयति

५.१.४.[२]

अगृहीते माहेन्द्रे । एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो
ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तदेनं
स्व एवायतनेऽभिषिञ्चति तस्मादगृहीते माहेन्द्रे

५.१.४.[३]

अथ रथमुपावहरति । इन्द्रस्य वज्रोऽसीति वज्रो वै रथ इन्द्रो वै
यजमानस्तस्मादाहेन्द्रस्य वज्रोऽसीति वाजसा इति वाजसा हि रथस्त्वयायं वाजं
सेदित्यन्नं वै वाजस्त्वयायमन्नमुज्जयत्वित्येवैतदाह

५.१.४.[४]

तं धूर्गृहीतमन्तर्वेद्यभ्यववर्तयति । वाजस्य नु प्रसवे मातरम्
महीमित्यन्नं वै वाजोऽन्नस्य नु प्रसवे मातरं महीमित्येवैतदाहादितिं नाम
वचसा करामहा इतीयं वै पृथिव्यदितिस्तस्मादाहादितिं नाम वचसा करामह इति
यस्यामिदं विश्वं भुवनमाविवेशेत्यस्यां हीदं सर्वं भुवनमाविष्टं तस्यां
नो देवः सविता धर्म साविषदिति तस्यां नो देवः सविता यजमानं
सवतामित्येवैतदाह

५.१.४.[५]

अथाश्वानद्भिरभ्युक्षति । स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतानद्भ्यो
ह वा अग्रेऽश्वः सम्बभूव सोऽद्भ्यः सम्भवन्नसर्वः समभवदसर्वो हि वै
समभवत्तस्मान्न सर्वैः पद्भिः प्रतितिष्ठत्येकैकमेव पादमुदच्य तिष्ठति
तद्यदेवास्यात्राप्स्वहीयत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति
तस्मादश्वानद्भिरभ्युक्षति स्नपनायाभ्यवनीयमानान्त्स्नपितान्वोदानीतान्

५.१.४.[६]

सोऽभ्युक्षति । अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवत
वाजिन इत्यनेनापि देवीरापो यो व ऊर्मिः प्रतूर्तिः ककुन्मान्वाजसास्तेनायं वाजं
सेदित्यन्नं वै वाजस्तेनायमन्नमुज्जयत्वित्येवैतदाह

५.१.४.[७]

अथ रथं युनक्ति । स दक्षिणायुग्यमेवाग्रे युनक्ति सव्यायुग्यं वा अग्रे मानुषे
ऽथैवं देवत्रा

५.१.४.[८]

स युनक्ति । वातो वा मनो वेति न वै वातात्किं चनाशीयोऽस्ति न मनसः किं चनाशीयो
ऽस्ति तस्मादाह वातो वा मनो वेति गन्धर्वाः सप्तविंशतिस्तेऽग्रेऽश्वमयुञ्जन्निति
गन्धर्वा ह वा अग्रेऽश्वं युयुजुस्तद्येऽग्रेऽश्वमयुञ्जंस्ते त्वा
युञ्जन्त्वित्येवैतदाह ते अस्मिन्जवमादधुरिति तद्येऽस्मिन्जवमादधुस्ते त्वयि
जवमादधत्वित्येवैतदाह

५.१.४.[९]

अथ सव्यायुग्यं युनक्ति । वातरंहा भववाजिन्युज्यमान इति वातजवो भव
वाजिन्युज्यमान इत्येवैतदाहेन्द्रस्येव दक्षिणः श्रियैधीति यथेन्द्रस्य दक्षिणः
श्रियैवं यजमानस्य श्रियैधीत्येवैतदाह युञ्जन्तु त्वा मरुतो विश्ववेदस इति
युञ्जन्तु त्वा देवा इत्येवैतदाह ते त्वष्टा पत्सु जवं दधात्विति नात्र
तिरोहितमिवास्त्यथ दक्षिणाप्रष्टिं युनक्ति सव्याप्रष्टिं वा अग्रे मानुषेऽथैवं
देवत्रा

५.१.४.[१०]

स युनक्ति । जवो यस्ते वाजिन्निहितो गुहा यः श्येने परीत्तो अचरच्च वात इति जवो यस्ते
बाजिन्नप्यन्यत्राषनिहितस्तेन न इमं यज्ञं प्रजापतिमुज्जयेत्येवैतदाह तेन नो
वाजिन्बलवान्बलेन वाजजिच्च भव समने च पारयिष्णुरित्यन्नं वै वाजोऽन्नजिच्च
न एध्यस्मिंश्च नो यज्ञे देवसमन इमं यज्ञं प्रजापतिमुज्जयेत्येवैतदाह

५.१.४.[११]

ते वा एत एव त्रयो युक्ता भवन्ति । त्रिवृद्धि देवानां तद्धि देवत्राधिप्रष्टियुग
एव चतुर्थोऽन्वेति मानुषा हि स तं यत्र दास्यन्भवति तच्चतुर्थमुपयुज्य
ददाति तस्मादपीतरस्मिन्यज्ञ एत एव त्रयो युक्ता भवन्ति त्रिवृद्धि देवानां
तद्धि देवत्राधिप्रष्टियुग एव चतुर्थोऽन्वेति मानुषो हि स तं यत्र
दास्यन्भवति तच्चतुर्थमुपयुज्य ददाति

५.१.४.[१२]

अथ भार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपति अन्नं वा एष उज्जयति
यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं
तद्यदेवैतदन्नमुदजैषीत्तदेवास्मा एतत्करोति

५.१.४.[१३]

अथ यद्बार्हस्पत्यो भवति । बृहस्पतिर्ह्येतमग्र उदजयत्तस्माद्बार्हस्पत्यो
भवति

५.१.४.[१४]

अथ यन्नैवारो भवति । ब्रह्म वै बृहस्पतिरेते वै ब्रह्मणा पच्यन्ते
यन्नीवारास्तस्मान्नैवारो भवति सप्तदशशरावो भवति सप्तदशो वै
प्रजापतिस्तत्प्रजापतिमुज्जयति

५.१.४.[१५]

तमश्वानवघ्रापयति । वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित
इत्यन्नं वै वाजोऽन्नजित इत्येवैतदाह वाजं सरिष्यन्त इत्याजिं हि सरिष्यन्तो
भवन्ति बृहस्पतेर्भागमवजिघ्रतेति बृहस्पतेर्ह्येष भागो भवति तस्मादाह
बृहस्पतेर्भागमवजिघ्रतेति तद्यदश्वानवघ्रापयतीममुज्जयानीति तस्माद्वा
अश्वानवघ्रापयति ५.१.५.तद्यदाजिं धावन्ति । इममेवैतेन लोकमुज्जयत्यथ
यद्ब्रह्मा रथचक्रे साम गायति नाभिदघ्न उद्धिते
ऽन्तरिक्षलोकमेवैतेनोज्जयत्यथ यद्यूपं रोहति देवलोकमेवैतेनोज्जयति
तस्माद्वा एतत्त्रयं क्रियते

५.१.५.[१]

स ब्रह्मा रथचक्रमधिरोहति । नाभिदघ्न उद्धितं देवस्याहं सवितुः सवे
सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयमिति यदि ब्राह्मणो यजते ब्रह्म हि
बृहस्पतिर्ब्रह्म हि ब्राह्मणः

५.१.५.[२]
अथ यदि राजन्यो यजते । देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं
रुहेयमिति क्षत्रं हीन्द्रं क्षत्रं राजन्यः

५.१.५.[३]

त्रिः सामाभिगायति । त्रिरभिगीयावरोहति देवस्याहं सवितुः सवे सत्यप्रसवसो
बृहस्पतेरुत्तमं नाकमरुहमिति यदि ब्राह्मणो यजते ब्रह्म हि
बृहस्पतिर्ब्रह्म हि ब्राह्मणः

५.१.५.[४]

अथ यदि राजन्यो यजते । देवस्याहं सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमं
नाकमरुहमिति क्षत्रं हीन्द्रः क्षत्रं राजन्यः

५.१.५.[५]

अथ सप्तदश दुन्दुभीननुवेद्यन्तं सम्मिन्वन्ति । प्रतीच आग्नीध्रात्प्रजापतिं
वा एष उज्जयति यो वाजपेयेन यजते वाग्वै प्रजापतिरेषा वै परमा वाग्या
सप्तदशानां दुन्दुभीनां परमामेवैतद्वाच परमं प्रजापतिमुज्जयति
सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति

५.१.५.[६]

अथैतेषां दुन्दुभीनाम् । एकं यजुषाहन्ति तत्सर्वे यजुषाहता भवन्ति

५.१.५.[७]

स आहन्ति । बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयतेति
यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः

५.१.५.[८]

अथ यदि राजन्यो यजते । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयतेति
क्षत्रं हीन्द्रः क्षत्रं राजन्यः

५.१.५.[९]

अथैतेष्वाजिसृत्सु रथेषु । पुनरासृतेष्वेतेषां दुन्दुभीनामेकं यजुषोपावहरति
तत्सर्वे यजुषोपावहृता भवन्ति
५.१.५.[१०]

स उपावहरति । एषा वः सा सत्या संवागभूद्यया बृहस्पतिं वाजमजीजपताजीजपत
बृहस्पतिं वाजं वनस्पतयो विमुच्यध्वमिति यदि ब्राह्मणो यजते ब्रह्म हि
बृहस्पतिर्ब्रह्म हि ब्राह्मणः

५.१.५.[११]

अथ यदि राजन्यो यजते । एषा वः सा सत्या संवागभूद्ययेन्द्रं
वाजमजीजपताजीजपतेन्द्रं वाजं वनस्पतयो विमुच्यध्वमिति क्षत्रं हीन्द्रः
क्षत्रं राजन्यः

५.१.५.[१२]

अथ वेद्यन्तात् । राजन्य उदङ्सप्तदश प्रव्याधान्प्रविध्यति यावान्वा एकः
प्रव्याधस्तावांस्तिर्यङ्प्रजापतिरथ यावत्सप्तदश प्रव्याधास्तावानन्वङ्
प्रजापतिः

५.१.५.[१३]

तद्यद्राजन्यः प्रविध्यति । एष वै प्रजापतेः प्रत्यक्षतमां
यद्राजन्यस्तस्मादेकः सन्बहूनामीष्टे यद्वेव चतुरक्षरः
प्रजापतिश्चतुरक्षरो राजन्यस्तस्माद्राजन्यः प्रविध्यति सप्तदश
प्रव्याधान्प्रविध्यति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति

५.१.५.[१४]

अथ यं यजुषा युनक्ति । तं यजमान आतिष्ठति देवस्याहं सवितुः सवे
सत्यप्रसवसो बृहस्पतेर्वाजजितो वाजं जेषमिति

५.१.५.[१५]

तद्यथैवादो बृहस्पतिः । सवितारं प्रसवायोपाधावत्सविता वै देवानाम्
प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता
प्रासुवतत्सवितृप्रसूत उदजयदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति
सविता वै देवानां प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै
सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति

५.१.५.[१६]

अथ यद्यध्वर्योः । अन्तेवासी वा ब्रह्मचारी वैतद्यजुरधीयात्सोऽन्वास्थाय
वाचयति वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजो
ऽन्नजित इत्येवैतदाहाध्वन स्कभ्नुवन्त इत्यध्वनो हि स्कभ्नुवन्तो धावन्ति
योजना मिमाना इति योजनशो हि मिमाना अध्वानं धावन्ति काष्ठां गच्छतेति
यथैनानन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह धावन्त्याजिमाघ्नन्ति
दुन्दुभीनभि साम गायति

५.१.५.[१७]

अथैताभ्यां जगतीभ्याम् । जुहोति वानु वा मन्त्रयते यदि जुहोति
यद्यनुमन्त्रयते समान एव बन्धुः

५.१.५.[१८]

स जुहोति । एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि क्रतुं
दधिक्रा अनु संसनिष्यदत्पथामङ्कांस्यन्वापनीफणत्स्वाहा

५.१.५.[१९]

उत स्म । अस्य द्रवतस्तुरण्यतः पर्णं न वेरनुवाति प्रगर्धिनः श्येनस्येव
ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः स्वाहेति

५.१.५.[२०]

अथोत्तरेण त्रिचेन । जुहोति वानु वा मन्त्रयते द्वयं तद्यस्माज्जुहोति वानु वा
मन्त्रयते यदि जुहोति यद्यनुमन्त्रयते समान एव
बन्धुरेतानेवैतदश्वान्धावत उपवाजयत्येतेषु वीर्यं दधाति तिस्रो वा इमाः
पृथिव्य इयमहैका द्वे अस्याः परे ता एवैतदुज्जयति

५.१.५.[२१]

सोऽनुमन्त्रयते । शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः
जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः

५.१.५.[२२]

ते नो अर्वन्तः । हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः सहस्रसा
मेघसाता सनिष्यवो महो ये धनं समिथेषु जभ्रिरे

५.१.५.[२३]

वाजेवाजेऽवत । वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः अस्य मध्वः पिबत
मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति
५.१.५.[२४]

अथ बार्हस्पत्येन चरुणा प्रत्युपतिष्ठते । तमुपस्पृशत्यन्नं वा एष उज्जयति यो
वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं
तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते

५.१.५.[२५]

स उपस्पृशति । आ मा वाजस्य प्रसवो जगम्यादित्यन्नं वै वाज आ मान्नस्य प्रसवो
जगम्यादित्येवैतदाहेमे द्यावापृथिवी विश्वरूपे इति द्यावापृथिवी हि प्रजापतिरा मा
गन्तां पितरामातरा चेति मातेव च हि पितेव च प्रजापतिरा मा सोमो अमृतत्वेन
गम्यादिति सोमो हि प्रजापतिः

५.१.५.[२६]

तमश्वानवघ्रापयति । वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित
इत्यन्नं वै वाजोऽन्नजित इत्येवैतदाह वाजं सवृवांसं इति सरिष्यन्त इति वा अग्र आह
सरिष्यन्त इव हि तर्हि भवन्त्यथात्र ससृवांस इति सवृवांस इव ह्यत्र भवन्ति
तस्मादाह ससृवांस इति बृहस्पतेर्भागमवजिघ्रतेति बृहस्पतेर्ह्येष भागो
भवति तस्मादाह बृहस्पतेर्भागमवजिघ्रतेति निमृजाना इति तद्यजमाने वीर्यं
दधाति तद्यदश्वानवघ्रापयतीममुज्जयानीति वा अग्रे
ऽवघ्रापयत्यथात्रेममुदजैषमिति तस्माद्वा अश्वानवघ्रापयति

५.१.५.[२७]

अथैतेषामाजिश्रितां रथानाम् । एकस्मिन्वैश्यो वा राजन्यो वोपास्थितो भवति स
वेदेरुत्तरायां श्रोणा उपविशत्यथाध्वर्युश्च यजमानश्च पूर्वया द्वारा
मधुग्रहमादाय निष्क्रामतस्तं वैश्यस्य वा राजन्यस्य वा प्राणावाधत्तोऽथ
नेष्टापरया द्वारा सुराग्रहानादाय निष्क्रामति स जघनेन शालां पर्येत्यैकं
वैश्यस्य वा राजन्यस्य वा प्राणावादधदाहानेन त इमं निष्क्रीणामीति सत्यं वै
श्रीर्ज्योतिः सोमोऽनृतं पाप्मा तमः सुरा सत्यमेवैतच्रियं ज्योतिर्यजमाने
दधात्यनृतेन पाप्मना तमसा वैश्यं विध्यति तैः स यं भोगं कामयते तं
कुरुतेऽथैतं सहिरण्यपात्रमेव मधुग्रहं ब्रह्मणे ददाति तं ब्रह्मणे
दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यं तेन स यं भोगं कामयते
तं कुरुते

५.२.१.[१]

अथ स्रुवं चाज्यविलापनीं चादाय । आहवनीयमभ्यैति स एता द्वादशाप्तीर्जुहोति वा
वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः

५.२.१.[२]

स जुहोति । आपये स्वाहा स्वापये स्वाहापिजायं स्वाहा क्रतवे स्वाहा वसवे
स्वाहाहर्पतये स्वाहाह्ने मुग्धाय स्वाहा मुग्धाय वैनंशिनाय स्वाहा विनंशिन
आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये
स्वाहेत्येता द्वादशाप्तीर्जुहोति द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः
प्रजापतिर्यज्ञस्तद्यैवास्याप्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते

५.२.१.[३]

अथ षट्कॢ!प्तीः । जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव
बन्धुः

५.२.१.[४]

स वाचयति । आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां
श्रोत्रं यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतामित्येताः
षट्कॢ!प्तीर्वाचयति षड्वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः
प्रजापतिर्यज्ञस्तद्यैवास्य कॢ!प्तिर्या सम्पत्तामेवैतदुज्जयति तामात्मन्कुरुते

५.२.१.[५]

अष्टाश्रिर्यूपो भवति । अष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दो
देवलोकमेवैतेनोज्जयति सप्तदशभिर्वासोभिर्यूपो वेष्टितो वा विग्रथितो वा भवति
सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति

५.२.१.[६]

गौधूमं चषालं भवति । पुरुषो वै प्रजापतेर्नेदिष्ठं सोऽयमत्वगेते वै
पुरुषस्यौषधीनां नेदिष्ठतमां यद्गोधूमास्तेषां न त्वगस्ति
मनुष्यलोकमेवैतेनोज्जयति

५.२.१.[७]

गर्तन्वान्यूपोऽतीक्ष्णाग्रो भवति । पितृदेवत्यो वै गर्तः पितृलोकमेवै
सप्तदशारत्निर्भवति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति

५.२.१.[८]

अथ नेष्टा पत्नीमुदानेष्यन् । कौशं वासः परिधापयति कौशं वा
चण्डातकमन्तरं दीक्षितवसनाज्जघनार्धो वा एष यज्ञस्य यत्पत्नी
तामेतत्प्राचीं यज्ञं प्रसादयिष्यन्भवत्यस्ति वै पत्न्या अमेध्यं यदवाचीनं
नाभेर्मेध्या वै दर्भास्तद्यदेवास्या अमेध्यं तदेवास्या एतद्दर्भैर्मेध्यं
कृत्वाथैनां प्राचीं यज्ञं प्रसादयति तस्मान्नेष्टा पत्नीमुदानेस्यन्कौशं वासः
परिधापयति कौस्=अं वा चण्डातकमन्तरं दीक्षितवसनात्
५.२.१.[९]

अथ निश्रयणो निश्रयति । स दक्षिणत उदङ्रोहेदुत्तरतो वा दक्षिणा
दक्षिणतस्त्वेवोदङ्रोहेत्तथा ह्युदग्भवति

५.२.१.[१०]

स रोक्ष्यन्जायामामन्त्रयते । जाय एहि स्वो रोहावेति रोहावेत्याह जाया
तद्यज्जायामामन्त्रयतेऽर्धो ह वा एष आत्मनो यज्जाया तस्माद्यावज्जायां न विन्दते
नैव तावत्प्रजायतेऽसर्वो हि तावद्भवत्यथ यदैव जायां विन्दतेऽथ प्रजायते
तर्हि हि सर्वो भवति सर्व एतां गतिं गच्छानीति तस्माज्जायामामन्त्रयते

५.२.१.[११]

स रोहति । प्रजापतेः प्रजा अभूमेति प्रजापतेर्ह्येष प्रजा भवति यो वाजपेयेन
यजते

५.२.१.[१२]

अथ गोधूमानुपस्पृशति । स्वर्देवा अगन्मेति स्वर्ह्येष गच्छति यो वाजपेयेन यजते

५.२.१.[१३]

तद्यद्गोधूमानुपस्पृशति । अन्नं वै गोधूमा अन्नं वा एष उज्जयति यो वाजपेयेन
यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं
तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते
तस्माद्गोधूमानुपस्पृशति

५.२.१.[१४]

अथ शीर्ष्णा यूपमत्युज्जिहीते । अमृता अभूमेति देवलोकमेवैतेनोज्जयति

५.२.१.[१५]

अथ दिशोऽनुवीक्षमाणो जपति । अस्मे वो अस्त्विन्द्रियमस्मे नृम्णमुत क्रतुरस्मे
वर्चांसि सन्तु व इति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं
ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः सोऽस्य सर्वस्य यश इन्द्रियं वीर्यं
संवृज्य तदात्मन्धत्ते तदात्मन्कुरुते तस्माद्दिशोऽनुवीक्षमाणो जपति

५.२.१.[१६]
अथैनमूषपुटैरनूदस्यन्ति । पशवो वा ऊषा अन्नं वै पशवोऽन्नं वा एष
उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं
तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते
तस्मादेनमूषपुटैरनूदस्यन्ति

५.२.१.[१७]

आश्वत्थेषु पलाशेषूपनद्धा भवन्ति । स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो मरुत
उपामन्त्रयत तस्मादाश्वत्थेषु पलाशेषूपनद्धा भवन्ति विशोऽनूदस्यन्ति विशो
वै मरुतोऽन्नं विशस्तस्माद्विशोऽनूदस्यन्ति सप्तदश भवन्ति सप्तदशो वै
प्रजापतिस्तत्प्रजापतिमुज्जयति

५.२.१.[१८]

अथेमामुपावेक्षमाणो जपति । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्या इति
बृहस्पतेर्ह वा अभिषिषिचानात्पृथिवी बिभयां चकार महद्वा अयमभूद्यो
ऽभ्यषेचि यद्वै मायं नावदृणीयादिति बृहस्पतिर्ह पृथिव्यै बिभयां चकार यद्वै
मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति
न पुत्रो मातरम्

५.२.१.[१९]

बृहस्पतिसवो वा एष यद्वाजपेयम् । पृथिव्यु हैतस्माद्बिभेति महद्वा
अयमभूद्योऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै
मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति
न पुत्रो मातरम्

५.२.१.[२०]

अथ हिरण्यमभ्यवरोहति । अमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति

५.२.१.[२१]

अथाजर्षभस्याजिनमुपस्तृणाति । तदुपरिष्टाद्रुक्मं निदधाति
तमभ्यवरोहतीमां वैव

५.२.१.[२२]

अथास्मा आसन्दीमाहरन्ति । उपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं
तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति

५.२.१.[२३]

औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै
तस्मादौदुम्बरी भवति तामग्रेण हविर्धाने जघनेनाहवनीयं निदधाति

५.२.१.[२४]

अथाजर्षभस्याजिनमास्तृणाति । प्रजापतिर्वा एष यदजर्षभ एता वै प्रजापतेः
प्रत्यक्षतमां यदजास्तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति
जनयन्ति तत्प्रजापतिमेवैतत्करोति तस्मादजर्षबस्याजिनमास्तृणाति

५.२.१.[२५]

स आस्तृणाति । इयं ते राडिति राज्यमेवास्मिन्नेतद्दधात्यथैनमासादयति यन्तासि
यमन इति यन्तारमेवैनमेतद्यमनमासां प्रजानां करोति ध्रुवोऽसि धरुण
इति ध्रुवमेवैनमेतद्धरुणमस्मिंलोके करोति कृष्यै त्वा क्षेमाय त्वा रय्यै
त्वा पोषाय त्वेति साधवे त्वेत्येवैतदाह

५.२.२.[१]

बार्हस्पत्येन चरुणा प्रचरति । तस्यानिष्ट एव स्विष्टकृद्भवत्यथास्मा अन्नं
सम्भरत्यन्नं वा एष उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै
नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तदेवास्मा एतत्सम्भरति

५.२.२.[२]

औदुम्बरे पात्रे । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै
तस्मादौदुम्बरे पात्रे सोऽप एव प्रथमाः सम्भरत्यथ पयोऽथ
यथोपस्मारमन्नानि

५.२.२.[३]

तद्धैके । सप्तदशान्नानि सम्भरन्ति सप्तदशः प्रजापतिरिति वदन्तस्तदु तथा
न कुर्यात्प्रजापतेर्न्वेव सर्वमन्नमनवरुद्धं क उ तस्मै मनुष्यो यः
सर्वमन्नमवरुन्धीत तस्मादु सर्वमेवान्नं यथोपस्मारं
सम्भरन्नेकमन्नं न सम्भरेत्

५.२.२.[४]

स यन्न सम्भरति । तस्योद्ब्रुवीत तस्य नाश्नीयाद्यावज्जीवं तथा नान्तमेति तथा
ज्योग्जीवति स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि
जुहोति तद्याभ्य एवैतद्देवताभ्यो जुहोति ता अस्मै प्रसुवन्ति ताभिः प्रसूत उज्जयति
तस्माद्वाजप्रसवीयानि जुहोति
५.२.२.[५]

स जुहोति । वाजस्येमं प्रसवः सुषुवेऽग्रे सोमं राजानमोषधीष्वप्सु ता
अस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जागृयाम पुरोहिताः स्वाहा

५.२.२.[६]

वाजस्येमाम् । प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राटदित्सन्तं
दापयति प्रजानन्त्स नो रयिं सर्ववीरं नियच्छतु स्वाहा

५.२.२.[७]

वाजस्य नु । प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः सनेमि राजा परियाति
विद्वान्प्रजां पुष्टिं वर्धयमानो अस्मे स्वाहा

५.२.२.[८]

सोमं राजानमवसेऽग्निमन्वारभामहे । आदित्यान्विष्णुं सूर्यं ब्रह्माणं च
बृहस्पतिं स्वाहा

५.२.२.[९]

अर्यमणं बृहस्पतिम् । इन्द्रं दानाय चोदाय वाचं विष्णुं सरस्वतीं सवितारं च
वाजिनं स्वाहा

५.२.२.[१०]

अग्ने अच्छा । वदेह नः प्रति नः सुमना भव प्र नो यच्छ सहस्रजित्त्वं हि धनदा
असि स्वाहा

५.२.२.[११]

प्र नः । यच्छत्वर्यमा प्र पूषा प्र बृहस्पतिः प्र वाग्देवी ददातु नः स्वाहेति

५.२.२.[१२]

अथैनं परिशिष्टेनाभिषिञ्चति ।
अन्नाद्येनैवैनमेतदभिषिञ्चत्यन्नाद्यमेवास्मिन्नेतद्दधाति तस्मादेनम्
परिशिष्टेनाभिषिञ्चति
५.२.२.[१३]

सोऽभिषिञ्चति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिति
देवहस्तैरेवैनमेतदभिषिञ्चति सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामीति वाग्वै
सरस्वती तदेनं वाच एव यन्तुर्यन्त्रिये दधाति

५.२.२.[१४]

तदु हैक आहुः । विश्वेषां त्वा देवानां यन्तुर्यन्त्रिये दधामीति सर्वं वै विश्वे
देवास्तदेनं सर्वस्यैव यन्तुर्यन्त्रिये दधाति तदु तथा न ब्रूयात्सरस्वत्यै त्वा
वाचो यन्तुर्यन्त्रिये दधामीत्येव ब्रूयाद्वाग्वै सरस्वती तदेनं वाच एव
यन्तुर्यन्त्रिये दधाति बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसाविति नाम गृह्णाति
तद्बृहस्पतेरेवैनमेतत्सायुज्यं सलोकतां गमयति

५.२.२.[१५]

अथाह । सम्राडयमसौ सम्राडयमसाविति निवेदितमेवैनमेतत्सन्तं देवेभ्यो
निवेदयत्ययं महावीर्यो योऽभ्यषेचीत्ययं युष्माकैकोऽभूत्तं
गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः

५.२.२.[१६]

अथोज्जितीः । जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः

५.२.२.[१७]

स वाचयति । अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषं प्रजापतिः
सप्तदशाक्षरेण सप्तदशं स्तोममुदजयत्तमुज्जेषमिति तद्यदेवैताभिरेता
देवता उदजयंस्तदेवैष एताभिरुज्जयति सप्तदश भवन्ति सप्तदशो वै
प्रजापतिस्तत्प्रजापतिमुज्जयति

५.२.२.[१८]

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै
प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु
प्रजायन्ते तन्मध्यत एवैतत्प्रजापतिमुज्जयति तस्मादन्तरेणाहुती एतत्कर्म
क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति

५.२.२.[१९]

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति
माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो
ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य

५.२.२.[२०]

तद्धैके । एतत्कृत्वाथैतत्कुर्वन्ति तदु तथा न कुर्यादात्मा वै स्तोत्रं प्रजा
शस्त्रमेतस्माद्ध स यजमानं प्रणाशयति स जिह्म एति स ह्वलति तस्मादेतदेव
कृत्वाथैतत्कुर्यात्

५.२.२.[२१]

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति
माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो
ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य

५.२.३.[१]

पूर्णाहुतिं जुहोति । सर्वं वै पूर्णं सर्वं परिगृह्य सूया इति तस्यां वरं ददाति
सर्वं वै वरः सर्वं परिगृह्य सूया इति स यदि कामयेत जुहुयादेतां यद्यु
कामयेतापि नाद्रियेत

५.२.३.[२]

अथ श्वो भूते । अनुमत्यै हविरष्टाकपालं पुरोडाशं निर्वपति स ये जघनेन
शम्यां पिष्यमाणानामवशीयन्ते पिष्टानि वा तण्डुला वा तान्त्स्रुवे सार्धं
संवपत्यन्वाहार्यपचनादुल्मुकमाददते तेन दक्षिणा यन्ति स यत्र स्वकृतं
वेरिणं विन्दति श्वभ्रप्रदरं वा

५.२.३.[३]

तदग्निं समाधाय जुहोति । एष ते निर्ऋते भागस्तं जुषस्वस्वाहेतीयं वै निर्ऋतिः सा
यं पाप्मना गृह्णाति तं निर्ऋत्या गृह्णाति तद्यदेवास्या अत्र नैर्ऋतं रूपं
तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न गृह्णात्यथ यत्स्वकृते वेरिणे
जुहोति श्वभ्रप्रदरे वैतदु ह्यस्यै निर्ऋतिगृहीतम्

५.२.३.[४]

अथाप्रतीक्षं पुनरायन्ति । अथानुमत्या अष्टाकपालेन पुरोडाशेन प्रचरतीयं वा
अनुमतिः स यस्तत्कर्म शक्नोति कर्तुं यच्चिकीर्षतीयं हास्मै तदनुमन्यते
तदिमामेवैतत्प्रीणात्यनयानुमत्यानुमतः सूया इति

५.२.३.[५]

अथ यदष्टाकपालो भवति । अष्टाक्षरा वै गायत्री गायत्री वा इयं पृथिव्यथ
यत्समानस्य हविष उभयत्र जुहोत्येषा ह्येवैतदुभयं तस्य वासो दक्षिणा
यद्वै सवासा अरण्यं नोदाशंसते निधाय वै तद्वासोऽतिमुच्यते तथो हैनं
सूयमानमासङ्गो न विन्दति

५.२.३.[६]

अथ श्वो भूते । आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति तेन
यथेष्ट्यैवं यजते तद्यदेवादः प्रजातमाग्नावैष्णवं दीक्षणीयं
हविस्तदेवैतदग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै
यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च
यज्ञं परिगृह्य सूया इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति
तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं यो वै विष्णुः
स यज्ञोऽग्निरु वै यज्ञ एव तदु तदाग्नेयमेव तस्माद्धिरण्यं दक्षिणा

५.२.३.[७]

अथ श्वो भूते । अग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति तेन
यथेष्ट्यैवं यजत एतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत यास्येयं
विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव
विजयते विजितेऽभयेऽनाष्ट्रे सूया इति तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो
भवति तस्योत्सृष्टो गौर्दक्षिणोत्सर्जं वा अमुं चन्द्रमसं घ्नन्ति
पौर्णमासेनाह घ्नन्त्यामावास्येनोत्सृजन्ति तस्मादुत्सृष्टो गौर्दक्षिणा

५.२.३.[८]

अथ श्वो भूते । ऐन्द्राग्नं द्वादशकपालं पुरोडाशं निर्वपति तेन
यथेष्ट्यैवं यजते यत्र वा इन्द्रो वृत्रमहंस्तदस्य भीतस्येन्द्रियं
वीर्यमपचक्राम स एतेन हविषेन्द्रियं वीर्यं पुनरात्मन्नधत्त तथो
एवैष एतेन हविषेन्द्रियं वीर्यमात्मन्धत्ते तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र
उभे वीर्ये परिगृह्य सूया इति तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति
तस्यर्षभोऽनड्वान्दक्षिणा स हि वहेनाग्नेय आण्डाभ्यामैन्द्रस्तस्मादृषभो
ऽनड्वान्दक्षिणा

५.२.३.[९]

अथाग्रयणेष्ट्या यजते । सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि
दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एषेष्टिर्यदाग्रयणेष्टिरनया मे
पीष्टमसदनयापि सूया इति तस्मादाग्रयणेष्ट्या यजत ओषधीर्वा एष सूयमानोऽभि
सूयते तदोषधीरेवैतदनमीवा अकिल्विषाः कुरुतेऽनमीवा अकिल्विषा ओषधीरभि
सूया इति तस्य गौर्दक्षिणा

५.२.३.[१०]
अथ चातुर्मास्यैर्यजते । सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि
दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एष
यज्ञक्रतुर्यच्चातुर्मास्यान्येभिर्मेऽपीष्टमसदेभिरपि सूया इति
तस्माच्चातुर्मास्यैर्यजते

५.२.४.[१]

वैश्वदेवेन यजते । वैश्वदेवेन वै प्रजापतिर्भूमानं प्रजाः ससृजे भूमानम्
प्रजाः सृष्ट्वा सूया इति तथो एवैष एतद्वैश्वदेवेनैव भूमानं प्रजाः सृजते
भूमानं प्रजाः सृष्ट्वा सूया इति

५.२.४.[२]

अथ वरुणप्रघासैर्यजते । वरुणप्रघासैर्वै प्रजापतिः प्रजा
वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्विषाः प्रजा प्राजायन्तानमीवा अकिल्विषाः
प्रजा अभि सूया इति तथो एवैष एतद्वरुणप्रघासैरेव प्रजा वरुणपाशात्प्रमुञ्चति
ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्तेऽनमीव अकिल्विषाः प्रजा अभि सूया इति

५.२.४.[३]

अथ साकमेधैर्यजते । साकमेधैर्वै देवा वृत्रमघ्नंस्तैर्वेव व्यजयन्त
येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो
एव विजयते विजितेऽभयेऽनाष्ट्रे सूया इति

५.२.४.[४]

अथ शुनासीर्येण यजते । उभौ रसौ परिगृह्य सूया इत्यथ पञ्चवीतीयं स
पञ्चधाहवनीयं व्युह्य स्रुवेणो पघातं जुहोति

५.२.४.[५]

स पूर्वार्ध्ये जुहोति । अग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहेत्यथ
दक्षिणार्ध्ये जुहोति यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहेत्यथ
पश्चार्ध्ये जुहोति विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भ्यः
स्वाहेत्यथोत्तरार्ध्ये जुहोति मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्यो
उत्तरासद्भ्यः स्वाहेत्यथ मध्ये जुहोति सोमनेत्रेभ्यो देवेभ्य उपरिसद्भ्यो
दुवस्वद्भ्यः स्वाहेति

५.२.४.[६]

अथ सार्धं समुह्य जुहोति । ये देवा अग्निनेत्राः पुरःसदस्तेभ्यः स्वाहा ये देवा
यमनेत्रा दक्षिणासदस्तेभ्यः स्वाहा ये देवा विश्वदेवनेत्राः पश्चात्सदस्तेभ्यः
स्वाहा ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा ये देवाः
सोमनेत्रा उपरिसदो दुवस्वन्तस्तेभ्यः स्वाहेति तद्यदेवं जुहोति

५.२.४.[७]

यत्र वै देवाः । साकमेधैर्व्यजयन्त येयमेषां विजितिस्तां तद्धोचुरुत्पिबन्ते वा
इमानि दिक्षु नाष्ट्रा रक्षांसि हन्तैभ्यो वज्रं प्रहरामेति वज्रो वा आज्यं त एतेन
वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवाघ्नंस्ते व्यजयन्त येयमेषां विजितिस्तां
तथो एवैष एतेन वज्रेणाज्येन दिक्षु नाष्ट्रा रक्षांस्यवहन्ति तथो एव विजयते
विजितेऽभयेऽनाष्ट्रे सूया इति

५.२.४.[८]

अथ यदेता अपराः पञ्चाहुतीर्जुहोति । क्षण्वन्ति वा एतदग्नेर्विवृहन्ति
यत्पञ्चधाहवनीयं व्यूहन्ति तदेवास्यैतेन संदधाति तस्मादेता अपराः
पञ्चाहुतीर्जुहोति

५.२.४.[९]

तस्य प्रष्टिवाहनोऽश्वरथो दक्षिणा । त्रयोऽश्वा द्वौ सव्यष्ठृसारथी ते पञ्च
प्राणा यो वै प्राणः स वातस्तद्यदेतस्य कर्मण एषा दक्षिणा तस्मात्पञ्चवातीयं
नाम

५.२.४.[१०]

स हैतेनापि भिषज्येत् । अयं वै प्राणो योऽयं पवते यो वै प्राणः स आयुः सो
ऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टो दशधा विहितो दश वा एता
आहुतीर्जुहोति तदस्मिन्दश प्राणान्कृत्स्नमेव सर्वमायुर्दधाति स यदिहापि
गतासुरिव बवत्या हैवैनेन हरति

५.२.४.[११]

अथेन्द्रतुरीयम् । आग्नेयोऽष्टाकपालः पुरोडाशो भवति वारुणो यवमयश्चरू
रौद्रो गावेधुकश्चरुरनडुह्यै वहलाया ऐन्द्रं दधि तेनेन्द्रतुरीयेण यजत
इन्द्राग्नी उ हैवैतत्समूदाते उत्पिबन्ते वा इमानि दिक्षु नाष्ट्रा रक्षांसि हन्तैभ्यो
वज्रं प्रहरावेति

५.२.४.[१२]

स हाग्निरुवाच । त्रयो मम भागाः सन्त्वेकस्तवेति तथेति तावेतेन हविषा दिक्षु
नाष्ट्रा रक्षांस्यवाहतां तौ व्यजयेतां यैनयोरियं विजितिस्तां तथो एवैष एतेन
हविषा दिक्षु नाष्ट्रा रक्षांस्यवहन्ति तथो एव विजयते विजितेऽभये नाष्ट्रे सूया
इति
५.२.४.[१३]

स य एष आग्नेयोऽष्टाकपालः पुरोडाशो भवति । सोऽग्नेरेको भागोऽथ यद्वारुणो
यवमयश्चरुर्भवति यो वै वरुणः सोऽग्निः सोऽग्नेर्द्वितीयो भागोऽथ यद्रौद्रो
गावेधुकश्चरुर्भवति यो वै रुद्रः सोऽग्निः सोऽग्नेस्तृतीयो भागोऽथ
यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या गवेधुकास्तस्माद्गावेधुको
भवत्यथ यदनडुह्यै वहलाया ऐन्द्रं दधि भवति स इन्द्रस्य चतुर्थो
भागो यद्वै चतुर्थं तत्तुरीयं तस्मादिन्द्रतुरीयं नाम तस्यैषैवानडुही
वहला दक्षिणा सा हि वहेनाग्नेय्यग्निदग्धमिव ह्यस्यै वहं भवत्यथ यत्स्त्री
सती वहत्यधर्मेण तदस्यै वारुणं रूपमथ यद्गौस्तेन रौद्र्यथ यदस्या
ऐन्द्रं दधि तेनैन्द्र्येषा हि वा एतत्सर्वं व्यश्नुते तस्मादेषैवानडुही वहला
दक्षिणा

५.२.४.[१४]

अथापामार्गहोमं जुहोति । अपामार्गैर्वै देवा दिक्षु नाष्ट्रा रक्षांस्यपामृजत ते
व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतदपामार्गैरेव दिक्षु नाष्ट्रा
रक्षांस्यपमृष्टे तथो एव विजयते विजितेऽभयेऽनाष्ट्रे सूया इति

५.२.४.[१५]

स पालाशे वा स्रुवे वैकङ्कते वा । अपामार्गतण्डुलानादत्ते
ऽन्वाहार्यपचनादुल्मुकमाददते तेन प्राञ्चो वोदञ्चो वा यन्ति तदग्निं समाधाय
जुहोति

५.२.४.[१६]

स उल्मुकमादत्ते । अग्ने सहस्व पृतना इति युधो वै पृतना युधः
सहस्वेत्येवैतदाहाभिमातीरपास्येति सपत्नो वा अभिमातिः
सपत्नमपजहीत्येवैतदाह दुष्टरस्तरन्नरातीरिति दुस्तरो ह्येष
रक्षोभिर्नाष्ट्राभिस्तरन्नरातीरिति सर्वं ह्येष पाप्मानं तरति तस्मादाह
तरन्नरातीरिति वर्चो धा यज्ञवाहसीति साधु यजमानं दधदित्येवैतदाह

५.२.४.[१७]

तदग्निं समाधाय जुहोति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यामुपांशोर्वीर्येण जुहोमीति यज्ञमुखं वा
उपांशुर्यज्ञमुखेनैवैतन्नाष्ट्रा रक्षांसि हन्ति हतं रक्षः स्वाहेति तन्नाष्ट्रा
रक्षांसि हन्ति

५.२.४.[१८]

स यदि पालाशः स्रुवो भवति । ब्रह्म वै पलाशो ब्रह्मणैवैतन्नाष्ट्रा रक्षांसि
हन्ति यद्यु वैकङ्कतो वज्रो व विकङ्कतो वज्रेणैवैतन्नाष्ट्रा रक्षांसि हन्ति
रक्षसां त्वा बधायेति तन्नाष्ट्रा रक्षांसि हन्ति

५.२.४.[१९]

स यदि प्राङित्वा जुहोति । प्राञ्चं स्रुवमस्यति यद्युदङ्ङित्वा जुहोत्युदञ्चं
स्रुवमस्यत्यबधिष्म रक्ष इति तन्नाष्ट्रा रक्षांसि हन्ति

५.२.४.[२०]

अथाप्रतीक्षं पुनरायन्ति । स हैतेनापि प्रतिसरं कुर्वीत स यस्यां ततो दिशि
भवति तत्प्रतीत्य जुहोति प्रतीचीनफलो वा अपामार्गः स यो हास्मै तत्र
किंचित्करोति तमेव तत्प्रत्यग्धूर्वति तस्य नामादिशेदबधिष्मामुमसौ हत इति
तन्नाष्ट्रा रक्षांसि हन्ति

५.२.५.[१]

आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । ऐन्द्रावैष्णवं चरुं
वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन त्रिषंयुक्तेन यजते
पुरुषानेतद्देवा उपायंस्तथो एवैष एतत्पुरुषानेवोपैति

५.२.५.[२]

स यदाग्नावैष्णवः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वैष्णवाः
पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति

५.२.५.[३]

अथ यदैन्द्रावैष्णवः । चरुर्भवतीन्द्रो वै यजमानो वैष्णवाः
पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते

५.२.५.[४]

अथ यद्वैष्णवः । त्रिकपालो वा पुरोडाशो भवति चरुर्वा यानेवास्मा अग्निर्दाता
पुरुषान्ददाति तेष्वेवैतदन्ततः प्रतितिष्ठति यद्वै पुरुषवान्कर्म चिकीर्षति
शक्नोति वै तत्कर्तुं तत्पुरुषानेवैतदुपैति पुरुषवान्त्सूया इति तस्य वामनो
गौर्दक्षिणा स हि वैष्णवो यद्वामनः

५.२.५.[५]

अथापरेण त्रिषंयुक्तेन यजते । स आग्नापौष्णमेकादशकपालं पुरोडाशं
निर्वपत्यैन्द्रापौष्णं चरुं पौष्णं चरुं तेन त्रिषंयुक्तेन यजते पशूनेव
तद्देवा उपायंस्तथो एवैष एतत्पशूनेवोपैति

५.२.५.[६]

स यदाग्नापौष्णः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता पौष्णाः
पशवस्तदस्मा अग्निरेव दाता पशून्ददाति

५.२.५.[७]

अथ यदैन्द्रापौष्णः । चरुर्भवतीन्द्रो वै यजमानः पौष्णाः पशवः स
यानेवास्मा अग्निर्दाता पशून्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते

५.२.५.[८]

अथ यत्पौष्णः । चरुर्भवति यानेवास्मा अग्निर्दाता पशून्ददाति तेष्वेवैतदन्ततः
प्रतितिष्ठति यद्वै पशुमान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुं
तत्पशूनेवैतदुपैति पशुमान्त्सूया इति तस्य श्यामो गौर्दक्षिणा स हि पौष्णो
यच्यामो द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै
मिथुनं प्रजननं वै पूषा पशवो हि पूषा पशवो हि प्रजननम्
मिथुनमेवैतत्प्रजननं क्रियते तस्माच्यामो गौर्दक्षिणा

५.२.५.[९]

अथापरेण त्रिषंयुक्तेन यजते । सोऽग्नीषोमीयमेकादशकपालं पुरोडाशं
निर्वपत्यैन्द्रासौम्यं चरुं सौम्यं चरुं तेन त्रिषंयुक्तेन यजते वर्च एव
तद्देवा उपायंस्तथो एवैष एतद्वर्च एवोपैति

५.२.५.[१०]

स यदग्नीषोमीयः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वर्चः
सोमस्तदस्मा अग्निरेव दाता वर्चो ददाति

५.२.५.[११]

अथ यदैन्द्रासौम्यः । चरुर्भवतीन्द्रो वै यजमानो वर्चः सोमः स यदेवास्मा
अग्निर्दाता वर्चो ददाति तेनैवैतत्संस्पृशते तदान्मन्कुरुते

५.२.५.[१२]

अथ यत्सौम्यः । चरुर्भवति यदेवास्मा अग्निर्दाता वर्चो ददाति
तस्मिन्नेवैतदन्ततः प्रतितिष्ठति यद्वै वर्चस्वी कर्म चिकीर्षति शक्नोति वै
तत्कर्तुं तद्वर्च एवैतदुपैति वर्चस्वी सूया इति नो ह्यवर्चसो व्याप्त्या चनार्थोऽस्ति
तस्य बभ्रुर्गौर्दक्षिणा स हि सौम्यो यद्बभ्रुः

५.२.५.[१३]

अथ श्वो भूते । वैश्वानरं द्वादशकपालं पुरोडाशं निर्वपति वारुण यवमयं
चरुं ताभ्यामनूचीनाहं वेष्टिभ्यां यजते समानबर्हिर्भ्यां वा

५.२.५.[१४]

स यद्वैश्वानरो भवति । संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिः
प्रजापतिरेव तद्भूमानं प्रजाः ससृजे भूमानं प्रजाः सृष्ट्वा सूया इति तथो
एवैष एतद्भूमानं प्रजाः सृजते भूमानं प्रजाः सृष्ट्वा सूया इति

५.२.५.[१५]

अथ यद्द्वादशकपालो भवति । द्वादश वै मासाः संवत्सरस्य संवत्सरो
वैश्वानरस्तस्माद्द्वादशकपालो भवति

५.२.५.[१६]

अथ यद्वारुणो यवमयश्चरुर्भवति ।
तत्सर्वस्मादेवैतद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रजाः प्रमुञ्चति ता अस्यानमीवा
अकिल्विषाः प्रजाः प्रजायन्तेऽनमीवा अकिल्विषाः प्रजा अभि सूया इति

५.२.५.[१७]

ऋषभो वैश्वानरस्य दक्षिणा । संवत्सरो वै वैश्वानरः संवत्सरः
प्रजापतिर्ऋषभो वै पशूनां प्रजापतिस्तस्मादृषभो वैश्वानरस्य दक्षिणा कृष्णं
वासो वारुणस्य तद्धि वारुणं यत्कृष्णं यदि कृष्णं न विन्देदपि यदेव किं च
वासः स्याद्ग्रन्थिभिर्हि वासो वारुणं वरुण्यो हि ग्रन्थिः

५.३.१.[१]

अरण्योरग्नी समारोह्य । सेनान्यो गृहान्परेत्याग्नयेऽनीकवतेऽष्ठाकपालम्
पुरोडाशं निर्वपत्यग्निर्वै देवतानामनीकं सेनाया वै सेनानीरनीकं
तस्मादग्नयेऽनीकवत एतद्वा अस्यैकं रत्नं यत्सेनानीस्तस्मा एवैतेन सूयते तं
स्वमनपक्रमिणं कुरुते तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने
रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा

५.३.१.[२]
अथ श्वो भूते । पुरोहितस्य गृहान्परेत्य बार्हस्पत्यं चरुं निर्वपति बृहस्पतिर्वै
देवानां पुरोहित एष वा एतस्य पुरोहितो भवति तस्माद्बार्हस्पत्यो भवत्येतद्वा
अस्यैकं रत्नं यत्पुरोहितस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते
तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः
पन्थास्तस्माच्छितिपृष्ठो बार्हस्पत्यस्य दक्षिणा

५.३.१.[३]

अथ श्वो भूते । सूयमानस्य गृह ऐन्द्रमेकादशकपालं पुरोडाशं निर्वपति
क्षत्रं वा इन्द्रः क्षत्रं सूयमानस्तस्मादैन्द्रो भवति तस्यर्षभो दक्षिणा स
ह्यैन्द्रो यदृषभः

५.३.१.[४]

अथ श्वो भूते । महिष्यै गृहान्परेत्य आदित्यं चरुं निर्वपतीयं वै पृथिव्यदितिः
सेयं देवानां पत्न्येषा वा एतस्य पत्नी भवति तस्मादादित्यो भवत्येतद्वा
अस्यैकं रत्नं यन्महिषी तस्या एवैतेन सूयते तां स्वामनपक्रमिणीं कुरुते
तस्यै धेनुर्दक्षिणा धेनुरिव वा इयं मनुष्येभ्यः सर्वान्कामान्दुहे माता
धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणा

५.३.१.[५]

अथ श्वो भूते । सूतस्य गृहान्परेत्य वारुणं यवमयं चरुं निर्वपति सवो वै
सूतः सवो वै देवानां वरुणस्तस्माद्वारुणो भवत्येतद्वा अस्यैकं रत्नं
यत्सूतस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्याश्वो दक्षिणा स हि
वारुणो यदश्वः

५.३.१.[६]

अथ श्वो भूते । ग्रामण्यो गृहान्परेत्य मारुतं सप्तकपालं पुरोडाशं निर्वपति
विशो वै मरुतो वैश्यो वै ग्रामणीस्तस्मान्मारुतो भवत्येतद्वा अस्यैकं रत्नं
यद्ग्रामणीस्तस्मा एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य
पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां यत्पृषतो गोर्विशो वै मरुतो भूमो वै
विट्तस्मात्पृषन्गौर्दक्षिणा

५.३.१.[७]

अथ श्वो भूते । क्षत्तुर्गृहान्परेत्य सावित्रं द्वादशकपालं वाष्टाकपालं वा
पुरोडाशं निर्वपति सविता वै देवानां प्रसविता प्रसविता वै क्षत्ता तस्मात्सावित्रो
भवत्येतद्वा अस्यैकं रत्नं यत्क्षत्ता तस्मा एवैतेन सूयते तं
स्वमनपक्रमिणं कुरुते तस्य श्येतोऽनड्वान्दक्षिणैष वै सविता य एष
तपत्येति वा एष एत्यनड्वान्युक्तस्तद्यच्येतो भवति श्येत इव ह्येष उद्यंश्चास्तं
च यन्भवति तस्माच्येतोऽनड्वान्दक्षिणा
५.३.१.[८]

अथ श्वो भूते । संग्रहीतुर्गृहान्परेत्याश्विनं द्विकपालं पुरोडाशं निर्वपति
सयोनी वा अश्विनौ सयोनी सव्यष्ठृसारथी समानं हि
रथमधितिष्ठतस्तस्मादाश्विनो भवत्येतद्वा अस्यैकं रत्नं यत्संग्रहीता तस्मा
एवैतेन सूयते तं स्वमनपक्रमिणं कुरुते तस्य यमौ गावौ दक्षिणा तौ हि
सयोनी यद्यमौ यदि यमौ न विन्देदप्यनूचीनगर्भावेव गावौ दक्षिणा स्यातां
ता उ ह्यपि समानयोनी

५.३.१.[९]

अथ श्वो भूते । भागदुघस्य गृहान्परेत्य पौष्णं चरुं निर्वपति पूषा वै
देवानां भागदुघ एष वा एतस्य भागदुघो भवति तस्मात्पौष्णो
भवत्येतद्वा अस्यैकं रत्नं यद्भागदुघस्तस्मा एवैतेन सूयते तं
स्वमनपक्रमिणं कुरुते तस्य श्यामो गौर्दक्षिणा तस्यासावेव बन्धुर्योऽसौ
त्रिषंयुक्तेषु

५.३.१.[१०]

अथ श्वो भूते । अक्षावापस्य च गृहेभ्यो गोविकर्तस्य च गवेधुकाः सम्भृत्य
सूयमानस्य गृहे रौद्रं गावेधुख्!ं चरुं निर्वपति ते वा एते द्वे सती रत्ने एकं
करोति सम्पदः कामाय तद्यदेतेन यजते यां वा इमां सभायां घ्नन्ति रुद्रो
हैतामभिमन्यतेऽग्निर्वै रुद्रोऽधिदेवनं वा अग्निस्तस्यैतेऽङ्गारा
यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन
यजते यो वैतदेवं वेदैतद्वा अस्यैकं रत्नं यदक्षावापश्च गोविकर्तश्च
ताभ्यामेवैतेन सूयते तौ स्वावनपक्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा
शितिबाहुर्वा शितिवालो वासिर्नखरो वालदाम्नाक्षावपनं प्रबद्धमेतदु हि
तयोर्भवति

५.३.१.[११]

अथ श्वो भूते । पालागलस्य गृहान्परेत्य चतुर्गृहीतमाज्यं गृहीत्वाध्वन आज्यं
जुहोति जुषाणोऽध्वाज्यस्य वेतु स्वाहेति प्रहेयो वै पालागलोऽध्वानं वै प्रहित एति
तस्मादध्वन आज्यं जुहोत्येतद्वा अस्यैकं रत्नं यत्पालागलस्तस्मा एवैतेन सूयते
तं स्वमनपक्रमिणं कुरुते तस्य दक्षिणा प्युक्ष्णवेष्टितं धनुश्चर्ममया
वाणवन्तो लोहित उष्णीष एतदु हि तस्य भवति

५.३.१.[१२]

तानि वा एतानि । एकादश रत्नानि सम्पादयत्येकादशाक्षरा वै त्रिष्टुब्वीर्यं
त्रिष्टुब्वीर्यमेवैतद्रत्नान्यभिसम्पादयति तद्यद्रत्निनां हविर्भिर्यजत एतेषां
वै राजा भवति तेभ्य एवैतेन सूयते तान्त्स्वाननपक्रमिणः कुरुते

५.३.१.[१३]

अथ श्वो भूते । परिवृत्यै गृहान्परेत्य नैर्ऋतं चरुं निर्वपति या वा अपुत्रा पत्नी
सा परिवृत्ती स कृष्णानां व्रीहीणां नखैर्निर्भिद्य तण्डुलान्नैर्ऋतं चरुं श्रपयति
स जुहोत्येष ते निर्ऋते भागस्तं जुषस्व स्वाहेति या वा अपुत्रा पत्नी सा निर्ऋतिगृहीता
तद्यदेवास्य अत्र नैर्ऋतं रूपं तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न
गृह्णाति तस्य दक्षिणा कृष्णा गौः परिमूर्णी पर्यारिणी सा ह्यपि निर्ऋतिगृहीता तामाह
मा
मेऽद्येशायां वात्सीदिति तत्पाप्मानमपादत्ते

५.३.२.[१]

उपरिष्टाद्रत्नानां सौमारौद्रेण यजते । स श्वेतायै श्वेतवत्सायै पयसि शृतो
भवति तद्यदुपरिष्टाद्रत्नानां सौमारौद्रेण यजते

५.३.२.[२]

स्वर्भानुर्ह वा आसुरः । सूर्यं तमसा विव्याध स तमसा विद्धो न व्यरोचत तस्य
सोमारुद्रावेवैतत्तमोऽपाहतां स एषोऽपहतपाप्मा तपति तथो एवैष एतत्तमः
प्रविशत्येतं वा तमः प्रविशति यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा
एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वत्तस्य सोमारुद्रावेवैतत्तमोऽपहतः सो
ऽपहतपाप्मैव दीक्षते तद्यच्वेतायै श्वेतवत्सायै पयसि शृतो भवति कृष्णं वै
तमस्तत्तमोऽपहन्ति तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा

५.३.२.[३]

स हैतेनापि यजेत । योऽलं यशसे सन्न यशो भवति यो वा अनूचानः सोऽलं यशसे
सन्न यशो भवति यो न यशो भवति स तमसा वै स तत्प्रावृतो भवति तस्य
सोमारुद्रावेवैतत्तमोऽपहतः सोऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति

५.३.२.[४]

अथ मैत्राबार्हस्पत्यं चरुं निर्वपति । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष
यज्ञपथाद्यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति
शूद्रांस्त्वद्यांस्त्वन्मित्राबृहस्पती वै यज्ञपथो ब्रह्म हि मित्रो ब्रह्म हि यज्ञो
ब्रह्म हि बृहस्पतिर्ब्रह्म हि यज्ञस्तत्पुनर्यज्ञपथमपिपद्यते सोऽपिपद्यैव
यज्ञपथं दीक्षते तस्मान्मैत्राबार्हस्पत्यं चरुं निर्वपति

५.३.२.[५]

तस्यावृत् । या स्वयम्प्रशीर्णाश्वत्थी शाखा प्राची वोदीची वा भवति तस्यै मैत्रम्
पात्रं करोति वरुण्या वा एषा या परशुवृक्णाथैषा मैत्री या स्वयम्प्रशीर्णा
तस्मात्स्वयम्प्रशीर्णायै शाखायै मैत्रं पात्रं करोति

५.३.२.[६]
अथातच्य दधि । विनाट आसिच्य रथं युक्त्वाबध्य देदीयितवा आह
तद्यत्स्वयमुदितं नवनीतं तदाज्यं भवति वरुण्यं वा
एतद्यन्मथितमथैतन्मैत्रं यत्स्वयमुदितं तस्मात्स्वयमुदितमाज्यम्
भवति

५.३.२.[७]

द्वेधा तण्डुलान्कुर्वन्ति । स येऽणीयांसः परिभिन्नास्ते बार्हस्पत्या अथ ये
स्थवीयांसोऽपरिभिन्नास्ते मैत्रा न वै मित्रः कं चन हिनस्ति न मित्रं कश्चन
हिनस्ति नैनं कुशो न कण्टको विभिनत्ति नास्य व्रणश्चनास्ति सर्वस्य ह्येव मित्रो
मित्रम्

५.३.२.[८]

अथ बार्हस्पत्यं चरुमधिश्रयति । तं मैत्रेण पात्रेणापिदधाति तदाज्यमानयति
तत्तण्डुलानावपति स एष ऊष्मणैव श्रप्यते वरुण्यो वा एष योऽग्निना शृतोऽथैष
मैत्रो य ऊष्मणा शृतस्तस्मादूष्मणा शृतो भवति तयोरुभयोरवद्यन्नाह
मित्राबृहस्पतिभ्यामनुब्रूहीत्याश्राव्याह मित्राबृहस्पती यजेति वषट्कृते जुहोति

५.३.३.[१]

स वै दीक्षते । स उपवसथेऽग्नीषोमीयं पशुमालभते तस्य वपया
प्रचर्याग्नीसोमीयमेकादशकपालं पुरोडाशं निर्वपति तदनु देवस्वां हवींषि
निरुप्यन्ते

५.३.३.[२]

सवित्रे सत्यप्रसवाय । द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति
प्लाशुकानां व्रीहीणां सविता वा देवानां प्रसविता सवितृप्रसूतः सूया इत्यथ
यत्प्लाशुकानां व्रीहीणां क्षिप्रे मा प्रसुवानिति

५.३.३.[३]

अथाग्नये गृहपतये । अष्टाकपालं पुरोडाशं निर्वपत्याशूनां श्रीर्वै गार्हपतं
यावतोयावत ईष्टे तदेनमग्निरेव गृहपतिर्गार्हपतमभि परिणयत्यथ
यदाशूनां क्षिप्रे मा परिणयानिति

५.३.३.[४]

अथ सोमाय वनस्पतये । श्यामाकं चरुं निर्वपति तदेनं सोम एव
वनस्पतिरोषधिभ्यः सुवत्यथ यच्यामाको भवत्येते वै सोमस्यौषधीनां
प्रत्यक्षतमां यच्यामाकास्तस्माच्यामाको भवति
५.३.३.[५]

अथ बृहस्पतये वाचे । नैवारं चरुं निर्वपति तदेनं बृहस्पतिरेव वाचे
सुवत्यथ यन्नैवारो भवति ब्रह्म वै बृहस्पतिरेते वै ब्रह्मणा पच्यन्ते
यन्नीवारास्तस्मान्नैवारो भवति

५.३.३.[६]

अथेन्द्राय ज्येष्ठाय । हायनानां चरुं निर्वपति तदेनमिन्द्र एव ज्येष्ठो
ज्यैष्ठ्यमभि परिणयत्यथ यद्धायनानां भवत्यतिष्ठा वा एता ओषधयो
यद्धायना अतिष्ठो वा इन्द्रस्तस्माद्धायनानां भवति

५.३.३.[७]

अथ रुद्राय पशुपतये । रौद्रं गावेधुकं चरुं निर्वपति तदेनं रुद्र एव
पशुपतिः पशुभ्यः सुवत्यथ यद्गावेधुको भवति वास्तव्यो वा एष देवो वास्तव्या
गवेधुकास्तस्माद्गावेधुको भवति

५.३.३.[८]

अथ मित्राय सत्याय । नाम्बानां चरुं निर्वपति तदेनं मित्र एव सत्यो ब्रह्मणे
सुवत्यथ यन्नाम्बानां भवति वरुण्या वा एता ओषधयो याः कृष्टे जायन्तेऽथैते
मैत्रा यन्नाम्बास्तस्मान्नाम्बानां भवति

५.३.३.[९]

अथ वरुणाय धर्मपतये । वारुणं यवमयं चरुं निर्वपति तदेनं वरुण
एव धर्मपतिर्धर्मस्य पतिं करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि
परमतां गच्छति तं हि धर्म उपयन्ति तस्माद्वरुणाय धर्मपतये

५.३.३.[१०]

अथाग्नीषोमीयेन पुरोडाशेन प्रचरति । तस्यानिष्ट एव
स्विष्टकृद्भवत्यथैतैर्हविर्भिः प्रचरति यदैतैर्हविर्भिः प्रचरति

५.३.३.[११]

अथैनं दक्षिणे बाहावभिपद्य जपति । सविता त्वा सवानां
सुवतामग्निर्गृहपतीनां सोमो वनस्पतीनां बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय
रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम्
५.३.३.[१२]

इमं देवाः । असपत्नं सुवध्वमितीमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह
महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति
महते जनानां राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियायेति वीर्यायेत्येवैतदाह
यदाहेन्द्रस्येन्द्रियायेतीमममुष्यै पुत्रममुष्यै पुत्रमिति तद्यदेवास्य
जन्म तत एवैतदाहास्यै विश इति यस्यै विशो राजा भवत्येष वोऽमी राजा सोमो
ऽस्माकं ब्राह्मणानां राजेति तदस्मा इदं सर्वमाद्यं करोति
ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणोऽनाद्यः सोमराजा हि भवति

५.३.३.[१३]

एता ह वै देवाः सवस्येशते । तस्माद्देवस्वो नाम तदेनमेता एव देवताः सुवते
ताभिः सूतः श्वः सूयते

५.३.३.[१४]

ता वै द्विनाम्न्यो भवन्ति । द्वन्द्वं वै वीर्यं वीर्यवत्यः सुवान्ता इति
तस्माद्द्विनाम्न्यो भवन्ति

५.३.३.[१५]

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै
प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु
प्रजायन्तेतदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति
तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते
जुहोति

५.३.४.[१]

स वा अपः सम्भरति । तद्यदपः सम्भरति वीर्यं वा आपो
वीर्यमेवैतद्रसमपां सम्भरति

५.३.४.[२]

औदुम्बरे पात्रे । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै
तस्मादौदुम्बरे पात्रे

५.३.४.[३]

स सारस्वतीरेव प्रथमा गृह्णाति । अपो देवा मधुमतीरगृभ्णन्नित्यपो देवा
रसवतीरगृह्णन्नित्येवैतदाहोर्जस्वती राजस्वश्चिताना इति रसवतीरित्येवैतदाह
यदाहोर्जस्वतीरिति राजस्वश्चिताना इति याः प्रज्ञाता राजस्व इत्येवैतदाह
याभिर्मित्रावरुणावभ्यषिञ्चन्नित्येताभिर्हि
मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्रमनयन्नत्यरातीरित्येताभिर्हीन्द्रं नाष्ट्रा
रक्षांस्यत्यनयंस्ताभिरभिषिञ्चति वाग्वै सरस्वती
वाचैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[४]

अथाध्वर्युः । चतुर्गृहीतमाज्यं गृहीत्वापोऽभ्यवैति तद्या ऊर्मी व्यर्दतः पशौ
वा पुरुषे वाभ्यवेते तौ गृह्णाति

५.३.४.[५]

स यः प्राङ्गुदर्दति । तं गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा मे देहि स्वाहा वृष्ण
ऊर्मिरसि राष्ट्रदा राष्ट्रममुष्मै देहीति

५.३.४.[६]

अथ यः प्रत्यङ्ङुदर्दति । तं गृह्णाति वृषसेनोऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा
वृषसेनोऽसि राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चति वीर्यं वा
एतदपामुदर्दति पशौ वा पुरुषे वाभ्यवेते वीर्येणैवैनमेतदभिषिञ्चत्येता वा
एका आपस्ता एवैतत्सम्भरति

५.३.४.[७]

अथ स्यन्दमाना गृह्णाति । अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहार्थेत स्थ
राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति वीर्येण वा एताः स्यन्दन्ते
तस्मादेनाः स्यन्दमाना न किंचन प्रतिधारयते वीर्येणैवैनमेतदभिषिञ्चत्येता
वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[८]

अथ याः स्यन्दमानानां प्रतीपं स्यन्दन्ते । ता गृह्णात्योजस्वती स्थ राष्ट्रदा
राष्ट्रं मे दत्त स्वाहौजस्वती स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति
ताभिरभिषिञ्चति वीर्येण वा एताः स्यन्दमानानां प्रतीपं स्यन्दन्ते
वीर्येणैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[९]

अथापयतीर्गृह्णाति । आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति
ताभिरभिषिञ्चत्येतस्यै वा एषापच्छिद्यैषैव पुनर्भवत्यपि ह वा
अस्यान्यराष्ट्रीयो राष्ट्रे भवत्यप्यन्यराष्ट्रीयमवहरते तथास्मिन्भूमानं
दधाति भूम्नैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति
५.३.४.[१०]

अथ नदीपतिं गृह्णाति । अपां पतिरसि राष्ट्रदा राष्ट्रं मे देहि स्वाहापां पतिरसि
राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चत्यपां वा एष
पतिर्यन्नदीपतिर्विशामेवैनमेतत्पतिं करोत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[११]

अथ निवेष्यं गृह्णाति । अपां गर्भोऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहापां गर्भो
ऽसि राष्ट्रदा राष्ट्रममुष्मै देहीति ताभिरभिषिञ्चति गर्भं वा एतदाप
उपनिवेष्टन्ते विशामेवैनमेतद्गर्भं करोत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१२]

अथ यः स्यन्दमानानां स्थावरो ह्रदो भवति । प्रत्यातापे ता गृह्णाति सूर्यत्वचस
स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै
दत्तेति ताभिरभिषिञ्चति वर्चसैवैनमेतदभिषिञ्चति
सूर्यत्वचसमेवैनमेतत्करोति वरुण्या वा एता आपो भवन्ति याः स्यन्दमानानां न
स्यन्दन्ते वरुणसवो वा एष यद्राजसूयं तस्मादेताभिरभिषिञ्चत्येता वा एका आपस्ता
एवैतत्सम्भरति

५.३.४.[१३]

अथ या आतपति वर्षन्ति । ता गृह्णाति सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त
स्वाहा सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति
वर्चसैवैनमेतदभिषिञ्चति सूर्यवर्चसमेवैनमेतत्करोति मेध्या वा एता आपो
भवन्ति या आतपति वर्षन्त्यप्राप्ता हीमां भवन्त्यथैना गृह्णाति
मेध्यमेवैनमेतत्करोत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१४]

अथ वैशन्तीर्गृह्णाति । मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा मान्दा स्थ
राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति विशमेवास्मा
एतत्स्थावरामनपक्रमिणीं करोत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१५]

अथ कूप्या गृह्णाति । व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा व्रजक्षित
स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति तद्या इमां परेणापस्ता
एवैतत्सम्भरत्यपामु चैव सर्वत्वाय तस्मादेताभिरभिश्चत्येता वा एका आपस्ता
एवैतत्सम्भरति

५.३.४.[१६]

अथ प्रुष्वा गृह्णाति । वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा वाशा स्थ राष्ट्रदा
राष्ट्रममुष्मै दत्तेति
ताभिरभिषिञ्चत्यन्नाद्येनैवैनमेतदभिषिञ्चत्यन्नाद्यमेवास्मिन्नेतद्दधातीद्
अं वा असावादित्य उद्यन्नेव यथायमग्निर्निर्दहेदेवमोषधीरन्नाद्यं निर्दहति
तदेता आपोऽभ्यवयत्यः शमयन्ति न ह वा इहान्नाद्यं परिशिष्यते यदेता आपो
नाभ्यवेयुरन्नाद्येनैवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१७]

अथ मधु गृह्णाति । शविष्टा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा शविष्ठा स्थ
राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चत्यपां चैवैनमेतदोषधीनां
च रसेनाभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१८]

अथ गोर्विजायमानाया उल्ब्या गृह्णाति । शक्वरो स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा
शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति
पशुभिरेवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[१९]

अथ पयो गृह्णाति । जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा जनभृत स्थ
राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति
पशुभिरेवैनमेतदभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[२०]

अथ घृतं गृह्णाति । विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा विश्वभृत
स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तेति ताभिरभिषिञ्चति
पशूनामेवैनमेतद्रसेनाभिषिञ्चत्येता वा एका आपस्ता एवैतत्सम्भरति

५.३.४.[२१]

अथ मरीचीः । अञ्जलिना संगृह्यापिसृजत्यापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै
दत्तेत्येता वा आपः स्वराजो यन्मरीचयस्ता यत्स्यन्दन्त इवान्योऽन्यस्या एवैतच्रिया
अतिष्ठमाना उत्तराधरा इव भवन्त्यो यन्ति स्वाराज्यमेवास्मिन्नेतद्दधात्येता वा
एका आपस्ता एवैतत्सम्भरति

५.३.४.[२२]

ता वा एताः । सप्तदशापः सम्भरति सप्तदशो वै प्रजापतिः
प्रजापतिर्यज्ञस्तस्मात्सप्तदशापः सम्भरति

५.३.४.[२३]

षोडश ता आपो या अभिजुहोति । षोडशाहुतीर्जुहोति ता द्वात्रिंशद्द्वयीषु न जुहोति
सारस्वतीषु च मरीचिषु च ताश्चतुस्त्रिंशत्त्रयस्त्रिंशद्वै देवाः
प्रजापतिश्चतुस्त्रिंशस्तदेनं प्रजापतिं करोति

५.३.४.[२४]

अथ यद्धुत्वाहुत्वा गृह्णाति । वज्रो वा आज्यं वज्रेणैवैतदाज्येन स्पृत्वास्पृत्वा
स्वीकृत्य गृह्णाति

५.३.४.[२५]

अथ यत्सारस्वतीषु न जुहोति । वाग्वै सरस्वती वज्र आज्यं नेद्वज्रेणाज्येन वाचं
हिनसानीति तस्मात्सारस्वतीषु न जुहोति

५.३.४.[२६]

अथ यन्मरीचिषु न जुहोति । नेदनद्धेवैतामाहुतिं जुहवानीति तस्मान्मरीचिषु
न जुहोति

५.३.४.[२७]

ताः सार्धमौदुम्बरे पात्रे समवनयति । मधुमतीर्मधुमतीभिः
पृच्यन्तामिति रसवती रसवतीभिः पृच्यन्तामित्येवैतदाह महि क्षत्रं क्षत्रियाय
वन्वाना इति तत्परोऽक्षं यजमानायाशिषमाशास्ते यदाह महि क्षत्रं क्षत्रियाय
वन्वाना इति

५.३.४.[२८]

ता अग्रेण मैत्रावरुणस्य धिष्ण्यं सादयति । अनाधृष्टाः सीदत सहौजस
इत्यनाधृष्टाः सीदत रक्षोभिरित्येवैतदाह सहौजस इति सवीर्या इत्येवैतदाह महि
क्षत्रं क्षत्रियाय दधतीरिति तत्प्रत्यक्षं क्षत्रं यजमानायाशिषमाशास्ते
यदाह महि क्षत्रं क्षत्रियाय दधतीरिति

५.३.५.[१]

तं वै माध्यदिने सवनेऽभिषिञ्चति । एष वै प्रजापतिर्य एष यज्ञस्तायते
यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तदेनं मध्यत
एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति

५.३.५.[२]

अगृहीते माहेन्द्रे । एष वा इन्द्रस्य निष्केवल्यो ग्रहो यन्माहेन्द्रो
ऽप्यस्यैतन्निष्केवल्यमेव स्तोत्रं निष्केवल्यं शस्त्रमिन्द्रो वै यजमानस्तदेनं
स्व एवायतनेऽभिषिञ्चति तस्मादगृहीते माहेन्द्रे

५.३.५.[३]

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । शार्दूलचर्मोपस्तृणाति सोमस्य त्विषिरसीति यत्र
वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य
त्विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति शार्दूलत्विषि

मेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे त्विषिर्भूयादिति

५.३.५.[४]

अथ पार्थानि जुहोति । पृथा ह वै वैन्यो मनुष्याणां प्रथमोऽभिषिषिचे सो
ऽकामयत सर्वमन्नाद्यमवरुन्धीयेति तस्मा एतान्यजुहवुः स इदं
सर्वमन्नाद्यमवरुरुधेऽपि ह स्मास्मा आरण्यान्पशूनभिह्वयन्त्यसावेहि राजा त्वा
पक्ष्यत इति तथेदं तर्वमन्नाद्यमवरुरुधे सर्वं ह वा
अन्नाद्यमवरुन्द्धे यस्यैवं विदुष एतानि हूयन्ते

५.३.५.[५]

तानि वै द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश भवन्ति

५.३.५.[६]

षट्पुरस्तादभिषेकस्य जुहोति । षडुपरिष्टात्तदेनं मध्यत एवैतस्य
प्रजापतेर्दधाति मध्यतः सुवति

५.३.५.[७]

स यानि पुरस्तादभिषेकस्य जुहोति । बृहस्पतिस्तेषामुत्तमो भवत्यथ
यान्युपरिष्टादभिषेकस्य जुहोतीन्द्रस्तेषां प्रथमो भवति ब्रह्म वै
बृहस्पतिरिन्द्रियं वीर्यमिन्द्र एताभ्यामेवैनमेतद्वीर्याभ्यामुभयतः
परिबृंहति

५.३.५.[८]

स जुहोति । यानि पुरस्तादभिषेकस्य जुहोत्यग्नये स्वाहेति तेजो वा
अग्निस्तेजसैवैनमेतदभिषिञ्चति सोमाय स्वाहेति क्षत्रं वै सोमः
क्षत्रेणैवैनमेतदभिषिञ्चति सवित्रे स्वाहेति सविता वै देवानां प्रसविता
सवितृप्रसूत एवैनमेतदभिषिञ्चति सरस्वत्यै स्वाहेति वाग्वै सरस्वती
वाचैवैनमेतदभिषिञ्चति पूष्णे स्वाहेति पशवो वै पूषा
पशुभिरेवैनमेतदभिषिञ्चति बृहस्पतये स्वाहेति ब्रह्म वै
बृहस्पतिर्ब्रह्मणैवैनमेतदभिषिञ्चत्येतानि पुरस्तादभिषेकस्य जुहोति
तान्येतान्यग्निनामानीत्याचक्षते

५.३.५.[९]

अथ जुहोति । यान्युपरिष्टादभिषेकस्य जुहोतीन्द्राय स्वाहेति वीर्य वा इन्द्रो
वीर्येणैवैनमेतदभिषिञ्चति घोषाय स्वाहेति वीर्यं वै घोषो
वीर्येणैवैनमेतदभिषिञ्चति श्लोकाय स्वाहेति वीर्यं वै श्लोको
वीर्येणैवैनमेतदभिषिञ्चत्यंशाय स्वाहेति वीर्यं वा अंशो
वीर्येणैवैनमेतदभिषिञ्चति भगाय स्वाहेति वीर्यं वै भागो
वीर्येणैवैनमेतदभिषिञ्चत्यर्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्यमणं
करोत्येतान्युपरिष्टादभिषेकस्य जुहोति तान्येतान्यादित्यनामानीत्याचक्षते

५.३.५.[१०]

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । अभिषेचनीयानि पात्राणि भवन्ति यत्रैता आपो
ऽभिषेचनीया भवन्ति

५.३.५.[११]

पालाशं भवति । तेन ब्राह्मणोऽभिषिञ्चति ब्रह्म वै पलाशो
ब्रह्मणैवैनमेतदभिषिञ्चति

५.३.५.[१२]

औदुम्बरं भवति । तेन स्वोऽभिषिञ्चत्यन्नं वा ऊर्गुदुम्बर ऊर्ग्वै स्वं
यावद्वै पुरुषस्य स्वं भवति नैव तावदशनायति तेनोर्क्ष्वं
तस्मादौदुम्बरेण स्वोऽभिषिञ्चति

५.३.५.[१३]

नैयग्रोधपादं भवति । तेन मित्र्यो राजन्योऽभिषिञ्चति पद्भिर्वै न्यग्रोधः
प्रतिष्ठितो मित्रेण वै राजन्यः प्रतिष्ठितस्तस्मान्नैयग्रोधपादेन मित्र्यो
राजन्योऽभिषिञ्चति

५.३.५.[१४]

आश्वत्थं भवति । तेन वैश्योऽभिषिञ्चति स यदेवादोऽश्वत्थे तिष्ठत इन्द्रो
मरुत उपामन्त्रयत तस्मादाश्वत्थेन वैश्योऽभिषिञ्चत्येतान्यभिषेचनीयानि
पात्राणि भवन्ति

५.३.५.[१५]

अथ पवित्रे करोति । पवित्रे स्थो वैष्णव्याविति सोऽसावेव बन्धुस्तयोर्हिरण्यम्
प्रवयति ताभ्यामेता अभिषेचनीया अप उत्पुनाति तद्यद्धिरण्यम्
प्रवयत्यमृतमायुर्हिरण्यं तदा स्वमृतमायुर्दधाति तस्माद्धिरण्यं प्रवयति

५.३.५.[१६]

स उत्पुनाति । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो
ऽसावेव बन्धुरनिभृष्टमसि वाचो बन्धुस्तपोजा इत्यनाधृष्टा स्थ
रक्षोभिरित्येवैतदाह यदाहानिभृष्टमसीति वाचो बन्धुरिति यावद्वै प्राणेष्वापो
भवन्ति तावद्वाचा वदति तस्मादाह वाचो बन्धुरिति

५.३.५.[१७]

तपोजा इति । अग्निर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते
तस्मादाह तपोजा इति

५.३.५.[१८]

सोमस्य दात्रमसीति । यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति तस्मादाह
सोमस्य दात्रमसीति स्वाहा राजस्व इति तदेनाः स्वाहाकारेणैवोत्पुनाति

५.३.५.[१९]

ता एतेषु पात्रेषु व्यानयति । सधमादो द्युम्निनीराप एता इत्यनतिमानिन्य
इत्येवैतदाह यदाह सधमाद इति द्युम्निनीराप एता इति वीर्यवत्य
इत्येवैतदाहानाधृष्टा अपस्यो वसाना इत्यनाधृष्टा स्थ रक्षोभिरित्येवैतदाह
यदाहानाधृष्टा अपस्यो वसाना इति पस्त्यासु चक्रे वरुणः सधस्थमिति विशो वै
पस्त्या विक्षु चक्रे वरुणः प्रतिष्ठामित्येवैतदाहापां शिशुर्मातृतमास्वन्तरिति

५.३.५.[२०]

अथैनं वासांसि परिधापयति । तत्तार्प्यमिति वासो भवति तस्मिन्त्सर्वाणि यज्ञरूपाणि
निष्यूतानि भवन्ति तदेनं परिधापयति क्षत्रस्योल्बमसीति तद्यदेव
क्षत्रस्योल्बं तत एवैनमेतज्जनयति
५.३.५.[२१]

अथैनं पाण्ड्वं परिधापयति । क्षत्रस्य जराय्वसीति तद्यदेव क्षत्रस्य जरायु
तत एवैनमेतज्जनयति

५.३.५.[२२]

अथाधीवासं प्रतिमुञ्चति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तस्या
एवैनमेतज्जनयति

५.३.५.[२३]

अथोष्णीषं संहृत्य । पुरस्तादवगूहति क्षत्रस्य नाभिरसीति तद्यैव क्षत्रस्य
नाभिस्तामेवास्मिन्नेतद्दधाति

५.३.५.[२४]

तद्धैके । समन्तं परिवेष्टयन्ति नाभिर्वा अस्यैषा समन्तं वा इयं नाभिः
पर्येतीति वदन्तस्तदु तथान कुर्यात्पुरस्तादेवावगूहेत्पुरस्ताद्धीयं
नाभिस्तद्यदेनं वासांसि परिधापयति जनयत्येवैनमेतज्जातमभिषिञ्चानीति
तस्मादेनं वासांसि परिधापयति

५.३.५.[२५]

तद्धैके । निदधत्येतानि वासांस्यथैनं पुनर्दीक्षितवसनं परिधापयन्ति
तदु तथा न कुर्यादङ्गानि वा अस्य जनूर्वासांस्यङ्गैर्हैनं सजन्वा तन्वा
व्यर्धयन्ति वरुण्यं दीक्षितवसनं स एतेषामेवैकं वाससां परिदधीत
तदेनमङ्गैर्जन्वा तन्वा समर्धयति वरुण्यं दीक्षितवसनं तदेनं
वरुण्याद्दीक्षितवसनात्प्रमुञ्चति

५.३.५.[२६]

स यत्रावभृथमभ्यवैति । तदेतदभ्यवहरन्ति तत्सलोम क्रियते स
एतेषामेवैकं वाससां परिधायोदैति तानि वशायै वा वपायां हुतायां
दद्यादुदवसानीयायां वेष्टौ

५.३.५.[२७]

अथ धनुरधितनोति । इन्द्रस्य वार्त्रघ्नमसीति वार्त्रघ्नं वै धनुरिन्द्रो वै
यजमानो द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च
यजमानस्तस्मादाहेन्द्रस्य वार्त्रघ्नमसीति
५.३.५.[२८]

अथ बाहू विमार्ष्टि । मित्रस्यासि वरुणस्यासीति बाह्वोर्वै धनुर्बाहुभ्यां वै राजन्यो
मैत्रावरुणस्तस्मादाह मित्रस्यासि वरुणस्यासीति तदस्मै प्रयच्छति त्वयायं वृत्रम्
बधेदिति त्वयायं द्विषन्तं भ्रातृव्यं बधेदित्येवैतदाह

५.३.५.[२९]

अथास्मै तिस्र इषूः प्रयच्छति । स यया प्रथमया समर्पणेन पराभिनत्ति सैका
सेयं पृथिवी सैषा दृबा नामाथ यया विद्धः शयित्वा जीवति वा म्रियते वा सा
द्वितीया तदिदमन्तरिक्षं सैषा रुजा नामाथ ययापैव राध्नोति सा तृतीया सासौ
द्यौः सैषा क्षुमा नामैता हि वै तिस्र इषवस्तस्मादस्मै तिस्र इषूः प्रयच्छति

५.३.५.[३०]

ताः प्रयच्छति । पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः
पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं
वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम्
प्रयच्छति

५.३.५.[३१]

अथैनमाविदो वाचयति । आविर्मर्या इत्यनिरुक्तं प्रजापतिर्वा अनिरुक्तस्तदेनम्
प्रजापतय आवेदयति सोऽस्मै सवमनुमन्यते तेनानुमतः सूयते

५.३.५.[३२]

आवित्तो अग्निर्गृहपतिरिति । ब्रह्म अग्निस्तदेनं ब्रह्मण आवेदयति तदस्मै
सवमनुमन्यते तेनानुमतः सूयते

५.३.५.[३३]

आवित्तो इन्द्रो वृद्धश्रवा इति । क्षत्रं वा इन्द्रस्तदेनं क्षत्रायावेदयति तदस्मै
सवमनुमन्यते तेनानुमतः सूयते

५.३.५.[३४]

आवित्तौ मित्रावरुणौ धृतव्रताविति । प्राणोदानौ वै मित्रावरुणौ तदेनम्
प्राणोदानाभ्यामावेदयति तावस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते

५.३.५.[३५]

आवित्तः पूषा विश्ववेदा इति । पशवो वै पूषा तदेनं पशुभ्य आवेदयति तेऽस्मै
सवमनुमन्यन्ते तैरनुमतः सू

५.३.५.[३६]

आवित्ते द्यावापृथिवी विश्वशम्भुवाविति । तदेनमाभ्यां द्यावापृथिवीभ्यामावेदयति
ते अस्मै सवमनुमन्येते ताभ्यामनुमतः सूयते

५.३.५.[३७]

आवित्तादितिरुरुशर्मेति । इयं वै पृथिव्यदितिस्तदेनमस्मै पृथिव्या आवेदयति सास्मै
सवमनुमन्यते तयानुमतः सूयते तद्याभ्य एवैनमेतद्देवताभ्य आवेदयति ता
अस्मै सवमनुमन्यन्ते ताभिरनुमतः सूयते

५.४.१.[१]

केशवस्य पुरुषस्य । लोहायसमास्य आविध्यत्यवेष्टा दन्दशूका इति सर्वान्वा एष
मृत्यूनतिमुच्यते सर्वान्बधान्यो राजसूयेन यजते तस्य जरैव मृत्युर्भवति
तद्यो मृत्युर्यो बधस्तमेवैतदतिनयति यद्दन्दशूकान्

५.४.१.[२]

अथ यत्केशवस्य पुरुषस्य । न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह
पुमास्तेन न स्त्री यदु केशवस्तेनो न पुमान्नैतदयो न हिरण्यं यल्लोहायसं
नैते क्रिमयो नाक्रिमयो यद्दन्दशूका अथ यल्लोहायसं भवति लोहिता इव हि
दन्दशूकास्तस्मात्केशवस्य पुरुषस्य

५.४.१.[३]

अथैनं दिशः समारोहयति । प्राचीमारोह गायत्री त्वावतु रथन्तरं साम
त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम्

५.४.१.[४]

दक्षिणामारोह । त्रिष्टुप्त्वावतु बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं
द्रविणम्

५.४.१.[५]

प्रतीचीमारोह । जगती त्वावतु वैरूपं साम सप्तदश स्तोमो वर्षा ऋतुर्विड्
द्रविणम्

५.४.१.[६]

उदीचीमारोह । अनुष्टुप्त्वावतु वैराजं सामैकविंश स्तोमः शरदृतुः फलं
द्रविणाम्

५.४.१.[७]

ऊर्ध्वामारोह । पङ्क्तिस्त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तोमौ
हेमन्तशिशिरावृतू वर्चो द्रविणमिति

५.४.१.[८]

तद्यदेनं दिशः समारोहयति । ऋतूनामेवैतद्रूपमृतूनेवैनमेतत्संवत्सरं
समारोहयति स ऋतून्त्संवत्सरं समारुह्य सर्वमेवेदमुपर्युपरि
भवत्यर्वागैवास्मादिदं सर्वं भवति

५.४.१.[९]

शार्दूलचर्मणो जघनार्धे । सीसं निहितं भवति तत्पदा प्रत्यस्यति प्रत्यस्तं
नमुचेः शिर इति नमुचिर्ह वै नामासुर आस तमिन्द्रो निविव्याध तस्य पदा शिरो
ऽभितष्ठौ स यदभिष्ठित उदबाधत स उच्वङ्कस्तस्य पदा शिरः प्रचिच्छेद ततो
रक्षः समभवत्तद्ध स्मैनमनुभाषते क्व गमिष्यसि क्व मे मोक्ष्यस इति

५.४.१.[१०]

तत्सीसेनापजघान । तस्मात्सीसं मृदु सृतजवं हि सर्वेण हि वीर्येणापजघान
तस्माद्धिरण्यरूपं सन्न कियच्चनार्हति सृतजवं हि सर्वेण हि वीर्येणापजघान
तद्वै स तन्नाष्ट्रा रक्षांस्यपजघान तथो एवैष एतन्नाष्ट्रा रक्षांस्यतो
ऽपहन्ति

५.४.१.[११]

अथैनं शार्दूलचर्मारोहयति । सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत
स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिस्तस्मादाह सोमस्य त्विषिरसीति
तवेव मे त्विषिर्भूयादिति शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे
त्विषिर्भूयादिति

५.४.१.[१२]
अथ रुक्ममधस्तादुपास्यति । मृत्योः पाहीत्यमृतमायुर्हिरण्यं तदमृत आयुषि
प्रतितिष्ठति

५.४.१.[१३]

अथ रुक्मः शतवितृणो वा भवति । नववितृणो वा स यदि शतवितृणः शतायुर्वा अयम्
पुरुषः शततेजाः शतवीर्यस्तस्माच्छतवितृणो यद्यु नववितृणो नवेमे पुरुषे
प्राणास्तस्मान्नववितृणः

५.४.१.[१४]

तमुपरिष्टाचीर्ष्णो निदधाति । ओजोऽसि सहो स्यमृतमसीत्यमृतमायुर्हिरण्यं
तदस्मिन्नमृतमायुर्दधाति तद्यद्रुक्मा उभयतो भवतोऽमृतमायुर्हिरण्यं
तदमृतेनैवैनमेतदायुषोभयतः परिबृंहति तस्माद्रुक्मा उभयतो भवतः

५.४.१.[१५]

अथ बाहू उद्गृह्णाति । हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं
वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ
गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः
पश्यतं स्वं चारणं चेत्येवैतदाह

५.४.१.[१६]

नैतेनोद्गृह्णीयात् । मित्रोऽसि वरुणोऽसीत्येवोद्गृह्णीयाद्बाहू वै मित्रावरुणौ
बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मान्मित्रोऽसि वरुणोऽसीत्येवोद्गृह्णीयात्

५.४.१.[१७]

तद्यदेनमूर्ध्वबाहुमभिषिञ्चति । वीर्यं वा एतद्राजन्यस्य यद्बाहू वीर्यं वा
एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति नेन्म इदं वीर्यं
वीर्यमपां रसः सम्भृतो बाहूव्लिनादिति तस्मादेनमूर्ध्वबाहुमभिषिञ्चति

५.४.२.[१]

तं वै प्राञ्चं तिष्ठन्तमभिषिञ्चति । पुरस्ताद्ब्राह्मणोऽभिषिञ्चत्यध्वर्युर्वा
यो वास्य पुरोहितो भवति पश्चादितरे

५.४.२.[२]

सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति । वीर्येणैतदाहाग्नेर्भ्राजसेति वीर्येणैवैतदाह
सूर्यस्य वर्चसेति वीर्येणैवैतदाहेन्द्रस्येन्द्रियेणेति वीर्येणैवैतदाह क्षत्राणां
क्षत्रपतिरेधीति राज्ञामधिराज एधीत्येवैतदाहाति दिद्यून्पाहीतीषवो वै दिद्यव
इषुबधमेवैनमेतदतिनयति तस्मादाहाति दिद्यून्पाहीति

५.४.२.[३]

इमं देवाः । असपत्नं सुवध्वमितीमं देवा अभ्रातृव्यं सुवध्वमित्येवैतदाह
महते क्षत्राय महते ज्यैष्ठ्यायेति नात्र तिरोहितमिवास्ति महते जानराज्यायेति
महते जनानां राज्यायेत्येवैतदाहेन्द्रस्येन्द्रियायेति वीर्यायेत्येवैतदाह
यदाहेन्द्रस्येन्द्रियायेतीमममुष्य पुत्रममुष्यै पुत्रमिति तद्यदेवास्य
जन्म तत एवैतदाहास्यै विश इति यस्यै विशो राजा भवत्येष वोऽमी राजा सोमो
ऽस्माकं ब्राह्मनानां राजेति तदस्मा इदं सर्वमाद्य करोति
ब्राह्मणमेवापोद्धरति तस्माद्ब्राह्मणोऽनाद्यः सोमराजा हि भवति

५.४.२.[४]

अथैतमभिषेकम् । कृष्णविषाणयानुविमृष्टे वीर्यं वा एतदपां रसः सम्भृतो
भवति येनैनमेतदभिषिञ्चतीदं मे वीर्यं सर्वमात्मानमुपस्पृशादिति
तस्माद्वा अनुविमृष्टे

५.४.२.[५]

सोऽनुविमृष्टे । प्र पर्वतस्य वृषभस्य पृष्ठादिति यथायं पर्वतोऽतिष्ठावा
यथर्षभः पशूनतिष्ठावैवं वा एष इदं सर्वमतितिष्ठत्यर्वागेवास्मादिदं
सर्वं भवति यो राजसूयेन यजते तस्मादाह प्र पर्वतस्य वृषभस्य
पृष्ठान्नावश्चरन्ति स्वसिच इयानाः ता आववृत्रन्नधरागुदक्ता अहिं बुध्न्यमनु
रीयमाणा इति

५.४.२.[६]

अथैनमन्तरेव शार्दूलचर्मणि विष्णुक्रमान्क्रमयति । विष्णोर्विक्रमणमसि
विष्णोर्विक्रान्तमसि विष्णोः क्रान्तमसीतीमे वै लोका विष्णोर्विक्रमणं
विष्णोर्विक्रान्तं विष्णोः क्रान्तं तदिमानेव लोकान्त्समारुह्य
सर्वमेवेदमुपर्युपरि भवत्यर्वागेवास्मादिदं सर्वं भवति

५.४.२.[७]

अथ ब्राह्मणस्य पात्रे । संस्रवान्त्समवनयति तद्ब्राह्मणं राजानमनु यशः
करोति तस्माद्ब्राह्मणो राजानमनु यशः

५.४.२.[८]

तद्योऽस्य पुत्रः प्रियतमो भवति । तस्मा एतत्पात्रं प्रयच्छतीदं मेऽयं
वीर्यं पुत्रोऽनुसंतनवदिति

५.४.२.[९]

अथ प्रतिपरेत्य गार्हपत्यमन्वारब्धे जुहोति । प्रजापते न त्वदेतान्यन्यो विश्वा
रूपाणि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्त्वयममुष्य पितेति तद्यः
पुत्रस्तं पितरं करोति यः पिता तं पुत्रं तदेनयोर्वीर्ये व्यतिषजत्यसावस्य
पितेति तद्यः पिता तं पितरं करोति यः पुत्रस्तं पुत्रं तदेनयोर्वीर्ये व्यतिषज्य
पुनरेव यथायथं करोति वयं स्याम पतयो रयीणां स्वाहेत्याशीरेवैषैतस्य
कर्मण आशिषमेवैतदाशास्ते

५.४.२.[१०]

अथ य एष संस्रवोऽतिरिक्तो भवति तमाग्नीध्रीये जुहोत्यतिरिक्तो वा एष संस्रवो
भवत्यतिरिक्त आग्नीध्रीयो गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वत्यथैषो
ऽतिरिक्तंतदतिरिक्त एवैतदतिरिक्तं दधात्युत्तरार्धे जुहोत्येष ह्येतस्य देवस्य
दिक्तस्मादुत्तरार्धे जुहोति स जुहोति रुद्र यत्ते क्रिवि परं नाम
तस्मिन्हुतमस्यमेष्टमसि स्वाहेति

५.४.३.[१]

तद्योऽस्य स्वो भवति । तस्य शतं वा परःशता वा गा उत्तरेणाहवनीयं स्थापयति
तद्यदेवं करोति

५.४.३.[२]

वरुणाद्ध वा अभिषिषिचानात् । इन्द्रियं वीर्यमपचक्राम शश्वद्य एषोऽपां रसः
सम्भृतो भवति येनैनमेतदभिषिञ्चति सोऽस्येन्द्रियं वीर्यं निर्जघान
तत्पशुष्वन्वविन्दत्तस्मात्पशवो यशो यदेष्वन्वविन्दत्तत्पशुष्वनुविद्येन्द्रियं
वीर्यं पुनरात्मन्नधत्त तथो एवैष एतन्नाहैवास्मान्न्विन्द्रियं
वीर्यमपक्रामति वरुणसवो वा एष यद्राजसूयमिति वरुणो करोदिति त्वेवैष
एतत्करोति

५.४.३.[३]

अथ रथमुपावहरति । यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते
तस्माद्रथमुपावहरति

५.४.३.[४]

स उपावहरति । इन्द्रस्य वज्रोऽसीति वज्रो वै रथ इन्द्रो वै यजमानो द्वयेन वा
एष इन्द्रो भवति यच्च क्षत्रियो यदु च यजमानस्तस्मादाहेन्द्रस्य वज्रोऽसीति
५.४.३.[५]

तमन्तर्वेद्यभ्यववर्त्य युनक्ति । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा
युनज्मीति बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मादाह
मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति

५.४.३.[६]

तं चतुर्युजं युनक्ति । स जघनेन सदोऽग्रेण शालां येनैव दक्षिणा यन्ति तेन
प्रतिपद्यते तं जघनेन चात्वालमग्रेणाग्नीध्रमुद्यच्छति

५.४.३.[७]

तमातिष्ठति । अव्यथायै त्वा स्वधायै त्वेत्यनार्त्यै त्वेत्येवैतदाह यदाहाव्यथायै
त्वेति स्वधायै त्वेति रसाय त्वेत्येवैतदाहारिष्ठो अर्जुन इत्यर्जुनो ह वै नामेन्द्रो
यदस्य गह्यं नाम द्वयेन वा एष इन्द्रो भवति यच्च क्षत्रियो यदु च
यजमानस्तस्मादाहारिष्टो अर्जुन इति

५.४.३.[८]

अथ दक्षिणायुग्यमुपार्षति । मरुतां प्रसवेन जयेति विशो वै मरुतो विशा वै
तत्क्षत्रियो जयति यज्जिगीषति तस्मादाह मरुतां प्रसवेन जयेति

५.४.३.[९]

अथ मध्ये गवामुद्यच्छति । आपाम मनसेति मनसा वा इदं सर्वमाप्तं
तन्मनसैवैतत्सर्वमाप्नोति तस्मादाहापाम मनसेति

५.४.३.[१०]

अथ धनुरार्त्न्या गामुपस्पृशति । समिन्द्रियेणेतीन्द्रियं वै वीर्यं गाव
इन्द्रियमेवैतद्वीर्यमात्मन्धत्तेऽथाह जिनामीमाः कुर्व इमा इति

५.४.३.[११]

तद्यत्स्वस्य गोषूद्यच्छति । यद्वै पुरुषात्पराग्भवति यशो वा किंचिद्वा स्वं
हैवास्य तत्प्रतमामिवाभ्यपक्रामति तत्स्वादेवैतदिन्द्रियं वीर्यम्
पुनरात्मन्धत्ते तस्मात्स्वस्य गोषूद्यच्छति

५.४.३.[१२]
तस्मै तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति । न वा एष क्रूरकर्मणे भवति
यद्यजमानः क्रूरमिव वा एतत्करोति यदाह जिनामीमाः कुर्व इमा इति तथो
हास्यैतदक्रूरं कृतं भवति तस्मात्तावन्मात्रीर्वा भूयसीर्वा प्रतिददाति

५.४.३.[१३]

अथ दक्षिणानायच्छति । सोऽग्रेण यूपं दक्षिणेन वेदिं येनैव दक्षिणा यन्ति तेन
प्रतिपद्यते तं जघनेन सदोऽग्रेण शालामुद्यच्छति

५.४.३.[१४]

मा न इन्द्र ते वयं तुराषाट् । अयुक्तासो अब्रह्मता विदसाम तिष्ठा रथमधि यं
वज्रहस्ता रश्मीन्देव यमसे स्वश्वानित्युद्यच्छत्येवैतयाभीशवो वै
रश्मयस्तस्मादाहा रश्मीन्देव यमसे स्वश्वानित्यथ रथविमोचनीयानि जुहोति
प्रीतो रथो विमुच्याता इति तस्माद्रथविमोचनीयानि जुहोति

५.४.३.[१५]

स जुहोति । अग्नये गृहपतये स्वाहेति स यदेवाग्नेयं रथस्य तदेवैतेन प्रीणाति
वहा वा आग्नेया रथस्य वहानेवैतेन प्रीणाति श्रीर्वै गार्हपतं यावतोयावत ईष्टे
तच्रियमेवास्यैतद्गार्हपतं राज्यमभिविमुच्यते

५.४.३.[१६]

सोमाय वनस्पतये स्वाहेति । द्वयानि वै वानस्पत्यानि चक्राणि रथ्यानि चानसानि च
तेभ्यो न्वेवैतदुभयेभ्योऽरिष्टिं कुरुते सोमो वै वनस्पतिः स यदेव
वानस्पत्यं रथस्य तदेवैतेन प्रीणाति दारूणि वै वानस्पत्यानि रथस्य
दारूण्येवैतेन प्रीणाति क्षत्रं वै सोमः क्षत्रमेवास्यैतद्राज्यमभिविमुच्यते

५.४.३.[१७]

मरुतामोजसे स्वाहेति । स यदेव मारुतं रथस्य तदेवैतेन प्रीणाति चत्वारोऽश्वा
रथः पञ्चमो द्वौ सव्यष्ठृसारथी ते सप्त सप्तसप्त व मारुतो गणः
सर्वमेवैतेन रथं प्रीणाति विशो वै मरुतो विशमेवास्यैतद्राज्यमभिविमुच्यते

५.४.३.[१८]

इन्द्रस्येन्द्रियाय स्वाहेति । स यदेवैन्द्रं रथस्य तदेवैतेन प्रीणाति सव्यष्ठा वा
ऐन्द्रो रथस्य सव्यष्ठारमेवैतेन प्रीणातीन्द्रियं वै वीर्यमिन्द्र
इन्द्रियमेवास्यैतद्वीर्यं राज्यमभिविमुच्यते

५.४.३.[१९]

अथ वाराह्या उपानहा उपमुञ्चते । अग्नौ ह वै देवा घृतकुम्भं प्रवेशयां
चक्रुस्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि
सम्भूतस्तस्माद्वराहे गावः संजानते स्वमेवैतद्रसमभिसंजानते
तत्पशूनामेवैतद्रसे प्रतितिष्ठति तस्माद्वाराह्या उपानहा उपमुञ्चते

५.४.३.[२०]

अथेमां प्रत्यवेक्षमाणो जपति । पृथिवि मातर्मा मा हिंसीर्मो अहं त्वामिति
वरुणाद्ध वा अभिषिषिचानात्पृथिवी बिभयां चकार महद्वा अयमभूद्यो
ऽभ्यषेचि यद्वै मायं नावदृणीयादिति वरुण उ ह पृथिव्यै बिभयां चकार यद्वै
मेयं नावधून्वीतेति तदनयैवैतन्मित्रधेयमकुरुत न हि माता पुत्रं हिनस्ति
न पुत्रो मातरम्

५.४.३.[२१]

वरुणसवो वा एष यद्राजसूयम् । पृथिव्यु हैतस्माद्बिभेति महद्वा अयमभूद्यो
ऽभ्यषेचि यद्वै मायं नावदृणीयादित्येष उ हास्यै बिभेति यद्वै मेयं
नावधून्वीतेति तदनयैवैतन्मित्रधेयं कुरुते न हि माता पुत्रं हिनस्ति न
पुत्रो मातरं तस्मादेवं जपति

५.४.३.[२२]

सोऽवतिष्ठति । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदित्येतामतिच्छन्दसं
जपन्नेषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनं पाप्मा नान्ववतिष्ठति

५.४.३.[२३]

तं न संग्रहीतान्ववतिष्ठेत् । नेत्तं लोकमन्ववतिष्ठाद्यं सुषुवाणो
ऽन्ववास्थादिति तं सरथमेव रथवाहन आदधति ततोऽवाङपप्रवते तथा तं
लोकं नान्ववतिष्ठति यं सुषुवाणोऽन्ववास्थात्

५.४.३.[२४]

उत्तरेणाहवनीयं पूर्वाग्निरुद्वृतो भवति । स रथवाहनस्य
दक्षिणमन्वनुष्यन्दं शतमानौ प्रवृत्तावाबध्नाति

५.४.३.[२५]

औदुम्बरीं शाखामुपगूहति । तयोरन्यतरमुपस्पृशतीयदस्यायुरस्यायुर्मयि
धेहि युङ्ङसि वर्चो मयि धेहीति तदायुर्वर्च आत्मन्धत्ते
५.४.३.[२६]

अथौदुम्बरीं शाखामुपस्पृशति । ऊर्गस्यूर्जं मयि धेहीति तदूर्जमात्मन्धत्ते
तस्यैतस्य कर्मण एतावेव शतमानौ प्रवृत्तौ दक्षिणा तौ ब्रह्मणे ददाति
ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्तौ ब्रह्मणे ददाति

५.४.३.[२७]

अग्रेण मैत्रावरुणस्य धिष्ण्यम् । मैत्रावरुणी पयस्या निहिता भवति तामस्य बाहू
अभ्युपावहरतीन्द्रस्य वां वीर्यकृतो बाहू अभ्युपावहरामीति पशूनां वा एष रसो
यत्पयस्या तत्पशूनामेवास्यैतद्रसं बाहू अभ्युपावहरति तद्यन्मैत्रावरुणी
भवति मित्रावरुणा उ हि बाहू तस्मान्मैत्रावरुणी भवति

५.४.४.[१]

मैत्रावरुण्या पयस्यया प्रचरति । तस्या अनिष्ट एव स्विष्टकृद्भवत्यथास्मा
आसन्दीमाहरन्त्युपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं
तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति सैषा
खादिरी वितृणा भवति येयं वर्ध्रव्युता भरतानाम्

५.४.४.[२]

तामग्रेण । मैत्रावरुणस्य धिष्ण्यं निदधाति स्योनासि सुषदासीति
शिवामेवैतच्छग्मां करोति

५.४.४.[३]

अथाधीवासमास्तृणाति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तामेवैतत्करोति

५.४.४.[४]

अथैनमासादयति । स्योनामासीद सुषदामासीदेति शिवां शग्मामासीदेत्येवैतदाह
क्षत्रस्य योनिमासीदेति तद्यैव क्षत्रस्य योनिस्तस्यामेवैनमेतद्दधाति

५.४.४.[५]

अथान्तरांसेऽभिमृश्य जपति । निषसाद घृतव्रत इति घृतव्रतो वै राजा न वा एष
सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु
कुर्यात्तस्मै वा एष च श्रोत्रियश्चैतौ ह वै द्वौ मनुष्येषु घृतव्रतौ
तस्मादाह निषसाद घृतव्रत इति वरुणः पस्त्यास्वेति विशो वै पस्त्या
विक्ष्वेत्येवैतदाह साम्राज्याय सुक्रतुरिति राज्यायेत्येवैतदाह यदाह साम्राज्याय
सुक्रतुरिति

५.४.४.[६]

अथास्मै पञ्चाक्षान्पाणावावपति अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा
अयानभिभूर्यत्कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिभूरसीत्येतास्त पञ्च
दिशः कल्पन्तामिति पञ्च वै दिशस्तदस्मै सर्वा एव दिशः कल्पयति

५.४.४.[७]

अथैनं पृष्ठतस्तूष्णीमेव दण्डैर्घ्नन्ति । तं दण्डैर्घ्नन्तो
दण्डबधमतिनयन्ति तस्माद्राजादण्ड्यो यदेनं दण्डबधमतिनयन्ति

५.४.४.[८]

अथ वरं वृणीते । यं ह वै कं च सुषुवाणो वरं वृणीते सोऽस्मै सर्वः
समृध्यते तस्माद्वरं वृणीते

५.४.४.[९]

स ब्रह्मन्नित्येव प्रथममामन्त्रयते । ब्रह्म प्रथममभिव्याहराणि
ब्रह्मप्रसूतां वाचं वदानीति तस्माद्ब्रह्मन्नित्येव प्रथममामन्त्रयते त्वम्
ब्रह्मासीतीतरः प्रत्याह सवितासि सत्यप्रसव इति वीर्यमेवास्मिन्नेतद्दधाति
सवितारमेव सत्यप्रसवं करोति

५.४.४.[१०]

ब्रह्मन्नित्येव द्वितीयमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याह वरुणोऽसि
सत्यौजा इति वीर्यमेवास्मिन्नेतद्दधाति वरुणमेव सत्यौजसं करोति

५.४.४.[११]

ब्रह्मन्नित्येव तृतीयमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याहेन्द्रोऽसि विशौजा
इति वीर्यमेवास्मिन्नेतद्दधातीन्द्रमेव विशौजसं करोति

५.४.४.[१२]

ब्रह्मन्नित्येव चतुर्थमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याह रुद्रोऽसि
सुशेव इति तद्वीर्याण्येवास्मिन्नेतत्पूर्वाणि दधात्यथैनमेतच्छमयत्येव तस्मादेष
सर्वस्येशानो मृडयति यदेनं शमयति
५.४.४.[१३]

ब्रह्मन्नित्येव पञ्चममामन्त्रयते । त्वं ब्रह्मासीतीतरोऽनिरुक्तं प्रत्याह
परिमितं वै निरुक्तं तत्परिमितमेवास्मिन्नेतत्पूर्वं वीर्यं
दधात्यथात्रानिरुक्तं प्रत्याहापरिमितं वा अनिरुक्तं
तदपरिमितमेवास्मिन्नेतत्सर्वं वीर्यं दधाति तस्मादत्रानिरुक्तं प्रत्याह

५.४.४.[१४]

अथ सुमङ्गलनामानं ह्वयति । बहुकार श्रेयस्कर भूयस्करेति य एवंनामा
भवति कल्याणमेवैतन्मानुष्यै वाचो वदति

५.४.४.[१५]

अथास्मै ब्राह्मण स्फ्यं प्रयच्छति । अध्वर्युर्वा यो वास्य पुरोहितो
भवतीन्द्रस्य वज्रोऽसि तेन मे रध्येति वज्रो वै स्फ्यः स एतेन वज्रेण ब्राह्मणो
राजानमात्मनोऽबलीयांसं कुरुते यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स
बलीयान्भवति तदमित्रेभ्य एवैनमेतद्बलीयांसं करोति

५.४.४.[१६]

तं राजा राजभ्रात्रे प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन राजा
राजभ्रातरमात्मनोऽबलीयांसं कुरुते

५.४.४.[१७]

तं राजभ्राता सूताय वा स्थपतये वा प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति
तेन राजभ्राता सूतं वा स्थपतिं वात्मनोऽबलीयांसं कुरुते

५.४.४.[१८]

तं सूतो वा स्थपतिर्वा ग्रामण्ये प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन
सूतो वा स्थपतिर्वा ग्रामण्यमात्मनोऽबलीयांसं कुरुते

५.४.४.[१९]

तं ग्रामणीः सजाताय प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन ग्रामणीः
सजातमात्मनोऽबलीयांसं कुरुते तद्यदेवं सम्प्रयच्छन्ते
नेत्पापवस्यसमसद्यथापूर्वमसदिति तस्मादेवं सम्प्रयच्छन्ते
५.४.४.[२०]

अथ सजातश्च प्रतिप्रस्थाता च । एतेन सफ्येन पूर्वाग्नौ शुक्रस्य
पुरोरुचाधिदेवनं कुरुतोऽत्ता वै शुक्रोऽत्तारमेवैतत्कुरुतः

५.४.४.[२१]

अथ मन्थिनः पुरोरुचा विमितं विमिनुतः । आद्यो वै मन्थी
तदत्तारमेवैतत्कृत्वाथास्मा एतदाद्यं जनयतस्तस्मान्मन्थिनः पुरोरुचा विमितं
विमिनुतः

५.४.४.[२२]

अथाध्वर्युः । चतुर्गृहीतमाज्यं गृहीत्वाधिदेवने हिरण्यं निधाय जुहोत्यग्निः
पृथुर्धर्मणस्पतिर्जुषाणो अग्निः पृथुर्धर्मणस्पतिराज्यस्य वेतु स्वाहेति

५.४.४.[२३]

अथाक्षान्निवपति । स्वाहाकृताः सूर्यस्य रश्मिभिर्यतध्वं सजातानाम्
मध्यमेष्ठ्यायेत्येष वा अग्निः पृथुर्यदधिदेवनं तस्यैतेऽङ्गारा
यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषानुमता गृहेषु हन्यते यो वा राजसूयेन
यजते यो वैतदेवं वेदैतेष्वक्षेष्वाह गां दीव्यध्वमिति पूर्वाग्निवाहौ दक्षिणा

५.४.४.[२४]

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै
प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु
प्रजायन्ते तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति
तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते
जुहोति

५.४.४.[२५]

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति
माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सो
ऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य

५.४.५.[१]

वरुणाद्ध वा अभिषिषिचानाद्भर्गोऽपचक्राम । वीर्यं वै भर्ग एष
विष्णुर्यज्ञः सोऽस्मादपचक्राम शश्वद्य एषोऽपां रसः सम्भृतो भवति
येनैनमेतदभिषिञ्चति सोऽस्य भर्गं निर्जघान
५.४.५.[२]

तमेताभिर्देवताभिरनुसमसर्पत् । सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः
पूष्णः पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन
राज्ञा विष्णुनैव दशम्या देवतयान्वविन्दत्

५.४.५.[३]

तद्यदेनमेताभिर्देवताभिरनुसमसर्पत् । तस्मात्संसृपो नामाथ यद्दशमे
ऽहन्प्रसुतो भवति तस्माद्दशपेयोऽथो यद्दश दशैकैकं चमसमनुप्रसृप्ता
भवन्ति तस्माद्वेव दशपेयः

५.४.५.[४]

तदाहुः । दश पितामहान्त्सोमपान्त्सख्याय प्रसर्पेत्तथो हास्य सोमपीथमश्नुते
दशपेयो हीति तद्वै ज्या द्वौ त्रीनित्येव पितामहान्त्सोमपान्विन्दन्ति तस्मादेता एव
देवताः संख्याय प्रसर्पेत्

५.४.५.[५]

एताभिर्वै देवताभिर्वरुण एतस्य सोमपीथमाश्नुत । तथो एवैष एताभिरेव
देवताभिरेतस्य सोमपीथमश्नुते तस्मादेता एव देवताः संख्याय प्रसर्पेदथ
यदैवैषोदवसानीयेष्टिः संतिष्ठत एतस्याभिषेचनीयस्य

५.४.५.[६]

अथैतानि हवींषि निर्वपति । सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं
सविता वै देवानां प्रसविता सवितृप्रसूत एव तद्वरुणोऽनुसमसर्पत्तथो एवैष
एतत्सवितृप्रसूत एवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति

५.४.५.[७]

अथ सारस्वतं चरुं निर्वपति । वाग्वै सरस्वती वाचैव तद्वरुणो
ऽनुसमसर्पत्तथो एवैष एतद्वाचैवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति

५.४.५.[८]

अथ त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति । त्वष्टा वै रूपाणामीष्टे
त्वष्ट्रैव तद्रूपैर्वरुणोऽनुसमसर्पत्तथो एवैष एतत्त्वष्ट्रैव
रूपैरनुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति
५.४.५.[९]

अथ पौष्णं चरुं निर्वपति । पशवो वै पूषा पशुभिरेव तद्वरुणो
ऽनुसमसर्पत्तथो एवैष एतत्पशुभिरेवानुसंसर्पति तत्रैकं पुण्डरीकम्
प्रयच्छति

५.४.५.[१०]

अथैन्द्रमेकादशकपालं पुरोडाशं निर्वपति । इन्द्रियं वै वीर्यमिन्द्र
इन्द्रियेणैव तद्वीर्येण वरुणोऽनुसमसर्पत्तथो एवैष एतदिन्द्रियेणैव
वीर्येणानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति

५.४.५.[११]

अथ बार्हस्पत्यं चरुं निर्वपति । ब्रह्म वै बृहस्पतिर्ब्रह्मणैव तद्वरुणो
ऽनुसमसर्पत्तथो एवैष एतद्ब्रह्मणैवानुसंसर्पति तत्रैकं पुण्डरीकम्
प्रयच्छति

५.४.५.[१२]

अथ वारुणं यवमयं चरुं निर्वपति । स येनैवौजसेमाः प्रजा वरुणो
ऽगृह्णात्तेनैव तदोजसा वरुणोऽनुसमसर्पत्तेनो एवैष तदोजसानुसंसर्पति
तत्रैकं पुण्डरीकं प्रयच्छति

५.४.५.[१३]

उपसदो दशम्यो देवताः । तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति तां
द्वादशपुण्डरीकां स्रज प्रतिमुञ्चते सा दीक्षा तया दीक्षया दीक्षते

५.४.५.[१४]

अथ यद्द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य सर्वं वै संवत्सरः
सर्वेणैवैनमेतद्दीक्षयति यानि पुण्डरीकाणि तानि दिवो रूपं तानि नक्षत्राणां
रूपं ये वधकास्तेऽन्तरिक्षस्य रूपं यानि बिसानि तान्यस्यै तदेनमेषु
लोकेष्वधि दीक्षयति

५.४.५.[१५]

अथ राजानं क्रीत्वा । द्वेधोपनह्य परिवहन्ति ततोऽर्धमासन्द्यामासाद्य
प्रचरत्यथ य एषोऽर्धो ब्रह्मणो गृहे निहितो भवति
तमासन्द्यामासाद्यातिथ्येन प्रचरति यदातिथ्येन प्रचरत्यथोपसद्भिः प्रचरति
यदोपसद्भिः प्रचरति
५.४.५.[१६]

अथैतानि हवींषि निर्वपति । आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं
वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं यजते

५.४.५.[१७]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य
उपसत्पथादेति तस्मादुपसत्पथादेव नेयात्

५.४.५.[१८]

स यदग्निं यजति । अग्निनैवैतत्तेजसानुसंसर्पत्यथ यत्सोमं यजति
सोमेनैवैतद्राज्ञानुसंसर्पत्यथ यद्विष्णुं यजति यज्ञो वै विष्णुस्तद्यज्ञम्
प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वात्मन्कुरुते

५.४.५.[१९]

स एष सप्तदशोऽग्निष्टोमो भवति । सप्तदशो वै प्रजापतिः
प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वात्मन्कुरुते

५.४.५.[२०]

तस्य द्वादश प्रथमगर्भाः पष्ठौह्यो दक्षिणा । द्वादश वै मासाः
संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति
तं प्रत्यक्षमाप्त्वात्मन्कुरुते

५.४.५.[२१]

तासां द्वादश गर्भाः । ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः
संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तम्
प्रत्यक्षमाप्त्वात्मन्कुरुते

५.४.५.[२२]

ता ब्रह्मणे ददाति । ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्ता ब्रह्मणे
ददाति हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ
प्राकाशावध्वर्युभ्यामश्वं प्रस्तोत्रे वशां मैत्रावरुणायर्षभम्
ब्राह्मणाच्छंसिने वाससी नेष्टापोतृभ्यामन्यतरतोयुक्तं यवाचितमच्छावाकाय
गामग्नीधे
५.४.५.[२३]

ता वा एताः । द्वादश वा त्रयोदश वा दक्षिणा भवन्ति द्वादश वा वै त्रयोदश वा
संवत्सरस्य मासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञम्
प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वात्मन्कुरुते

५.५.१.[१]

आग्नेयोऽष्टाकपालः पुरोडाशो भवति । तं पूर्वार्ध आसादयत्यैन्द्र
एकादशकपालः पुरोडाशो भवति सौम्यो वा चरुस्तं दक्षिणार्ध आसादयति
वैश्वदेवश्चरुर्भवति तं पश्चार्ध आसादयति मैत्रावरुणी पयस्या भवति
तामुत्तरार्ध आसादयति बार्हस्पत्यश्चरुर्भवति तं मध्य आसादयत्येष चरुः
पञ्चबिलस्तद्यत्पञ्च हवींषि भवन्ति तेषां पञ्च बिलानि तस्माच्चरुः पञ्चबिलो
नाम

५.५.१.[२]

तद्यदेतेन राजसूययाजी यजते । यदेवैनं दिशः समारोहयति
यदृतून्यत्स्तोमान्यच्चन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति स यद्धैतेन
राजसूययाजी न यजेतोद्वा ह माद्येत्प्र वा पतेत्तस्माद्वा एतेन राजसूययाजी यजते

५.५.१.[३]

स यदाग्नेयेनाष्टाकपालेन पुरोडाशेन प्रचरति । यदेवैनं प्राचीं दिशं
समारोहयति यदृतून्यत्स्तोमान्यच्चन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति
संस्रवं बार्हस्पत्ये चराववनयति

५.५.१.[४]

अथ यदैन्द्रेणैकादशकपालेन पुरोडाशेन प्रचरति । सौम्येन वा चरुणा
यदेवैनं दक्षिणां दिशं समारोहयति यदृतून्यत्स्तोमान्यच्चन्दांसि
तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये चराववनयति

५.५.१.[५]

अथ यद्वैश्वदेवेन चरुणा प्रचरति । यदेवैनं प्रतीचीं दिशं समारोहयति
यदृतून्यत्स्तोमान्यच्चन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये
चराववनयति

५.५.१.[६]

अथ यन्मैत्रावरुण्या पयस्याया प्रचरति । यदेवैनमुदीचीं दिशं समारोहयति
यदृतून्यत्स्तोमान्यच्चन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति संस्रवं बार्हस्पत्ये
चराववनयति तद्यत्संस्रवान्बार्हस्पत्ये चराववनयति सर्वत
एवास्मिन्नेतदन्नाद्यं दधाति तस्मादु दिशोदिश एव राज्ञेऽन्नाद्यमभिह्रियते

५.५.१.[७]

अथ यद्बार्हस्पत्येन चरुणा प्रचरति । यदेवैनमूर्ध्वां दिशं समारोहयति
यदृतून्यत्स्तोमान्यच्चन्दांसि तस्मादेवैनमेतेन निष्क्रीणाति

५.५.१.[८]

स य एष आग्नेयोऽष्टाकपालः पूरोडाशो भवति । तस्य हिरण्यं दक्षिणाग्नेयो वा एष
यज्ञो भवत्यग्ने रेतो हिरण्यं तस्माद्धिरण्यं दक्षिणा तदग्नीधे ददात्यग्निर्वा
एष निदानेन यदाग्नीध्रस्तस्मात्तदग्नीधे ददाति

५.५.१.[९]

अथ य एष ऐन्द्र एकादशकपालः पुरोडाशो भवति । तस्यर्षभो दक्षिणा स
हैन्द्रो यदृषभो यद्यु सौम्यश्चरुर्भवति तस्य बभ्रुर्गौर्दक्षिणा स हि
सौम्यो यद्बभ्रुस्तं ब्रह्मणे ददाति ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति
तस्मात्तं ब्रह्मणे ददाति

५.५.१.[१०]

अथ य एष वैश्वदेवश्चरुर्भवति । तस्य पृषन्गौर्दक्षिणा भूमा वा एतद्रूपाणां
यत्पृषतो गोर्विशो वै विश्वे देवा भूमा वै विट्तस्मात्पृषन्गौर्दक्षिणा तं होत्रे
ददाति होता हि भूमा तस्मात्तं होत्रे ददाति

५.५.१.[११]

अथ यैषा मैत्रावरुणी पयस्या भवति । तस्यै वशा दक्षिणा सा हि मैत्रावरुणी
यद्वशा यदि वशां न विन्देदपि यैव का चाप्रवीता स्यात्सर्वा ह्येव वशाप्रवीता
तामध्वर्युभ्यां ददाति प्राणोदानौ वा अध्वर्यू प्राणोदानौ मित्रावरुणौ
तस्मात्तामध्वर्युभ्यां ददाति

५.५.१.[१२]

अथ य एष बार्हस्पत्यश्चरुर्भवति । तस्य शितिपृष्ठो गौर्दक्षिणैषा वा ऊर्ध्वा
बृहस्पतेर्दिक्तदेष उपरिष्टादर्यम्णः पन्थास्तस्माच्छितिपृष्ठो बार्हस्पत्यस्य
दक्षिणा तं ब्रह्मणे ददाति बृहस्पतिर्वै देवानां ब्रह्मैष वा एतस्य ब्रह्मा
भवति तस्मात्तं ब्रह्मणे ददाति स हैतेनापि विष्ठाव्राज्यन्नाद्यकामो यजेत
तदस्मिन्त्सर्वतोऽन्नाद्यं दधाति स हान्नाद एव भवति
५.५.२.[१]

स वै प्रयुजां हविर्भिर्यजते । तद्यत्प्रयुजां हविर्भिर्यजत ऋतून्वा एतत्सुषुवाणो
युङ्क्ते त एनमृतवो युक्ता वहन्त्यृतून्वा प्रयुक्ताननुचरति तस्मात्प्रयुजां
हविर्भिर्यजते

५.५.२.[२]

तानि वै द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश भवन्ति
मासिमासि यजेतेत्याहुः को वेद मनुष्यस्य तस्मान्न मासिमासि यजेत
शम्यापराव्याधे शम्यापराव्याध एव षड्भिर्यजते प्राङ्यानथ पुनरावृत्तः
शम्यापराव्याधे शम्यापराव्याध एव षड्भिर्यजते

५.५.२.[३]

तदु तथा न कुर्यात् । षडेवैतानि पूर्वाणि हवींषि निर्वपति समानबर्हींषि तासां
देवतानां रूपं यथा शिशिरे युक्त्वा प्राञ्च आप्रावृषं यायुस्तत्षडृतून्यूङ्क्ते त एनं
षडृतवो युक्ताः प्राञ्च आप्रवृषं वहन्ति षड्वर्तून्प्रयुक्तानाप्रावृषमनुचरति
पूर्वाग्निवाहां द्वौ दक्षिणा

५.५.२.[४]

षडेवोत्तराणि हवींषि निर्वपति । समानबर्हींषि तासां देवतानां रूपं यथा
पुनरावर्तेरन्वार्षिकमभि तत्षडृतून्युङ्क्ते त एनं षडृतवो युक्ता
वार्षिकमभि वहन्ति षड्वर्तून्प्रयुक्तान्वार्षिकमनुचरति पूर्वाग्निवाहां द्वौ
दक्षिणा तद्यत्पूर्वाग्निवाहो दक्षिणऽर्तून्वा एतत्सुषवाणो युङ्क्ते वहन्ति वा
अनड्वाहस्तस्मात्पूर्वाग्निवाहो दक्षिणा

५.५.२.[५]

तद्ध स्मैतत्पुरा कुरुपञ्चाला आहुः । ऋतवो वा अस्मान्युक्ता वहन्त्यृतून्वा
प्रयुक्ताननुचराम इति यदेषां राजानो राजसूययाजिन आसुस्तद्ध स्म तदभ्याहुः

५.५.२.[६]

आग्नेयोऽष्टाकपालः पुरोडाशो भवति । सौम्यश्चरुः सावित्रो द्वादशकपालो
वाष्टाकपालो वा पुरोडाशो बार्हस्पत्यश्चरुस्त्वाष्ट्रो दशकपालः पुरोडाशो
वैश्वानरो द्वादशकपाल एतानि षट्पूर्वाणि हवींषि भवन्ति

५.५.२.[७]

षडेवोत्तरे चरवः । सारस्वतश्चरुः पौष्णश्चरुर्मैत्रश्चरुः
क्षैत्रपत्यश्चरुर्वारुणश्चरुरादित्यश्चरुरेत उ षडुत्तरे चरवः
५.५.२.[८]

अथ श्येनीं विचित्रगर्भामदित्या आलभते । तस्या एषैवावृद्याष्टापद्यै वशाया इयं
वा अदितिरस्या एवैनमेतद्गर्भं करोति तस्या एतादृश्येव श्येनी विचित्रगर्भा दक्षिणा

५.५.२.[९]

अथ पृषतीं विचित्रगर्भां मरुद्भ्य आलभते । तस्या एषैवावृद्विशो वै मरुतो
विशामेवैनमेतद्गर्भं करोति तस्यां एतादृश्येव पृषती विचित्रगर्भा दक्षिणा

५.५.२.[१०]

एतौ पशुबन्धौ । तदेतावेव सन्तावन्यथेवालभन्ते यामदित्या आलभन्त
आदित्येभ्यस्तामालभन्ते सर्वं वा आदित्याः सर्वस्यैवैनमेतद्गर्भं करोति याम्
मरुद्भ्य आलभन्ते विश्वेभ्यस्तां देवेभ्य आलभन्ते सर्वं वै विश्वे देवाः
सर्वस्यैवैनमेतद्गर्भं करोति

५.५.३.[१]

अभिषेचनीयेनेष्ट्वा । केशान्न वपते तद्यत्केशान्न वपते वीर्यं वा एतदपां रसः
सम्भृतो भवति येनैनमेतदभिषिञ्चति तस्याभिषिक्तस्य
केशान्प्रथमान्प्राप्नोति स यत्केशान्वपेतैतां श्रियं जिह्मां
विनाशयेद्व्युदुह्यात्तस्मात्केशान्न वपते

५.५.३.[२]

संवत्सरं न वपते । संवत्सरसम्मिता वै व्रतचर्या तस्मात्संवत्सरं न वपते
स एष व्रतविसर्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः

५.५.३.[३]

तस्यैकविंशं प्रातःसवनम् । सप्तदशं माध्यन्दिनं सवनं पञ्चदशं
तृतीयसवनं सहोक्थैः सह षोडशिना सह रात्र्या

५.५.३.[४]

त्रिवृद्राथन्तरः संधिर्भवति । एष एवैकविंशो य एष तपति स
एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभिप्रत्यवैति सप्तदशात्पञ्चदशम्
पञ्चदशादस्यामेव त्रिवृति प्रतिष्ठायां प्रतितिष्ठति
५.५.३.[५]

तस्य रथन्तरं पृष्ठं भवति । इयं वै रथन्तरमस्यामेवैतत्प्रतिष्ठायाम्
प्रतितिष्ठत्यतिरात्रो भवति प्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति

५.५.३.[६]

स वै न्येव वर्तयते केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो भवति
येनैनमेतदभिषिञ्चति तस्याभिषिक्तस्य केशान्प्रथमान्प्राप्नोति स
यत्केशान्वपेतैतां श्रियं जिह्मां विनाशयेद्व्युह्यादथ यन्निवर्तयते
तदात्मन्येवैतां श्रियं नियुनक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव
व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्ठति

५.५.३.[७]

आसन्द्या उपानहा उपमुञ्चते । उपानड्भ्यामधि यदस्य यानं भवति रथो वा
किंचिद्वा सर्वं वा एष इदमुपर्युपरि भवत्यर्वागेवास्मादिदं सर्वं भवति यो
राजसूयेन यजते तस्मादस्यैषैव व्रतचर्या भवति यावज्जीवं नास्याम्
प्रतितिष्ठति

५.५.४.[१]

श्येत आश्विनो भवति । श्येताविव ह्यश्विनावविर्मल्हा सारस्वती
भवत्यृषभमिन्द्राय सृत्राम्ण आलभते दुर्वेदा एवंसमृद्धाः पशवो
यद्येवंसमृद्धान्न विन्देदप्यजानेवालभेरंस्ते हि सुश्रपतरा भवन्ति स
यद्यजानालभेरंलोहित आश्विनो भवति तद्यदेतया यजते

५.५.४.[२]

त्वष्टुर्ह वै पुत्रः । त्रिषीर्षा षडक्ष आस तस्य त्रीण्येव
मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम

५.५.४.[३]

तस्य सोमपानमेवैकं मुखमास । सुरापाणमेकमन्यस्मा अशनायैकं
तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद

५.५.४.[४]

स यत्सोमपानमास । ततः कपिञ्जलः समभवत्तस्मात्स बभ्रुक इव बभ्रुरिव
हि सोमो राजा
५.५.४.[५]

अथ यत्सुरापाणमास । ततः कलविङ्कः समभवत्तस्मात्सोऽभिमाद्यत्क इव
वदत्यभिमाद्यन्निव हि सुरां पीत्वा वदति

५.५.४.[६]

अथ यदत्यस्मा अशनायास । ततस्तित्तिरिः समभवत्तस्मात्स विश्वरूपतम इव
सन्त्येव घृतस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवंरूपमिव हि स
तेनाशनमावयत्

५.५.४.[७]

स त्वष्टा चुक्रोध । कुविन्मे पुत्रमबधीदिति सोऽपेन्द्रमेव सोममाजह्रे स
यथायं सोमः प्रसुत एवमपेन्द्र एवास

५.५.४.[८]

इन्द्रो ह वा ईक्षां चक्रे । इदं वै मा सोमादन्तर्यन्तीति स यथा बलीयानबलीयस
एवमनुपहूत एव यो द्रोणकलशे शुक्र आस तं भक्षयां चकार स हैनं
जिहिंस सोऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्राव
तस्मात्प्रायश्चित्तिरास स यद्धापि मुखादद्रोष्यन्न हैव प्रायश्चित्तिरभविष्यत्

५.५.४.[९]

चत्वारो वै वर्णाः । ब्राह्मणो राजन्यो वैश्यः शूद्रो न हैतेषामेकश्चन भवति यः
सोमं वमति स यद्धैतेषामेकश्चित्स्या तस्याद्धैव प्रायश्चित्तिः

५.५.४.[१०]

स यन्नस्तोऽद्रवत् । ततः सिंहः समभवदथ यत्कर्णाभ्यामद्रवत्ततो कृकः
समभवदथ यदवाचः प्राणादद्रवत्ततः शार्दूलज्येष्ठाः श्वापदाः
समभवन्नथ यदुत्तरात्प्राणादद्रवत्सा परिस्रुदथ त्रिर्निरष्ठीवत्ततः
कुवलं कर्कन्धु बदरमिति समभवत्स सर्वेणैव व्यार्ध्यत सर्वं हि सोमः

५.५.४.[११]

स सोमातिपूतो मङ्कुरिव चचार । तमेतयाश्विनावभिषज्यतां तं सर्वेणैव
समार्धयतां सर्वं हि सोमः स वसीयानेवेष्ट्वाभवत्

५.५.४.[१२]
ते देवा अब्रुवन् । सुत्रातं बतैनमत्रासतामिति तस्मात्सौत्रामणी नाम

५.५.४.[१३]

स हैतयापि सोमातिपूतं भिषज्येत् । सर्वेण वा एष व्यृध्यते यं सोमोऽतिपवते
सर्वं हि सोमस्तं सर्वेणैव समर्धयति सर्वं हि सोमः स वसीयानेवेष्ट्वा
भवति तस्मादु हैतयापि सोमातिपूतं भिषज्येत

५.५.४.[१४]

तद्यदेतया राजसूययाजी यजते । सवान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि
दर्विहोमान्यो राजसूयेन यजते देवसृष्टा वा एषेष्टिर्यत्सौत्रामण्यनया मे
ऽपीष्टमसदनयापि सूया इति तस्माद्वा एतया राजसूययाजी यजते

५.५.४.[१५]

अथ यदाश्विनो भवति । अश्विनौ वा एनमभिषज्यतां तथो एवैनमेष
एतदश्विभ्यामेव भिषज्यति तस्मादाश्विनो भवति

५.५.४.[१६]

अथ यत्सारस्वतो भवति । वाग्वै सरस्वती वाचा वा एनमश्विनावभिषज्यतां तथो
एवैनमेष एतद्वाचैव भिषज्यति तस्मात्सारस्वतो भवति

५.५.४.[१७]

अथ यदैन्द्रो भवति इन्द्रो वै यज्ञस्य देवता तयैवैनमेतद्भिषज्यति
तस्मादैन्द्रो भवति

५.५.४.[१८]

एतेषु पशुषु । सिंहलोमानि वृकलोमानि शार्दूललोमानीत्यावपत्येतद्वै ततः
समभवद्यदेनं सोमोऽत्यपवत तेनैवैनमेतत्समर्धयति कृत्स्नं करोति
तस्मादेतान्यावपति

५.५.४.[१९]

तदु तथा न कुर्यात् । उल्कया ह स नखिन्या पशूननुषुवति य एतानि पशुष्वावपति
तस्मादु परिस्रुत्येवावपेत्तथा होल्कया नखिन्या पशून्नानुषुवति तथो एवैनं
समर्धयति कृत्स्नं करोति तस्मादु परिस्रुत्येवावपेत
५.५.४.[२०]

अथ पूर्वेद्युः । परिस्रुतं संदधात्याश्विभ्यां पच्यस्व सरस्वत्यै
पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेति सा यदा परिस्रुद्भवत्यथैनया प्रचरति

५.५.४.[२१]

द्वावग्नी उद्धरन्ति । उत्तरवेदावेवोत्तरमुद्धते दक्षिणं नेत्सोमाहुतीश्च
सुराहुतीश्च सह जुहवामेति तस्माद्द्वावग्नी
उद्धरन्त्युत्तरवेदावेवोत्तरमुद्धते दक्षिणमथ यदा वपाभिः
प्रचरत्यथैतया परिस्रुता प्रचरति

५.५.४.[२२]

तां दर्भैः पावयति । पूतासदिति वायुः पूतः पवित्रेण प्रत्यङ्सोमो अतिस्रुतः
इन्द्रस्य युज्यः सखेति
तत्कुवलसक्तून्कर्कन्धुसक्तून्बदरसक्तूनित्यावपत्येतद्वै ततः
समभवद्यत्त्रिर्निरष्ठीवत्तेनैवैनमेतत्समर्धयति कृत्स्नं करोति
तस्मादेतानावपति

५.५.४.[२३]

अथ ग्रहान्गृह्णाति । एकं वा त्रीन्वैकस्त्वेव ग्रहीतव्य एका हि
पुरोरुग्भवत्येकानुवाक्यैका याज्या तस्मादेका एव ग्रहीतव्यः

५.५.४.[२४]

स गृह्णाति । कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय इहेहैषां
कृणुहि भोजनानि ये बर्हिषो नमौक्तिं यजन्ति उपयामगृहीतोऽस्यश्विभ्यां त्वा
सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्ण इति यद्यु त्रीन्गृह्णीयादेतयैव
गृह्णीयादुपयामैस्तु तर्हि नाना गृह्णीयादथाहाश्विभ्यां सरस्वत्या इन्द्राय
सुत्राम्णे
ऽनुब्रूहीति

५.५.४.[२५]

सोऽन्वाह । युवं सुराममश्विना नमुचावासुरे सचा विपिपाना सुभस्पती इन्द्रं
कर्मस्वावतमित्याश्राव्याहाश्विनौ सरस्वतीमिन्द्रं सुत्रामाणं यजेति

५.५.४.[२६]

स यजति । पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः यत्सुरामं
व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णगिति द्विर्होता वषट्करोति
द्विरध्वर्युर्जुहोत्याहरति भक्षं यद्यु त्रीन्गृह्णीयादेतस्यैवानु होममितरौ
हूयेते

५.५.४.[२७]

अथ कुम्भः । शतवितृणो वा भवति नववितृणो वा स यदि शतवितृणः शतायुर्वा अयम्
पुरुषः शततेजाः शतवीर्यस्तस्माच्छतवितृणो यद्यु नववितृणो नवेमे पुरुषे
प्राणास्तस्मान्नववितृणः

५.५.४.[२८]

तं शिक्योदुतम् । उपर्युपर्याहवनीयं धारयन्ति सा या परिशिष्टा परिस्रुद्भवति
तामासिञ्चति तां विक्षरन्तीमुपतिष्ठते पितॄणां सोमवतां तिसृभिर्ऋग्भिः पितॄणाम्
बर्हिषदां तिसृभिर्ऋग्भिः पितॄणामग्निष्वात्तानां
तिसृभिर्ऋग्भिस्तद्यदेवमुपतिष्ठते यत्र वै सोम इन्द्रमत्यपवत स
यत्पितॄनगच्छत्त्रया वै पितरस्तेनैवैनमेतत्समर्धयति कृत्स्नं करोति
तस्मादेवमुपतिष्ठते

५.५.४.[२९]

अथैतानि हवींषि निर्वपति । सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं
वारुणं यवमयं चरुमैन्द्रमेकादशकपालं पुरोडाशम्

५.५.४.[३०]

स यत्सावित्रो भवति । सविता वै देवानां प्रसविता सवितृप्रसूत एवैतद्भिषज्यति
तस्मात्सावित्रो भवति

५.५.४.[३१]

अथ यद्वारुणो भवति । वरुणो वा आर्पयिता तद्य एवार्पयिता तेनैवैतद्भिषज्यति
तस्माद्वारुणो भवति

५.५.४.[३२]

अथ यदैन्द्रो भवति । इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता
तयैवैतद्भिषज्यति तस्मादैन्द्रो भवति

५.५.४.[३३]

स यदि हैतयापि सोमातिपूतं भिषज्येत् । इष्टा अनुयाजा भवन्त्यव्यूढे
स्रुचावथैतैर्हविर्भिः प्रचरति पश्चाद्वै सोमोऽतिपवते पश्चादेवैनमेतेन
मेधेनापिदधात्याश्विनमु तर्हि द्विकपालं पुरोडाशं निर्वपेदथ यदा
वपाभिः प्रचरत्यथैतेनाश्विनेन द्विकपालेन पुरोडाशेन प्रचरति

५.५.४.[३४]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य एवं
करोति तस्माद्यत्रैवैतेषां पशूनां वपाभिः प्रचरन्ति तदेवैतैर्हविर्भिः
प्रचरेयुर्नो तर्ह्याश्विनं द्विकपालं पुरोडाशं निर्वपेत्

५.५.४.[३५]

तस्य नपुंसको गौर्दक्षिणा । न वा एष स्त्री न पुमान्यन्नपुंसको गौर्यदह
पुमांस्तेन न स्त्री यदु स्त्री तेनो न पुमांस्तस्मान्नपुंसको गौर्दक्षिणाश्वा वा
रथवाही सा हि न स्त्री न पुमान्यदश्वा रथवाही यदह रथं वहति तेन न स्त्री
यदु स्त्री तेनो न पुमांस्तस्मादश्वा रथवाही दक्षिणा

५.५.५.[१]

ऐन्द्रवैष्णवं द्वादशकपालं पुरोडाशं निर्वपति । तद्यदेतया यजते वृत्रे ह
वा इदमग्रे सर्वनाम यदृचो यद्यजूंषि यत्सामानि तस्मा इन्द्रो वज्रं प्राजिहीर्षत्

५.५.५.[२]

स ह विष्णुमुवाच । वृत्राय वै वज्रं प्रहरिष्याम्यनु मा तिष्ठस्वेति तथेति ह
विष्णुरुवाचानु त्वा स्थास्ये प्रहरेति तस्मा इन्द्रो वज्रमुद्ययाम स
उद्यताद्वज्राद्वृत्रो बिभयां चकार

५.५.५.[३]

स होवाच । अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहार्षीरिति तस्मै
यजूंषि प्रायच्छत्तस्मै द्वितीयमुद्ययाम

५.५.५.[४]

स होवाच । अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहार्षीरिति तस्मा ऋचः
प्रायच्छत्तस्मै तृतीयमुद्ययाम

५.५.५.[५]

अस्ति वा इदं वीर्यं तन्नु ते प्रयच्छानि मा तु मे प्रहाषीरिति तस्मै सामानि
प्रायच्छत्तस्मादप्येतर्ह्येवमेवैर्वेदैर्यज्ञं तन्वते यजुर्भिरेवाग्रे
ऽथर्ग्भिरथ सामभिरेवं ह्यस्मा एतत्प्रायच्छत्

५.५.५.[६]

तस्य यो योनिराशय आस । तमनुपरामृश्य
संलुप्याच्छिनत्सैषेष्टिरभवत्तद्यदेतस्मिन्नाशये त्रिधातुरिवैषा विद्याशेत
तस्मात्त्रैधातवी नाम

५.५.५.[७]

अथ यदैन्द्रावैष्णवं हविर्भवति । इन्द्रो हि वज्रमुदयच्छद्विष्णुरन्वतिष्ठत

५.५.५.[८]

अथ यद्द्वादशकपालो भवति । द्वादश वै मासाः संवत्सरस्य
संवत्सरसम्मितैषेष्टिस्तस्माद्द्वादशकपालो भवति

५.५.५.[९]

तमुभयेषां व्रीहियवाणां गृह्णाति । व्रीहिमयमेवाग्रे पिण्डमधिश्रयति
तद्यजुषां रूपमथ यवमयं तदृचां रूपमथ व्रीहिमयं तत्साम्नां रूप
तदेतत्त्रय्यै विद्यायै रूपं क्रियते सैषा राजसूययाजिन उदवसानीयेष्टिर्भवति

५.५.५.[१०]

सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे । सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते
तस्य यातयामेव यज्ञो भवति सोऽस्मात्पराङिव भवत्येतावान्वै सर्वो यज्ञो
यावानेष त्रयो वेदस्तस्यैतद्रूपं क्रियत एष योनिराशयस्तदेतेन त्रयेण वेदेन
पुनर्यज्ञमारभते तथास्यायातयामा यज्ञो भवति तथो अस्मान्न पराङ्भवति

५.५.५.[११]

सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे । सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते
देवसृष्टो वा एषेष्टिर्यत्त्रैधातव्यनया मेऽपीष्टमसदनयापि सूया इति तस्माद्वा
एषा राजसूययाजिन उदवसानीयेष्ठिर्भवति

५.५.५.[१२]

अथो यः सहस्रं वा भूयो वा दद्यात् । तस्य हाप्युदवसानीया स्याद्रिरिचान इव वा एष
भवति यः सहस्रं वा भूयो वा ददात्येतद्वै सहस्रं वाचः प्रजातं यदेष त्रयो
वेदस्तत्सहस्रेण रिरिचानं पुनराप्याययति तस्मादु ह तस्याप्युदवसानीया स्यात्

५.५.५.[१३]

अथो ये दीर्घसत्त्रमासीरन् । संवत्सरं वा भूयो वा तेषां हाप्युदवसानीय
स्यात्सर्वं वै तेषामाप्तं भवति सर्वं जितं ये दीर्घसत्त्रमासते संवत्सरं वा
भूयो वा सर्वमेषा तस्मादु ह तेषामप्युदवसानीया स्यात्

५.५.५.[१४]

अथो हैनयाप्यभिचरेत् । एतया वै भद्रसेनमाजातशत्रवमारुणिरभिचचार
क्षिप्रं किलास्तृणुतेति ह स्माह याज्ञवल्क्योऽपि ह वा एनयेन्द्रो
वृत्रस्यास्थानमच्छिनदपि ह वा एनयास्थानं च्छिनत्ति य एनयाभिचरति तस्मादु
हैनयाप्यभिचरेत्

५.५.५.[१५]

अथो हैनयापि भिषज्येत् । यं न्वेवैकयर्चा भिषज्येदेकेन यजुषैकेन साम्ना तं
न्वेवागदं कुर्यात्किमु यं त्रयेण वेदेन तस्मादु हैनयापि भिषज्येत्

५.५.५.[१६]

तस्यै त्रीणि शतमानानि हिरण्यानि दक्षिणा । तानि ब्रह्मणे ददाति न वै ब्रह्मा
प्रचरति न स्तुते न शंसत्यथ स यशो न वै हिरण्येन किं चन कुर्वन्त्यथ
तद्यशस्तस्मात्त्रीणि शतमानानि ब्रह्मणे ददाति

५.५.५.[१७]

तिस्रो धेनूर्होत्रे । भूमा वै तिस्रो धेनवो भूमा होता तस्मात्तिस्रो धेनूर्होत्रे

५.५.५.[१८]

त्रीणि वासांस्यध्वर्यवे । तनुते वा अध्वर्युर्यज्ञं तन्वते वासांसि तस्मात्त्रीणि
वासांस्यध्वर्यवे गामग्नीधे

५.५.५.[१९]

ता वा एताः । द्वादश वा त्रयोदश वा दक्षिणा भवन्ति द्वादश वा वै त्रयोदश वा
संवत्सरस्य मासाः संवत्सरसम्मितैषेष्टिस्तस्माद्द्वादश वा त्रयोदश वा
दक्षिणा भवन्ति

६.१.१.[१]

असद्वा इदमग्र आसीत् । तदाहुः किं तदसदासीदित्यृषयो वाव ते ग्रे सदासीत्तदाहुः के
त ऋषय इति प्राणा वा ऋषयस्ते यत्पुरास्मात्सर्वस्मादिदमिच्छन्तः श्रमेण
तपसारिषंस्तस्मादृषयः ध्यत इन्द्रियेणैन्द्ध यदैन्द्ध तस्मादिन्ध इन्धो
ह वै तम्

६.१.१.[२]

स यो यं मध्ये प्राणः । एष एवेन्द्रस्तानेष प्राणान्मैन्द्र इत्याचक्षते परो
ऽक्षं परोऽक्षकामा हि देवास्त इद्धाः सप्त नाना पुरुषानसृजन्त

६.१.१.[३]

तेऽब्रुवन् । न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुमिमान्त्सप्त पुरुषानेकम्
पुरुषं करवामेति त एतान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्यदूर्ध्वं
नाभेस्तौ द्वौ समौब्जन्यदवाङ्नाभेस्तौ द्वौ पक्षः पुरुषः पक्षः पुरुषः
प्रतिष्ठैक आसीत्

६.१.१.[४]

अथ यैतेषां सप्तानां पुरुषाणां श्रीः । यो रस आसीत्तमूर्ध्वं समुदौहस्तदस्य
शिरोऽभवद्यच्रियं समुदौहंस्तस्माच्छिरस्तस्मिन्नेतस्मिन्प्राणा अश्रयन्त
तस्माद्वेवैतच्छिरोऽथ यत्प्राणा अश्रयन्त तस्मादु प्राणाः श्रियौऽथ
यत्सर्वस्मिन्नश्रयन्त तस्मादु शरीरम्

६.१.१.[५]

स एव पुरुषः प्रजापतिरभवत् । स यः स पुरुषः प्रजापतिरभवदयमेव स
योऽयमग्निश्चीयते

६.१.१.[६]

स वै सप्तपुरुषो भवति । सप्तपुरुषो ह्ययं पुरुषो यच्च्त्वार आत्मा त्रयः
पक्षपुच्छानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुच्छान्यथ यदेकेन
पुरुषेणात्मानं वर्धयति तेन वीर्येणायमात्मा पक्षपुच्छान्युद्यच्छति

६.१.१.[७]

अथ यश्चितेऽग्निर्निधीयते । यैवैतेषां सप्तानां पुरुषाणां श्रीर्यो
रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतच्छिरस्तस्मिन्त्सर्वे देवाः श्रिता अत्र हि
सर्वेभ्यो देवेभ्यो जुह्वति तस्माद्वेवैतच्छिरः

६.१.१.[८]

सोऽयं पुरुषः प्रजापतिरकामयत भूयान्त्स्यां प्रजायेयेति सोऽश्राम्यत्स तपो
ऽतप्यत स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयोमेव विद्यां सैवास्मै
प्रतिष्ठाभवत्तस्मादाहुर्ब्रह्मास्य सर्वस्य प्रतिष्ठेति तस्मादनूच्य
प्रतितिष्ठति प्रतिष्ठा ह्येषा यद्ब्रह्म तस्यां प्रतिष्ठायां प्रतिष्ठितोऽतप्यत

६.१.१.[९]

सोऽपोऽसृजत । वाच एव लोकाद्वागेवास्य सासृज्यत सेदं सर्वमाप्नोद्यदिदं किं च
यदाप्नोत्तस्मादापो यदवृणोत्तस्माद्वाः

६.१.१.[१०]

सोऽकामयत । आभ्योऽद्भ्योऽधि प्रजायेयेति सोऽनया त्रय्या विद्यया सहापः
प्राविशत्तत आण्डं समवर्तत तदभ्यमृशदस्त्वित्यस्तु भूयोऽस्त्वित्येव
तदब्रवीत्ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या तस्मादाहुर्ब्रह्मास्य
सर्वस्य प्रथमजमित्यपि हि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत तदस्य
तन्मुखमेवासृज्यत तस्मादनूचानमाहुरग्निकल्प इति मुखं
ह्येतदग्नेर्यद्ब्रह्म

६.१.१.[११]

अथ यो गर्भोऽन्तरासीत् । सोऽग्रिरसृज्यत स यदस्य सर्वस्याग्रमसृज्यत
तस्मादग्रिरग्रिर्ह वै तमग्निरित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अथ
यदश्रु संक्षरितमासीत्सोऽश्रुरभवदश्रुर्ह वै तमश्व इत्याचक्षते परोऽक्षम्
परोऽक्षकामा हि देवा अथ यदरसदिव स रासभोऽभवदथ यः कपाले रसो
लिप्त आसीत्सोऽजोऽभवदथ यत्कपालमासीत्सा पृथिव्यभवत्

६.१.१.[१२]

सोऽकामयत । आभ्योऽद्योऽधीमां प्रजनयेयमिति तां संकॢ!श्याप्सु
प्राविध्यत्तस्यै यः पराङ्रसोऽत्यक्षरत्स कूर्मोऽभवदथ
यदूर्ध्वमुदौक्ष्यतेदं तद्यदिदमूर्ध्वमद्भ्योऽधि जायते सेयं सर्वाप
एवानुव्यैत्तदिदमेकमेव रूपं समदृश्यताप एव

६.१.१.[१३]

सोऽकामयत । भूय एव स्यात्प्रजायेतेति सोऽश्राम्यत्स तपोऽतप्यत स श्रान्तस्तेपानः
फेनमसृजत सोऽवेदन्यद्वा एतद्रूपं भूयो वै भवति श्राम्याण्येवेति स
श्रान्तस्तेपानो मृदं शुष्कापमूषसिकतं शर्करामश्मानमयो
हिरण्यमोषधिवनस्पत्यसृजत तेनेमां पृथिवीं प्राच्छादयत्

६.१.१.[१४]

ता वा एता नव सृष्टयः । इयमसृज्यत तस्मादाहुस्त्रिवृदग्निरितीयं ह्यग्निरस्यै हि
सर्वोऽग्निश्चीयते

६.१.१.[१५]

अभूद्वा इयं प्रतिष्ठेति । तद्भूमिरभवत्तामप्रथयत्सा पृथिव्यभवत्सेयं
सर्वा कृत्स्ना मन्यमानागायद्यदगायत्तस्मादियं गायत्र्यथो आहुरग्निरेवास्यै
पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायद्यदगायत्तस्मादग्निर्गायत्र इति तस्मादु
हैतद्यः सर्वः कृत्स्नो मन्यते गायति वैव गीते वा रमते

६.१.२.[१]

सोऽकामयत प्रजापतिः । भूय एव स्यात्प्रजायेतेति सोऽग्निना पृथिवीं मिथुनं
समभवत्तत आण्डं समवर्तत तदभ्यमृशत्पुष्यत्विति पुष्यतु भूयो
ऽस्त्वित्येव तदब्रवीत्

Search

Search will be available shortly.