शतपथ ब्राह्मणम् 5

Posted at 2016-03-12 17:48:33
शतपथ ब्राह्मणम् 5

 

६.१.२.[१]

सोऽकामयत प्रजापतिः । भूय एव स्यात्प्रजायेतेति सोऽग्निना पृथिवीं मिथुनं
समभवत्तत आण्डं समवर्तत तदभ्यमृशत्पुष्यत्विति पुष्यतु भूयो
ऽस्त्वित्येव तदब्रवीत्

६.१.२.[२]

स यो गर्भोऽन्तरासीत् । स वायुरसृज्यताथ यदश्रु संक्षरितमासीत्तानि
वयांस्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता मरीचयोऽभवन्नथ
यत्कपालमासीत्तदन्तरिक्षमभवत्

६.१.२.[३]

सोऽकामयत । भूय एव स्यात्प्रजायेतेति स वायुनान्तरिक्षं मिथुनं
समभवत्तत आण्डं समवर्तत तदभ्यमृशद्यशो बिभृहीति ततोऽसावादित्यो
ऽसृज्यतैष वै यशोऽथ यदश्रु संक्षरितमासीत्सोऽश्मा पृश्निरभवदश्रुर्ह वै
तमश्मेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा अथ यः कपाले रसो लिप्त
आसीत्ते रश्मयोऽभवन्नथ यत्कपालमासीत्सा द्यौरभवत्

६.१.२.[४]

सोऽकामयत । भूय एव स्यात्प्रजायेतेति स आदित्येन दिवं मिथुनं समभवत्तत
आण्डं समवर्तत तदभ्यमृशद्रेतो बिभृहीति ततश्चन्द्रमा असृज्यतैष वै रेतो
ऽथ यदश्रु संक्षरितमासीत्तानि नक्षत्राण्यभवन्नथ यः कपाले रसो लिप्त
आसीत्ता अवान्तरदिशोऽभवन्नथ यत्कपालमासीत्ता दिशोऽभवन्

६.१.२.[५]

स इमांलोकान्त्सृष्ट्वाकामयत । ताः प्रजाः सृजेय या म एषु लोकेषु स्युरिति

६.१.२.[६]

स मनसा वाचं मिथुनं समभवत् । सोऽष्टौ द्रप्सान्गर्भ्यभवत्तेऽष्टौ
वसवोऽसृज्यन्त तानस्यामुपादधात्

६.१.२.[७]

स मनसैव । वाचं मिथुनं समभवत्स एकादश द्रप्सान्गर्भ्यभवत्त
एकादश रुद्रा असृज्यन्त तानन्तरिक्ष उपादधात्

६.१.२.[८]

स मनसैव । वाचं मिथुनं समभवत्स द्वादश द्रप्सान्गर्भ्यभवत्ते
द्वादशादित्या असृज्यन्त तान्दिव्युपादधात्

६.१.२.[९]

स मनसैव । वाचं मिथुनं समभवत्स गर्भ्यभवत्स विश्वान्देवानसृजत
तान्दिक्षूपादधात्

६.१.२.[१०]

अथो आहुः । अग्निमेव सृष्टं वसवोऽन्वसृज्यन्त तानस्यामुपादधाद्वायुं
रुद्रास्तानन्तरिक्ष आदित्यमादित्यास्तान्दिवि विश्वे देवाश्चन्द्रमसं
तान्दिक्षूपादधादिति

६.१.२.[११]

अथो आहुः । प्रजापतिरेवेमांलोकान्त्सृष्ट्वा पृथिव्यां प्रत्यतिष्ठत्तस्मा इमा
ओषधयोऽन्नमपच्यन्त तदाश्नात्स गर्भ्यभवत्स ऊर्ध्वेभ्य एव प्राणेभ्यो
देवानसृजत ये वाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा इत्यतो यतमथासृजत तथासृजत
प्रजापतिस्त्वेवेदं सर्वमसृजत यदिदं किं च

६.१.२.[१२]

स प्रजाः सृष्ट्वा । सर्वमाजिमित्वा व्यस्रंसत तस्मादु हैतद्यः सर्वमाजिमेति व्येव
स्रंसते तस्माद्विस्रस्तात्प्राणो मध्यत उदक्रामत्तस्मिन्नेनमुत्क्रान्ते देवा अजहुः

६.१.२.[१३]

सोऽग्निमब्रवीत् । त्वं मा संधेहीति कि मे ततो भविष्यतीति त्वया माचक्षान्तै यो
वै पुत्राणां राध्यते तेन पितरं पितामहं पुत्रं पौत्रमाचक्षते त्वया
माचक्षान्ता अथ मा संधेहीति तथेति तमग्निः समदधात्तस्मादेतं प्रजापतिं
सन्तमग्निरित्याचक्षत आ ह वा एनेन पितरं पितामहं पुत्रं पौत्रं चक्षते
य एवं वेद

६.१.२.[१४]

तमब्रवीत् । कस्मिस्त्वोपधास्यामीति हित एवेत्यब्रवीत्प्राणो वै हितं प्राणो हि
सर्वेभ्यो भूतेभ्यो हितस्तद्यदेनं हित
उपादधात्तस्मादाहोपधास्याम्युपदधामिति

६.१.२.[१५]

तदाहुः । किं हितं किमुपहितमिति प्राण एव हितं वागुपहितं प्राणे हीयं
वागुपेव हिता प्राणस्त्वेव हितमङ्गान्युपहितं प्राणे हीमान्यङ्गान्युपेव हितानि

६.१.२.[१६]

सो >स्यैष चित्य आसीत् । चेतव्यो ह्यस्यासीत्तस्माच्चित्यश्चित्य उ एवायं यजमानस्य
भवति चेतव्यो ह्यस्य भवति तस्माद्वेव चित्यः

६.१.२.[१७]

तदेता वा अस्य ताः । पञ्च तन्वो व्यस्रंसन्त लोम त्वङ्नांसमस्थि मज्जा ता एवैताः
पञ्च चितयस्तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यच्चिनोति
तस्माच्चितयः

६.१.२.[१८]

स यः स प्रजापतिर्व्यस्रंसत । संवत्सरः सोऽथ या अस्यैताः पञ्च तन्वो
व्यश्रंसन्तऽर्तवस्ते पञ्च वा ऋतवः पञ्चैताश्चितयस्तद्यत्पञ्च
चितीश्चिनोत्यृतुभिरेवैनं तच्चिनोति यच्चिनोति तस्माच्चितयः

६.१.२.[१९]

स यः स संवत्सरः प्रजापतिर्व्यस्रंसत । अयमेव स वायुर्योऽयं पवतेऽथ या
अस्य ता ऋतवः पञ्च तन्वो व्यस्रंसन्त दिशस्तॄः पञ्च वै दिशः
पञ्चैताश्चितयस्तद्यत्पञ्च चितीश्चिनोति दिग्भिरेवैनं तच्चिनोति यच्चिनोति
तस्माच्चितयः

६.१.२.[२०]

अथ यश्चितेऽग्निर्निधीयते । असौ स आदित्यः स एष एवैषोऽग्निश्चित एतावन्नु
तद्यदेनमग्निः समदधात्

६.१.२.[२१]

अथो आहुः । प्रजापतिरेव विस्रस्तो देवानब्रवीत्सं मा धत्तेति ते देवा
अग्निमब्रुवंस्त्वयीमं पितरं प्रजापतिं भिषज्यामेति स वा
अहमेतस्मिन्त्सर्वस्मिन्नेव विशानीति तथेति तस्मादेतं प्रजापतिं
सन्तमग्निरित्याचक्षते

६.१.२.[२२]

तं देवा अग्नावाहुतिभिरभिषज्यन् । ते यां यामाहुतिमजुहवुः सासैनम्
पक्वेष्टका भूत्वाप्यपद्यत
तद्यदिष्टात्समभवंस्तस्मादिष्टकास्तस्मादग्निनेष्टकाः
पचन्त्याहुतीरेवैनास्तत्कुर्वन्ति

६.१.२.[२३]

सोऽब्रवीत् । यावद्यावद्वै जुहुथ तावत्तावन्म कं भवतीति तद्यदस्मा इष्टे
कमभवत्तस्माद्वेवेष्टकाः

६.१.२.[२४]

तद्ध स्माहाक्ताक्ष्यः । य एव यजुष्मतीर्भूवसीरिष्टका विद्यात्सोऽग्निं
चिनुयाद्भूय एव तत्पितरं प्रजापतिं भिषज्यतीति

६.१.२.[२५]

अथ ह स्माह ताण्ड्यः । क्षत्रं वै यजुष्मत्य इष्टका विशो लोकम्पृणा अत्ता वै
क्षत्रियोऽन्नं विड्यत्र वा अत्तुरन्न भूयो भवति तद्राष्ट्रं समृद्धं भवति
तदेधते तस्माल्लोकम्पृणा एव भूयसीरुपदध्यादित्येतदह तयोर्वचोऽन्या त्वेवात
स्थितिः

६.१.२.[२६]

स एष पिता पुत्रः । यदेषोऽग्निमसृजत तेनैषोऽग्नेः पिता यदेतमग्निः
समदधात्तेनैतस्याग्निः पिता यदेष देवानसृजत तेनैष देवानां पिता यदेतं
देवाः समदधुस्तेनैतस्य देवाः पितरः

६.१.२.[२७]

उभयं हैतद्भवति । पिता च पुत्रश्च प्रजापतिश्चाग्निश्चाग्निश्च प्रजापतिश्च
प्रजापतिश्च देवाश्च प्रजापतिश्च य एवं वेद

६.१.२.[२८]

स उपदधाति । तया देवतयेति वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवा
सीदेति स्थिरा सीदेत्येतदथो प्रतिष्ठिता सीदेति वाचा चैवैनमेतत्प्राणेन च चिनोति
वाग्वा अग्निः प्राण इन्द्र ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतच्चिनोतीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतच्चिनोति

६.१.२.[२९]

तदाहुः । कस्मादस्या अग्निश्चीयत इति यत्र वै सा देवता व्यस्रंसत तदिमामेव
रसेनानु व्यक्षरत्तं यत्र देवाः समस्कुर्वंस्तदेनमस्या एवाधि
समभरन्त्सैषैकैवेष्टकेयमेवेयं ह्यग्निरस्यै हि सर्वोऽग्निश्चीयते सेयं
चतुःस्रक्तिर्दिशो ह्यस्यै स्रक्तयस्तस्माच्चतुःक्रक्तय इष्टका भवन्तीमां ह्यनु
सर्वा इष्टकाः

६.१.२.[३०]

तदाहुः । यदेवमेकेष्टकोऽथ कथं पञ्चेष्टक इतीयं न्वेव प्रथमा
मृन्मयीष्टका तद्यत्किं चात्र मृन्मयमुपदधात्येकैव सेष्टकाथ
यत्पशुशीर्षाण्युपदधाति सा पश्विष्टकाथ यद्रुक्भपुरुषा उपदधाति
यद्धिरण्यशकलैः प्रोक्षति सा हिरण्येष्टकाथ यत्स्रुचा उपदधाति
यदुलूखलमुसले याः समिध आदधाति सा वानस्पत्येष्टकाथ
यत्पुष्करपर्णमुपदधाति यत्कूर्मं यद्दधि मधु घृतं यत्किं
चात्रान्नमुपदधाति सैवान्नं पञ्चमीष्टकैवमु पञ्चेष्टकः

६.१.२.[३१]
तदाहुः । कतरत इष्टकायाः शिर इति यत उपस्पृश्य यजुर्वदतीत्यु हैक आहुः स
स्वयमातृणाया एवार्धादुपस्पृश्य यजुर्वदेत्तथो हास्यैताः सर्वाः
स्वयमातृणामभ्यावृत्ता भवन्तीति न तथा कुर्यादङ्गानि वा अस्यैतानि परूंषि
यदिष्टका यथा वा अङ्गेऽङ्गे पर्वन्पर्वञ्चिरः कुर्यात्तादृत्कद्यो वाव चिते
ऽग्निर्निधीयते तदेवैतासां सर्वासां शिरः

६.१.२.[३२]

तदाहुः । कति पशवोऽग्ना उपधीयन्त इति पञ्चेति न्वेव ब्रूयात्पञ्च
ह्येतान्पशूनुपदधाति

६.१.२.[३३]

अथो एक इति ब्रूयात् । अविरितीयं वा अविरियं हीमाः सर्वाः प्रजा अवतीयमु वा
अग्निरस्यै हि सर्वोऽग्निश्चीयते तस्मादेक इति ब्रूयात्

६.१.२.[३४]

अथो द्वाविति ब्रूयात् । अवी इतीयं चासौ चेमे हीमाः सर्वाः प्रजा अवतो यन्मृदियं
तद्यदापोऽसौ तन्मृच्चापश्चेष्टका भवन्ति तस्माद्दाविति ब्रूयात्

६.१.२.[३५]

अथो गौरिति ब्रूयात् । इमे वै लोका गौर्यद्धि किं च गच्छतीमांस्तल्लोकान्गच्छतीम उ
लोका एषोऽग्निश्चितस्तस्माद्गौरिति ब्रूयात्

६.१.२.[३६]

तदाहुः । कस्मै कामायाग्निश्चीयत इति सुपर्णो मा भूत्वा दिवं वहादित्यु हैक
आहुर्न तथा विद्यादेतद्वै रूपं कृत्वा प्राणाः प्रजापतिरभवन्नेतद्रूपं कृत्वा
प्रजापतिर्देवानसृजतैतद्रूपं कृत्वा देवा अमृता अभवंस्तद्यदेवैतेन प्राणा
अभवन्यत्प्रजापतिर्यद्देवास्तदेवैतेन भवति

६.१.३.[१]

प्रजापतिर्वा इदमग्र आसीत् । एक एव सोऽकामयत स्यां प्रजायेयेति सोऽश्राम्यत्स तपो
ऽतप्यत तस्माच्रान्तात्तेपानादापोऽसृज्यन्त तस्मात्पुरुषात्तप्तादापो जायन्ते

६.१.३.[२]

आपोऽब्रुवन् । क्व वयं भवामेति तप्यध्वमित्यब्रवीत्ता अतप्यन्त ताः
फेनमसृजन्त तस्मादपां तप्तानां फेनो जायते

६.१.३.[३]

फेनोऽब्रवीत् । क्वाहं भवानीति तप्यस्वेत्यब्रवीत्सोऽतप्यत स
मृदमसृजतैतद्वै फेनस्तप्यते यदप्स्वावेष्टमानः प्लवते स यदोपहन्यते
मृदेव भवति

६.१.३.[४]

मृदब्रवीत् । क्वाहं भवानीति तप्यस्वेत्यब्रवीत्सातप्यत सा सिकता असृजतैतद्वै
मृत्तप्यते यदेनां विकृषन्ति तस्माद्यद्यपि सुमार्त्स्नं विकृषन्ति सैकतमिवैव
भवत्येतावन्नु तद्यत्क्वाहं भवानि क्वाह भवानीति

६.१.३.[५]

सिकताभ्यः शर्करामसृजत । तस्मात्सिकताः शर्करैवान्ततो भवति शर्कराया
अश्मानं तस्माच्छर्कराश्मैवान्ततो भवत्यश्मनोऽयस्तस्मादश्मनोऽयो
धमन्त्ययसो हिरण्यं तस्मादयो बहुध्मातं हिरण्यसंकाशमिवैव भवति

६.१.३.[६]

तद्यदसृज्यताक्षरत् तद्यदक्षरत्तस्मादक्षरं यदष्टौ कृत्वो
ऽक्षरत्सैवाष्टाक्षरा गायत्र्य भवत्

६.१.३.[७]

अभूद्वा इयं प्रतिष्ठेति । तद्भृमिरभवत्तामप्रथयत्सा
पृथिव्यभवत्तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च प्रतिः
संवत्सरायादीक्षन्त भूतानां प्रतिर्गृहपतिरासीदुषाः पत्नी

६.१.३.[८]

तद्यानि तानि भूतानि । ऋतवस्तेऽथ यः स भूतानां पतिः संवत्सरः सोऽथ या सोषाः
पत्न्यौषसी सा तानीमानि भूतानि च भूतानां च पतिः संवत्सर उषसि रेतोऽसिञ्चन्त्स
संवत्सरे कुमारोऽजायत सोऽरोदीत्

६.१.३.[९]

तं प्रजापतिरब्रवीत् । कुमार किं रोदिषि यच्रमात्तपसोऽधि जातोऽसीति सो
ऽब्रवीदनपहतपाप्मा वा अस्म्यहितनामा नाम म धेहीति तस्मात्पुत्रस्य जातस्य
नाम कुर्यात्पाप्मानमेवास्य तदपहन्त्यपि द्वितीयमपि तृतीयमभिपूर्वमेवास्य
तत्पाप्मानमपहन्ति

६.१.३.[१०]

तमब्रवीद्रुद्रोऽसीति । तद्यदस्य तन्नामाकरोदग्निस्तद्रूपमभवदग्निव रुद्रो
यदरोदीत्तस्माद्रुद्रः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति

६.१.३.[११]

तमब्रवीत्सर्वोऽसीति । तद्यदस्य तन्नामाकरोदापस्तद्रूपमभवन्नापो वै सर्वो
ऽद्भ्यो हीदं सर्वं जायते सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति

६.१.३.[१२]

तमब्रवीत्पशुपतिरसीति । तद्यदस्य
तन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्तस्माद्यदा
पशव ओषधीर्लभन्तेऽथ पतीयन्ति सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे
नामेति

६.१.३.[१३]

तमब्रवीदुग्रोऽसीति । तद्यदस्य तन्नामाकरोद्वायुस्तद्रूपम्भवद्वायुर्वा
उग्रस्तस्माद्यदा बलवद्वायुग्रो वातोत्याहुः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे
नामेति

६.१.३.[१४]

तमब्रवीदशनिरसीति । तद्यदस्य तन्नामाकरोद्विद्युत्तद्रूपमभवद्विद्युद्वा
अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरबधीदित्याहुः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि
धेह्येव मे नामेति

६.१.३.[१५]

तमब्रवीद्भवोऽसीति । तद्यदस्य तन्नामाकरोत्पर्जन्यस्तद्रूपमभवत्पर्जन्यो
वै भवः पर्जन्याद्धीदं सर्वं भवति सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे
नामेति

६.१.३.[१६]

तमब्रवीन्महान्देवोऽसीति । तद्यदस्य
तन्नामाकरोच्चन्द्रमास्तद्रूपमभवत्प्रजापतिर्वै चन्द्रमाः प्रजापतिर्वै
महान्देवः सोऽब्रवीज्ज्यायान्वा अतोऽस्मि धेह्येव मे नामेति

६.१.३.[१७]

तमब्रवीदीशानोऽसीति । तद्यदस्य तन्नामाकरोदादित्यस्तद्रूपमभवदादित्यो वा
ईशान आदित्यो ह्यस्य सर्वस्येष्टे सोऽब्रवीदेतावान्वा अस्मि मा मेतः परो नाम धा इति

६.१.३.[१८]

तान्येतान्यष्टावग्निरूपाणि । कुमारो नवमः सैवाग्निस्त्रिवृत्ता

६.१.३.[१९]

यद्वेवाष्टावग्निरूपाणि । अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रोऽग्निरिति सोऽयं
कुमारो रूपाण्यनुप्राविशन्न वा अग्निं कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि
पश्यन्त्येतानि हि रूपाण्यनुप्राविशत्

६.१.३.[२०]

तमेतं संवत्सर एव चिनुयात् । संवत्सरेऽनुब्रूयाद्दूयोरित्यु हैक आहुः संवत्सरे
वै तद्रेतोऽसिञ्चन्त्स संवत्सरे कुमारोऽजायत तस्माद्दूयोरेव
चिनुयाद्वूयोरनुब्रूयादिति संवत्सरे त्वेव चिनुयात्संवत्सरेऽनुब्रूयाद्यद्वाव रेतः
सिक्तं तदेव जायते तत्ततो विक्रियमाणमेव वर्धमानं शेते तस्मात्संवत्सर एव
चिनुयात्संवत्सरेऽनुब्रूयात्तस्य चितस्य नाम करोति पाप्मानमेवास्य तदपहन्ति
चित्रनामानं करोति चित्रोऽसीति सर्वाणि हि चित्राण्यग्निः

६.२.१.[१]

प्रजापतिरग्निरूपाण्यभ्यध्यायत् । स योऽयं कुमारो रूपाण्यनुप्रविष्ट
आसीत्तमन्वैच्छत्सोऽग्निरवेदनु वै मा पिता प्रजापतिरिच्छति हन्त तद्रूपमसानि
यन्म एष न वेदेति

६.२.१.[२]

स एतान्पञ्च पशूनपश्यत् । पुरुषमश्वं गामविमजं यदपश्यत्तस्मादेते
पशवः

६.२.१.[३]

स एतान्पञ्च पशून्प्राविशत् । स एते पञ्च पशवोऽभवत्तमु वै प्रजापतिरन्वेवैच्छत्
६.२.१.[४]

स एतान्पञ्च पशूनपश्यत् । यदपश्यत्तस्मादेते
पशवस्तेष्वेतमपश्यत्तस्माद्वेवैते पशवः

६.२.१.[५]

स ऐक्षत । इमे वा अग्निरिमानेवात्मानमभिसंस्करवै यथा वा अग्निः समिद्धो
दीप्यत एवमेषां चक्षुर्दीप्यते यथाग्नेर्धूम उदयत एवमेषामूष्मोदयते
यथाग्निरभ्यहितं दहत्येवं बप्सति यथाग्नेर्भस्म सीदत्येवमेषाम्
पुरीषं सीदतीमे वा अग्निरिमानेवात्मानमभिसंस्करवा इति तान्नाना देवताभ्य
आलिप्सत वैश्वकर्मणं पुरुषं वारु

णमश्वमैन्द्रमृषभं त्वाष्ट्रमविमाग्नेयमजम्

६.२.१.[६]

स ऐक्षत । नाना वा इदं देवताभ्य आलिप्सेऽग्नेर्वहं रूपाणि कामये
हन्तैनानग्निभ्यः कामायालभा इति तानग्निभ्यः कामायालभत तद्यदग्निभ्य इति
बहूनि ह्यग्निरूपाण्यभ्यध्यायदथ यत्कामायेति कामेन ह्यालभत
तानाप्रीतान्पर्यग्निकृतानुदाचो नीत्वा समज्ञपयत्

६.२.१.[७]

स ऐक्षत । या वै श्रीरभ्यधासिषमिमास्ताः शीर्षसु हन्त शीर्षाण्येवोपदधा इति
स शीर्षाण्येवोत्कृत्योपाधत्ताथेतराणि कुसिन्धान्यप्सु प्राप्लावयदजेन यज्ञं
समस्थापयन्नेन्मे यज्ञो विकृष्टोऽसदित्यात्मा वै यज्ञो नेन्मेऽयमात्मा विकृष्टो
ऽसदित्येतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत्

६.२.१.[८]

स ऐक्षत । यमिममात्मानमप्सु प्रापिप्लवं तमन्विच्छानीति
तमन्वैच्छत्तद्यदेषामप्सु प्रविद्धानां प्रत्यतिष्ठत्ता अपः समभरदथ
यदस्यां तां मृदं तदुभयं सम्भृत्य मृदं
चापश्चेष्टकामकरोक्षस्मादेतदुभयमिष्टका भवति मृच्चापश्च

६.२.१.[९]

स ऐक्षत । यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्ये- मर्त्यः कुणपो
ऽनपहतपाप्मा भविष्यामि हन्तैतदग्निना पचानीति तदग्निनापचत्तदेनदमृतमकरोदेतद्वै हविरमृतं भवति यदग्निना पचन्ति
तस्मादग्निनेष्टकाः पचन्त्यमृता एवैनास्तत्कुर्वन्ति

६.२.१.[१०]

तद्यदिष्ट्वा पशुनापश्यत् । तस्मादिष्टकास्तस्मादिष्ट्वैव पशुनेष्टकाः
कुर्यादनिष्टका ह ता भवन्ति याः पुरा पशोः कुर्वन्त्यथो ह तदन्यदेव

६.२.१.[११]

तद्यास्ताः श्रियः । एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च
चितयस्तद्यत्पशुशीर्षाण्युपधाय चितीश्चिनोत्येतैरेव तचीर्षभिरेतानि कुसिन्धानि
संदधाति

६.२.१.[१२]

त एते सर्वे पशवो यदग्निः । तस्मादग्नौ पशवो रमन्ते प्!स्मिन्नग्निराधीयते
ऽग्निर्ह्येष यत्पशवस्ततो वै प्रजापतशुभिरेव तत्पशवो रमन्ते तस्माद्यस्य
पशवो भवन्ति तैरग्निरभवत् एतैरत्र सर्वैः प्रजापतिरयक्ष्यत
तदेवाग्नेरन्तं पर्

६.२.१.[१३]

तद्धैके आहुः । अत्रैवैतैः सर्वैः पशुभिर्यजेत यद्वायैष्यत्तद्यदेतैरत्र
सर्वैर्यजेत तदेवाग्नेरन्तं परीयादिति न तथा कुर्याद्देवानां तदितादियादथो
पथस्तदियादथो किं ततः सम्भरेदेतानि वा एतत्कुसिन्धान्येताश्चितीः सम्भरति
तस्मात्तथा न कुर्यात्

६.२.१.[१४]

यद्वेवैतान्पशूनालभते । आयतनमेवैतदग्नये करोति न ह्यनायतने कश्चन
रमतेऽन्नं वा आयतनं तदेतत्पुरस्तान्निदधाति तदेनं पश्यन्नग्निरुपावर्तते

६.२.१.[१५]

पुरुषोऽश्वो गौरविरजो भवन्ति । एतावन्तो वै सर्वे पशवोऽन्नम्
पशवस्तद्यावदन्नं तदेतत्पुरस्तान्निदधाति तदेनं पश्यन्नग्निरुपावर्तते

६.२.१.[१६]

पञ्च भवन्ति । पञ्च ह्येतेऽग्नया यदेताश्चितयस्तेभ्य एतत्पञ्चायतनानि निदधाति
तदेनं पश्यन्नग्निरुपावर्तते

६.२.१.[१७]

तद्यदग्निभ्य इति । बहवो ह्येतेऽग्नयो यदेताश्चितयोऽथ यत्कामायेति यथा तं
काममाप्नुयाद्यजमानो यत्काम एतत्कर्म कुरुते

६.२.१.[१८]

पुरुषं प्रथममालभते । पुरुषो हि प्रथमः पशूनामथाश्वं पुरुषं
ह्यन्वश्वोऽथ गामश्वं ह्यनु गौरथाविं गां ह्यन्वविरथाजमविं
ह्यन्वजस्तदेनान्यथापूर्वं यथाश्रेष्ठमालभते

६.२.१.[१९]

तेषां विषमा रशनाः स्युः । पुरुषस्य वर्षिष्ठाथ ह्रसीयस्यथ ह्रसीयसी
तद्यथारूपं पशूनां रशनाः करोत्यपपवस्यसाय सर्वास्त्वेव समाः स्युः सर्वाः
सदृश्यः सर्वे ह्येते समाः सर्वे सदृशा अग्नयो ह्युच्यन्तेऽन्नं ह्युच्यन्ते तेन
समास्तेन सदृशाः

६.२.१.[२०]

तदाहुः । कथमस्यैषोऽग्निः पञ्चेष्टकः सर्वः पशुष्वारब्धा भवतीति
पुरोडाशकपालेषु न्वेवाप्यत इयं प्रथमा मृन्मयीष्टकाथ यत्पशुमालभते
तेन पश्विष्टकाप्यतेऽथ यद्वपामभितो हिरण्यशकलौ भवतस्तेन
हिरण्येष्टकाप्यतेऽथ यदिध्मो यूपः परिधयस्तेन वानस्पत्येष्टकाप्यतेऽथ
यदाज्यं प्रोक्षण्यः पुरोडाशस्तेनान्नं पञ्चमीष्टकाप्यत एवमु हास्यैषो
ऽग्निः पञ्चेष्टकः सर्वः पशुश्वारब्धो भवति

६.२.१.[२१]

तेषां चतुर्विंशतिः सामिधेन्यः । चतुर्विंशत्यर्धमासो वै संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे

६.२.१.[२२]

यद्वेव चतुर्विंशतिः । चतुर्विंशत्यक्षरा वै गायत्री गायत्रो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे

६.२.१.[२३]
यद्वेव चतुर्विंशतिः । चतुर्विंशो वै पुरुशो दश हस्त्या अङ्गुलयो दश
पाद्याश्चत्वार्यङ्गानि पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समिन्द्धे

६.२.१.[२४]

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । प्राणो गायत्र्यात्मा त्रिश्टुप्प्राणमेवास्य
गायत्रीभिः समिन्द्ध आत्मानं त्रिष्टुब्भिर्मध्ये त्रिष्टुभो भवन्त्यभितो
गायत्र्यो मध्ये ह्ययमात्माभितः प्राणा भूयसीः पुरस्ताद्गायत्रीरन्वाह
कनीयसीरुपरिष्टाद्भूयांसो हीमे पुरस्तात्प्राणाः कनीयांस उपरिष्टात्

६.२.१.[२५]

सोऽन्वाह । समास्त्वाग्न ऋतवो वर्धयन्त्विति प्रजापतिं विस्रस्तं यत्राग्निः
समदधात्तमब्रवीद्या मत्संमिताः सामिधेन्यस्ताभिर्मा समिन्त्स्वेति

६.२.१.[२६]

स एता अपश्यत् । समास्त्वाग्न ऋतवो वर्धयन्त्विति समाश्च त्वाग्न ऋतवश्च
वर्धयन्त्वित्येतत्संवत्सरा ऋषयो यानि सत्येति संवत्सराश्च तुअऽर्षयश्च सत्यानि च
वर्धयन्त्वित्येतत्सं दिव्येन दीदिहि रोचनेनेत्यसौ वा आदित्यो दिव्यं रोचनं तेन
संदीदिहीत्येतद्विश्वा आभाहि प्रदिशश्चतस्र इति सर्वा आभाहि प्रदिशश्चतस्र इत्येतत्

६.२.१.[२७]

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव संस्कुर्यादेतं संदध्यादेतं
जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिं सतैन्द्ध
तेन प्राजापत्याः

६.२.१.[२८]

द्वादशाप्रियः । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतदाप्रीणाति

६.२.१.[२९]

यद्वेव द्वादश । द्वादशाक्षरा वै जगतीयं वै जगत्यस्यां हीदं सर्वं
जगदियमु वा अग्निरस्यै हि सर्वोऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदाप्रीणाति

६.२.१.[३०]
यद्वेव द्वादश । द्वादशाक्षरा वै जगती जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि
प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदाप्रीणाति

६.२.१.[३१]

ता एता ऊर्ध्वा अस्य समिधो भवन्तीति । प्रजापतिं विस्रस्तं यत्राग्नः
समदधात्तमब्रवीद्या मत्सम्मिता आप्रियस्ताभिर्माप्रीणीहीति

६.२.१.[३२]

स एता अषश्यत् । ऊर्ध्वा अस्य समिधो भवन्तीत्यूर्ध्वा ह्येतस्य समिद्धस्य
समिधो भवन्त्यूर्ध्वा शुक्रा शोचींष्यग्नेरित्यूर्ध्वानि ह्येतस्य शुक्राणि
शोचींष्यर्चींषि भवन्ति द्युमत्तमेति वीर्यवत्तमेत्येतत्सुप्रतीकस्येति सर्वतो वा
अग्निः सुप्रतीकः सूनोरिति यदेनं जनयति तेनास्यैष सूनुः

६.२.१.[३३]

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव संस्कुर्यादेतं संदध्यादेतं
जनयेत्ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन
प्राजापत्याः

६.२.१.[३४]

ता विषमा विषमपदाः । विषमाक्षरा विषमाणि हि छन्दांस्यथो
यान्यस्याध्यात्ममङ्गानि विषमाणि तान्यस्यैताभिराप्रीणाति

६.२.१.[३५]

वैश्वानरः पशुपुरोडाशः । वैश्वानरो वै सर्वेऽग्नयः सर्वेषामग्नीनामुपाप्त्यै

६.२.१.[३६]

यद्वेव वैश्वानरः । ऋतवो हैते यदेताश्चितयोऽग्नयो वा ऋतव ऋतवः संवत्सरः
संवत्सरो वैश्वानरो यदग्नय इति स्यादति तद्रेचयेद्द्वादशकपालो द्वादश मासाः
संवत्सरः संवत्सरो वैश्वानर आग्नेय्यो याज्यानुवाक्या अग्निरूपाणामुपात्यै
कामवत्यः कामानामुपात्यै

६.२.१.[३७]

तद्धैके । इत्येवैतानि पशुषीर्षाणि वित्त्वोपदधत्युभयेनैते पशव इति ते ह ते
मर्त्याः कुणपाः सम्भवन्त्यनाप्रीतानि हि तानि तद्ध तथाषाढेः
सौश्रोमतेयस्योपदधुः स ह क्षिप्र एव ततो ममार

६.२.१.[३८]

हिरण्मयान्यु हैके कुर्वन्ति । अमृतेष्टका इति वदन्तस्ता ह ता अनृतेष्टका न हि तानि
पशुशीर्षाणि

६.२.१.[३९]

मृन्मयान्यु हैके कुर्वन्ति । उत्सन्ना वा एते पशवो यद्वै किंचोत्सन्नमियं तस्य
सर्वस्य प्रतिष्ठा तद्यत्रैते पशवो गतास्तत एनानधि सम्भराम इति न तथा
कुर्याद्यो वा एतेषामावृतं च ब्राह्मणं च न विद्यात्तस्यैत उत्सन्नाः स्युः स
एतानेव पञ्च पशूनालभेत यावदस्य वशः स्यात्तान्हैतान्प्रजापतिः प्रथम आलेभे
श्यापर्णः सायकायनोऽन्तमोऽथ ह स्मैतानेवान्तरेणालभन्तेऽथैतर्हीमौ
द्वावेवालभ्येते प्राजापत्यश्च वायव्यश्च तयोरतो ब्राह्मणमुद्यते

६.२.२.[१]

प्राजापत्यं चरका आलभन्ते । प्रजापतिरग्निं चित्वाग्निरभवत्तद्यदेतमालभते
तदेवाग्नेरन्तं पर्येतीते

६.२.२.[२]

श्यामो भवति । द्वयानि वै श्यामस्य लोमानि शुक्लानि च कृष्णानि च द्वन्द्वम्
मिथुनं प्रजननं तदस्य प्राजापत्यं रूपं तूपरो भवति तूपरो हि प्रजापतिः

६.२.२.[३]

तस्यैकविंशति सामिधेन्यः । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य
एकविंश एष प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समिन्द्धे

६.२.२.[४]

यद्वेवैकविंशतिः । एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या
आत्मैकविंशः पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समिन्द्धे

६.२.२.[५]

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुरुक्तम्वेवान्वृचं
हिरण्यगर्भवत्याघारमाघारयति प्रजापतिर्वै हिरण्यगर्भः
प्रजापतिरग्निर्द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृच प्राजापत्यः
पशुपुरोडाशो य एव पशोर्बन्धुः स पुरोडाशस्य द्वादशकपालो द्वादश मासाः
संवत्सरः संवत्सरः प्रजापतिः कद्वत्यो याज्यानुवाक्याः को हि प्रजापतिः

६.२.२.[६]

अथैतं वायवे नियुत्वते । शुक्लं तूपरमालभते प्रजापतिः प्रजाः
सृष्ट्वानुव्यैक्षत तस्यात्यानन्देन रेतः परापतत्सोऽजः शुक्लस्तूपरो
लप्सुद्यभवद्रसो वै रेतो यावानु वै रसस्तावानात्मा तद्यदेतमालभते
तदेवाग्नेरन्तं पर्येति शुक्लो भवति शुक्लं हि रेतस्तूपरो भवति तूपरं हि रेतो
वायवे भवति प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः
प्राणोदानावेवास्मिन्नेतद्दधाति

६.२.२.[७]

यद्वेवैतं वायवे नियुत्वते । शुक्लं तूपरमालभते प्रजापतिं विस्त्रस्तं यत्र
देवाः समस्कुर्वन्त्स योऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन
पशुनादधुस्तथैवास्मिन्नयमेतद्दधाति वायवे भवति प्राणो वै वायुर्नियुत्वते
भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति शुक्लो भवति शुक्लो हि
वायुस्तूपरो भवति तूपरो हि वायुः

६.२.२.[८]

तस्य सप्तदश सामिधेन्यः । सप्तदशो वै संवत्सरो द्वादश मासाः पञ्चऽर्तवः
संवत्सरः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समिन्द्धे

६.२.२.[९]

यद्वेव सप्तदश । सप्तदशो वै पुरुषो दश प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदशो
ग्रीवाः षोडश्यः शिरः सप्तदशं पुरुषः प्रजापतिः
प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे

६.२.२.[१०]

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुरुक्तम्वेवान्वृचं
द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृचं प्राजापत्यः पशुपुरोडाशोऽत्रो स
काम उपाप्त इति ह स्माह माहित्थिर्यं चरकाः प्राजापत्ये पशावाहुरिति

६.२.२.[११]

यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशोऽर्धं ह
प्रजापतेर्वायुरर्धं प्रजापतिस्तद्यदुभौ वायव्यौ स्यातामुभौ वा
प्राजापत्यावर्धं हैवास्य कृतं स्यान्नार्धमथ यद्वायव्यः पशुर्भवति
प्राजापत्यः पशुपुरोडाशस्तेन हैवैतं सर्वं कृत्स्नं प्रजापतिं सस्करोति

६.२.२.[१२]

यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशः प्रजापतिं विस्त्रस्तं
यत्र देवाः समस्कुर्वन्त्स योऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन
पशुनादधुरथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन्त्स यत्प्राजापत्यो भवति
प्रजापतिर्ह्यात्मा द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः
कद्वत्यौ याज्यानुवाक्ये को हि प्रजापतिः

६.२.२.[१३]

तद्यद्वपां पुरस्ताज्जुहोति । य एवायं पुरस्तात्प्राणस्तमस्मिन्नेतद्दधात्यथ
यदेतेन मध्यतश्चरन्ति मध्यतो ह्ययमात्माथ यद्धविषोपरिष्टाच्चरन्ति य
एवायमुपरिष्टात्प्राणस्तमस्मिन्नेतद्दधाति शुक्लवत्यो याज्यानुवाक्याः स्युः
शुक्लरूपाणामुपाप्त्यै नियुत्वत्यो यदेव नियुत्वद्रूपं तस्योपाप्त्यै

६.२.२.[१४]

तदु वा आहुः । वपाया एव शुक्लवत्यौ स्यातामेतावद्वै पशौ शुक्लं
यद्वपाशुक्लवत्यौ नियुत्वत्यौ हविषो यदेव नियुत्वद्रूपं तस्योपाप्त्या इति

६.२.२.[१५]

यद्वेवैतं पशुमालभते । एतस्मिन्ह पशौ सर्वेषां पशूनां रूपं यत्तूपरो लप्सुदी तत्पुरुषस्य रूपं तूपरो हि लप्सुदी पुरुषो यत्तूपरः केसरवांस्तदश्वस्य रूपं तूपरो हि केसरवानश्वो यदष्टाशफस्तद्गो रूपमष्टाशफो हि गौरथ यदस्यावेरिव शफास्तदवे रूपं यदजस्तदजस्य तद्यदेतमालभते तेन हैवास्यैते सर्वे पशव आलब्धा भवन्त्यतो यतमदस्य कर्मोपकल्पेतैते वा पञ्च पशव एष वा प्राजापत्य एष वा नियुत्वतीयः

६.२.२.[१६]

तं पौर्णमास्यामालभेत । अमावास्यायामालभेतेत्यु हैक आहुरसौ वै चन्द्रः
प्रजापतिं स एतां रात्रिमिह वसति तद्यथोपतिष्ठन्तमालभेतैवं तदिति

६.२.२.[१७]

तद्वै पौर्णमास्यामेव । असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते
यत्रैनं देवा आलभन्ते तदेनमालभा इति तस्मात्पौर्णमास्यां यद्वेव
पौर्णमास्यां पौर्णमासी ह वाव प्रथमा व्युवास तस्माद्वेव पौर्णमास्याम्
६.२.२.[१८]

तद्वै फाल्गुन्यामेव । एषा ह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी
योत्तरैषोत्तमा या पूर्वा मुखत एव तत्संवत्सरमारभते

६.२.२.[१९]

स वा इष्ट्वैव पौर्णमासेन । अथ पशुमालभेत पौर्णमासेन वा इन्द्रो वृत्रम्
पाप्मानं हत्वापहतपाप्मैतत्कर्मारभत तथैवैतद्यजमानः
पौर्णमासेनैव वृत्रं पाप्मानं हत्वापहतपाप्मैतत्कर्मारभते

६.२.२.[२०]

तद्वा उपांशु भवति । एतद्धैतैः प्रजापतिः पशुभिः कर्मेयेष
तद्धात्रानद्धेवैवासानिरुक्तमिव तस्मादुपांशु

६.२.२.[२१]

यद्वेवोपांशु । प्राजापत्यं वा एतत्कर्म प्रजापतिं ह्येतेन कर्मणारभतेऽनिरुक्तो
वै प्रजापतिः

६.२.२.[२२]

यद्वेवोपांशु । रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते वपा पशुपुरोडाशो
हविरेतावान्हि पशुः

६.२.२.[२३]

अष्टकायामुखां सम्भरति । प्राजापत्यमेतदहर्यदष्टका प्राजापत्यमेतत्कर्म
यदुखा प्राजापत्य एव तदहन्प्राजापत्यं कर्म करोति

६.२.२.[२४]

यद्वेवाष्टकायाम् । पर्वैतत्सवत्सरस्य यदष्टका पर्वैतदग्नेर्यदुखा
पर्वण्येव तत्पर्व करोति

६.२.२.[२५]

यद्वेवाष्टकायाम् । अष्टका वा उखा निधिर्द्वा उद्धी तिरश्ची रास्ना तच्चतुश्चितस्र
ऊर्ध्वास्तदष्टावष्टकायामेव तदष्टकां करोति

६.२.२.[२६]

अमावास्यायां दीक्षते । अमावास्यायै वा अधि यज्ञस्तायते यतो यज्ञस्तायते ततो यज्ञं
जनयानीति

६.२.२.[२७]

यद्वेवामावास्यायाम् । रेतो वा एतद्भूतमात्मानं सिञ्चत्युखायां योनौ यद्दीक्षते
तस्मा एतं पुरस्ताल्लोकं करोति यद्दीक्षितो भवति तं कृतं लोकमभि जायते
तस्मादाहुः कृत लोकं पुरुषोऽभि जायत इति

६.२.२.[२८]

स यत्कनीयः संवत्सराद्दीक्षितः स्यात् । अलोका इष्टका उपदध्यादेष्टका
लोकानतिरिच्येरन्नथ यद्भूयसो लोकान्कृत्वेष्टका नानूपदध्याल्लोका इष्टका
अतिरिच्येरन्नथ यदमावास्यायां दीक्षित्वामावास्यायां क्रीणाति तद्यावन्तमेव लोकं
करोति तावतीरिष्टका उपदधात्यथास्यापूर्यमाणपक्षे सर्वोऽग्निश्चीयते

६.२.२.[२९]

तदाहुः । यद्यावत्य एतस्याग्नेरिष्टकास्तावन्ति क्रयेऽहोरात्राणि सम्पद्यन्तेऽथ
यान्यूर्ध्वानि क्रयादहानि कथमस्य ते लोका अनूपहिता भवन्तीति यद्वा
अमावास्यायां दीक्षित्वामावास्यायां क्रीणाति तद्यावन्तमेव लोकं करोति तावतीरिष्टका
उपदधात्यथ यान्यूर्ध्वानि क्रयादहानि तस्मिन्नवकाशेऽध्वर्युरग्निं चिनोति क्वो
हि चिनुयान्न च सोऽवकाशः स्याद्यावन्ति वै संवत्सरस्याहोरात्राणि तावत्य
एतस्याग्नेरिष्टका उप च त्रयोदशो मासस्त्रयोदशो वा एष मासो यान्यूर्ध्वानि
क्रयादहानि तद्या अमूस्त्रयोदशस्य मास इष्टकास्ताभिरस्य ते लोका अनूपहिता
भवन्ति तत्समा लोकाश्चेष्टकाश्च भवन्ति

६.२.२.[३०]

एतद्वै यैव प्रथमा पौर्णमासी । तस्यां पशुमालभते या प्रथमाष्टका
तस्यामुखां सम्भरति या प्रथमामावास्या तस्यां दीक्षत एतद्वै यान्येव
संवत्सरस्य प्रथमान्यहानि तान्यस्य तदारभते तानि च तदाप्नोत्यथातः
सम्पदेव

६.२.२.[३१]

तदाहुः । कथमस्यैतत्कर्म संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना
सम्पद्यत इत्येतेषां वै पञ्चानां पशूनां चतुर्विंशतिः सामिधेन्यो
द्वादशाप्रियस्तत्षट्त्रिंशदेकादशानुयाजा एकादशोपयजस्तदष्टा पञ्चाशत्

६.२.२.[३२]

ततो याष्टाचत्वारिंशत् । साष्टाचत्वारिंशदक्षरा जगतीयं वै जगत्यस्यां हीदं
सर्वं जगदियमु वा अग्निरस्यै हि सर्वोऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति

६.२.२.[३३]

यद्वेवाष्टाचत्वारिंशत् । अष्टाचत्वारिंशदक्षरा वै जगती जगती सर्वाणि छन्दांसि
सर्वाणि छन्दांसि प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.२.२.[३४]

अथ यानि दश । सा दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा
अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.२.२.[३५]

वपा पशुपुरोडाशः । तत्षष्टिः षष्टिर्मासस्याहोरात्राणि तन्मासमाप्नोति मास आप्त
ऋतुमाप्नोत्यृतुः संवत्सरं तत्संवत्सरमग्निमाप्नोति ये च संवत्सरे कामा अथ
यदतोऽन्यद्यदेव संवत्सरेऽन्नं तत्तत्

६.२.२.[३६]

अथैतस्य प्राजापत्यस्य । एकविंशतिः सामिधेन्यो
द्वादशाप्रियस्तत्त्रयस्त्रिंशदेकादशानुयाजा एकादशोपयज तत्पञ्चपञ्चाशद्वपा
पशुपुरोडाशो हविस्तदष्टापञ्चाशत्स योऽष्टापञ्चाशति कामोऽत्रैव तमाप्नोति
द्वावाघारौ तत्षष्टिः स यः षष्ट्यां कामोऽत्रैव तमाप्नोत्यथ यदतो
ऽन्यद्यदेवं संवत्सरेऽन्नं तत्तत्

६.२.२.[३७]

अथैतस्य नियुत्वतीयस्य । सप्तदश सामिधेन्यो द्वादशाप्रियस्तदेकां न
त्रिंशदेकादशानुयाजा एकादशोपयजस्तदेकपञ्चाशद्वपा पशुपुरोडाशो
हविस्तच्चतुष्पञ्चाशद्द्वावाघारौ द्वौ स्विष्टकृतौ तदष्टापञ्चाशत्स यो
ऽष्टापञ्चाशति कामोऽत्रैव तमाप्नोति वनस्पतिश्च वसाहोमश्च तत्षष्टिः स यः
षष्ट्यां कामोऽत्रैव तमाप्नोत्यथ यदतोऽन्यद्यदेव संवत्सरेऽन्नं
तत्तदेवमु हास्यैतत्कर्म संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना
सम्पद्यते
६.२.२.[३८]

तदाहुः । नैतस्य पशोः समिष्टयजूंषि जुहुयान्न
हृदयशूलेनावभृथमभ्यवेयादारम्भो वा एषोऽग्नेः पशुर्व्यवसर्गो देवतानां
समिष्टयजूंषि संस्थावभृथो नेदारम्भे देवता व्यवसृजानि नेद्यज्ञं
संस्थापयानीति स वै समेव स्थापयेदेतेन पशुनेष्ट्वा
तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत्तस्मात्संस्थापयेद्यद्वेव
संस्थापयति प्राण एष पशुस्तस्य यदन्तरियात्प्राणस्य तदन्तरियाद्यदु वै
प्राणस्यान्तरियात्तत एवं म्रियेत तस्मात्समेव स्थापयेदथातो व्रतानामेव

६.२.२.[३९]

तदाहुः । नैतेन पशुनेष्ट्वोपरि शयीत न मांसमश्नीयान्न
मिथुनमुपेयात्पूर्वदीक्षा वा एष पशुरनवकॢप्तं वै तद्यद्दीक्षित उपरि
शयीत यन्मांसमश्नीयाद्यन्मिथुनमेपेयादिति नेत्वेवैषा दीक्षा नेव हि
मेखलास्ति न कृष्णाजिनमिष्टकां वा एतां कुरुते तस्मादु काममेवोपरि शयीतैतदु
सर्वमन्नं यदते पशवस्तदस्यात्राप्तमारब्धं भवति तद्यानि कानि
चामधुनोऽशनानि तेषामस्य सर्वेषां कामाशनं यदि लभेत मिथुनं तु
नोपेयात्पुरा मैत्रावरुण्य पयस्यायै तस्योपरि बन्धुः

६.२.२.[४०]

तदाहुः । दद्यादेतस्मिन्यज्ञे दक्षिणां नेन्मेऽयं यज्ञोऽदक्षिणोऽसद्ब्रह्मण
आदिष्टदक्षिणां दद्याद्ब्रह्मा वै सर्वो यज्ञस्तदस्य सर्वो यज्ञो भिषज्जयितो
भवतीति न तथा कुर्यादिष्टकां वा एतां कुरुते तद्यथेष्टकायामिष्टकायां
दद्यात्तादृक्तदमुर्ह्येव दद्याद्यदस्योपकल्पेत

६.२.३.[१]

एतद्वै देवा अब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां
चेतयमानानां प्रजापतिरिमां प्रथमां स्वयमातृणां चितिमपश्यत्तस्मात्ताम्
प्रजापतिनोपदधाति

६.२.३.[२]

तमग्निरब्रवीत् । उपाहमायानीति केनेति पशुभिरिति तथेति पश्विष्टकया ह
तदुवाचैषा वाव पश्विष्टका यद्दूर्वेष्टका तस्मात्प्रथमायै स्वयमातृणाया
अनन्तर्हिता दूर्वेष्टकोपधीयते तस्मादस्या अनन्तर्हिता ओषधयोऽनन्तर्हिताः
पशवोऽनन्तर्हितोऽग्निरनन्तर्हितो ह्येष एतयोपैत्

६.२.३.[३]

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां
चेतयमानानामिन्द्राग्नी च विश्वकर्मा चान्तरिक्षं द्वितीयां स्वयमातृणां
चितिमपश्यंस्तस्मात्तामिन्प्राग्निभ्यां च विश्वकर्मणा चोपदधाति
६.२.३.[४]

तान्वायुरब्रवीत् । उपाहमायानीति केनेति दिग्भिरिति तथेति दिश्याभिर्ह तदुवाच
तस्माद्द्वितीयायै स्वयमातृणाया अनन्तर्हिता दिश्या उपधीयन्ते
तस्मादन्तरिक्षादनन्तर्हिता दिशोऽनन्तर्हितो वायुरनन्तर्हितो ह्येष एताभिरुपैत्

६.२.३.[५]

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां
चेतयमानानां परमेष्ठी दिवं तृतीयं स्वयमातृणां चितिमपश्यत्तस्मात्ताम्
परमेष्ठिनोपदधाति

६.२.३.[६]

तमसावादित्योऽब्रवीत् । उपाहमायानीति केनेति लोकम्पृणयेति तथेत्येष वाव
लोकम्पृणात्मना हैव तदुवाच तस्मात्तृतीया स्वयमातृणानन्तर्हिता लोकम्पृणाया
उपधीयते तस्मादशावादित्योऽनन्तर्हितो दिवोऽनन्तर्हितो ह्येष एतयोपैत्

६.२.३.[७]

तदेता वाव षड्देवताः । इदं सर्वमभवन्यदिदं किं च ते देवाश्च
ऽर्षयश्चाब्रुवन्निमा वाव षड्देवता इदं सर्वमभूवन्नुप तज्जानीत यथा
वयमिहाप्यसामेति तेऽब्रुवंश्चेतग्रध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत
यथा वयमिहाप्यसामेति तेषां चेतयमानानां देवा द्वितीयां
चितिमपश्यन्नृषयश्चतुर्थीम्

६.२.३.[८]

तेऽब्रुवन् । उप वयमायामेति केनेति यदेषु लोकेषूपेति तथेति तद्यदूर्ध्वम्
पृथिव्या अर्वाचीनमन्तरिक्षात्तेन देवा उपायंस्तदेषा द्वितीया चितिरथ
यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तेनऽर्षय उपायंस्तदेषा चतुर्थी चितिः

६.२.३.[९]

ते यदब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना
अपश्यंस्तस्माच्चितयः

६.२.३.[१०]

प्रजापतिः प्रथमां चितिमपश्यत् । प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां
चितिमपश्यन्देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां
चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या
आर्षेयं परमेष्ठी पञ्चमीं चितिमपश्यत्परमेष्ठ्येव तस्या आर्षेयं स यो
हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य बन्धुमत्यश्चितयो भवन्ति

६.३.१.[१]

एतद्वै देवा अब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां
चेतयमानानां सवितैतानि सावित्राण्यमपश्यद्यत्सवितापश्यत्तस्मात्सावित्राणि स
एतामष्टागृहीतामाहुतिमजुहोत्तां
हुत्वेमामष्ठधाविहितामषाढामपश्यत्पुरैव सृष्टां सतीम्

६.३.१.[२]

ते यदब्रुवन् चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना
अपश्यंस्तस्माच्चितिराहुतिर्वै यज्ञो यदिष्ट्वापश्यत्तस्मादिष्टका

६.३.१.[३]

तां वा एताम् । एकं सतीमष्टागृहीतामष्टाभिर्यजुर्भिर्जुहोति तस्मादियमेका
सत्यष्टधाविहिता

६.३.१.[४]

तामूर्ध्वामुद्गृह्णन्जुहोति । इमां तदूर्ध्वां रूपैरुद्गृह्णाति तस्मादियमूर्ध्वा
रूपैः

६.३.१.[५]

तां संततां जुहोति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि नाष्ट्रा
नान्ववेयुरिति त एतं संततहोममपश्यन्रक्षसां नाष्ट्राणामनन्ववायनाय
तस्मात्संततां जुहोति

६.३.१.[६]

यद्वेवैतामाहुतिं जुहोति । सवितैषोऽग्निस्तमेतयाहुत्या पुरस्तात्प्रीणाति तमिष्ट्वा
प्रीत्वाथैनं सम्भरति तद्यदेतया सवितारं प्रीणाति तस्मासावित्राणि तस्माद्वा
एतामाहुतिं जुहोति

६.३.१.[७]

यद्वेवैतामाहुतिं जुहोति । सवितैषोऽग्निस्तमेतयाहुत्या पुरस्ताद्रेतो भूतं सिञ्चति
यादृगुऐ योनौ रेतः सिच्यते तादृग्जायते तद्यदेतया सवितारं रेतो भूतं सिञ्चति
तस्मात्सावित्राणि तस्माद्वा एतामाहुतिं जुहोति

६.३.१.[८]

स्रुवश्चात्र स्रुक्च प्रजुज्येते । वाग्वै स्रुक्प्राणः स्रुवो वाचा च वै प्राणेन चैतदग्रे
देवाः कर्मान्वैचंस्तस्मात्स्रुवश्च स्रुक्च

६.३.१.[९]

यद्वेव स्रुवश्च स्रुक्च । यो वै स प्रजापतिरासीदेष स स्रुवः प्राणो वै स्रुवः
प्राणः प्रजापतिरथ या सा वागासीदेषा सा स्रुग्योषा वै वाग्योषा स्रुगथ यास्ता आप
आयन्वाचो लोकादेतास्ता यामेतामाहुतिं जुहोति

६.३.१.[१०]

तां संततां जुहोति । संतता हि ता आप आयन्नथ यः स प्रजापतिस्त्रय्या विद्यया
सहापः प्राविशदेष स यैरेतद्यजुर्भिर्जुहोति

६.३.१.[११]

तद्यानि त्रीणि प्रथमानि । इमे ते लोका अथ यच्चुतुर्थं यजुस्त्रयी सा विद्या जगती सा
भवति जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि त्रयी विद्याथ यानि चत्वार्युत्तमानि
दिशस्तानीमे च वै लोका दिशश्च प्रजापतिरथैषा त्रयी विद्या

६.३.१.[१२]

स जुहोति । यञ्जानः प्रथमं मन इति प्रजापतिर्वै युञ्जानः स मन एतस्मै
कर्मणे युङ्क्त तद्यन्मन एतस्मै कर्मणेऽयुङ्क्त तस्मात्प्रजापतिर्युञ्जानः

६.३.१.[१३]

तत्वाय सविता धिय इति । मनो वै सविता प्राणा धियो
ऽग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति पृथिव्यै
ह्येनदध्याभरति

६.३.१.[१४]

युक्तेन मनसा वयमिति । मन एवैतदेतस्मै कर्मणे युङ्क्ते न ह्युयुक्तेन
मनसा किं चन सम्प्रति शक्नाति कर्तुं देवस्य सवितुः सव इति देवेन सवित्रा
प्रसूता इत्येतत्स्वर्ग्याय शक्त्येति यथैतेन कर्मणा स्वर्गं लोकमियादेवमेतदाह
शक्त्येति शक्त्या हि स्वर्गं लोकमेति

६.३.१.[१५]

युक्त्वाय सविता देवानिति । मनो वै सविता प्राणा देवाः स्वर्यतो धिया दिवमिति
स्वर्गं हैनांलोकं यतो धियैतस्मै कर्मणे युयुजे बृहज्ज्योतिः करिष्यत इत्यसौ
वा आदित्यो बृहज्ज्योतिरेष उ एषोऽग्निरेतम्वेते संस्करिष्यन्तो भवन्ति सविता
प्रसुवाति तानिति सवितृप्रसूता एतत्कर्म करवन्नित्येतत्

६.३.१.[१६]

युञ्जते मन उत युञ्जते धिय इति । मनश्चैवैतत्प्राणाश्चैतस्मै कर्मणे युङ्क्ते
विप्रा विप्रस्येति प्रजापतिर्वै विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै
बृहन्विपश्चिद्वि होत्रा दध इति यद्वा एष चीयते तदेष होत्रा विधत्ते चिते
ह्येतस्मिन्होत्रा अधिविधीयन्ते वयुनाविदित्येष हीदं वयुनमविन्ददेक इदित्येको
ह्येष इदं सर्वं वयुनमविन्दन्मही देवस्य सवितुः परिष्टुतिरिति महती
देवस्य सवितुः परिष्टुतिरित्येतत्

६.३.१.[१७]

युजे वां ब्रह्म पूर्व्यं नमोभिरिति । प्राणो वै ब्रह्म पूर्व्यमन्नं
नमस्तत्तदेषैवाहुतिरन्नमेतयैव तदाहुत्यैतेन् सूरेरिति यथोभयेषु
देवमनुष्येषु कीर्तिश्लोको यजमानसान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते वि श्लोक
एतु पथ्येवय स्यादेवमेतदाह शृण्वन्तु विश्वे अमृतस्य पुत्रा इति प्रजापतिर्वा
अमृतस्तस्य विश्वे देवाः पुत्रा आ ये धामानि दिव्यानि तस्थुरितीमे वै लोका दिव्यानि
धामानि तद्य एषु लोकेषु देवास्तानेतदाह

६.३.१.[१८]

यस्य प्रयाणमन्वन्य इद्ययुरिति । प्रजापतिर्वा एतदग्रे कर्माकरोत्तत्ततो देवा
अकुर्वन्देवा देवस्य महिमानमोजसेति यज्ञो वै महिमा देवा देवस्य यज्ञं
वीर्यमोजसेत्येतद्यः पार्थिवानि विममे स एतश इति यद्वै किं चास्यां तत्पार्थिवं
तदेष सर्व विमिमीते रश्मिभिर्ह्येनदभ्यवतनोति रजांसि देवः सविता
महित्वनेतीमे वै लोका रजांस्यसावादित्यो देवः सविता तानेष महिम्ना विमिमीते

६.३.१.[१९]

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति । असौ वा आदित्यो देवः
सविता यज्ञो भगस्तमेतदाह प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति दिव्यो
गन्धर्वः केतपूः केतं नः पुनात्वित्यसौ वा आदित्यो दिव्यो गन्धर्वोऽन्नं केतो
ऽन्नपूरन्नं नः पुनात्वित्येतद्वाचस्पतिर्वाचं नः स्वदत्विति वाग्वा इदं कर्म
प्राणो वाचस्पतिः प्राणो न इदं कर्म स्वदत्वित्येतत्

६.३.१.[२०]

इमं नो देव सवितर्यज्ञं प्रणयेति । असौ वा आदित्यो देवः सविता यदु वा एष
यज्ञियं कर्म प्रणयति तदनार्तं स्वस्त्युदृचमश्नुते देवाव्यमिति यो
देवानवदित्येतत्सखिविदं सत्राजितं धनजितं स्वर्जितमिति य एतत्सर्वं
विन्दादित्येतदृचेत्यृचा स्तोमं समर्धय गायत्रेण रथन्तरम्
बृहद्गायत्रवर्तनीति सामानि स्वाहेति यजूंषि सैषा त्रयी विद्या प्रथमं जायते
यथैवादोऽमुत्राजायतैवमथ यः सोऽग्निरसृज्यतैष स योऽत ऊर्ध्वमग्निश्चीयते

६.३.१.[२१]

तान्येतान्यष्टौ सावित्राणि । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि नव भवन्ति स्वाहाकारो नवमो
नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्रेतो भूतं सिञ्चति तानि दश भवन्त्याहुतिर्दशमी दशाक्षरा
विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति

६.३.१.[२२]

एतस्यामाहुत्यां हुतायाम् । अग्निर्देवेभ्य उदक्रामत्ते देवा अब्रुवन्पशुर्वा अग्निः
पशुभिरिममन्विच्छाम स स्वाय रूपायाविर्भविष्यतीति तं पशुभिरन्वैच्छन्त्स
स्वाय रूपायाविरभवत्तस्मादु हैतत्पशुः स्वाय रूपायाविर्भवति ग

६.३.१.[२३]

तेऽब्रुवन् । यद्यह सर्वैरन्वेषिष्यामो यातयामा अनुपजीवनुर्वा गवेऽश्वो
वाश्वाय पुरुषो वा पुरुषाय ईया भविष्यन्ति यद्यु असर्वैरसर्वमनुवेत्स्याम इति
त एतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन्रासभं गोश्चावेश्च
तद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यंस्तस्मादेष एकः
सन्द्विरेताः

६.३.१.[२४]

अनद्धापुरुषं पुरुषात् । एष ह वा अनद्धापुरुषो यो न देवानवति न पितॄन्न
मनुष्यांस्तत्सर्वैरह पशुभिरन्वैच्छन्नो यातयामा अनुपजीवनीया अभवन्

६.३.१.[२५]

त्रिभिरन्विच्छति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति
पञ्च सम्पदा भवन्ति पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.३.१.[२६]

ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति । अग्निर्देवेभ्य उदक्रामत्स मुञ्जम्
प्राविशत्तस्मात्स सुषिरस्तस्माद्वेवान्तरतो धूमरक्त इव सैषा
योनिरग्नेर्यन्मुञ्चोऽग्निरिमे पशवो न वै योनिर्गर्भं हिनस्त्याहिंसायै योनिर्वै
जायमानो जायते योनेर्जायमानो जायाता इति

६.३.१.[२७]

त्रिवृतो भवन्ति । त्रिवृद्ध्यग्निरश्वाभिधानीकृता भवन्ति सर्वतो वा अश्वाभिधानी
मुखं परिशेते सर्वतो योनिर्गर्भं परिशेते योनिरूपमेतत्क्रियते

६.३.१.[२८]

ते प्राञ्चस्तिष्ठन्ति । अश्वः प्रथमोऽथ रासभोऽथाज एवं ह्येतेऽनुपूर्वं यद्वै
तदश्रु सक्षरितमासीदेष सोऽश्वोऽथ यत्तदरसदिवैष रासभोऽथ यः स कपाले
रसो लिप्त आसीदेष सोऽजोऽथ यत्तत्कपालमासीदेषा सा मृद्यामेतदाहरिष्यन्तो
भवन्त्येतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति

६.३.१.[२९]

ते दक्षिणतस्तिष्ठन्ति । एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं दक्षिणतो रक्षांसि
नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषो
ऽश्वस्त एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रा एतं
यज्ञमतन्वत तथैवैतद्यजमान एतेन वज्रेण दक्षिणतो रक्षांसि नाष्ट्रा
अपहत्याभयेऽनाष्ट्रा एतं यज्ञं तनुते

६.३.१.[३०]

दक्षिणत आहवनीयो भवति । उत्तरत एषाभ्रिरुपशेते वृषा वा आहवनीयो
योषाभ्रिर्दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्निमात्राद्धि वृषा
योषामुपशेते

६.३.१.[३१]

सा वैणवी स्यात् । अग्निर्देवेभ्य उदक्रामत्स वेणुं प्राविशत्तस्मात्स सुषिरः स एतानि
वर्माण्यभितोऽकुरुत पर्वाण्यननुप्रज्ञानाय यत्रयत्र निददाह तानि
कल्माषाण्यभवन्

६.३.१.[३२]

सा कल्माषी स्यात् । सा ह्याग्नेयी यदि कल्माषीं न विन्देदप्यकल्माषी स्यात्सुषिरा तु
स्यात्सैवाग्नेयी सैषा योनिरग्नेर्यद्वेणुरग्निरियं मृन्न वै योनिर्गर्भं
हिनस्त्यहिंसायै योनेर्वै जायमानो जायते योनेर्जायमानो जायाता इति

६.३.१.[३३]

प्रादशमात्री स्यात् । प्रादेशमात्रं हीदमभि वाग्वदत्यरत्निमात्री त्वेव भवति
बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते वीर्यसम्मितैव तद्भवति

६.३.१.[३४]

अन्यतःक्ष्णुत्स्यात् । अन्यतररो हीदं वाचः क्ष्णुतमुभयतःक्ष्णुत्त्वेव
भवत्युभयतो हीदं वाचः क्ष्णुतं यदेनया दैवं च वदति मानुषं चाथो
यत्सत्यं चानृतं च तस्मादुभयतःक्ष्णुत्

६.३.१.[३५]

यद्वेवोभयतःक्ष्णुत् । अतो वा अभ्रेर्वीर्यं यतोऽस्यै क्ष्णुतमुभयत
एवास्यामेतद्वीर्यं दधाति

६.३.१.[३६]

यद्वेवोभयतःक्ष्णुत् । एतद्वा एनं देवा अनुविद्यैभ्यो लोकेभ्यो
ऽखनस्तथैवैनमयमेतदनुविद्यैभ्यो लोकेभ्यः खनति

६.३.१.[३७]

स यदिति खनति । तदेनमस्माल्लोकात्खनत्यथ यदूर्ध्वोच्चरति
तदमुष्माल्लोकादथ यदन्तरेण संचरति तदन्तरिक्षलोकात्सर्वेभ्य
एवैनमेतदेभ्या लोकेभ्यः खनति

६.३.१.[३८]

तामादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां वितृप्रसूत
एवैनामेतदेताभिर्देवताभिरादत्ते गायत्रेणपूष्णो हस्ताभ्यामाददे गायत्रेण
च्छन्दसाङ्गिरस्वदिति स च्छन्दसाथो अस्यां गायत्रं च्छन्दो दधाति पृथिव्याः
सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरेति पशवो वै पुरीषं पृथिव्या
उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत्त्रैष्टुभेन च्छन्दसाङ्गिरस्वदिति
तदेनां त्रैष्टुभेन च्छन्दसादत्तेऽथो अस्यां त्रैष्टुभं च्छन्दो दधाति

६.३.१.[३९]

अभ्रिरसीति । अभ्रिर्ह्येषा तदेनं सत्येनादत्ते नार्यसीति वज्रो वा अभ्रिर्योषा नारी न
वै योषा कं चन हिनस्ति शमयत्येवैनामेतदहिंसायै त्वया वयमग्निं शकेम
खनितुं सधस्थ एतीदं वै सधस्थं त्वया वयमग्निं शकेम
खनितुमस्मिन्त्सधस्थ इत्येतज्जागतेन च्छन्दसाङ्गिरस्वदिति तदेनां जागतेन
च्छन्दसादत्तेऽथो अस्यां जागतं च्छन्दो दधाति

६.३.१.[४०]

त्रिभिरादत्ते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदादत्ते
त्रिभिरादायाथैनां चतुर्थेनाभिमन्त्रयत एतद्वा एनां देवास्त्रिभिरादायाथास्यां
चतुर्थेन वीर्यमदधुस्तथैवैनामयमेतत्त्रिभिरादायाथास्यां चतुर्थेन
वीर्यं दधाति

६.३.१.[४१]

हस्त आधाय सवितेति । हस्ते ह्यस्याहिता भवति बिभ्रदभ्रिमिति बिभर्ति ह्येनां
हिरण्ययीमिति हिरण्मयी ह्येषा या
च्छन्दोमय्यग्नेर्ज्योतिर्निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत्पृथिव्या अध्याभरदिति
पृथिव्यै ह्येनदध्याभरत्यानुष्टुभेन च्छन्दसाङ्गिरस्वदिति
तदेनामानुष्टुभेन च्छन्दसादत्तेऽथो अस्यामानुष्टुभं च्छन्दो दधाति
तान्येतान्येव छन्दांस्येषाभ्रिरारम्भायैवेयं वैणवी क्रियते

६.३.१.[४२]

तां हैके हिरण्मयीं कुर्वन्ति । हिरण्ययीति वा अभ्युक्तेति न तथा कुर्याद्यद्वा एषा
छन्दांसि तेनैषा हिरण्यममृतं हिरण्यममृतानि छन्दांसि

६.३.१.[४३]

तां चतुर्भिरादत्ते । चतुरक्षरा वै सर्वा वाग्वागित्येकमक्षरमक्षरमिति
त्र्यक्षरं तद्यत्तद्वागित्येकमक्षरं यैवैषानुष्टुबुत्तमा सा साथ
यदक्षरमिति त्र्यक्षरमेतानि तानि पूर्वाणि यजूंषि सर्वयैवैतद्वाचाग्निं खनति
सर्वया वाचा सम्भरति तस्माच्चतुर्भिः

६.३.१.[४४]

यद्वेव चतुर्भिः । चतस्रो वै दिशश्चतसृषु तद्दिक्षु वाचं दधाति तस्माच्चतसृषु
दिक्षु वाग्वदति च्छन्दोभिश्च यजुर्भिश्चादत्ते तदष्टौ चतस्रो दिशश्चतस्रो
ऽवान्तरदिशः सर्वासु तद्दिक्षु वाचं दधाति तस्मात्सर्वासु दिक्षु वाग्वदति

६.३.२.[१]

हस्त एषाभ्रिर्भवत्यथ पशूनभिमन्त्रयते । एतद्वा एषु देवा अन्वेषिष्यन्तः
पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतदन्वेषिष्यन्पुरस्ताद्वीर्यं दधाति
६.३.२.[२]

सोऽश्वमभिमन्त्रयते । प्रतुर्तं वाजिन्नाद्रवेति यद्वै क्षिप्रं तत्तूर्तमथ
यत्क्षिप्रात्क्षेपीयस्तत्प्रतूर्त वरिष्ठामनु संवतमितीयं वै वरिष्ठा
संवदिमामनु संवतमित्येतद्दिवि ते जन्म परममन्तरिक्षे तव नाभिः
पृथिव्यामधि योनिरिदिति तदेनमेता देवताः करोत्यग्निं वायुमादित्यं तदश्वे
वीर्यं दधाति

६.३.२.[३]

अथ रासभम् । युञ्जाथां रासभं युवमित्यध्वर्युं चैतद्यजमानं
चाहास्मिन्यामे वृषण्वसू इत्यस्मिन्कर्मणि वृषण्वसू इत्येतदग्निम्
भरन्तमस्मयुमित्यग्निं भरन्तमस्मत्प्रेषितमित्येतत्तद्रासभे वीर्यं
दधाति

६.३.२.[४]

अथाजम् । योगेयोगे तवस्तरं वाजेवाजे हवामह इत्यन्नं वै वाजः
कर्मणिकर्मणि तवस्तरमन्नेऽन्ने हवामह इत्येतत्सखाय इन्द्रमूतय
इतीन्द्रियवन्तमूतय इत्येतत्तदजे वीर्यं दधाति

६.३.२.[५]

त्रिभिरभिमन्त्रयते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैष्वेतद्वीर्यं दधाति

६.३.२.[६]

अथैनान्प्राच उत्क्रमयति । तदेनमेतैः पशुभिरन्विच्छति नोपस्पृशत्यग्निरेष
यत्पशवो नेन्मायमग्निर्हिनसदिति

६.३.२.[७]

सोऽश्वमुत्क्रमयति । प्रतूर्वन्नेह्यवक्रामन्नशस्तीरेति पाप्मा वा अशस्तिस्त्वरमाण
एह्यवक्रामन्पाप्मानमित्येतद्रुद्रस्य गाणपत्यं मयोभूरेहीति रौद्रा वै
पशवो या ते देवता तस्यै गाणपत्यं मयोभूरेहीत्येतत्तदेनमश्वेनान्विच्छति

६.३.२.[८]

अथ रासभम् । उर्वन्तरिक्षं वीहि स्वस्तिगव्यूतिरभयानि कृण्वन्निति यथैव
यजुस्तथा बन्धुः पूष्णा सयुजा सहेतीयं वै पूषानया सयुजा सहेत्येतत्तदेनं
रासभेनान्विच्छति

६.३.२.[९]

अथाजम् । पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभरेति पृथिव्या
उपस्थादग्निं पशव्यमग्निवदाभरेत्येतत्तदेनमजेनान्विच्छति

६.३.२.[१०]

त्रिभिरन्विच्छति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्विच्छति
त्रिभिः पुरस्तादभिमन्त्रयते तत्षट्षडृतवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.३.३.[१]

प्रदीप्ता एतेऽग्नयो भवन्ति । अथ मृदमच्छयन्तीमे वै लोका एतेऽग्नयस्ते यदा
प्रदीप्ता अथैत इमे लोकाः पुरो वा एतदेभ्यो लोकेभ्यो >ग्रे देवाः
कर्मान्वैचंस्तद्यदेतानग्नीनतीत्य मृदमाहरति तदेनं पुरैभ्यो लोकेभ्यो
ऽन्विच्छति

६.३.३.[२]

प्राञ्चो यन्ति । प्राची हि दिगग्नेः स्वायामेवैनमेतद्दिश्यन्विच्छति स्वायां दिशि विन्दति

६.३.३.[३]

ते प्रयन्ति । अग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्यग्निं पशव्यमग्निवदच्छेम
इत्येतत्

६.३.३.[४]

अथानद्धापुरुषमीक्षते । अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इत्यग्निम्
पशव्यमग्निवद्भरिष्याम इत्येतत्तदेनमनद्धापुरुषेणान्विच्छति

६.३.३.[५]

अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति । तामन्वीक्षत इयं वै
वल्मीकुवपेयमु वा इमे लोका एतद्वा एनं देवा एषु लोकेषु
विग्राहमैचंस्तथैवैनमयमेतदेषु लोकेषु विग्राहमिच्छति
६.३.३.[६]

अन्वग्निरुषसामग्रमख्यदिति । तदेनमुषःस्वैच्छन्नन्वहानि प्रथमो जातवेदा
इति तदेनमहःस्वैच्छन्ननु सूर्यस्य रुरुत्रा च रश्मीनिति तदेनं सूर्यस्य
रश्मिष्वैच्छन्ननु द्यावापृथिवी आततन्थेति तदेनं
द्यावापृथिव्योरैचंस्तमविन्दंस्तथैवैनमयमेतद्विन्दति तं यदा
परापश्यत्यथ तामवास्यत्यागच्छन्ति मृदम्

६.३.३.[७]

अथाश्वमभिमन्त्रयते । एतद्वै देवा अब्रुवन्पाप्मानमस्यापहनामेति श्रमो वै
पाप्मा श्रममस्य पाप्मानमपहनामेति तस्य श्रमम्
पाप्मानमपाघ्नंस्तथैवास्यायमेतच्रमं पाप्मानमपहन्ति

६.३.३.[८]

आगत्य वाज्यध्वानमिति । आगतो ह्यस्याध्वा भवति सर्वा मृधो विधूनुत इति पाप्मा
वै मृधः सर्वान्पाप्मनो विधूनुत इत्येतत्तस्मादु हैतदश्वः स्यन्त्त्वा विधूनुते
ऽग्निं सधस्थे महति चक्षुषा निचिकीष इतीदं वै
महत्सधस्थमग्निमस्मिन्महति सधस्थे चक्षुषा दिदृक्षत इत्येतत्

६.३.३.[९]

अथैनमाक्रमयति । एतद्वा एष एतं देवेभ्योऽनुविद्य
प्राबवीद्यथायमिहेवेत्येवम्

६.३.३.[१०]

यद्वेवाक्रमयति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षां सि नाष्ट्रा न
हन्युरिति तस्मा एतं वज्रमुपरिष्टदभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा
आदित्य एषोऽश्वस्तथैवास्मा अयमेतं वज्रमुपरिष्टादभिगोप्तारं करोति

६.३.३.[११]

आक्रम्य वाजिन् । पृथिवीमग्निमिच्छ रुचा त्वमिति चक्षुर्वै रुगाक्रम्य त्वं
वाजिन्पृथिवीमग्निमिच्छ चक्षुषेत्येतद्भूम्या वृत्त्वाय नो ब्रूहि यतः खनेम तं
वयमिति भूमेस्तत्स्पाशयित्वाय नो ब्रूहि यत एनं खनेमेत्येतत्

६.३.३.[१२]

अथैनमुन्मृशति । एतद्वा एनं देवाः प्रोचिवांसं वीर्येण
समार्धयंस्तथैवैनमयमेतत्प्रोचिवांसं वीर्येण समर्धयति द्यौस्ते
पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षं समुद्रो
योनिरितीत्थमसीत्थमसीत्येवैतदाह विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत
इति विख्याय चक्षुषा त्वमभितिष्ठ सर्वान्पाप्मन इत्येतन्नोपस्पृशति वज्रो वा
अश्वो नेन्मायं वज्रो हिनसदिति

६.३.३.[१३]

अथैनमुत्क्रमयति । एतद्वै देवा अब्रुवन्किमिममभ्युत्क्रमिष्याम इति
महत्सौभगमिति तम्
महत्सौभगमभ्युदक्रमयंस्तथैवैनमयमेतन्महत्सौभगमभ्युत्क्र्
अमयत्युत्क्राम महते सौभगायेत्युत्क्राम महत्ते सौभगमित्येतत्तस्मादु
हैतदश्वः पशूनां भगितमोऽस्मादास्थानादिति यत्रैतत्तिष्ठसीत्येतद्द्रविणोदा इति
द्रविणं ह्येभ्यो ददाति वाजिन्निति वाजी ह्येष वयं स्याम सुमतौ पृथिव्या अग्निं
खनन्त उपस्थे अस्या इति वयमस्मै पृथिव्यै सुमतौ स्यामाग्निमस्या उपस्थे
खनन्त इत्येतत्

६.३.३.[१४]

अथैनमुत्क्रान्तमभिमन्त्रयते । एतद्वा एनं देवाः प्रोचिवांसं यथा ददिवांसं
वन्देतैवमुपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्युद्
अक्रमीदित्युद्ध्यक्रमीद्द्रविणोदा इति द्रविणं ह्येभ्यो ददाति वाज्यर्वेति वाजी च
ह्येषोऽर्वा चाकः सुलोकं सुकृतं पृथिव्यामित्यकरः सुलोकं सुकृतम्
पृथिव्यामित्येतत्ततः खनेम सुप्रतीकमग्निमिति तत एनं
खनेमेत्येतत्सुप्रतीकमिति सर्वतो वा अग्निः सुप्रतीकः स्वो रुहाणा अधि
नाकमुत्तममिति स्वर्गो वै लोको नाकः स्वर्गं लोकं रोहन्तोऽधि
नाकमुत्तममित्येतत्तं दक्षिणोपसंक्रमयति यत्रेतरौ पशू भवतस्ते
दक्षिणतः प्राञ्चस्तिष्ठन्ति स य एवामुत्र दक्षिणत स्थानस्य बन्धुः सोऽत्र

६.३.३.[१५]

अथोपविश्य मृदमभिजुहोति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्रतेति
वाव तदब्रुवंस्ते चेतयमाना एतामाहुतिमपश्यंस्तामजुहवुस्तां
हुत्वेमांलोकानुखामपश्यन्

६.३.३.[१६]

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना एतां
द्वितीयामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वा विश्वज्योतिषोऽपश्यन्नेता देवता अग्निं
वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्तथैवैतद्यजमान एते आहुती
हुत्वेमांश्च लोकानुखां पश्यत्येताश्च देवता विश्वज्योतिषो व्यतिषक्ताभ्यां
जुहोतीमांश्च तल्लोकानेताश्च देवता व्यतिषजति

६.३.३.[१७]

यद्वेवैते आहुती जुहोति । मृदं च तदपश्च प्रीणाति ते इष्ट्वा प्रीत्वाथैने सम्भरति
व्यतिषक्ताभ्यां जुहोति मृदं च तदपश्च व्यतिषजति
६.३.३.[१८]

आज्येन जुहोति । वज्रो वा आज्यं वज्रमेवास्मा एतदभिगोप्तारं करोत्यथो रेतो वा
आज्यं रेत एवैतत्सिञ्चति स्रुवेण वृषा वै स्रुवो वृषा वै रेतः सिञ्चति स्वाहाकारेण
वृषा वै स्वाहाकारो वृषा वै रेतः सिञ्चति

६.३.३.[१९]

आ त्वा जिघर्मि मनसा घृतेनेति । आ त्वा जुहोमि मनसा च घृतेन
चेत्येतत्प्रतिक्षियन्तं भुवनानि विश्वेति प्रत्यङ्ह्येष सर्वाणि भुवनानि क्षियति
पृथुं तिरश्चा वयसा बृहन्तमिति पृथुर्वा एष तिर्यङ्वयसो बृहन्धूमेन
व्यचिष्ठमन्ने रभसं दृशानमित्यवकाशवन्तमन्नैरन्नादं
दीप्यमानमित्येतत्

६.३.३.[२०]

आ विश्वतः प्रत्यञ्चं जिघर्मीति । आ सर्वतः प्रत्यञ्चं जुहोमीत्येतदरक्षसा
मनसा तज्जुषेतेत्यहीडमानेन मनसा तज्जोषयेतेत्येतन्मर्यश्री स्पृहयद्वर्णो
अग्निरिति मर्यश्रीर्ह्येष स्पृहयद्वर्णोऽग्निर्नाभिमृशे तन्वा जर्भुराण इति न ह्येषो
ऽभिमृशे तन्वा दीप्यमानो भवति

६.३.३.[२१]

द्वाभ्यामभिजुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेततद्रेतो भूतं सिञ्चत्याग्नेयीभ्यामग्निमेवैतद्रेतो भूतं सिञ्चति
ते यदाग्नेय्यो तेनाग्निरथ यत्त्रिष्टुभौ तेनेन्द्र ऐन्द्राग्नो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चतीन्द्राग्नी वै
सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो
भूतं सिञ्चति

६.३.३.[२२]

अश्वस्य पदे जुहोति । अग्निरेष यदश्वस्तथो हास्यैते अग्निमत्येवाहुती हुते भवतः

६.३.३.[२३]

अथैनं परिलिखति । मात्रामेवास्मा एतत्करोति यथैतावानसीत्येवम्

६.३.३.[२४]

यद्वेवैनं परिलिखति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा
न हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरम्
परिश्रयत्यभ्र्या वज्रो वा अभ्रिर्वज्रमेवास्मा एतदभिगोप्तारं करोति सर्वतः
परिलिखति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिलिखति
त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोति

६.३.३.[२५]

परि वाजपतिः कविः । परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरित्यग्निमेवास्मा
एतदुपस्तुत्य वर्म करोति परिवतीभिः परीव हि पुर आग्नेयीभिरग्निपुरामेवास्मा
एतत्करोति सा हैषाग्निपुरा दीप्यमाना तिष्ठति तिसृभिस्त्रिपुरमेवास्मा एतत्करोति
तस्मादु हैतत्पुरां परमं रूपं यत्त्रिपुरं सवै वर्षीयसावर्षीयसा च्छन्दसा
पराम्परां लेखां वरीयसीं करोति तस्मात्पुरां परापरा वरीयसी लेखा भवन्ति
लेखा हि पुरः

६.३.३.[२६]

अथैनमस्यां खनति । एतद्वै देवा अबिभयुर्यद्वै न इममहि रक्षांसि नाष्ट्रा
न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्मात्मानं गोप्स्यतीति सा
समम्बिला स्यात्तदस्येयमात्मा भवति यद्वेव समंबिला योनिर्वा इयं रेत इदं
यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै
रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष भवति चतस्रो वै दिशः
सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति

६.४.१.[१]

अथैनमतः खनत्येव । एतद्वा एनं देवा
अनुविद्याखनस्तथैवैनमयमेतदनुविद्य खनति देवस्य त्वा सवितुः प्रसवे
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थादग्निम्
पुरीष्यमङ्गिरस्वत्खनामीति सवितृप्रसूत एवैनमेतदेताभिर्देवताभिः पृथिव्या
उपस्थादग्निं पशव्यमग्निवत्खनति

६.४.१.[२]

ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति । ज्योतिष्मान्वा अयमग्निः सुप्रतीकोऽजस्रेण
भानुना दीद्यतमित्यजस्रेणार्चिषा दीप्यमानमित्येतच्छिवं प्रजाभ्योऽहिंसन्तम्
पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वत्खनाम इति शिवं प्रजाभ्यो
ऽहिंसन्त पृथिव्या उपस्थादग्निं पशव्यमग्निवत्खनाम इत्येतत्

६.४.१.[३]

द्वाभ्यां खनति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्खनत्यथो द्वयं ह्येवैतद्रूपं मृच्चापश्च

६.४.१.[४]

स वै खनामि खनाम इति खनति । खनामीति वा एत प्रजापतिरखनत्खनाम इति
देवास्तस्मात्खनामि खनाम इति

६.४.१.[५]

स वा अभ्र्या खनन् । वाचा खनामि खनाम इत्याह वाग्वा अभ्रिरारम्भायैवेयं
वैणवी क्रियते वाचा वा एतमभ्र्या देवा अखनंस्तथैवैनमयमेतद्वाचैवाभ्र्या
खनति

६.४.१.[६]

अथैनं कृष्णाजिने सम्भरति । यज्ञा वै कृष्णाजिनं यज्ञएवैनमेतत्सम्भरति
लोमतश्चन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरति तत्तूष्णीमुपस्तृणाति
यज्ञो वै कृष्णाजिनं प्रजापतिर्वै यज्ञोऽनिरुक्तो वै प्रजापतिरुत्तरतस्तस्योपरि
बन्धुः प्राचीनग्रीवे तद्धि देवत्रा

६.४.१.[७]

अथैन पुष्करपर्णे सम्भरति । योनिर्वै पुष्करपर्णं योनौ तद्रेतः सिञ्चति
यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु भवति तन्मन्त्रेणोपस्तृणाति वाग्वै मन्त्रो
वाक्पुष्करपर्णम्

६.४.१.[८]

अपां पृष्ठमसि योनिरग्नेरिति । अपां ह्येतत्पृष्ठं योनिर्ह्येतदग्नेः
समुद्रमभितः पिन्वमानमिति समुद्रो ह्येतदभितः पिन्वते वर्धमानो
महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया
वरिम्णा पथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषोऽग्निर्नो हैतमन्यो दिवो वरिमा
यन्तुमर्हति द्यौर्भूत्वनं यच्छेत्येवैतदाह

६.४.१.[९]

तदुत्तरं कृष्णाजिनादुपस्तृणाति । यज्ञो वै कृष्णाजिनमियं वै कृष्णाजिनमियमु वै
यज्ञोऽस्यां हि यज्ञस्तायते द्यौष्पुष्करपर्णमापो वै द्यौरापः
पुष्करपर्णमुत्तरो वा असावस्यै

६.४.१.[१०]

अथैने अभिमृशति । संज्ञामेवाभ्यामेतत्करोति शर्म च स्थो वर्म च स्थ इति
शर्म च ह्यस्यैते वर्म चाच्छिद्रे बहुले उभे इत्यच्छिद्रे ह्येते बहुले उभे व्यचस्वती
संवसाथामित्यवकाशवती संवसाथामित्येतद्भृतमग्निं पुरीष्यमिति
बिभृतमग्निं पशव्यमित्येतत्

६.४.१.[११]

संवसाथां स्वर्विदा । समीची उरसा त्मनेति संवसाथामेनं स्वर्विदा समीची उरसा
चात्मना चेत्येतदग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमिदित्यसौ वा आदित्य
एषोऽग्निः स एष ज्योतिष्मानजस्रस्तमेते अन्तरा बिभृतस्तस्मादाह
ज्योतिष्मन्तमजस्रमिदिति

६.४.१.[१२]

द्वाभ्यामभिमृशति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवाभ्यामेतत्संज्ञां करोत्यथो द्वयं ह्येवैतद्रूपं कृष्णाजिनं च
पुष्करपर्ण च

६.४.२.[१]

अथ मृत्पिण्डमभिमृशति । पुरीष्योऽसीति पशव्योऽसीत्येतद्विश्वभरा इत्येष हीदं
सर्वं बिभर्त्यथर्वा त्वा प्रथमो निरमन्थदग्न इति प्राणो वा अथर्वा प्राणो वा
एतमग्रे निरमन्थत्तद्योऽसावग्रेऽग्निरसृज्यत सोऽसीति तदाह
तमेवैनमेतत्करोति

६.४.२.[२]

अथैनं परिगृह्णाति । अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतस्त्वामग्ने
पुष्करादध्यथर्वा निरमन्थतेत्यापो वै पुष्करं प्राणोऽथर्वा प्राणो वा
एतमग्रेऽद्भ्यो निरमन्थन्मूर्ध्नो विश्वस्य वाघत इत्यस्य सर्वस्य मूर्ध्न
इत्येतत्

६.४.२.[३]

तमु त्वा दध्यङ्ङृषिः । पुत्र ईधे अथर्वण इति वाग्वै दध्यङ्ङाथर्वणः स एनं
तत ऐन्द्ध वृत्रहणं पुरंदरमिति पाप्मा वै वृत्रः पाप्महनम्
पुरंदरमित्येतत्

६.४.२.[४]

तमु त्वा पाथ्यो वृषा । समीधे दस्युहन्तममिति मनो वै पाथ्यो वृषा स एनं
तत ऐन्द्ध धनंजयं रणेरण इति यथैव यजुस्तथा बन्धुः

६.४.२.[५]
गायत्रीभिः । प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति न्नेतद्दधाति तासां नव
पदानि नव वै प्राणाः सप्ततिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मि
शीर्षन्नवाञ्चो द्वौ तानेवास्मिन्नेतद्दधाति

६.४.२.[६]

अथैते त्रिष्टुभा उत्तरे भवतः । आत्मा वै त्रिष्टुबात्मानमेवास्यैताभ्यां
संस्करोति सीद होत स्व उ लोके चिकित्वानित्यग्निर्वै होता तस्यैष स्वो लोको
यत्कृष्णाजिनं चिकित्वानिति विद्वानित्येतत्सादया यज्ञं सुकृतस्य योनाविति कृष्णाजिनं वै
कुकृतस्य योनिर्देवावीर्देवान्हविषा यजासीति देवः सन्देवानवन्हविषा
यजासीत्येतदग्ने बृहद्यजमाने वयो धा इति यजमानायाशिषमाशास्ते

६.४.२.[७]

नि होता होतृषदने विदान इति । अग्निर्वै होता कृष्णाजिनं होतृषदनं विदान इति
विद्वानित्येतत्त्वेषो दीदिवां असदत्सुदक्ष इति त्वेषो दीप्यमानोऽसदत्सुदक्ष
इत्येतददब्धव्रतप्रमतिर्वसिष्ठ इत्यदब्धव्रतप्रमतिर्ह्येष वसिष्ठः
सहस्रम्भरः शुचिज्थ्वो अग्निरिति सर्वं वै सहस्रं सर्वम्भरः शुचिजिह्वो
ऽग्निरित्येतद्द्वाभ्यामाग्नेयीभ्यां त्रिष्टुब्भ्यां तस्योक्तो बन्धुः

६.४.२.[८]

अथैषा बृहत्युत्तमा भवति । बृहतीं वा एष संचितोऽभिसम्पद्यते यादृग्वै
योनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं करोति तस्मादेष संचितो
बृहतीमभिसम्पद्यते

६.४.२.[९]

संसीदस्व महां असीति । इदमेवैतद्रेतः सिक्तं संसादयति तस्माद्योनौ रेतः
सिक्तं संसीदति शोचस्व देववीतम इति दीप्यस्व देववीतम इत्येतद्वि धूममग्ने
अरुषं मियेध्य सृज प्रशस्त दर्शतमिति यदा वा एष समिध्यतेऽथैष
धूममरुषं विसृजते दर्शतमिति ददृश इव ह्येषः

६.४.२.[१०]

ताः षट्सम्पद्यन्ते । षदृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति यद्वेव संवत्सरमभिसम्पद्यते
तद्बृहतीमभिसम्पद्यते बृहती हि संवत्सरो द्वादश पौर्णमास्यो द्वादशाष्टका
द्वादशामावास्यास्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती तं दक्षिणत उदञ्चमाहरति
दक्षिणतो वा उदग्योनौ रेतः सिच्यत एषो अस्यैतर्हि योनिरविच्छेदमाहरति रेतसो
ऽविचेदाय

६.४.३.[१]
अथ तत्राप उपनिनयति । यद्वा अस्यै क्षतं यद्विलिष्टमद्भिर्वै तत्संधीयते
ऽद्भिरेवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति

६.४.३.[२]

अपो देवीरुपसृज । मधुमतीरयक्ष्माय प्रजाभ्य इति रसो वै मधु
रसवतीरयक्ष्मत्वाय प्रजाभ्य इत्येतत्तासामास्थानादुज्जिहतामोषधयः सुपिप्पला
इत्यपां वा आस्थानादुज्जिहत ओषधयः सुपिप्पलाः

६.४.३.[३]

अथैनां वायुना संदधाति । यद्वा अस्यै क्षतं यद्विलिष्टं वायुना वै
तत्संधीयते वायुनैवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति

६.४.३.[४]

सं ते वायुर्मातरिश्वा दधात्विति । अयं वै वायुर्मातरिश्वा योऽयं पवत उत्तानाया
हृदयं यद्विकस्तमित्युत्तानाया ह्यस्या एतद्धृदयं विकस्तं यो देवानां चरसि
प्राणथेनेत्येष हि सर्वेषां देवानां चरति प्राणथेन कस्मै देव वषडस्तु
तुभ्यमिति प्रजापतिर्वै कस्तस्मा एवैतदिमां वषट्करोति नो हैतावत्यन्याहुतिरस्ति
यथैषा

६.४.३.[५]

अथैनां दिग्भिः संदधाति । यद्वा अस्यै क्षतं यद्विलिष्टं दिग्भिर्वै
तत्संधीयते दिग्भिरेवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति स इमां चेमां
च दिशौ संदधाति तस्मादेते दिशौ संहिते अथेमां चेमां च तस्माद्वेवैते संहिते
इत्यग्रेऽथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रानयानया वै भेषजं क्रियते
ऽनयैवैनामेतद्भिषज्यति

६.४.३.[६]

अथ कृष्णाजिनं च पुष्करपर्णं च समुद्गृह्णाति । योनिर्वै पुष्करपर्णं योन्या
तद्रेतः सिक्तं समुद्गृह्णाति तस्माद्योन्या रेतः सिक्तं समुद्गृह्यते सुजातो ज्योतिषा
सह शर्म वरूथमासदत्स्वरिति सुजातो ह्येष ज्योतिषा सह शर्म चैतद्वरूथं च
स्वश्चासीदति

६.४.३.[७]

अथैनमुपनह्यति । योनौ तद्रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते
योक्त्रेण योक्त्रेण हि योग्यं युञ्जन्ति मौञ्जेन त्रिवृता तस्योक्तो बन्धुः
६.४.३.[८]

तत्पर्यस्यति । वासो अग्ने विश्वरूपं संव्ययस्व विभावसविति वरुण्या वै यज्ञे
रज्जुरवरुण्यमेवैनदेतत्कृत्वा यथा वासः परिधापयेदेवं परिधापयति

६.४.३.[९]

अथैनमादायोत्तिष्ठति । असौ वा आदित्य एषोऽग्निरमु तदादित्यमुत्थापयत्युदु
तिष्ठ स्वध्वरेत्यध्वरो वै यज्ञ उदु तिष्ठ सुयज्ञियेत्येतदवा नो देव्या धियेति
या ते दैवी धीस्तया नोऽवेत्येतद्दूशे च भासा बृहता सुशुक्वनिरिति दर्शनाय च
भासा बृहता सुशुक्वनिरित्येतदाग्ने याहि सुशस्तिभिरिति ये वोढारस्ते सुशस्तय आग्ने
याहि वोढृभिरित्येतत्

६.४.३.[१०]

अथैनमित ऊर्ध्वं प्राञ्चं प्रगृह्णाति । असौ वा आदित्य एषोऽग्निरमुं
तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयत
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति यथैव यजुस्तथा बन्धुरूर्ध्वो
वाजस्य सनितेत्यूर्ध्वो वा एष तिष्ठन्वाजमन्नं सनोति
यदञ्जिभिर्वाघद्भिर्विह्वयामह इति रश्मयो वा एतस्याञ्जयो वाघतस्तानेतदाह
परोबाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरति
तमुपावहृत्योपरिनाभि धारयति तस्योपरि बन्धुः

६.४.४.[१]

हस्त एष भवत्यथ पशूनभिमन्त्रयते । एतद्वा एषु देवाः सम्भरिष्यन्तः
पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतत्सम्भरिष्यन्पुरस्ताद्वीर्यं दधाति

६.४.४.[२]

सोऽश्वमभिमन्त्रयते । स जातो गर्भो असि रोदस्योरितीते वै द्यावापृथिवी रोदसी
तयोरेष जातो गर्भोऽग्ने चारुर्विभृत ओषधीष्विति सर्वासु ह्येष चारुर्विभृत
ओषधिषु चित्रः शिशुः परि तमांस्यक्तूनिति चित्रो वा एष शिशुः परेण
तमांस्यक्तूनतिरोचते प्र मातृभ्यो अधि कनिक्रदद्गा इत्योषधयो वा एतस्य
मातरस्ताभ्य एष कनिक्रदत्प्रैति तदश्वे वीर्यं दधाति

६.४.४.[३]

अथ रासभम् । स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्निति स्थिरश्च भव
वीड्वङ्गश्चाशुश्च भव वाजी चार्वन्नित्येतत्पृथुर्भव सुषदस्त्वमग्नेः
पुरीषवाहण इति पृथुर्भव सुशीमस्त्वमग्नेः पशव्यवाहन इत्येतत्तद्रासभे
वीर्यं दधाति

६.४.४.[४]

अथाजम् । शिखा भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिर इत्यङ्गिरा वा अग्निराग्नेयो
ऽजः शमयत्येवैनमेतदहिंसायै मा द्यावापृथिवी अभिशोचीर्मान्तरिक्षं मा
वनस्पतीनित्येतत्सर्वं मा हिंसीरित्येतत्तदजे वीर्यं दधाति

६.४.४.[५]

त्रिभिरभिमन्त्रयते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्य
दधाति

६.४.४.[६]

अथैनमेतेषां पशूनामुपरिष्टात्प्रगृह्णाति । तदेनमेतैः पशुभिः सम्भरति
नोपस्पृशति वज्रो वै पशवो रेत इदं नेदिदं रेतो वज्रेण हिनसानीत्यथो अग्निरयम्
पशव इमे नेदयमग्निरिमान्पशून्हिनसदिति

६.४.४.[७]

तमश्वस्योपरिष्टात्प्रगृह्णाति । प्रैतु वाजी कनिक्रददिति प्रैतु वाजी कनिक्रद्यमान
इत्येतन्नानदद्रासभः पत्वेति तदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं
दधाति भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरेति भरन्नग्निं पशव्य मो
अस्मात्कर्मणः पुरा पादीत्येतत्तदेनमश्वेन सम्भरति

६.४.४.[८]

अथ रासभस्य । वृषाग्निं वृषणं भरन्निति वृषा वा अग्निर्वृषा रासभः स वृषा
वृषाणं भरत्यपां गर्भं समुद्रियमित्यपां ह्येष गर्भः
समुद्रियस्तदेनं रासभेन सम्भरति

६.४.४.[९]

अथापादत्ते । अग्न आयाहि वीतय इत्यवितव इत्येतत्तदेनं ब्रह्मणा
यजुषैतस्माचौद्राद्वर्णादपादत्ते

६.४.४.[१०]

अथाजस्य । ऋतं सत्यमृतं सत्यमित्ययं वा अग्निर्ऋतमसावादित्यः सत्यं यदि
वासावृतमयं सत्यमुभयम्वेतदयमग्निस्तस्मादाहऽर्तं सत्यमृतं सत्यमिति
तदेनमजेन सम्भरति

६.४.४.[११]

त्रिभिः सम्भरति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्सम्भरति त्रिभिः पुरस्तादभिमन्त्रयते तत्षट्तस्योक्तो बन्धुः

६.४.४.[१२]

अथैतान्पशूनावर्तयन्ति । तेषामजः प्रथम एत्यथ रासभोऽथाश्वोऽथेतो
यतामश्वः प्रथम एत्यथ रासभोऽथजः क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं
चानु रासभो ब्राह्मणमजः

६.४.४.[१३]

तद्यदितो यताम् । अश्वः प्रथम एति तस्माक्षत्रियं प्रथमं यन्तमितरे त्रयो
वर्णाः पश्चादनुयन्त्यथ यदमुत आयतामजः प्रथम एति तस्माद्ब्राह्मणम्
प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यन्नैवेतो यतां नामुतो
रासभः प्रथम एति तस्मान्न कदा चन ब्राह्मणश्च क्षत्रिया वैश्यं च शूद्रं
च पश्चादन्वितस्तस्मादेवं यन्त्यपापवस्यसायाथो ब्रह्मणा चैवैतत्क्षत्रेण
चैतौ वर्णावभितः परिगृह्णीतेऽनपगृह्णीते कुरुते

६.४.४.[१४]

अथानद्धापुरुषमीक्षते । अग्निं पुरीष्यमङ्गिरस्वद्भराम इत्यग्निम्
पशव्यमग्निवद्भराम इत्येतत्तदेनमनद्धापुरुषेण सम्भरति

६.४.४.[१५]

तमजस्योपरिष्टात्प्रगृह्णन्नैति । आग्नेयो वा अजः स्वेनैवैनमेतदात्मना स्वया
देवतया सम्भरत्यथो ब्रह्म वा अजो ब्रह्मणैवैनमेतत्सम्भरति

६.४.४.[१६]

अथैनमुपावहरति । ओषधयः प्रतिमोदध्वमग्निमेतं शिवमायन्तमभ्यत्र
युष्मा इत्येतद्धैतस्मादायत ओषधयो बिभ्यति यद्वै नोऽयं न हिंस्यादिति
ताभ्य एवैनमेतच्छमयति प्रत्येनं मोदध्वं शिवो वोऽभ्यैति न वो हिंसिष्यतीति
व्यस्यन्विश्वा अनिरा अमीवा निषीदन्नो अप दुर्मतिं जहीति व्यस्यन्विश्वा
अनिराश्चामीवाश्च निषीदन्नोऽप सर्वं पाप्मानं जहीत्येतत्

६.४.४.[१७]

ओषधयः प्रतिगृभ्णीत । पुष्पवतीः सुपिप्पला इत्येतद्धैतासां समृद्धं रूपं
यत्पुष्पवत्यः सुपिप्पलाः समृद्धा एनं प्रतिगृह्णीतेत्येतदयं वो गर्भ ऋत्वियः
प्रत्नं सधस्थमासददित्ययं वो गर्भ ऋतव्यः सनातनं
सधस्थमासददित्येतत्

६.४.४.[१८]

द्वाभ्यामुपावहरति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपावहरति तं दक्षिणत उदञ्चमुपावहरति तस्योक्तो
बन्धुरुद्धतमवोक्षितं भवति यत्रैनमुपावहरत्युद्धते वा अवोक्षिते
ऽग्निमादधति सिकता उपकीर्णा भवन्ति तासामुपरि बन्धुः

६.४.४.[१९]

परिश्रितं भवति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न
हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरम्
परिश्रयत्यथो योनिर्वा इयं रेत इदं तिर इव वै योनौ रेतः सिच्यते
योनिरूपमेतत्क्रियते तस्मादपि स्वया जायया तिर इवैव चिचरिषति

६.४.४.[२०]

अथैनं विष्यति । तद्यदेवास्यात्रोपनद्धस्य संशुच्यति तामेवास्मादेतच्छुचम्
बहिर्धा दधात्यथो एतस्या एवैनमेतद्योनेः प्रजनयति

६.४.४.[२१]

वि पाजसा पृथुना शोशुचान इति । वि पाजसा पृथुना दीप्यमान इत्येतद्बाधस्व द्विषो
रक्षसो अमीवा इति बाधस्व सर्वान्पाप्मन इत्येतत्सुशर्मणो बृहतः शर्मणि
स्यामग्नेरहं सहवस्य प्रणीतावित्याशिषमाशास्ते

६.४.४.[२२]

अथाजलोमान्याच्छिद्य । उदीचः प्राचः पशून्प्रसृजत्येषा होभयेषां देवमनुष्याणां
दिग्यदुदीची प्राच्येतस्यां तद्दिशि पशून्दधाति तस्मादुभये देवमनुष्याः
पशूनुपजीवन्ति

६.५.१.[१]

पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव यद्वेव पर्णकषायेण
सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा
एकमग्निरूपमेतस्यैवाग्निरूपस्योपाप्त्यै

६.५.१.[२]

ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः
सैव देवता सऽर्क्षो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं
रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति

६.५.१.[३]

अथ फेनं जनयित्वान्ववदधाति । यदेव तत्फेनो द्वितीयं रूपमसृज्यत
तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्ततीयं
रूपमसृज्यतैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति

६.५.१.[४]

अथाजलोमैः संसृजति । स्थेम्ने न्वेव यद्वेवाजलोमैरेतद्वा एनं देवाः पशुभ्यो
ऽधि समभरंस्तथैवैनमयमेतत्पशुभ्योऽधि सम्भरति
तद्यदजलोमैरेवाजे हि सर्वेषां पशूनां रूपमथ यल्लोम लोम हि रूपम्

६.५.१.[५]

मित्रः संसृज्य । पृथिवीं भूमिं च ज्योतिषा सहेति प्राणो वै मित्रः प्राणो वा
एतदग्रे कर्माकरोत्सुजातं जातवेदसमयक्ष्माय त्वा संसृजामि प्रजाभ्य इति
यथैव यजुस्तथा बन्धुः

६.५.१.[६]

अथैतत्त्रयं पिष्टं भवति । शर्कराश्मायोरसस्तेन संसृजति स्थेम्ने न्वेव
यद्वेव तेनैतावती वा इयमग्रेऽसृज्यत तद्यावतीयमग्रेऽसृज्यत
तावतीमेवैनामेतत्करोति

६.५.१.[७]

रुद्राः संसृज्य । पृथिवीं बृहज्ज्योतिः समीधिर इत्यसौ वा आदित्य एषोऽग्निरेतद्वै
तद्रुद्राः संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे तेषां भानुरजस्र इच्छुक्रो
देवेषु रोचत इत्येष वा एषां भानुरजस्रः शुक्रो देवेषु रोचते

६.५.१.[८]

द्वाभ्यां संसृजति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्संसृजति

६.५.१.[९]

अथ प्रयौति । संसृष्टां वसुभि रुद्रैरिति संसृष्टा ह्येषा वसुभिश्च भवति
यन्मित्रेण तद्वसुभिर्यद्रुद्रैस्तद्रुद्रैर्धीरैः कर्मण्यां मृदमिति धीरा हि ते
कर्मण्यो इयं मृद्धस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु तामिति वाग्वै सिनीवाली
सैनां हस्ताभ्यां मृद्वीं कृत्वा करोत्वित्येतत्

६.५.१.[१०]

सिनीवाली सुकपर्दा सुकुरीरा स्वौपशेति । योषा वै सिनीवाल्येतदु वै योषायै
समृद्धं रूपं यत्सुकपर्दा सुकुरीरा स्वौपशा समर्धयत्येवैनामेतत्सा
तुभ्यमदिते मह्योखां दधातु हस्तयोरितीयं वा अदितिर्मह्यस्यै तदाह

६.५.१.[११]

उखां कृणोतु । शक्त्या बाहुभ्यामदितिर्धियेति शक्त्या च हि करोति बाहुभ्यां च
धिया च माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ एति यथा माता
पुत्रमुपस्थे बिभृयादेवमग्निं गर्भे बिभर्त्वित्येतत्

६.५.१.[१२]

त्रिभिः प्रयौति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रयौति
द्वाभ्यां संसृजति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति त्रिभिरप उपसृजति
तदष्टावष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवत्यथो अष्टाक्षरा वा इयमग्रेऽसृज्यत तद्यावतीयमग्रेऽसृज्यत
तावतीमेवैनामेतत्करोति

६.५.२.[१]

अथ मृत्पिण्डमपादत्ते । यावन्तं निधयेऽलं मखस्य शिरोऽसीति यज्ञो वै
मखस्तस्यैतच्छिर आहवनीयो वै यज्ञस्य शिर आहवनीयमु वा एतं चेष्यन्भवति
तस्मादाह मखस्य शिरोऽसीति

६.५.२.[२]

यद्वेवाह मखस्य शिरोऽसीति । जायत एष एतद्यच्चीयते शीर्षतो वै मुखतो
जायमानो जायते शीषतो मुखतो जायमानो जायाता इति

६.५.२.[३]

तं प्रथयति । वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसाङ्गिरस्वदित्ययं हैष लोको
निधिस्तमेतद्वसवो गायत्रेण च्छन्दसाकुर्वंस्तथैवैनमयमेतद्गायत्रेण
च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो
प्रतिष्ठितासीति पृथिव्यसीति पृथिवी ह्येष निधिर्धारया मयि प्रजां रायस्पोषं
गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै वसव इमं लोकं कृत्वा
तस्मिन्नेतामाशिषमाशासत तथैवैतद्यजमान इमं लोकं कृत्वा
तस्मिन्नेतामाशिषमाशास्ते तां प्रादेशमात्रीं कृत्वाथास्यै सर्वतस्तीरमुन्नयति

६.५.२.[४]

अथ पूर्वमुद्धिमादधाति । रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन
च्छन्दसाङ्गिरस्वदित्यन्तरिक्षं हैष उद्धिस्तमेतद्रुद्रास्त्रैष्टुभेन
च्छन्दसाकुर्वंस्तथैवैनमयमेतत्त्रैष्टुभेन च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो
वा अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीत्यन्तरिक्षमसीत्यन्तरिक्षं
ह्येष उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं
सजातान्यजमानायेत्येतद्वै रुद्रा अन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशासत
तथैवैतद्यजमानोऽन्तरिक्षं कृत्वा तस्मिन्नेतामाशिषमाशास्ते तां संलिप्य
संश्लक्ष्ण्य

६.५.२.[५]

अथोत्तरमुद्धिमादधाति । आदित्यास्त्वा कृण्वन्तु जागतेन च्छन्दसाङ्गिरस्वदिति
द्यौर्हैष उद्धिस्तमेतदादित्या जागतेन
च्छन्दसाकुर्वंस्तथैवैनमयमेतज्जागतेन च्छन्दसा करोत्यङ्गिरस्वदिति प्राणो वा
अङ्गिरा ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति द्यौरसीति द्यौर्ह्येष
उद्धिर्धारया मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं
सजातान्यजमानायेत्येतद्वा आदित्या दिवं कृत्वा तस्यामेतामाशिषमाशासत
तथैवैतद्यजमानो दिवं कृत्वा तस्यामेतामाशिषमाशास्ते

६.५.२.[६]

अथैतेन चतुर्थेन यजुषा करोति । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन
च्छन्दसाङ्गिरस्वदिति दिशो हैतद्यजुरेतद्वै विश्वे देवा वैश्वानरा एषु
लोकेषूखायामेतेन चतुर्थेन यजुषा दिशोऽदधुस्तथैवैतद्यजमान एषु
लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो दधात्यङ्गिरस्वदिति प्राणो वा अङ्गिरा
ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति दिशोऽसीति दिशो ह्येतद्यजुर्धारया मयि
प्रजां रायस्पोषं गौपत्यं सुवीर्यं सजातान्यजमानायेत्येतद्वै विश्वे देवा
वैश्वानरा दिशः कृत्वा तास्वेतामाशिषमाशासत तथैवैतद्यजमानो दिशः कृत्वा
तास्वेतामाशिषमाशास्ते

६.५.२.[७]

तेनैतेनान्तरतश्च बाह्यतश्च करोति । तस्मादेषां लोकानामन्तरतश्च बाह्यतश्च
दिशाऽपरिमितमेतेन करोत्यपरिमिता हि दिशः

६.५.२.[८]

तां प्रादेशमात्रीमेवोर्ध्वां करोति । प्रादेशमात्रीं तिरश्चीं प्रादेशमात्रो वै
गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोति
६.५.२.[९]

सा यदि वर्षीयसी प्रादेशात्स्यात् । एतेन यजुषा ह्रसीयसीं कुर्याद्यदि ह्रसीयस्येतेन
वर्षीयसीम्

६.५.२.[१०]

स यद्येकः पशुः स्यात् । एकप्रादेशां कुर्यादथ यदि पञ्च पशवः स्युः
पञ्चप्रादेशां कुर्यादिषुमात्रीं वा वीर्यं वा इषुवीर्यंसम्मितैव तद्भवति
पञ्चप्रादेशा ह स्म त्वेव पुरेषुर्भवति

६.५.२.[११]

अथ तिरश्चीं रास्नां पर्यस्यति । दिशो हैव सैतद्वै देवा इमांलोकानुखां कृत्वा
दिग्भिरदृंहन्दिग्भिः पर्यतन्वंस्तथैवैतद्यजमान इमांलोकानुखां कृत्वा
दिग्भिदृंहति दिग्भिः परितनोति

६.५.२.[१२]

तामुत्तरे वितृतीये पर्यस्यति । अत्र हैषां लोकानामन्ताः समायन्ति
तदेवैनांस्तद्दूंहति

६.५.२.[१३]

अदित्यै रास्नासीति । वरुण्या वै यज्ञे रज्जुरवरुण्यामेवैनामेतद्रास्नां कृत्वा
पर्यस्यति

६.५.२.[१४]

अथ चतस्र ऊर्ध्वाः करोति । तूष्णीमेव दिशो हैव ता एतद्वै देवा इमांलोकानुखां
कृत्वा दिग्भिः सर्वतोऽदृंहंस्तथैवैतद्यजमान इमांलोकानुखां कृत्वा दिग्भिः
सर्वतो दृंहति

६.५.२.[१५]

ता एता ऐतस्यै भवन्ति । एतद्वा एता एतामस्तभ्नुवस्तथैवैनामेतत्स्तभ्नुवन्ति
तद्यदत ऊर्ध्वं तदेतया तिरश्च्या दृढमथ यदतोऽर्वाक्तदेताभिः

६.५.२.[१६]
तासामग्रेषु स्तनानुन्नयन्ति । एतद्वै देवा इमांलोकानुखां कृत्वैतै स्तनैः
सर्वान्कामानदुहत तथैवैतद्यजमान इमांलोकानुखां कृत्वैतै स्तनैः
सर्वान्कामान्दुहै

६.५.२.[१७]

सैषा गौरेव । इमे वै लोका उखेमे लोका गौस्तस्या एतदूधो यैषा तिरश्ची रास्ना सा
वितृतीये भवति वितृतीये हि गोरूधः

६.५.२.[१८]

तस्यै स्तनानुन्नयति । ऊधसस्तत्स्तनानुन्नयति सा चतुस्तना भवति चतुस्तना हि
गौः

६.५.२.[१९]

तां हैके द्विस्तनां कुर्वन्ति । अथो अष्टस्तनां न तथा कुर्याद्ये वै गोः
कनीयस्तनाः पशवो ये भूयस्तना अनुपजीवनीयतरा वा अस्यैतेऽनुपजीवनीयतरां
हैनां ते कुर्वतेऽथो ह ते न गां कुर्वते शुनीं वाविं वा वडबां वा तस्मात्तथा
न कुर्यात्

६.५.२.[२०]

अथास्यै बिलमभिपद्यते । अदितिष्टे बिलं गृभ्णात्विति वाग्वा अदितिरेतद्वा एनां देवाः
कृत्वा वाचादित्या निरष्ठापयंस्तथैवैनामयमेतत्कृत्वा वाचादित्या निष्ठापयति

६.५.२.[२१]

तां परिगृह्य निदधाति । कृत्वाय सा महीमुखामिति कृत्वाय सा
महतीमुखामित्येतन्मृन्मयीं योनिमग्नय इति मृन्मयी ह्येषा योनिरग्नेः
पुत्रेभ्यः प्रायच्छददितिः श्रपयानित्येतद्वा एनामदितिः कृत्वा देवेभ्यः पुत्रेभ्यः
श्रपणाय प्रायच्छत्तथैवैनामयमेतत्कृत्वा देवेभ्यः श्रपणाय प्रयच्छति

६.५.२.[२२]

ता हैके तिस्रः कुर्वन्ति । त्रयो वा इमे लोका इमे लोका उखा इति वदन्तोऽथो अन्यो
ऽन्यस्यै प्रायश्चित्यै यदीतरा भेत्स्यतेऽथेतरस्यां भरिष्यामो
यदीतराथेतरस्यामिति न तथा कुर्याद्यो वा एष निधिः प्रथमोऽयं स लोको यः
पूर्व उद्धिरन्तरिक्षं तद्य उत्तरो द्यौः साथ यदेतच्चतुर्थं यजुर्दिशो हैव
तदेतावद्वा इदं सर्व यावदिमे च लोका दिशश्च स यदत्रोपाहरेदति तद्रेचयेद्यदु
वै यज्ञेऽतिरिक्तं क्रियते यजमानस्य तद्द्विषन्तं भ्रातृव्यमभ्यतिरिच्यते यदु
भिन्नायै प्रायश्चित्तिरुत्तरस्मिंस्तदन्वाख्याने
६.५.३.[१]

तस्या एतस्या अषाढां पूर्वां करोति । इयं वा अषाढेयमु वा एषां लोकानाम्
प्रथमासृज्यत तामेतस्या एव मृदः करोत्येषां ह्येव लोकानामियं महिषी करोति
महिषी हीयं तद्यैव प्रथमा वित्ता सा महिषी

६.५.३.[२]

पादमात्री भवति । प्रतिष्ठा वै पाद इयमु वै प्रतिष्ठा त्र्यालिखिता भवति
त्रिवृद्धीयम्

६.५.३.[३]

अथोखां करोति । इमांस्तल्लोकान्करोत्यथ विश्वज्योतिषः करोत्येता देवता अग्निं
वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्ता एतस्या एव मृदः
करोत्येभ्यस्तल्लोकेभ्य एतान्देवान्निर्मिमीते यजमानः करोति त्र्यलिखिता भवन्ति
त्रिवृतो ह्येते देवा इत्यधिदेवतम्

६.५.३.[४]

अथाध्यात्मम् । आत्मैवोखा वागषाढा तां पूर्वा करोति पुरस्ताद्धीयमात्मनो
वाक्तामेतस्या एव मृदः करोत्यात्मनो ह्येवेयं वाङ्नहिषि करोति महिषी हि
वाक्त्र्यालिखिता भवति त्रेधाविहिता हि वागृचो यजूंषि सामान्यथो यदिदं त्रयं वाचो
रूपमुपांशु व्यन्तरामुच्चैः

६.५.३.[५]

अथोखां करोति । आत्मानं तत्करोत्यथ विश्वज्योतिषः करोति प्रजा वै विश्वज्योतिः
प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतत्करोति ता एतस्या एव मृदः
करोत्यात्मनस्तत्प्रजां निर्मिमीते यजमानः करोति यजमानस्तदात्मनः प्रजां
करोत्यनन्तर्हिताः करोत्य नन्तर्हितां तदात्मनः प्रजां करोत्युत्तराः
करोत्युत्तरां तदात्मनः प्रजां करोति त्र्यालिखिता भवन्ति त्रिवृद्धि प्रजातिः पिता
माता पुत्रोऽथो गर्भ उल्बं जरायु

६.५.३.[६]

ता एता यजुष्कृतायै करोति । अयजुष्कृताया इतरा निरुक्ता एआ भवन्त्यनिरुक्ता इतराः
परिमिता एता भवन्त्यपरिमिता इतराः

६.५.३.[७]

प्रजापतिरेषोऽग्निः । उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च
परिमितश्चापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तं परिमितं
रूपं तदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमितं
रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य
एवं विद्वानेतदेवं करोत्यथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः

६.५.३.[८]

अथैनां धूपयति । स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेव धूपयति शिर
एतद्यज्ञस्य यदुखा प्राणो धूमः शीर्षंस्तत्प्राणं दधाति

६.५.३.[९]

अश्वशकैर्धूपयति । प्राजापत्यो वा अश्वः प्रजापतिरग्निर्नो वा आत्मात्मानं
हिनस्त्यहिंसायै तद्वै शक्नैव तद्धि जग्घं यातयाम तथो ह नैवाश्वं हिनस्ति
नेतरान्पशून्

६.५.३.[१०]

वसवस्त्वा धूपयन्तु । गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु
त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे
त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु
वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयत्वित्येताभिरेवैनामेतद्देवताभिर्धूपयति

६.५.३.[११]

सप्ताश्वशकानि भवन्ति । स्प्त यजूंषि सप्ततय्य एता देवताः सप्त शीर्षन्प्राणा यदु
वा अपि बहुकृत्वः सप्तसप्त सप्तैव तचीर्षण्येव तत्सप्त प्राणान्दधाति

६.५.४.[१]

अथैनमस्यां खनति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा
न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्मात्मानं गोप्स्यतीति

६.५.४.[२]

तं वा अदित्या खनति । इयं वा अदितिर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यदन्यया
देवतया खनेद्धिंस्याद्धैनम्

६.५.४.[३]

अदितिष्ट्वा देवी विश्वदेव्यावती । पृथिव्याः सधस्थे अङ्गिरस्वत्खनत्ववटेत्यवटो
हैष देवत्रात्र सा वैणव्यभ्रिरुत्सीदति चतुःस्रक्तिरेष कूपो भवति चतस्रो वै
दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनत्यथ
पचनमवधायाषाढामवदधाति तूष्णीमेव तां हि पूर्वां करोति

६.५.४.[४]

अथोखामवदधाति । देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे
अङ्गिरस्वद्दधतूख इति देवानां हैतामग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः
सधस्थेऽङ्गिरस्वद्दधुस्ताभिरेवैनामेतद्दधाति ता ह ता ओषधय एवौषधयो
वै देवानां पत्न्य ओषधिभिर्हीदं सर्वं
हितमोषधिभिरेवैनामेतद्दधात्यथ विश्वज्योतिषोऽवदधाति तूष्णीमेवाथ
पचनमवधायाभीन्द्धे

६.५.४.[५]

धिषणास्त्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धतामुख
इति धिषणा हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वदभीधिरे
ताभिरेवैनामेतदभीन्द्धे सा ह सा वागेव वाग्वै धिषणा वाचा हीदं
सर्वमिद्धं वाचैवैनामेतदभीन्द्धेऽथैतानि त्रीणि यजूंषीक्षमाण एव जपति

६.५.४.[६]

वरूत्रीष्ट्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थ अङ्गिरस्वच्रपयन्तूख इति
वरूत्रीर्हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वच्रपयां
चक्रुस्ताभिरेवैनामेतच्रपयति तानि ह तान्यहोरात्राण्येवाहोरात्राणि वै वरूत्रयो
ऽहोरात्रैर्हीदं सर्वं वृतमहोरात्रैरेवैनामेतच्रपयति

६.५.४.[७]

ग्नास्त्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पचन्तूख इति ग्ना
हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे
ऽङ्गिरस्वत्पेचुस्ताभिरवैनामेतत्पचति तानि ह तानि छन्दांस्येव छन्दांसि वै
ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति च्छन्दोभिरेवैनामेतत्पचति

६.५.४.[८]

जनयस्त्वाच्छिन्नपत्रा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे
अङ्गिरस्वत्पचन्तूख इति जनयो हैतामग्रेऽच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः
पृथिव्याः सधस्थे अङ्गिरस्वत्पेचुस्ताभिरेवैनामेतत्पचति तानि ह तानि
नक्षत्राण्येव नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति
तेषामेतानि ज्योतींषि नक्षत्रैरेवैनामेतत्पचति

६.५.४.[९]
स वै खनत्येकेन । अवदधात्येकेनाभीन्द्ध एकेन श्रपयत्येकेन द्वाभ्याम्
पचति तस्माद्द्विः संवत्सरस्यान्नं पच्यते तानि षट्सम्पद्यन्ते षदृतवः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.५.४.[१०]

अथ मित्रस्य चर्षणीधृत इति । मैत्रेण यजुषोपन्याचरति यावत्कियच्चोपन्याचरति
न वै मित्रं कं चन हिनस्ति न मित्रं कश्चन हिनस्ति तथो हैष एतां न हिनस्ति
नो एतमेषा तां दिवैवोपवपेद्दिवोद्वपेदहर्ह्याग्नेयम्

६.५.४.[११]

तां सावित्रेण यजुष्वोदपति । सविता वै प्रसविता सवितृप्रसूत एवैनामेतदुद्वपति
देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्येति सर्वमु ह्येतत्सविता

६.५.४.[१२]

अथैनां पर्यावर्तयति । अव्यथमाना पृथिव्यामाशा दिश आपृणेत्यव्यथमाना त्वम्
पृथिव्यामाशा दिशो रसेनापूरयेत्येतत्

६.५.४.[१३]

अथैनामुद्यच्छति । उत्थाय बृहती भवेत्युत्थाय हीमे लोका बृहन्त उदु तिष्ठ
ध्रुवा त्वमित्युदु तिष्ठ स्थिरा त्वं प्रतिष्ठितेत्येतत्

६.५.४.[१४]

तां परिगृह्य निदधाति । मित्रैतां त उखा परिददाम्यभित्त्या एषा मा भेदित्ययं
वै वायुर्मित्रो योऽयं पवते तस्मा एवैनामेतत्परिददाति गुप्त्यै ते हेमे लोका
मित्रगुप्तास्तस्मादेषां लोकानां न किं चन मीयते

६.५.४.[१५]

अथैनामाचृणत्ति । स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेवाचूणत्ति शिर
एतद्यज्ञस्य यदुखा प्राणः पयः शीर्पस्तत्प्राणं दधात्यथो योषा वा उखा
योषायां तत्पयो दधाति तस्माद्योषायां पयः

६.५.४.[१६]

अजायै पयसाचृणत्ति । प्रजापतेर्वै शोकादजा समभवन्प्रजापतिरग्निर्नो वा
आत्मात्मानं हिनस्त्यहिंसायै यद्वेवाजाया अजा ह सर्वा ओषधीरत्ति
सर्वासामेवैनामेतदोषधीनां रसेनाचृणत्ति

६.५.४.[१७]

वसवस्त्वाचून्दन्तु । गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वाचृन्दन्तु त्रैष्टुभेन
च्छन्दसाङ्गिरस्वदादित्यास्त्वाचृन्दन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा
वैश्वानरा आचृन्दन्त्वानुष्टुभेन
च्छन्दसाङ्गिरस्वदित्येताभिरेवैनामेतद्देवताभिराचृणत्ति स वै याभिरेव देवताभिः
करोति ताभिर्धूपयति ताभिराचृणत्ति यो वाव कर्म करोति स एवं तस्योपचारं वेद
तस्माद्याभिरेव देवताभिः करोति ताभिर्धूपयति ताभिराचृणत्ति

६.६.१.[१]

भूयांसि हवींषि भवन्ति । अग्निचित्यायां यदु चानग्निचित्यायामतीनि ह कर्माणि सन्ति
यान्यन्यत्कर्माति तान्यतीनि तेषामग्निचित्या राजसूयो वाजपेयी
ऽश्वमेधस्तद्यत्तान्यन्यानि कर्माण्यति तस्मात्तान्यतीनि

६.६.१.[२]

आग्नावैष्णव एकादशकपालः । तदध्वरस्य दीक्षणीयं वैश्वानरो द्वादशकपाल
आदित्यश्च चरुस्ते अग्नेः

६.६.१.[३]

स यदाग्नावैष्णवमेव निर्वपेत् । नेतरे हविषी अध्वरस्यैव दीक्षणीयं कृतं
स्यान्नाग्नेरथ यदितरे एव हविषी निर्वपेन्नाग्नावैष्णवमग्नेरेव दीक्षणीयं
कृतं स्यान्नाध्वरस्य

६.६.१.[४]

उभयानि निर्वपति । अध्वरस्य चाग्नेश्चोभयं ह्येतत्कर्माध्वरकर्म
चाग्निकर्म चाध्वरस्य पूर्वमथाग्नेरुपायि ह्येतत्कर्म यदग्निकर्म

६.६.१.[५]

स य एष आग्नावैष्णवः । तस्य तदेव ब्राह्मणं यत्पुरश्चरणे वैश्वानरो
द्वादशकपालो वैश्वानरो वै सर्वेऽग्नयः सर्वेषामग्नीनामुपाप्त्यै
द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरो वैश्वानरः

६.६.१.[६]

यद्वेवैतं वैश्वानरं निर्वपति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति
तमेतत्पुरस्ताद्दीक्षणीयायां रेतो भूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते
तादृग्जायते तद्यदेतमत्र वैश्वानरं रेतो भूतं सिञ्चति तस्मादेषोऽमुत्र
वैश्वानरो जायते

६.६.१.[७]

यद्वेवैते हविषी निर्वपति । क्षत्रं वै वैश्वानरो विडेष आदित्यश्चरुः क्षत्रं च
तद्विशं च करोति वैश्वानरं पूर्वं निर्वपति क्षत्रं तत्कृत्वा विशे करोति

६.६.१.[८]

एक एष भवति । एकदेवत्य एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति चरुरितरो
बहुदेवत्यो भूमा वा एष तण्डुलानां यच्चरुर्भूमो एष देवानां यदादित्या विशि
तद्भूमानं दधातीत्यधिदेवतम्

६.६.१.[९]

अथाध्यात्मम् । शिर एव वैश्वानर आत्मैष आदित्यश्चरुः शिरश्च तदात्मानं च
करोति वैश्वानरं पूर्वं निर्वपति शिरस्तत्कृत्वात्मानं करोति

६.६.१.[१०]

एक एष भवति । एकमिव हि शिरश्चरुरितरो बहुदेवत्यो भूमा वा एष तण्डुलानां
यच्चरुर्भूमो एषोऽङ्गानां यदात्मात्मंस्तदङ्गानां भूमानं दधाति

६.६.१.[११]

घृत एष भवति । घृतभाजना ह्यादित्याः स्वेनैवैनानेतद्भागेन स्वेन रसेन
प्रीणात्युपांश्वेतानि हवींषि भवन्ति रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते

६.६.१.[१२]

अथौद्ग्रभणानि जुहोति । औद्ग्रभणैर्वै देवा आत्मानमस्माल्लोकात्स्वर्गं
लोकमभ्युदगृह्णत यदुदगृह्णत तस्मादौद्ग्रभणानि तथैवैतद्यजमान
औद्ग्रभणैरेवात्मानमस्माल्लोकात्स्वर्गं लोकमभ्युद्गृह्णीते

६.६.१.[१३]

तानि वै भूयांसि भवन्ति । अग्निचित्यायां यदु चानग्निचित्यायां तस्याक्तो
बन्धुरुभयानि भवन्ति तस्योक्तोऽध्वरस्य पूर्वाण्यथाग्नेस्तस्यो एवोक्तः
६.६.१.[१४]

पञ्चाद्वरस्य जुहोति । पाङ्क्तो यज्ञो यावान्यज्ञो यावत्यस्य मात्रा
तावतैवैनमेतद्रेतो भूतं सिञ्चति सप्ताग्नेः सप्तचितिकोऽग्निः सप्तऽर्तवः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं
सिञ्चति तान्युभयानि द्वादश सम्पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.६.१.[१५]

स जुहोति । आकूतिमग्निं प्रयुजं स्वाहेत्याकूताद्वा एतदग्रे कर्म
समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[१६]

मनो मेघामग्निं प्रयुजं स्वाहेति । मनसो वा एतदग्रे कर्म
समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[१७]

चित्तं विज्ञातमग्निं प्रयुजं स्वाहेति । चित्ताद्वा एतदग्रे कर्म
समभवत्तदेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[१८]

वाचो विधृतिमग्निं प्रयुजं स्वाहेति । वाचो वा एतदग्रे कर्म
समभवत्तामेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[१९]

प्रजापतये मनवे स्वाहेति । प्रजापतिर्वै मनुः स हीदं सर्वममनुत
प्रजापतिर्वा एतदग्रे कर्माकरोत्तमेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[२०]

अग्नये वैश्वानराय स्वाहेति । संवत्सरो वा अग्निर्वैश्वानरः संवत्सरो वा एतदग्रे
कर्माकरोत्तमेवैतदेतस्मै कर्मणे प्रयुङ्क्ते

६.६.१.[२१]
अथ सावित्रीं जुहोति । सविता वा एतदग्रे कर्माकरोत्तमेवैतदेतस्मै कर्मणे
प्रयुङ्क्ते विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यं विश्वो राय इषुध्यति द्युम्नं
वृणीत पुष्यसे स्वाहेति यो देवस्य सवितुः सख्यं वृणीते स द्युम्नं च पुष्टिं च
वृणीत एष अस्य सख्यं वृणीते य एतत्कर्म करोति

६.६.१.[२२]

तान्यु हैके । उखायामेवैतान्यौद्ग्रभणानि जुह्वति कामेभ्यो वा एतानि हूयन्त
आत्मो एष यजमानस्य यदुखात्मन्यजमानस्य सर्वान्कामान्प्रतिष्ठापयाम इति
न तथा कुर्यादेतस्य वै यज्ञस्य संस्थितस्यैतासामाहुतीनां यो
रसस्तदेतदर्चिर्यद्दीप्यते तद्यत्संस्थिते यज्ञे हुतेष्वौद्ग्रभणेषूखाम्
प्रवृणक्ति तदेनामेष यज्ञ आरोहति तं यज्ञं बिभर्ति तस्मात्संस्थित एव यज्ञे
हुतेष्वौद्ग्रभणेषूखां प्रवृञ्ज्यात्

६.६.१.[२३]

मुञ्जकुलायेनावस्तीर्णा भवति । आदीप्यादिति न्वेव यद्वेव मुञ्जकुलायेन
योनिरेषाग्नेर्यन्मुञ्जो न वै योनिर्गर्भं हिनस्त्यहिंसायै योनिर्वै जायमानो
जायते योनेर्जायमानो जायाता इति

६.६.१.[२४]

शणकुलायमन्तरं भवति । आदिप्यादिति न्वेव यद्वेव शणकुलायं प्रजापतिर्यस्यै
योनेरसृज्यत तस्या उमा उल्बमासञ्चणा जरायु तस्मात्ते पूतयो जरायु हि ते न वै
जरायु गर्भं हिनस्त्यहिंसायै जरायुणो वै जायमानो जायते जरायुणो जायमानो
जायाता इति

६.६.२.[१]

तां तिष्ठन्प्रवृणक्ति इमे वै लोका उखा तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै
वीर्यवत्तमः

६.६.२.[२]

उदङ्प्राङ्तिष्ठन् । उदङ्वै प्राङ्तिष्ठन्प्रजापतिः प्रजा असृजत्

६.६.२.[३]

यद्वेवोदङ्प्राङ्तिष्ठन् । एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची

६.६.२.[४]
यद्वेवोदङ्प्राङ्तिष्ठन् । एतस्यां ह दिशि स्वर्गस्य लोकस्य द्वारं तस्मादुदङ्प्राङ्
तिष्ठन्नाहुतीर्जुहोत्युदङ्प्राङ्तिष्ठन्दक्षिणा नयति द्वारैव तत्स्वर्गस्य लोकस्य
वित्तं प्रपादयति

६.६.२.[५]

मा सु भित्था मा सु रिष इति । यथैव यजुस्तथा बन्धुरम्ब धृष्णु वीरयस्व
स्विति योषा वा उखाम्बेति वै योषाया आमन्त्रणं स्विव वीरयस्वाग्निश्चेदं करिष्यथ
इत्यग्निश्च ह्येतत्करिष्यन्तौ भवतः

६.६.२.[६]

दृंहस्व देवी पृथिवी स्वस्तय इति । यथैव यजुस्तथा बन्धुरासुरी माया स्वधया
कृतासीति प्राणो वा असुस्तस्यैषा माया स्वधया कता जुष्टं देवेभ्य इदमस्तु
हव्यामेति या एवैतस्मिन्नग्नावाहुतीर्होष्यन्भवति ता एतदाहाथो एवैव
हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन्निति यथैवारिष्टानार्तैतस्मिन्यज्ञ
उदियादेवमेतदाह

६.६.२.[७]

द्वाभ्यां प्रवृणक्ति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनामेतत्प्रवृणक्ति गायत्र्या च त्रिष्टुभा च प्राणो गायत्र्यात्मा
त्रिष्टुबेतावान्वै पशुर्यावान्प्राणश्चात्मा च
तद्यावान्पशुस्तावतैवैनामेतत्प्रवृणक्त्यथो अग्निर्वै
गायत्रीन्द्रस्त्रिष्टुबैन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनामेतत्प्रवृणक्तीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतत्प्रवृणक्ति तयोः सप्त पदानि
सप्तचितिको ग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति

६.६.२.[८]

तां यदाग्निः संतपति । अथैनामर्चिरारोहति योषा वा उखा वृषाग्निस्तस्माद्यदा वृषा
योषां संतपत्यथास्यां रेतो दधाति

६.६.२.[९]

तद्धैके । यदि चिरमर्चिरारोहत्यङ्गारानेवावपन्त्युभयेनैषोऽग्निरिति न तथा
कुर्यादस्थन्वान्वाव पशुर्जायतेऽथ तं नाग्र एवास्थन्वन्तमिव न्यृषन्ति रेत
इवैव दधति रेत उ एतद्नस्थिकं यदर्चिस्तस्मादेनामर्चिरेवारोहेत्

६.६.२.[१०]

तां यदार्चिरारोहति । अथास्मिन्त्समिधमादधाति रेतो वा एनामेतदापद्यत एषो
ऽग्निस्तस्मिन्नेतां रेतसि सम्भूतिं दधाति

६.६.२.[११]

सा कार्मुकी स्यात् । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा अग्निमनीकं
कृत्वासुरानभ्यायंस्तस्यार्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्याम्
प्रत्यतिष्ठत्स कृमुकोऽभवत्तस्मात्स स्वादू रसो हि तस्मादु लोहितोऽचिर्हि स एषो
ऽग्निरेव यत्कृमुकोऽग्निमेवास्मिन्नेतत्सम्भूतिं दधाति

६.६.२.[१२]

प्रादेशमात्री भवति । प्रादेशमात्रो वै गर्भो
विष्णुरात्मसम्मितामेवास्मिन्नेतत्सम्भूतिं दधाति

६.६.२.[१३]

घृते न्युत्ता भवति । अग्निर्यस्यै योनेरसृज्यत तस्यै
घृतमुल्बमासीत्तस्मात्तत्प्रत्युद्दीप्यत आत्मा ह्यस्यैष तस्मात्तस्य न भस्म
भवत्यात्मैव तदात्मानमप्येति न वा उल्बं गर्भं हिनस्त्यहिंसाया उल्बाद्वै
जायमानो जायत उल्बाज्जायमानो जायाता इति

६.६.२.[१४]

तामादधाति । द्र्वन्नः सर्पिरासुतिरिति दार्वन्नः सर्पिरशन इत्येतत्प्रत्नो होता
वरेण्य इति सनातनो होता वरेण्य इत्येतत्सहसस्पुत्रो अद्भुत इति बलं वै सहो
बलस्य पुत्रो द्भुत इत्येतत्तिष्ठन्नादधाति स्वाहाकारेण तस्योपरि बन्धुः

६.६.२.[१५]

तद्वा आत्मैवोखा । योनिर्मुञ्जाः शणा जरायूल्वं घृतं गर्भः समित्

६.६.२.[१६]

बाह्योखा भवति । अन्तरे मुञ्जा बाह्यो ह्यात्मान्तरा योनिर्वाह्ये मुञ्जा
भवन्त्यन्तरे शणा बाह्या हि योनिरन्तरं जरायु बाह्ये शणा भवन्त्यन्तरं
घृतं बाह्यं हि जराय्वन्तरमुल्बं बाह्यं घृतं भवत्यन्तरा समिद्वाह्यं
ह्युल्वमन्तरो गर्भ एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति

६.६.३.[१]

अथ वैकङ्कतीमादधाति । प्रजापतिर्यां प्रथामाहुतिमजुहोत्स हुत्वा यत्र
न्यमृष्ठ ततो विकङ्कतः समभवत्सैषा
प्रथमाहुतिर्यद्विकङ्कतस्तामस्मिन्नेतज्जुहोति तयैनमेतत्प्रीणाति परस्या अधि
संवतोऽवरां अभ्यातर यत्राहमस्मि तां अवेति यथैव यजुस्तथा बन्धुः

६.६.३.[२]

अथौदुम्बरीमादधाति । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते ह सर्व
एव वनस्पतयोऽसुरानभ्युपेयुरुदुम्वरो हैव देवान्न जहौ ते देवा असुरान्जित्वा
तेषां वनस्पतीनवृञ्जत

६.६.३.[३]

ते होचुः । हन्त यैषु वनस्पतिषूर्ग्यो रस उदुम्बरे तं दधाम ते
यद्यपक्रामेयुर्यातयामा अपक्रामेयुर्यथा धेनुर्दुग्धा यथानड्वानूहिवानिति
तद्यैषु वनस्पतिषूर्ग्यो रस आसीदुदुम्बरे तमदधुस्तयैतदूर्जा
सर्वान्वनस्पतीन्प्रति पच्यते तस्मात्स सर्वदार्द्रः सर्वदा क्षीरी
तदेतत्सर्वमन्नं यदुदुम्बरः सर्वे वनस्पतयः सर्वेणैवैनमेतदन्नेन
प्रीणाति सर्वैर्वनस्पतिभिः समिन्द्धे

६.६.३.[४]

परमस्याः परावत इति । या परमा परावदित्येतद्रोहिदश्व इहागहीति रोहितो
हाग्नेरश्वः पुरीष्यः पुरुप्रिय इति पशव्यो बहुप्रिय इत्येतदग्ने त्वं तरा मृध
इत्यग्ने त्वं तर सर्वान्पाप्मन इत्येतत्

६.६.३.[५]

अथापरशुवृक्णमादधाति । जायत एष एतद्यच्चीयते स एष सर्वास्मा अन्नाय जायत
एतद्वेकमन्नं यदपरशुवृकणं तेनैनमेतत्प्रीणाति यदग्ने कानि कानि चिदा ते
दारूणि दध्मसि सर्वं तदस्तु ते घृतं तज्जुषस्व यविष्ठ्येति यथैव यजुस्तथा
बन्धुस्तद्यत्किं चापरशुवृक्णं तदस्मा एतत्स्वदयति तदस्मा अन्नं
कृत्वापिदधाति

६.६.३.[६]

अथाधःशयमादधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत
एतद्वेकमन्नं यदधःशयं तेनैनमेतत्प्रीणाति यदत्त्युपजिह्विका यद्वम्रो
अतिसर्पतीत्युपजिह्विका वा हि तदत्ति वम्रो वातिसर्पति सर्वं तदस्तु ते घृतं
तज्जुषस्व यविष्ठ्येति यथैव यजुस्तथा बन्धुस्तद्यत्किं चाधःशयं तदस्मा
एतत्स्वदयति तदस्मा अन्नं कृत्वापिदधाति

६.६.३.[७]
अथैता उत्तराः पालाश्यो भवन्ति । ब्रह्म वै पलाशो ब्रह्मणैवैनमेतत्समिन्द्धे
यद्वेव पालाश्यः सोमो वै पलाश एषो ह
परमाहुतिर्यत्सोमाहुतिस्तामस्मिन्नेतज्जुहीति तयैनमेतत्प्रीणाति

६.६.३.[८]

अहरहरप्रयावं भरन्त इति । अहरहरमत्ता आहरन्त इत्येतदश्वायेव तिष्ठते
घासमस्मा इति यथाश्वाय तिष्ठते घासमित्येतद्रायस्पोषेण समिषा मदन्त इति
रय्या च पोषेण च समिषा मदन्त इत्येतदग्ने मा ते प्रतिवेशा रिषामेति यथैवास्य
प्रतिवेशो न रिष्येदेवमेतदाह

६.६.३.[९]

नाभा पृथिव्याः समिधाने अग्नाविति । एषा ह नाभिः पृथिव्यै यत्रैष
एतत्समिध्यते रायस्पोषाय बृहते हवामह इति रय्यै च पोषाय च बृहते
हवामह इत्येतदिरम्मदमितीरया ह्येष मत्तो बृहदुक्थमिति बृहदुक्थो ह्येष
यजत्रमि ति यज्ञियमित्येतज्जेतारमग्निं पृतनासु सासहिमिति जेता ह्यग्निः पृतना उ
सासहिः

६.६.३.[१०]

याः सेना अभीत्वरीः । दंष्ट्राभ्यां मलिम्लून्ये जनेषु मलिम्लवो यो
अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः निन्दाद्यो अस्मान्धिप्साच्च सर्वं तम्
मस्मसा कुर्विति

६.६.३.[११]

एतद्वै देवाः । यश्चैनानद्वेड्यं चाद्विषुस्तमस्मा अन्नं
कृत्वाप्यदधुस्तेनैनमप्रीणन्नन्नमहैतस्याभवददहदु देवानां पाप्मानं
तथैवैतद्यजमानो यश्चैनं द्वेष्टि यं च द्वेष्टि तमस्मा अन्नं कृत्वापिदधाति
तेनैनं प्रीणात्यन्नमहैतस्य भवति दहत्यु यजमानस्य पाप्मानम्

६.६.३.[१२]

ता एता एकादशादधाति । अक्षत्रियस्य वापुरोहितस्य वासर्वं वै तद्यदेकादशासर्वं
तद्यदक्षत्रियो वापुरोहितो वा

६.६.३.[१३]

द्वादश क्षत्रियस्य वा पुरोहितस्य वा । सर्वं वै तद्यद्द्वादश सर्वं
तद्यत्क्षत्रियो वा पुरोहितो वा
६.६.३.[१४]

स पुरोहितस्यादधाति । संशितं मे ब्रह्म संशितं वीर्यं बलं संशितं क्षत्रं
जिष्णु यस्याहमस्मि पुरोहित इति तदस्य ब्रह्म च क्षत्रं च संश्यति

६.६.३.[१५]

अथ क्षत्रियस्य । उदेषां बाहू अतिरमुद्वर्चो अथो बलं क्षिणोमि
ब्रह्मणामित्रानुन्नयामि स्वां अहमिति यथैव
क्षिणुयादमित्रानुन्नयेत्स्वानेवमेतदाहोभेत्वेवैते आदध्यादयं वा अग्निर्ब्रह्म
च क्षत्रं चेममेवैतदग्निमेताभ्यामुभाभ्यां समिन्द्धे ब्रह्मणा च
क्षत्रेण च

६.६.३.[१६]

तास्त्रयोदश सम्पद्यन्ते । त्रयोदश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति

६.६.३.[१७]

प्रादेशमात्र्यो भवन्ति । प्रादेशमात्रो वै गर्भो
विष्णुरन्नमेतदात्मसम्मितेनैवैनमेतदन्नेन प्रीणाति यदु वा
आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न
तदवति तिष्ठन्नादधाति तस्योपरि बन्धुः स्वाहाकारेण रेतो वा इदं
सिक्तमयमग्निस्तस्मिन्यत्काष्ठान्यस्वाहाकृतान्यभ्यादध्याद्धिंस्याद्धैनं ता
यत्समिधस्तेन नाहुतयो यदु स्वाहाकारेण तेनान्नमन्नं हि स्वाहाकारस्तथो
हैनं न हिनस्ति

६.६.४.[१]

अथ विष्णुक्रमान्क्रान्त्वा । वात्सप्रेणोपस्थायास्तमित आदित्ये भस्मैव
प्रथममुद्वपत्येतद्वा एनमेतेनान्नेन प्रीणात्येताभिः समिद्भिस्तस्यान्नस्य
जग्घस्यैष पाप्मा सीदति भस्म तेनैनमेतद्व्यावर्तयति
तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं विसृज्य समिधमादधाति रात्र्या
एवैनमेतदन्नेन प्रीणाति रात्रींरात्रीमप्रयावं भरन्त इति तस्योक्तो बन्धू
रात्र्या एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किं चाती रात्र्योपसमादधात्याहुतिकृतं
हैवास्मै तदुपसमादधाति

६.६.४.[२]

अथ प्रातरुदित आदित्ये । भस्मैव प्रथममुद्वपत्येतद्वा एनमेतेनान्नेन
प्रीणात्येतया समिधा यच्च रात्र्योपसमादधाति तस्यान्नस्य जग्घस्यैष पाप्मा
सीदति भस्म तेनैनमेतद्व्यावर्तयति तस्मिन्नपहतपाप्मन्वाचं विसृजते वाचं
विसृज्य समिधमादधात्यह्न एवैनमेतदन्नेन प्रीणात्यहरहरप्रयावम्
भरन्त इति तस्योक्तो बन्धुरह्न एवैतामरिष्टिं स्वस्तिमाशास्ते तद्यत्किं चातो
ऽह्नोपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति

६.६.४.[३]

अहोरात्रे वा अभिवर्तमाने संवत्सरमाप्नुतः संवत्सर इदं
सर्वमाह्नायैवैतामरिष्टिं स्वस्तिमाशास्ते

६.६.४.[४]

अथ यदास्मै व्रतं प्रयच्छन्ति । अथ व्रते न्यज्य समिधमादधाति न व्रते
न्यञ्ज्यादित्यु हैक आहुराहुतिं तज्जुहुयादनवकॢप्तं वै तद्यद्दीक्षित आहुतिं
जुहुयादिति

६.६.४.[५]

स वै न्यञ्ज्यादेव । देवो वा अस्यैष आत्मा मानुषोऽयं स यन्न न्यञ्ज्यान्न हैतं
दैवमात्मानं प्रीणीयादथ यन्न्यनक्ति तथो हैतं दैवमात्मानं प्रीणाति सा
यत्समित्तेन नाहुतिर्यदु व्रते न्यक्ता तेनान्नमन्नं हि व्रतम्

६.६.४.[६]

स वै समिधमाधायाथ व्रतयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा
अग्रेऽथ मनुष्यास्तस्मात्समिधमाधायाथ व्रतयति

६.६.४.[७]

अन्नपतेऽन्नस्य नो देहीति । अशनपतेऽशनस्य नो देहीत्येतदनमीवस्य शुष्मिण
इत्यनशनायस्य शुष्मिण इत्येतत्प्रप्र दातारं तारिष इति यजमानो वै दाता प्र
यजमानं तारिष इत्येतदूर्जं धेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते यदु
भिन्नायै प्रायश्चित्तिमाहोत्तरस्मिंस्तदन्वाख्यान इति

६.६.४.[८]

यद्येषोखा भिद्येत । याभिन्ना नवा स्थाल्युरुबिलो स्यात्तस्यामेनं पर्यावपेदार्चति
वा एषोखा या भिद्यतेऽनार्तो इयं देवतानार्तायामिममनार्तं बिभराणीति
तत्रोखायै कपालं पुरस्तात्प्रास्यति तथो हैष एतस्यै योनेर्न च्यवते

६.६.४.[९]

अथ मृदमाहृत्य । उखां चोपशयां च पिष्ट्वा संसृज्योखां
करोत्येतयैवावृतानुपहरन्यजुस्तूष्णीमेव पक्त्वा पर्यावपति कर्मणिरेव तत्र
प्रायश्चित्तिः पुनस्तत्कपालमुखायामुपसमस्योखां चोपशयां च पिष्ट्वा संसृज्य
निदधाति प्रायश्चित्तिभ्यः

६.६.४.[१०]

अथ यद्येष उख्योऽग्निरनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स
आहृतो भवति गार्हपत्यादेवैनं प्राञ्चमुद्धृत्योपसमाधायोखाम्
प्रवृञ्ज्यादेतयैवावृतानुपहरन्यजुस्तूष्णीमेव तां यदाग्निरारोहति

६.६.४.[११]

अथ प्रायश्चित्ती करोति । सर्वेभ्यो वा एष एतं कामेभ्यो आधत्ते तद्यदेवास्यात्र
कामानां व्यवच्छिद्यतेऽग्नावनुगते तदेवैतत्संतनोति संदधात्युभे प्रायश्चित्ती
करोत्यध्वरप्रायश्चित्तिं चाग्निप्रायश्चित्तिं चाध्वरस्य पूर्वामथाग्नेस्तस्योक्तो
बन्धुः

६.६.४.[१२]

स समिधाज्यस्योपहत्य । आसीन आहुतिं जुहोति विश्वकर्मणे स्वाहेत्यथोपोत्थाय
समिधमादधाति पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्मणो
वसुनीथ यज्ञैरित्येतास्त्वा देवताः पुनः समिन्धतामित्येतद्घृतेन त्वं तन्वं
वर्धयस्व स्तयाः सन्तु यजमानस्य कामा इति घृतेनाह त्वं वर्धयस्व येभ्य उ
त्वां कामेभ्यो यजमान आधत्त तेऽस्य सर्वे सत्याः सन्त्वित्येतत्

६.६.४.[१३]

अथ यदि गार्हपत्योऽनुगच्छेत् । अरणी वाव स गच्छत्यरणिभ्यां हि स आहृतो
भवत्यरणिभ्यामेवैनं मथित्वोपसमाधाय प्रायश्चित्ती करोति

६.६.४.[१४]

अथ यदि प्रसुत आहवनीयोऽनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स
आहृतो भवति गार्हपत्यादेवैनं प्राञ्चं सांकाशिनेन हृत्वोपसमाधाय
प्रायश्चित्तीं करोति यस्तस्मिन्कालेऽध्वरः स्यात्तामध्वरप्रायश्चित्तिं
कुर्यात्समान्यग्निप्रायश्चित्तिः

६.६.४.[१५]

अथ यद्याग्नीध्रीयोऽनुगच्छेत् । गार्हपत्यं वाव स गच्छति गार्हपत्याद्धि स आहृतो
भवति गार्हपत्यादेवैनं प्राञ्चमुत्तरेण सदो हृत्वोपसमाधाय प्रायश्चित्ती
करोत्यथ यदि गार्हपत्योऽनुगच्छेत्तस्योक्तो बन्धुः
६.७.१.[१]

रुक्मं प्रतिमुच्य बिभर्ति । सत्यं हैतद्यद्रुक्भः सत्यं वा एतं यन्तुमर्हति
सत्येनैतं देवा अबिभरुः सत्येनैवैनमेतद्बिभर्ति

६.७.१.[२]

तद्यत्तत्सत्यम् । असौ स आदित्यः स हिरण्मयो भवति ज्योतिर्वै हिरण्यं ज्योतिरेषो
ऽमृतं हिरण्यममृतमेष परिमण्डलो भवति परिमण्डलो ह्येष
एकविंशतिनिर्बाध एकविंशो ह्येष बहिष्टान्निर्बाधं बिभर्ति रश्मयो वा एतस्य
निर्बाधा बाह्यत उ वा एतस्य रश्मयः

६.७.१.[३]

यद्वेव रुक्मं प्रतिमुच्य बिभर्ति । असौ वा आदित्य एष रुक्भो नो हैतमग्निम्
मनुष्यो मनुष्यरूपेण यन्तुमर्हत्येतेनैव रूपेणैतद्रूपं बिभर्ति

६.७.१.[४]

यद्वेव रुक्मं प्रतिमुच्य बिभर्ति । रेतो वा इदं सिक्तमयमग्निस्तेजो वीर्यं
रुक्भोऽस्मिंस्तद्रेतसि तेजो वीर्यं दधाति

६.७.१.[५]

यदेव रुक्मं प्रतिमुच्य बिभर्ति । एतद्वै देवा अबिभयुर्यद्वै न इममिह
रक्षांसि नाष्ट्रा न हन्युरिति तस्मा
एतमन्तिकाद्गोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एष
रुक्भस्तथैवास्मा अयमेतमन्तिकाद्गोप्तारं करोति

६.७.१.[६]

कृष्णाजिने निष्यूतो भवति । यज्ञो वै कृष्णाजिनं यज्ञो वा एतं यन्तुमर्हति
यज्ञेनैतं देवा अबिभरुर्यज्ञेनैवैतमेतद्बिभर्ति लोमतश्चन्दांसि वै लोमानि
छन्दांसि वा एतं यन्तुमर्हन्ति च्छन्दोभिरेतं देवा
अबिभरुश्छन्दोभिरेवैनमेतद्बिभर्ति

६.७.१.[७]

अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति । ऋक्षामयोर्हैते रूपे ऋक्षामे वा
एतं यन्तुमर्हत ऋक्षामाभ्यामेतं देवा
अबिभरुर्ऋक्षामाभ्यामेवैनमेतद्बिभर्ति शाणो रुक्भपाशस्त्रिवृत्तस्योक्तो बन्धुः
६.७.१.[८]

तमुपरिनाभि बिभर्ति । असौ वा आदित्य एष रुक्भ उपरिनाभ्यु वा एषः

६.७.१.[९]

यद्बेवोपरिनाभि । अवाग्वै नाभे रेतः प्रजापतिस्तेजो वीर्यं रुक्भो नेन्मे रेतः
प्रजातिं तेजो वीर्यं रुक्भः प्रदहादिति

६.७.१.[१०]

यद्वेवोपरिनाभि । एतद्वै पशोर्मेध्यतरं यदुपरिनाभि पुरीषसंहिततरं
यदवाङ्नाभेस्तद्यदेव पशोर्मेध्यतरं तेनैनमेतद्बिभर्ति

६.७.१.[११]

यद्वेवोपरिनाभि । यद्वै प्राणस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वैः
प्राणैरुच्चरत्यथ यन्मर्त्यं पराक्तन्नाभिमत्येति तद्यदेव प्राणस्यामृतं
तदेनमेतदभिसम्पादयति तेनैनमेतद्बिभर्ति

६.७.१.[१२]

अथैनमासन्द्या बिभर्ति । इयं वा आसन्द्यस्यां हीदं सर्वमासन्नमियं वा एतं
यन्तुमर्हत्यनयैतं देवा अबिभरुरनयैवैनमेतद्बिभर्ति

६.७.१.[१३]

औदुम्बरी भवति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन बिभर्त्यथो सर्व
एते वनस्पतयो यदुदुम्बरः सर्वे वा एतं वनस्पतयो यन्तुमर्हन्ति सर्वैरेतं
वनस्पतिभिर्देवा अबिभरुः सर्वैरेवैनमेतद्वनस्पतिभिर्बिभर्ति

६.७.१.[१४]

प्रादेशमात्र्यूर्ध्वा भवति । प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा
गर्भसम्मितां तद्योनिं करोत्यरत्निमात्री तिरश्ची बाहुर्वा अरत्निर्बाहुनो वै
वीर्यं क्रियते वीर्यसम्मितैव तद्भवति वीर्यं वा एतं यन्तुमर्हति वीर्येणैतं
देवा अबिभरुर्वीर्येणैवैनमेतद्बिभर्ति

६.७.१.[१५]

चतुःस्रक्तयः पादा बवन्ति । चतुःस्रक्तीन्यनूच्यानि चतस्रो वै दिशो दिशो वा एतं
यन्तुमर्हन्ति दिग्भिरेतं देवा अबिभरुर्दिग्भिरेवैनमेतद्बिभर्ति मौञ्जीभी
रज्जुभिर्व्युता भवति त्रिवृद्भिस्तस्योक्तो बन्धुर्मृदा दिग्धा तस्यो एवोक्तोऽथो
अनतिदाहाय

६.७.१.[१६]

अथैनं शिक्येन बिभर्ति । इमे वै लोका एषोऽग्निर्दिशः शिक्यं दिग्भिर्हीमे लोकाः
शक्नुवन्ति स्थातुं यच्छक्नुवन्ति तस्माच्छिक्यं दिग्भिरेवैनमेतद्बिभर्ति
षडुद्यामं भवति षड्ढि दिशो मौञ्जं त्रिवृत्तस्योक्तो बन्धुर्मृदा दिग्धं
तस्यो एवोक्तोऽथो अनतिदाहाय

६.७.१.[१७]

तस्याप एव प्रतिष्ठा । अप्सु हीमे लोकाः प्रतिष्ठिता आदित्य आसञ्जनमादित्ये हीमे
लोका दिग्भिरासक्ताः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिभर्ति

६.७.१.[१८]

यद्वेवैनं शिक्येन बिभर्ति । संवत्सर एषोऽग्निर्ऋतवः शिक्यमृतुभिर्हि
संवत्सरः शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यमृतुभिरेवैनमेतद्बिभर्ति
षडुद्यामं भवति षड्ढ्यृतवः

६.७.१.[१९]

तस्याहोरात्रे एव प्रतिष्ठा । अहोरात्रयोर्ह्ययं संवत्सरः प्रतिष्ठितश्चन्द्रमा
आसञ्जनं चन्द्रमसि ह्ययं संवत्सर ऋतुभिरासक्तः स यो हैतदेवं वेदैतेनैव
रूपेणैतद्रूपं बिभर्ति तस्य ह वा एष संवत्सरभृतो भवति य एवं वेद
संवत्सरोपासितो हैव तस्य भवति य एवं न वेदेत्यधिदेवतम्

६.७.१.[२०]

अथाध्यात्मम् । आत्मैवाग्निः प्राणाः शिक्यं प्राणैर्ह्ययमात्मा शक्नोति स्थतुं
यच्छक्नोति तस्माच्छिक्यं प्राणैरेवैनमेतद्बिभर्ति षडुद्यामं भवति षड्ढि
प्राणाः

६.७.१.[२१]

तस्य मन एव प्रतिष्ठा । मनसि ह्ययमात्मा प्रतिष्ठितोऽन्नमासञ्जनमन्ने
ह्ययमात्मा प्राणैरासक्तः स यो हैतदेवं वेदैतेनैव रूपेणैतद्रूपं बिभर्ति

६.७.१.[२२]
अथैनमुखया बिभर्ति । इमे वै लोका उखेमे वा एतं लोका
यन्तुमर्हन्त्येभिरेतं लोकैर्देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बिभर्ति

६.७.१.[२३]

सा यदुखा नाम । एतद्वै देवा एतेन
कर्मणैतयावृतेमांलोकानुदखनन्यदुदखनंस्तस्मादुत्खीत्खा ह वै
तामुखेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः

६.७.१.[२४]

तद्वा उखेति द्वे अक्षरे । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतद्बिभर्ति सो एव कुम्भी सा स्थाली तत्षट्षडृतवः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.७.१.[२५]

अथैनमिण्ड्वा परिगृह्णाति । असौ वा आदित्य एषोऽग्निरहोरात्रे इण्ड्वे अमुं
तदादित्यमहोरात्राभ्यां परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः

६.७.१.[२६]

यद्वेवैननमिण्ड्वाभ्यां परिगृह्णाति । असौ वा आदित्य एषोऽग्निरिमा उ लोकाविण्ड्वे
अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति तस्मादेष आभ्यां लोकाभ्याम्
परिगृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ मौञ्जे त्रिवृती
तस्योक्तो बन्धुर्मृदा दिग्धे तस्यो एवोक्तोऽथो अनतिदाहाय

६.७.१.[२७]

अथातः सम्पदेव । आसन्दी चोखा च शिक्यं च रुक्मपाशश्चाग्निश्च रुक्मश्च
तत्षट्षडृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवतीण्ड्वे तदष्टावष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति

६.७.१.[२८]

अथ सर्वसम्पत् । चत्वारः पादाश्चत्वार्यनूच्यानि शिक्यं च रुक्मपाशश्च यदु किं
च रज्जव्यं शिक्यं तदनूखाग्नी रुक्भस्तत्त्रयोदश त्रयोदश मासाः संवत्सरः
संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

६.७.२.[१]
तं तिष्ठन्प्रतिमुञ्चते । असौ वा आदित्य एष रुक्भस्तिष्ठतीव वा असावादित्योऽथो
तिष्ठन्वै वीर्यवत्तर उदङ्प्राङ्तिष्ठंस्तस्योक्तो बन्धुः

६.७.२.[२]

दृशानो रुक्भ उर्व्या व्यद्यौदिति । दृश्यमानो ह्येष रुक्भ उर्व्या विद्योतते
दुर्मर्षमायुः श्रिये रुचान इति दुर्मरं वा एतस्यायुः श्रियो एष रोचतेऽग्निरमृतो
अभवद्वयोभिरिति सर्वैर्वा एष वयोभिरमृतोऽभवद्यदेनं द्यौरजनयदिति
द्यौर्वा एतमजनयत्सुरेता इति सुरेता ह्येषा यस्या एष रेतः

६.७.२.[३]

अथैनमिण्ड्वाभ्यां परिगृह्णाति । नक्तोषासा समनसा विरूपे इत्यहोरात्रे वै
नक्तोषासा समनसा विरूपे धापयेते शिशुमेकं समीची इति यद्वै किं
चाहोरात्रयोस्तेनैतमेव समीची धापयेते द्यावाक्षामा रुक्भो अन्तर्विभातीति
हरन्नेतद्यजुर्जपतीमे वै द्यावापृथिवी द्यावाक्षामा ते एष यन्नन्तरा विभाति
तस्मादेतद्धरन्यजुर्जपति देवा अग्निं धारयन्द्रविणोदा इति परिगृह्य निदधाति
प्राणा वै देवा द्रविणोदास्त एतमग्र एवमधारयंस्तैरेवैनमेतद्धारयति

६.७.२.[४]

अथ शिक्यपाशं प्रतिमुञ्चते । विश्वा रूपाणि प्रतिमुञ्चतेकविरित्यसौ वा आदित्यः
कविर्विश्वा रूपा शिक्यं प्रासावीद्भद्रं द्विपदे चतुष्पद इत्युद्यन्वा एष द्विपदे
चतुष्पदे च भद्रं प्रसौति वि नाकमख्यत्सविता वरेण्य इति स्वर्गो वै लोको
नाकस्तमेष उद्यन्नेवानुविपश्यन्यनु प्रयाणमुषसो विराजतीत्युषा वा अग्रे
व्युच्छति तस्या एष व्युष्टिं विराजन्ननूदेति

६.७.२.[५]

अथैनमतो विकृत्या विकरोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्यौनौ रेतः
सिक्तं विक्रियते

६.७.२.[६]

सुपर्णोऽसि गरुत्मानिति । वीर्यं वै सुपर्णो
गरुत्मान्वीर्यमेवैनमेतदभिसंस्करोति त्रिवृत्ते शिर इति त्रिवृतमस्य स्तोमं शिरः
करोति गायत्रं चक्षुरिति गायत्रं चक्षुः करोति बृहद्रथन्तरे पक्षाविति
बृहद्रथन्तरे पक्षौ करोति स्तोम आत्मेति स्तोममात्मानं करोति पञ्चविंशं
छन्दांस्यङ्गानीति छन्दांसि वा एतस्याङ्गानि यजूंषि नामेति यदेनमग्निरित्याचक्षते
तदस्य यजूंषि नाम साम ते तनूर्वामदेव्यमित्यात्मा वै तनूरात्मा ते
तनूर्वामदेव्यमित्येतद्यज्ञायज्ञियं पुच्छमिति यज्ञायज्ञियं पुचं करोति
धिष्ण्याः शफा इति धिष्णयिर्वा एषोऽस्मिंलोके प्रतिष्ठितः सुपर्णोऽसि गरुत्मान्दिवं
गच्छ स्वः पतेति तदेनं सुपर्णं गरुत्मन्तं कृत्वाह देवान्गच्छ स्वर्गं लोकम्
पतेति
६.७.२.[७]

तं वा एतम् । अत्र पक्षपुच्छवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते
तादृग्जायते तद्यदेतमत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र
पक्षपुच्छवान्जायते

६.७.२.[८]

तं हैके । एतया विकृत्याभिमन्त्र्यान्यां चितिं चिन्वन्ति द्रोणचितं वा रथचक्रचितं
वा कङ्कचितं वा प्रौगचितं वोभयतः प्रौगं वा समुह्यपुरीषं वा न तथा
कुर्याद्यथा पक्षपुच्छवन्तं गर्भं परिवृश्चेत्तादृक्तत्तस्मादेनं
सुपर्णचितमेव चिनुयात्

६.७.२.[९]

तमेतया विकृत्या । इत ऊर्ध्वं प्राञ्चं प्रगृह्णात्यसौ वा आदित्य एषोऽग्निरमुं
तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयते
परोबाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरति
तमुपावहृत्योपरिनाभि धारयति तस्योक्तो बन्धुः

६.७.२.[१०]

अथ विष्णुक्रमान्क्रमते । एतद्वै देवा विष्णुर्भूत्वेमांलोकानक्रमन्त
यद्विष्णुर्भूत्वाक्रमन्त तस्माद्विष्णुक्रमास्तथैवैतद्यजमानो
विष्णुर्भूत्वेमांलोकान्क्रमते

६.७.२.[११]

स यः स विष्णुर्यज्ञः सः । स यः स यज्ञोऽयमेव स योऽयमग्निरुखायामेतमेव
तद्देवा आत्मानं कृत्वेमांलोकानक्रमन्त तथैवैतद्यजमान एतमेवात्मानं
कृत्वेमांलोकान्क्रमते

६.७.२.[१२]

उदङ्प्राङ्तिष्ठन् । एतद्वै तत्प्रजापतिर्विष्णुक्रमैरुदङ्प्राङ्तिष्ठन्प्रजा असृजत
तथैवैतद्यजमानो विष्णुक्रमैरुदङ्तिष्ठन्प्रजाः सृजते

६.७.२.[१३]

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमते सपत्नहेति सपत्नान्हात्र हन्ति
गायत्रं च्छन्द आरोहेति गायत्रं च्छन्द आरोहति पृथिवीमनु विक्रमस्वेति
पृथिवीमनु विक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि
रोहति

६.७.२.[१४]

विष्णोः । क्रमोऽसीति विष्णुर्हि भूत्वा क्रमतेऽभिमातिहेत्यभिमातीर्हात्र हन्ति
त्रैष्टुभं च्छन्द आरोहेति त्रैष्टुभं च्छन्द आरोहत्यन्तरिक्षमनु
विक्रमस्वेत्यन्तरिक्षमनु विक्रमत प्रहरति पादं क्रमत
ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति

६.७.२.[१५]

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमतेऽरातीयतो हन्तेत्यरातीयतो हात्र हन्ति
जागतं च्छन्द आरोहेति जागतं च्छन्द आरोहति दिवमनु विक्रमस्वेति दिवमनु
विक्रमते प्रहरति पादं क्रमत ऊर्ध्वमग्निमुद्गृह्णात्यूर्ध्वो हि रोहति

६.७.२.[१६]

विष्णोः क्रमोऽसीति । विष्णुर्हि भूत्वा क्रमते शत्रूयतो हन्तेति शत्रुयतो हात्र
हन्त्यानुष्टुभं च्छन्द आरोहेत्यानुष्टुभं च्छन्द आरोहति दिशोऽनु विक्रमस्वेति
सर्वा दिशोऽनु वीक्षते न प्रहरति पादं
नेदिमांलोकानतिप्रणश्यानीत्यूर्ध्वमेवाग्निमुद्गृह्णाति सं ह्यारोहति

६.७.३.[१]

अथैनमिति प्रगृह्णाति । एतद्वै देवा अकामयन्त पर्जन्यो रूपं स्यामेति त
एतेनात्मना पर्जन्यो रूपमभवंस्तथैवैतद्यजमान एतेनात्मना पर्जन्यो
रूपं भवति

६.७.३.[२]

अक्रन्ददग्नि स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्य स्तनयन्क्षामा
रेरिहद्वीरुधः समञ्जन्निति क्षमा वै पर्जन्यो रेरिह्यमाणो वीरुधः समनक्ति
सद्यो जज्ञानो वि हीमिद्धो अख्यदिति सद्यो वा एष जज्ञान इदं सर्वं विख्यापयत्या
रोदसी भानुना भात्यन्तरितीमे वै द्यावापृथिवी रोदसी ते एष भानुनाभाति
परोबाहु प्रगृह्णाति परोबाहु हि पर्जन्यः

६.७.३.[३]

अथैनमुपावहरति । एतद्वै योऽस्मिंलोके रसो यदुपजीवनं तेनैतत्सहोर्ध्व
इमांलोकान्रोहत्यग्निर्वा अस्मिंलोके रसोऽग्निरुपजीवनं तद्यत्तावदेव स्यान्न
हास्मिंलोके रसो नोपजीवनं स्यादथ यत्प्रत्यवरोहत्यस्मिन्नेवैतल्लोके
रसमुपजीवनं दधाति
६.७.३.[४]

यद्वेव प्रत्यवरोहति । एतद्वा एतदिमांलोकानित ऊर्ध्वो रोहति स स पराङिव रोह
इयमु वै प्रतिष्ठा तद्यत्तावदेव स्यात्प्र हास्माल्लोकाद्यजमानश्च्यवेताथ
यत्प्रत्यवरोहतीमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायाम्
प्रतितिष्ठति

६.७.३.[५]

यदेवं प्रत्यवरोहति । एतद्वा एतदिमांलोकानित ऊर्ध्वो जयति स स पराङिव जयो
यो वै पराङेव जयत्यन्ये वै तस्य जितमन्ववस्यन्त्यथ य उभयथा जयति तस्य
तत्र कामचरणं भवति
तद्यत्प्रत्यवरोहतीमानेवैतल्लोकानितश्चोर्ध्वानमुतश्चार्वाचो जयति

६.७.३.[६]

अग्नेऽभ्यावर्तिन् । अभि मा निवर्तस्वाग्ने अङ्गिरः पुनरूर्जा सह रय्येत्येतेन मा
सर्वेणाभिनिवर्तस्वेत्येतच्चतुष्कृत्वः प्रत्यवरोहति चतुर्हि कृत्व ऊर्ध्वो रोहति
तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति तमुपावहृत्योपरिनाभि
धारयति तस्योक्तो बन्धुः

६.७.३.[७]

अथैनमभिमन्त्रयते । आयुर्वा अग्निरायुरेवैतदात्मन्धत्त आ त्वाहार्षमित्या
ह्येनं हरन्त्यन्तरभूरित्यायुरेवैतदात्मन्धत्ते
ध्रुवस्तिष्ठाविचाचलिरित्यायुरेवैतद्ध्रुवमन्तरात्मन्धत्ते विशस्त्वा सर्वा
वाञ्चन्त्वित्यन्नं वै विशोऽन्नं त्वा सर्वं वाञ्चत्वित्येतन्मा
त्वद्राष्ट्रमधिभ्रशदिति श्रीर्वै राष्ट्रं मा त्वच्रीरधिभ्रशदित्येतत्

६.७.३.[८]

अथ शिक्यपाशं च रुक्भपाशं चोन्मुञ्चते । वारुणो वै पाशो वरुणपाशादेव
तत्प्रमुच्यते वारुण्यऽर्चा स्वेनैव तदात्मना स्वया देवतया
वरुणपाशात्प्रमुच्यत उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं
श्रथायेति यथैव यजुस्तथा बन्धुरथा वयमादित्य व्रते तवानागसो अदितये
स्यामेतीयं वा अदितिरनागसस्तुभ्यं चास्यै स्यामेत्येतत्

६.७.३.[९]

अथैनमिति प्रगृह्णाति । एतद्वा एनमदो विकृत्येत ऊर्ध्वं प्राञ्चं प्रगृह्णाति तं
तत इति प्रगृह्णाति तद्यत्तावदेवाभविष्यदत्र हैवैष व्यरंस्यताथ यदेनमिति
प्रगृह्णाति तस्मादेष इतीत्वाथेति पुनरैति
६.७.३.[१०]

अग्रे बृहन्नुषसामूर्ध्वो अस्थादिति । अग्रे ह्येष बृहन्नुषसामूर्ध्वस्तिष्ठति
निर्जगन्वान्तमसो ज्योतिषागादिति निर्जगन्वान्वा एष रात्र्यै तमसोऽह्ना
ज्योतिषैत्यग्निर्भानुना रुशता स्वङ्ग इत्यग्निर्वा एष भानुना रुशता स्वङ्ग आ जातो
विश्वा सद्नान्यप्रा इतीमे वै लोका विश्वा सद्नानि तानेष जात आपूरयति परोबाहु
प्रगृह्णाति परोबाहु ह्येष इतो
ऽथैनमुपावहरतीमामेवैतत्प्रतिष्ठाम्मभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायाम्
प्रतितिष्ठति जगत्या जगति हेमांलोकानमुतोऽर्वाचो व्यश्नुते

६.७.३.[११]

हंसः शुचिषदिति । असौ वा आदित्यो हंसः शुचिषद्वसुरन्तरिक्षसदिति वायुर्वै
वसुरन्तरिक्षसद्धोता वेदिषदित्यग्निर्वै होता वेदिषदतिथिरिति सर्वेषां वा एष
भूतानामतिथिर्दुरोणसदिति विषमसदित्येतन्नृषदिति प्राणो वै नृषन्मनुष्या
नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतदाह वरसदिति सर्वेषु ह्येष
वरेषु सन्न ऋतसदिति सत्यसदित्येतद्व्योमसदिति सर्वेषु ह्येष व्योमसु सन्नोऽब्जा
गोजा इत्यब्जाश्च ह्येष गोजाश्चऽर्तजा इति सत्यजा इत्येतदद्रिजा इत्यद्रिजा ह्येष ऋतमिति
सत्यमित्येतद्बृहदिति निदधाति बृहद्ध्येष तद्यदेष तदेनमेतत्कृत्वा निदधाति

६.७.३.[१२]

द्वाभ्यामक्षराभ्याम् । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्याक्त्यस्य मात्रा
तावतैवैनमेतन्निदधाति

६.७.३.[१३]

अथैनमुपतिष्ठते । एतद्वा एनमेतल्लघूयतीव यदेनेन सहेति चेति
चेमांलोकान्क्रमते तस्मा एवैतन्निह्नुतेऽहिंसायै

६.७.३.[१४]

यद्वेवोपतिष्ठते । एतद्वै देवा अबिभयुर्यद्वै नोऽयमिमांलोकानन्तिकान्न
हिंस्यादिति तदेभ्य एवैनमेतल्लोकेभ्योऽशमयंस्तथैवैनमयमेतदेभ्यो
लोकेभ्यः शमयति

६.७.३.[१५]

सीद त्वं मातुः । अस्या उपस्थेऽन्तरग्ने रुचा त्वं शिवो भूत्वा मह्यमग्ने अथो
सीद शिवस्त्वमिति शिवःशिव इति शमयत्येवैनमेतदहिंसायै तथो हैष
इमांलोकाञ्चान्तोन हिनस्ति

६.७.३.[१६]
त्रिभिरुपतिष्ठते । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मा एतन्निह्नुतेऽथो तावतैवैनमेतदेभ्यो लोकेभ्यः शमयति

६.७.४.[१]

अथ वात्सप्रेणोपतिष्ठते । एतद्वै प्रजापतिर्विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो
वात्सप्रेणायुष्यमकरोत्तथैवैतद्यजमानो विष्णुक्रमैः प्रजाः सृष्ट्वा ताभ्यो
वात्सप्रेणायुष्यं करोति

६.७.४.[२]

स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत
सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत्तदस्मै जातायायुष्यं करोति तथो ह स
सर्वमायुरेत्यथ यं कामयेत वीर्यवान्त्स्यादिति विकृत्यैनम्
पुरस्तादभिमन्त्रयेत तथो ह स वीर्यवान्भवति

६.७.४.[३]

दिवस्परि प्रथमं जज्ञे अग्निरिति । प्राणो वै दिवः प्राणादु वा एष
प्रथममजायतास्मद्द्वितीयं परि जातवेदा इति यदेनमदो द्वितीयम्
पुरुषविधोऽजनयत्तृतीयमप्स्विति यदेनमदस्तृतीयमद्भ्योऽजनयन्नृमण
अजस्रमिति प्रजापतिर्वै नृमणा अग्निरजस्र इन्धान एनं जरते स्वाधीरिति यो वा
एनमिन्द्धे स एनं जनयते स्वाधीः

६.७.४.[४]

विद्ना ते अग्ने त्रेधा त्रयाणीति । अग्निर्वायुरादित्य एतानि हास्य तानि त्रेधा त्रयाणि विद्ना
ते धाम विभृता पुरुत्रेति यदिदं बहुधा विह्रियते विद्ना ते नाम परमं गुहा
यदिति यविष्ठ इति वा अस्य तन्नाम परमं गुहा विद्ना तमुत्सं यत
आजगन्थेत्यापो वा उत्सोऽद्भ्यो वा एष प्रथममाजगाम समुद्रे त्वा नुमणा
अप्स्वन्तरिति प्रजापतिर्वै नृमणा अप्सु त्वा प्रजापतिरित्येतन्नृचक्षा ईधे दिवो अग्न
ऊधन्निति प्रजापतिर्वै नृचक्षा आपो दिव ऊधस्तृतीये त्वा रजसि तस्थिवांसमिति
द्यौर्वै तृतीयं रजोऽपामुपस्थे महिषा अवर्धन्निति प्राणा वै महिषा दिवि त्वा
प्राणा अवर्धन्नित्येतत्

६.७.४.[५]

ता एता एकव्याख्यानाः । एतमेवाभि ता आग्नेय्यस्त्रिष्टुभस्ता यदाग्नेय्यस्तेनाग्निरथ
यत्त्रिष्टुभो यदेकादश तेनेन्द्र ऐन्द्राग्नोऽग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपतिष्ठत इन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावत्य

६.७.४.[६]

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजास्य मात्रा
तावतैवैनमेतदुपतिष्टतेपतिरिमं लोकमसृजत वात्सप्रेणाग्निं विष्णुक्रमैर्वै
प्रजापतिरन्तरिक्षमसृजत वात्सप्रेण वायं विष्णुक्रमैर्वै प्रजापतिर्दिवमसृजत
वात्सप्रेणादित्यं विष्णुक्रमैर्वै प्रजापतिर्दिशोऽसृजत वात्सप्रेण चन्द्रमसं
विष्णुक्रमैर्वै प्रजापतिर्भूतमसृजत वात्सप्रेण भविष्यद्विष्णुक्रमैर्वै
प्रजापतिर्वित्तमसृजत वात्सप्रेणाशां विष्णुक्रमैर्वै प्रजापतिरहरसृजत
वात्सप्रेण रात्रिं विष्णुक्रमैर्वै प्रजापतिः पूर्वपक्षानसृजत
वात्सप्रेणापरपक्षान्विष्णुक्रमैर्वै प्रजापतिरर्धमासानसृजत वात्सप्रेण
मासान्विष्णुक्रमैर्वै प्रजापतिर्ऋतूनसृजत वात्सप्रेण संवत्सरं
तद्यद्विष्णुक्रमवात्सप्रे भवत एतदेव तेन सर्वं सृजते

६.७.४.[७]

यद्वेव विष्णुक्रमवात्सप्रे भवतः । विष्णुक्रमैर्वै प्रजापतिः स्वर्गं
लोकमभिप्रायात्स एतदवसानमपश्यद्वात्सप्रं तेनावास्यदप्रदाहाय यद्धि
युक्तं न विमुच्यते प्र तद्दह्यते तथैवैतद्यजमानो विष्णुक्रमैरेव स्वर्गं
लोकमभिप्रयाति वात्सप्रेणावस्यति

६.७.४.[८]

स वै विष्णुक्रमान्क्रान्त्वा । अथ तदानीमेव वात्सप्रेणोपतिष्ठते यथा प्रयायाथ
तदानीमेव विमुञ्चेत्तादृक्तद्देवानां वै विधामनु मनुष्यास्तस्मादु हेदमुत
मानुषो ग्रामः प्रयायाथ तदानीमेवावस्यति

६.७.४.[९]

तद्वा अहोरात्रे एव विष्णुक्रमा भवन्ति । अहोरात्रे वात्सप्रमहोरात्रे एव
तद्यात्यहोरात्रे क्षेम्यो भवति तस्मादु हेदमुत मानुषो ग्रामोऽहोरात्रे
यात्वाहोरात्रे क्षेम्यो भवति

६.७.४.[१०]

स वा अर्धमेव संवत्सरस्य विष्णुक्रमान्क्रमते । अर्धं वात्सप्रेणोपतिष्ठते
मध्ये ह संवत्सरस्य स्वर्गो लोकः स यत्कनीयोऽर्धात्क्रमेत न हैतं स्वर्गं
लोकमभिप्राप्नुयादथ यद्भूयोऽर्धात्पराङ्हैतं स्वर्गं
लोकमतिप्रणश्येदथ यदर्धं क्रमतेऽर्धमुपतिष्ठते तत्सम्प्रति स्वर्गं
लोकमाप्त्वा विमुञ्चते

६.७.४.[११]

ताभ्यां वै विपर्यासमेति । यथा महान्तमध्वानं विमोकं समश्नुवीत
तादृक्तत्स वै पुरस्ताच्चोपरिष्टाच्चोभे विष्णुक्रमवात्सप्रे समस्यत्यहर्वै
विष्णुक्रमा रात्रिर्वात्सप्रमेमेतद्वा इदं सर्वं प्रजापतिः प्रजनयिष्यंश्च
प्रजनयित्वा चाहोरात्राभ्यामुभयतः परिगृह्णाति
६.७.४.[१२]

तदाहुः । यदहर्विष्णुक्रमा रात्रिर्वात्सप्रमथोभे एवाहन्भवतो न रात्र्यां
कथमस्यापि रात्र्यां कृते भवत इत्येतद्वा एने अदो दीक्षमाणः पुरस्तादपराह्ण
उभे समस्यति रात्रिर्हैतद्यदपराह्णोऽथैने एतत्संनिवष्स्यन्नुपरिष्टात्पूर्वाह्ण
उभे समस्यत्यहर्हैतद्यत्पूर्वाह्ण एवमु हास्योभे एवाहन्कृते भवत उभे
रात्र्याम्

६.७.४.[१३]

स यदहः संनिवप्स्यन्त्स्यात् तदहः प्रातरुदित आदित्ये भस्मैव
प्रथममुद्वपति भस्मोदुप्य वाचं विसृजते वाचं विसृज्य समिधमादधाति
समिधमाधाय भस्मापोऽभ्यवहरति यथैव तस्याभ्यवहरणं तथापादाय
भस्मनः प्रत्येत्योखायामोप्योपतिष्ठतेऽथ प्रायश्चित्ती करोति

६.७.४.[१४]

स यदि विष्णुक्रमीयमहः स्यात् । विष्णुक्रमान्क्रान्त्वा वात्सप्रेणोपतिष्ठेताथ यदि
वात्सप्रीयं वात्सप्रेणोपस्थाय विष्णुक्रमान्क्रान्त्वा वात्सप्रमन्ततः कुर्यान्न
विष्णुक्रमानन्ततः कुर्याद्यथा प्रयाय न विमुञ्चेत्तादृक्तदथ
यद्वात्सप्रमन्ततः करोति प्रतिष्ठा वै वात्सप्रं यथा
प्रतिष्ठापयेदवसाययेत्तादृक्तत्तस्मादु वात्सप्रेमेवान्ततः कुर्यात्

६.८.१.[१]

वनीवाह्येताग्निं बिभ्रदित्याहुः । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते
देवाश्चक्रमचरञ्छालमसुरा आसंस्ते देवाश्चक्रेण चरन्त एतत्कर्मापश्यंश्चक्रेण
हि वै देवाश्चरन्त एतत्कर्मापश्यंस्तस्मादनस एव पौरोडाशेषु यजूंष्यनसो
ऽग्नौ

६.८.१.[२]

स यो वनीवाह्यते । देवान्कर्मणैति दैवं हास्य कर्म कतं भवत्यथ यो न
वनीवाह्यतेऽसुरान्कर्मणैत्यसुर्यं हास्य कर्म कृतं भवति

६.८.१.[३]

तद्धैक आहुः । स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति
वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा
दैवमवसानं यद्वात्सप्रमथास्येदं मानुषं प्रयाणं यदिदं प्रयाति
मानुषमवसानं यदवस्यति

६.८.१.[४]

प्रजापतिरेषोग्निः । उभयम्वेतत्प्रजापतिर्यच्च देवा यच्च
मनुष्यास्तद्यद्विष्णुक्रमवात्सप्रे भवतो यद्ववास्य दैवं रूपं तदस्य तेन
संस्करोत्यथ यद्वनीवाह्यते यदेवास्य मानुषं रूपं तदस्यतेन संस्करोति स
ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वान्वनीवाह्यते तस्मादु
वनीवाह्येतैव

६.८.१.[५]

स यदहः प्रयास्यन्त्स्यात् । तदहरुत्तरतोऽग्नेः प्रागन
उपस्थाप्याथास्मिन्त्समिधमादधात्येतद्वा एनं देवा एष्यन्तम्
पुरस्तादन्नेनाप्रीणन्नेतया समिधा तथैवैनमयमेतदेष्यन्तम्
पुरस्तादन्नेन प्रीणात्येतया समिधा

६.८.१.[६]

समिधाग्निं दुवस्यतेति । समिधाग्निं
नमस्यतेत्येतद्घृतैर्बोधयतातिथिमास्मिन्हव्या जुहोतनेति घृतैरह
बोधयतातिथिमो अस्मिन्हव्यानि जुहुतेत्येतद्ब्रुद्धवत्येत्पायै
ह्येनमेतद्बोधयति

६.८.१.[७]

अथैनमुद्यच्छति । उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति विश्वे वा एतमग्रे
देवाश्चित्तिभिरुदभरन्नेतद्ध्येषां तदा
चित्तमासीत्तथैवैनमयमेतच्चितिभिरुद्भरत्येतद्ध्यस्य तदा चित्तं भवति स
नो भव शिवस्त्वं सुप्रतीको विभावसुरिति यथैव यजुस्तथा बन्धुस्तं दक्षिणत
उदञ्चमादधाति तस्यो बन्धु स्थाल्यां गार्हपत्यं समुप्यापरमादधाति स यदि
कामयेतोपाधिरोहेत्पार्श्वतो वा व्रजेत्

६.८.१.[८]

अथानड्वाहौ युनक्ति । दक्षिणमग्रेऽथ सव्यमेवं देवत्रेतरथा मानुषे स
यां कां च दिशं यास्यन्त्स्यात्प्राङेवाग्रे प्रयायात्प्राची हि दिगग्नेः स्वामेव
तद्दिशमनु प्रयाति

६.८.१.[९]

प्रेदग्ने ज्योतिष्मान्याहि । शिवेभिरर्चिभिष्ट्वामिति प्रेदग्ने त्वं ज्योतिष्मान्याहि
शिवेभिरर्चिभिर्दीप्यमानैरित्येतद्बृहद्भिर्भानुभिर्भासन्मा हिंसीस्तन्वा प्रजा इति
बृहद्भिरर्चिभिर्दीप्यमानैर्मा हिंसीरात्मना प्रजा इत्येतत्

६.८.१.[१०]

स यदाक्ष उत्सर्जेत् । अथैतद्यजुर्जपेदसुर्या वा एषा वाग्याक्षस्य तामेतच्छमयति
तामेतद्देवत्रा करोति

६.८.१.[११]

यद्वेवैतद्यजुर्जपति । यस्मिन्वै कस्मिंश्चाहितेऽक्ष उत्सर्जति तस्यैव सा
वाग्भवति तद्यदग्नावाहितेऽक्ष उत्सर्जत्यग्नेरेव सा वाग्भवत्यग्निमेव तद्देवा
उपास्तुवन्नुपामहयंस्तथैवैनमयमेतदुपस्तौत्युपमहयत्यक्रन्ददग्नि
स्तनयन्निव द्यौरिति तस्योक्तो बन्धुः

६.८.१.[१२]

स यदि पुरा वसत्यै विमुञ्चेत । अनस्येवाग्निः स्यादथ यदा वसत्यै विमुञ्चेत
प्रागन उपस्थाप्योत्तरत उद्धत्यावोक्षति यत्रैनमुपावहरति तं दक्षिणत
उदञ्चमुपावहरति तस्योक्तो बन्धुः

६.८.१.[१३]

अथास्मिन्त्समिधमादधाति । एतद्वा एनं देवा
ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतया समिधा
तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतया समिधा

६.८.१.[१४]

प्र प्रायमग्निर्भरतस्य शृण्व इति । प्रजापतिर्वै भरतः स हीदं सर्वं बिभर्ति
वि यत्सूर्यो न रोचते बृहद्भा इति वि यत्सूर्य इव रोचते बृहद्भा इत्येतदभि यः
पूरुं पृतनासु तस्थाविति पूरुर्ह नामासुररक्षसमास तमग्निः
पृतनास्वभितष्ठौ दीदाय दैव्यो अतिथिः शिवो न इति दीप्यमानो दैवोऽतिथिः शिवो न
इत्येतत्स्थितवत्या वसत्यै ह्येनं तत्स्थापयति

६.८.१.[१५]

अथातः सम्पदेव । समिधं प्रथमेनादधात्युद्यच्छत्येकेन
प्रयात्येकेनाक्षमेकेनानुमन्त्रयते समिधमेव पञएमेनादधाति तत्पञ्च
पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति

६.८.२.[१]

अथातो भस्मन एवाभ्यवहरणस्य । देवा वा एतदग्रे भस्मोदवपंस्ते
ऽब्रुवन्यदि वा इदमित्थमेव सदात्मानमभिसंस्करिष्यामहे मर्याः कुणपा
अनपहतपाप्मानो भविष्यामो यद्यु परावप्स्यामो यदत्राग्नेयं बहिर्धा
तदग्नेः करिष्याम उप तज्जानीत यथेदं करवामेति तेऽब्रुवंश्चेतयध्वमिति
चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं करवामेति

६.८.२.[२]

ते चेतयमानाः । एतदपश्यन्नप एवैनदभ्यवहरामापो वा अस्य सर्वस्य
प्रतिष्ठा तद्यत्रास्य सर्वस्य प्रतिष्ठा तदेनत्प्रतिष्ठाप्य यदत्राग्नेयं
तदद्भ्योऽधि जनयिष्याम इति तदपोऽभ्यवाहरंस्तथैवैनदयमेतदपो
ऽभ्यवहरति

६.८.२.[३]

आपो देवीः । प्रतिगृभ्णीत भस्मैतत्स्योने कृणुध्वं सुरभा उ लोक इति जग्धं वा
एतद्यातयाम भवति तदेतदाह स्रभिष्ठ एनल्लोके कुरुध्वमिति तस्मै
नमन्तां जनय इत्यापो वै जनयोऽद्भ्यो हीदं सर्वं जायते सुपत्नीरित्यग्निना वा
आपः सुपत्न्यो मातेव पुत्रं बिभृताप्स्वेनदिनि यथा माता पुत्रमपस्थे
बिभृयादेवमेनद्बिभृतेन्येतत्

६.८.२.[४]

अप्स्वग्ने सधिष्टवेति । अप्स्वग्ने योनिष्टवेत्येतत्सौषधीरनुरुध्यस
इत्योषधीर्ह्येषोऽनुरुध्यते गर्भो सन्जायसे पुनरिति गर्भो ह्येष सन्जायते
पुनर्गर्भो अस्योषधीनां गर्भो वनस्पतीनां गर्भो विश्वस्य भूतस्याग्ने
गर्भो अपामसीति तदेनमस्य सर्वस्य गर्भं करोति

६.८.२.[५]

त्रिभिरभ्यवहरति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनदेतदभ्यवहरत्येकेनाग्रेऽथ द्वाभ्यां द्वाभ्यां वाग्रेऽथैकेन
द्विस्तु कृत्वोऽभ्यवहरति तद्ये द्विपादाः पशवस्तैरेवैनदेतदभ्यवहरति

६.८.२.[६]

अथापादत्ते । तद्यदत्राग्नेयं तदेतदद्भ्योऽधि जनयत्यनयानया वै भेषजं
क्रियतेऽनयैवैनमेतत्सम्भरति प्रसद्य भस्मना योनिमपश्च पृथिवीमग्न
इति प्रसन्नो ह्येष भस्मना योनिमपश्च पृथिवीं च भवति संसृज्य
मातृभिष्ट्वं ज्योतिष्मान्पुनरासद इति संगत्य मातृभिष्ट्वं ज्योतिष्मान्पुनरासद
इत्येतत्पुनरासद्य सदनं पुनरूर्जा सह रय्येत्येतेन मासर्वेणाभिनिवर्तस्वेत्येतत्

६.८.२.[७]

चतुर्भिरपादत्ते । तद्ये चतुष्पादाः पशवस्तैरेवैनमेतत्सम्भरत्यथो अन्नं
वै पशवोऽन्नेनैवैनमेतत्सम्भरति त्रिभिरभ्यवहरति तत्सप्त सप्तचितिको
ऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति

६.८.२.[८]

अपादाय भस्मनः प्रत्येत्य । उखायामोप्योपतिष्ठत एतद्वा एतदयथायथं
करोति यदग्निमपोऽभ्यवहरति तस्मा एवैतन्निह्नुतेऽहिंसाया आग्नेयीभ्यामग्नय
एवैतन्निह्नुते बुद्धवतीभ्यां यथैवास्यैतदग्निर्वचो निबोधेत्

६.८.२.[९]

बोधा मे अस्य वचसो यविष्ठेति । बोध मेऽस्य वचसो
यविष्ठेत्येतन्मंहिष्ठस्य प्रभृतस्य स्वधाव इति भूयिष्ठस्य प्रभृतस्य
स्वधाव इत्येतत्पीयति त्वो अनु त्वो गृणातीति पीयत्येकोऽन्वेको गृणाति वन्दारुष्टे
तन्वं वन्दे अग्न इति वन्दिता तेऽहं तन्वं वन्देऽग्न इत्येतत्स बोधि सूरिर्मघवा
वसुपते वसुदावन् युयोध्यस्मद्द्वेषांसीति यथैवास्माद्द्वेषांसि
युयादेवमेतदाह द्वाभ्यामुपतिष्ठते गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः

६.८.२.[१०]

तानि नव भवन्ति । नव दिशो दिशोऽग्निर्नव प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य
मात्रा तावत्तद्भवति

६.८.२.[११]

अथ प्रायश्चित्ती करोति । सर्वेभ्यो वा एष एतं कामेभ्य आधत्ते तद्यदेवास्यात्र
कामानां व्यवच्छिद्यतेऽग्नावपोऽभ्यवह्रियमाणे तदेवैतत्संतनोति
संदधात्युभे प्रायश्चित्ती करोति ये एवाग्नावनुगते तस्योक्तो बन्धुः

६.८.२.[१२]

तानि दश भवन्ति । दशाक्षरा विराड्विराडग्निर्देश दिशो दिशोऽग्निर्दश प्राणाः प्राणा
अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

७.१.१.[१]

गार्हपत्यं चेष्यन्पलाशशाखया व्युदूहति । अवस्यति हैतद्यद्गार्हपत्यं चिनोति
य उ वै के चाग्निचितोऽस्यामेव तेऽवसितास्तद्यद्व्युदूहत्यवसितानेव तद्व्युदूहति
नेदवसितानध्यवस्यानीति

.१.१.[२]

अपेत वीत वि च सर्पतात इति । अप चैवैत वि चेत व्यु च सर्पतात इत्येतद्य
उदरसर्पिणस्तानेतदाह येऽत्र स्थ पुराण ये च नूतना इति येऽत्र स्थ सनातना ये
चाधुनातना इत्येतत्

७.१.१.[३]

अदाद्यमोऽवसानं पृथिव्या इति । यमो ह वा अस्या अवसानस्येष्टे स एवास्मा
अस्यामवसानं ददाति

७.१.१.[४]

अक्रन्निमं पितरो लोकमस्मा इति । क्षत्रं वै यमो विशः पितरो यस्मा उ वै
क्षत्रियो विशा संविदानोऽस्यामवसानं ददाति तत्सुदत्तं तथो हास्मै क्षत्रं
यमो विशा पितृभिः संविदानोऽस्यामवसानं ददाति

७.१.१.[५]

पलाशशाखया व्युदूहति । ब्रह्म वै पलाशो ब्रह्मणैव तदवसितान्व्युदूहति
मन्त्रेण ब्रह्म वै मन्त्रो ब्रह्मणैव तदवसितान्व्युदूहति तामुदीचीमुदस्यति

७.१.१.[६]

अथोषान्निवपति । अयं वै लोको गार्हपत्यः पशव ऊषा अस्मिंस्तल्लोके पशून्दधाति
तस्मादिमेऽस्मिंलोके पशवः

७.१.१.[७]

यद्वेवोषान्निवपति । प्रजापतिः प्रजा असृजता ता नानोल्बा असृजत ता न समजानत सो
ऽकामयत संजानीरन्निति ताः समानोल्बा अकरोत्तासामूषानुल्बमकरोत्ताः समजानत
तस्मादप्येतर्हि समानोल्बाः समेव जानते देवैः समानोल्बोऽसानीत्यु वै यजते यो
यजते तद्यदूषान्निवपति देवैरेव तत्समानोल्बो भवति

७.१.१.[८]

सज्ञानमसीति । समजानत ह्येतेन कामधरणमिति पशवो वा ऊषाः कामधरणम्
मयि ते कामधरणं भूयादिति मयि ते पशवो भूयासुरित्येतत्तैः सर्वं
गार्हपत्यं प्रच्छादयति योनिर्वै गार्हपत्या चितिरुल्बमूषाः सर्वां तद्योनिमुल्बेन
प्रच्छादयति

७.१.१.[९]

अथ सिकता निवपति । अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकता अग्निमु वा एतं
वैश्वानरं चेष्यन्भवति न वा अग्निः स्वं भस्मातिदहत्यनतिदाहाय

७.१.१.[१०]

यद्वेव सिकता निवपति । अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमु वा एतं
वैश्वानरं चेष्यन्भवति न वा अरेतस्कात्किं चन विक्रियतेऽस्माद्रेतसोऽधि
विक्रियाता इति

७.१.१.[११]

अग्नेर्भस्मास्यग्नेः पुरीषमसीति । यातयाम वा अग्नेर्भस्मायातयाम्न्यः सिकता
अयातयाममेवैनदेतत्करोति ताभिः सर्वं गार्हपत्यं प्रच्छादयति योनिर्वै
गार्हपत्या चिती रेतः सिकताः सर्वस्यां तद्योनौ रेतो दधाति

७.१.१.[१२]

अथैनं परिश्रिद्भिः परिश्रयति । योनिर्वै परिश्रित इदमेवैतद्रेतः सिक्तं योन्या
परिगृह्णाति तस्माद्योन्या रेतः सिक्तं परिगृह्यते

७.१.१.[१३]

यद्वेवैनं परिश्रिद्भिः परिश्रयति । अयं वै लोको गार्हपत्य आपः परिश्रित इमं
तं लोकमद्भिः परितनोति समुद्रेण हैनं तत्परितनोति सर्वतस्तस्मादिमं लोकं
सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमं लोकं दक्षिणावृत्समुद्रः पर्येति
खातेन तस्मादिमं लोकं खातेन समुद्रः पर्येति

७.१.१.[१४]

चित स्थेति । चिनोति ह्येनाः परिचित स्थेति परि ह्येनाश्चिनोत्यूर्ध्वचितः
श्रयध्वमित्यूर्ध्वा उपदधदाह तस्मादूर्ध्व एव समुद्रो विजतेऽथ
यत्तिरश्चीरुपदध्यात्सकृद्धैवेदं सर्वं समुद्रो निर्मृज्यान्न सादयत्यसन्ना
ह्यापो न सूददोहसाधिवदति

७.१.१.[१५]

अस्थीनि वै परिश्रितः । प्राणः सूददोहा न वा अस्थिषु प्राणोऽस्त्येकेन यजुषा
बह्वीरिष्टका उपदधात्येकं ह्येतद्रूपं यदापोऽथ यद्बह्व्यः परिश्रितो
भवन्ति बह्व्यो ह्यापः

७.१.१.[१६]

तद्वै योनिः परिश्रितः । उल्बमूषा रेतः सिकता बाह्याः परिश्रितो भवन्त्यन्तर ऊषा
बाह्या हि योनिरन्तरमुल्बं बाह्य ऊषा भवन्त्यन्तराः सिकता बाह्यं
ह्युल्बमन्तरं रेत एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति

७.१.१.[१७]

अथैनमतश्चिनोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्योनौ रेतः सिक्तं
विक्रियते

७.१.१.[१८]

स चतस्रः प्राचीरुपदधाति । द्वे पश्चात्तिरश्च्यौ द्वे पुरस्तात्तद्याश्चतस्रः
प्राचीरुपदधाति स आत्मा तद्यत्ताश्चतस्रो भवन्ति चतुर्विधो ह्ययमात्माथ ये
पश्चात्ते सक्थ्यौ ये पुरस्तात्तौ बाहू यत्र वा आत्मा तदेव शिरः

७.१.१.[१९]

तं वा एतम् । अत्र पक्षपुच्छवन्तं विकरोति यादृग्वै योनौ रेतो विक्रियते
तादृग्जायते तद्यदेतमत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र
पक्षपुच्छवान्जायते

७.१.१.[२०]

तं वै पक्षपुच्छवन्तमेव सन्तम् । न पक्षपुच्छवन्तमिव पश्यन्ति
तस्माद्योनौ गर्भं न यथारूपं पश्यन्त्यथैनममुत्र पक्षपुच्छवन्तम्
पश्यन्ति तस्माज्जातं गर्भं यथारूपं पश्यन्ति
७.१.१.[२१]

स चतस्रः पूर्वा उपदधाति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति दक्षिणत
उदङ्ङासीन उत्तरार्ध्यां प्रथमामुपदधाति तथो हास्यैषो
ऽभ्यात्ममेवाग्निश्चितो भवति

७.१.१.[२२]

अयं सो अग्निः । यस्मिन्त्सोममिन्द्रः सुतं दध इत्ययं वै लोको गार्हपत्य आपः
सोमः सुतोऽस्मिंस्तल्लोकेऽप इन्द्रोऽधत्त जठरे वावशान इति मध्यं वै जठरं
सहस्रियं वाजमत्यं न सप्तिमित्यापो वै सहस्रियो वाजः ससवान्त्सन्त्स्तूयसे
जातवेद इति चितः संश्चीयसे जातवेद इत्येतत्

७.१.१.[२३]

अग्ने यत्ते दिवि वर्च इति । आदित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां
यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह
येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स
भानुरर्णवो नृचक्षा इत्येतत्

७.१.१.[२४]

अग्ने दिवो अर्णमच्छा जिगासीति । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाचैत्यच्छा देवां
ऊचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने
परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष
एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एतदाह

७.१.१.[२५]

पुरीष्यासो अग्नय इति । पशव्यासोऽग्नय इत्येतत्प्रावणेभिः सजोषस इति प्रायणरूपम्
प्रायणं ह्येतदग्नेर्यद्गार्हपत्यो जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीरिति
जुषन्तां यज्ञमद्रुहोऽनशनाया इषो महीरित्येतत्

७.१.१.[२६]

नानोपदधाति । ये नानाकामा आत्मंस्तांस्तद्दधाति सकृत्सादयत्येकं तदात्मानं
करोति सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेणैवैनमेतत्संतनोति
संदधाति

७.१.१.[२७]

अथ जघनेन परीत्य । उत्तरतो दक्षिणासीनोऽपरयोर्दक्षिणामग्र
उपदधातीडामग्ने पुरुदंसं सनिं गोरिति पशवो वा इडा पशूनामेवास्मा
एतामाशिषमाशास्ते शश्वत्तमं हवमानाय साधेति यजमानो वै हवमानः स्यान्नः
सूनुस्तनयो विजावेति प्रजा वै सूनुरग्ने सा ते सुमतिर्भूत्वस्मे इत्याशिषमाशास्ते

७.१.१.[२८]

अथोत्तराम् । अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा इत्ययं ते योनिर्ऋतव्यः सनातनो
यतो जातोऽदीप्यथा इत्येतत्तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति यथैव
यजुस्तथा बन्धुः

७.१.१.[२९]

सक्थ्यावस्यैते । ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना
हीमे सक्थ्यौ द्वे भवतो द्वे हीमे सक्थ्यौ पश्चादुपदधाति पश्चाद्धीमे
सक्थ्यावग्राभ्यां संस्पृष्टे भवत एवं हीमे सक्थ्यावग्राभ्यां संस्पृष्टे

७.१.१.[३०]

अथ तेनैव पुनः परीत्य । दक्षिणत उदङ्ङा सीनः पूर्वयोरुत्तरामग्र उपदधाति
चिदसि तया देवतयाङ्गिरस्वदृद्ध्रुवा सीदेत्यथ दक्षिणां परिचिदसि तया
देवतयाङ्गिरस्वद्ध्रुवा सीदेति

७.१.१.[३१]

बाहू अस्यैते । ते नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ
बाहू द्वे भवतो द्वौ हीमौ बाहू पूर्वार्ध उपदधाति पुरस्ताद्धीमौ बाहू
अग्राभ्यां संस्पृष्टे भवत एवं हीमौ बाहू अग्राभ्यां संस्पृष्टौ स वा इतीमा
उपदधातीतीमे इतीमे तद्दक्षिणावृत्तद्धि देवत्रा

७.१.१.[३२]

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावन्तमेवैनमेतच्चिनोति पञ्च कृत्वः सादयति पञ्चचितिकोऽग्निः पञ्च
ऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावनग्निर्यावत्यस्य मात्रा
तावन्तमेवैनमेतच्चिनोत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश
त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति

७.१.१.[३३]

अथ लोकम्पृणामुपदधाति । तस्या उपरि बन्धुस्तिस्रः
पूर्वास्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति
दशोत्तरास्तासामुपरि बन्धुर्द्वे वाग्रेऽथ दशाथैकामेवं हि चितिं चिन्वन्ति
तास्त्रयोदश सम्पद्यन्ते तस्योक्तो बन्धुः
७.१.१.[३४]

ता उभय्य एकविंशतिः सम्पद्यन्ते । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका
असावादित्य एकविंशोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति

७.१.१.[३५]

एकविंशतिर्वेव परिश्रितः । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका
अयमग्निरमुतोऽध्येकविंश इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति
तद्यदेता एवमुपदधात्येतावेवैतदन्योऽन्यस्मिन्प्रतिष्ठापयति तावेतावन्यो
ऽन्यस्मिन्प्रतिष्ठितौ तौ वा एतावत्र द्वावेकविंशौ सम्पादयत्यत्र ह्येवेमौ
तदोभौ भवत आहवनीयश्च गार्हपत्यश्च

७.१.१.[३६]

अथ पुरीषं निवपति । तस्योपरि बन्धुस्तच्चात्वालवेलाया आहरत्यग्निरेष
यच्चात्वालस्तथो हास्यैतदाग्नेयमेव भवति सा समम्बिला स्यात्तस्योक्तो बन्धुः

७.१.१.[३७]

व्याममात्री भवति । व्याममात्रो वै पुरुषः पुरुषः प्रजापतिः
प्रजापतिरग्निरात्मसम्मितां तद्योनिं करोति परिमण्डला भवति परिमण्डला हि
योनिरथो अयं वै लोको गार्हपत्यः परिमण्डल उ वा अयं लोकः

७.१.१.[३८]

अथैनौ संनिवपति । संज्ञामेवाभ्यामेतत्करोति समितं संकल्पेथां सं वाम्
मनांसि सं व्रताग्ने त्वं पुरीष्यो भवतं नः समनसाविति
शमयत्येवैनावेतदहिंसायै यथा नान्योऽन्यं हिंस्याताम्

७.१.१.[३९]

चतुर्भिः संनिवपति । तद्ये चतुष्पदाः पशवस्तैरेवाभ्यामेतत्संज्ञां करोत्यथो
अन्नं वै पशवोऽन्नेनैवाभ्यामेतत्संज्ञां करोति

७.१.१.[४०]

तां न रिक्तामवेक्षेत । नेद्रिक्तामवेक्षा इति यद्रिक्तामवेक्षेत ग्रसेत हैनम्

७.१.१.[४१]

अथास्यां सिकता आवपति । अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता
अग्निमेवास्यामेतद्वैश्वानरं रेतो भूतं सिञ्चति सा समम्बिला स्यात्तस्योक्तो बन्धुः

७.१.१.[४२]

अथैनां विमुञ्चति । अप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यत एतद्वा
एतद्युक्ता रेतोऽभार्षीदेतमग्निं तमत्राजीजनदथापरं धत्ते योषा वा उखा
तस्माद्यदा योषा पूर्वं रेतः प्रजनयत्यथापरं धत्ते

७.१.१.[४३]

मातेव पुत्रं पृथिवी पुरीष्यमिति । मातेव पुत्रं पृथिवी पशव्यमित्येतदग्निं
स्वे योनावभारुखेत्यग्निं स्वे योनावभार्षीदुखेत्येतत्तां विश्वैर्देवैर्ऋतुभिः
संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चत्वियृतवो वै विश्वे देवास्तदेनां
विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिर्विश्वकर्मा विमुञ्चति तामुत्तरतो
ऽग्नेर्निदधात्यरत्निमात्रे तस्योक्तो बन्धुः

७.१.१.[४४]

अथास्यां पय आनयति । एतद्वा एतद्रेतो धत्तेऽथ पयो धत्ते योषा वा उखा
तस्माद्यदा योषा रेतो धत्तेऽथ पयो धत्तेऽधराः सिकता भवन्त्युत्तरं पयो
ऽधरं हि रेत उत्तरं पयस्तन्मध्य आनयति यथा तत्प्रति
पुरुषशीर्षमुपदध्यात्

७.१.२.[१]

प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत
तस्माद्विस्रस्तात्प्राणो मध्यत
उदक्रामदथास्माद्वीर्यमुदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत
तस्मात्पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो हेह
तर्हि का चन प्रतिष्ठास

Search

Search will be available shortly.