शतपथ ब्राह्मणम् 6

Posted at 2016-03-12 18:42:22
शतपथ ब्राह्मणम् 6

 

७.१.२.[१]

प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रंसत
तस्माद्विस्रस्तात्प्राणो मध्यत
उदक्रामदथास्माद्वीर्यमुदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत
तस्मात्पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो हेह
तर्हि का चन प्रतिष्ठास

७.१.२.[२]

ते देवा अब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्तीममेव पितरं प्रजापतिं
संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति

७.१.२.[३]

तेऽग्निमब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्ति त्वयीमं पितरं प्रजापतिं
संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति किं मे ततो भविष्यतीति
७.१.२.[४]

तेऽब्रुवन् । अन्नं वा अयं प्रजापतिस्त्वन्मुखा एतदन्नमदाम त्वन्मुखानां न
एषोऽन्नमसदिति तथेति तस्माद्देवा अग्निमुखा अन्नमदन्ति यस्यै हि कस्यै च
देवतायै जुह्वत्यग्नावेव जुह्वत्यग्निमुखा हि तद्देवा अन्नमकुर्वत

७.१.२.[५]

स योऽस्मात्प्राणो मध्यत उदक्रामत् । अयमेव स वायुर्योऽयं पवतेऽथ
यदस्माद्वीर्यमुदक्रामदसौ स आदित्योऽथ यदस्मादन्नमस्रवद्यदेव
संवत्सरेऽन्नं तत्तत्

७.१.२.[६]

तं देवा अग्नौ प्रावृञ्जन् । तद्य एनं प्रवृक्तमग्निरारोहद्य एवास्मात्स प्राणो
मध्यत उदक्रामत्स एवैनं स आपद्यत तमस्मिन्नदधुरथ
यदस्माद्वीर्यमुदक्रामत्तदस्मिन्नदधुरथ
यदस्मादन्नमस्रवत्तदस्मिन्नदधुस्तं सर्वं कृत्स्नं
संस्कृत्योर्ध्वमुदश्रयंस्तद्यं तमुदश्रयन्निमे स लोकाः

७.१.२.[७]

तस्यायमेव लोकः प्रतिष्ठा । अथ योऽस्मिंलोकेऽग्निः सोऽस्यावाङ्प्राणो
ऽथास्यान्तरिक्षमात्माथ योऽन्तरिक्षे वायुर्य एवायमात्मन्प्राणः सोऽस्य स
द्यौरेवास्य शिरः सूर्याचन्द्रमसौ चक्षुषी यच्चक्षुरध्यशेत स
चन्द्रमास्तस्मात्स मीलितततरोऽन्नं हि तस्मादस्रवत्

७.१.२.[८]

तदेषा वै सा प्रतिष्ठा । यां तद्देवाः समस्कुर्वन्त्सैवेयमद्यापि प्रतिष्ठा सो
एवाप्यतोऽधि भविता

७.१.२.[९]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयत तद्यदेषोखा रिक्ता
शेते पुरा प्रवर्जनाद्यथैव तत्प्रजापतिरुत्क्रान्ते प्राण उत्क्रान्ते वीर्ये स्रुतेऽन्ने
रिक्तोऽशयदेतदस्य तद्रूपम्

७.१.२.[१०]

तामग्नौ प्रवृणक्ति । यथैवैनमदो देवाः प्रावृञ्जंस्तद्य एनाम्
प्रवृक्तामग्निरारोहति य एवास्मात्स प्राणो मध्यत उदक्रामत्स एवैनं स
आपद्यते तमस्मिन्दधात्यथ यद्रुक्भं प्रतिमुच्य बिभर्ति
यदेवास्माद्वीर्यमुदक्रामत्तदस्मिन्दधात्यथ याः समिध आदधाति
यदेवास्मादन्नमस्रवत्तदस्मिन्दधाति

७.१.२.[११]

ता वै सायं प्रातरादधाति । अह्नश्च हि तद्रात्रेश्चान्नमस्रवत्तान्येतानि
सर्वस्मिन्नेव संवत्सरे स्युः संवत्सरो हि स
प्रजापतिर्यस्मात्तान्युदक्रामंस्तदस्मिन्नेतत्सर्वस्मिन्नेव सर्वं दधाति
यस्मिन्हास्यैतदतो न कुर्यान्न हास्य
तस्मिन्नेतद्दध्यान्नासंवत्सरभृतस्येक्षकेण चन भवितव्यमिति ह स्माह
वामकक्षायणो नेदिमं पितरं प्रजापतिं विच्छिद्यमानं पश्यानीति तं संवत्सरे
सर्वं कृत्स्नं संस्कत्योर्ध्वमुच्रयति यथैवैनमदो देवा उदश्रयन्

७.१.२.[१२]

तस्य गार्हपत्य एवायं लोकः । अथ यो गार्हपत्येऽग्निर्य एवायमस्मिंलोकेऽग्निः सो
ऽस्य सोऽथ यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षमथ य आग्नीध्रीये
ऽग्निर्य एवायमन्तरिक्षे वायुः सोऽस्य स आहवनीय एव द्यौरथ य आहवनीये
ऽग्निस्तौ सूर्याचन्द्रमसौ सोऽस्यैष आत्मैव

७.१.२.[१३]

तस्य शिर एवाहवनीयः । अथ य आहवनीयेऽग्निर्य एवायं शीर्षन्प्राणः सोऽस्य स
तद्यत्स पक्षपुच्छवान्भवति पक्षपुच्छवान्ह्ययं शीर्षन्प्राणश्चक्षुः शिरो
दक्षिणं श्रोत्रं दक्षिणः पक्ष उत्तरं श्रोत्रमुत्तरः पक्षः प्राणो
मध्यमात्मा वाक्पुचं प्रतिष्ठा तद्यत्प्राणा वाचान्नं जग्ध्वा प्रतितिष्ठन्ति
तस्माद्वाक्पुचं प्रतिष्ठा

७.१.२.[१४]

अथ यदन्तराहवनीयं च गार्हपत्यं च । स आत्माथ य आग्नीध्रीयेऽग्निर्य
एवायमन्तरात्मन्प्राणः सोऽस्य स प्रतिष्ठैवास्य गार्हपत्योऽथ यो गार्हपत्ये
ऽग्निः सोऽस्यावाङ्प्राणः

७.१.२.[१५]

तं हैके त्रिचितं चिन्वन्ति । त्रयो वा इमे वाञ्चः प्राणा इति न तथा कुर्यादति ते
रेचयन्त्येकविंशसम्पदमथो अनुष्टुप्सम्पदमथो बृहतीसम्पदं ये तथा
कुर्वन्त्येकं ह्येवैतद्रूपं योनिरेव प्रजातिरेव यदेतेऽवाञ्चः प्राणा यद्धि
मूत्रं करोति यत्पुरीषं प्रैव तज्जायते

७.१.२.[१६]

अथातः सम्पदेव । एकविंशतिरिष्टका नव यजूंषि तत्त्रिंशत्सादनं च सूददोहाश्च
तद्द्वात्रिंतद्द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्

७.१.२.[१७]

एकविंशतिर्वेव परिष्रितः । यजुर्द्वाविंशं व्युदूहनस्य यजुरूषाश्च यजुश्च
सिकताश्च यजुश्च पुरीषं च यजुश्च चतुर्भिः संनिवपति विमुञ्चति पञ्चमेन
ततस्त्रिभिरियं द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्

७.१.२.[१८]

अथैते द्वे यजुषी । सो अनुष्टुबेव वाग्वा अनुष्टुप्तद्यदिदं द्वयं वाचो रूपं
दैवं च मानुषं चोच्चैश्च शनैश्च तदेते द्वे

७.१.२.[१९]

ता वा एतास्तिस्रोऽनुष्टुभः । चित एष गार्हपत्यस्तद्यदेता अत्र तिस्रोऽनुष्टुभः
सम्पादयन्त्यत्र ह्येवेमे तदा सर्वे लोका भवन्ति ततोऽन्यतरां
द्वात्रिंशदक्षरामनुष्टुभमाहवनीयं हरन्ति स आहवनीयः सा द्यौस्तच्छिरो
ऽथेहान्यतरा परिशिष्यते स गार्हपत्यः सा प्रतिष्ठा स उ अयं लोकः

७.१.२.[२०]

अथ ये एते द्वे यजुषी । एतत्तद्यदन्तराहवनीयं च गार्हपत्यं च तदन्तरिक्षं
स आत्मा तद्यत्ते द्वे भवतस्तस्मादेतत्तनीयो यदन्तराहवनीयं च गार्हपत्यं
च तस्मादेषां लोकानामन्तरिक्षलोकस्तनिष्ठः

७.१.२.[२१]

सैषा त्रेधाविहिता वागनृष्टुप् । तामेषोऽग्निः प्राणो भूत्वानुसंचरति य आहवनीये
ऽग्निः स प्राणः सोऽसावादित्योऽथ य आग्नीध्रीयेऽग्निः स व्यानः स उ अयं वायुर्यो
ऽयं पवतेऽथ यो गार्हपत्येऽग्निः स उदानः स उ अयं योऽयमस्मिंलोके
ऽग्निरेवंविद्ध वाव सर्वां वाचं सर्वं प्राणं सर्वमात्मानं संस्कुरुते

७.१.२.[२२]

सैषा बृहत्येव । ये वै द्वे द्वात्रिंशतौ द्वात्रिंशदेव तदथैते द्वे यजुषी
तच्चतुस्त्रिंशदग्निरेव पञ्चत्रिंशो नाक्षराच्चन्दो व्येत्येकस्मान्न द्वाभ्यां स उ
द्व्यक्षरस्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती बृहतीं वा एष संचितो
ऽभिसम्पद्यते यादृग्वै योनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं
करोति तस्मादेष संचितो बृहतीमभिसम्पद्यते
७.१.२.[२३]

तदाहुः । यदयं लोको गार्हपत्योऽन्तरिक्षं धिष्ण्या द्यौराहवनीयो
ऽन्तरिक्षलोक उ अस्माल्लोकादनन्तर्हितोऽथ कस्माद्गार्हपत्यं चित्वाहवनीयं
चिनोत्यथ धिष्ण्यानिति सह हैवेमावग्रे लोकावासतुस्तयोर्वियतोर्योऽन्तरेणाकाश
आसीत्तदन्तरिक्षमभवदीक्षं हैतन्नाम ततः पुरान्तरा वा इदमीक्षमभूदिति
तस्मादन्तरिक्षं तद्यद्गार्हपत्यं चित्वाहवनीयं चिनोत्येतौ ह्यग्रे
लोकावसृज्येतामथ प्रत्येत्य धिष्ण्यान्निवपति कर्मण एवानन्तरयायाथो
अन्तयोर्वाव संस्क्रियमाणयोर्मध्यं संस्क्रियते

७.२.१.[१]

अथातो नैर्ऋतीर्हरन्ति । एतद्वै देवा गार्हपत्यं चित्वा समारोहन्नयं वै लोको
गार्हपत्य इममेव तं लोकं संस्कृत्य समारोहंस्ते तम एवानतिदृश्यमपश्यन्

७.२.१.[२]

तेऽब्रुवन् । उप तज्जानीत यथेदं तमः पाप्मानमपहनामहा इति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं तमः
पाप्मानमपहनामहा इति

७.२.१.[३]

ते चेतयमानाः । एता इष्टका अपश्यन्नैर्ऋतीस्ता उपादधत ताभिस्तत्तमः
पाप्मानमपाघ्नत पाप्मा वै निर्ऋतिस्तद्यदेताभिः पाप्मानं निर्ऋतिम पाघ्नत
तस्मादेता नैर्ऋत्यः

७.२.१.[४]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तत्तम स पाप्मा देवैरेवापहतो
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा या
निर्ऋतिस्तमेताभिरपहते तद्य !देताभिः पाप्मानं निर्ऋतिमपहते तस्मादेता
नैर्ऋत्यः

७.२.१.[५]

यद्वेवैता नैर्ऋतीर्हरन्ति । प्रजापतिं विस्रस्तं यत्र देवाः
समस्कुर्वंस्तमुखायां योनौ रेतो भूतमसिञ्चन्योनिर्वा उखा तस्मा एतां
संवत्सरे प्रतिष्ठां समस्कुर्वन्निममेव लोकमयं वै लोको
गार्हपत्यस्तस्मिन्नेनं प्राजनयंस्तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु
तदस्यैताभिरपाघ्नंस्तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपाघ्नंस्तस्मादेता
नैर्ऋत्यः
७.२.१.[६]

तथैवैतद्यजमानः । आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा
तस्मा एतां संवत्सरे प्रतिष्ठां संस्करोतीममेव लोकमयं वै लोको
गार्हपत्यस्तस्मिन्नेनं प्रजनयति तस्य यः पाप्मा यः श्लेष्मा यदुल्बं यज्जरायु
तदस्यैताभिरपहन्ति तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपहन्ति तस्मादेता
नैर्ऋत्यः

७.२.१.[७]

पादमात्र्यो भवन्ति । अधस्पदमेव तत्पाप्मानं निर्ऋतिं कुरुतेऽलक्षणा भवन्ति
यद्वै नास्ति तदलक्षणमसन्तमेव तत्पाप्मानं निर्ऋतिं कुरुते तुषपक्वा
भवन्ति नैर्ऋता वै तुषा नैर्ऋतैरेव तन्नैर्ऋतं कर्म करोति कृष्णा भवन्ति
कृष्णं हि तत्तम आसीदथो कृष्णा वै निर्ऋतिः

७.२.१.[८]

ताभिरेतां दिशं यन्ति । एषा वै नैर्ऋती दिङ्नैर्ऋत्यामेव तद्दिशि निर्ऋतिं दधाति स
यत्र स्वकृतं वेरिणं श्वभ्रप्रदरो वा स्यात्तदेना उपदध्याद्यत्र वा अस्या
अवदीर्यते यत्र वास्या ओषधयो न जायन्ते निर्ऋतीर्हास्यै तद्गृह्णाति नैऋत एव
तद्भूमेर्निर्ऋतिं दधाति ताः पराचीर्लोकभाजः कृत्वोपदधाति

७.२.१.[९]

असुन्वन्तमयजमानमिच्छेति । यो वै न सुनोति न यजते तं निर्ऋतिर्ऋच्छति
स्तेनस्येत्यामन्विहि तस्करस्येति स्तेनस्य चेत्यामन्विहि तस्करस्य चेत्येतदथो यथा
स्तेनस्तस्करः प्रलायमेत्येवं प्रलायमिहीत्यन्यमस्मदिच्छ सा त
इत्येत्यनित्थंविद्वांसमिच्छेत्येतन्नमो देवि निर्ऋते तुभ्यमस्त्विति
नमस्कारेणैवैनामपहते

७.२.१.[१०]

नमः सु ते निर्ऋते तिग्मतेज इति । तिग्मतेजा वै निर्ऋतिस्तस्या
एतन्नमस्करोत्ययस्मयं विचृता बन्धमेतमित्ययस्मयेन ह वै तं बन्धेन
निर्ऋतिर्बध्नाति यं बध्नाति यमेन त्वं यम्या संविदानेत्यग्निर्वै यम इयं
यम्याभ्यां हीदं सर्वं यतमाभ्यां त्वं संविदानेत्येतदुत्तमे नाके अधि
रोहयैनमिति स्वर्गो वै लोको नाकः स्वर्गे लोके यजमानमधिरोहयेत्यतत्

७.२.१.[११]

यस्यास्ते घोर आसन्जुहोमीति । घोरा वै निर्ऋतिस्तस्या एतदासन्जुहोति यत्तद्देवत्यं
कर्म करोत्येषां बन्धानामवसर्जनायेति यैर्बन्धैर्बद्धो भवति यां त्वा
जनो भूमिरिति प्रमन्दत इतीयं वै भूमिरस्यां वै स भवति यो भवति निर्ऋतिं
त्वाहं परिवेद विश्वत इति निर्ऋतिरिति त्वाहं परिवेद सर्वत इत्येतदियं वै
निर्ऋतिरियं वै ते निरर्पयति यो निर्ऋच्छति तद्यथा वै ब्रूयादसावामुष्यायणोऽसि वेद
त्वा मा मा हिंसीरित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति

७.२.१.[१२]

नोपस्पृशति । पाप्मा वै निर्ऋतिर्नेत्पाप्मना संस्पृशा इति न सादयति प्रतिष्ठा वै
सादनं नेत्पाप्मानं प्रतिष्ठापयानीति न सूददोहसाधिवदति प्राणो वै सूददोहा
नेत्पाप्मानं प्राणेन संतनवानि संदधानीति

७.२.१.[१३]

ता हैके परस्तादर्वाचीरुपदधति । पाप्मा वै निर्ऋतिर्नेत्पाप्मानं
निर्ऋतिमन्ववायामेति न तथा कुर्यात्पराचीरेवोपदध्यात्पराञ्चमेव तत्पाप्मानं
निर्ऋतिमपहते

७.२.१.[१४]

तिस्र इष्टका उपदधाति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव
तत्पाप्मानं निर्ऋतिमपहते

७.२.१.[१५]

अथासन्दीं शिक्यम् । रुक्भपाशमिण्ड्वे तत्परार्धे न्यस्यति नैर्ऋतो वै पाशो
निर्ऋतिपाशादेव तत्प्रमुच्यते यं ते देवी निर्ऋतिराबबन्ध पाशं
ग्रीवास्वविचृत्यमित्यनेवंविदुषा हाविचृत्यस्तं ते विष्याम्यायुषो न
मध्यादित्यग्निर्वा आयुस्तस्यैतन्मध्यं यच्चितो गार्हपत्यो भवत्यचित
आहवनीयस्तस्माद्यदि युवाग्निं चिनुते यदि स्थविर आयुषो न
मध्यादित्येवाहाथैतं पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि
प्रमुक्त इत्येतत्त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैव तत्पाप्मानं निर्ऋतिमपहते

७.२.१.[१६]

तिस्र इष्टका भवन्ति । आसन्दी शिक्यं रुक्भपाश इण्ड्वे तदष्टावष्टाक्षरा गायत्री
गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्पाप्मानं निर्ऋतिमपहते

७.२.१.[१७]

अथान्तरेणोदचमसं निनयति । वज्रो वा आपो वज्रेणैव तत्पाप्मानं
निर्ऋतिमन्तर्धत्ते नमो भूत्यै येदं चकारेत्युपोत्तिष्ठन्ति भूत्यै वा एतदग्रे
देवाः कर्माकुर्वत तस्या एतन्नमोऽकुर्वन्भूत्या उ एवायमेतत्कर्म कुरुते तस्या
एतन्नमस्करोत्यप्रतीक्षमायन्त्यप्रतीक्षमेव तत्पाप्मानं निर्ऋतिं जहति
७.२.१.[१८]

प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतदयथायथं करोति यदग्नौ सामिचित एतां
दिशमेति तस्मा एवैतन्निह्नुतेऽहिंसायै

७.२.१.[१९]

यद्वेवोपतिष्ठते । अयं वै लोको गार्हपत्यः प्रतिष्ठा वै गार्हपत्य इयमु वै
प्रतिष्ठाथैतदपथमिवैति यदेतां दिशमेति तद्यदुपतिष्ठत
इमामेवैतत्प्रतिष्ठामभिप्रत्यैत्यस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति

७.२.१.[२०]

निवेशनः संगमनो वसूनामिति । निवेशनो ह्ययं लोकः संगमनो वसूनां विश्वा
रूपाभिचष्टे शचीभिरिति सर्वाणि रूपाण्यभिचष्टे शचीभिरित्येतद्देव इव सविता
सत्यधर्मेन्द्रो न तस्थौ समरे पथीनामिति यथैव यजुस्तथा बन्धुः

७.२.२.[१]

अथ प्रायणीयं निर्वपति । तस्य हविष्कृता वाचं विसृजते वाचं विसृज्य
स्तम्बयजुर्हरति स्तम्बयजुर्हृत्वा पूर्वेण परिग्रहेण परिगृह्य लिखित्वाह हर
त्रिरिति हरति त्रिराग्नीध्रः

७.२.२.[२]

प्रत्येत्य प्रायणीयेन प्रचरति । प्रायणीयेन प्रचर्य सीरं युनक्त्येतद्वा एनं
देवाः संस्करिष्यन्तः पुरस्तादन्नेन
समार्धयंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तादन्नेन समर्धयति सीरम्
भवति सेरं हैतद्यत्सीरमिरामेवास्मिन्नेतद्दधाति

७.२.२.[३]

औदुम्बरं भवति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति
मौञ्जं परिसीर्यं त्रिवृत्तस्योक्तो बन्धुः

७.२.२.[४]

सोऽग्नेर्दक्षिणां श्रोणिम् । जघनेन तिष्ठन्नुत्तरस्यांसस्य
पुरस्ताद्युज्यमानमभिमन्त्रयते सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये
विद्वांसस्ते कवयस्ते सीरं च युञ्जन्ति युगानि च वितन्वते पृथग्धीरा देवेषु
सुम्नयेति यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वाना इत्येतत्
७.२.२.[५]

युनक्त सीरा वि युगा तनुध्वमिति । युञ्जन्ति हि सीरं वि युगानि तन्वन्ति कृते योनौ
वपतेह बीजमिति बीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वा अयोनौ रेतः
सिञ्चेदेवं तद्यदकृष्टे वपति गिरा च श्रुष्टिः सभरा असन्न इति वाग्वै गीरन्नं
श्रुष्टिर्नेदीय इत्सृण्यः पक्वमेयादिति यदा वा अन्नं पच्यतेऽथ तत्सृण्योपचरन्ति
द्वाभ्यां युनक्ति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः

७.२.२.[६]

स दक्षिणमेवाग्रे युनक्ति । अथ सव्यमेवं देवत्रेतरथा मानुषे षड्गवम्
भवति द्वादशगवं वा चतुर्विंशतिगवं वा संवत्सरमेवाभिसम्पदम्

७.२.२.[७]

अथैनं विकृषति । अन्नं वै कृषिरेतद्वा अस्मिन्देवाः संस्करिष्यन्तः
पुरस्तादन्नमदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादन्नं दधाति

७.२.२.[८]

स वा आत्मानमेव विकृषति । न पक्षपुच्छान्यात्मंस्तदन्नं दधाति यदु वा
आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ यत्पक्षपुच्छेषु नैव
तदात्मानमवति न पक्षपुच्छानि

७.२.२.[९]

स दक्षिणार्धेनाग्नेः । अन्तरेण परिश्रितः प्राचीं प्रथमां सीतां कृषति शुनं सु
फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैरिति शुनं शुनमिति यद्वै
समृद्धं तच्छुनं समर्धयत्येवैनामेतत्

७.२.२.[१०]

अथ जघनार्धेनोदीचीम् । घृतेन सीता मधुना समज्यतामिति यथैव यजुस्तथा
बन्धुर्विश्वैर्देवैरनुमता मरुद्भिरिति विश्वे च वै देवा मरुतश्च वर्षस्येशत
ऊर्जस्वती पयसा पिन्वमानेति रसो वै पय ऊर्जस्वती रसेनान्नेन
पिन्वमानेत्येतदस्मान्त्सीते पयसाभ्याववृत्स्वेत्यस्मान्त्सीते रसेनाभ्याववृत्स्वेत्येतत्

७.२.२.[११]

अथोत्तरार्धेन । लाङ्गलं पवीरवदिति लाङ्गलं रयिमदित्येतत्सुशेवं
सोमपित्सर्वित्यन्नं वै सोमस्तदुद्वपति गामविं प्रफर्व्यं च पीवरीम्
प्रस्थावद्रथवाहनमित्येतद्धि सर्वं सीतोद्वपति
७.२.२.[१२]

अथ पूर्वार्धेन दक्षिणाम् । कामं कामदुघे धुक्ष्व मित्राय वरुणाय च
इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्य इति सर्वदेवत्या वै कृषिरेताभ्यो
देवताभ्यः सर्वान्कामान्धुक्ष्वेत्येतदित्यग्रे कृषत्यथेति अथेत्यथेति
तद्दक्षिणावृत्तद्धि देवत्रा

७.२.२.[१३]

चतस्रः सीता यजुषा कृषति । तद्यच्चतसृषु दिक्ष्वन्नं तदस्मिन्नेतद्दधाति
तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः

७.२.२.[१४]

अथात्मानं विकृषति । तद्यदेव संवत्सरेऽन्नं तदस्मिन्नेतद्दधाति
तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्नं
दधातीत्यग्रे कृषत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा

७.२.२.[१५]

तिस्रस्तिस्रः सीताः कृषति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतदन्नं दधाति

७.२.२.[१६]

द्वादश सीतास्तूष्णीं कृषति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति

७.२.२.[१७]

ता उभय्यः षोडश सम्पद्यन्ते । षोडशकलः प्रजापतिः
प्रजापतिरग्निरात्मंसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा
आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न
तदवति

७.२.२.[१८]

यद्वेवैनं विकृषति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः
पुरस्तात्प्राणानदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तात्प्राणान्दधाति
लेखा भवन्ति लेखासु हीमे प्राणाः
७.२.२.[१९]

चतस्रः सीता यजुषा कृषति । तद्य इमे शीर्षम्श्चत्वारो निरुक्ताः
प्राणास्तानस्मिन्नेतद्दधाति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमे
शीर्षन्प्राणाः

७.२.२.[२०]

यद्वेवात्मानं विकृषति । य एवेमेऽन्तरात्मन्प्राणास्तानस्मिन्नेतद्दधाति तूष्णीं
को
हि तद्वेद यावन्त इमेऽन्तरात्मन्प्राणाः

७.२.२.[२१]

अथैनान्विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनान्युङ्क्ते
विमुच्यध्वमघ्न्या इत्यघ्न्या हैते देवत्रा देवयाना इति दैवं ह्येभिः कर्म
करोत्यगन्म तमसस्पारमस्येत्यशनाया वै तमोऽगन्मास्या अशनायायै
पारमित्येतज्ज्योतिरापामेति ज्योतिर्ह्याप्नोति यो देवान्यो यज्ञमथैनानुदीचः प्राचः
प्रसृजति तस्योक्तो बन्धुस्तानध्वर्यवे ददाति स हि तै करोति तांस्तु दक्षिणानां
कालेऽनुदिशेत्

७.२.३.[१]

अथ दर्भस्तम्बमुपदधाति । एतद्वै देवा ओषधीरुपादधत
तथैवैतद्यजमान ओषधीरुपधत्ते

७.२.३.[२]

यद्वेव दर्भस्तम्बमुपदधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा
अन्नाय जायत उभयम्वेतदन्नं यद्दर्भा आपश्च ह्येता ओषधयश्च या वै
वृत्राद्बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्यद्द्वभन्त्य
उदायंस्तस्माद्दर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा
यदु दर्भास्तेनौषधय उभयेनैवैन्मेतदन्नेन प्रीणाति

७.२.३.[३]

सीतासमरे । वाग्वै सीतासमरः प्राणा वै सीतास्तासामयं समयो वाची वै प्राणेभ्यो
ऽन्नं धीयते मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति तूष्णीमनिरुक्तं वै
तद्यतूष्णीं सर्वं वा अनिरुक्तं सर्वेणैवास्मिन्नेतदन्ने दधाति

७.२.३.[४]

अथैनमभिजुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वस्यो
अस्यैष रसो यदाज्यमपां च ह्येष ओषधीनां च रसोऽस्यैवैनमेतत्सर्वस्य
रसेन प्रीणाति यावानु वै रसस्तावानात्मानेनैवैनमेतत्सर्वस्य रसेन प्रीणाति
यावानु वै रसस्तावानात्मानेनैवैनमेतत्सर्वेण प्रीणाति पञ्चगृहीतेन पञ्चचितिको
ऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति

७.२.३.[५]

यद्वेवैनमभिजुहोति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं
समस्कुर्वंस्तदस्मिन्नेतं पुरस्ताद्भागमकुर्वत
तस्मात्पुरस्ताद्भागास्तद्यदभिजुहोति य एवास्मिंस्ते प्राणा ऋषयः
पुरस्ताद्भागमकुर्वत तानेवैतत्प्रीणात्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः

७.२.३.[६]

यद्वेवैनमभिजुहोति । एतद्वै यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति
यान्त्स्तोमान्यानि पृष्ठानि यानि छन्दांसि तेभ्य एतं पुरस्ताद्भागं करोति
तान्येवैतत्प्रीणान्याज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः

७.२.३.[७]

यद्वेवैनमभिजुहोति । एतद्वै देवा अबिभयुर्दीर्घं वा इद कर्म यद्वै न
इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतामेतस्य कर्मणः
पुरस्तात्संस्थामपश्यंस्तमत्रैव सर्वं
समस्थापयन्नत्राचिन्वंस्तथैवैनमयमेतदत्रैव सर्वं संस्थापयत्यत्र
चिनोति

७.२.३.[८]

सजूरब्द इति चितिः । अयवोभिरिति पुरीषं सजूरुषा इति चितिररुणीभिरिति पुरीषं
सजोषसावश्विनेति चितिर्दंसोभिरिति पुरीषं सजूः सूर इति चितिरेतशेनेति पुरीषं
सजूर्वैश्वानर इति चितिरिडयेति पुरीषं घृतेनेति चितिः स्वेति पुरीषं हेति चितिः

७.२.३.[९]

त्रयोदशैता व्याहृतयो भवन्ति । त्रयोदश मासाः
संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावन्तमेवैनमेतच्चिनोत्याज्येन जुहोत्यग्निरेष यदाज्यमग्निमेवैतच्चिनोति
पञ्चगृहीतेन पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावन्तमेवैनमेतच्चिनोत्यूर्ध्वामुद्गृह्णन्जुहोत्यूर्ध्वं तदग्निं चितिभिश्चिनोति

७.२.४.[१]
अथोदचमसान्निनयति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना वृष्टिमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति

७.२.४.[२]

उदचमसा भवन्ति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधात्यौदुम्बरेण
चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य
एवास्मिन्नेतद्दिग्भ्यो वृष्टिं दधाति

७.२.४.[३]

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतद्वृष्टिं दधाति

७.२.४.[४]

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति

७.२.४.[५]

स वै कृष्टे निनयति । तस्मात्कृष्टाय वर्षति स यत्कृष्ट एव निनयेन्नाकृष्टे
कृष्टायैव वर्षेन्नाकृष्टायाथ यदकृष्ट एव निनयेन्न कृष्टे कृष्टायैव
वर्षेन्न कृष्टाय कृष्टे चाकृष्टे च निनयति तस्मात्कृष्टाय चाकृष्टाय च वर्षति

७.२.४.[६]

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतद्वृष्टिं दधाति

७.२.४.[७]

यद्वेवोदचमसान्निनयति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादपो
दधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादपो दधाति

७.२.४.[८]

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतदपो दधाति
७.२.४.[९]

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति

७.२.४.[१०]

स वै कृष्टे निनयति । प्राणेषु तदपो दधाति स यत्कृष्ट एव निनयेन्नाकृष्टे
प्राणेष्वेवापः स्युर्नेतरस्मिन्नात्मन्नथ यदकृष्ट एव निनयेन्न कृष्ट
आत्मन्नेवापः स्युर्न प्राणेषु कृष्टे चाकृष्टे च निनयति तस्मादिमा उभयत्रापः
प्राणेषु चात्मंश्च

७.२.४.[११]

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतदपो दधाति

७.२.४.[१२]

पञ्चदशोदचमसान्निनयति । पञ्चदशो वै वज्र एतेनैवास्यैतत्पञ्चदशेन
वज्रेण सर्वं पाप्मानमपहन्ति

७.२.४.[१३]

अथ सर्वौषधं वपति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना अन्नमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति

७.२.४.[१४]

सर्वौषधं भवति । सर्वमेव तदन्नं यत्सर्वौषधं
सर्वमेवास्मिन्नेतदन्नं दधाति तेषामेकमन्नमुद्धरेत्तस्य
नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो
वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्योऽन्नं दधात्यनुष्टुब्भिर्वपति वाग्वा
अनुष्टुब्वाचो वा अन्नमद्यते

७.२.४.[१५]

तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतदन्नं दधाति
७.२.४.[१६]

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति

७.२.४.[१७]

स वै कृष्टे वपति । तस्मात्कृष्टेऽन्नं पच्यते यत्कृष्ट एव वपेन्नाकृष्टे कृष्ट
एवान्नं पच्येत नाकृष्टेऽथ यदकृष्ट एव वपेन्न कृष्टेऽकृष्ट एवान्नम्
पच्येत न कृष्टे कृष्टे चाकृष्टे च वपति तस्मात्कृष्टे चाकृष्टे चान्नं पच्यते

७.२.४.[१८]

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मिन्नेतदन्नं दधाति

७.२.४.[१९]

यद्वेव सर्वौषधं वपति । एतद्वा एन देवाः संस्करिष्यन्तः पुरस्तात्सर्वेण
भेषजेनाभिषज्यंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तात्सर्वेण भेषजेन
भिषज्यति

७.२.४.[२०]

सर्वौषधं भवति । सर्वमेतद्भेषजं यत्सर्वौषधं
सर्वेणैवैनमेतद्भेषजेन भिषज्यति

७.२.४.[२१]

तिसृभिस्तिसभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्भिषज्यति

७.२.४.[२२]

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति

७.२.४.[२३]

स वै कृष्टे वपति । प्राणांस्तद्भिषज्यति स यत्कृष्ट एव वपेन्नाकृष्टे प्राणानेव
भिषज्येन्नेतरमात्मानमथ यदकृष्ट एव वपेन्न कृष्ट आत्मानमेव
भिषज्येन्न प्राणान्कृष्टे चाकृष्टे च वपति प्राणांश्च तदात्मानं च भिषज्यति

७.२.४.[२४]

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्भिषज्यति

७.२.४.[२५]

पञ्चदशोदचमसान्निनयति पञ्चदशभिर्ऋग्भिर्वपति तत्त्रिंशत्त्रिंशदक्षरा
विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति

७.२.४.[२६]

या ओषधीः पूर्वा जाताः । देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिम्
पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नुबभ्रूणामहमिति सोमो वै बभ्रुः
सौम्या ओषधय ओषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः
शतवीय एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्त
शीर्षन्प्राणास्तानेतदाह

७.२.४.[२७]

शतं वो अम्ब धामानि । सहस्रमुत वो रुह इति यदिदं शतधा च सहस्रधा च
विरूढा अधा शतक्रत्वो यूयमिमं मे अगदं कृतेति यमिमं भिषज्यामीत्येतत्

७.२.४.[२८]

ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव भिषज्येदेतं पारयेत्ता अनुष्टुभो
भवन्ति वाग्वा अनुष्टुब्वागु सर्वं भेषजं सर्वेणैवैनमेतद्भेषजेन
भिषज्यति

७.२.४.[२९]

अथातो निरुक्तानिरुक्तानामेव । यजुषा द्वावनड्वाहौ युनक्ति तूष्णीमितरान्यजुषा
चतस्रः कृषति तूष्णीमितरा स्तूष्णीं दर्भस्तम्बमुपदधाति यजुषाभिजुहोति
तूष्णीमुदचमसान्निनयति यजुषा वपति

७.२.४.[३०]

प्रजापतिरेषोऽग्निः । उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च
परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमितं रूपं
तदस्य तेन संस्करोत्यश्च यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य
तेन संस्तरोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं
विद्वानेतदेवं करोति बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि पुशुरेष
यदग्निस्तस्मात्पशोर्बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि

७.३.१.[१]

चितो गार्हपत्यो भवति । अचित आहवनीयोऽथ राजानं क्रीणात्ययं वै लोको
गार्हपत्यो द्यौराहवनीयोऽथ योऽयं वायुः पवत एष सोम एतं तदिमौ
लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण पवते

७.३.१.[२]

यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्निः प्राणः
सोम आत्मंस्तत्प्राणं मध्यतो दधाति तस्मादयमात्मन्प्राणो मध्यतः

७.३.१.[३]

यद्वेव चिते गार्हपत्ये । अचित आहवनीयेऽथ राजानं क्रीणात्यात्मा वा अग्नी रसः
सोम आत्मानं तद्रसेनानुषजति तस्मादयमान्तमेवात्मा रसेनानुषक्तः

७.३.१.[४]

राजानं क्रीत्वा पर्युह्य । अथास्मा आतिथ्यं हविर्निर्वपति तस्य हविष्कृता वाचं
विसृजतेऽथ वा एतद्व्यतिषजत्यध्वरकर्म चाग्निकर्म च कर्मणः समानतायै
समानमिदं कर्मासदिति

७.३.१.[५]

यद्वेव व्यतिषजति । आत्मा वा अग्निः प्राणोऽध्वर आत्मंस्तत्प्राणं मध्यतो
दधाति तस्मादयमात्मन्प्राणो मध्यतः

७.३.१.[६]

यद्वेव व्यतिषजति । आत्मा वा अग्नी रसोऽध्वर आत्मानं तद्रसेनानुषजति
तस्मादयमान्तमेवात्मा रसेनानुषक्तोऽथाहवनीयस्यार्धमैति

७.३.१.[७]

तद्धैके । उभयत्रैव पलाशशाखया व्युदूहन्त्युभयत्र वै चिनोतीति न तथा
कुर्यादवस्यति वाव गार्हपत्येनोर्ध्व एवाहवनीयेन रोहति तस्मात्तथा न कुर्यात्
७.३.१.[८]

अथ गार्हपत्य एवोषान्निवपति । नाहवनीयेऽयं वै लोको गार्हपत्यः पशव ऊषा
अस्मिंस्तल्लोके पशून्दधाति तस्मादिमेऽस्मिंलोके पशवः

७.३.१.[९]

अथाहवनीय एव पुष्करपर्णमुपदधाति । न गार्हपत्य आपो वै पुष्करपर्णं
द्यौराहवनीयो दिवि तदपो दधात्युभयत्र सिकता निवपति रेतो वै सिकता
उभयत्र वै विक्रियते तस्माद्रेतसोऽधि विक्रियाता इति

७.३.१.[१०]

ता नाना मन्त्राभ्यां निवपति । मनुष्यलोको वै गार्हपत्यो देवलोक आहवनीयो
नानो वा एतद्यद्दैवं च मानुषं च द्राघीयसा मन्त्रेणाहवनीये निवपति
ह्रसीयसा गार्हपत्ये द्राघीयो हि देवायुषं ह्रसीयो मनुष्यायुषं स पूर्वाः
परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति रेतो वै सिकता अस्माद्रेतसोऽदीमा विक्रियान्ता
इति

७.३.१.[११]

तदाहुः । यद्योनिः परिश्रितो रेतः सिकता अथ पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता
निवपति कथमस्यैतद्रेतोऽपरासिक्तं परिगृहीतं भवतीत्युल्बं वा
ऊषास्तद्यदूषान्पूर्वान्निवपत्येतेनो हास्यैतदुल्बेन रेतोऽपरासिक्तं परिगृहीतम्
भवत्यथाहवनीये परिश्रितोऽभिमन्त्रयते तस्योक्तो बन्धुरथ सिकता निवपति
रेतो वै सिकता एतयो अस्यैतद्योन्या रेतोऽपरासिक्तं परिगृहीतं भवति

७.३.१.[१२]

अथाहवनीय एवाप्यानवतीभ्यामभिमृशति । न गार्हपत्येऽयं वै लोको
गार्हपत्यः स्वर्गो लोक आहवनीयोऽद्धो वा अयमस्मिंलोके जातो यजमानः स्वर्ग
एव लोके प्रजिजनयिषितव्यस्तद्यदाहवनीय एवाप्यानवतीभ्यामभिमृशति न
गार्हपत्ये स्वर्ग एवैनं तल्लोके प्रजनयति

७.३.१.[१३]

अथ लोगेष्टका उपदधाति । इमे वै लोका एषोऽग्निर्दिशो लोगेष्टका एषु तल्लोकेषु
दिशो दधाति तस्मादिमा एषु लोकेषु दिशः

७.३.१.[१४]

बाह्येनाग्निमाहरति । आप्ता वा अस्य ता दिशो या एषु लोकेष्वथ या इमांलोकान्परेण
दिशस्ता अस्मिन्नेतद्दधाति

७.३.१.[१५]

बहिर्वेदेरियं वै वेदिः । आप्ता वा अस्य ता दिशो या अस्यामथ या इमां परेण दिशस्ता
अस्मिन्नेतद्दधाति

७.३.१.[१६]

यद्वेव लोगेष्टका उपदधाति । प्रजापतेर्विस्रस्तस्य सर्वा दिशो रसोऽनु व्यक्षरत्त
यत्र देवाः समस्कुर्वंस्तदस्मिन्नेताभिर्लोगेष्टकाभिस्तं
रसमदधुस्तथैवास्मिन्नयमेतद्दधाति

७.३.१.[१७]

बाह्येनाग्निमाहरति । आप्तो वा अस्य स रसो य एषु लोकेष्वथ य इमांलोकान्पराङ्रसो
ऽत्यक्षरत्तमस्मिन्नेतद्दधाति

७.३.१.[१८]

बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स रसो योऽस्यामथ य इमां पराङ्रसो
ऽत्यक्षरत्तमस्मिन्नेतद्दधाति

७.३.१.[१९]

स्फ्येनाहरति । वज्रो वै स्फ्यो वीर्यं वै वज्रो वित्तिरियं वीर्येण वै वित्तिं विन्दते

७.३.१.[२०]

स पुरस्तादाहरति । मा मा हिंसीज्जनिता यः पृथिव्या इति प्रजापतिर्वै पृथिव्यै जनिता
मा मा हिंसीत्प्रजापतिरित्येतद्यो वा दिवं सत्यधर्मा व्यानडिति यो वा दिवं
सत्यधर्मासृजतेत्येतद्यश्चापश्चन्द्राः प्रथमो जजानेति मनुष्या वा आपश्चन्द्रा
यो मनुष्यान्प्रथमोऽसृजतेत्येतत्कस्मै देवाय हविषा विधेमेति प्रजापतिर्वै
कस्तस्मै हविषा विधेमेत्येतत्तामाहृत्यान्तरेण परिश्रित आत्मन्नुपदधाति स यः
प्राच्यां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्राचीमेवास्मिन्नेतद्दिशं
दधाति

७.३.१.[२१]

अथ दक्षिणतः । अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सहेति यथैव यजुस्तथा
बन्धुर्वपां ते अग्निरिषितो अरोहदिति यद्वै किं चास्यां सास्यै वपा तामग्निरिषित
उपादीप्तो रोहति तामाहृत्यान्तरेण पक्षसंधिमात्मन्नुपदधाति स यो दक्षिणायां
दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो दक्षिणामेवास्मिन्नेतद्दिशं दधाति

७.३.१.[२२]

अथ पश्चात् । अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियमितीयं वा
अग्निरस्यै तदाह तद्देवेभ्यो भरामसीति तदस्मै दैवाय कर्मणे हराम
इत्येतत्तामाहृत्यान्तरेण पुच्छसंधिमात्मन्नुपदधाति स यः प्रतीच्यां दिशि रसो
ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्रतीचीमेवास्मिन्नेतद्दिशं दधाति स न
सम्प्रति पश्चादाहरेन्नेद्यज्ञपथाद्रसमाहराणीतीत इवाहरति

७.३.१.[२३]

अथोत्तरतः । इषमूर्जमहमित आदमितीषमूर्जमहमित आदद इत्येतदृतस्य
योनिमिति सत्यं वा ऋतं सत्यस्य योनिमित्येतन्महिषस्य धारामित्यग्निर्वै महिषः
स हीदं जातो महान्त्सर्वमैष्णादा मा गोषु विशत्वा तनूष्वित्यात्मा वै तनूरा मा
गोषु चात्मनि च विशत्वित्येतज्जहामि सेदिमनिराममीवामिति सिकताः प्रध्वंसयति
तद्यैव सेदिर्यानिरा यामीवा तामेतस्यां दिशि दधाति तस्मादेतस्यां दिशि प्रजा
अशनायुकास्तामाहृत्यान्तरेण पक्षसंधिमात्मन्नुपदधाति स य उदीच्यां दिशि रसो
ऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो उदीचीमेवास्मिन्नेतद्दिश दधाति

७.३.१.[२४]

ता एता दिशः । ताः सक्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः
सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता
नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि
दिशस्तिष्ठन्नुपदधाति तिष्ठन्तीव हि दिशोऽथो तिष्ठन्वै वीर्यवत्तरः

७.३.१.[२५]

ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नैवोपदधाति न पक्षपुच्छेष्वात्मन्ह्येव
यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुच्छेषु

७.३.१.[२६]

तदाहुः । कथमस्यैताः पक्वाः शृता उपहिता भवन्तीति रसो वा एताः स्वयंशृत उ वै
रसोऽथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं
शृतमुपहितं भवति

७.३.१.[२७]

अथोत्तरवेदिं निवपति । इयं वै वेदिर्द्यैरुत्तरवेदिर्दिशो लोगेष्टकास्तद्यदन्तरेण
वेदिं चोत्तरवेदिं च लोगेष्टका उपदधातीमौ तल्लोकावन्तरेण दिशो दधाति
तस्मादिमौ लोकावन्तरेण दिशस्तां युगमात्रीं वा सर्वतः करोति चत्वारिंशत्पदां
वा यतरथा कामयेताथ सिकता निवपति तस्योक्तो बन्धुः

७.३.१.[२८]

ता उत्तरवेदौ निवपति । योनिर्वा उत्तरवेदिर्योनौ तद्रेतः सिञ्चति यद्वै योनौ रेतः
सिच्यते तत्प्रजनिष्णु भवति ताभिः सर्वमात्मानं प्रच्छादयति
सर्वस्मिंस्तदात्मन्रेतो दधाति तस्मात्सर्वस्मादेवात्मनो रेतः सम्भवति

७.३.१.[२९]

अग्ने तव श्रवो वय इति । धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंलोके
श्रावयति महि भ्राजन्ते अर्चयो विभावसावेति महतो भ्राजन्तेऽर्चयः
प्रभूवसवित्येतद्बृहद्भानो शवसा वाजमुक्थ्यमिति बल वै शवो बृहद्भानो
वलेनान्नमुक्थ्यमित्येतद्दधासि दाशुषे कव इति यजमानो वै दाश्वान्दधासि
यजमानाय कव इत्येतत्

७.३.१.[३०]

पावकवर्चाः शुक्रवर्चा इति । पवकवर्चा ह्येष शुक्रवर्चा अनूनवर्चा उदियर्षि
भानुनेत्यनूनवर्चा उद्दीप्यसे भानुनेत्येतत्पुत्रो मातरा विचरन्नुपावसीति पुत्रो
ह्येष मातरा विचरन्नुपावति पृणक्षि रोदसी उभे इतीमे वै द्यावापृथिवी रोदसी ते
एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम्

७.३.१.[३१]

ऊर्जो नपाज्जातवेदः सुशस्तिभिरिति । ऊर्जो नपाज्जातवेदः सुष्टुतिभिरित्येतन्मन्दस्व
धीतिभिर्हित इति दीप्यस्व धीतिभिर्हित इत्येतत्त्वे इषः संदधुर्भूरिवर्वस इति त्वे
इषः संदधुर्बहुवर्पस इत्येतच्चित्रोतयो वामजाता इति यथैव यजुस्तथा बन्धुः

७.३.१.[३२]

इरज्यन्नग्ने प्रथयस्व जन्तुभिरिति । मनुष्या वै जन्तवो दीप्यमानोऽग्ने
प्रथस्व मनुष्यैरित्येतदस्मे रायो अमर्त्येत्यस्मे रयिं
दधदमर्त्येतत्सदर्शतस्य वपुशो विराजसीति दर्शतस्य ह्येष वपुषो विराजति
पृणक्षि सानसिं क्रतुमिति पृणक्षि सनातनं क्रतुमित्येतत्

७.३.१.[३३]

इष्कर्तारमध्वरस्य प्रचेतसमिति । अध्वरो वै यज्ञः प्रकल्पयितारं यज्ञस्य
प्रचेतसमित्येतत्क्षयन्तं राधसो मह इति क्षयन्तं राधसि महतीत्येतद्रातिं
वामस्य सुभगां महीमिषमिति रातिं वामस्य सुभगाम्
महतीमिषमित्येतद्दधासि सानसिं रयिमिति दधासि सनातनं रयिमित्येतत्

७.३.१.[३४]

ऋतावानमिति । सत्यावानमित्येतन्महिषमित्यग्निर्वै महिषो विश्वदर्शतमिति
विश्वदर्शतो ह्येषोऽग्निं सुम्नाय दधिरे पुरो जना इति यज्ञो वै सुम्नं यज्ञाय वा
एतं पुरो दधते श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा
युगेत्याशृण्वन्तं सप्रथस्तमं त्वा गिरा देवं मनुष्या हवामह इत्येतत्

७.३.१.[३५]

स एषोऽग्निरेव वैश्वानरः । एतत्षडृचमारम्भायैवेमाः सिकता न्युप्यन्ते
ऽग्निमेवास्मिन्नेतद्वैश्वानरं रेतो भूतं शिञ्चति षडृचेन षडृतवः संवत्सरः
संवत्सरो वैश्वानरः

७.३.१.[३६]

तदाहुः । यद्रेतः सिकता उच्यन्ते किमासां रेतो रूपमिति शुक्ला इति ब्रूयाच्छुक्लं हि रेतो
ऽथो पृश्नय इति पृश्नीव हि रेतः

७.३.१.[३७]

तदाहुः । यदार्द्रं रेतः शुष्काः सिकता निवपति कथमस्यैता आर्द्रा रेतोरूपम्
भवन्तीति रसो वै छन्दांस्यार्द्र उ वै रसस्तद्यदेनाश्छन्दोभिर्निवपत्येवमु
हास्यैता आर्द्रा रेतोरूपं भवन्ति

७.३.१.[३८]

तदाहुः । कथमस्यैता अहोरात्राभ्यामुपहिता भवन्तीति द्वे वा अहोरात्रे शुक्लं च
कृष्णं च द्व सिकते शुक्ला च कृष्णा चैवमु हास्यैता अहोरात्राभ्यामुपहिता
भवन्ति

७.३.१.[३९]

तदाहुः । कथमस्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता
भवन्तीत्यनन्तानि वा अहोरात्राण्यनन्ताः सिकता एवमु हास्यैता अहोरात्रैः सम्पन्ना
अन्यूना अनतिरिक्ता उपहिता भवन्त्यथ कस्मात्समुद्रियं च्छन्द इत्यनन्तो वै
समुद्रोऽनन्ताः सिकतास्तत्समुद्रियं छन्दः

७.३.१.[४०]

तदाहुः । कथमस्यैताः पृथङ्नाना यजुर्भिरुपहिता भवन्तीति मनो वै
यजुस्तदिदं मनो यजुः सर्वाः सिकता अनुविभवत्येवमु हास्यैताः पृथङ्नाना
यजुर्भिरुपहिता भवन्ति

७.३.१.[४१]

तदाहुः । कथमस्यैताः सर्वैश्छन्दोभिरुपहिता भवन्तीति यदेवैना एतेन
षडृचेन निवपति यावन्ति हि सप्तानां च्छन्दसामक्षराणि तावन्त्येतस्य
षडृचस्याक्षराण्येवमु हास्यैताः सर्वैश्छन्दोभिरुपहिता भवन्ति

७.३.१.[४२]

यद्वेव सिकता निवपति । प्रजापतिरेषोऽग्निः सर्वमु ब्रह्म
प्रजापतिस्तद्धैतद्ब्रह्मण उत्सन्ने यत्सिकता अथ यदनुत्सन्नमिदं तद्यो
ऽयमग्निश्चीयते तद्यत्सिकता निवपति यदेव तद्ब्रह्मण उत्सन्नं
तदस्मिन्नेतत्प्रतिदधाति ता असंख्याता अपरिमिता निवपति को हि तद्वेद
यावत्तद्ब्रह्मण उत्सन्नं स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य
एवं विद्वान्त्सिकता निवपति

७.३.१.[४३]

तदाहुः । कैतासामसंख्यातानां संख्येति द्वे इति ब्रूयाद्द्वे हि सिकते शुक्ला च कृष्णा
चाथो सप्त विंशतिशतानीति ब्रूयादेतावन्ति हि संवत्सरस्याहोरात्राण्यथो द्वे
द्वापञ्चाशे शते इत्येतावन्ति ह्येतस्य षडृचस्याक्षराण्यथो पञ्चविंशतिरिति
पञ्चविंशं हि रेतः

७.३.१.[४४]

ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति न पक्षपुच्छेष्वात्मन्ह्येव
यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुच्छेषु न सादयति नेद्रेतः प्रजातिं
स्थापयानीति

७.३.१.[४५]

अथैना आप्यानवतीभ्यामभिमृशति । इदमेवैतद्रेतः सिक्तमाप्याययति
तस्माद्योनौ रेतः सिक्तमाप्यायते सौमीभ्यां प्राणो वै सोमः प्राणं तद्रेतसि
दधाति तस्माद्रेतः सिक्तं प्राणमभिसम्भवति पूयेद्ध यदृते
प्राणात्सम्भवेदेषो हैवात्र सूददोहाः प्राणो वै सोमः सूददोहाः

७.३.१.[४६]

आप्यायस्व समेतु ते । विश्वतः सोम वृष्ण्यमिति रेतो वै वृष्ण्यमाप्यायस्व समेतु ते
सर्वतः सोम रेत इत्येतद्भवा वाजस्य संगथ इत्यन्ने वै वाजो भवान्नस्य
संगथ इत्येतत्सं ते पयांसि समु यन्ति वाजा इति रसो वै पयोऽन्ने वाजाः सं ते रसाः
समु यन्त्वन्नानीत्येतत्सं वृष्ण्यभिमातिषाह इति सं रेतांसि पाप्मसह
इत्येतदाप्यायमानो अमृताय सोमेति प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृता
दिवि श्रवांस्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तमं स
ह्येनममुष्मिंलोके श्रावयति द्वाभ्यामाप्याययति गायत्र्या च त्रिष्टुभा च
तस्योक्तो बन्धुः

७.३.१.[४७]

अथाताः सम्पदेव । चतस्रो लोगेष्टका उपदधाति षडृचेन निवपति
द्वाभ्यामाप्याययति तद्द्वादश द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

७.३.२.[१]

आप्यानवतीभ्यामभिमृश्य । प्रत्येत्यातिथ्येन प्रचरत्यातिथ्येन प्रचर्य
प्रवर्ग्योपसद्भ्यां प्रचरति प्रवर्ग्योपसद्भ्यां प्रचर्याथैतां चर्मणि चितिं
समवशमयन्ति तद्यच्चर्मणि चर्म वै रूपं रूपाणामुपाप्त्यै लोमतो लोम वै
रूपं रूपाणामुपाप्त्यै रोहिते रोहिते ह सर्वाणि रूपाणि सर्वेषां रूपाणामुपाप्त्या
आनडुहेऽग्निरेष यदनड्वानग्निरूपाणामुपाप्त्यै प्राचीनग्नीवे तद्धि देवत्रा

७.३.२.[२]

तदग्रेण गार्हपत्यम् । अन्तर्वेद्युत्तरलोम प्राचीनग्नीवमुपस्तृणाति तदेतां चितिं
समवशमयन्त्यथ प्रोक्षति तद्यत्प्रोक्षति शुद्धमेवैतन्मेध्यं
करोत्याज्येन तद्धि शुद्धं मेध्यमथो अनभ्यारोहाय न हि किं
चनान्यद्धविराज्येन प्रोक्षन्ति तूष्णीमनिरुक्तं वै तद्यत्तूष्णीं सर्वं वा
अनिरुक्तं सर्वेणैवैतच्छुद्धं मेध्यं करोत्यथो अनभ्यारोहाय न हि किं
चनान्यद्धविस्तूष्णीं प्रोक्षन्ति

७.३.२.[३]

यद्वेव प्रोक्षति । हविर्वा एतत्तदेतदभिघारयति यद्वै हविरभ्यक्तं
यदभिघारितं तज्जुष्टं तन्मेध्यमाज्येनाज्येन हि हविरभिघारयन्ति तूष्णीं
तूष्णीं हि हविरभिघारयन्ति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम्

७.३.२.[४]

तदाहुः । यत्प्रथमामेव चितिं प्रोक्षति कथमस्यैष सर्वोऽग्निः प्रोक्षितो
भवति कथं चर्मणि प्रणीतः कथमश्वप्रणीत इति यदेवात्र सर्वासां
चितीनामिष्टकाः प्रोक्षत्येवमु हास्यैष सर्वोऽग्निः प्रोक्षितो भवत्येवं चर्मणि
प्रणीत एवमश्वप्रणीत उद्यच्छन्त्येतां चितिम्

७.३.२.[५]

अथाहाग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति । एतद्वै देवानुपप्रैष्यत एतं
यज्ञं तंस्यमानान्रक्षांसि नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व
इति तेभ्य एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्राहरंस्तैरेनानस्तृण्वत
तान्त्स्तृत्वाभयेऽनाष्ट्रा एत यज्ञमतन्वत

७.३.२.[६]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवोपहतानि
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो यदेव रक्षो यः पाप्मा तेभ्य
एतानग्नीनेता इष्टका वज्रान्क्षुरपवीन्कृत्वा प्रहरति तैरेनान्त्स्तृणुते
तान्त्स्तृत्वाभयेऽनाष्ट्रा एतं यज्ञं तनुते

७.३.२.[७]

तद्यदग्निभ्य इति । बहवो ह्येतेऽग्नयो यदेताश्चितयोऽथ यत्प्रह्रियमाणेभ्य इति
प्र हि हरति

७.३.२.[८]

तद्धैकेऽन्वाहुः । पुरीष्यासो अग्नयः प्रावणभिः सजोषस इति प्रायणरूपं न
तथा कुर्यादाग्नेयीरेव गायत्रीः कामवतीरनुब्रूयादा ते वत्सो मनो यमत्तुभ्यं
ता अङ्गिरस्तमाग्निः प्रियेषु धामस्विति

७.३.२.[९]

आग्नेयीरन्वाह । अग्निरूपाणामुपाप्त्य कामवतीः कामानामुपाप्त्यै गायत्रीर्गायत्रो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति
तिस्रस्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति ताः
सप्त सम्पद्यन्ते सह त्रिरनूक्ताभ्यां सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः
संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवत्युपांश्वन्वाह रेतो वा अत्र
यज्ञ उपांशु वै रेतः सिच्यते पश्चादनुब्रुवन्नन्वेति च्छन्दोभिरेवैतद्यज्ञम्
पश्चादभिरक्षन्नेति

७.३.२.[१०]

अथाश्वं शुक्लं पुरस्तान्नयन्ति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षांसि
नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमुमेवादित्यमसौ वा आदित्य एषो
ऽश्वस्त एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति
समाश्नुवत तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा
अपहत्याभयेऽनाष्ट्रे स्वस्ति समश्नुत आगघन्त्यग्निं दक्षिणतः पुच्छस्य
चितिमुपनिदधत्युत्तरतोऽश्वमाक्रमयन्ति
७.३.२.[११]

तमुत्तराधेनाग्नेः । अन्तरेण परिश्रितः प्राञ्चं नयन्ति तत्प्राच्यै दिशः
पाप्मानमपहन्ति तं दक्षिणा तद्दक्षिणायै दिशः पाप्मानमपहन्ति तम्
प्रत्यञ्चं तत्प्रतीच्यै दिशः पाप्मानमपहन्ति तमुदञ्चं तदुदीच्यै दिशः
पाप्मानमपहन्ति सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा
अपहत्याथैनमुदञ्चं प्राञ्चं प्रसृजति तस्योक्तो बन्धुः

७.३.२.[१२]

तं प्रत्यञ्चं यन्तम् । एतां चितिमवघ्रापयत्यसौ वा आदित्य एषोऽश्व इमा उ
सर्वाः प्रजा या इमा इष्टकास्तद्यदवघ्रादयत्यसावेव तदादित्य इमाः प्रजा
अभिजिघ्रति तस्मादु हैतत्सर्वोऽस्मीति मन्यते प्रजापतेर्वीर्येण तद्यत्प्रत्यञ्चं
यन्तमवघ्रापयति प्रत्यङ्ह्येवैष यन्निमाः सर्वाः प्रजा अभिजिघ्रति

७.३.२.[१३]

यद्वेवावघ्रापयति । असौ वा आदित्य एषोऽश्व इम उ लोका एताः
स्वयमातृणास्तद्यदवघ्रापयत्यसावेव तदादित्य इमांलोकान्त्सूत्रे समावयते
तद्यत्तत्सूत्रमुपरि तस्य बन्धुः

७.३.२.[१४]

यद्वेवाघ्रापयति । अग्निर्देवेभ्य उदक्रामत्सोऽपः प्राविशत्ते देवाः
प्रजापतिमब्रुवंस्त्वमिममन्विच्छ स तुभ्यं स्वाय पित्र आविर्भविष्यतीति
तमश्वः शुक्लो भूत्वान्वैच्छत्तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद
तमभ्यवेक्षां चक्रे स हैनमुदुवोष तस्मादुवोष तस्मादश्वः शुक्ल
उदुष्टमुख इवाथा ह दुरक्षो भावुकस्तमु वा ऋत्वेव हिंसित्वेव मेते तं
होवाच वरं ते ददामीति

७.३.२.[१५]

स होवाच । यस्त्वानेन रूपेणान्विच्छाद्विन्दादेव त्वा स इति स यो हैनमेतेन
रूपेणान्विच्छति विन्दति हैनं वित्त्वा हैवैनं चिनुते

७.३.२.[१६]

स शुक्लः स्यात् । तद्ध्येतस्य रूपं य एष तपति यदि शुक्लं न विन्देदप्यशुक्लः
स्यादश्वस्त्वेव स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादाग्नेयो वा
अनड्वानग्निरु सर्वेषां पाप्मनामपहन्ता

७.३.२.[१७]

अथातोऽधिरोहणस्यैव । तं हैके पुरस्तात्प्रत्यञ्चमधिरोहन्ति पश्चाद्वा प्राञ्चं
न तथा कुर्यात्पशुरेष यदग्निर्यो वै पशुं पुरस्तात्प्रत्यञ्चमधिरोहति
विषाणाभ्यां तं हन्त्यथ यः पश्चात्प्राञ्चं पद्भ्यां
तमात्मनेवैनमारोहेद्यं वा आत्मना पशुमारोहन्ति स पारयति स न
हिनस्त्युत्तरतो यं हि कं च पशुमारोहन्त्युत्तरत
एवैनम्मारोहन्त्यारुह्याग्निमौत्तरवेदिकं कर्म कृत्वात्मन्नग्निं गृह्णीत
आत्मन्नग्निं गृहीत्वा सत्यं साम गायति पुष्करपर्णमुपदधाति तस्यातः

७.३.२.[१८]

अथैतं साये भूतेऽश्वं परिणयन्ति । एतद्व देवा अबिभयुर्यद्वै न इममिह
रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतं
वज्रमभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ वा आदित्य एषोऽश्वस्तथैवास्मा
अयमेतं वज्रमभिगोप्तारं करोति

७.३.२.[१९]

तं वा उपास्तमयमादित्यस्य परिणयति । एष वा अस्य प्रत्यक्षं दिवा गोप्ता भवति
रात्रिसाचयान्यु वै रक्षांसि रात्र्या एवास्मा एतं वज्रमभिगोप्तारं करोति सर्वतः
परिणयति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः परिणयति
त्रिवृतमेवास्मा एतं वज्रमभिगोप्तारं करोत्यथैनमुदञ्चं प्राञ्चं प्रसृजति
तस्योक्तो बन्धुरथ स पुनर्विपल्ययते तस्योपरि बन्धुः

७.४.१.[१]

आत्मन्नग्निं गृह्णीते चेष्यन् । आत्मनो वा एतमधिजनयति यादृशाद्व जायते तादृङ्ङेव
भवति स यदात्मन्नगृहीत्वाग्निं चिनुयान्मनुष्यादेव मनुष्यं
जनयेन्मर्त्यान्मर्त्यमनपहतपाप्मनोऽनपहतपाप्मानमथ
यदात्मन्नग्निं गृहीत्वा चिनोति तदग्नेरेवाध्यग्निं
जनयत्यमृतादमृतमपहतपाप्मनोऽपहतपाप्मानम्

७.४.१.[२]

स गृह्णाति । मयि गृह्णाम्यग्रे अग्निमिति तदात्मन्नेवाग्रेऽग्निं गृह्णाति रायस्पोषाय
सुप्रजास्त्वाय सुवीर्यायेति तदु सर्वा आशिष आत्मन्गृह्णीते मामु देवताः सचन्तामिति
तदु सर्वान्देवानात्मन्गृह्णीते तद्यत्किं चात्मनोऽधि जनयिष्यन्भवति
तत्सर्वमात्मन्गृह्णीते स वै तिष्ठन्नात्मन्नग्निं गृहीत्वानूपविश्य चिनोति
पशुरेष यदग्निस्तस्मात्पशुस्तिष्ठन्गर्भं धित्वानूपविश्य विजायते

७.४.१.[३]

अथ सत्यं साम गायति । एतद्वै देवा अब्रुवन्त्सत्यमस्य मुखं करवाम ते
सत्यं भविष्यामः सत्यं नोऽनुवर्त्स्यति सत्यो नः स कामो भविष्यति यत्कामा
एतत्करिष्यामह इति
७.४.१.[४]

त एतत्सत्यं साम पुरस्तादगायन् । तदस्य सत्यं मुखमकुर्वंस्ते
सत्यमभवन्त्सत्यमेनानन्ववर्तत सत्य एषां स कामोऽभवद्यत्कामा
एतदकुर्वत

७.४.१.[५]

तथैवैतद्यजमानः । यत्सत्यं साम पुरस्ताद्गायति तदस्य सत्यं मुखं करोति
स सत्यं भवति सत्यमेनमनुवर्तते सत्योऽस्य स कामो भवति यत्काम
एतत्कुरुते

७.४.१.[६]

तद्यत्तत्सत्यम् । आप एव तदापो हि वै सत्यं तस्माद्येनापो यन्ति तत्सत्यस्य
रूपमित्याहुरप एव तस्य सर्वस्याग्रमकुर्वंस्तस्माद्यदैवापो यन्त्यथेदं
सर्वं जायते यदिदं किं च

७.४.१.[७]

अथ पुष्करपर्णमुपदधाति । योनिर्वै पुष्करपर्णं योनिमेवैतदुपदधाति

७.४.१.[८]

यद्वेव पुष्करपर्णमुपदधाति । आपो वै पुष्करं तासामियं पर्णं यथा ह
वा इदं पुष्करपर्णमप्स्वध्याहितमेवमियमप्स्वध्याहिता सेयं
योनिरग्नेरियं ह्यग्निरस्यै हि सर्वोऽग्निश्चीयत इमामेवैतदुपदधाति
तामनन्तर्हितां सत्यादुपदधातीमां तत्सत्ये प्रतिष्ठापयति तस्मादियं सत्ये
प्रतिष्ठिता तस्माद्वियमेव सत्यमियं ह्येवैषां लोकानामद्धातमाम्

७.४.१.[९]

अपां पृष्ठमसि योनिरग्नेरिति । अपां हीयं पृष्ठं योनिर्हीयमग्नेः
समुद्रमभितः पिन्वमानमिति समुद्रो हीमामभितः पिन्वते वर्धमानो
महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया
वरिम्णा प्रथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषोऽग्निर्नो हैतमन्यो दिवो वरिमा
यन्तुमर्हति द्यौर्भूत्वैनं यच्छेत्येवैतदाह स्वराजोपद्धाति स्वाराज्यं ह्यपां
सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.१.[१०]

अथ रुक्भमुपदधाति । असौ वा आदित्य एष रुक्भ एष हीमाः सर्वाः प्रजा
अतिरोचते रोचो ह वै तं रुक्भ इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा
अमुमेवैतदादित्यमुपदधाति स हिरण्मयो भवति परिमण्डल
एकविंशतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयो वा
एतस्य निर्बाधा अवस्तादु वा एतस्य रश्मयः

७.४.१.[११]

तं पुष्करपर्ण उपदधाति । योनिर्वै पुष्करपर्णं
योनावेवैनमेतत्प्रतिष्ठापयति

७.४.१.[१२]

यद्वेव पुष्करपर्ण उपदधाति । प्रतिष्ठा वै पुष्करपर्णमियं वै
पुष्करपर्णमियमु वै प्रतिष्ठा यो वा अस्यामप्रतिष्ठितोऽपि दूरे
सन्नप्रतिष्ठित एव स रश्मिभिर्वा एषोऽस्यां प्रतिष्ठितो
ऽस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति

७.४.१.[१३]

यद्वेव पुष्करपर्ण उपदधाति । इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानोऽपः
प्राविशत्ता अब्रवीद्बिभेमि वै पुरं मे कुरुतेति स योऽपां रस आसीत्तमूर्ध्वं
समुदौहंस्तामस्मै पुरमकुर्वंस्तद्यदस्मै पुरमकुर्वंस्तस्मात्पूष्करम्
पूष्करं ह वै तत्पुष्करमित्याचक्षते परोऽक्षं परोऽक्षकामा हि
देवास्तद्यत्पुष्करपर्ण उपदधाति यमेवास्यैतमापो रसं समुदौहन्यामस्मै
पुरमकुर्वंस्तस्मिन्नेवैनमेतत्प्रतिष्ठापयति

७.४.१.[१४]

ब्रह्म जज्ञानं प्रथमं पुरस्तादिति । असौ वा आदित्यो ब्रह्माहरहः
पुरस्ताज्जायते वि सीमतः सुरुचो वेन आवरिति मध्यं वै सीमेमे लोकाः सुरुचो
ऽसावादित्यो वेनो यद्वै प्रजिजनिषमाणोऽवेनत्तस्माद्वेनस्तानेष सीमतो मध्यतो
विवृष्वन्नुदेति स बुध्न्या उपमा अस्य विष्ठा इति दिशो वा अस्य बुध्न्या उपमा
विष्ठास्ता ह्येष उपवितिष्ठते सतश्च योनिमसतश्च विवरितीमे वै लोकाः सतश्च
योनिरसतश्च यच्च ह्यस्ति यच्च न तदेभ्य एव लोकेभ्यो जायते त्रिष्टुभोपदधाति
त्रैष्टभो ह्येष सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.१.[१५]

अथ पुरुषमुपदधाति । स प्रजापतिः सोऽग्निः स यजमानः स हिरण्मयो भवति
ज्योतिर्वै हिरण्यं ज्योतिरग्निरमृतं हिरण्यममृतमग्निः पुरुषो भवति पुरुषो
हि प्रजापतिः

७.४.१.[१६]
यद्वेव पुरुषमुपदधाति । प्रजापतेर्विस्रस्ताद्रम्या तनूर्मध्यत
उदक्रामत्तस्यामेनमुत्कान्तायां देवा अजहुस्तं यत्र देवाः
समस्कुर्वंस्तदस्मिन्नेतां रम्यां तनूं मध्यतोऽदधुस्तस्यामस्य देवा
अरमन्त तद्यदस्यैतस्यां रम्यायां तन्वां देवा अरमन्त तस्माद्धिरम्यं
हिरम्यं ह वै तद्धिरण्यमित्याचक्षते परोऽक्षं परोऽक्षकामा हि
देवास्तथैवास्मिन्नयमेतां रम्यां तनूं मध्यतो दधाति तस्यामस्य देवा
रमन्ते प्राणो वा अस्य सा रम्या तनूः प्राणमेवास्मिन्नेतं मध्यतो दधाति

७.४.१.[१७]

तं रुक्भ उपदधाति । असौ वा आदित्य एष रुक्भोऽथ य एष एतस्मिन्मण्डले
पुरुषः स एष तमेवैतदुपदधाति

७.४.१.[१८]

उत्तानमुपदधाति । एतद्वै देवा अब्रुवन्यदि वा इमावर्वाञ्चा उपधास्यामः
सर्वमेवेदं प्रधक्ष्यतो यद्यु पराञ्चौ पराञ्चावेव तप्स्यतो यद्यु
सम्यञ्चावन्तरैवैतावेतज्ज्योतिर्भविष्यत्यथो अन्योऽन्यं हिंसिष्यत इति ते
ऽर्वाञ्चमन्यमुपादधुः पराञ्चमन्यं स एष रश्मिभिरर्वाङ्तपति रुक्भः
प्राणैरेष ऊर्ध्वः पुरुषः प्राञ्चमुपदधाति प्राङ्ह्येषोऽग्निश्चीयते

७.४.१.[१९]

हिरण्यगर्भः समवर्तताग्र इति । हिरण्यगर्भो ह्येष समवर्तताग्रे भूतस्य
जातः पतिरेक आसीदित्येष ह्यस्य सर्वस्य भूतस्य जातः पतिरेक आसीत्स दाधार
पृथिवीं द्यामुतेमामित्येष वै दिवं च पृथिवीं च दाधार कस्मै देवाय हविष
विधेमेति प्रजा पतिर्वै कस्तस्मै हविषा विधेमेत्येतत्

७.४.१.[२०]

द्रप्सश्चस्कन्द पृथिवीमनु द्यामिति । असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं
च स्कन्दतीत्यमूमितीमामिमं च योनिमनु यश्च पूर्व इतीमं च लोकममुं
चेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति समानं योनिमनु
संचरन्तमिति समानं ह्येप एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त
होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु
प्रतिष्ठापयति

७.४.१.[२१]

द्वाभ्यामुपदधाति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष सादयित्वा
सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.१.[२२]

अथ साम गायति । एतद्वै देवा एतं पुरुषमुपधाय
तमेतादृशमेवापश्यन्यथैतच्छुष्कं फलकम्

७.४.१.[२३]

तेऽब्रुवन् । उप तज्जानीत यथास्मिन्पुरुषे वीर्यं दधामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्पुरुषे
वीर्यं दधामेति

७.४.१.[२४]

ते चेतयमानाः ।
एतत्सामापश्यंस्तदगायंस्तदस्मिन्वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति
पुरुषे गायति पुरुषे तद्वीर्यं दधाति चित्रे गायति सर्वाणि हि
चित्राण्यग्निस्तमुपधाय न पुरस्तात्परीयान्नेन्मायमग्निर्हिनसदिति

७.४.१.[२५]

अथ सर्पनामैरुपतिष्ठत । इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति
यदिदं किं च सर्वेषामु हैष देवानामात्मा यदग्निस्ते देवा
एतमात्मानमुपधायाबिभयुर्यद्वै न इमे लोका अनेनात्मना न सुर्पेयुरिति

७.४.१.[२६]

त एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरस्मा
इमांलोकानस्थापयंस्तैरनमयन्यदनमयंस्तस्मात्सर्पनामानि
तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठत इमानेवास्मा
एतल्लोकान्त्स्थापयतीमांलोकान्नमयति तथो हास्यैत एतेनात्मना न सर्पन्ति

७.४.१.[२७]

यद्वेव सर्पनामैरुपतिष्ठत । इमे वै लोकाः सर्पा यद्धि किं च सर्पत्येष्वेव
तल्लोकेषु सर्पति तद्यत्सर्पनामैरुपतिष्ठते यैवैषु लोकेषु नाष्ट्रा यो
व्यद्वरो या शिमिदा तदेवैतत्सर्वं शमयति

७.४.१.[२८]

नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो
नम इति य एवैषु त्रिषु लोकेषु सर्पास्तेभ्य एतन्नमस्करोति
७.४.१.[२९]

या इषवो यातुधानानामिति । यातुधानप्रेषिता हैके दशन्ति ये वा वनस्पतीम्रनु ये
वावटेषु शेरते तेभ्यः सर्पेभ्यो नम इति ये चैव वनस्पतिषु सर्पा ये चावटेषु
शेरते तेभ्य एतन्नमस्करोति

७.४.१.[३०]

ये वामी रोचने दिवो । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः
सर्पेभ्यो नम इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो
वै नमो यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञिय
ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत्

७.४.१.[३१]

त्रिभिरुपतिष्ठते । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवास्मा एतदिमांलोकान्त्स्थापयत्यथो तावतैवैतदिदं मर्वं शमयति
तिष्ठन्नुपतिष्ठते तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः

७.४.१.[३२]

अथैनमुपविश्याभिजुहोति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः सर्वतः
परिसर्पं सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणाति

७.४.१.[३३]

यद्वेवैनमभिजुहोति । एतद्वै देवा एतमात्मानमुपधायाबिभयुर्यद्वै न
इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्राक्षोघ्नान्प्रतिसरानपश्यन्कृणुष्व
पाजः प्रसितिं न पृथ्वीमिति राक्षोघ्ना वै प्रतिसरास्त एतैः प्रतिसरैः सर्वाभ्यो
दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत
तथैवैतद्यजमान एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा
अपहत्याभयेऽनाष्ट्र एतमात्मानं सं स्कुरुते

७.४.१.[३४]

आज्येन जुहोति । वज्रो वा आज्यं वज्रेणैवैतप्रक्षांसि नाष्ट्रा अपहन्ति पञ्चगृहीतेन
पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैतद्रक्षांसि नाष्ट्रा अपहन्त्याग्नेयीभिरग्निर्वै ज्योती
रक्षोहाग्निनैवैतद्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै
त्रिष्टुब्वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति सर्वतः परिसर्पं सर्वाभ्य
एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति

७.४.१.[३५]
पश्चादग्नेः प्राङासीनो ।ऽथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन
परीत्य दक्षिणत उदङ्ङासीनस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य
पश्चात्प्राङासीनस्तथो हास्यैतत्प्रागेव कर्म कृतं भवति

७.४.१.[३६]

अथ स्रुचा उपदधाति । बाहू वै स्रुचौ बाहू एवास्मिन्नेतत्प्रतिदधाति ते यत्स्रुचौ
भवतः स्रुचौ हि बाहू इदमेव कपुच्छलमयं दण्दो द्वे भवतो द्वौ हीमौ
बाहू पाश्वत उपदधाति पार्श्वतो हीमौ बाहू

७.४.१.[३७]

कार्ष्मर्यमयीं दक्षिणत उपदधाति । एतद्वै देवा अबिभयुर्यद्वै नो यज्ञं
दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति त एतं रक्षोहणं
वनस्पतिमपश्यन्कार्ष्मर्यं त एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा
अपहत्याभयेऽनाष्ट्र एतं यज्ञमतन्वत तथैवैतद्यजमान एतेन वनस्पतिना
दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुत आज्येन पूर्णा
भवति वज्रो वा आज्यं वज्रेणैवैतद्दक्षिणतो रक्षांसि नाष्ट्रा अपहन्ति

७.४.१.[३८]

अथौदुम्बरीमुत्तरत उपदधाति । ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं
दधाति दध्ना पूर्णा भवति रसो वै दधि रसमेवास्मिन्नेतद्दधाति

७.४.१.[३९]

यद्वेव स्रुचा उपदधाति । प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाकर्षत्सो
ऽत्रोदरमद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्योऽथास्येन्द्र ओज
आदायोदङ्ङदक्रामत्स उदुम्बरोऽभवत्

७.४.१.[४०]

तावब्रवीत् । उप मेतं प्रति म एतद्धत्तं येन मे युवमुदक्रमिष्टमिति
ताभ्यां वै नौ सर्वमन्नं प्रयच्छेति तौ वै मा बाहू भूत्वा प्रपद्येथामिति
तथेति ताभ्यां वै सर्वमन्नं प्रायच्छत्तावेनं बाहू भूत्वा प्रापद्येतां
तस्माद्बाहुभ्यामेवान्नं क्रियते बाहुभ्यामद्यते बाहुभ्यां हि स सर्वमन्नम्
प्रायच्छत्

७.४.१.[४१]

स कार्ष्मर्यमयीं दक्षिणत उपदधाति । अग्नेष्ट्वा तेजसा सादयामीति यदेवास्य
तदग्निस्तेज आदाय दक्षिणाकर्षत्तदस्मिन्नेतत्प्रतिदधात्यग्निर्मूर्धा दिवः
ककुदित्येष उ सोऽग्निर्गायत्र्या गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनामेतदुपदधाति घृतेन पूर्णा भवत्याग्नेयं वै घृतं
स्वेनैवैनमेतद्भागेन स्वेन रमेन प्रीणाति

७.४.१.[४२]

अथौदुम्बरीमुत्तरत उपदधाति । इन्द्रस्य त्वौजसा सादयामीति यदेवास्य
तदिन्द्र ओज आदायोदङ्ङुदक्रामत्तदस्मिन्नेतत्प्रतिदधाति भुवो यज्ञस्य रजसश्च
नेतेत्येष उ स इन्द्रः सा यदाग्नेय्यग्निकर्म ह्यथ यत्त्रिष्टुप्त्रैष्टुभो हीन्द्र
ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधातीन्द्राग्नी वै
सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनामेतदुपदधाति दध्ना पूर्णा भवत्यैन्द्रं वै दधि
स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति

७.४.१.[४३]

तावस्यैताविन्द्राग्नी एव बाहू । तावेनं तेजसा च वीर्येण च सह प्रपद्येते स
सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्यैने उपदधात्येष
हैतयोर्लोकः

७.४.१.[४४]

ते हैके तिरश्च्या उपदधति । तिर्यञ्चौ वा इमौ बाहू इति न तथा
कुर्यात्प्राच्यावेवोपदध्यात्प्राङ्ह्येषोऽग्निश्चीयतेऽथो एवं वै बाहू वीर्यवत्तरौ
ते
नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हीमौ बाहू

७.४.१.[४५]

तदाहुः । नैतस्य पुरुषस्य बाहू कुर्यादेतौ वा अस्य बाहू ये एते स्रुचौ
नेदतिरेचयानीति स वै कुर्यादेवैतौ वा अस्य बाहू अन्वेते स्रुचावथो एतौ
पक्षावथो यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति यान्त्स्तोमान्यानि पृष्ठानि
यानि छन्दांस्येतयोरेव सा संस्कृतिरेतयोर्वृद्धिस्तस्मादु कुर्यादेवैतस्य पुरुषस्य
बाहू

७.४.२.[१]

स्वयमातृणामुपदधाति । इयं वै स्वयमातृणेमामेवैतदुपदधाति
तामनन्तर्हितां पुरुषादुपदधात्यन्नं वै स्वयमातृणेयं वै
स्वयमातृणेयमु वा अन्नमस्यां हि सर्वमन्नं पच्यते
ऽनन्तर्हितमेवास्मादेतदन्न दधात्युत्तरामुत्तरमेवास्मादेतदन्नं दधाति

७.४.२.[२]

यद्वेव स्वयमातृणामुपदधाति । प्राणो वै स्वयमातृणा प्राणो
ह्येवैतत्स्वयमात्मन आतृन्त्ते प्राणमेवैतदुपदधाति तामनन्तर्हिताम्
पुरुषादुपदधाति प्राणो वै स्वयमातृणेयं वै स्वयमातृणेयमु वै प्राणो यद्धि
किं च प्राणीयं तत्सर्वं बिभर्त्यनन्तर्हितमेवास्मादेतत्प्राणं
दधात्युत्तरामुत्तरमेवास्मादेतत्प्राणं दधाति

७.४.२.[३]

यद्वेव स्वयमातृणामुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय
व्युदक्रामंस्तासु व्युत्क्रामन्तीषु प्रतिष्ठामभिपद्योपाविशत्

७.४.२.[४]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या सा
प्रतिष्ठैषा सा प्रथमा स्वयमातृणा तद्यदेतामत्रोपदधाति
यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति

७.४.२.[५]

तां वै प्रजापतिनोपदधाति । प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त
ध्रुवासीति स्थिरासीत्येतदथो प्रतिष्ठितासीति धरुणेति प्रतिष्ठा वै धरुणमास्तृता
विश्वकर्मणेति प्रजापतिर्वै विश्वकर्मा तेनास्तृतासीत्येतन्मा त्वा समुद्र
उद्वधीन्मा सुपर्ण इति रुक्भो वै समुद्रः पुरुषः सुपर्णस्तौ त्वा
मोद्वधिष्टामित्येतदव्यथमाना पृथिवीं दृंहेति यथैव यजुस्तथा बन्धुः

७.४.२.[६]

प्रजापतिष्ट्वा सादयत्विति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यदपां पृष्ठे
समुद्रस्येमन्नित्यपां हीयं पृष्ठं समुद्रस्य हीयमेम व्यचस्वतीम्
प्रथस्वतीमिति व्यचस्वती च हीयं प्रथस्वती च प्रथस्व पृथिव्यसीति प्रथस्व
पृथिवी चासीत्येतत्

७.४.२.[७]

भूरसीति । भूर्हीयं भूमिरसीति भूमिर्हीयमदितिरसीतीयं वा अदितिरियं हीदं
सर्वं ददते विश्वधाया इत्यस्यां हीदं सर्वं हितं विश्वस्य भुवनस्य धर्त्रीति
सर्वस्य भुवनस्य धर्त्रीत्येतत्पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा
हिंसीरित्यात्मानं यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत्

७.४.२.[८]

विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः
प्रतिष्ठा चरित्रमग्निष्ट्वाभिपात्वित्यग्निष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति
महत्या स्वस्त्येत्येतच्चर्दिषा शंतमेनेति यच्चर्दिः शंतमं तेनेत्येतत्सादयित्वा
सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः

७.४.२.[९]

तदाहुः । कथमेप पुरुषः स्वयमातृणयानभिनिहितो भवतीत्यन्नं वै
स्वयमातृणा प्राणः स्वयमातृणानभिनिहितो वै पुरुषोऽन्नेन च प्राणेन च

७.४.२.[१०]

अथ दूर्वेष्टकामुपदधाति । पशवो वै दूर्वेष्टका पशूनेवैतदुपदधाति
तद्यैरदोऽग्निरनन्तर्हितैः पशुभिरुपैत्त एते तानेवैतदुपदधाति
तामनन्तर्हितां स्वयमातृणाया उपदधातीयं वै स्वयमातृणानन्तर्हितांस्तदस्यै
पशून्दधात्युत्तरामुत्तरांस्तदस्यै पशून्दधाति

७.४.२.[११]

यद्वेव दूर्वेष्टकामुपदधाति । प्रजापतेर्विस्रस्तस्य यानि लोमान्यशीयन्त ता इमा
ओषधयोऽभवन्नथास्मात्प्राणो मध्यत उदक्रामत्तस्मिन्नुत्क्रान्तेऽपद्यत

७.४.२.[१२]

सोऽब्रवीत् । अयं वाव माधूर्वीदिति यदब्रवीदधूर्वीन्मेति तस्माद्धूर्वा धूर्वा

वै तां दूर्वेत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तदेतत्क्षत्रं प्राणो
ह्येष रसो लोमान्यन्या ओषधय एतामुपदधत्सर्वा ओषधीरुपदधाति

७.४.२.[१३]

तं यत्र देवाः समस्कुर्वम् । स्तदस्मिन्नेतं प्राणं रसं मध्यतो
ऽदधुस्तथैवास्मिन्नयमेतद्दधाति तामनन्तर्हितां स्वयमातृणाय
उपदधातीयं वै स्वयमातृणानन्नर्हितास्तदस्या
ओषधीर्दधात्युत्तरामुत्तरास्तदस्या ओषधीर्दधाति सा स्यात्समूला साग्रा कृत्स्नतायै
यथा स्वयमातृणायामुपहिता भूमिं प्राप्नुयादेवमुपदध्यादस्यां ह्येवैता
जायन्त इमामनु प्ररोहन्ति

७.४.२.[१४]

काण्डात्काण्डात्प्ररोहन्ती । परुषःपरुषस्परीति काण्डात्काण्डाद्ध्येषा
पर्वणःपर्वणः प्ररोहत्येवा नो पूर्वे प्रतनु सहस्रेण शतेन चेति यथैव
यजुस्तथा बन्धुः
७.४.२.[१५]

या शतेन प्रतनोषि । सहस्रेण विरोहसीति शतेन ह्येषा प्रतनोति सहस्रेण विरोहति
तस्यास्ते देवीष्टके विधेम हविषा वयमिति यथैव यजुस्तथा
बन्धुर्द्वाभ्यामुपदधाति तस्योक्तो बन्धुः सादयित्वा सूददोहसाधिवदति
तस्योक्तो बन्धुः

७.४.२.[१६]

अथ द्वियजुषमुपदधाति । इन्द्राग्नी अकामयेतां स्वर्गं लोकमियावेति
तावेतामिष्टकामपश्यतां द्वियजुषमिमामेव तामुपादधातां तामुपधायास्यै
प्रतिष्ठायै स्वर्गं लोकमैतां तथैवैतद्यजमानो यद्द्वियजुषमुपदधाति
येन रूपेण यत्कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वा
स्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवते अपश्यतां यद्वेव
द्वियजुषमुपदधाति यजमानो वै द्वियजुः

७.४.२.[१७]

तदाहुः । यदसावेव यजमानो योऽसौ हिरण्मयः पुरुषोऽथ कतमदस्येदं
रूपमिति दैवो वा अस्य स आत्मा मनुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा
अस्य तद्रूपं देवरूपममृतं हिरण्यमथ यदियं मृदः कृता भवति मानुषं
ह्यस्येदं रूपम्

७.४.२.[१८]

स यदमूमेवोपदध्यात् । नेमामपशिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः
प्रेयादथ यदिमामपशिनष्टि यदेवास्येदं मानुषं रूपं तदस्यैतदपशिनष्टि
तथो हानेनात्मना सर्वमायुरेति

७.४.२.[१९]

स यन्नानूपदध्यात् । न हैतं दैवमात्मानमनुप्रजानीयादथ यदनूपदधाति
तथो हैतं दैवमात्मानमनुप्रजानाति तामनन्तर्हितां दूर्वेष्टकाया उपदधाति
पशवो वै दूर्वेष्टका यजमानं तत्पशुषु प्रतिष्ठापयति

७.४.२.[२०]

तदाहुः । कथमस्यैतावात्मानौ प्राणेन संततावव्यवच्छिन्नौ भवत इति प्राणो वै
स्वयमातृणा प्राणो दूर्वेष्टका यजमानो द्वियजुः स यदनन्तर्हितां स्वयमातृणायै
दूर्वेष्टकामुपदधाति प्राणेणैव तत्प्राणं संतनोति संदधात्यथ
यदनन्तर्हितां दूर्वेष्टकायै द्वियजुषमुपदधाति प्राणो वै दूर्वेष्टका
यजमानो द्वियजुरेवमु हास्यैतावात्मानौ प्राणेन संततावव्यवच्छिन्नौ भवतः
७.४.२.[२१]

यास्ते अग्ने सूर्ये रुचो । या वो देवाः सूर्ये रुच इति रुचं रुचमित्यमृतत्वं वै
रुगमृतत्वमेवास्मिन्नेतद्दधाति द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो
द्वयं ह्येवैतद्रूपं मृच्चापश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.२.[२२]

अथ रेतःसिचा उपदधाति । इमौ वै लोकौ रेतःसिचाविमौ ह्येव लोकौ रेतः सिञ्चत
इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमं सामुत्र वृष्टिर्भवति तामसावमुतो
वृष्टिं तदिमा अन्तरेण प्रजायन्ते तस्मादिमौ लोकौ रेतःसिचौ

७.४.२.[२३]

विराड्ज्योतिरधारयदिति । अयं वै लोको विराट्स इममग्निं ज्योतिर्धारयति
स्वराड्ज्योतिरधारयदित्यसौ वै लोकः स्वराट्सो मुमादित्यं ज्योतिर्धारयति
विराड्वहेमौ लोकौ स्वराट्च नानोपदधाति नाना हीमौ लोकौ सकृत्सादयति
समानं तत्करोति तस्मादु हानयोर्लोकयोरन्ताः समायन्ति

७.४.२.[२४]

यद्वेव रेतःसिचा उपदधाति । आण्डौ वै रेतःसिचौ यस्य ह्याण्डौ भवतः स एव
रेतः सिञ्चति विराड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयदिति विराड्वहेमावाण्डौ
स्वराट्च तावेतज्ज्योतिर्धारयतो रेत एव प्रजापतिमेव नानोपदधाति नाना
होमावाण्डौ सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनौ ते
अनन्तर्हिते द्वियजुष उपदधाति यजमानो वै द्वियजुरनन्तर्हितौ
तद्यजमानादाण्डौ दधाति

७.४.२.[२५]

अथ विश्वज्योतिषमुपदधाति । अग्निर्वै प्रथमा विश्वज्योतिरग्निर्ह्येवास्मिंलोके
विश्वं ज्योतिरग्निमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधातीमौ
वै लोकौ रेतःसिचावनन्तर्हितं तदाभ्यां लोकाभ्यामग्निं
दधात्यन्तरेवोपदधात्यन्तरेव हीमौ लोकावग्निः

७.४.२.[२६]

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति तामनन्तर्हितां रेतःसिग्भ्यामुपदधात्याण्डौ वै
रेतःसिचावनन्तर्हितां तदाण्डाभ्यां प्रजातिं दधात्यन्तरेवोपदधात्यन्तरेव
ह्याण्डौ प्रजाः प्रजायन्ते

७.४.२.[२७]
प्रजापतिष्ट्वा सादयत्विति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यत्पृष्ठे पृथिव्या
ज्योतिष्मतीमिति पृष्ठे ह्ययं पृथिव्यै ज्योतिष्मानग्निः

७.४.२.[२८]

विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ एतस्मै प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतदग्निष्टेऽधिपतिरित्यग्निमेवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.२.[२९]

अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति मधुश्च
माधवश्च वासन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति
द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति

७.४.२.[३०]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्यायमेव
लोकः प्रथमा चितिरयमस्य लोको वसन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति

७.४.२.[३१]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निःसंवत्सर उ प्रजापतिस्तस्य
प्रतिष्ठैव प्रथमा चितिः प्रतिष्ठो अस्य वसन्त ऋतुस्तद्यदेते अत्रोपदधाति
यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति ते
अनन्तर्हिते विश्वज्योतिष उपदधाति प्रजा वै विश्वज्योतिरनन्तर्हितास्तत्प्रजा ऋतुभ्यो
दधाति तस्मात्प्रजा ऋतूनेवानुप्रजायन्त ऋतुभिर्ह्येव गर्भे सन्तं
सम्पश्यन्त्युतुभिर्जातम्

७.४.२.[३२]

अथाषाढामुपदधाति । इयं वा अषाढेमामेवैतदुपदधाति तां पूर्वार्ध
उपदधाति प्रथमा हीयमसृज्यत

७.४.२.[३३]

सा यदषाढा नाम । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा
एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत
तामुपधायासुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त यदसहन्त
तस्मादषाढा तथैवैतद्यजमान एतामुपधाय दिषन्तम्
भ्रातृव्यमस्मात्सर्वस्मात्सहते
७.४.२.[३४]

यद्वेवाषाढामुपदधाति । वाग्वा अषाढा वाचैव तद्दैवा
असुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त तथैवैतद्यजमानो वाचैव
द्विषन्तं भ्रातृव्यमस्मात्सर्वस्मात्सहते वाचमेव तद्देवा उपादधत
तथैवैतद्यजमानो वाचमेवोपधत्ते

७.४.२.[३५]

सेयं वामभृत् । प्राणा वै वामं यद्धि किं च प्राणीयं तत्सर्वं बिभर्ति तेनेयं
वामभृद्वाग्घ त्वेव वाभृत्प्राणा वै वामं वाचि वै प्राणेभ्योऽन्नं धीयते
तस्माद्वाग्वामभृत्

७.४.२.[३६]

त एते सर्वे प्राणा यदषाढा । तां पूर्वार्ध उपदधाति पुरस्तात्तत्प्राणान्दधाति
तस्मादिमे पुरस्तात्प्राणास्तान्नान्यया यजुष्मत्येष्टकया
पुरस्तात्प्रत्युपदध्यादेतस्यां चितौ नेत्प्राणानपिदधानीति

७.४.२.[३७]

यद्वपस्याः पञ्च पुरस्तादुपदधाति । अन्नं वा आपोऽनपिहिता वा अन्नेन
प्राणास्तामनन्तर्हितामृतव्याभ्यामुपदधात्यृतुषु तद्वाचं प्रतिष्ठापयति सेयं
वागृतुषु प्रतिष्ठिता वदति

७.४.२.[३८]

तदाहुः । यत्प्रजा विश्वज्योतिर्वागषाढाय कस्मादन्तरेणऽर्तव्ये उपदधातीति
संवत्सरो वा ऋतव्ये संवत्सरेण तत्प्रजाभ्यो वाचमन्तर्दधाति
तस्मात्संवत्सरवेलायां प्रजा वाचं प्रवदन्ति

७.४.२.[३९]

अषाढासि सहमानेति । असहन्त ह्येतया देवा असुरान्त्सहस्वारातीः सहस्व पृतनायत
इति यथैव यजुस्तथा बन्धुः सहस्रवीर्यासि सा मा जिन्वेति सर्वं वै सहस्रं
सर्ववीर्यासि सा मा जिन्वेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.४.२.[४०]

तदाहुः । कस्मादभिस्वयमातृणमन्या इष्टका उपधीयन्ते प्राच्य एता इति द्वे वै
योनी इति ब्रूयाद्देवयोनिरन्यो मनुष्ययोनिरन्यः प्राचीनप्रजनना वै देवाः
प्रतीचीनप्रजनना मनुष्यास्तद्यदेताः प्राचीरुपदधाति
देवयोनेरेवैतद्यजमानं प्रजनयति

७.५.१.[१]

कूर्ममुपदधाति । रसो वै कूर्मो रसमेवैतदुपदधाति यो वै स एषां
लोकानामप्सु प्रविद्धानां पराङ्रसोऽत्यक्षरत्स एष कूर्मस्तमेवैतदुपदधाति
यावानु वै रसस्तावानात्मा स एष इम एव लोकाः

७.५.१.[२]

तस्य यदधरं कपालम् । अयं स लोकस्तत्प्रतिष्ठितमिव भवति प्रतिष्ठित इव
ह्ययं लोकोऽथ यदुत्तरं सा द्यौस्तद्ब्यवगृहीतान्तमिव भवति
व्यवगृहीतान्तेव हि द्यौरथ यदन्तरा तदन्तरिक्षं स एष इम एव लोका
इमानेवैतल्लोकानुपदधाति

७.५.१.[३]

तमभ्यनक्ति । दध्ना मधुना घृतेन दधि हैवास्य लोकस्य रूपं
घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रूपेण समर्धयत्यथो
दधि हैवास्य लोकस्य रसो घृतमन्तरिक्षस्य मध्वमुष्य
स्वेनैवैनमेतद्रसेन समर्धयति

७.५.१.[४]

मधु वाता ऋतायत इति । यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽक्षो
देवता तद्यजुस्तद्धैतन्मध्वेवैष त्रिचो रसो वै मधु
रसमेवास्मिन्नेतद्दधाति गायत्रीभिस्तिसृभिस्तस्योक्तो बन्धुः

७.५.१.[५]

स यत्कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत
यदसृजताकरोत्तद्यदकरोत्तस्मात्कूर्मः कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः
प्रजाः काश्यप्य इति

७.५.१.[६]

स यः कूर्मोऽसौ स आदित्यो ।ऽमुमेवैतदादित्यमुपदधाति तं
पुरस्तात्प्रत्यञ्चमुपदधात्यमुं तदादित्यं पुरस्तात्प्रत्यञ्चं दधाति
तस्मादसावादित्यः पुरस्तात्प्रत्यङ्धीयते दक्षिणतोऽषाढायै वृषा वै कूर्मो
योषाषाढा दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्निमात्राद्धि वृषा
योषामुपशेते सैषा सर्वासामिष्टकानां महिषी यदषाढैतस्यै दक्षिणतः
सन्त्सर्वासामिष्टकानां दक्षिणतो भवति
७.५.१.[७]

यद्वेव कूर्ममुपदधाति । प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति
प्राणमेवैतदुपदधाति तं पुरस्तात्प्रत्यञ्चमुपदधाति पुरस्तात्तत्प्रत्यञ्चम्
प्राणं दधाति तस्मात्पुरस्तात्प्रत्यङ्प्राणो धीयते पुरुषमभ्यावृत्तं यजमाने
तत्प्राणं दधाति दक्षिणतोऽषाढायै प्राणो वै कूर्मो वागषाढा प्राणो वै वाचो
वृषा प्राणो मिथुनम्

७.५.१.[८]

अपां गम्भन्त्स्तीदेति । एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति मा त्वा सूर्यो
ऽभिताप्सीन्माग्निर्वैश्वानर इति मैव त्वा सूर्यो हिंसीन्मो अग्निर्वैश्वानर
इत्येतदच्छिन्नपत्राः प्रजा अनुवीक्षस्वेतीमा वै सर्वाः प्रजा या इमा इष्टकास्ता अरिष्टा
अनार्ता अनुवीक्षस्वेत्येतदनु त्वा दिव्या वृष्टिः सचतामिति यथैवैनं दिव्या
वृष्टिरनुसचेतैवमेतदाह

७.५.१.[९]

अथैनमेजयति । त्रीन्त्समुद्रान्त्समसृपत्स्वर्गानितीमे वै त्रयः समुद्राः स्वर्गा
लोकास्तानेष कूर्मो भूत्वानुसंससर्पापां पतिर्वृषभ इष्टकानामित्यपां ह्येष
पतिर्वृषभ इष्टकानां पुरीषं वसानः सुकृतस्य लोक इति पशवो वै पुरीषम्
पशून्वसानः सुकृतस्य लोक इत्येतत्तत्र गच्छ यत्र पूर्वे परेता इति तत्र गच्छ
यत्रैतेन पूर्वे कर्मणेयुरित्येतत्

७.५.१.[१०]

मही द्यौः पृथिवी च न इति । महती द्यौः पृथिवी च न इत्येतदिमं यज्ञम्
मिमिक्षतामितीमं यज्ञमवतामित्येतत्पिपृतां नो भरीमभिरिति बिभृतां नो
भरीमभिरित्येतद्द्यावापृथिव्ययोत्तमयोपदधाति द्यावापृथिव्यो हि कूर्मः

७.५.१.[११]

त्रिभिरुपदधाति । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपदधाति त्रिभिरभ्यनक्ति तत्षट्तस्योक्तो बन्धुरवका
अधस्ताद्भवन्त्यवका उपरिष्टादापो वा अवका अपामेवैनमेतन्मध्यतो दधाति
सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

७.५.१.[१२]

अथोलूखलमुसले उपदधाति । विष्णुरकामयतान्नादः स्यामिति स एते इष्टके
अपश्यदुलूखलमुसले ते उपाधत्त ते उपधायान्नादोऽभवत्तथैवैतद्यजमानो
यदुलूखलमुसले उपदधाति येन रूपेण यत्कर्म कृत्वा विष्णुरन्नादोऽभवत्तेन
रूपेण तत्कर्म कृत्वान्नादोऽसानीति तदेतत्सर्वमन्नं यदुलूखलमुसले
उलूखलमुसलाभ्यां ह्येवान्नं क्रियत उलूखलमुसलाभ्यामद्यते
७.५.१.[१३]

ते रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत
एवास्मिन्नेतदन्नं दधात्युत्तरे उत्तरमेवास्मादेतदन्नं दधात्यरत्निमात्रे
ऽरत्निमात्राद्ध्यन्नमद्यते

७.५.१.[१४]

प्रादेशमात्रे भवतः । प्रादेशमात्रो वै गर्भो
विष्णुरन्नमेतदात्मसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा
आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न
तदवति

७.५.१.[१५]

औदुम्बरे भवतः । ऊर्ग्वै रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधात्यथो
सर्व एते वनस्पतयो यदुदुम्बर एते उपदधत्सर्वान्वनस्पतीनुपदधाति
रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वनस्पतीन्दधाति
तस्मादनयोर्वनस्पतयश्चतुःस्रक्ति भवति चतस्रो वै दिशः सर्वासु तद्दिक्षु
वनस्पतीन्दधाति तस्मात्सर्वासु दिक्षु वनस्पतयो मध्ये संगृहीतम्
भवत्युलूखलरूपतायै

७.५.१.[१६]

यद्वेवोलूखलमुसले उपदधाति । प्रजापतेर्विस्रस्तात्प्राणो मध्यत
उदचिक्रमिषत्तमन्नेनागृह्णात्तस्मात्प्राणोऽन्नेन गृहीतो यो ह्येवान्नमत्ति स
प्राणिति

७.५.१.[१७]

प्राणे गृहीतेऽस्मादन्नमुदचिक्रमिषत्तत्प्राणेनागृह्णात्तस्मात्प्राणेनान्नं गृहीतं
यो ह्येव प्राणिति सोऽन्नमत्ति

७.५.१.[१८]

एतयोरुभयोर्गृहीतयोः ।
अस्मादूर्गुदचिक्रमिषत्तामेताभ्यामुभाभ्यामगृह्णात्तस्मादेताभ्यामुभाभ्या
मूर्
ग्गृहीता यो ह्येवान्नमत्ति स प्राणिति तमूर्जयति

७.५.१.[१९]
ऊर्जि गृहीतायाम् । अस्मादेते उभे उदचिक्रमिषतां ते ऊर्जागृह्णात्तस्मादेते उभे ऊर्जा
यं ह्येवोर्जयति स प्राणिति सोऽन्नमत्ति

७.५.१.[२०]

तान्येतान्यन्योऽन्येन गृहीतानि । तान्यन्योऽन्येन गृहीत्वात्मन्प्रापादयत
तदेतदन्नं प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्तान्नजीवनं हीदं सर्वम्

७.५.१.[२१]

तदेष श्लोकोऽभ्युक्तः । तद्वै स प्राणोऽभवदिति तद्धि स प्राणोऽभवन्महा
भूत्वा प्रजापतिरिति महान्हि स तदभवद्यदेनमेते देवाः प्रापद्यन्त भुजो
भुजिष्या वित्त्वेति प्राणा वै भुजोऽन्नं भुजिष्या एतत्सर्वं वित्त्वेत्ये
तद्यत्प्राणान्प्राणयत्पुरीत्यात्मा वै पूर्यद्वै प्राणान्प्राणयत्तस्मात्प्राणा देवा
अथ
यत्प्रजापतिः प्राणयत्तस्मादु प्रजापतिः प्राणो यो वै स प्राण एषा सा गायत्र्यथ
यत्तदन्नमेष स विष्णुर्देवताथ या सोऽर्गेष स उदुम्बरः

७.५.१.[२२]

सोऽब्रवीत् । अयं वाव मा सर्वस्मात्पाप्मन उदभार्षीदिति
यदब्रवीदुदभार्षीन्मेति तस्मादुपुम्भर उदुम्भरो ह वै तमुदुम्बर
इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवा उरु मे करदिति
तस्मादुरुकरमुरुकरं ह वै तदुलूखलमित्याचक्षते परोऽक्षं परो
ऽक्षकामा हि देवाः सैषा सर्वेषां प्राणानां योनिर्यदुलूखलं शिरो वै प्राणानां
योनिः

७.५.१.[२३]

तत्प्रादेशमात्रं भवति । प्रादेशमात्रमिव हि शिरश्चतुःस्रक्ति भवति
चतुःस्रक्तीव हि शिरो मध्ये संगृहीतं भवति मध्ये संगृहीतमिव हि शिरः

७.५.१.[२४]

तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतत्सर्वं मध्यतोऽदधुः
प्राणमन्नमूर्जं तथैवास्मिन्नयमेतद्दधाति रेतःसिचोर्वेलया पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्सर्वं दधाति

७.५.१.[२५]

विष्णोः कर्माणि पश्यतेति । वीर्यं वै कर्म विष्णोर्वीर्याणि पश्यतेत्येतद्यतो व्रतानि
पस्पश इत्यन्नं वै व्रतं यतोऽन्नं स्पाशयां चक्र इत्येतदिन्द्रस्य युज्यः
सखेतीन्द्रस्य ह्येष युज्यः सखा द्विदेवत्ययोपदधाति द्वेह्युलूखलमुमले
सकृत्सादयति समानं तत्करोति समानं ह्येतदन्नमेव सादयित्वा
सूददोहसाधिवदति तस्योक्तो बन्धुः

७.५.१.[२६]

अथोखामुपदधाति योनिर्वा उखा योनिमेवैतदुपदधाति तामुलूखल
उपदधात्यन्तरिक्षं वा उलूखलं यद्वै किं चास्या ऊर्ध्वमन्तरिक्षमेव
तन्मध्यं वा अन्तरिक्षं मध्यतस्तद्योनिं दधाति तस्मात्सर्वेषां भूतानाम्
मध्यतो योनिरपि वनस्पतीनाम्

७.५.१.[२७]

यद्वेवोखामुपदधाति । यो वै स प्रजापतिर्व्यस्रंससतैषा सोखेमे वै लोका
उखेमे लोकाः प्रजापतिस्तामुलूखल उपदधाति
तदेनमेतस्मिन्त्सर्वस्मिन्प्रतिष्ठापयति प्राणेऽन्न ऊर्ज्यथो
एतस्मादेवैनमेतत्सर्वस्मादनन्तर्हितं दधाति

७.५.१.[२८]

अथोपशयां पिष्ट्वा । लोकभाजमुखां कृत्वा पुरस्तादुखाया उपनिवपत्येष
हैतस्यै लोकस्तथो हास्यैषानन्तरिता भवति

७.५.१.[२९]

तदाहुः । कथमस्यैषा पक्वा शृतोपहिता भवतीतिं यदेव यजुष्कृता तेनाथो
यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति तत एव तत्पक्वं शृतमुपहितम्
भवति

७.५.१.[३०]

ध्रुवासि धरुणेति । तस्योक्तो बन्धुरितो जज्ञे प्रथममेभ्यो योनिभ्यो अधि
जातवेदा इत्येतेभ्यो हि योनिभ्यः प्रथमं जातवेदा अजायत स गायत्र्या
त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्नित्येतैर्वा एष
च्छन्दोभिर्देवेभ्यो हव्यं वहति प्रजानन्

७.५.१.[३१]

इषे राये रमस्व । सहसे द्युम्न ऊर्जे अपत्यायेत्येतस्मै सर्वस्मै
रमस्वेत्येतत्सम्राडसि स्वराडसीति सम्राट्च ह्येष स्वराट्च सारस्वतौ त्वोत्सौ
प्रापवतामिति मनो वै सरस्वान्वाक्षरस्वत्येतौ सारस्वता उत्सौ तौ त्वा
प्रावतामित्येतद्द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वयं ह्येवैतद्रूपम्
मृच्चा पश्च सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः
७.५.१.[३२]

अथैनामभिजुहोति । एतद्वा अस्यामेतत्पूर्वं रेतः सिक्तं भवति
सिकतास्तदेतदभिकरोति तस्माद्योनौ रेतः सिक्तमभिक्रियत आज्येन जुहोति स्रुवेण
स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां तस्योक्तो बन्धुः

७.५.१.[३३]

अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति
युक्तवतीभ्यामिदमेवैतद्योनौ रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न
निष्पद्यते

७.५.१.[३४]

स यदि संवत्सरभृतः स्यात् । अथाभिजुहुयात्सर्वं वै त् अद्यत्संवत्सरभृतः
सर्वं तद्यदभिजुहीत्यथ यद्यसंवत्सरभृतः स्यादुपैव तिष्ठेतासर्वं वै
तद्यदसंवत्सरभृतोऽसर्वं तद्यदुपतिष्ठतेऽभि त्वेव जुहुयात्

७.५.१.[३५]

पशुरेष यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्यावाङ्प्राणः स्वयमातृणा
श्रोणी द्वियजुः पृष्टयो रेतःसिचौ कीकसा विश्वज्योतिः ककुदमृतव्ये ग्रीवा अषाढा
शिरः कूर्मो ये कूर्मे प्राणा ये शीर्षन्प्राणास्ते ते

७.५.१.[३६]

तं वा एतम् । इत ऊर्ध्वं प्राञ्चं चिनोत्यसौ वा आदित्य एषोऽग्निरमु तदादित्यमित
ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयते

७.५.१.[३७]

अथैनं प्रसलव्यावर्तयति । अमुं तदादित्य प्रसलव्यावर्तयति तस्मादसावादित्य
इमांलोकान्प्रसलव्यनुपर्यैति

७.५.१.[३८]

उदरमुखा । योनिरुलूखलमुत्तरोखा भवत्यधरमुलूखलमुत्तरं
ह्युदरमधरा योनिः शिश्नं मुसलं तद्वृत्तमिव भवति वृत्तमिव हि शिश्नं
तद्दक्षिणत उपदधाति दक्षिणतो वै वृषा योषामुपशेते यदु पशोः
संस्कृतस्यान्नं तद्दूर्वेष्टका तस्य वा एतस्योत्तरोऽर्ध उदाहिततरो भवति
पशुरेष यदग्निस्तस्मात्पशोः सुहितस्योत्तरः कुक्षिरुन्नततरो भवति
७.५.२.[१]

पशुशीर्षाण्युपदधाति । पशवो वै पशुशीर्षाणि पशूनेवैतदुपदधाति
तान्युखायामुपदधातीमे वै लोका उखा पशवः पशुशीर्षाण्येषु तल्लोकेषु
पशून्दधाति तस्मादिम एषु लोकेषु पशवः

७.५.२.[२]

यद्वेवोखायाम् । योनिर्वा उखा पशवः पशुशीर्षाणि योनौ तत्पशून्प्रतिष्ठापयति
तस्मादद्यमानाः पच्यमानाः पशवो न क्षीयन्ते योनौ ह्येनान्प्रतिष्ठापयति

७.५.२.[३]

यद्वेव पशुशीर्षाण्युपदधाति । या वै ताः श्रिय एतानि तानि पशुशीर्षाण्यथ यानि
तानि
कुसिन्धान्येतास्ताः पञ्च चितयस्तद्यास्ताः पञ्च चितय इमे ते लोकास्तद्ये त इमे लोका
एषा सोखा तद्यदुखायां पशुशीर्षाण्युपदधात्येतैरेव तचीर्षभिरेतानि
कुसिन्धानि संदधाति

७.५.२.[४]

तान्पुरस्तात्प्रतीच उपदधाति । एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त
आलिप्स्यमाना उदचिक्रमिषंस्तान्प्राणेषु समगृह्णात्तान्प्राणेषु संगृह्य
पुरस्तात्प्रतीच आत्मन्नधत्त

७.५.२.[५]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं न्वस्मात्ते पशवो नोच्चिक्रमिषन्ति
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो प्राणेष्वेवैनानेतत्संगृह्य
पुरस्तात्प्रतीच आत्मन्धत्ते

७.५.२.[६]

यद्वेव पशुशीर्षाण्युपदधाति । प्रजापतिर्वा इदमग्र आसीदेक एव सो
ऽकामयतान्नं सृजेय प्रजायेयेति स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः
पुरुष चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजं तद्यदेनान्प्राणेभ्योऽधि
निरमिमीत तस्मादाहुः प्राणाः पशव इति मनो वै प्राणानां प्रथमं
तद्यत्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः प्रथमः पशूनां
वीर्यवत्तम इति मनो वै सर्वे घ्राणा मनसि हि सर्वे प्राणाः
प्रतिष्ठितास्तद्यन्मनसः पुरुषं निरमिमीत तस्मादाहुः पुरुषः सर्वे पशव
इति पुरुषस्य ह्येवैते सर्वे भवन्ति

७.५.२.[७]

तदेतदन्नं सृष्ट्वा । पुरस्तात्प्रत्यगात्मन्नधत्त तस्माद्यः कश्चान्नं सृजते
पुरस्तादेवैनत्प्रत्यगात्मन्धत्ते तद्वा उखायामुदरं वा उखोदरे तदन्नं
दधाति

७.५.२.[८]

अथैषु हिरण्यशकलान्प्रत्यस्यति । प्राणो वै हिरण्यमथ वा एतेभ्यः पशुभ्यः
संज्ञप्यमानेभ्य एव प्राणा उत्कामन्ति तद्यद्धिरण्यशकलान्प्रत्यस्यति
प्राणानेवैष्वेतद्दधाति

७.५.२.[९]

सप्त प्रत्यस्यति । सप्त वै शीर्षन्प्राणास्तानस्मिन्नेतद्दधात्यथ यदि पञ्च
पशवः स्युः पञ्चैव कृत्वः सप्तसप्त प्रत्यस्येत्पञ्च वा एतान्पशूनुपदधाति
सप्तसप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधाति

७.५.२.[१०]

तद्धैकेऽपि । यद्येकः पशुर्भवति पञ्चैव कृत्वः सप्तसप्त प्रत्यस्यन्ति पञ्च
वा एतान्पशूनुपदधाति सप्तसप्त वा एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु
प्राणान्दध्म इति न तथा कुर्यादेतस्मिन्वै पशौ सर्वेषां पशूनां रूपं
तद्यदेतस्मिन्प्रत्यस्यति तदेवैषु सर्वेषु प्राणान्दधाति

७.५.२.[११]

मुखे प्रथमं प्रत्यस्यति । सम्यक्ष्रवन्ति सरितो न धेना इत्यन्नं वै
धेनास्तदिदं सम्यङ्मुखमभिसंस्रवत्यन्तर्हृदा मनसा पूयमाना इत्यन्तर्वै
हृदयेन मनसा सतान्नं पूतं य ऋजुस्तस्य घृतस्य धारा अभिचाकशीमीति या
एवैतस्मिन्नग्नावाहुतीर्होष्यन्भवति ता एतदाह हिरण्ययो वेतसो मध्ये अग्नेरिति
य एवैष हिरण्मयः पुरुषस्तमेतदाह

७.५.२.[१२]

ऋचे त्वेतीह । प्राणो वा ऋक्प्राणेन ह्यर्चति रुचे त्वेतीह प्राणो वै रुक्प्राणेन हि रोचते
ऽथो प्राणाय हीदं सर्वं रोचते भासे त्वेतीह ज्योतिषे त्वेतीह भास्वती हीमे
ज्योतिष्मती चक्षुषी अभूदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य
चेतीहाग्निर्ज्योतिषा ज्योतिष्मान्रुक्भो वर्चसा वर्चस्वानितीह विश्वावतीभ्यां विश्वं हि
श्रोत्रम्

७.५.२.[१३]

अथ पुरुषशीर्षमुद्गृह्णाति । महयत्येवैनदेतत्सहस्रदा असि सहस्राय त्वेति
सर्वं वै सहस्रं सर्वस्य दातासि सर्वस्मै त्वेत्येतत्

७.५.२.[१४]

अथैनानुपदधाति । पुरुषं प्रथमं पुरुषं तद्वीर्येणाप्त्वा दधाति मध्ये
पुरुषमभित इतरान्पशून्पुरुषं तत्पशूनां मध्यतोऽत्तारं दधाति
तस्मात्पुरुष एव पशूनां मध्यतोऽत्ता

७.५.२.[१५]

अश्वं चाविं चोत्तरत । एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू
भूयिष्ठौ

७.५.२.[१६]

गां चाजं च दक्षिणत । एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ
पशू भूयिष्ठौ

७.५.२.[१७]

पयसि पुरुषमुपदधाति । पशवो वै पयो यजमानं तत्पशुषु
प्रतिष्ठापयत्यादित्यं गर्भं पयसा समङ्ग्धीत्यादित्यो वा एष गर्भो
यत्पुरुषस्तं पयसा समङ्ग्धीत्येतत्सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै
सहस्रस्य प्रतिमा पुरुषस्य ह्येव सहस्रं भवति परिवृङ्ग्धि हरसा
माभिमंस्था इति पर्येनं वृङ्ग्ध्यर्चिषा मैनं हिंसीरित्येतच्छतायुषं कृणुहि
चीयमान इति पुरुषं तत्पशूनां शतायुं करोति तस्मात्पुरुष एव पशूनां शतायुः

७.५.२.[१८]

अथोत्तरतोऽश्वम् । वातस्य जूतिमिति वातस्य वा एष जूतिर्यदश्वो वरुणस्य नाभिमिति
वारुणो ह्यश्वोऽश्वं जज्ञानं सरिरस्य मध्य इत्यापो वै सरिरमप्सुजा उ वा अश्वः
शिशुं नदीनां हरिमद्रिबुध्नमिति गिरिर्वा अद्रिर्गिरिबुध्ना उ वा आपोऽग्ने मा हिंसीः
परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा हिंसीरित्येतत्

७.५.२.[१९]

अथ दक्षिणतो गाम् । अजस्रमिन्दुमरुषमिति सोमो वा इन्दुः स हैष सोमोऽजस्रो
यद्गौर्भुरण्युमिति भर्तारमित्येतदग्निमीडे पूर्वचित्तिं नमोभिरित्याग्नेयो वै
गौः पूर्वचित्तिमितिमिति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्ति स
पर्वभिर्ऋतुशः कल्पमान इति यद्वा एष चीयते तदेष पर्वभिर्ऋतुशः कल्पते गाम्
मा हिंसीरदितिं विराजमिति विराड्वै गौरन्नं वै विराडन्नमु गौः
७.५.२.[२०]

अथोत्तरतोऽविम् । वरूत्रीं त्वष्टुर्वरुणस्य नाभिमिति वारुणी च हि त्वाष्ट्री चाविरविं
जज्ञानां रजसः परस्मादिति श्रोत्रं वै परं रजो दिशो वै श्रोत्रं परं रजो
महीं साहस्रीमसुरस्य मायामिति महतीं साहस्रीमसुरस्य मायामित्येतदग्ने मा
हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा
हिंसीरित्येतत्

७.५.२.[२१]

अथ दक्षिणतोऽजम् । यो अग्निरग्नेरध्यजायतेत्यग्निर्वा एषोऽग्नेरध्यजायत
शोकात्पृथिव्या उ त वा दिवस्परीति यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै
च शोकादजायत येन प्रजा विश्वकर्मा जजानेति वाग्वा अजो वाचो वै प्रजा विश्वकर्मा
जजान तमग्ने हेडः परि ते वृणक्त्विति यथैव यजुस्तथा बन्धुः

७.५.२.[२२]

त एते पशवः । तान्नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना ह्येते
पशवः

७.५.२.[२३]

अथ पुरुषशीर्षमभिजुहोति । आहुतिर्वै यज्ञः पुरुषं तत्पशूनां यज्ञियं करोति
तस्मात्पुरुष एव पशूनां यजते

७.५.२.[२४]

यद्वेवैनदभिजुहोति । शीर्षंस्तद्वीर्यं दधात्याज्येन जुहोति वज्रो वा आज्यं वीर्यं
वै वज्रो वीर्यमेवास्मिन्नेतद्दधाति स्वाहाकारेण वृषा वै स्वाहाकारो वीर्यं वै
वृषा वीर्यमेवास्मिन्नेतद्दधाति प्रिष्टुभा वज्रो वै त्रिष्टुब्वीर्यं वै वज्रो
वीर्यं त्रिष्टुब्वीर्येणैवास्मिन्नेतद्वीर्यं दधाति

७.५.२.[२५]

स वा अर्धर्चमनुद्रुत्य स्वाहाकरोति । अस्थि वा ऋगिदं तचीर्षकपालं विहाप्य
यदिदमन्तरतः शीर्ष्णो वीर्यं तदस्मिन्दधाति

७.५.२.[२६]

अथोत्तरमर्धर्चमनुद्रुत्य स्वाहाकरोति । इदं तचीर्षकपालं संधाय
यदिदमुपरिष्टाचीर्ष्णो वीर्यं तदस्मिन्दधाति
७.५.२.[२७]

चित्रं देवानामुदगादनीकमिति । असौ वा आदित्य एष पुरुषस्तदेतच्चित्रं
देवानामुदेत्यनीकं चक्षुर्मित्रस्य वरुणस्याग्नेरित्युभयेषां
हैतद्देवमनुष्याणां चक्षुराप्रा द्यावापृथिवी अन्तरिक्षमित्युद्यन्वा एष
इमांलोकानापूरयति सूर्य आत्मा जगतस्तस्थुषश्चेत्येष ह्यस्य सर्वस्यात्मा यच्च
जगद्यच्च तिष्ठति

७.५.२.[२८]

अथोत्सर्गैरुपतिष्ठत । एतद्वै यत्रैतान्प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना
अशोचंस्तेषामेतैरुत्सर्गैः शुचम्
पाप्मानमपाहंस्तथैवैषामयमेतदेतैरुत्सर्गैः शुचं पाप्मानमपहन्ति

७.५.२.[२९]

तद्धैके । यंयमेव पशुमुपदधति । तस्यतस्य शुचमुत्सृजन्ति नेच्छुचम्
पाप्मानमभ्युपदधामहा इति ते ह ते शुचं पाप्मानमभ्युपदधति यां हि
पूर्वस्य शुचमुत्सृजन्ति तामुत्तरेण सहोपदधति

७.५.२.[३०]

विपरिक्राममु हैक उपतिष्ठन्ते । ऊर्ध्वां शुचमुत्सृजाम इति ते ह ते शुचम्
पाप्मानमनूद्यन्त्यूर्ध्वो ह्येतेन कर्मणैत्यूर्ध्वामु शुचमुत्सृजन्ति

७.५.२.[३१]

बाह्येनैवाग्निमुत्सृजेत् । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं
दधाति बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधात्युदङ्तिष्ठन्नेतस्यां
ह दिश्येते पशवस्तद्यत्रैते पशवस्तदेवैष्वेतच्छुचं दधाति

७.५.२.[३२]

पुरुषस्य प्रथममुत्सृजति । तं हि प्रथममुपदधातीमं मा
हिंसीर्द्विपादं पशुमिति द्विपाद्वा एष पशुर्यत्पुरुषस्तं मा
हिंसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलैर्वा एष सहस्राक्षो
मेधायेत्यन्नायेत्येतन्मयुं पशुं मेधमग्ने जुषस्वेति किम्पुरुषो वै
मयुः किम्पुरुषमग्ने जुषस्वेत्येतत्तेन चिन्वानस्तन्वो निषीदेत्यात्मा वै
तनूस्तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतन्मयुं ते शुगृच्छतु यं द्विष्मस्तं ते
शुगृच्छत्विति तन्मयौ च शुचं दधाति यं च द्वेष्टि तस्मिंश्च

७.५.२.[३३]
अथाश्वस्य । इमं मा हिंसीरेकशफं पशुमित्येकशफो वा एष पशुर्यदश्वस्तम्
मा हिंसीरित्येतत्कनिक्रदं वाजिनं वाजिनेष्विति कनिक्रदो वा एष वाज्यु वाजिनेषु
गौरमारण्यमनु ते दिशामीति तदस्मै गौरमारण्यमनुदिशति तेन
चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गौरं ते शुगृच्छतु
यं द्विषमस्तं ते शुगृच्छत्विति तद्गौरे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च

७.५.२.[३४]

अथ गोः । इमं साहस्रं शतधारमुत्ममिति साहस्रो वा एष शतधार उत्सो
यद्गौर्व्यच्यमानं सरिरस्य मध्य इतीमे वै लोकाः सरिरमुपजीव्यमानमेषु
लोकेष्वित्येतद्वृतं दुहानामदितिं जनायेति घृतं वा एषादितिर्जनाय दुहेऽग्ने मा
हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं मा
हिंसीरित्येतद्गवयमारण्यमनु ते दिशामीति तदस्मै गवयमारण्यमनुदिशति
तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतद्गवयं ते
शुगृच्छतु यं द्विषास्तं ते शुगृच्छत्विति तद्गवये च शुचं दधाति यं च द्वेष्टि
तस्मिंश्च

७.५.२.[३५]

अथावेः । इममूर्णायुमित्यूर्णावलिमित्येतद्वरुणस्य नाभिमिति वारुणो ह्यविस्त्वचम्
पशूनां द्विपदां चतुष्पदामित्युभयेषां हैष पशूनां त्वग्द्विपदां च
चतुष्पदां च त्वष्टुः प्रजानां प्रथमं जनित्रमित्येतद्ध त्वष्टा प्रथमं
रूपं विचकाराग्ने मा हिंसीः परमे व्योमन्नितीमे वै लोकाः परमं व्योमैषु
लोकेष्वेनं मा हिंसीरित्येतदुष्ट्रमारण्यमनु ते दिशामीति तदस्मा
उष्ट्रमारन्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं
संस्कुरष्वेत्येतदुष्ट्रं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तदुष्ट्रे च
शुचं दधाति यं च द्वेष्टि तस्मिंश्च

७.५.२.[३६]

अथाजस्य । अजो ह्यग्नेरजनिष्ट शो कादिति यद्वै प्रजापतेः शोकादजायत तदग्नेः
शोकादजायत सो अपश्यज्जनितारमग्र इति प्रजापतिर्वै जनिता सो पश्यत्प्रजापतिमग्र
इत्येतत्तेन देवा देवतामग्र आयन्निति वाग्वा अजो वाचो वै देवा
देवतामग्रमायंस्तेन रोहमायन्नुप मेध्यास इति स्वर्गो वै लोको रोहस्तेन
स्वर्गं लोकमायुन्नुप मेध्यास इत्येतच्छरभमारण्यमनु ते दिशामीति तदस्मै
शरभमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मानं
संस्कुरुष्वेत्येतच्छरभं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तच्छरभे च
शुचं दधाति यं च द्वेष्टि तस्मिंश्च

७.५.२.[३७]

तदाहुः । यां वै तत्प्रजापतिरेतेषां पशूनां शुचं पाप्मानमपाहंस्त एते पञ्च
पशवोऽभवंस्त एत उत्क्रान्तमेधा अमेध्या अयज्ञियास्तेषां ब्राह्मणो
नाश्नीयात्तानेतस्यां दिशि दधाति तस्मादेतस्यां दिशि पर्जन्यो न वर्षुको यत्रैते
भवन्ति
७.५.२.[३८]

प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतदयथायथं करोति यदग्नौ सामिचिते
बहिर्वेद्येति तस्मा एवैतन्निह्नुतेऽहिंसाया आग्नेय्याग्नय एवैतन्निह्नुते गायत्र्या
गायत्र्योऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मा एतन्निह्नुतेऽनिरुक्तया सर्वं
वा अनिरुक्तं सर्वेणैवास्मा एतन्निह्नुते यविष्टवत्यैतद्धास्य प्रियं धाम
यद्यविष्ठ इति यद्वै जात इदं सर्वमयुवत तस्माद्यविष्ठः

७.५.२.[३९]

त्वं यविष्ठ दाशुष इति । यजमानो वै दाश्वान्नृः पाहीति मनुष्या वै नरः
शृणुधी गिर इति शृणु न इमां स्तुतिमित्येतद्रक्षा तोकमुत त्मनेति प्रजा वै तोकं
रक्ष प्रजां चात्मानं चेत्येतत्

७.५.२.[४०]

आरुह्याग्निं जघनेन स्वयमातृणां परीत्यापस्या उपदधाति । आप एता यदपस्या
अथ वा एतेभ्यः पशुभ्य आप उत्क्रान्ता भवन्ति तद्यदपस्या
उपदधात्येष्वेवैतत्पशुष्वपो दधात्यनन्तर्हिताः पशुभ्य
उपदधात्यनन्तर्हितास्तत्पशुभ्योऽपो दधाति पञ्चपञ्चोपदधाति पञ्च ह्येते
पशवः सर्वत उपदधाति सर्वत एवैष्वेतदपो दधाति

७.५.२.[४१]

तद्याः पञ्चदश पूर्वाः । ता अपस्या वज्रो वा आपो वज्रः पञ्चदशस्तस्मांद्येनापो
यन्त्यपैव तत्र पाप्मानं घ्नन्ति वज्रो हैव तस्यार्धस्य पाप्मानमपहन्ति
तस्माद्वर्षत्यप्रावृतो व्रजेदयं मे वज्रः पाप्मानमपहनदिति

७.५.२.[४२]

अथ याः पञ्चोत्तराः । ताश्छन्दस्याः पशवो वै छन्दांस्यन्नं पशवोऽन्नमु
पशोर्मांसमथ वा एतेभ्यः पशुभ्यो मांसान्युत्क्रान्तानि भवन्ति तद्यच्चन्दस्या
उपदधात्येष्वेवैतत्पशुषु मांसानि दधात्यनन्तर्हिताः पशुभ्य
उपदधात्यनन्तर्हितानि तत्पशुभ्यो मांसानि दधात्यन्तरा अपस्या भवन्ति
बाह्याश्छन्दस्या अन्तरा ह्यापो बाह्यानि मांसानि

७.५.२.[४३]

तदाहुः । यदिमा आप एतानि मांसान्यथ क्व त्वक्व्व लोमेत्यन्नं वाव
पशोस्त्वगन्नं लोम तद्यच्चन्दस्या उपदधाति सैव पशोस्त्वक्तल्लोमाथो
यान्यमून्युखायामजलोमानि तानि लोमानि बाह्योखा भवत्यन्तराणि पशुशीर्षाणि
बाह्यानि हि लोमान्यन्तर आत्मा यदीतरेण यदीतरेणेति ह स्माह शाण्डिल्यः सर्वानेव
वयं कृत्स्नान्पशून्त्संस्कुर्म इति
७.५.२.[४४]

यद्वेवापस्या अपदधाति । प्रजापतेर्विस्रस्तादाप
आयंस्तास्वितास्वविशद्यदविशत्तस्माद्विंशतिस्ता अस्याङ्गुलिभ्योऽध्यस्रवन्नन्तो वा
अङ्गुलयोऽन्तत एवास्मात्ता आप आयन्

७.५.२.[४५]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ता आप
आयन्नेतास्ता अपस्यास्तद्यदेता उपदधाति या एवास्मात्ता आप आयंस्ता
अस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति

७.५.२.[४६]

अपां त्वेमन्त्सादयामीति । वायुर्वा अपामेम यदा ह्येवैष इतश्चेतश्च वात्यथापो
यन्ति वायौ तां सादयति

७.५.२.[४७]

अपां त्वोद्मन्त्सादयामीति । ओषधयो वा अपामोद्म यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति
तदोषधयो जायन्त ओषधिषु तां सादयति

७.५.२.[४८]

अपां त्वा भस्मन्त्सादयामीति । अभ्रं वा अपां भस्माभ्रे तां सादयति

७.५.२.[४९]

अपां त्वा ज्योतिषि सादयामीति । विद्युद्वा अपां ज्योतिर्विद्युति तां सादयति

७.५.२.[५०]

अपां त्वायने सादयामीति । इयं वा अपामयनमस्यां ह्यापो यन्त्यस्यां तां सादयति
तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो
एतान्येवास्मिन्नेतद्रूपाणि दधाति

७.५.२.[५१]

अर्णवे त्वा सदने सादयामीति । प्राणो वा अर्णवः प्राणे तां सादयति
७.५.२.[५२]

समुद्रे त्वा सदने सादयामीति । मनो वै समुद्रा मनसो वै समुद्राद्वाचाभ्र्या
देवास्त्रियीं विद्यां निरखनंस्तदेष श्लोकोऽभ्युक्तो ये
समुद्रान्निरखनन्देवास्तीक्ष्णाभिरभ्रिभिः सुदेवो अद्य तद्विद्याद्यत्र
निर्वपणं दधुरिति मनः समुद्रो वाक्तीक्ष्णाभ्रिस्त्रयी विद्या निर्वपणमेतदेष
श्लोकोऽभ्युक्तो मनसि तां सादयति

७.५.२.[५३]

सरिरे त्वा सदने सादयामीति । वाग्वै सरिरं वाचि तां सादयति

७.५.२.[५४]

अपां त्वा क्षये सादयामीति । चक्षुर्वा अपां क्षयस्तत्र हि सर्वदैवापः क्षियन्ति
चक्षुषि तां सादयति

७.५.२.[५५]

अपां त्वा सधिषि सादयामीति । ओत्रं वा अपां सधिः श्रोत्रे तां सादयति तद्या
अस्यैतेभ्यो रूपेभ्यो आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो
एतान्येवास्मिन्नेतद्रूपाणि दधाति

७.५.२.[५६]

अपां त्वा सदने सादयामीति । द्यौर्वा अपां सदनं दिवि ह्यापः सन्ना दिवि तां
सादयति

७.५.२.[५७]

अपां त्वा सधस्थे सादयामीति अन्तरिक्षं वा अपां सधस्थमन्तरिक्षे तां सादयति

७.५.२.[५८]

अपां त्वा योनौ सादयामीति । समुद्रो वा अपां योनिः समुद्रे तां सादयति

७.५.२.[५९]

अपां त्वा पुरीषे सादयामीति । सिकता वा अपां पुरीषं सिकतासु तां सादयति
७.५.२.[६०]

अपां त्वा पाथसि सादयामीति । अन्नं वा अपां पाथोऽन्ने तां सादयति तद्या
अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो
एतान्येवास्मिन्नेतद्रूपाणि दधाति

७.५.२.[६१]

गायत्रेण त्वा च्छन्दसा सादयामि । त्रैष्टुभेन त्वा च्छन्दसा सादयामि जागतेन त्वा
च्छन्दसा सादयाम्यानुष्टुभेन त्वा च्छन्दसा सादयामि पाङ्क्तेन त्वा च्छन्दमा
सादयामीति तद्या अस्यैतेभ्यश्छन्दोभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो
एतान्येवास्मिन्नेतच्चन्दांसि दधाति

७.५.२.[६२]

ता एता अङ्गुलयः । ताः । सर्वत उपदधाति सर्वतो हीमा अङ्गुलयो
ऽन्तेषूपदधात्यन्तेषु हीमा अङ्गुलयश्चतुर्धोपदधाति चतुर्धा हीमा अङ्गुलयः
पञ्चपञ्चोपदधाति पञ्चपञ्च हीमा अङ्गुलयो नानोपदधाति नाना हीमा
अङ्गुलयः सकृत्सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनाः

८.१.१.[१]

प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ताः
प्रथमायां चिता उपदधाति पूर्वार्ध एषोऽग्नेर्यत्प्रथमा चितिः
पुरस्तात्तत्प्राणान्दधाति तस्मादिमे पुरस्तात्प्राणाः

८.१.१.[२]

ता दशदशोपदधाति । दश वै प्राणा यदु वा अपि बहु कृत्वो दशदश दशैव
तृत्पञ्च कृत्वो दशदशोपदधाति पञ्च वा एतान्पशूनुपदधाति दशदश वा
एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधात्यनन्तर्हिताः पशुभ्य
उपदधात्यनन्तर्हितांस्तत्पशुभ्यः प्राणान्दधाति सर्वत उपदधाति सर्वत
एवैष्वेतत्प्राणान्दधाति

८.१.१.[३]

यद्वेव प्राणभृत उपदधाति । प्रजापतेर्विस्रस्तात्प्राणा उदक्रामन्देवता भूत्वा
तानब्रवीदुप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति स वै
तदन्नं सृजस्व यत्ते वयं पश्यन्त उपवसामेति ते वा उभये सृजामहा इति तथेति
ते प्राणाश्च प्रजापतिश्चैतदन्नमसृजन्तैताः प्राणभृतः

८.१.१.[४]

स पुरस्तादुपदधाति । अयं पुरो भुव इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति
प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवो
ऽग्नेर्हीदं सर्वं भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव
तद्रूपमुपदधाति

८.१.१.[५]

तस्य प्राणो भौवायन इति । प्राणं तस्माद्रूपादग्नेर्निरमिमीत वसन्तः प्राणायन
इति वसन्तमृतुं प्राणान्निरमिमीत गायत्री वासन्तीति गायत्रीं च्छन्दो
वसन्तादृतोर्निरमिमीत गायत्र्यै गायत्रमिति गायत्र्यै च्छन्दसो गायत्रं साम
निरमिमीत गायत्रादुपांशुरिति गायत्रात्साम्न उपांशुं ग्रहं
निरमिमीतोपांशोस्त्रिवृदित्युपांशोर्ग्रहात्त्रिवृतं स्तोमं निरमिमीत त्रिवृतो
रथन्तरमिति त्रिवृत स्तोमाद्रथन्तरं पृष्ठं निरमिमीत
८.१.१.[६]

वसिष्ठ ऋषिरिति । प्राणो वै वसिष्ठ ऋषिर्यद्वै नु श्रेष्ठस्तेन वसिष्ठोऽथो
यद्वस्तृतमो वसति तेनो एव वसिष्ठः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतत्प्राणं गृह्णामि प्रजाभ्य इति प्राणं पुरस्तात्प्रापादयत नानोपदधाति
ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोत्यथ यन्नाना
सादयेत्प्राणं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका यजुः सादनं
सूददोहास्तत्त्रिवृत्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तत्कृत्वोपदधाति

८.१.१.[७]

अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम्
पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव
भूयिष्ठं वाति मनो ह वायुर्भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति

८.१.१.[८]

तस्य मनो वैश्वकर्मणमिति । मनस्तस्माद्रूपाद्वायोर्निरमिमीत ग्रीष्मो मानस
इति ग्रीष्ममृतुं मनसो निरमिमीत त्रिष्टुब्ग्रैष्मीति त्रिष्टुभं च्छन्दो
ग्रीष्मादृतोर्निरमिमीत त्रिष्टुभः स्वारमिति त्रिष्टुभश्छन्दसः स्वारं साम
निरमिमीत स्वारादन्तर्याम इति स्वारात्साम्नोऽन्तर्यामं ग्रहं
निरमिमीतान्तर्यामात्पञ्चदश इत्यन्तर्यामाद्ग्रहात्पञ्चदशं स्तोमं निरमिमीत
पञ्चदशाद्बृहदिति पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निरमिमीत

८.१.१.[९]

भरद्वाज ऋषिरिति । मनो वै भरद्वाज ऋषिरन्नं वाजो यो वै मनो बिभर्ति सो
ऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वयेति
प्रजापतिसृष्टया त्वयेत्येतन्मनो गृह्णामि प्रजाभ्य इति मनो दक्षिणतः
प्रापादयत नानोपदधाति ये नानाकामा मनसि तांस्तद्दधाति सकृत्सादयत्येकं
तन्मनः करोत्यथ यन्नाना सादयेन्मनो ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो
बन्धुः

८.१.२.[१]

अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष
उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम्
प्रत्यञ्चमेव यन्तं पश्यन्ति चक्षुर्हादित्यो भूत्वा पश्चात्तस्थौ तदेव
तद्रूपमुपदधाति

८.१.२.[२]

तस्य चक्षुर्वैश्वव्यचसमिति । चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत
वर्षाश्चाक्षुष्य इति वर्षा ऋतुं चक्षुषो निरमिमीत जगती वार्षीति जगतीं च्छन्दो
वर्षाभ्य ऋतोर्निरमिमीत जगत्या ऋक्सममिति जगत्यै च्छन्दस ऋक्समं साम
निरमिमीतऽर्क्समाच्छुक्र इत्यृक्षमात्साम्नः शुक्रं ग्रहं निरमिमीत
शुक्रात्सप्तदश इति शुक्राद्ग्रहात्सप्तदशं स्तोमं निरमिमीत
सप्तदशाद्वैरूपमिति सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमिमीत

८.१.२.[३]

जमदग्निर्ऋषिरिति । चक्षुर्वै जमदग्निर्ऋषिर्यदेनेन जगत्पश्यत्यथो मनुते
तस्माच्चक्षुर्जमदग्निर्ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतच्चक्षुर्गृह्णामि प्रजाभ्य इति चक्षुः पश्चात्प्रापादयत नानोपदधाति ये
नानाकामाश्चक्षुषि तांस्तद्दधाति सकृत्सादयत्येकं तच्चक्षुः करोत्यथ यन्नाना
सादयेच्चक्षुर्ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः

८.१.२.[४]

अथोत्तरतः । इदमुत्तरात्स्वरिति दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा
ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह स्वर्गो हि लोको दिशः श्रोत्रं ह दिशो
भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति

८.१.२.[५]

तस्य श्रोत्रं सौवमिति । श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत शरच्रौत्रीति
शरदमृतुं श्रोत्रान्निरमिमीतानुष्टुप्शारदीत्यनुष्टुभं छन्दः शरद
ऋतोर्निरमिमीतानुष्टुभ ऐडमित्यनुष्टुभश्छन्दस ऐडं साम
निरमिमीतैडान्मन्थीत्यैडात्साम्नो मन्थिनं ग्रहं निरमिमीत मन्थिन
एकविंश इति मन्थिनो ग्रहादेकविंशं स्तोमं
निरमिमीतैकविंशाद्वैराजमित्येकविंशात्स्तोमाद्वैराजं पृष्ठं निरमिमीत

८.१.२.[६]

विश्वामित्र ऋषिरिति । श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै
सर्वतो मित्रं भवति तस्माच्रोत्रं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वयेति
प्रजापतिसृष्टया त्वयेत्येतच्रोत्रं गृह्णामि प्रजाभ्य इति श्रोत्रमुत्तरतः
प्रापादयत नानोपदधाति ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं
तच्रोत्रं करोत्यथ यन्नाना सादयेच्रोत्रं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो
बन्धुः

८.१.२.[७]

अथ मध्ये । इयमुपरि मतिरिति चन्द्रमा वा उपरि तद्यत्तमाहोपरोत्युपरि हि
चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदं सर्वं मनुते वाग्घ
चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति
८.१.२.[८]

तस्यै वाङ्नात्येति । वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत हेमन्तो वाच्य इति
हेमन्तमृतुं वाचो निरमिमीत पङ्क्तिर्हैमन्तीति पङ्क्तिं च्छन्दो
हेमन्तादृतोर्निरमिमीत पङ्क्त्यै निधनवदिति पङ्क्त्यै च्छन्दसो निधनवत्साम
निरमिमीत निधनवत आग्रयण इति निधनवतः साम्न आग्रयणं ग्रहं
निरमिमीताग्रयणात्त्रिणवत्रयस्त्रिंशावित्याग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिंशौ स्तोमौ
निरमिमीत त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते इति त्रिणवत्रयस्त्रिंशाभ्यां
स्तोमाभ्यां शाक्वररैवते पृष्ठे निरमिमीत

८.१.२.[९]

विश्वकर्म ऋषिरिति । वाग्वै विश्वकर्मऽर्षिर्वाचा हीदं सर्वं कृतं
तस्माद्वाग्विश्वकर्मऽर्षिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतद्वाचं गृह्णामि प्रजाभ्य इति वाचमुपरिष्टात्प्रापादयत नानोपदधाति ये
नानाकामा वाचि तांस्तद्दधाति सकृत्सादयत्येकां तद्वाचं करोत्यथ यन्नाना
सादयेद्वाचं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः

८.१.२.[१०]

एतद्वै तदन्नम् । यत्तत्प्राणाश्च प्रजापतिश्चासृजन्तैतावान्वै सर्वो यज्ञो यज्ञ उ
देवानामन्नम्

८.१.२.[११]

ता दशद्शोपदधाति । दशाक्षरा विराड्विराडु कृत्स्नमन्नं
सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत
एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ता हैता विराज एतान्प्राणान्बिभ्रति
यत्प्राणान्बिभ्रति तस्मात्प्राणभृतः

८.१.३.[१]

तदाहुः । किं प्राणाः किं प्राणभृत इति प्राणा एव प्राणा अङ्गानि प्राणभृन्त्यङ्गानि
हि
प्राणान्बिभ्रति प्राणास्त्वेव प्राणा अन्नं प्राणभृदन्नं हि प्राणान्बिभर्ति

८.१.३.[२]

तदाहुः । कथमस्यैताः सर्वाः प्राजापत्या भवन्तीति यदेव सर्वास्वाह
प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति

८.१.३.[३]

तदाहुः । यद्ग्रहाय गृहीताय स्तुवतेऽथ शंसत्यथ
कस्मात्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधातीति संस्था वै कर्मणो
ऽन्वीक्षितव्यऽर्चा वै प्रतिपदा ग्रहो गृह्यत ऋचि साम गीयते
तदस्यैतद्यत्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधात्यथ
यदुपरिष्टाद्ग्रहाणां स्तुतशस्त्रे भवतस्तद्वस्यैतद्यदुपरिष्टाद्ग्रहाणां
स्तोमांश्च पृष्ठानि चोपदधाति

८.१.३.[४]

तदाहुः । यदेतत्त्रयं सह क्रियते ग्रह स्तोत्रं शस्त्रमथात्र ग्रहं चैव
स्तोत्रं चोपदधाति कथमस्यात्रापि शस्रमुपहितं यद्वाव स्तोत्रं तच्छस्त्रं यासु
ह्येव स्तुवते ता उ एवानुशंसत्येवमु हास्यात्रापि शस्त्रमुपहितं भवति

८.१.३.[५]

तदाहुः । यद्यथा पितुः पुत्रमेवं त्रीणि प्रथमान्याहाथ कस्मादृक्षामयोः
संक्रामतीति साम वा ऋचः पतिस्तद्यत्तत्रापि यथा पितुः पुत्रमेवं ब्रूयाद्यथा
पतिं सन्तं पुत्रं ब्रूयात्तादृक्तत्तस्मादृक्षामयोः संक्रामति कस्मादु त्रिः
संतनोतीति पितरं पुत्रं पौत्रं तांस्तत्संतनोति तस्मादु तेभ्य एक एव ददाति

८.१.३.[६]

तद्याः पुरस्तादुपदधाति । ताः प्राणभृतोऽथ याः पश्चात्ताश्चक्षुर्भृतस्ता
अपानभृतोऽथ या दक्षिणतस्ता मनोभृतस्ता उ व्यानभृतोऽथ या उत्तरतस्ताः
श्रोत्रभृतस्ता उदानभृतोऽथ या मध्ये ता वाग्भृतस्ता उ समानभृतः

८.१.३.[७]

तदु ह चरकाध्वर्यवः । अन्या एवापानभृतो व्यानभृत उदानभृतः
समानभृतश्चक्षुर्भृतो मनोभृतः श्रोत्रभृतो वाग्भृत इत्युपदधति न तथा
कुर्यादत्यहैव रोचयन्त्यत्रो एवैतानि सर्वाणि रूपाण्युपधीयन्ते

८.१.३.[८]

स वै पुरस्तादुपधाय पश्चादुपदधाति । प्राणो हापानो भूत्वाङ्गुल्यग्रेभ्य इति
संचरत्यपान उ ह प्राणो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यत्पुरस्तादुपधाय
पश्चादुपदधात्येनावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ
संहितौ

८.१.३.[९]

अथ दक्षिणत उपधायोत्तरत उपदधाति । व्यानो होदानो भूत्वाङ्गुल्यग्रेभ्य इति
संचरत्युदान उ ह व्यानो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यद्दक्षिणत
उपधायोत्तरत उपदधात्येतावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ
संततौ संहितौ

८.१.३.[१०]

अथ या मध्य उपदधाति । स प्राणस्ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्प्राणं दधाति सर्वत
उपदधाति सर्वत एवास्मिन्नेतत्प्राणं दधात्यथो एवं हैष गुदः प्राणः
समन्तं नाभिं पर्यक्नो नूचीश्च तिरश्चीश्चोपदधाति तस्मादिमेऽन्वञ्चश्च
तिर्यञ्चश्चात्मन्प्राणाः संस्पृष्टा उपदधाति प्राणानेवैतत्संतनोति संदधाति
तस्मादिमे प्राणाः संतताः संहिताः

८.१.४.[१]

ता हैके पुरुषमुपार्प्योपदधति । एष वै प्राणस्तमेता बिभ्रति यत्प्राणम्
बिभ्रति तस्मात्प्राणभृत इति न तथा कुर्यादेषोऽहैव प्राणो य एष हिरण्मयः
पुरुषस्तस्य त्वयमात्मा यावदिदमभ्ययमग्निर्विहितस्तद्यद्धास्यैता अङ्ग
नाभिप्राप्नुयुः प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं
नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनाः
परिश्रित्स्वेवोपार्प्योपदध्यादथ या मध्य उपदधाति ताभिरस्यैष आत्मा
पूर्णस्ता उ एवैतस्मादनन्तर्हिताः

८.१.४.[२]

तदाहुः । यदयं पुरो भुवोऽयं दक्षिणा विश्वकर्मायं पश्चाद्विश्वव्यचा
इदमुत्तरात्स्वरियमुपरि मतिरिति सम्प्रति दिशोऽभ्यनूच्यन्तेऽथ कस्मादेना
अक्ष्णयादेशेषूपदधातीति प्राणा वै प्राणभृतस्ता यत्सम्प्रति दिश
उपदध्यात्प्रागपं हैवायं प्राणः संचरेदथ यदेना एवमभ्यनूक्ताः
सतीरक्ष्णयादेशेषूपदधाति तस्मादयं प्रागपं प्राणः सन्नक्ष्णया
सर्वाण्यङ्गानि सर्वमात्मानमनुसंचरति

८.१.४.[३]

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः
पुरस्तादुपदधाति तौ बाहू अथ याः पश्चात्ते सक्थ्यावथ या मध्य उपदधाति
स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो
मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्मा

८.१.४.[४]

तदाहुः । यत्पूर्वेषु गणेष्वेकैकं स्तोममेकैकं पृष्ठमुपदधात्यथ
कस्मादत्र द्वौ स्तोमौ द्वे पृष्ठे उपदधातीत्यात्मा वा अस्यैष आत्मानं
तदङ्गानां ज्येष्ठं वरिष्ठं वीर्यवत्तमं करोति तस्मादयमात्माङ्गानां
ज्येष्ठो वरिष्ठो वीर्यवत्तमः
८.१.४.[५]

तदाहुः । कथमस्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति
मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्षूददोहा लोम पुरीषस्य यजुरन्नम्
पुरीषमेवमु हास्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति

८.१.४.[६]

स एष सार्वायुषोऽग्निः । स यो हैतमेवं सार्वायुषमग्निं वेद सर्वं हैवायुरेति

८.१.४.[७]

अथातः समञ्चनप्रसारणस्यैव । संचितं हैके
समञ्चनप्रसारणेनेत्यभिमृशन्ति पशुरेष यदग्निर्यदा वै पशुरङ्गानि सं
चाञ्चति प्र च सारयत्यथ स तैर्वीर्यं करोति

८.१.४.[८]

संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि उषसस्ते
कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते
कल्पन्तां संवत्सरस्ते कल्पतां प्रेत्या एत्यै सं चाञ्च प्र च सारय सुपर्णाचिदसि
तया देवतयाङ्गिरस्वद्ध्रुवः सीदेति

८.१.४.[९]

अपि ह स्माह शाट्यायनिः । स्फोटतोर्हैकः पक्षयोरुपशुश्रावैतेनाभिमृष्टस्य
तस्मादेनमेतेनाभ्येव मृशेदिति

८.१.४.[१०]

अथ ह स्माह स्वर्हिन्नाग्नजितः । नग्नजिद्वा गान्धारः प्राणो वै
समञ्चनप्रसारणं यस्मिन्वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति
संचितमेवैनं बहिष्टादभ्यन्यात्तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति
तथा सं चाञ्चति प्र च सारयतीति तदहैव समञ्चनप्रसारणं यत्स तदुवाच
राजन्यबन्धुरिव त्वेव तदुवाच यन्नु शतं कृत्वोऽथो सहस्रम्
बहिष्टादभ्यन्युर्न वै तस्मिंस्ते प्राणं दध्युर्यो वा आत्मन्प्राणः स एव
प्राणस्तद्यत्प्राणभृत उपदधाति तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति
तथा सं चाञ्चति प्र च सारयत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि
बन्धुः पुरीषं निवपति तस्योपरि बन्धुः

८.२.१.[१]

द्वितीयां चितिमुपदधाति । एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन्नयं वै
लोकः प्रथमा चितिरिममेव तल्लोकं संस्कृत्य समारोहन्

८.२.१.[२]

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना एतां द्वितीयां चितिमपश्यन्यदूर्ध्वं पृथिव्या
अर्वाचीनमन्तरिक्षात्तेषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत्

८.२.१.[३]

तेऽश्विनावब्रुवन् । युवं वै ब्रह्माणौ भिषजौ स्थो युवं न इमां द्वितीयां
चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नोऽस्या अग्निचित्याया अध्वर्यू
भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां
तस्मादाहुरश्विनावेव देवानामध्वर्यू इति

८.२.१.[४]

स उपदधाति । ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति यद्वै स्थिरं यत्प्रतिष्ठितं
तद्ध्रुवमथ वा एषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव
मनस्यासीत्तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्तां ध्रुवं योनिमासीद
साधुयेति स्थिरं योनिमासीद साधुयेत्येतदुख्यस्य केतुं प्रथमं जुषाणेत्ययं
वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तं
जुषाणेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्

८.२.१.[५]

कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वै द्वितीया चितिः स्योने सीद सदने
पृथिव्या इति पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदन इत्येतदभि त्वा
रुद्रा वसवो गृणन्त्वित्येतास्त्वां देवता अभिगृणन्त्वित्येतदिमा ब्रह्म पीपिहि
सौभगायेतीमा ब्रह्माव सौभगायेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ
ह्यध्वर्यू उपाधत्ताम्

८.२.१.[६]

स्वैर्दक्षैर्दक्षपितेह सीदेति । स्वेन वीर्येणेह सीदेत्येतद्देवानां सन्ने बृहते
रणायेति देवानां सुम्नाय महते रणायेत्येतत्पितेवैधि सूनव आ सुशेवेति यथा पिता
पुत्राय स्योनः सुशेव एवं सुशेवैधीत्येतत्स्वावेशा तन्वा संविशास्वेत्यात्मा वै तनूः
स्वावेशेनात्मना संविशस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ
ह्यध्वर्यू उपाधत्ताम्

८.२.१.[७]

पृथिव्याः पुरीषमसीति । पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव
यद्द्वितीयाप्सो नामेति रसो नामेत्येतत्तां त्वा विश्वे अभिगृणन्तु देवा इति तां त्वा सर्वे
ऽभिगृणन्तु देवा इत्येतत्स्तोमपृष्ठा घृतवतीह सीदेति यान्त्स्तोमानस्यां तंस्यमानो
भवति तैरेषा स्तोमपृष्ठा प्रजावदस्मे द्रविणायजस्वेति प्रजावदस्मे
द्रविणमायजस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू
उपाधत्ताम्

८.२.१.[८]

ता एता दिशः । ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तद्दिशो दधाति
तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः
सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता
नानोपदधाति नाना सादयति नाना सूददोहसाऽधिवदति नाना हि दिशः

८.२.१.[९]

अथ पञ्चमीं दिश्यामुपदधाति । ऊर्ध्वा ह सा दिक्षा या सोर्ध्वा दिगसौ स आदित्यो
ऽमुमेवैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं
तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषोऽन्तरेण दक्षिणां दिशमेति

८.२.१.[१०]

अदित्यास्त्वा पृष्ठे सादयामीति । इयं वा अदितिरस्यामेवैनमेतत्प्रतिष्ठायाम्
प्रतिष्ठापयत्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीम्
भुवनानामित्यन्तरिक्षस्य ह्येष धर्ता विष्टम्भनो
दिशामधिपतिर्भुवनानामूर्मिर्द्रप्सो अपामसीति रसो वा ऊर्मिर्विश्वकर्मा त ऋषिरिति
प्रजापतिर्वै विश्वकर्मा प्रजापतिसृष्टासीत्येतदश्विनाध्वर्यू सादयतामिह
त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम्

८.२.१.[११]

यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम्

८.२.१.[१२]

तावब्रवीत् । उप मेतं प्रति म एतद्धत्तं येन मे युवमुद !क्रमिष्टमिति किं
नौ ततो भविष्यतीति युवद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम्

८.२.१.[१३]

तद्या एताः पञ्चाश्विन्यः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति

८.२.१.[१४]

ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति । यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ
वा अस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत्तदेवैतत्स्थिरं ध्रुवं कृत्वा
प्रत्यधत्ताम्

८.२.१.[१५]

कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वा अस्यैतदात्मनः
स्वैर्दक्षैर्दक्षपितेह सीदेत्यदक्षयतामेवास्यैतदात्मनः पृथिव्याः
पुरीषमसीति पुरीषसंहितमिव वा अस्यैतदात्मनो रेतःसिचोर्वेलया पृष्टयो वै
रेतःसिचौ पृष्टिसाच्छयमिव वा अस्यैतदात्मनः सर्वत उपदधाति सर्वतो
ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम्

८.२.१.[१६]

अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति शुक्रश्च शुचिश्च
ग्रैष्मावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके
भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति

८.२.१.[१७]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य
यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तदस्यैषा द्वितीयां चितिस्तद्वस्य ग्रीष्म
ऋतुस्तद्यदेते अत्रोपदधाति

८.२.१.[१८]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्यैषा द्वितीया चितिस्तद्वस्य ग्रीष्म
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति

८.२.२.[१]

अथ वैश्वदेवीरुपदधाति । एषा वै सा द्वीतीया चितिर्यामेभ्यस्तदश्विना उपाधत्तां
तामुपधायेदं सर्वमभवतां यदिदं किं च

८.२.२.[२]
ते देवा अब्रुवन् । अश्विनौ वा इदं सर्वमभूतामुप तज्जानीत यथा
व्यमिहाप्यसामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत
यथा वयमिहाप्यसामेति ते चेतयमाना एता इष्टका अपश्यन्वैश्वदेवीः

८.२.२.[३]

तेऽब्रुवन् । अश्विनौ वा इदं
सर्वमभूतामश्विभ्यामेवाश्विनोश्चितिमनूपदधामहा इति ते
ऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत तस्मादेतामाश्विनी चितिरित्याचक्षते
तस्माद्यथैव पूर्वासामुदर्क एवमेतासामिश्विभ्यां ह्येवाश्विनोश्चितिमनूपादधत
८.२.२.[४]

यद्वेव वैश्वदेवीरुपदधाति । ये वै ते विश्वे देवा एतां द्वितीयां चितिमपश्यन्ये त
एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति ता एताः सर्वाः प्रजास्ता
रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तत्प्रजा दधाति तस्मादनयोः
प्रजाः सर्वत उपदधाति सर्वतस्तत्प्रजा दधाति तस्मात्सर्वतः प्रजा दिश्या
अनूपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः

८.२.२.[५]

यद्वेव वैश्वदेवीरुपदधाति । प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत
उदक्रामन्नेतस्या अधि योनेस्ता एनमेतस्मिन्नात्मनः प्रतिहिते प्रापद्यन्त

८.२.२.[६]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ताः प्रजा
मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकास्तद्यदेता उपदधाति या एवास्मात्ताः
प्रजा मध्यत उदक्रामंस्ता अस्मिन्नेतत्प्रपादयति रेतःसिचोर्वेलया पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत
उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति

८.२.२.[७]

यद्वेव वैश्वदेवीरुपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते
ऽकामयत प्रजाः सृजेय प्रजायेयेति स ऋतुभिरद्भिः प्राणैः संवत्सरेणाश्विभ्यां
सयुग्भूत्वैताः प्रजाः प्राजनयत्तथैवैतद्यजमान एताभिर्देवताभिः
सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वास्वेव सजूःसजूरित्यनुवर्तते

८.२.२.[८]

सजूर्ऋतुभिरिति । तदृतून्प्राजनयदृतुभिर्वै सयुग्भूत्वा
प्राजनयत्सजूर्विधाभिरित्यापो वै विधा अद्भिर्हीदं सर्वं विहितमद्भिर्वै
सयुग्भूत्वा प्राजनयत्सजूर्देवैरिति तद्देवान्प्राजनयद्यद्देवा इत्याचक्षते
सजूर्देवैर्वयोनाधैरिति प्राणा वै देवा वयोनाधाः प्राणैर्हीदं सर्वं वयुनं
नद्धमथो छन्दांसि वै देवा वयोनाधाश्छन्दोभिर्हीदं सर्वं वयुनं
नद्धं प्राणैर्वै सयुग्भूत्वा प्राजनयदग्नये त्वा वैश्वानरायेति संवत्सरो वा
अग्निर्वैश्वानरः संवत्सरेण वै सयुग्भूत्वा प्राजनयदश्विनाध्वर्यू सादयतामिह
त्वेत्यश्विभ्यां वै सयुग्भूत्वा प्राजनयत्

८.२.२.[९]

सजूर्वसुभिरिति दक्षिणतः । तद्वसून्प्राजनयत्सजू रुद्रैरिति
पश्चात्तद्रुद्रान्प्राजनयत्सजूरादित्यैरित्युत्तरतस्तदादित्यान्प्राजनयत्सजूर्विश्वैर्देव
इरित्युपरिष्टात्तद्विश्वान्देवान्प्राजनयत्ता वै समानप्रभृतयः समानोदर्का नाना
मध्यतस्ता यत्समानप्रभृतयः समानीभिर्हि देवताभिः पुरस्ताच्चोपरिष्टाच्च
सयुग्भूत्वा प्राजनयदथ यन्नाना मध्यतोऽन्याअन्या हि प्रजा मध्यतः
प्राजनयत्

८.२.३.[१]

अथ प्राणभृत उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना वायुमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति

८.२.३.[२]

प्राणभृत उपदधाति । प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति
रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वायुं दधाति तस्मादनयोर्वायुः सर्वत
उपदधाति सर्वतस्तद्वायुं दधाति तस्मात्सर्वतो वायुः सर्वतः समीचीः
सर्वतस्तत्सम्यञ्चं वायुं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो
वाति दिश्या अनूपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः

८.२.३.[३]

यद्वेव प्राणभृत उपदधाति । आस्वेवैतत्प्रजासु प्राणान्दधाति ता अनन्तर्हिता
वैश्वदेवीभ्य उपदधात्यनन्तर्हितांस्तत्प्रजाभ्यः प्राणान्दधाति प्राणं मे
पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्म उर्व्या बिभाहि श्रोत्रं मे
श्लोकयेत्येतानेवास्वेतत्कॢप्तान्प्राणान्दधाति

८.२.३.[४]

अथापस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना वृष्टिमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति

८.२.३.[५]

अपस्या उपदधाति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै
रेतःसिचावनयोस्तद्वृष्टिं दधाति तस्मादनयोर्वर्षति सर्वत उपदधाति
सर्वतस्तद्वृष्टिं दधाति तस्मात्सर्वतो वर्षति सर्वतः समीचीः सर्वतस्तमीचीं
वृष्टिं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वर्षति वायव्या
अनूपदधाति वायौ तद्वृष्टिं दधाति तस्माद्यां दिशं वायुरेति तां दिशं
वृष्टिरन्वेति

८.२.३.[६]

यद्वेवापस्या उपदधाति । एष्वेवैतत्प्राणेष्वपो दधाति ता अन्तर्हिताः प्राणभृद्भ्य
उपदधात्यनन्तर्हितास्तत्प्राणेभ्योऽपो दधात्यथो अन्नं वा आपोऽनन्तर्हितं
तत्प्राणेभ्योऽन्नं दधात्यपः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात्पाहि दिवो
वृष्टिमेरयेत्येता एवैष्वेतत्कॢप्ता अपो दधाति

८.२.३.[७]

अथ च्छन्दस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमानाः पशूनेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति

८.२.३.[८]

च्छन्दस्या उपदधाति । पशवो वै छन्दांसि पशूनेवास्मिन्नेतद्दधाति सर्वत
उपदधाति सर्वतस्तत्पशून्दधाति तस्मात्सर्वतः पशवोऽपस्या अनूपदधात्यप्सु
तत्पशून्प्रतिष्ठापयति तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्ति

८.२.३.[९]

यद्वेव च्छन्दस्या उपदधाति । प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्चन्दांसि भूत्वा
तान्गायत्री च्छन्दो भूत्वा वयसाप्नोत्तद्यद्गायत्र्याप्नोदेतद्धि च्छन्द आशिष्ठं सा
तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत्

८.२.३.[१०]

मूर्धा वय इति । प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति
प्रजापतिरेव च्छन्दोऽभवत्

८.२.३.[११]

क्षत्रं वय इति । प्रजापतिर्वै क्षत्रं स वयोऽभवन्मयंदं च्छन्द इति यद्वा
अनिरुक्तं तन्मयंदमनिरुक्तो वै प्रजापतिः प्रजापतिरेव च्छन्दोऽभवत्
८.२.३.[१२]

विष्टम्भो वय इति । प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति
प्रजापतिर्वा अधिपतिः प्रजापतिरेव च्छन्दोऽभवत्

८.२.३.[१३]

विश्वकर्मा वय इति । प्रजापरिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी च्छन्द
इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव
परमेष्ठी च्छन्दोऽभवत्

८.२.३.[१४]

तानि वा एतानि । चत्वारि वयांसि चत्वारि छन्दांसि तदष्टावष्टाक्षरा गायत्र्येषा वै सा
गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत्तस्माज्जीर्णं पशुं वयसाप्त
इत्याचक्षते तस्मादु सर्वास्वेव वयो वय इत्यमुवर्ततेऽथ येऽस्मात्ते पशव
उदक्रामन्नेते ते पञ्चदशोत्तरे वज्रो वै पशवो वज्रः पञ्चदशस्तस्माद्यस्य
पशवो भवन्त्यपैव स पाप्मानं हते वज्रो हैव तस्य पाप्मानमपहन्ति
तस्माद्यां कां च दिशं पशुमानेति वज्रविहितां हैव तामन्वेति

८.२.४.[१]

बस्तो वय इति बस्तं वयसाप्नोद्विवलं च्छन्द इत्येकपदा वै विवलं च्छन्द एकपदा
ह भूत्वाजा उच्चक्रमुः

८.२.४.[२]

वृष्णिर्वय इति । वृष्णिं वयसाप्नोद्विशालं च्छन्द इति द्विपदा वै विशालं च्छन्दो द्विपदा
ह भूत्वावय उच्चक्रमुः

८.२.४.[३]

पुरुषो वय इति । पुरुषं वयसाप्नोत्तन्द्रं च्छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः
पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः

८.२.४.[४]

व्याघ्रो वय इति । व्याघ्रं वयसाप्नोदनाधृष्टं च्छन्द इति विराड्वा अनाधृष्टं
च्छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराडृ भूत्वा व्याघ्रा उच्चक्रमुः
८.२.४.[५]

सिंहो वय इति । सिंहं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि
छन्दांसि च्छादयत्यतिच्छन्दा ह भूत्वा सिंहा उच्चक्रमुरथातो निरुक्तानेव
पशून्निरुक्तानि छन्दांस्युपदधाति

८.२.४.[६]

पष्ठवाड्वय इति । पष्ठवाहं वयसाप्नोद्बृहती च्छन्द इति बृहती ह भूत्वा
पष्ठवाह उच्चक्रमुः

८.२.४.[७]

उक्षा वय इति । उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भ भूत्वोक्षाण
उच्चक्रमुः

८.२.४.[८]

ऋषभो वय इति । ऋषभं वयसाप्नोत्सतोबृहती च्छन्द इति सतोबृहती ह भूत्व
ऽर्षभा उच्चक्रमुः

८.२.४.[९]

अनड्वान्वय इति । अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह
उच्चक्रमुः

८.२.४.[१०]

धेनुर्वय इति । धेनुं वयसाप्नोज्जगती च्छन्द इति जगती ह भूत्वा धेनव
उच्चक्रमुः

८.२.४.[११]

त्र्यविर्वय इति । त्र्यविं वयसाप्नोत्त्रिष्टुप्छन्द इति त्रिष्टुब्भ भूत्वा त्र्यवय
उच्चक्रमुः

८.२.४.[१२]

दिव्यवाड्वय इति । दित्यवाहं वयसाप्नोद्विराट्चन्द इति विराड भूत्वा दित्यवाह
उच्चक्रमुः
८.२.४.[१३]

पञ्चाविर्वय इति । पञ्चाविं वयसाप्नोद्गायत्री च्छन्द इति गायत्री ह भूत्वा पञ्चावय
उच्चक्रमुः

८.२.४.[१४]

त्रिवत्सो वय इति । त्रिवत्सं वयसाप्नोदुष्णिक्चन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा
उच्चक्रमुः

८.२.४.[१५]

तुर्यवाड्वय इति । तुर्यवाहं वयसाप्तोदनुष्टुप्छन्द इत्यनुष्टुब्भ भूत्वा
तुर्यवाह उच्चक्रमुः

८.२.४.[१६]

एते वै ते पशवः । यांस्तत्प्रजापतिर्वयसाप्नोत्स वै पशुं प्रथममाहाथ वयो
ऽथ च्छन्दो वयसा च ह्येनांश्छन्दसा च परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनानयमेतद्वयसा चैव च्छन्दसा च परिगत्यात्मन्धत्त आत्मन्कुरुते

८.२.४.[१७]

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः
पुरस्तादुपदधाति शिरोऽस्य ता अथ या दक्षिणतश्चोत्तरतश्च स आत्माथ याः
पश्चात्तत्पुच्छम्

८.२.४.[१८]

स वै पुरस्तादेवाग्र उपदधाति । शिरो हि प्रथमं जायमानस्य जायतेऽथ
दक्षिणत उपधायोत्तरत उपदधाति सार्धमयमात्मा जायाता इत्यथ पश्चात्पुचं
ह्यन्ततो जायमानस्य जायते

८.२.४.[१९]

तद्यानि वर्षिष्ठानि छन्दांसि । ये स्थविष्ठाः पशवस्तान्मध्य उपदधाति
मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यं प्रति पशुर्वरिष्ठोऽथ
ये वीर्यवत्तमाः पशवस्तान्दक्षिणत उपदधाति दक्षिणं तदर्धम्
पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोर्वीयत्तरः

८.२.४.[२०]

पूर्वार्धं च जघनार्धं चाणिष्ठौ करोति । यदहामूश्चतस्रस्तेनैना अणिष्ठा
अथ यदिह ह्रसिष्ठान्पशूनुपदधाति तेनो एता अणिष्ठाः पूर्वार्धं च
तज्जघनार्धं च पशोरणिष्ठौ करोति तस्मात्पूर्वार्धश्च जघनार्धश्च
पशोरणिष्ठौ तस्मात्पूर्वार्धेन च जघनार्धेन च पशुरुच्च तिष्ठति सं च
विशत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं
निवपति तस्योपरि बन्धुः

८.३.१.[१]

तृतीयां चितिमुपदधाति । एतद्वै देवा द्वितीयां चितिं चित्वा समारोहन्यदूर्ध्वम्
पृथिव्या अर्वाचीनमन्तरिक्षात्तदेव तत्संस्कृत्य समारोहन्

८.३.१.[२]

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यंस्तेभ्य एष लोकोऽच्छन्दयत्

८.३.१.[३]

त इन्द्राग्नी अब्रुवन् । युवं न इमां तृतीयां चितिमुपधत्तमिति किं नौ ततो
भविष्यतीति युवमेव नः श्रेष्ठौ भविष्यथ इति तथेति तेभ्य एतामिन्द्राग्नी
तृतीयां चितिमुपाधत्तां तस्मादाहुरिन्द्राग्नी एव देवानां श्रेष्ठाविति

८.३.१.[४]

स वा इन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयतीन्द्राग्नी च वै विश्वकर्मा
चैतां तृतीयां चितिमपश्यंस्तस्मादिन्द्राग्निभ्यामुपदधाति विश्वकर्मणा सादयति

८.३.१.[५]

यद्वेवेन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयति प्रजापतिं विस्रस्तं देवता
आदाय व्युदक्रामंस्तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्कम्यातिष्ठन्

८.३.१.[६]

तानब्रवीत् । उप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति किं नस्ततो
भविष्यतीति युष्मद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः

८.३.१.[७]

तद्यैषा मध्यमा स्वयमातृणा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति
यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति

८.३.१.[८]

इन्द्राग्नी अव्यथमानाम् । इष्टकां दृंहतं युवमिति यथैव यजुस्तथा बन्धुः
पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधस इति पृष्ठेन ह्येषा द्यावापृथिवी
अन्तरिक्षं च विबाधते

८.३.१.[९]

विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य
पृष्ठे व्यचस्वतीं प्रथस्व तीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं
व्यचस्वत्प्रथस्वदन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीरित्यात्मानं
यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत्

८.३.१.[१०]

विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः
प्रतिष्ठा चरित्रं वायुष्ट्वाभिपात्विति वायुष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति
महत्या स्वस्त्येत्येतच्चर्दिषा शंतमेनेति यच्चर्दिः शंतमं तेनेत्येतत्सादयित्वा
सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः

८.३.१.[११]

अथ दिश्या उपदधाति । दिशो वै दिश्या दिश एवैतदुपदधाति तद्याभिरदो
वायुर्दिग्भिरनन्तर्हिताभिरुपैत्ता एतास्ता एवैतदुपदधाति ता उ एवामूः
पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधात्यसौ वा आदित्य एता अमुं तदादित्यं
दिक्ष्वध्यूहति दिक्षु चिनोति ता यत्तत्रैव स्युर्बहिर्धा तत्स्युर्बहिर्धो वा
एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्ता यदिहाहृत्योपदधाति तदेना योनौ
पुष्करपर्णे प्रतिष्ठापयति तथो हैता अबहिर्धा भवन्ति ता अनन्तर्हिताः
स्वयमातृणाया उपदधात्यन्तरिक्षं वै मध्यमा
स्वयमातृणानन्तर्हितास्तदन्तरिक्षाद्दिशो दधात्युत्तरा उत्तरास्तदन्तरिक्षाद्दिशो
दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः
सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः समीचीः
सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशः

८.३.१.[१२]

यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रष्टुब्दक्षिणा
जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दांस्यन्तरिक्षम्
मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः
८.३.१.[१३]

यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशः पशवो वै छन्दांस्यन्नं पशवो
मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृणाया
उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं
तत्प्राणादन्नं दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो
मध्यत एवास्मिन्नेतदन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नतदन्नं
दधाति

८.३.१.[१४]

राञ्यसि प्राची दिक् । विराडसि दक्षिणा दिक्षम्राडसि प्रतीची दिक्ष्वराडस्युदीची
दिगधिपत्न्यसि बृहती दिगिति नामान्यासामेतानि नामग्राहमेवैना एतदुपदधाति ता
नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशः

८.३.२.[१]

अथ विश्वज्योतिषमुपदधाति । वायुर्वै मध्यमा
विश्वज्योतिर्वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिर्वायुमेवैतदुपदधाति
तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु
वायुः

८.३.२.[२]

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्या उपदधाति दिक्षु तत्प्रजा
दधाति तस्मात्सर्वासु दिक्षु प्रजाः

८.३.२.[३]

विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य
पृष्ठे ज्योतिष्मतीमित्यन्तरिक्षस्य ह्ययं पृष्ठे ज्योतिष्मान्वायुः

८.३.२.[४]

विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतद्वायुष्टेऽधिपतिरिति वायुमवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

८.३.२.[५]
अथऽर्तव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति नभश्च
नभस्यश्च वार्षिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे
इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं
करोत्यवकासूपदधात्यवकाभिः प्रच्छादयत्यापो वा अवका अपस्तदेतस्मिन्नृतौ
दधाति तस्मादेतस्मिन्नृतौ भूयिष्ठं वर्षति

८.३.२.[६]

अथोत्तरे । इषश्चोर्जश्च शारदावृतू इति नामनी एनयोरेते नामभ्यामेवैने
एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं
करोत्यवकासूपदधात्यापो वा अवका अपस्तदेतस्यऽर्तोः पुरस्ताद्दधाति
तस्मादेतस्यऽर्तोः पुरस्ताद्वर्षति नोपरिष्टात्प्रच्छादयति तस्मान्न
तथेवोपरिष्टाद्वर्षति

८.३.२.[७]

तद्यदेता । अत्रोपदधाति संवत्सर एषोऽग्निरिम उ लोकाः
संवत्सरस्तस्यान्तरिक्षमेव मध्यमा चितिरन्तरिक्षमस्य वर्षाशरदावृत्
तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता
अत्रोपदधाति

८.३.२.[८]

यद्वेवैता अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
मध्यमेव मध्यमा चितिर्मध्यमस्य वर्षाशरदावृतू तद्यदेता अत्रोपदधाति
यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति

८.३.२.[९]

ता वा एताः । चतस्र ऋतव्या मध्यमायां चिता उपदधाति द्वेद्वे इतरासु चितिषु
चतुष्पादा वै पशवोऽन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति
तस्मादन्तरिक्षायतनाः पशवः

८.३.२.[१०]

यद्वेव चतस्रः चतुष्पादा वै पशवोऽन्नं पशवो मध्यं मध्यमा
चितिर्मध्यतस्तदन्नं दधाति

८.३.२.[११]

यद्वेव चतस्रः । चतुरक्षरं वा अन्तरिक्षं द्व्यक्षरा
इतराश्चितयस्तद्यावदन्तरिक्षं तावत्तत्कृत्वोपदधाति
८.३.२.[१२]

यद्वेव चतस्रः । पशुरेष यदग्निर्मध्यं तत्प्रति पशुं वरिष्ठं करोति
तस्मान्मध्यं प्रति पशुर्वरिष्ठः

८.३.२.[१३]

ता वा एताः । चतस्र ऋतव्यास्तासां विश्वज्योतिः पञ्चमी पञ्च दिश्यास्तद्दश दशाक्षरा
विराडन्नं विराण्मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता
अनन्तर्हिताः स्वयमातृणाया उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं
तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति

८.३.२.[१४]

अथ प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ता दश
भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणा आयुर्मे पाहि
ज्योतिर्मे यच्छेति प्राणो वै ज्योतिः प्राणं मे यच्छेत्येवैतदाह ता अनन्तर्हिता ऋतव्याभ्य
उपदधाति प्राणो वै वायुर्ऋतुषु तद्वायुं प्रतिष्ठापयति

८.३.३.[१]

अथ च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे
तत्पशुं दधाति तस्मादन्तरिक्षायतनाः पशवः

८.३.३.[२]

यद्वेव च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्न्ं पशवो मध्यम्
मध्यमा चितिर्मध्यतस्तदन्नं दधाति

८.३.३.[३]

ता द्वादशद्वादशोपदधाति । द्वादशाक्षरा वै जगती पशवो जगत्यन्तरिक्षम्
मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः

८.३.३.[४]

यद्वेव द्वादशद्वादश । द्वादशाक्षरा वै जगती पशवो वै जगत्यन्नं पशवो
मध्यं मध्यमा चितिर्मध्यतस्तदन्न दधाति ता अनन्तर्हिताः प्राणभृद्भ्य
उपदधात्यनन्तर्हितं तत्प्राणेभ्योऽन्नं दधात्युत्तरा उत्तरं तत्प्राणेभ्यो
ऽन्नं दधाति
८.३.३.[५]

मा च्छन्द इति । अयं वै लोको मायं हि लोको मित इव प्रमा च्छन्द इत्यन्तरिक्षलोको
वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव प्रतिमा च्छन्द इत्यसौ वै लोकः
प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवास्रीवयश्छन्द इत्यन्नमस्रीवयस्तद्यदेषु
लोकेष्वन्नं तदस्रीवयोऽथो यदेभ्यो लोकेभ्योऽन्नं स्रवति तदस्रीवयोऽथातो
निरुक्तान्येव छन्दांस्युपदधाति

८.३.३.[६]

पङ्क्तिश्छन्दः । उष्णिक्चन्दो बृहती च्छन्दोऽनुष्टुप्छन्दो विराट्चन्दो गायत्री
च्छन्दस्त्रिष्टुप्छन्दो जगती च्छन्द इत्येतानि निरुक्तानि विराडष्टमानि
छन्दांस्युपदधाति पृथिवी च्छन्दोऽन्तरिक्षं च्छन्द इति यान्येतद्देवत्यानि छन्दांसि
तान्येवैतदुपदधात्यग्निर्देवता वातो देवतेत्येता वै देवताश्चन्दांसि
तान्येवैतदुपदधाति

८.३.३.[७]

स वै निरुक्तानि चानिरुक्तानि चोपदधाति । स यत्सर्वाणि
निरुक्तान्युपाधास्यदन्तवद्धान्नमभविष्यदक्षेष्यत हाथ
यत्सर्वाण्यनिरुक्तानि परोऽक्षं हान्नमभविष्यन्न हैनदद्रक्ष्यंश्चन
निरुक्तानि चानिरुक्तानि चोपदधाति तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते

८.३.३.[८]

तानि वा एतानि । त्रीणि द्वादशान्युपदधाति तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहत्येषा
वै सा बृहती यां तद्देवा अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यंस्तस्या एतस्यै देवा
उत्तमाः

८.३.३.[९]

यद्वेवैता इष्टका उपदधाति । प्रजापतेर्विस्रस्तात्सर्वाणि भूतानि सर्वा दिशोऽनु
व्युदक्रामन्

८.३.३.[१०]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि
भूतानि व्युदक्रामन्नेतास्ता इष्टकास्तद्यदेता उपदधाति यान्येवास्मात्तानि भूतानि
व्युदक्रामंस्तान्यस्मिन्नेतत्प्रतिदधाति

८.३.३.[११]

तद्या दश प्रथमा उपदधाति । स चन्द्रमास्ता दश भवन्ति दशाक्षरा
विराडन्नं विराडन्नमु चन्द्रमा अथ या उत्तराः षट्त्रिंशदर्धमासाश्च ते
मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासाश्चन्द्रमा वै संवत्सरः सर्वाणि
भूतानि

८.३.३.[१२]

तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतानि सर्वाणि भूतानि मध्यतो
ऽदधुस्तथैवास्मिन्नयमेतद्दधाति ता अनन्तर्हिता ऋतव्याभ्य उपदधात्यृतुषु
तत्सर्वाणि भूतानि प्रतिष्ठापयति

८.३.४.[१]

अथ वालखिल्या उपदधाति । प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता
यद्वालखिल्या नाम यद्वा उर्वरयोरसम्भिन्नं भवति खिल इति वै तदाचक्षते
वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालसात्रादसम्भिन्नास्तस्माद्वालखिल्याः

८.३.४.[२]

स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात्तद्याः सप्त पुरस्तादुपदधाति य
एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति

८.३.४.[३]

अथ याः सप्त पश्चात् । एषामेवैतत्प्राणानामेतान्प्राणान्प्रतीन्करोति
तस्माद्यदेभिरन्नमत्ति तदेतैरत्येति

८.३.४.[४]

यद्वेव सप्त पुरस्तादुपदधाति । सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि
शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त
पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति

८.३.४.[५]

अथ याः सप्त पश्चात् । सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वै प्रतिष्ठे
यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त
पश्चात्प्राणास्तानस्मिन्नेतद्दधाति

८.३.४.[६]

मूर्धासि राट् । ध्रुवासि धरुणा धर्त्र्यसि धरणी यन्त्री राड्यन्त्र्यसि यमनी
ध्रुवासि धरित्रीत्येतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यच्छति

८.३.४.[७]

यद्वेव वालखिल्या उपदधाति । एतद्वै देवा
वालखिल्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो
वालखिल्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः

८.३.४.[८]

मूर्धासि राडितीमं लोकमरोहन् । ध्रुवासि धरुणेत्यन्तरिक्षलोकं धर्त्र्यसि
धरणीत्यमुं धरणीत्यमुं लोकमायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय
त्वेति चत्वारश्चतुष्पादाः पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः
पशुभिरेतेनान्नेनामुष्मिंलोके प्रत्यतिष्ठंस्तथैवैतद्यजमान
एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रतितिष्ठति

८.३.४.[९]

स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमाम्
प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रति षामभिप्रत्यैति

८.३.४.[१०]

यन्त्रि राडित्यमुं लोकमरोहन् । यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि
धरित्रीतीमं लोकमिषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चत्वारश्चतुष्पादाः
पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके
प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः
पशुभिरेतेनान्नेनास्मिंलोके प्रतितिष्ठति

८.३.४.[११]

अथातः संस्कृतिरेव । या अमूरेकादशेष्टका उपदधाति योऽसौ प्रथमो
ऽनुवाकस्तदन्तरिक्षं स आत्मा तद्यत्ता एकादश भवन्त्येकादशाक्षरा वै
त्रिष्टुप्त्रैष्टुभमन्तरिक्षमथ या उत्तराः षष्टिः स वायुः स प्रजापतिः सोऽग्निः
स यजमानः

८.३.४.[१२]

तद्याः पुरस्तादुपदधाति । शिरोऽस्य तास्ता दश भवन्ति दश वै प्राणाः प्राणा उ वै
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः

८.३.४.[१३]

अथ या दक्षिणतः । यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य ता अथ याः
पश्चाद्यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्य ताः प्रतिष्ठैवोत्तरतः

८.३.४.[१४]

तद्याः सप्त पुरस्ताद्वालखिल्या उपदधाति । य एवेमे सप्त
पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो दशभ्य
उपदधात्यनन्तर्हितांस्तचीर्ष्णः प्राणान्दधाति

८.३.४.[१५]

अथ याः सप्त पश्चात् । य एवेमे सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ता
अनन्तर्हिता एताभ्यो द्वादशभ्य उपदधात्यनन्तर्हितांस्तदात्मनः प्राणान्दधाति
स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभेऽन्तरिक्षे समन्तं पर्यक्नस्तद्यत्तृतीयां
चितिमुपदधाति वायुं चैव तदन्तरिक्षं च संक्कृत्योपधत्तेऽथ लोकम्पृणे
उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः

८.४.१.[१]

चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं
वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन्

 

Search

Search will be available shortly.