शतपथ ब्राह्मणम् 7

Posted at 2016-03-13 04:22:03
शतपथ ब्राह्मणम् 7

८.४.१.[१]

चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं
वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन्

८.४.१.[२]

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना एतां चतुर्थीं चितिमपश्यन्यदूर्ध्वमन्तरिक्षादर्वाचीनं
दिवस्तेषामेषा लोकोऽध्रुव इवाप्रतिष्ठित इवमनस्यासीत्

८.४.१.[३]

ते ब्रह्माब्रुवन् । त्वामिहोपदधामहा इति किं मे ततो भविष्यतीति त्वमेव नः
श्रेष्ठं भविष्यसीति तथेति तेऽत्र ब्रह्मोपादधत तस्मादाहुर्ब्रह्मैव
देवानां श्रेष्ठमिति तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे ब्रह्म
वै चतुर्थी चितिस्तस्मादाहुर्ब्रह्मणा द्यावापृथिवी विष्टब्धे इति स्तोमानुपदधाति
प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधाति

८.४.१.[४]

यद्वेव स्तोमानुपदधाति । एतद्वै देवाः प्रजापतिमब्रुवंस्त्वामिहोपदधामहा
इति तथेति स वै नाब्रवीत्किं मे ततो भविष्यतीति यदु ह किं च
प्रजापतिर्देवेष्वीषे किमस्माकं ततो भविष्यतीत्येवोचुस्तस्मादु हैतद्यत्पिता
पुत्रेष्विच्छते किमस्माकं ततो भविष्यतीत्येवाहुरथ यत्पुत्राः पितरि
तथेत्येवाहैवं हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त स्तोमानुपदधाति
प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति

८.४.१.[५]

यद्वेव स्तोमानुपदधाति । ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्ये त
एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः
प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति

८.४.१.[६]

यद्वेव स्तोमानुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य
युदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य वायुरादायोत्क्रम्यातिष्ठद्देवताश्च
भूत्वा संवत्सररूदाणि च

८.४.१.[७]

तमब्रवीत् । उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो
भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतद्वायुः प्रत्यपधात्

८.४.१.[८]

तद्या एता अष्टादश प्रथमाः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति
यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति
स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणाउ वै वायुर्वायुमेवैतदुपदधाति

८.४.१.[९]

स पुरस्तादुपदधाति । आशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तं तदुपदधाति
तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽथो वायुर्वा आशुस्त्रिवृत्स एषु त्रिषु
लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा
पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति

८.४.१.[१०]

भान्तः पञ्चदश इति । य एव पञ्चदश स्तोमस्तं तदुपदधाति तद्यत्तमाह
भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः
स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि
चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति
८.४.१.[११]

व्योमा सप्तदश इति । य एव सप्तदश स्तोमस्तं तदुपदधाति तद्यत्तमाह
व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वाव व्योमा
सप्तदशस्तस्य द्वादश मासाः पञ्चऽर्तवस्तद्यत्तमाह व्योमेति व्योमा हि
संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति

८.४.१.[१२]

धरुण एकविंश इति । य एवैकविंश स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण
इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा आदित्यो धरुण
एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावेवादित्यो धरुण
एकविंशस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियत
आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ
संवत्सररूपाण्युपदधाति

८.४.१.[१३]

प्रतूर्तिरष्टादश इति । य एवाष्टादश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चऽर्तवः संवत्सर एव
प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति
तदेव तद्रूपमुपदधाति

८.४.१.[१४]

तपो नवदश इति । य एव नवदश स्तोमस्तं तदुपदधात्यथो संवत्सरो तपो
नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह
तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपदधाति

८.४.१.[१५]

अभीवर्तः सविंश इति । य एव सविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वा
अभीवर्तः सविंशस्तस्य द्वादश मासाः सप्तऽर्तवः संवत्सर एवाभीवर्तः
सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव
तद्रूपमुपदधाति

८.४.१.[१६]

वर्चो द्वाविंश इति । य एव द्वाविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
वर्चो द्वाविंशस्तस्य द्वादश मासाः सप्तऽर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो
द्वाविंशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां
वर्चस्वितमस्तदेव तद्रूपमुपदधाति

८.४.१.[१७]

सम्भरणस्त्रयोविंश इति य एव त्रयोविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो
वाव सम्भरणस्त्रयोविंसस्तस्य त्रयोदश मासा सप्तऽर्तवो द्वे अहोरात्रे संवत्सर
एव सम्भरणस्त्रयोविंशस्तद्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि
सम्भृतस्तदेव तद्रूपमुपदधाति

८.४.१.[१८]

योनिश्चतुर्विंश इति । य एव चतुर्विंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
योनिश्चतुर्विंशस्तस्य चतुर्विंशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि
सर्वेषां भूतानां योनिस्तदेव तद्रूपमुपदधाति

८.४.१.[१९]

गर्भाः पञ्चविंश इति । य एव पञ्चविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो
वाव गर्भाः पञ्चविंशस्तस्य चतुर्विंशतिरर्धमासाः संवत्सर एव गर्भाः
पञ्चविंशस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्व
ऽर्तून्प्रविशति तदेव तद्रूपमुपदधाति

८.४.१.[२०]

ओजस्त्रिणव इति । य एव त्रिणव स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति व्!ज्रो वा
ओजो वज्रस्त्रिणवोऽथो संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे
अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषाम्
भूतानामोजस्वितमस्तदेव तद्रूपमुपदधाति

८.४.१.[२१]

क्रतुरेकत्रिंश इति । य एवैकत्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षदृतवः संवत्सर एव
क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव
तद्रूपमुपदधाति

८.४.१.[२२]

प्रतिष्ठा त्रयस्त्रिंश इति । य एव त्रयस्त्रिंश स्तोमस्तं तदुपदधाति तद्यत्तमाह
प्रतिष्ठेति प्रतिष्ठा हि त्रयस्त्रिंशोऽथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिंशस्तस्य
चतुर्विंशतिरर्धमासाः षदृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा
त्रयस्त्रिंशस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा
तदेव तद्रूपमुपदधाति

८.४.१.[२३]
ब्रध्नस्य विष्टपं चतुस्त्रिंश इति । य एत चतुस्त्रिंश स्तोमस्तं तदुपदधात्यथो
संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः सप्त
ऽर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तद्यत्तमाह
ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्य
चतुस्त्रिंशस्तदेव तद्रूपमुपदधाति

८.४.१.[२४]

नाकः षट्त्रिंश इति । य एव षट्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
नाकः षट्त्रिंशस्तस्य चतुर्विंशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न
हि तत्र गताय कस्मै चनाकं भवत्यथो संवत्सरो वाव नाकः संवत्सरः
स्वर्गो लोकस्तदेव तद्रूपमुपदधाति

८.४.१.[२५]

विवर्तोऽष्टाचत्वारिंश इति । य एवाष्टाचत्वरिंश स्तोमस्तं तदुपदधात्यथो
संवत्सरो वाव विवर्तोऽष्टाचत्वारिंशस्तस्य षड्विंशतिरर्धमासास्त्रयोदश मासाः
सप्तऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि
विवर्तन्ते तदेव तद्रूपमुपदधाति

८.४.१.[२६]

धर्त्रं चतुष्टोम इति । य एव चतुष्टोम स्तोमस्तं तदुपदधाति तद्यत्तमाह
धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्रं
चतुष्टोमः स आभिश्चतसृभिर्दिग्भि स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै
धर्त्रं वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै
वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि
भूतान्युभयतः परिगृह्णाति

८.४.१.[२७]

ता वा एताः । अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृतौ प्राणो वै त्रिवृद्वायुरु प्राणो
वायुरेषा चितिः

८.४.१.[२८]

यद्वेवाष्टादश । अष्टादशो वै संवत्सरो द्वादश मासाः पञ्चऽर्तवः संवत्सर
एव प्रजापतिरष्टादशः प्र्जापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तत्कृत्वोपदधाति

८.४.२.[१]

अथ स्पृत उपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि
गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात्

८.४.२.[२]

स देवानब्रवीत् । युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणवानीति
किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्त्वित्येके
ऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाण्
इ भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो
भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति
तस्मादु सर्वास्वेव स्पृतंस्पृतमित्यनुवर्तते

८.४.२.[३]

अग्निर्भागोऽसि । दीक्षाया आधिपत्यमिति वाग्वै दीक्षाग्नये भागं कृत्वा वाच
आधिपत्यमकरोद्ब्रह्म स्पृतं त्रिवृत्स्तोम इति ब्रह्म प्रजानां त्रिवृता स्तोमेन
पाप्मना मृत्योरस्पृणोत्

८.४.२.[४]

इन्द्रस्य भागोऽसि । विष्णोराधिपत्यमितीन्द्राय भागं कृत्वा विष्णव
आधिपत्यमकरोत्क्षत्रं स्पृतं पञ्चदश स्तोम इति क्षत्रं प्रजानाम्
पञ्चदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[५]

नृचक्षसां भागोऽसि । धातुराधिपत्यमिति देवा वै नृचक्षसो देवेभ्यो भागं
कृत्वा धात्र आधिपत्यमकरोज्जनित्रं स्पृतं सप्तदश स्तोम इति विड्वै जनित्रं
विशं प्रजानां सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[६]

मित्रस्य भागोऽसि । वरुणस्याधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय
भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं
च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[७]

वसूनां भागोऽसि । रुद्राणामाधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय
भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं
च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्
८.४.२.[८]

आदित्यानां भागोऽसि । मरुतामाधिपत्यमित्यादित्येभ्यो भागं कृत्वा मरुद्भ्य
आधिपत्यमकरोद्गर्भा स्पृताः पञ्चविंश स्तोम इति गर्भान्प्रजानां पञ्चविंशेन
स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[९]

अदित्यै भागोऽसि । पूष्णं आधिपत्यमितीयं वा अदितिरस्यै भागं कृत्वा पूष्ण
आधिपत्यमकरोदोज स्पृतं त्रिणव स्तोम इत्योजः प्रजानां त्रिणवेन स्तोमेन
पप्मनो मृत्योरस्पृणोत्

८.४.२.[१०]

देवस्य सवितुर्भागोऽसि । बृहस्पतेराधिपत्यमिति देवाय सवित्रे भागं कृत्वा
बृहस्पतय आधिपत्यमकरोत्समीचीर्दिश स्पृताश्चतुष्टोम स्तोम इति सर्वा दिशः
प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[११]

यवानां भागोऽसि । अयवानामाधिपत्यमिति पूर्वपक्षा वै यवा अपरपक्षा
अयवास्ते हीदं सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं
कृत्वापरपक्षेभ्य आधिपत्यमकरोत्प्रजा स्पृताश्चतुश्चत्वारिंश स्तोम इति सर्वाः
प्रजाश्चतुश्चत्वारिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्

८.४.२.[१२]

ऋभूणां भागोऽसि । विष्वेषां देवानामाधिपत्यमित्यृभुभ्यो भागं कृत्वा
विश्वेभ्यो देवेभ्य आधिपत्यमकरोद्भूतं स्पृतं त्रयस्त्रिंश स्तोम इति सर्वाणि
भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्तथैवैतद्यजमानः सर्वाणि
भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्यो स्पृणोति

८.४.२.[१३]

ता वा एता दशेष्टका उपदधाति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश
प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेतानि सर्वाणि भूतानि
पाप्मनो मृत्यो स्पृणोति

८.४.२.[१४]

अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति सहश्च
सहस्यश्च हैमन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति
द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति
८.४.२.[१५]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य
यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति

८.४.२.[१६]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति

८.४.३.[१]

अथ सृष्टीरुपदधाति । एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो
मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति

८.४.३.[२]

स प्राणानब्रवीत् । युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह
इति मया चैव युष्माभिश्चेति तथेति ते प्राणैश्चैव प्रजापतिना चास्तुवत यदु ह किं
च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैव तत्कुर्वते
तस्मादु सर्वास्वेवास्तुवतास्तुवतेत्यनुवर्तते

८.४.३.[३]

एकयास्तुवतेति । वाग्वा एका वाचैव तदस्तुवत प्रजा अधीयन्तेति प्रजा अत्राधीयन्त
प्रजापतिरधिपतिरासीदिति प्रजापतिरत्राधिपतिरासीत्

८.४.३.[४]

तिसृभिरस्तुवतेति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत
ब्रह्मासृज्यतेति ब्रह्मात्रासृज्यत ब्रह्मणस्पतिरधिपतिरासीदिति
ब्रह्मणस्पतिरत्राधिपतिरासीत्

८.४.३.[५]

पञ्चभिरस्तुवतेति । य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत
भूतान्यसृज्यन्तेति भूतान्यत्रासृज्यन्त भूतानां पतिरधिपतिरासीदिति भूतानाम्
पतिरत्राधिपतिरासीत्

८.४.३.[६]

सप्तभिरस्तुवतेति । य एवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत सप्त ऋषयो
ऽसृज्यन्तेति सप्तऽर्षयोऽत्रासृज्यन्त धाताधिपतिरासीदिति धातात्राधिपतिरासीत्

८.४.३.[७]

नवभिरस्तुवतेति । नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैरेव तदस्तुवत
पितरोऽसृज्यन्तेति पितरोऽत्रासृज्यन्तादितिरधिपत्न्यासीदित्यदितिरत्राधिपत्न्यासीत्

८.४.३.[८]

एकादशभिरस्तुवतेति । दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवो
ऽसृज्यन्तेत्यृतवोऽत्रासृज्यन्तार्तवा अधिपतय आसन्नित्यार्तवा अत्राधिपतय आसन्

८.४.३.[९]

त्रयोदशभिरस्तुवतेति । दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत
मासा असृज्यन्तेति मासा अत्रासृज्यन्त संवत्सरोऽधिपतिरासीदिति संवत्सरो
ऽत्राधिपतिरासीत्

८.४.३.[१०]

पञ्चदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं
नाभेस्तत्पञ्चदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमसृज्यतेति
क्षत्रमत्रासृज्यतेन्द्रोऽधिपतिरासीदितीन्द्रोऽत्राधिपतिरासीत्

८.४.३.[११]

सप्तदशभिरस्तुवतेति । दश पाद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे
यदवाङ्नाभेस्तत्सप्तदशं तेनैव तदस्तुवत ग्राम्याः पशवोऽसृज्यन्तेति ग्राम्याः
पशवोऽत्रासृज्यन्त बृहस्पतिरधिपतिरासीदिति बृहस्पतिरत्राधिपतिरासीत्

८.४.३.[१२]

नवदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयो नव प्राणास्तैरेव तदस्तुवत
शूद्रार्यावसृज्येतामिति शूद्रार्यावत्रासृज्येतामहोरात्रे अधिपत्नी आस्तामित्यहोरात्रे
अत्राधिपत्नी आस्ताम्
८.४.३.[१३]

एकविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तेनैव
तदस्तुवतैकशफाः पशवोऽसृज्यन्तेत्येकशफाः पशवोऽत्रासृज्यन्त वरुणो
ऽधिपतिरासीदिति वरुणोऽत्राधिपतिरासीत्

८.४.३.[१४]

त्रयोविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा
त्रयोविंशस्तेनैव तदस्तुवत क्षुद्राः पशवोऽसृज्यन्तेति क्षुद्राः पशवो
ऽत्रासृज्यन्त पूषाधिपतिरासीदिति पूषाधिपतिरासीत्

८.४.३.[१५]

पञ्चविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा
पश्चविंशस्तेनैव तदस्तुवतारण्याः पशवोऽसृज्यन्तेत्यारण्याः पशवोऽत्रासृज्यन्त
वायुरधिपतिरासीदिति वायुरत्राधिपतिरासीत्

८.४.३.[१६]

सप्तविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे
आत्मा सप्तविंशस्तेनैव तदस्तुवत द्यावापृथिवी व्यैतामिति द्यावापृथिवी अत्र व्यैतां
वसवो रुद्रा आदित्या अनुव्यायन्निति वसवो रुद्रा आदित्या अत्रानुव्यायंस्त एवाधिपतय
आसन्निति त उ एवात्राधिपतय आसन्

८.४.३.[१७]

नवविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणास्तैरेव
तदस्तुवत वनस्पतयोऽसृज्यन्तेति वनस्पतयोऽत्रासृज्यन्त सोमोऽधिपतिरासीदिति
सोमोऽत्राधिपतिरासीत्

८.४.३.[१८]

एकत्रिंशतास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा
आत्मैकत्रिंशस्तेनैव तदस्तुवत प्रजा असृज्यन्तेति प्रजा अत्रासृज्यन्त
यवाश्चायवाश्चाधिपतय आसन्निति पूर्वपक्षापरपक्षा एवात्राधिपतय आसन्

८.४.३.[१९]

त्रयस्त्रिंशतास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे
आत्मा त्रयस्त्रिंशस्तेनैव तदस्तुवत भूतान्यशाम्यन्निति सर्वाणि
भूतान्यत्राशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीदिति प्रजापतिः
परमेष्ठ्यत्राधिपतिरासीत्

८.४.३.[२०]

ता वा एताः । सप्तदशेष्टका उपदधाति सप्तदशो वै संवत्सरः प्रजापतिः स
प्रजनयिता तदेतेन वै सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः
प्राजनयद्यत्प्राजनयदसृजत तद्यदसृजत तस्मात्सृष्टयस्ताः
सृष्ट्वात्मन्प्रापादयत तथैवैतद्यजमान एतेन सप्तदशेन संवत्सरेण
प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति ताः सृष्ट्वात्मन्प्रपादयते
रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः
प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति

८.४.४.[१]

अथातोऽन्वावृतम् । त्रिवृद्वतीं पुरस्तादुपदधात्येकविंशवतीम्
पश्चात्पञ्चदशवतीं दक्षिणतः सप्तदशवतीमुत्तरतः

८.४.४.[२]

एतद्वै प्रजापतिम् । त्रिवृद्वत्यामुपहितायां पञ्चदशवत्याम्
मृत्युरसीददिमामत उपधास्यते तमत्र ग्रहीष्यामीति तं प्रापश्यत्तम्
प्रख्याय परिक्रम्यैकविंशवतीमुपाधत्तैकविंशवतीम्
मृत्युरागच्छत्पञ्चदशवतीमुपाधत्त पञ्चदशवतीम्
मृत्युरागच्छत्सप्तदशवतीमुपाधत्त सोऽत्रैव मृत्युं
न्यकरोदत्रामोहयत्तथैवैतद्यजमानोऽत्रैव सर्वान्पाप्मनो निकरोत्यत्र
मोहयति

८.४.४.[३]

अथोत्तराः । त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधात्येकविंशवत्यामेकविंशवतीम्
पञ्चदशवत्यां सप्तदशवतीं सप्तदशवत्यां पञ्चदशवतीं ता यदेवं
व्यतिहारमुपदधाति तस्मादक्ष्णयास्तोमीया अथो यदेते स्तोमा अतोऽन्यथानुपूर्वं
तस्माद्वेवाक्ष्णयास्तोमीया अथो एवं देवा उपादधतेतरथासुरास्ततो देवा
अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद

८.४.४.[४]

स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य त्रिवृद्वत्यावेव शिरस्ते
यत्त्रिवृद्वत्यौ भवतस्त्रिवृद्धि शिरो द्वे भवतो द्विकपालं हि शिरः पूर्वार्ध
उपदधाति पुरस्ताद्धीदं शिरः

८.४.४.[५]

प्रतिष्ठैकविंशवत्यौ । ते यदेकविंशवत्यौ भवतः प्रतिष्ठा ह्येकविंशो द्वे
भवतो द्वन्द्वं हि प्रतिष्ठा पश्चादुपदधाति पश्चाद्धीयं प्रतिष्ठा

८.४.४.[६]

बाहू पञ्चदशवत्यौ । ते यत्पञ्चदशवत्यौ भवतः पञ्चदशौ हि बाहू द्वे
भवतो द्वौ हीमौ बाहू पार्श्वत उपदधाति पार्श्वतो हीमौ बाहू

८.४.४.[७]

अन्नं सप्तदशवत्यौ । ते यत्सप्तदशवत्यौ भवतः सप्तदशं ह्यन्नं द्वे
भवतो द्व्यक्षरं ह्यन्नं ते अनन्तर्हिते
पञ्चदशवतीभ्यामुपदधात्यनन्तर्हितं तद्बाहुभ्यामन्नं दधाति बाह्ये
पञ्चदशवत्यौ भवतोऽन्तरे सप्तदशवत्यौ बाहुभ्यां तदुभयतोऽन्नम्
परिगृह्णाति

८.४.४.[८]

अथ या मध्य उपदधाति । स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो
ह्ययमात्माथ यदतोऽन्यदतिरिक्तं तद्यद्वै देवानामतिरिक्तं छन्दांसि तानि
तद्यानि तानि छन्दांसि पशवस्ते तद्ये ते पशवः पुण्यास्ता लक्ष्म्यस्तद्यास्ताः पुण्या
लक्ष्म्योऽसौ स आदित्यः स आसामेष दक्षिणतः

८.४.४.[९]

ता हैकेऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति । जिह्वाहनू इति वदन्तो याश्चतुर्दश
ते हनू याः षट्सा जिह्वेति न तथा कुर्यादति ते रेचयन्ति यथा पूर्वयोर्हन्वोरपरे
हनू अनूपदध्याद्यथा पूर्वस्यां जिह्वायामपरां
जिह्वामनूपदध्यात्तादृक्तद्यत्राहैव शिरस्तदेव हनू तज्जिह्वा

८.४.४.[१०]

अस्मिन्नु हैकेऽवान्तरदेश उपदधति । असौ वा आदित्य एता अमुं तदादित्यमेतस्यां
दिशि दध्म इति न तथा कुर्यादन्यानि वाव तानि कर्माणि यैरेतमत्र दधाति

८.४.४.[११]

दक्षिणत उ हैक उपदधति । तदेताः पुण्या लक्ष्मीर्दक्षिणतो दध्मह इति
तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षत उत्तरत
स्त्रिया उत्तरतआयतना हि स्त्री तत्तत्कृतमेव पुरस्तात्त्वेवैना उपदध्याद्यत्राहैव
शिरस्तदेव हनू तज्जिह्वाथैताः पुण्या लक्ष्मीर्मुखतो धत्ते तस्माद्यस्य मुखे
लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते
८.४.४.[१२]

सैषा ब्रह्मचितिः । यद्ब्रह्मोपादधत तस्माद्ब्रह्मचितिः सा
प्रजापतिचितिर्यत्प्रजापतिमुपादधत तस्मात्प्रजापतिचितिः स
ऽर्षिचितिर्यदृषीनुपादधत तस्मादृषिचितिः सा वायुचितिर्यद्वायुमुपादधत
तस्माद्वायुचितिः सा स्तोमचितिर्यत्स्तोमानुपादधत तस्मात्स्तोमचितिः सा
प्राणचितिर्यत्प्राणानुपादधत तस्मात्प्राणचितिरतो यतमदेव कतमच्च विद्यात्तेन
हैवास्यैषार्षेयवती बन्धुमती चितिर्भवत्यथ लोकम्पृणे उपदधात्यस्यां
स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः

८.५.१.[१]

पञ्चमीं चितिमुपदधाति । एतद्वै देवाश्चतुर्थीं चितिं चित्वा
समारोहन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदेव तत्संस्कृत्य समारोहन्

८.५.१.[२]

तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना दिवमेव विराजं पञ्चमीं चितिमपश्यंस्तेभ्य एष लोकोऽच्छन्दयत्

८.५.१.[३]

तेऽकामयन्त । असपत्नमिमं लोकमनुपबाधं कुर्वीमहीति तेऽब्रुवन्नुप
तज्जानीत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमं
लोकमसपत्नमनुपबाधं करवामहा इति

८.५.१.[४]

ते चेतयमानाः । एता इष्टका अपश्यन्नसपत्नास्ता उपादधत ताभिरेतं
लोकमसपत्नमनुपबाधमकुर्वत तद्यदेताभिरिमं
लोकमसपत्नमनुपबाधमकुर्वत तस्मादेता असपत्नास्तथेवैतद्यजमानो
यदेता उपदधातमेवैतल्लोकमसपत्नमनुपबाधं कुरुते सर्वत उपदधाति
सर्वत एवैतदेतं लोकमसपत्नमनुपबाधं कुरुते परार्ध उपदधाति
सर्वमेवैतदेतं लोकमसपत्नमनुपवाधं कुरुते

८.५.१.[५]

अथ विराज उपदधाति । एषा वै सा विराड्यां तद्देवा विराजं पञ्चमीं
चितिमपश्यंस्ता दशदशोपदधाति दशाक्षरा विराड्विराडेषा चितिः सर्वत
उपदधाति यो वा एकस्यां दिशि विराजति न वै स विराजति यो वाव सर्वासु दिक्षु विराजति
स एव विराजति
८.५.१.[६]

यद्वेवैता असपत्ना उपदधाति । एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते
सर्वतः पाप्मोपायतत स एता इष्टका अपश्यदसपत्नास्ता उपाधत्त ताभिस्तम्
पाप्मानमपाहत पाप्मा वै सपत्नस्तद्यदेताभिः पाप्मानं सपत्नमपाहत
तस्मादेता असपत्नाः

८.५.१.[७]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं न्विमं स पाप्मा नोपयतते
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा यः
सपत्नस्तमेताभिरपहते तद्यदेताभिः पाप्मानं सपत्नमपहते तस्मादेता
असपत्नाः सर्वत उपदधाति सर्वत एवैतत्पाप्मानं सपत्नमपहते परार्ध
उपदधाति सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमपहते

८.५.१.[८]

स पुरस्तादुपदधाति । अग्ने जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा
बन्धुरथ पश्चात्सहसा जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुः

८.५.१.[९]

सा या पुरस्तादग्निः सा । या पश्चादग्निः साग्निनैव
तत्पुरस्तात्पाप्मानमपाहताग्निना
पश्चात्तथैवैतद्यजमानोऽग्निनैव पुरस्तात्पाप्मानमपहतेऽग्निना पश्चात्

८.५.१.[१०]

अथ दक्षिणतः । षोडशी स्तोम ओजो द्रविणमित्येकादशाक्षरा वै
त्रिष्टुप्त्रैष्टुभमन्तरिक्षं चतस्रो दिश एष एव वज्रः
पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्ता स एतेन पञ्चदशेन
वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपाहत तथैवैतद्यजमान एतेन
पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपहते

८.५.१.[११]

अथोत्तरतः । चतुश्चत्वारिंश स्तोमो वर्चो द्रविणमिति चतुश्चत्वारिंशदक्षरा वै
त्रिष्टुप्त्रैष्टुभो वज्रः स एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः
पाप्मानमपाहत तथैवैतद्यजमान एतेन चतुश्चत्वारिंशेन वज्रेणैतया
त्रिष्टुभोत्तरतः पाप्मानमपहते

८.५.१.[१२]

अथ मध्ये । अग्नेः पुरीषमसीति ब्रह्म वै चतुर्थी चितिरग्निरु वै ब्रह्म तस्या
एतत्पुरीषमिव यत्पञ्चम्यप्सो नामेति तस्योक्तो बन्धुः

८.५.१.[१३]

तां प्राचीं तिरश्चीमुपदधाति । एतद्धैतया प्रजापतिः पाप्मनो
मूलमवृश्चत्तथैवैनयायमेतत्पाप्मनो मूलं वृश्चति दक्षिणतो
दक्षिणतौद्यामो हि वज्रोऽन्तरेण दक्षिणां दिश्यामुद्यामाय ह तमवकाशं
करोति

८.५.१.[१४]

सा या पुरस्तात्प्राणः सा । या पश्चादपानः सा प्राणेनैव
तत्पुरस्तात्पाप्मानमपाहतापानेन पश्चात्तथैवैतद्यजमानः प्राणेनैव
पुरस्तात्पाप्मानमपहतेऽपानेन पश्चात्

८.५.१.[१५]

अथ ये अभितः । तौ बाहू स योऽस्याभितः पाप्मासीद्बाहुभ्यां तमपाहत
तथैवैतद्यजमानो योऽस्याभितः पाप्मा भवति बाहुभ्यामेव तमपहते

८.५.१.[१६]

अन्नं पुरीषवती । स योऽस्योपरिष्ठात्पाप्मासीदन्नेन तमपाहात
तथैवैतद्यजमानो योऽस्योपरिष्टात्पाप्मा भवत्यन्नेनैव तमपहते

८.५.१.[१७]

स यद्ध वा एवंवित्प्राणिति । योऽस्य पुरस्तात्पाप्मा भवति तं तेनापहतेऽथ
यदपानिति तेन तं यः पश्चादथ यद्बाहुभ्यां कर्म कुरुते तेन तं योऽभितो
ऽथ यदन्नमत्ति तेन तं य उपरिष्टात्सर्वदा ह वा एवंवित्पाप्मानमपहतेऽपि
स्वपंस्तस्मादेवं विदुषः पापं न कीर्तयेन्नेदस्य पाप्मासानीति

८.५.२.[१]

अथ च्छन्दस्या उपदधाति । एतद्वै प्रजापतिः पाप्मनो
मृत्योर्मुक्त्वान्नमैच्छत्तस्मादु हैतदुपतापी वसीयान्भूत्वान्नमिच्छति
तस्मिन्नाशंसन्तेऽन्नमिच्छति जीविष्यतीति तस्मै देवा एतदन्नम्
प्रायच्छन्नेताश्छन्दस्याः पशवो वै छन्दांस्यन्नं पशवस्तान्यस्मा अच्छदयंस्तानि
यदस्मा अच्छदयंस्तस्माच्चन्दांसि

८.५.२.[२]

ता दशदशोपदधाति । दशाक्षरा विराड्विराडु कृत्स्नमन्नं
सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत
एवास्मिन्नेतत्कृत्स्नमन्नं दधाति

८.५.२.[३]

एवश्छन्द इति । अयं वै लोक एवश्छन्दो वरिवश्छन्द इत्यन्तरिक्षं वै वरिवश्छन्दः
शम्भूश्छन्द इति द्यौर्वै शम्भूश्छन्दः परिभूश्छन्द इति दिशो वै परिभूश्छन्द
आच्छच्छन्द इत्यन्नं वा आच्छच्छन्दो मनश्छन्द इति प्रजापतिर्वै मनश्छन्दो
व्यचश्छन्द इत्यसौ वा आदित्यो व्यचश्छन्दः

८.५.२.[४]

सिन्धुश्छन्द इति । प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै
समुद्रश्छन्दः सरिरं च्छन्द इति वाग्वै सरिरं छन्दः ककुप्छन्द इति प्राणो वै
ककुप्छन्दस्त्रिककुप्छन्द इत्युदानो वै त्रिककुप्चन्दः काव्यं च्छन्द इति त्रयी वै
विद्या काव्यं च्छन्दोऽङ्कुपं च्छन्द इत्यापो वा अङ्कुपं च्छन्दोऽक्षरपङ्क्तिश्छन्द
इत्यसौ वै लोकोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्द इत्ययं वै लोकः
पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्द इति दिशो वै विष्टारपङ्क्तिश्छन्दः क्षुरो
भ्रजश्छन्द इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्द आच्छच्छन्दः प्रच्छच्छन्द
इत्यन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः

८.५.२.[५]

संयच्चन्द इति । रात्रिर्वै संयच्चन्दो वियच्चन्द इत्यहर्वै वियच्चन्दो बृहच्चन्द
इत्यसौ वै लोको बृहच्चन्दो रथन्तरं च्छन्द इत्ययं वै लोको रथन्तरं च्छन्दो
निकायश्छन्द इति वायुर्वै निकायश्छन्दो विवधश्छन्द इत्यन्तरिक्षं वै
विवधश्छन्दो गिरश्छन्द इत्यन्नं वै गिरश्छन्दो भ्रजश्छन्द इत्यग्निर्वै
भ्रजश्छन्दः संस्तुप्छन्दोऽनुष्टुप्छन्द इति वागेव संस्तुप्छन्दो
वागनुष्टुप्छन्द एवस्=च्छन्दो वरिवश्छन्द इति तस्योक्तो बन्धुः

८.५.२.[६]

वयश्छन्द इति । अन्नं वै वयश्छन्दो वयस्कृच्चन्द इत्यग्निर्वै वयस्कृच्चन्दो
विष्पर्धाश्छन्द इत्यसौ वै लोको विष्पर्धाश्छन्दो विशालं च्छन्द इत्ययं वै लोको
विशालं च्छन्दश्चदिश्छन्द इत्यन्तरिक्षं वै छदिश्छन्दो दूरोहणं च्छन्द इत्यसौ वा
आदित्यो दूरोहणं च्छन्दस्तन्द्रं च्छन्द इति पङ्क्तिर्वै तन्द्रं च्छन्दोऽङ्काङ्कं च्छन्द
इत्यापो वा अङ्काङ्कं छन्दः

८.५.२.[७]

तद्याः पुरस्तादुपदधाति । प्राणस्तासां प्रथमा व्यानो
द्वितीयोदानस्तृतीयोदानश्चतुर्थी व्यानः पञ्चमी प्राणः षष्ठी प्राणः सप्तमी
व्यानोऽष्टम्युदानो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां
विराज्यध्यूढः प्रतिष्ठितः प्राणमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे
प्राणा अर्वाञ्चश्च पराञ्चश्च

८.५.२.[८]

अथ या दक्षिणतो ।ऽग्निस्तासां प्रथमा वायुर्द्वितीयादित्यस्तृतीयादित्यश्चतुर्थी वायुः
पञ्चम्यग्निः षष्ठ्यग्निः सप्तमी वायुरष्टम्यादित्यो नवमी यजमान एवात्र
दशमी स एष यजमान एतस्यां विराज्यधूढः प्रतिष्ठितो देवतामय्यामर्वाचीश्च
पराचीश्चोपदधाति तस्मादेते देवा अर्वाञ्चश्च पराञ्चश्च

८.५.२.[९]

अथ याः पश्चात् । अयं लोकस्तासां प्रथमान्तरिक्षं द्वितीया द्यौस्तृतीया
द्यौश्चतुर्थ्यन्तरिक्षं पञ्चम्ययं लोकः षष्ठ्ययं लोकः
सप्तम्यन्तरिक्षमष्टमी द्यौर्नवमी यजमान एवात्र दशमी स एष यजमान
एतस्यां विराज्यध्यूढः प्रतिष्ठितो लोकमय्यामर्वाचीश्च पराचीश्चोपदधाति
तस्मादिमे लोका अर्वाञ्चश्च पराञ्चश्च

८.५.२.[१०]

अथ या उत्तरतः । ग्रीष्मस्तासां प्रथमा वर्षा द्वितीया हेमन्तस्तृतीया
हेमन्तश्चतुर्थी वर्षाः पञ्चमी ग्रीष्मः षष्ठी ग्रीष्मः सप्तमी वर्षा
अष्टमी हेमन्तो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां
विराज्यध्यूढः प्रतिष्ठित ऋतुमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेत ऋतवो
ऽर्वाञ्चश्च पराञ्चश्च

८.५.२.[११]

अथ पुनरेव । याः पुरस्तादुपदधाति प्राणास्ते ता दश भवन्ति दश वै प्राणाः
पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणाः

८.५.२.[१२]

अथ या दक्षिणतः । एतास्ता देवता अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च
द्यौश्च चन्द्रमाश्च नक्षत्राणि चान्नं चापश्च

८.५.२.[१३]

अथ याः पश्चात् । दिशस्ताश्चतस्रो दिशश्चतस्रोऽवान्तरदिश ऊर्ध्वा चेयं च

८.५.२.[१४]

अथ या उत्तरतः । मासास्ते वासन्तिकौ द्वौ ग्रैष्मौ द्वौ वार्षिकौ द्वौ शारदौ
द्वौ हैमन्तिकौ द्वौ

८.५.२.[१५]

अथ पुनरेव । या प्रथमा दशदयं स लोको या द्वितीयान्तरिक्षं तद्या तृतीया
द्यौः सेममेव लोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं
तृतीयया तथैवैतद्यजमान इममेव लोकं प्रथमया दशता रोहत्यन्तरिक्षं
द्वितीयया दिवं तृतीयया

८.५.२.[१६]

स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमाम्
प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैत्यथ
योत्तमा दशदयं स लोकस्तस्माद्यथैव प्रथमायै दशतः
प्रभृतिरेवमुत्तमायै समानं ह्येतद्यदेते दशतावयमेव लोकः

८.५.२.[१७]

ता वा एताः । चत्वारिंशदिष्टकाश्चत्वारिंशद्यजूंषि
तदशीतिरन्नमशीतिस्तद्यद्यदेतदाह तदस्मा अन्नमशीतिं कृत्वा प्रयच्छति
तेनैनं प्रीणाति

८.५.३.[१]

अथ स्तोमभागा उपदधाति । एतद्वै प्रजापतेरेतदन्नमिन्द्रोऽभ्यध्यायत्सो
ऽस्मादुदचिक्रमिषत्तमब्रवीत्कथोत्क्रामसि कथा मा जहासीति स वै मेऽस्यान्नस्य
रसं प्रयच्छेति तेन वै मा सह प्रपद्यस्वेति तथेति तस्मा एतस्यान्नस्य रसम्
प्रायच्छत्तेनैनं सह प्रापद्यत

८.५.३.[२]

स यः स प्रजापतिः । अयमेव स योऽयमग्निश्चीयतेऽथ यत्तदन्नमेतास्ताश्छन्दस्या
अथ यः सोऽन्नस्य रस एतास्ता स्तोमभागा अथ यः स इन्द्रोऽसौ स आदित्यः स एष
एव स्तोमो यद्धि किं च स्तुवत एतमेव तेन स्तुवन्ति तस्मा एतस्मै स्तोमायैतम्
भागं प्रायच्छत्तद्यदेतस्मै स्तोमायैतं भागं प्रायच्छत्तस्मात्स्तोमभागाः

८.५.३.[३]

रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च
संधायात्मन्प्रपादयते प्रेतिना धर्मणा धर्मं जिन्वेत्येष वै प्रेतिरन्नम्
प्रेतिरेतं च तद्रसं च संधायात्मन्प्रपादयतेऽन्वित्या दिवा दिवं जिन्वेत्येष वा
अन्वितिरन्नमन्वितिरेतं च तद्रसं च संधायात्मन्प्रपादयते तद्यद्यदेतदाह
तच्च तद्रसं च संधायात्मन्प्रपादयतेऽमुनादो जिन्वादोऽस्यमुष्मै
त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधाविहितास्त्रेधाविहितं ह्यन्नम्

८.५.३.[४]

यद्वेव स्तोमभागा उपदधाति । एतद्वै देवा विराजं चितिं चित्वा समारोहंस्ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना नाकमेव
स्वर्गं लोकमपश्यंस्तमुपादधत स यः स नाकः स्वर्गो लोक एतास्ता
स्तोमभागास्तद्यदेता उपदधाति नाकमेवैतत्स्वर्गं लोकमुपधत्ते

८.५.३.[५]

तद्यास्तिस्रः प्रथमाः । अयं स लोको या द्वितीया अन्तरिक्षं तद्यास्तृतीया द्यौः सा
याश्चतुर्थ्यः प्राची सा दिग्याः पञ्चम्यो दक्षिणा सा याः षष्ठ्यः प्रतीची सा याः
सप्तम्य उदीची सा

८.५.३.[६]

ता वा एताः । एकविंशतिरिष्टका इमे च लोका दिशश्चेमे च वै लोका दिशश्च प्रतिष्ठेमे
च लोका दिशश्चैकविंशस्तस्मादाहुः प्रतिष्ठैकविंश इति

८.५.३.[७]

अथ या अष्टाविष्टका अतियन्ति । साष्टाक्षरा गायत्री ब्रह्म गायत्री
तद्यत्तद्ब्रह्मैतत्तद्यदेतन्मण्डलं तपति तदेतस्मिन्नेकविंशे प्रतिष्ठायाम्
प्रतिष्ठितं तपति तस्मान्नावपद्यते

८.५.३.[८]

तद्धैके । वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमुपदधति
त्रिंशदक्षरा विराड्विराडेषा चितिरिति न तथा कुर्यादति ते
रेचयन्त्येकविंशसम्पदमथो गायत्रीसम्पदमथो इन्द्रलोको हैष यैषान्यूना
विराडिन्द्राय ह त इन्द्रलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं
कुर्वन्तीन्द्रमिन्द्रलोकान्नुदन्ते यजमानो वै स्वे यज्ञ इन्द्रो यजमानाय ह ते
यजमानलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति यजमानं
यजमानलोकान्नुदन्ते यं वा एतमग्निमाहरन्त्येष एव यजमान आयतनेनैष उ
एवात्र त्रिंशत्तमी

८.५.४.[१]

ता अषाढायै वेलयोपदधाति । वाग्वा अषाढा रस एष वाचि तद्रसं दधाति
तस्मात्सर्वेषामङ्गानां वाचैवान्नस्य रसं विजानाति

८.५.४.[२]

यद्वेवाषाढायै । इयं वा अषाढासावादित्य स्तोमभागा अमुं तदादित्यमस्याम्
प्रतिष्ठायां प्रतिष्ठापयति

८.५.४.[३]

यद्वेवाषाढायै । इयं वा अषाढा हृदयं स्तोमभागा अस्यां तद्धृदयं मनो
दधाति तस्मादस्यां हृदयेन मनसा चेतयते सर्वत उपदधाति
सर्वतस्तद्धृदयं मनो दधाति तस्मादस्यां सर्वतो हृदयेन मनसा चेतयते
ऽथो पुण्या हैता लक्ष्म्यस्ता एतत्सर्वतो धत्ते तस्माद्यस्य सर्वतो लक्ष्म भवति
तं पुण्यलक्ष्मीक इत्याचक्षते

८.५.४.[४]

अथैनाः पुरीषेण प्रच्छादयति । अन्नं वै पुरीषं रस एष तमेतत्तिरः करोति
तस्मात्तिर इवान्नस्य रसः

८.५.४.[५]

यद्वेव पुरीषेण । अन्नं वै पुरीषं रस एषोऽन्नं च तद्रसं च संतनोति
संदधाति

८.५.४.[६]

यद्वेव पुरीषेण । हृदयं वै स्तोमभागाः पुरीतत्पुरीषं हृदयं तत्पुरीतता
प्रच्छादयति

८.५.४.[७]

यद्वेव पुरीषेण । संवत्सर एषोऽग्निस्तमेतच्चितिपुरीषैर्व्यावर्तयति
तद्याश्चतस्रः प्रथमाश्चितयस्ते चत्वार ऋतवोऽथ स्तोमभागा उपधाय पुरीषं
निवपति सा पञ्चमी चितिः स पञ्चम ऋतुः

८.५.४.[८]

तदाहुः । यल्लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकम्पृणामुपदधाति कात्र
लोकम्पृणेत्यसौ वा आदित्यो लोकम्पृणैष उ एषा चितिः सैषा स्वयं लोकम्पृणा चितिरथ
यदत ऊर्ध्वमा पुरीषात्सा षष्ठी चितिः स षष्ठ ऋतुः
८.५.४.[९]

अथ पुरीषं निवपति । तत्र विकर्णीं चोपदधाति हिरण्यशकलैः
प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिः स सप्तम ऋतुः

८.५.४.[१०]

ता उ वै षडेव । यद्धि विकर्णी च स्वयमातृणा च षष्ठ्या एव तच्चितेः

८.५.४.[११]

ता उ वै पञ्चैव । यजुषान्यासु पुरीषं निवपति तूष्णीमत्र तेनैषा न चितिरथो
लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकन्पृणामुपधाति तेनो एवैषा न चितिः

८.५.४.[१२]

ता उ वै तिस्र एव । अयमेव लोकः प्रथमा चितिर्द्यौरुत्तमाथ या
एतास्तिस्रस्तदन्तरिक्षं तद्वा इदमेकमिवैवान्तरिक्षं ता एवं तिस्र एवं पञ्चैवं
षडेवं सप्त

८.६.१.[१]

नाकसद उपदधाति । देवा वै नाकसदोऽत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र
नाकः स्वर्गो लोकस्तस्मिन्देवा असीदंस्तद्यदेतस्मिन्नाके स्वर्गे लोके देवा
असीदंस्तस्माद्देवा नाकसदस्तथैवैतद्यजमानो यदेता
उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति

८.६.१.[२]

यद्वेव नाकसद उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता
स्तोमभागास्तेऽब्रुवन्नुप तज्जानीत यथास्मिन्नाके स्वर्गे लोके सीदामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्नाके स्वर्गे
लोके सीदामेति

८.६.१.[३]

ते चेतयमानाः । एता इष्टका अपश्यन्नाकसदस्ता उपादधत ताभिरेतस्मिन्नाके स्वर्गे
लोकेऽसीदंस्तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तस्मादेता
नाकसदस्तथैवैकद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके
सीदति
८.६.१.[४]

दिक्षूपदधाति । दिशो वै स नाकः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके
सादयत्यृतव्यानां वेलया संवत्सरो वा ऋतव्याः संवत्सरः स्वर्गो लोकः स्वर्ग एवैना
एतल्लोके सादयत्यन्तस्तोमभागमेष वै स नाकः स्वर्गो लोकस्तस्मिन्नेवैना
एतत्प्रतिष्ठापयति

८.६.१.[५]

स पुरस्तादुपदधाति । राज्ञ्यति प्राची दिगिति राज्ञी ह नामैषा प्राची दिग्वसवस्ते
देवा अधिपतय इति वसवो हैतस्य दिशो देवा अधिपतयोऽग्निर्हेतीनाम्
प्रतिधर्तेत्यग्निर्हैवात्र हैतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्विति
त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिताज्यमुक्थमव्यथायै स्तभ्नात्वित्याज्येन
हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष इति
रथन्तरेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति प्राणा
वा ऋषयः प्रथमजास्तद्धि ब्रह्म प्रथमजं दिवो मात्रया वरिम्णा प्रथन्त्विति
यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद्विधर्ता चायमधिपतिश्चेति वाक्च तौ
मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे
लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः

८.६.१.[६]

अथ दक्षिणतः । विराडसि दक्षिणा दिगिति विराड्ढ नामैषा दक्षिणा दिग्रुद्रास्ते
देवा अधिपतय इति रुद्रा हैतस्य दिशो देवा अधिपतय इन्द्रो हेतीनाम्
प्रतिधर्तेतीन्द्रो हैवात्र हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां
श्रयत्विति पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता प्रौगमुक्थमव्यथायै
स्तभ्नात्विति प्रौगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा बृहत्साम
प्रतिष्ठित्या अन्तरिक्ष इति बृहता हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः

८.६.१.[७]

अथ पश्चात् । सम्राडसि प्रतीची दिगिति सम्राड्ढ नामैषा प्रतीचि दिगादित्यास्ते देवा
अधिपतय इत्यादित्या हैतस्यै दिशो देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तेति
वरुणो हैवात्र हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति
सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता मरुत्वतीयमुक्थमव्यथायै
स्तभ्नात्विति मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैरूपं साम
प्रतिष्ठित्या अन्तरिक्ष इति वैरूपेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः

८.६.१.[८]

अथोत्तरतः स्वराडस्युदीची दिगिति स्वराड्ढ नामैषोदीची दिङ्मरुतस्ते देवा
अधिपतय इति मरुतो हैतस्यै दिशो देवा अधिपतयः सोमो हेतीनां प्रतिधर्तेति
सोमो हैवात्र हेतीनां प्रतिधर्तैकविंशस्त्वा स्तोमः पृथिव्यां
श्रयत्वित्येकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता निष्केवल्यमुक्थमव्यथायै
स्तभ्नात्विति निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वै राजं साम
प्रतिष्ठित्या अन्तरिक्ष इति वैराजेन हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः

८.६.१.[९]

अथ मध्ये । अधिपत्न्यसि बृहती दिगित्यधिपत्नी ह नामैषा बृहती दिग्विश्वे ते
देवा अधिपतय इति विश्वे हैतस्यै दिशो देवा अधिपतयो बृहस्पतिर्हेतीना
प्रतिधर्तेति बृहस्पतिर्हैवात्र हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ
पृथिव्यां श्रयतामिति त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्यां पृथिव्यां श्रिता
वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतामिति वैश्वदेवाग्निमारुताभ्यां
हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा शाक्वररैवते सामनी प्रतिष्ठित्या
अन्तरिक्ष इति शाक्वररैवताभ्यां हैषा सामभ्यां प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः

८.६.१.[१०]

एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामात्मा यज्ञमेव तद्देवा आत्मानं
कृत्वैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानो यज्ञमेवात्मानं
कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति

८.६.१.[११]

अथ पञ्चचूडा उपदधाति । यज्ञो वै नाकसदो यज्ञ उ एव पञ्चचूडास्तद्य इमे
चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदो होत्राः पञ्चचूडा अतिरिक्तं वै
तद्यद्धोत्रा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्ता तस्मात्पञ्चचूडाः

८.६.१.[१२]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदो मिथुनं पञ्चचूडा
अर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः
कृत्स्नतायै

८.६.१.[१३]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदः प्रजा पञ्चचूडा अतिरिक्तं
वै तदात्मनो यत्प्रजा यदु वा अतिरिक्तं चूडः स
तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः

८.६.१.[१४]

यद्वेव नाकसत्पञ्चचूडा उपदधाति । दिशो वै नाकसदो दिश उ एव पञ्चचूडास्तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा अतिरिक्ता वै ता दिशो या अमुष्मादादित्यात्पराच्यो यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः

८.६.१.[१५]

यद्वेव पञ्चचूडा उपदधाति । एतद्वै देवा अबिभयुर्यद्वै न इमाँल्लोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत - य एते हेतयश्च प्रहेतयश्च। तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते य एते हेतयश्च प्रहेतयश्च।

८.६.१.[१६]

स पुरस्तादुपदधाति । अयं पुरो हरिकेश इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्धरिकेश इत्याह हरिरिव ह्यग्निः सूर्यरश्मिरिति सूर्यस्येव ह्यग्ने रश्मयस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविति वासन्तिकौ तावृतू पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यद्वै सेनायां च समितौ चऽर्तीयन्ते दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यदन्योऽन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति तेनो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत
स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि

८.६.१.[१७]

अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम्
पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव
भूयिष्ठं वाति तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मौ
तावृतू मेनका च सहजन्या चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरिमे तु
ते द्यावापृथिवी यातुधाना हेती रक्षांसि प्रहेतिरिति यातुधाना हैवात्र हेती रक्षांसि
प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः

८.६.१.[१८]

अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष
उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम्
प्रत्यञ्चमेव यन्तं पश्यन्ति तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्याविति
वार्षिकौ तावृतू प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह
माहित्थिरहोरात्रे तु ते ते हि प्र च म्लोचतोऽनु च म्लोचतो व्याघ्रा हेतिः सर्पाः
प्रहेतिरिति व्याघ्रा हैवात्र हेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्त्वितितस्योक्तो बन्धुः

८.६.१.[१९]
अथोत्तरतः । अयमुत्तरात्संयद्वसुरिति यज्ञो वा
उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरतौपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह
यज्ञं हि संयन्तीतीदं वस्विति तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्याविति
शारदौ तावृतूविश्वाची च घृताची चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह
माहित्थिर्वेदिश्च तु ते स्रुक्च वेदिरेव विश्वाची स्रुग्घृताच्यापो हेतिर्वातः
प्रहेतिरित्यापो हैवात्र हेतिर्वातः प्रहेतिरतो ह्येवोष्णो वात्यतः शीतस्तेभ्यो नमो
अस्त्विति तस्योक्तो बन्धुः

८.६.१.[२०]

अथ मध्ये । अयमुपर्यर्वाग्वसुरिति पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि
पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते
तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू उर्वशी च
पूर्वचित्तिश्चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिराहुतिश्च तु ते दक्षिणा
चावस्फूर्जन्हेतिर्विद्युत्प्रहेतिरित्यवस्फूर्जन्हैवात्र हेतिर्विद्युत्प्रहेतिस्तेभ्यो
नमो अस्त्विति तस्योक्तो बन्धुः

८.६.१.[२१]

एते वै ते हेतयश्च प्रहेतयश्च । यांस्तद्देवा एषां
लोकानामुपरिष्टाद्गोप्तॄनकुर्वताथ यास्ताः प्रजा एते ते सेनानीग्रामण्योऽथ
यत्तन्मिथुनमेतास्ता अप्सरसः सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह
मिथुनेनैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानः सर्व एव कृत्स्नो
भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति

८.६.१.[२२]

ता वा एताः । दशेष्टका उपदधाति दशाक्षरा विराड्विराडेषा चितिस्ता उ वै पञ्चैव
द्वेद्वे ह्युपदधाति ता हैता अग्नेराशिषस्ता उत्तमायां चिता उपदधात्यन्त एषो
ऽग्नेर्यदुत्तमा चितिरन्ततस्तदग्नेराशिषो निराह पञ्च भवन्ति पञ्च हि यज्ञ आशिषो
ऽथैने अन्तरा पुरीषं निवपत्यग्नी हैतौ यदेते इष्टके नेदिमावग्नी संशोचात
इत्यथो अन्नं वै पुरीषमन्नेनैवाभ्यामेतत्संज्ञां करोति

८.६.१.[२३]

अथातोऽन्वावृतम् । पुरस्तादुपधाय दक्षिणतः पश्चादुत्तरतो मध्य
उपदधात्यथोत्तराः पुरस्तादेवाग्र उपधाय दक्षिणत उत्तरतो मध्ये
पश्चादुपदधात्यवस्तात्प्रपदनो ह स्वर्गो लोक एतद्वै देवा इमांलोकान्त्सर्वतः
समपिधायावस्तात्स्वर्गं लोकं प्रापद्यन्त तथैवैतद्यजमान
इमांलोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रपद्यते

८.६.२.[१]

च्छन्दस्या उपदधाति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र श्रियमैच्छन्नो हैषो
ऽतः पुरा तस्मा अलमास यच्रियमधारयिष्यत्तस्मादिदमप्येतर्ह्याहुर्न वा एषो
ऽलं श्रियै धारणाय राज्याय वा ग्रामणीथ्याय वेति तस्मै देवा एतां श्रियम्
प्रायच्छन्नेताश्छन्दस्याः पशवो छन्दांस्यन्नं पशवोऽन्नमु श्रीः

८.६.२.[२]

त्रिचान्युपदधाति । त्रिवृद्वै पशुः पिता माता पुत्रोऽथो गर्भ उल्बं जरायुअथो
त्रिवृद्वा अन्नं कृषिर्वृष्टिर्वीजमेकैवातिच्छन्दा भवत्येका ह्येव सा सर्वाणि
छन्दांस्यति सा या सा श्रीर्महत्तदुक्थं तद्यत्तन्महदुक्थमेतास्ताश्छन्दस्याः

८.६.२.[३]

तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभोऽनूकं जगत्यः पक्षौ पङ्क्तयोऽथैतासां
ककुभां चत्वारि चत्वार्यक्षराण्यादायातिच्छन्दस्युपदधाति सा सातिच्छन्दा एव भवति
गायत्र्य इतराः सम्पद्यन्ते सैव गायत्र्यशीतिर्या बृहत्यः सा बार्हती या उष्णिहः
सौष्णिह्यथ यद्वशो यदर्धर्चौ यदैन्द्राग्नं यदावपनं तदतिच्छन्दा अथ
यन्नदो यत्सूददोहा यत्पदनुषङ्गा यत्किंचात्रानुष्टुप्कर्मीणं तदनुष्टुभः

८.६.२.[४]

प्रतिष्ठा द्विपदाः । एतावद्वै महदुक्थं महदुक्थं श्रीः सर्वामेवास्मा एतां
देवाः प्रायचंस्तथैवास्मा अयमेतां सर्वां श्रियं प्रयच्छति

८.६.२.[५]

यद्वेव च्छन्दस्या उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता
स्तोमभागास्तस्मिन्नविशंस्तेषां विशतां प्रजापतिरुत्तमोऽविशत्स यः स
प्रजापतिरेतास्ताश्छन्दस्याः

८.६.२.[६]

तस्य शिरो गायत्र्यः । ता यद्गायत्र्यो भवन्ति गायत्रं हिशिरस्तिस्रो भवन्ति त्रिवृद्धि
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः

८.६.२.[७]

उरस्त्रिष्टुभः । ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचा उरो वै प्रति
पृष्टयः

८.६.२.[८]

श्रोणी जगत्यः । स यावति पुरस्तात्स्वयमातृणायै त्रिष्टुभ उपदधाति तावति
पश्चाज्जगतीर्यो वा अयं मध्ये प्राणस्तदेषा स्वयमातृणा यावत्यु वा
एतस्मात्प्राणात्पुरस्तादुरस्तावति पश्चाच्रोणी

८.६.२.[९]

सक्थ्यावनुष्टुभः । ता अनन्तर्हिता जगतीभ्य उपदधात्यनन्तर्हिते तच्रोणिभ्यं
सक्थ्यो दधाति

८.६.२.[१०]

पर्शवो बृहत्यः । कीकसाः ककुभः सोऽन्तरेण त्रिष्टुभश्च ककुभश्च
बृहतीरुपदधाति तस्मादिमा उभयत्र पर्शवो बद्धाः कीकसासु च जत्रुषु च

८.६.२.[११]

ग्रीवा उष्णिहः । ता अनन्तर्हिता गायत्रीभ्य उपदधात्यनन्तर्हितास्तचीर्ष्णो ग्रीवा
दधाति

८.६.२.[१२]

पक्षौ पङ्क्तयः । ता यत्पङ्क्तयो भवन्ति पाङ्क्तौ हि पक्षौ पार्श्वत उपदधाति
पार्श्वतो हीमौ पक्षौ यद्वर्षीयश्छन्दस्तद्दक्षिणत उपदधाति दक्षिणं
तदर्धं पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोवीर्यवत्तरः

८.६.२.[१३]

उदरमतिच्छन्दाः । पशवो वै छन्दांस्यन्नं पशव उदरं वा अन्नमत्त्युदरं हि
वा अन्नमत्ति तस्माद्यदोदरमन्नं प्राप्नोत्यथ तज्जग्धं यातयामरूपम्
भवति तद्यदेषा पशूंश्चन्दांस्यत्ति तस्मादत्तिच्छन्दा अत्तिच्छन्दा ह वै तामतिच्छन्दा
इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः

८.६.२.[१४]

योनिः पुरीषवती । ते संसोऋष्टे उपदधाति संस्पृष्टे ह्युदरं च योनिश्च
पुरीशसंहिते भवतो मांसं वै पुरीषं मांसेन वा उदरं च योनिश्च संहिते
पूर्वातिच्छन्दा भवत्यपरा पुरीषवत्युत्तरं ह्युदरमधरा योनिः

८.६.२.[१५]

ते प्राच्या उपदधाति । प्राङ्ह्येषोऽग्निश्चीयतेऽथो प्राग्वै प्राच उदरं प्राची
योनिर्बहिस्तोमभागं हृदयं वै स्तोमभागा हृदयमु वा उत्तमथोदरमथ
योनिः

८.६.२.[१६]

ते दक्षिणतः स्वयमातृणाया उपदधाति । अथ प्रथमायां चिता उत्तररः
स्वयमातृणाया उदरं च योनिं चोपदधाति यो वा अयं मध्ये प्राणस्तदेषा
स्वयमातृणैतस्य तत्प्राणस्योभयत उदरं च योनिं च दधाति तस्मादेतस्य
प्राणस्योभयत उदरं च योनिश्च

८.६.२.[१७]

प्रतिष्ठा द्विपदाः । ता यद्द्विपदा भवन्ति द्वन्द्वं हि प्रतिष्ठा तिस्रो भवन्ति
त्रिवृद्धि प्रतिष्ठा पश्चादुपदधाति पश्चाधीयं प्रतिष्ठा

८.६.२.[१८]

सोऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स
सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतोऽन्यथा कुर्वन्ति दुष्कृतं ह
तस्यात्मानं कुर्वन्ति स ह स दुष्कृतमेवात्मानमभिसम्भवति

८.६.२.[१९]

तदेते सामनिधने अभ्युक्ते । अर्को देवानां परमे व्योमन्नर्कस्य देवाः परमे
व्योमन्नित्येतद्वै देवानां विशतां प्रजापतिरुत्तमोऽविशत्तस्मादाहार्को देवानाम्
परमे व्योमन्नित्यथ यदाहार्कस्य देवाः परमे व्योमन्नित्ययं वा
अग्निरर्कस्तस्यैतदुत्तमायां चितौ सर्वे देवा विष्टास्तस्मादाहार्कस्य देवाः परमे
व्योमन्निति

८.६.३.[१]

गार्हपत्यमुपदधाति । एतद्वै देवाः प्राप्य राद्ध्वेवामन्यन्त ते
ऽब्रुवन्केनेदमरात्स्मेति गार्हपत्येनैवेत्यव्रुवन्गार्हपत्यं वै चित्वा समारुह्य
प्रथमां चितिमपश्याम प्रथमायै द्वितीयां द्वितीयायै तृतीयां तृतीयायै चतुर्थीं
चतुर्थ्यै पञ्चमीं पञ्चम्या इदमिति

८.६.३.[२]

तऽब्रुवन् । उप तज्जानीत यथेयमस्मास्वेव राद्धिरसदिति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेयमस्मास्वेव
राद्धिरसदिति

८.६.३.[३]

ते चेतयमानाः । एतदपश्यन्निहेममाहृत्योपदधामहा इति तमिहाहृत्योपादधत
तस्मिन्व्यवदन्त वसवः पुरस्ताद्रुद्रा दक्षिणत आदित्याः पश्चान्मरुत उत्तरतो
विश्वे देवा उपरिष्टादिहोपदधामेहोपदधामेति

८.६.३.[४]

तेऽब्रुवन् । मध्य एवोपदधामहै स नो मध्य उपहितः सर्वेषाम्
भविष्यतीति तं मध्य उपादधत तदेतां राद्धिमात्मन्नदधत मध्यतो
मध्यत एवैतदेतां राद्धिमात्मन्नदधत तथैवैतद्यजमानो
यद्गार्हपत्यमुपदधात्येतामेवैतद्राद्धिमात्मन्धत्ते मध्यतो मध्यत
एवैतदेतां राद्धिमात्मन्धत्ते

८.६.३.[५]

यद्वेव गार्हपत्यमुपदधाति । अन्नं वै गार्हपत्योऽत्तायमग्निश्चितोऽत्त्र
एवैतदन्नमपिदधाति मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति

८.६.३.[६]

यद्वेव गार्हपत्यमुपदधाति । वेदिर्वै देवलोकोऽथ वा एष बहिर्वेदि चितो
भवति तं यदिहाहृत्योपदधाति तदेनं वेदौ देवलोके प्रतिष्ठापयति

८.६.३.[७]

यद्वेव गार्हपत्यमुपदधाति । योनिर्वै पुष्करपर्णमथ वा एष बहिर्योनि चितो
भवति बहिर्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्तं
यदिहाहृत्योपदधाति तदेनं योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैषो
ऽबहिर्धा भवत्यष्टाविष्टका उपदधाति तस्योक्तो बन्धुस्तं वा एतैरेव
यजुर्भिरेतयावृता चिनोति यो ह्येवासौ स एवायं तमेवैतदाहृत्येहोपदधाति

८.६.३.[८]

अथ पुनश्चितिमुपदधाति । एतद्वै देवा गार्हपत्यं चित्वा तस्मिन्राद्धिं
नापश्यन्योनिर्वै गार्हपत्या चितिरेषो वै योने राद्धिर्यद्रेतः प्रजातिस्तस्यामेतस्यां
योनौ रेतः प्रजातिं नापश्यन्

८.६.३.[९]

तेऽब्रुवन् । उप तज्जानीत यथास्यां योनौ रेतः प्रजातिं दधामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्यां योनौ रेतः
प्रजातिं दधामेति
८.६.३.[१०]

ते चेतयमानाः । एतां पुनश्चितिमपश्यंस्तामुपादधत तदेतस्यां योनौ रेतः
प्रजातिमदधुर्मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः
प्रजातिमदधुस्तथैवैतद्यजमानो यत्पुनश्चितिमुपदधात्येतस्यामेवैतद्योनौ
रेतः प्रजातिं दधाति मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिं
दधाति

८.६.३.[११]

तां हैके जघनार्ध उपदधति । जघनार्धाद्वै रेतः सिच्यते पुच्छसंधौ
पुच्छाद्वै रेतः सिच्यत इति न तथा कुर्याद्बहिर्धा ह ते योने रेतः प्रजातिं दधति
ये तथा कुर्वन्ति मध्य एवोपदध्यात्तत्सम्प्रति योनौ रेतः प्रजातिं दधाति

८.६.३.[१२]

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति पञ्च कृत्वः सादयति पञ्चचितिकोऽग्निः
पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्रेतो भूतं सिञ्चत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश
त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति

८.६.३.[१३]

यद्वेव पुनश्चितिमुपदधाति । एतद्वा एतदयथायथं करोति
यदाहवनीयाद्गार्हपत्यमुत्तरं चिनोति तद्यत्पुनश्चितिमुपदधाति य
एवायमग्निश्चितस्तमेवैतदाहृत्यास्योपरिष्टात्पुनश्चिनोति तद्यच्चितं सन्तम्
पुनश्चिनोति तस्मात्पुनश्चितिः

८.६.३.[१४]

तद्धैके । जघनार्धे गार्हपत्यमुपदधति पूर्वार्धे पुनश्चितिमाहवनीयश्च
वा एतौ गार्हपत्यश्चैवं वा एतावग्नी इति न तथा कुर्यादयं वै लोको गार्हपत्यो
द्यौराहवनीय उत्तरो वा असावस्यै तस्मादेनामुत्तरामेवोपदध्यात्

८.६.३.[१५]

यद्वेव गार्हपत्यं च पुनश्चितिं चोपदधाति । वेदिश्च हैते अग्नेरुत्तरवेदिश्चाथ
ये अमू पूर्वे निवपत्यध्वरस्य ते अथ हैते अग्नेस्तद्यदेते उपधायाग्निं
निदधाति वेदौ चैवैनमेतदुत्तरवेदौ च प्रतिष्ठापयति
८.६.३.[१६]

यद्वेव पुनश्चितिमुपदधाति । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या
पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो
नमति

८.६.३.[१७]

यद्वेव पुनश्चितिमुपदधाति । यं वै तं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वन्त्स
एष तमेवैतत्पुनश्चिनोति तद्यच्चितं सन्तं पुनश्चिनोति तस्माद्वेव पुनश्चितिः

८.६.३.[१८]

येन ऋषयस्तपसा सत्त्रमायन्निति । अमूनेतदृषीनाहेन्धाना अग्निं स्वराभरन्त
इतीन्धाना अग्निं स्वर्गं लोकमाहरन्त इत्येतत्तस्मिन्नहं निदधे नाके अग्निमिति
स्वर्गो वै लोको नाको यमाहुर्मनव स्तीर्णबर्हिषमिति ये विद्वांसस्ते मनव
स्तीर्णबर्हिषमिति सर्वदा हैव स स्तीर्णबर्हिः

८.६.३.[१९]

तं पत्नीभिरनुगच्छेम देवाः । पुत्रैर्भ्रातृभिरुत वा हिरण्यैरित्येतेनैनं
सर्वेणानुगच्छेमेत्येतन्नाकं गृभ्णानाः सुकृतस्य लोक इति स्वर्गो वै लोको नाकः
स्वर्गं लोकं गृह्णानाः सुकृतस्य लोक इत्येतत्तृतीये पृष्ठे अधि रोचने दिव
इत्येतद्ध तृतीयं पृष्ठं रोचनं दिवो यत्रैष एतत्तपति

८.६.३.[२०]

आ वाचो मध्यमरुहद्भुरण्युरिति । एतद्ध वाचो मध्यं यत्रैष एतच्चीयते
भुरण्युरिति भर्तैत्येतदयमग्निः सत्पतिश्चेकितान इत्ययमग्निः सताम्
प्रतिश्चेतयमान इत्येतत्पृष्ठे पृथिव्या निहितो दविद्युतदिति पृष्ठे पृथिव्या निहितो
दीप्यमान इत्येतदधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुतां
सर्वान्पाप्मन इत्येतत्

८.६.३.[२१]

अयमग्निर्वीरतमो वयोधा इति । अयमग्निर्वीर्यवत्तमो वयोधा इत्येतत्सहस्रियो
द्योततामप्रयुच्छन्निति सहस्रियो दीप्यतामप्रमत्त इत्येतद्विभ्राजमानः सरिरस्य
मध्य इतीमे वै लोकाः सरिरं दीप्यमान एषु लोकेष्वित्येतदुप प्रत्याहि दिव्यानि
धामेत्युप प्रयाहि स्वर्गं लोकमित्येतत्

८.६.३.[२२]

सम्प्रच्यवध्वमुप सम्प्रयातेति । अमूनेतदृषीनाह समेनम्
प्रच्यवध्वमुप चैनं सम्प्रयातेत्यग्ने पथो देवयानान्कृणुध्वमिति यथैव
यजुस्तथा बन्धुः पुनः कृण्वाना पितरा युवानेति वाक्च वै मनश्च पितरा युवाना
वाक्च मनश्चैतावग्नी अन्वातांसीत्त्वयि तन्तुमेतमिति यो
ऽसावृषिभिस्तन्तुस्ततस्तमेतदाह

८.६.३.[२३]

उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिति । इममेतदग्निमाहोच्चैनं बुध्यस्व प्रति
चैनं जागृहीतीष्टापूर्ते संसृजेथामयं चेति यथैव यजुस्तथा
बन्धुरस्मिन्त्सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा
यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमानं सादयति

८.६.३.[२४]

येन वहसि सहस्रम् । येनाग्ने सर्ववेदसमित्येतद्धास्य प्रतिज्ञाततमं धाम
येन सहस्रं वहति येन सर्ववेदसं तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तव
इति तेन न इमं यज्ञं नय स्वर्गं लोकं देवेषु गन्तव इत्येतदयं ते
योनिर्ऋत्विय इति तस्योक्तो बन्धुरष्टाविष्टका उपदधाति तस्यो एवोक्तः

८.७.१.[१]

ऋतव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति तदेतत्सर्वं
यदृतव्याः संवत्सरो वा ऋतव्याः संवत्सर इदं
सर्वमिदमेवैतत्सर्वमुपदधात्यथो प्रजननमेतत्संवत्सरो वा ऋतव्याः
संवत्सरः प्रजननं प्रजननमेवैतदुपदधाति

८.७.१.[२]

यद्वेवऽर्तव्या उपदधाति । क्षत्र वा ऋतव्या विश इमा इतरा इष्टकाः क्षत्रं
तद्विश्यत्तारं दधाति ताः सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं
दधाति

८.७.१.[३]

यद्वेवऽर्तव्या उपदधाति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः
संवत्सरमेवैतदृतुभिः संतनोति संदधाति ता वै नानाप्रभृतयः समानोदर्का
ऋतवो वा असृज्यन्त ते सृष्टा नानैवासन्

८.७.१.[४]

तेऽब्रुवन् । न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुं रूपैः समायामेति त
एकैकमृतुं रूपैः समायंस्तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूनां रूपं ता
यन्नानाप्रभृतयो नाना ह्यसृज्यन्ताथ यत्समानोदर्का रूपैर्हि समायन्
८.७.१.[५]

स उपदधाति । तपश्च तपस्यश्च शैशिरावृतू इति नामनी एनयोरेते नामभ्यामेवैने
एतदुपदधात्यसौ वा आदित्यस्तपस्तस्मादेतावृतू अनन्तर्हितौ तद्यदेतस्मादेतावृतू
अनन्तर्हितौ तस्मादेतौ तपश्च तपस्यश्च

८.७.१.[६]

अग्नेरन्तःश्लेषोऽसीति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः
संवत्सरमेवैतदृतुभिः संतनोति संदधाति कल्पेतां द्यावापृथिवी कल्पन्तामाप
ओषधय इतीदमेवैतत्सर्वमृतुभिः कल्पयति कल्पन्तामग्नयः पृथङ्नम
ज्यैष्ठ्याय सव्रता इत्यग्नयो हैते पृथग्यदेता इष्टकास्ते
यथानयोर्ऋत्वोर्ज्यैष्ठ्याय कल्पेरन्नेवमेतदाह ये अग्नयः समनसोऽन्तरा
द्यावापृथिवी इमे इति यथैव यजुस्तथा बन्धुः शैशिरावृतू अभिकल्पमाना
इन्द्रमिव देवा अभिसंविशन्त्विति यथेन्द्रं देवा अभिसंविष्टा एवमिमावृतू
ज्यैष्ठ्यायाभिसंविशन्त्वित्येतद्द्वे इष्टके भवतो द्वौ हि मासावृतुः
सकृत्सादयत्येकं तदृतुं करोति

८.७.१.[७]

तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य द्यौरेव
पञ्चमी चितिर्द्यौरस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति

८.७.१.[८]

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य शिर एव
पञ्चमी चितिः शिरोऽस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति

८.७.१.[९]

स पुरस्तात्स्वयमातृणायै च विश्वज्योतिषश्चऽर्तव्ये उपदधाति । द्यौर्वा उत्तमा
स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिवश्चादित्याच्चऽर्तून्दधाति
तस्मादर्वाचीनमेवात ऋतवोऽथो प्रजननमेतदर्वाचीनं तद्दिवश्चादित्याश्च
प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते स्थितं हैवातः
पराक्प्रजननं यावन्तो ह्येव सनाग्रे देवास्तावन्तो देवाः

८.७.१.[१०]

अथ प्रथमायै स्वयमातृणायै प्रथमायै च विश्वज्योतिष उपरिष्टादृतव्ये
उपदधाति । इयं वै प्रथमा स्वयमातृणाग्निः प्रथमा
विश्वज्योतिस्तदूर्ध्वानृतून्दधाति तस्मादित ऊर्ध्वा ऋतवोऽथो
प्रजननमेतदितस्तदूर्ध्वं प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते

८.७.१.[११]

ता न व्यूहेत् । नेदृतून्व्यूहानीति यो वै म्रियत ऋतवो ह तस्मै व्युह्यन्ते
तस्माद्यत्रैव प्रथमे उपदधाति तत्सर्वा उपदध्यात्

८.७.१.[१२]

अथो इमे वै लोका ऋतव्याः । इमांस्तल्लोकानूर्ध्वांश्चितिभिश्चिनोत्यथो क्षत्रं वा
ऋतव्याः क्षत्रं तदूर्ध्वं चितिभिश्चिनोत्यथो संवत्सरो वा ऋतव्याः संवत्सरं
तदूर्ध्वं चितिभिश्चिनोति ता नान्यया
यजुष्मत्येष्टकयोपरिष्टादभ्युपदध्यान्नेत्क्षत्रं विशाभ्युपदधानीति

८.७.१.[१३]

ता हैता एव संयान्यः । एतद्वै देवा
ऋतव्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमान
ऋतव्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः

८.७.१.[१४]

तदु ह चरकाध्वर्यवः । अन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव
रेचयन्त्येता उ एव संयान्यः

८.७.१.[१५]

अथ विश्वज्योतिषमुपदधाति । आदित्यो वा उत्तमा विश्वज्योतिरादित्यो ह्येवामुष्मिंलोके
विश्वज्योतिरादित्यमेवैतदुपदधाति

८.७.१.[१६]

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति

८.७.१.[१७]

स पुरस्तात्स्वयमातृणायै विश्वज्योतिषमुपदधाति । द्यौर्वा उत्तमा
स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिव आदित्यं दधाति तस्मादेषो
ऽर्वाचीनमेवातस्तप त्यथो प्रजननमेतदर्वाचीनं तद्दिवः प्रजननं दधाति
तस्मादर्वाचीनमेवातः प्रजायते
८.७.१.[१८]

अथ प्रथमायै स्वयमातृणायै । उपरिष्टाद्विश्वज्योतिषमुपदधातीयं वै
प्रथमा स्वयमातृणाग्निः प्रथमा विश्वज्योतिरितस्तदूर्ध्वमग्निं दधाति
तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽथो प्रजननमेतदितस्तदूर्ध्वं प्रजननं
दधाति तस्मादित ऊर्ध्वमेव प्रजायते

८.७.१.[१९]

अथ मध्यमायै स्वयमातृणायै । उपरिष्टाद्विश्वज्योतिषमुपदधात्यन्तरिक्षं
वै मध्यमा स्वयमातृणा वायुर्मध्यमा विश्वज्योतिरन्तरिक्षे तद्वायुं दधाति
तस्मादयमन्तरिक्षे वायुः

८.७.१.[२०]

तान्येतानि ज्योतींषि । तद्यदेता एवमुपदधात्येतान्येवैतज्ज्योतींषि सम्यञ्चि दधाति
तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽर्वाङ्सावादित्यस्तपत्यन्तरिक्षेऽयं तिर्यङ्वायुः पवते

८.७.१.[२१]

परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं
चितिमपश्यद्दिवस्पृष्ठे ज्योतिष्मतीमिति दिवो ह्यसौ पृष्ठे ज्योतिष्मानादित्यः

८.७.१.[२२]

विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतत्सूर्यस्तेऽधिपतिरिति सूर्यमेवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः

८.७.१.[२३]

ता हैता एव संयान्यः । एतद्वै देवा
विश्वज्योतिर्भिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो
विश्वज्योतिर्भिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतुश्चार्वाचः

८.७.१.[२४]

तदु ह चरकाध्वर्यवो ।ऽन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव
रेचयन्त्येता उ एव संयान्यः
८.७.२.[१]

अथ लोकम्पृणामुपदधाति । असौ वा आदित्यो लोकम्पृणैष
हीमांलोकान्पूरयत्यमुमेवैतदादित्यमुपदधाति तां सर्वासु चितिषूपदधातीमे
वै लोका एताश्चितयोऽमुं तदादित्यमेषु लोकेषु दधाति तस्मादेष सर्वेभ्य
एवैभ्यो लोकेभ्यस्तपति

८.७.२.[२]

यद्वेव लोकम्पृणामुपदधाति । क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः
क्षत्रं तद्विश्यत्तारं दधाति तां सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि
क्षत्रमत्तारं दधाति

८.७.२.[३]

सैषैकैव भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोत्यथ या द्वितीया
मिथुनं तदर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वो
ऽथ कृत्स्नः कृत्स्नताया एकेन यजुषा बह्वीरिष्टका उपदधाति क्षत्रं
तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यथेतराः पृथङ्नाना
यजुर्भिरुपदधाति विशं तत्क्षत्रादवीर्यतरां करोति पृथग्वादिनीं नानाचेतसम्

८.७.२.[४]

स वा अस्यां स्रक्त्यां प्रथमे उपदधाति । अमुं तदादित्यमेतस्यां दिशि
पधात्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतो
ऽनुपर्यैत्यथातस्तस्मादतोऽनुपर्यैति

८.७.२.[५]

स यद्यत्रैव प्रथमे उपदधाति । तदुत्तमे अनूपदध्यात्सकृद्धैवासावादित्य
इमांलोकान्पर्येत्य नातिप्रच्यवेतातिहृत्य पूर्वे उत्तमे अनूपदधात्यमुं
तदादित्यमिमांलोकानतिप्रच्यावयति तस्मादसावादित्य इमांलोकानसंस्थितो
दक्षिणावृत्पुनः पुनरनुपर्यैति

८.७.२.[६]

लोकं पृण च्छिद्रं पृणेति । लोकं च पूरय च्छिद्रं च पूरयेत्येतदथो सीद ध्रुवा
त्वमित्यथो सीद स्थिरा त्वं प्रतिष्ठितेत्येतदिन्द्राग्नी त्वा
बृहस्पतिरस्मिन्योनावसीषदन्नितीन्द्राग्नी च त्वा बृहस्पतिश्चास्मिन्योनौ
प्रत्यतिष्ठिपन्नित्येतदनुष्टुभा वाग्वा अनुष्टुब्वागिन्द्र इन्द्रो लोकम्पृणा न
सादयत्यसन्नो ह्येष सूददोहसा वदति प्राणो वै सूददोहाः
प्राणेनैवैनमेतत्संतनोति संदधाति
८.७.२.[७]

तदाहुः । कथमेषा लोकम्पृणायातयाम्नी भवतीत्यसौ वा आदित्यो
लोकम्पृणायातयामा वा एषोऽथो वाग्वै लोकम्पृणायातयाम्न्यु वै वाक्

८.७.२.[८]

स वै यजुष्मतीरुपधाय । लोकम्पृणया प्रच्छादयत्यन्नं वै यजुष्मत्य इष्टका
आत्मा लोकम्पृणान्नं तदात्मना परिदधाति तस्मादन्नमात्मना परिहितमात्मैव
भवति

८.७.२.[९]

स वा आत्मन्नेव । यजुष्मतीरुपदधाति न पक्षपुच्छेष्वात्मंस्तदन्नं दधाति
यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ
यत्पक्षपुच्छेषु नैव तदात्मानमवति न पक्षपुच्छानि

८.७.२.[१०]

उभयीर्यजुष्मतीश्च लोकम्पृणाश्चात्मन्नुपदधाति । तस्मादयमात्मा द्विगुणो
बहुलतर इव लोकम्पृणा एव पक्षपुच्छेषु तस्मात्पक्षपुच्छानि तनीयांसीवानूचीश्च
तिरश्चीत्मन्नुपदधात्यस्थीनि वा इष्टकास्तस्मादिमान्यन्वञ्चि च तिर्यञ्चि
चात्मन्नस्थीनि पराचीरेव पक्षपुच्छेषु न हि किं चन पक्षपुच्छेषु
तिर्यगस्थ्यस्ति तद्धैतदेव चितस्य चाचितस्य च विज्ञानमेवमेव चित इतरथाचितः

८.७.२.[११]

स वै स्वयमातृणां लोकम्पृणया प्रच्छादयति । प्राणो वै स्वयमातृणादित्यो लोकम्पृणा
प्राणं तदादित्येन समिन्द्धे तस्मादयमुष्णः प्राणस्तया सर्वमात्मानम्
प्रच्छादयति सर्वं तदात्मानमादित्येन समिन्द्धे तस्मादयं सर्व
एवात्मोष्णस्तद्धैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानमुष्ण एव जीविष्यञ्चीतो
मरिष्यन्

८.७.२.[१२]

स यस्यां स्रक्त्यां प्रथमे उपदधाति । ततो दशभिर्दशभिः संच्छादयन्नेत्या
स्वयमातृणायै स तेनैव दक्षिणावृज्जघनेन स्वयमातृणां संच्छादयन्नेत्यानूक्याया
अथ पुनरेत्य तमवधिं संच्छादयति

८.७.२.[१३]

आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्राथो एवं वा असावादित्य
इमांलोकान्दक्षिणावृदनुपर्यैति

८.७.२.[१४]

स एष प्राण एव यल्लोकम्पृणा । तया सर्वमात्मानं प्रच्छादयति
सर्वस्मिस्तदात्मन्प्राणं दधाति तद्यद्धास्यैषाङ्गं नाभिप्राप्नुयात्प्राणो हास्य
तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वै
तन्म्लायति वा तस्मादेनं सर्वमेवैतया प्रच्छादयेत्

८.७.२.[१५]

स वा आत्मन एवाधि पक्षपुच्छानि चिनोति । आत्मनो ह्येवाध्यङ्गानि प्ररोहन्त्यथ
यत्पुरस्तादर्वाचीरुपदध्याद्यथान्यत आहृत्याङ्गं प्रतिदध्यात्तादृक्तत्

८.७.२.[१६]

न भिन्नां न कृष्णामुपदध्यात् । आर्चति वा एषा या भिद्यत आर्तम्वेतद्रूपं
यत्कृष्णं नेदार्तमात्मानमभिसंस्करवा इति नाभिन्नाम्
परास्येन्नेदनार्तमात्मनो बहिर्धा करवाणीति धिष्ण्येभ्यः प्रतिसंख्याय या
विराजमतिरिच्येरन्नोत्तरामुद्भवेयुस्तद्वै खलु ता आर्चन्ति ता भित्त्वोत्कर
उत्किरेदुत्करो वा अतिरिक्तस्य प्रतिष्ठा तद्यत्रातिरिक्तस्य प्रतिष्ठा तदेवैना
एतत्प्रतिष्ठापयति

८.७.२.[१७]

अथात इष्टकामात्राणामेव । पादमात्रीः प्रथमायां चोत्तमायां च
चित्योरुपदध्यात्प्रतिष्ठा वै पादो यो वै पादः स हस्त ऊर्वस्थमात्र्यो वर्षिष्ठाः
स्युर्न ह्यूर्वस्थात्किं चन वर्षीयोऽस्थ्यस्ति त्र्यालिखितवत्यस्तिस्रश्चितयः स्युस्त्रिवृतो
हीमे लोका अपरिमितालिखिते द्वे रसो हैते चिती अपरिमित उ वै रसः सर्वास्त्वेव
त्र्यालिखितवत्यः स्युः सर्वे ह्येवेमे लोकास्त्रिवृतः

८.७.२.[१८]

अथात इष्टकानामेवावपनस्य । यां कां च यजुष्मतीमिष्टकां विद्यात्ताम्
मध्यमायां चिता उपदध्यादन्तरिक्षं वै मध्यमा चितिरन्तरिक्षमु वै
सर्वेषां भूतानामावपनमथो अन्नं वै यजुष्मत्य इष्टका उदरं मध्यमा
चितिरुदरे तदन्नं दधाति

८.७.२.[१९]

तदाहुः । नोपदध्यान्नेदतिरेचयानीति स वा उपैव दध्यात्कामेभ्यो वा एता इष्टका
उपधीयन्ते न वै कामानामतिरिक्तमस्ति स वै नैवोपदध्यादेतावद्वा एतद्देवा
अकुर्वन्

८.७.३.[१]

अथ पुरीषं निवपति । मांसं वै पुरीषं मांसेनैवैनमेतत्प्रच्छादयतीष्टका
उपधायास्यीष्टका अस्थि तन्मांसैः संच्छादयति

८.७.३.[२]

स वै स्वयमातृणायामावपति । प्राणो वै स्वयमातृणान्नं पुरीषं प्राणे तदन्नं
दधाति तेन सर्वमात्मानं प्रच्छादयति तम्माद्यत्प्राणेऽन्नं धीयते
सर्वमात्मानमवति सर्वमात्मानमनुव्येति

८.७.३.[३]

न स्वयमातृणायामावपेदित्यु हैक आहुः । प्राणः स्वयमातृणा
नेत्प्राणानपिदधानीति
स वा ऐव वपेदन्नेन वै प्राणा विष्टब्धा यो वा अन्नं नात्ति सं वै तस्य प्राणा
रोहन्ति तद्यस्य ह तथा कुर्वन्ति यथा शुष्का सूर्मी सुषिरैवं ह सो
ऽमुष्मिंलोके सम्भवति तस्मात्स्वयमातृणायामैव वपेत्

८.७.३.[४]

स्वयमातृणायामोप्य । अनूक्यया संच्छादयन्नेत्या परिश्रिद्भ्यः स तेनैव
दक्षिणावृज्जघनेन स्वयमातृणां संच्छादयन्नैत्या पुनरनूक्यायै

८.७.३.[५]

आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा

८.७.३.[६]

स एष प्राण एव यत्पुरीषम् । तेन सर्वमात्मानं प्रच्छादयति
सर्वस्मिंस्तदात्मन्प्राणं दधाति तद्यद्धास्यैतदङ्गं नाभिप्राप्नुयात्प्राणो
हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वै
तन्म्लायति वा तस्मादेनं सर्वमेवैतेन प्रच्छादयेत्

८.७.३.[७]

इन्द्रं विश्वा अवीवृधन्निति । इन्द्रं हि सर्वाणि भूतानि वर्धयन्ति समुद्रव्यचसं
गिर इति महिमानमस्यैतदाह रथीतमं रथीनामिति रथितमो ह्येष रथिनां
वाजानां सत्पतिं पतिमित्यन्नं वै वाजा अन्नानां सत्पतिम्
पतिमित्येतदैन्द्र्यानुष्टुभा निवपत्यैन्द्रं हि पुरीषं
तदेतदर्धमग्नेर्यत्पुरीषमर्धमैष्टकम्

८.७.३.[८]

तदाहुः । यत्सर्वैश्छन्दोभिः सर्वाभिर्देवताभिरिष्टका
उपदधात्यथैतदेकयैकदेवत्यया निवपति कथमेतदर्धमग्नेरितीन्द्रो वै
सर्वान्देवान्प्रतिस्तद्यदैन्द्र्या निवपति तेनैतदर्धमग्नेरथ यदनुष्टुभा
वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि तेनो एवार्धम्

८.७.३.[९]

अथ विकर्णीं च स्वयमातृणां चोपदधाति । वायुर्वै विकर्णी द्यौरुत्तमा
स्वयमातृणा वायुं च तद्दिवं चोपदधात्युत्तमे उपदधात्युत्तमे हि वायुश्च
द्यौश्च संस्पृष्टे संस्पृष्टे हि वायुश्च द्यौश्च पूर्वां
विकर्णीमुपदधात्यर्वाचीनं तद्दिवो वायुं दधाति तस्मादेषोऽर्वाचीनमेव वातः
पवते

८.७.३.[१०]

यद्वेव विकर्णीमुपदधाति । यत्र वा अदोऽश्वं चितिमवघ्रापयन्ति तदसावादित्य
इमांलोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः स स यः स वायुरेषा सा विकर्णी
तद्यदेतामुपदधात्यसावेव तदादित्य इमांलोकान्त्सूत्रे समावयते

८.७.३.[११]

यद्वेव विकर्णीं च स्वयमातृणां चोपदधाति । आयुर्वै विकर्णी प्राणः
स्वयमातृणायुश्च तत्प्राणं चोपदधात्युत्तमे उपदधात्युत्तमे ह्यायुश्च प्राणश्च
संस्पृष्टे संस्पृष्टे ह्यायुश्च प्राणश्च पूर्वामुत्तरां विकर्णीमुपदधात्यायुषा
तत्प्राणमुभयतः परिगृह्णाति

८.७.३.[१२]

प्रोथदश्वो न यवसे ।ऽविष्यन्यदा महः संवरणाद्व्यस्थात् आदस्य वातो अनुवाति
शोचिरध स्म ते व्रजनं कृष्णमस्तीति यदा वा एतस्य वातोऽनुवाति शोचिरथैतस्य
व्रजनं कृष्णं भवति त्रिष्टुभोपदधाति त्रैष्टुभो हि वायुराग्नेय्याग्निकर्म
ह्यनिरुक्तयानिरुक्तो हि वायुरथ यद्वात इत्याह वातो हि वायुः

८.७.३.[१३]

अथ स्वयमातृणामुपदधाति । आयोष्ट्वा सदने सादयामीत्येष वा
आयुस्तस्यैतत्सदनमवत इत्येष हीदं सर्वमवति च्छायायामित्येतस्य हीदं सर्वं
च्छायायां समुद्रस्यह्येतद्धृदयं रश्मीवतीं भास्वतीमिति रश्मीवती हि
द्यौर्भास्वत्या या द्यां भास्या पृथिवीमोर्वन्तरिक्षमित्येवं ह्येष
इमांलोकानाभाति

८.७.३.[१४]

परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यन्

८.७.३.[१५]

यद्वेव परमेष्ठिनोपदधाति । प्रजापतिं विस्रस्तं देवता आदाय
व्युदक्रामंस्तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठन्

८.७.३.[१६]

तमब्रवीत् । उप मेहि म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो
भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतत्परमेष्ठी प्रत्यदधात्

८.७.३.[१७]

तद्यैषोत्तमा स्वयमातृणा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति
यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति

८.७.३.[१८]

दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीमिति । दिवो ह्येतत्पृष्ठं
व्यचस्वत्प्रथस्तद्दिवं यच्छ दिवं दृंह दिवं मा हिंसीरित्यात्मानं यच्छात्मानं
दृंहात्मानं मा हिंसीरित्येतत्

८.७.३.[१९]

विश्वस्मै प्रणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः
प्रतिष्ठा चरित्रं सूर्यस्त्वाभिपात्विति सूर्यस्त्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति
महत्या स्वस्त्येत्येतच्चर्दिषा शंतमेनेति यच्चर्दिः शंतमं तेनेत्येतत्

८.७.३.[२०]

नानोपदधाति । नाना हि वायुश्च द्यौश्च सकृत्सादयति समानं तत्करोति समानं
ह्यायुश्च प्राणश्च ते वा उभे एव शर्करे भवत उभे स्वयमातृणे समानं
ह्येवायुश्च प्राणश्चाथैने सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेणैवैने
एतत्संतनोति संदधाति

८.७.३.[२१]

ता अस्य सूददोहस इति । आपो वै सूदोऽन्नं दोहः सोमं श्रीणन्ति पृश्नय इत्यन्नं वै
पृश्नि जन्मन्देवानामिति संवत्सरो वै देवानां जन्म विश इति यज्ञो वै विशो यज्ञे हि
सर्वाणि भूतानि विष्टानि त्रिष्वा रोचने दिव इति सवनानि वै त्रीणि रोचनानि
सवनान्येतदाहानुष्टुभा वाग्वा अनुष्टुब्वागु सर्वे प्राणा वाचा चैवैने एतत्प्राणेन
च संतनोति संदधाति सा वा एषैका सती सूददोहाः सर्वा इष्टका अनुसंचरति प्राणो
वै सूददोहास्तस्मादयमेक एव प्राणः सन्त्सर्वाण्यङ्गानि
सर्वमात्मानमनुसंचरति

८.७.४.[१]

अथ स्वयमातृणासु सामानि गायति । इमे वै लोकाः स्वयमातृणास्ता एताः शर्करास्ता
देवा
उपधायैतादृशीरेवापश्यन्यथैताः शुष्काः शर्कराः

८.७.४.[२]

तेऽब्रुवन् । उप तज्जानीत यथैषु लोकेषु रमसुपजीवनं दधामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथैषु लोकेषु
रसमुपजीवनं दधामेति

८.७.४.[३]

ते चेतयमानाः । एतानि सामान्यपश्यंस्तान्यगायंस्तैरेषु लोकेषु
रसमुपजीवनमदधुस्तथैवैतद्यजमानो यदेतानि सामानि
गायत्येष्वेवैतल्लोकेषु रसमुपजीवनं दधाति

८.७.४.[४]

स्वयमातृणासु गायति । इमे वै लोकाः स्वयमातृणा एष्वेवैतल्लोकेषु रसमुपजीवनं
दधाति

८.७.४.[५]

स वै भूर्भुवः स्वरिति । एतासु व्याहृतिषु गायति भूरिति वा अयं लोको भुव
इत्यन्तरिक्षलोकः स्वरित्यसौ लोक एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति

८.७.४.[६]

तानि वै नानाप्रस्तावानि । समाननिधनानि तानि यन्नानाप्रस्तावानि नाना
ह्यपश्यन्नथ यत्समाननिधनान्येका ह्येव यज्ञस्य प्रतिष्ठैकं निधनं
स्वर्ग एव लोकस्तस्मात्स्वर्ज्योतिर्निधनानि

८.७.४.[७]

अथैनं हिरण्यशकलैः प्रोक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा
एतदमृतं रूपमुत्तमदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं
दधाति

८.७.४.[८]

यद्वेवैनं हिरण्यशकलैः प्रोक्षति । एतद्वा अस्मिन्नदोऽमूं पुरस्ताद्रम्यां
तनूं मध्यतो दधाति रुक्मं च पुरुषं
चाथैनमेतत्सर्वमेवोपरिष्टाद्रम्यया तन्वा प्रच्छादयति

८.७.४.[९]

द्वाभ्यांद्वाभ्यां शताभ्याम् । द्विपाद्यजमानो यजमानो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति
पञ्च कृत्वः पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानाग्नर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति
सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति

८.७.४.[१०]

पश्चादग्रे प्राङ्तिष्ठन् । अथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन
परीत्य दक्षिणत उदङ्तिष्ठंस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङ्
तिष्ठंस्तथो हास्यैतत्प्रागेव कर्म कृतं भवति

८.७.४.[११]

सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वेति
सर्वं वै सहस्रं सर्वमसि सर्वस्मै त्वेत्येतत्

८.७.४.[१२]

अथातश्चितिपुरीषाणामेव मीमांसा । अयमेव लोकः प्रथमा चितिः पशवः पुरीषं
यत्प्रथमां चितिं पुरीषेण प्रच्छादयतीमं तल्लोकं पशुभिः प्रच्छादयति
८.७.४.[१३]

अन्तरिक्षमेव द्वितीया चितिः । वयांसि पुरीषं यद्द्वितीयां चितिं पुरीषेण
प्रच्छादयत्यन्तरिक्षं तद्वयोभिः प्रच्छादयति

८.७.४.[१४]

द्यौरेव तृतीया चितिः । नक्षत्राणि पुरीषं यत्तृतीयां चितिं पुरीषेण प्रच्छादयति
दिवं तन्नक्षत्रैः प्रच्छादयति

८.७.४.[१५]

यज्ञ एव चतुर्थी चितिः । दक्षिणाः पुरीषं यच्चतुर्थी चितिं पुरीषेण प्रच्छादयति
यज्ञं तद्दक्षिनाभिः प्रच्छादयति

८.७.४.[१६]

यजमान एव पञ्चमी चितिः । प्रजा पुरीषं यत्पञ्चमीं चितिं पुरीषेण प्रच्छादयति
यजमानं तत्प्रजया प्रच्छादयति

८.७.४.[१७]

स्वर्ग एव लोकः षष्ठी चितिः । देवाः पुरीषं यत्षष्ठीं चितिं पुरीषेण
प्रच्छादयति स्वर्गं तल्लोकं देवैः प्रच्छादयति

८.७.४.[१८]

अमृतमेव सप्तमी चितिः तामुत्तमामुपदधात्यमृतं तदस्य सर्वस्योत्तमं
दधाति तस्मादस्य सर्वस्यामृतमुत्तमं तस्माद्देवा अनन्तर्हितास्तस्मादु तेऽमृता
इत्यधिदेवतम्

८.७.४.[१९]

अथाध्यात्मम् । यैवेयं प्रतिष्ठा यश्चायमवाङ्प्राणस्सत्प्रथमा चितिर्मांसम्
पुरीषं यत्प्रथमां चितिं पुरीषेण प्रच्छादयत्येतस्य तदात्मनो मांसैः
संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति
नाधस्तात्संच्छादयति तस्मादिमे प्राणा अधस्तादसंच्छन्ना उपरिष्टात्तु
प्रच्छादयत्येतदस्य तदात्मन उपरिष्टान्मांसैः संच्छादयति तस्मादस्यैतदात्मन
उपरिष्टान्मांसैः संच्छन्नं नावकाशते

८.७.४.[२०]
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात् । तद्द्वितीया चितिर्मांसं पुरीषं
यद्द्वितीयां चितिं पुरीषेण प्रच्छादयत्येतदस्य तदात्मनो मांसैः
संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति पुरीष
उपदधाति पुरीषेण प्रच्छादयत्येतदस्य तदात्मन उभयतो मांसैः संच्छादयति
तस्मादस्यैतदात्मन उभयतो मांसैः संच्छन्नं नावकाशते

८.७.४.[२१]

मध्यमेव तृतीया चितिः । यदूर्ध्वं मध्यादवाचीनं ग्रीवाभ्यस्तच्चतुर्थी
चितिर्ग्रीवा एव पञ्चमी चितिः शिर एव षष्ठी चितिः प्राणा एव सप्तमी
चितिस्तामुत्तमामुपदधाति प्राणांस्तदस्य सर्वस्योत्तमान्दधाति तस्मादस्य
सर्वस्य प्राणा उत्तमाः पुरीष उपदधाति मांसं वै पुरीषं मांसेन
तत्प्राणान्प्रतिष्ठापयति नोपरिष्टात्प्रच्छादयति तस्मादिमे प्राणा
उपरिष्टादसंच्छन्नाः

९.१.१.[१]

अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता
तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानो
ऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति

९.१.१.[२]

तेऽब्रुवन् । अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं
समभरञ्चान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम्
देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यं शान्तदेवत्यं ह वै
तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि
देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषोऽत्र
दीप्यमानस्तिष्ठत्यन्नमिच्छमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं
तेनैनं शमयति

९.१.१.[३]

जर्तिलैर्जुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत
उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं
यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण
चारण्येन च

९.१.१.[४]

अर्कपर्णेन जुहोति । अन्नमर्कोऽन्नेनैवैनमेतत्प्रीणाति

९.१.१.[५]

परिश्रित्सु जुहोति । अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता
भवन्ति

९.१.१.[६]

यद्वेवैतच्छतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव
देवो नाजहान्मन्युरेव सोऽतिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि
प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः
समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता
सहस्राणीमांलोकाननुप्राविशंस्तद्यद्रुदितात्समद्रुद्राः सोऽयं शतशीर्षा रुद्रः
सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणो
ऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः

९.१.१.[७]

ते प्र्जापतिमब्रुवन् । अस्माद्वै बिभीमो यद्वै नोऽयं न हिंस्यादिति सो
ऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं
समभरञ्चतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणां
रुद्रमेतेनाशमयंस्तस्माच्छतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह
वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मा
अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति

९.१.१.[८]

गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता विस्रस्ताशयत्ततो गवेधुकाः
समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति

९.१.१.[९]

अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः
समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति

९.१.१.[१०]

परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किं चन
हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः
स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते

९.१.१.[११]

स वै जानुदघ्ने प्रथमं स्वाहाकरोति । अधैव वै तद्यज्जानुदघ्नमध इव
तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति

९.१.१.[१२]

अथ नाभिदघ्ने । मध्यमिव वै तद्यन्नाभिदघ्नम्
मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति
९.१.१.[१३]

अथ मुखदघ्न । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ
लोकस्तद्येऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो
ऽन्नेनैवैनानेतत्प्रीणाति

९.१.१.[१४]

नमस्ते रुद्र मन्यव इति । य एवास्मिन्त्सोऽन्तर्मन्युर्विततोऽतिष्ठत्तस्मा
एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां
च भीषयमाणोऽतिष्ठत्

९.१.१.[१५]

स एष क्षत्रं देवः । यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः
समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतं पुरस्तादुद्धारमुदहरन्य एष
प्रथमोऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम्
पुरस्तादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्र
एतं ह्येतेन प्रीणाति

९.१.१.[१६]

चतुर्दशैतानि यजूंषि भवन्ति । त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः
प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमो
नम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह
नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत्

९.१.१.[१७]

अथ द्वन्द्विभ्यो जुहोति । नमोऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ
त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति

९.१.१.[१८]

नमो हिरण्यबाहवे । सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः
सेनानीरेष दिशां पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव
तद्विश्यपिभागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियोऽपिभागोऽथ या असंख्याता
सहस्राणीमांलोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति

९.१.१.[१९]

अथ जातेभ्यो जुहोति । एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते
तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु
मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति

९.१.१.[२०]

तेषां वा उभयतोनमस्कारा अन्ये ।ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा
अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण
शमयति

९.१.१.[२१]

स वा अशीत्यां च स्वाहाकरोति । प्रथमे चानुवाकेऽथाशीत्यामथाशीत्यां च यानि
चोर्ध्वानि यजूंष्यावतानेभ्योऽन्नमशीतयोऽन्नेनैवैनानेतत्प्रीणाति

९.१.१.[२२]

अथैतानि यजूंषि जपति । नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम
यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाचङ्केत
तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गच्छति तथो
हैनमेष देवो न हिनस्ति

९.१.१.[२३]

नमो वः किरिकेभ्य इति । एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य
इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं
सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति
नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः

९.१.१.[२४]

अथोत्ताराणि जपति । द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रा पयति यं
दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि
चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासां प्रजानामेषां पशूनाम्
मा
भेर्मा रोङ्नो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः

९.१.१.[२५]

स एष क्षत्रं देवः । तस्मा एतस्मै क्षत्रायैता विशोऽमुम्
पुरस्तादुद्धारमुदहरन्योऽसौ प्रथमोऽनुवाकोऽथास्मा
एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा
अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादप्येष एकदेवत्यो
भवति रौद्र एवैतं ह्येवैतेनप्रीणाति
९.१.१.[२६]

सप्तैतानि यजूंषि भवन्ति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति
तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका
असावादित्य एकविंश एतामभिसम्पदम्

९.१.१.[२७]

अथावतानान्जुहोति । एतद्वा एनान्देवा एतेनान्नेन
प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन
प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन
हिनस्ति

९.१.१.[२८]

तद्वै सहस्रयोजन इति । एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव
परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति

९.१.१.[२९]

यद्वेवाह सहस्रयोजन इति । अयमग्निः सहस्रयोजनं न ह्येतस्मादिति
नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति

९.१.१.[३०]

असंख्याता सहस्राणि । अस्मिंन्महत्यर्णव इति यत्रयत्र ते
तदेवैषामेतद्धनूंष्यवतनोति

९.१.१.[३१]

दशैतानवतानान्जुहोति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः
प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति

९.१.१.[३२]

अथ प्रत्यवरोहान्जुहोति । एतद्वा एतदिमांलोकानित ऊर्ध्वो रोहति स स पराङिव रोह
इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमाव
इमां प्रतिष्ठामभिप्रत्यैति

९.१.१.[३३]

यद्वेव प्रत्यवरोहति । एतद्वा एनानेतत्प्रीणन्नन्ववैति तत
एवैतदात्मानमपोद्धरते जावात्वै तथा हानेनात्मना सर्वमायुरेति

९.१.१.[३४]

यद्वेव प्रत्यवरोहति । एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतो
ऽर्वाचः

९.१.१.[३५]

ननोऽस्तु रुद्रेभ्यो ये दिवीति । तद्येऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति
येषां वर्षमिषव इति वर्षं ह तेषामिषवा वर्षेण ह ते हिंसन्ति यं
जिहिंसिषन्ति

९.१.१.[३६]

नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्ष इति । तद्येऽन्तरिक्षलोके रुद्रास्तेभ्य
एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं
जिहिंसिषन्ति

९.१.१.[३७]

नमोऽस्तु रुद्रेभ्यो ये पृथिव्यामिति । तद्येऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति
येषामन्नमिषव इत्यन्नं ह तेषामिषवोऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति

९.१.१.[३८]

तेभ्यो दश प्राचीः । दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षरा
विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनानेतदन्नेन प्रीणाति

९.१.१.[३९]

यद्वेवाह दशदशेति । दश वा अञ्जलेरङ्गुलयो दिशिदिश्येवैभ्य एतदञ्जलिं करोति
तस्मादु हैतद्भीतोऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो
मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे
दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां
जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत
स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि
९.१.१.[४०]

त्रिष्कृत्वः प्रत्यवरोहति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो
ऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट्तस्योक्तो बन्धुः

९.१.१.[४१]

यद्वेव त्रिष्कृत्वः प्रत्यवरोहति । त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो
रोहति तावत्कृत्वः प्रत्यवरोहति

९.१.१.[४२]

अथ तदर्कपर्णं चात्वाले प्रास्यति । एतद्वा एनेनैतद्रौद्रं कर्म करोति
तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं
कश्चिदभितिष्ठात्तन्नेन्द्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वालेऽग्निरेष
यच्चात्वालस्तथो हैनदेषोऽग्निः संदहत्यथातः सम्पदेव

९.१.१.[४३]

तदाहुः । कथमस्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोति कथं
संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतच्छतरुद्रियमथ
त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि
तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रंशन्मासस्य रात्रयस्तन्मासस्य
रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स
त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव
पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतच्छतरुद्रियं
संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्स उ वै शाण्डिले
ऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका
एवमु हास्यैतेऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति

९.१.१.[४४]

तदाहुः । कथमस्यैतच्छतरुद्रियं महदुक्थमाप्नोति कथं महतोक्थेन
सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितोऽशीतीः स पञ्चविंश आत्मा यत्र
वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि
महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत
उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतच्छतरुद्रियम्
महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते

९.१.२.[१]

अथैनमतः परिषिश्चति । एतद्वा एनं देवाः शतरुद्रियेण
शमयित्वाथैनमेतद्भूय एवाशमयंस्तथैवैनमेवमेतच्छतरुद्रियेण
शमयित्वाथैनमेतद्भूय एव शमयति
९.१.२.[२]

अद्भिः परिषिञ्चति । शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत
एवैनमेतच्छमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतच्छमयति

९.१.२.[३]

यद्वेवैनं परिषिञ्चति । इमे वै लोका एषोऽग्निरिमांस्तल्लोकानद्भिः परितनोति
समुद्रेण हैनांस्तत्परितनोति सर्वतस्तस्मादिमांलोकान्त्सर्वतः समुद्रः पर्येति
दक्षिणावृत्तस्मादिमांलोकान्दक्षिणावृत्समुद्रः पर्येति

९.१.२.[४]

अग्नीत्परिषिञ्चति । अग्निरेष यदाग्नीध्रो नो वा आत्मात्मानं हिनस्त्यहिंसाया अश्मनो
ऽध्यश्मनो ह्यापः प्रभवन्ति निकक्षान्निकक्षाद्ध्यापः प्रभवन्ति
दक्षिणान्निकक्षाद्दक्षिणाद्धि निकक्षादापः प्रभवन्ति

९.१.२.[५]

अश्मन्नूर्जं पर्वते शिश्रियाणामिति । अश्मनि वा एषोर्क्पर्वतेषु श्रिता यदापोऽद्भ्य
ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतं पय इत्येतस्माद्ध्येतत्सर्वस्मादधि
सम्भृतं पयस्तां न इषमूर्जं धत्त मरुतः संरराणा इति मरुतो वै
वर्षस्येशतेऽश्मंस्ते क्षुदिति निदधाति तदश्मनि क्षुधं दधाति
तस्मादश्मानाद्योऽथो स्थिरो वा अश्मा स्थिरा क्षुत्स्थिर एव तत्स्थिरं दधाति मयि
त ऊर्गित्यपादत्ते तदात्मन्नूर्जं धत्ते तथा द्वितीयं तथा तृतीयम्

९.१.२.[६]

निधायोदहरणं त्रिर्विपल्ययते । एतद्वा एनमेतल्लघूयतीव यदेनं समन्तम्
पर्येति तस्मा एवैतन्निह्नुतेऽहिंसायै

९.१.२.[७]

यद्वेव विपल्ययते । एतद्वा एनमेतदन्ववैति तत एवैतदात्मानमपोद्धरते
जीवात्वै तथो हानेनात्मना सर्वमायुरेति

९.१.२.[८]

त्रिर्विपल्ययते । त्रिर्हि कृत्वः पर्येति तद्यावत्कृत्वः पर्येति तावत्कृत्वो विपल्ययते
९.१.२.[९]

अथ तमश्मानमुदहरणेऽवधाय । एतां दिशं हरन्त्येषा वै नैर्ऋती
दिङ्नैर्ऋत्यामेव तद्दिशि शुचं दधाति

९.१.२.[१०]

एतद्वा एनं देवाः । शतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचम्
पाप्मानमपाघ्नंस्तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च
शमयित्वाथास्यैतेन शुचं पाप्मानमपहन्ति

९.१.२.[११]

बाह्येनाग्निं हरति । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति
बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधाति

९.१.२.[१२]

स वेदेर्दक्षिणायां श्रोणौ । प्राङ्तिष्ठन्दक्षिणा निरस्यति यं द्विष्मस्तं ते
शुगृच्छत्विति यमेव द्वेष्टि तमस्य शुगृच्छत्यमुं ते शुगृच्छत्विति ह ब्रूयाद्यं
द्विष्यात्ततो ह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स
यमेवंविद्द्वेष्टि यदि न भिद्येत भित्तवै ब्रूयाद्यदा ह्येव स भिद्यतेऽथ तं
शुगृच्छति यं द्वेष्ट्यप्रतीक्षमायन्त्यप्रतीक्षमेव तच्छुचं पाप्मानं जहति

९.१.२.[१३]

प्रत्येत्येष्टका धेनूः कुरुते । एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा
शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूरकुर्वत
तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य
पाप्मानमपहत्य प्रत्येत्येष्टका धेनूः कुरुते

९.१.२.[१४]

आसीनः कुर्वीतेत्यु हैक आहुः । आसीनो वै धेनुं दोग्धीति तिष्ठंस्त्वेव कुर्वीतेमे
वै लोका एषोऽग्निस्तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः

९.१.२.[१५]

उदङ्प्राङ्तिष्ठन् । पुरस्ताद्वा एषा प्रतीची यजमानं धेनुरुपतिष्ठते दक्षिणतो
वै प्रतीचीं धेनुं तिष्ठन्तीसुपसीदन्ति
९.१.२.[१६]

स यत्राभ्याप्नोति । तदभिमृश्यैतद्यजुर्जपतीमा मे अग्न इष्टका धेनवः
सन्त्वित्यग्निर्हैतासां धेनुकरणस्येष्टे तस्मादेतावतीनां
देवतानामग्निमेवामन्त्रयत एका च दश चान्तश्च परार्धश्चेत्येष हावरार्ध्यो
भूमा यदेका च दश चाथ हैष परार्ध्यो भूमा यदन्तश्च
परार्धश्चावरार्धतश्चैवैना एतत्परार्धतश्च परिगृह्य देवा धेनूरुकुर्वत
तथैवैना अयमेतदवरार्धतश्चैव परार्धतश्च परिगृह्य धेनूः कुरुते
तस्मादपि नाद्रियेत बह्वीः कर्तुममुत्र वा एष एता ब्रह्मणा यजुषा बह्वीः
कुरुतेऽथ यत्संतनोति कामानेव तत्संतनोति

९.१.२.[१७]

यद्वेवेष्टका धेनूः कुरुते । वाग्वा अयमग्निर्वाचा हि चितः स यदाहैका च दश
चान्तश्च परार्धश्चेति वाग्वा एका वाग्दश वागन्तो वाक्परार्धो वाचमेव तद्देवा
धेनुमकुर्वत तथैवैतद्यजमानो वाचमेव धेनुं कुरुतेऽथ यत्संतनोति
वाचमेव तत्संतनोत्येता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिंलोक
इत्येतद्वा एना अस्मिंलोके धेनूः कुरुतेऽथैना एतदमुष्मिंलोके धेनूः कुरुते
तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्त्यस्मिंश्चामुष्मिंश्च

९.१.२.[१८]

ऋतव स्थेति । ऋतवो ह्येता ऋतावृध इति सत्यवृध इत्येतदृतुष्वा स्थ ऋतावृध
इत्यहोरात्राणि वा इष्टका ऋतुषु वा अहोरात्राणि तिष्ठन्ति घृतश्चुतो मधुश्चुत इति
तदेना घृतश्चुतश्च मधुश्चुतश्च कुरुते

९.१.२.[१९]

विराजो नामेति । एतद्वै देवा एता इष्टका नामभिरुपाह्वयन्ति यथायथैना
एतदाचक्षते ता एनानभ्युपावर्तन्ताथ लोकम्पृणा एव पराच्यस्तस्थुरहितनाम्न्यो
निमेमिहत्यस्ता विराजो नामाकुर्वत ता एनानभ्युपावर्तन्त तस्माद्दशदशेष्टका
उपधाय लोकम्पृणयाभिमन्त्रयते तदेना विरावः कुरुते दशाक्षरा हि विराट्
कामदुधा अक्षीयमाणा इति तदेनाः कामदुधा अक्षीयमाणाः कुरुते

९.१.२.[२०]

अथैनं विकर्षति । मण्डूकेनावकया वेतसशाखयैतद्वा एनं देवाः शतरुद्रियेण
चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय
एवाशमयंस्तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य
पाप्मानमहत्याथैनमेतद्भूय एव शमयति सर्वतो विकर्षति सर्वत
एवैनमेतच्छमयति

९.१.२.[२१]

यद्वेवैनं विकर्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं
समस्कुर्वंस्तमद्भिरवोक्षंस्ता आपः समस्कन्दंस्ते मण्डूका अभवन्

९.१.२.[२२]

ताः प्रजापतिमब्रुवन् । यद्वै नः कमभूदवाक्तदगादिति सोऽब्रवीदेष व एतस्य
वनस्पतिर्वेत्त्विति वेत्तु संवेत्तु सोऽह वै तं वेतस इत्याचक्षते परोऽक्षं परो
ऽक्षकामा हि देवा अथ यदब्रुवन्नवाङ्तः कमगादिति ता अवाक्का अभवन्नवाक्का
ह वै ता अवका इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्ता हैतास्त्रय्य आपो
यन्मण्डूकोऽवका वेतसशाखैताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति

९.१.२.[२३]

यद्वेवैनं विकर्षति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते
सर्वम्वेतदन्नं यन्मण्डूकोऽवका वेतसशाखा पशवश्च ह्येता आपश्च
वनस्पतयश्च सर्वेणै वैनमेतदन्नेन प्रीणाति

९.१.२.[२४]

मण्डूकेन पशूनाम् । तस्मान्मण्डूकः पशूनामनुपजीवनीयतमो यातयामा हि सो
ऽवकाभिरपां तस्मादवका अपामनुपजीवनीयतमा यातयाम्न्यो हि ता वेतसेन
वनस्पतीनां तस्माद्वेतसो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः

९.१.२.[२५]

तानि वंशे प्रबध्य । दक्षिणार्धेनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति
समुद्रस्य त्वावकयाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति
समुद्रियाभिस्त्वाद्भिः शमयाम इत्येतत्

९.१.२.[२६]

अथ जघनार्धेनोदक् । हिमस्य त्वा जरायुणाग्ने परिव्ययामसि पावको अस्मभ्यं
शिवो भवेति यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु शीतस्य त्वा प्रशीतेन
शमयाम इत्येतत्

९.१.२.[२७]

अथोत्तरार्धेन प्राक् । उप ज्मन्नुप वेतसेऽवतर नदीष्वा अग्ने पित्तमपामसि
मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्णं शिवं कृधीति यथैव
यजुस्तथा बन्धुः

९.१.२.[२८]

अथ पूर्वार्धेन दक्षिणा । अपामिदं न्ययनं समुद्रस्य निवेशनमन्यांस्ते
अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा
बन्धुरित्यग्रे विकर्षत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा

९.१.२.[२९]

आत्मानमग्रे विकर्षति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा

९.१.२.[३०]

अभ्यात्मं पक्षपुच्छानि विकर्षति । अभ्यात्ममेव तच्छान्तिं धत्ते
पुरस्तादर्वाक्परस्तादेव तदर्वाचीं शान्तिं धत्तेऽग्ने पावक रोचिषेति दक्षिणम्
पक्षं स नः पावक दीदिव इति पुचं पावकया यश्चितयन्त्या कृपेत्युत्तरम्
पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्

९.१.२.[३१]

सप्तभिर्विकर्षति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विकर्षति तं वंशमुत्करेन्यस्य

९.१.२.[३२]

अथैनं सामभिः परिगायति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं
रूपमुत्तममदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति सामानि
भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं
दधाति सर्वतः परिगायति सर्वत एवास्मिन्नेतदमृतं रूपमुत्तमं दधाति

९.१.२.[३३]

यद्वेवैनं सामभिः परिगायति । एतद्वै देवा
अकामयन्तानस्थिकमिमममृतमात्मानं कुर्वीमहीति तेऽब्रुवन्नुप तज्जानीत
यथेममात्मानमनस्थिकममृतं करवामहा इति तेऽब्रुवंश्चेतयध्वमिति
चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेममात्मानमनस्थिकममृतं
करवामहा इति

९.१.२.[३४]

ते चेतयमानाः । एतानि सामान्यपश्यंस्तैरेनम्
पर्यगायंस्तैरेतमात्मानमनस्थिकममृतमकुर्वत तथैवैतद्यजमानो
यदेनं सामभिः परिगायत्येतमेवैतदात्मानमनस्थिकममृतं कुरुते सर्वतः
परिगायति सर्वत एवैतदेतमात्मानमनस्थिकममृतं कुरुते तिष्ठन्गायति
तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरो हिङ्कृत्य गायति तत्र हि सर्वं
कृत्स्नं साम भवति

९.१.२.[३५]

गायत्रं पुरस्ताद्गायति । अग्निर्वै गायत्रमग्निमेवास्यैतच्छिरः करोत्यथो शिर
एवास्यैतदनस्थिकममृतं करोति

९.१.२.[३६]

रथन्तरं दक्षिणे पक्षे । इयं वै रथन्तरमियमु वा एषां लोकानां रसतमो
ऽस्यां हीमे सर्वे रसा रसंतमं ह वै तद्रथन्तरमित्याचक्षते परोऽक्षम्
परोऽक्षकामा हि देवा इमामेवास्यैतद्दक्षिणं पक्षं करोत्यथो
दक्षिणमेवास्यैतत्पक्षमनस्थिकममृतं करोति

९.१.२.[३७]

बृहदुत्तरे पक्षे । द्यौर्वै बृहद्द्यौर्हि बर्हिष्ठा दिवमेवास्यैतदुत्तरम्
पक्षं करोत्यथो उत्तरमेवास्यैतत्पक्षमनस्थिकममृतं करोति

९.१.२.[३८]

वामदेव्यमात्मन् । प्राणो वै वामदेव्यं वायुरु प्राणः सर्वेषामु हैष
देवानामात्मा यद्वायुर्वायुमेवास्यैतदात्मानं करोत्यथो
आत्मानमेवास्यैतदनस्थिकममृतं करोति

९.१.२.[३९]

यज्ञायज्ञियं पुच्छम् । चन्द्रमा वै यज्ञायज्ञियं यो हि कश्च यज्ञः संतिष्ठत
एतमेव तस्याहुतीनां रसोऽप्येति तद्यदेतं यज्ञोयज्ञोऽप्येति तस्माच्चन्द्रमा
यज्ञायज्ञियं चन्द्रमसमेवास्यैतत्पुचं करोत्यथो
पुच्छमेवास्यैतदनस्थिकममृतं करोति

९.१.२.[४०]

अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं
हृदयं परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं
निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षेऽतो हि हृदयं नेदीय
आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति

९.१.२.[४१]

प्रजासु च प्रजापतौ च गायति । तद्यत्प्रजासु गायति तत्प्रजासु हृदयं दधात्यथ
यत्प्रजापतौ गायति तदग्नौ हृदयं दधाति

९.१.२.[४२]

यद्वेव प्रजासु च प्रजापतौ च गायति । अयं वा अग्निः प्रजाश्च प्रजापतिश्च
तद्यदग्नौ गायति तदेव प्रजासु च प्रजापतौ च हृदयं दधाति

९.१.२.[४३]

ता हैता अमृतेष्टकाः । ताउत्तमा उपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति
तस्मादस्य सर्वस्यामृतमुत्तमं नान्योऽध्वर्योर्गायेदिष्टका वा एता विचितो ह
स्याद्यदन्योऽध्वर्योर्गायेत्

९.२.१.[१]

उपवसथीयेऽहन्प्रातरुदित आदित्ये । वाचं विसृजते वाचं विसृज्य पञ्चगृहीतमाज्यं
गृह्णीते तत्र पञ्च हिरण्यशकलान्प्रास्यत्यथैतत्त्रयं समासिक्तं भवति दधि
मधु घृतं पात्र्यां वा स्थाल्यां वोरुबिल्यां तदुपरिष्टाद्दर्भमुष्टिं निदधाति

९.२.१.[२]

अथाग्निमारोहति । नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिष इत्यत्रैष सर्वोऽग्निः
संस्कृतः स एषोऽत्र तस्मा अलं यद्धिंस्याद्यं जिहिंसिषेद्यमु वा एष हिनस्ति
हरसा वैनं शोचिषा वार्चिषा वा हिनस्ति तथो हैनमेष एतैर्न हिनस्त्यन्यांस्ते
अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः

९.२.१.[३]

आरुह्याग्निं स्वयमातृणां व्याघारयति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः

९.२.१.[४]

स्वयमातृणां व्याघारयति । प्राणः स्वयमातृणा प्राणे तदन्नं दधाति

९.२.१.[५]

यद्वेव स्वयमातृणां व्याघारयति । उत्तरवेदिर्हैषाग्नेरथ याममूं पूर्वां
व्याघारयत्यध्वरस्य साथ हैषाग्नेस्तामेतद्व्याघारयति
९.२.१.[६]

पश्यंस्तत्र हिरण्यं व्याघारयति । प्रत्यक्षं वै तद्यत्पश्यति प्रत्यक्षं
सोत्तरवेदिः प्रास्ता एवेह भवन्ति परोऽक्षं वै तद्यत्प्रास्ताः परो
ऽक्षमियमुत्तरवेदिः

९.२.१.[७]

स्वाहाकारेण तां व्याघारयति । प्रत्यक्षं वै तद्यत्स्वाहाकारः प्रत्यक्षं
सोत्तरवेदिर्वेट्कारेणेमां परोऽक्षं वै तद्यद्वेट्कारः परो
ऽक्षमियमुत्तरवेदिराज्येनाज्येन ह्युत्तरवेदिं व्याघारयन्ति पञ्चगृहीतेन
पञ्चगृहीतेन ह्युत्तरवेदिं व्याघारयन्ति व्यतिहारं व्यतिहारं ह्युत्तरवेदिं
व्याघारयन्ति

९.२.१.[८]

नृषदे वेडिति । प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणो
ऽग्निस्तमेतत्प्रीणात्यप्सुषदे वेडिति योऽप्स्वग्निस्तमेतत्प्रीणाति बहिर्षदे वेडिति य
ओषधिष्वग्निस्तमेतत्प्रीणाति वनसदे वेडिति यो वनस्पतिष्वग्निस्तमेतत्प्रीणाति
स्वर्विदे वेडित्ययमग्निः स्वर्विदिममेवैतदग्निं प्रीणाति

९.२.१.[९]

यद्वेवाह । नृषदे वेडप्सुषदे वेडित्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि
हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न
गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति

९.२.१.[१०]

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तव संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्राणाति

९.२.१.[११]

अथैनं समुक्षति । दध्ना मधुना घृतेन जायत एष एतद्यच्चीयते स एष
सर्वस्मा अन्नाय जायते सर्वम्वेतदन्नं यद्दधि मधु गृतं
सर्वेणैवैनमेतदन्नेन प्रीणाति सर्वतः समुक्षति सर्वत
एवैनमेतत्सर्वेणान्नेन प्रीणाति

९.२.१.[१२]

यद्वेवैनं समुक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा
एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधात्यन्नं वै
रूपमेतदु परममन्नं यद्दधि मधु गृतं तद्यदेव परमं रूपं
तदस्मिन्नेतदुत्तमं दधाति सर्वतः समुक्षत्यपि बाह्येन परिष्रितः सर्वत
एवास्मिन्नेतद्रूपमुत्तमं दधाति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि
देवानाम्

९.२.१.[१३]

यद्वेवैनं समुक्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं
समस्कुर्वंस्तदस्मिन्नदोऽमुं पुरस्ताद्भागमकुर्वतादः
सजूरब्दीयमथास्मिन्नेतं संचित उपरिष्टाद्भागमकुर्वत तद्यत्समुक्षति य
एवास्मिंस्ते प्राणा ऋषयः सचित उपरिष्टाद्भागमकुर्वत तानेवैतत्प्रीणाति दध्ना
मधुना घृतेन तस्योक्तो बन्धुः

९.२.१.[१४]

ये देवा देवानाम् । यज्ञिया यज्ञियानामिति देवा ह्येते देवानां यज्ञिया उ यज्ञियानां
संवत्सरीणमुप भागमासत इति संवत्सरीणं ह्येत एतं भागमुपासतेऽहुतादो
हविषो यज्ञे अस्मिन्नित्यहुतादो हि प्राणाः स्वयं पिबन्तु मधुनो घृतस्येति
स्वयमस्य पिबन्तु मधुनश्च घृतस्य चेत्येतत्

९.२.१.[१५]

ये देवा देवेषु । अधि देवत्वमायन्निति देवा ह्येते देवेषधि देवत्वमायन्ये
ब्रह्मणः पुरएतारो अस्येत्ययमग्निर्ब्रह्म तस्यैते पुरएतारो येभ्यो न ऋते पवते
धाम किं चनेति न हि प्राणेभ्य ऋते पवते धाम किं चन न ते दिवो न पृथिव्या
अधि स्नुष्विति नैव ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्त इत्येतत्

९.२.१.[१६]

द्वाभ्यां समुक्षति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समुक्षति

९.२.१.[१७]

अथ प्रत्यवरोहति । प्राणदा अपानदा इति सर्वे हैते प्राणा योऽयमग्निश्चितः स
यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष प्राणान्वृञ्जीताथ
यदेतामत्रात्मनः परिदां वदते तथो हास्यैष प्राणान्न वृङ्क्ते प्राणदा अपानदा
व्यानदा वर्चोदा वरिवोदा इत्येतद्दा मेऽसीत्येवैतदाहान्यांस्ते अस्मत्तपन्तु हेतयः
पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः

९.२.१.[१८]
प्रत्येत्य प्रवर्ग्योपसद्भ्यां प्रचरति । प्रवर्ग्योपसद्भ्यां प्रचर्याथास्मै
व्रतं वार्धव्रतं वा प्रयच्छत्यथ प्रवर्ग्योपसद्भ्यामथ
प्रवर्ग्यमुत्सादयत्याप्त्वा तं कामं यस्मै कामायैनं प्रवृणक्ति

९.२.१.[१९]

तं वै परिष्यन्द उत्सादयेत् । तप्तो वा एष शुशुचानो भवति तं
यदस्यामुत्सादयेदिमामस्य शुगृच्छेद्यदप्सूत्सादयेदपोऽस्य शुगृच्छेदथ
यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति
तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति
तस्मात्परिष्यन्द उत्सादयेत्

९.२.१.[२०]

अग्नौ त्वेवोत्सादयेत् । इमे वै लोका एषोऽग्निरापः परिश्रितस्तं यदग्ना उत्सादयति
तदेवैनं परिष्यन्द उत्सादयति

९.२.१.[२१]

यद्वेवाग्ना उत्सादयति । इमे वै लोका एषोऽग्निरग्निर्वायुरादित्यस्तदेते प्रवर्ग्याः स
यदन्यत्राग्नेरुत्सादयेदेतांस्तद्देवान्बहिर्धैभ्यो लोकेभ्यो दध्यादथ यदग्ना
उत्सादयत्येतानेवैतद्देवानेषु लोकेषु दधाति

९.२.१.[२२]

यद्वेवाग्ना उत्सादयति । शिर एतद्यज्ञस्य यत्प्रवर्ग्य आत्मायमग्निश्चितः स
यदन्यत्राग्नेरुत्सादयेद्बहिर्धास्माच्छिरो दध्यादथ यदग्ना
उत्सादयत्यात्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति

९.२.१.[२३]

स्वयमातृणया संस्पृष्टं प्रथमं प्रवर्ग्यमुत्सादयति । प्राणः स्वयमातृणा
शिरः प्रवर्ग्य आत्मायमग्निश्चितः शिरश्च तदात्मानं च प्राणेन संतनोति
संदधात्युत्साद्य प्रवर्ग्यं यथा तस्योत्सादनम्

९.२.२.[१]

प्रत्येत्याग्निं प्रहरिष्यन् । आहुतीश्च जुहोति समिधश्चादधात्येतद्वा एनं देवा
एष्यन्तं पुरस्तादन्नेनाप्रीणन्नाहुतिभिश्च समिद्भिश्च
तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणात्याहुतिभिश्च समिद्भिश्च स
वै पञ्चगृहीतं गृह्णीते तस्योक्तो बन्धुः
९.२.२.[२]

अथ षोडशगृहीतं गृह्णीते । षोडशकलः प्रजापतिः
प्रजापतिरग्निरात्मसम्मितेनैवैनमेतदन्नेन प्रीणाति यदु वा
आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न
तदवति समान्यां स्रुचि गृह्णीते समानो हि स यमेतत्प्रीणाति वैश्वकर्मणाभ्यां
जुहोति विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति

९.२.२.[३]

अथ समिध आदधाति । यथा तर्पयित्वा परिवेविष्यात्तादृक्तदौदुम्बर्यो
भवन्त्यूर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन प्रीणात्यार्द्रा भवन्त्येतद्वै
वनस्पतीनामनार्तं जीवं यदार्द्रं तद्यदेव वनस्पतीनामनार्तं जीवं
तेनैनमेतत्प्रीणाति घृते न्युत्ता भवन्त्याग्नेयं वै घृतं
स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति सर्वां रात्रिं वसन्ति तत्र हि ता रसेन
सम्पद्यन्ते तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति

९.२.२.[४]

यद्वेवैता आहुतीर्जुहोति । एतद्वा एनं देवा एष्यन्त पुरस्तादन्नेन
समस्कुर्वन्नेताभिराहुतिभिस्तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन
संस्करोत्येताभिराहुतिभिः

९.२.२.[५]

स वै पञ्चगृहीतं गृह्णीते । पञ्चधाविहितो वा अयं शीर्षन्प्राणो मनो वाक्
प्राणश्चक्षुः श्रोत्रमेतमेवास्मिन्नेतत्पञ्चधाविहितं शीर्षन्प्राणं
दधात्यग्निस्तिग्मेन शोचिषेति तिग्मवत्या शिर एवास्यैतया संश्यति तिग्मतायै

९.२.२.[६]

अथ षोडशगृहीतं गृह्णीते । अष्टौ प्राणा अष्टावङ्गान्येतामभिसम्पदं समान्यां
स्रुचि गृह्णीते समाने ह्येवात्मन्नङ्गानि च प्राणाश्च भवन्ति नाना
जुहोत्यङ्गेभ्यश्च
तत्प्राणेभ्यश्च विधृतिं करोति वैश्वकर्मणाभ्यां जुहोति
विश्वकर्मायमग्निस्तमेवैतत्संस्करोति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन संस्करोति
सप्तदशभिर्ऋग्भिः सप्तदशः प्रजापतिः प्रजापतिरग्निर्यावानाग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्संस्करोत्येकविंशतिगृहीतेन द्वादश मासाः पञ्चऽर्तवस्त्रय इमे
लोका असावादित्य एकविंश एतामभिसम्पदम्

९.२.२.[७]

यद्वेवैताः समिध आदधाति । एतद्वा एनं देवाः सर्वं कृत्स्नं
संस्कृत्याथैनमेतेनान्नेनाप्रीणन्नेताभिः समिद्भिस्तथैवैनमयमेतत्सर्वं
कृत्स्नं संस्कृत्याथैनमेतेनान्नेन प्रीणात्येताभिः समिद्भिरौदुम्बर्यो
भवन्त्यार्द्रा घृते न्युत्ता सर्वां रात्रिं वसन्ति तस्योक्तो बन्धुरुदेनमुत्तरां
नयेन्द्रेमं प्रतरां नय यस्य कुर्मो गृहे हविरिति यथा यजुस्तथा
बन्धुस्तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति तिस आहुतीर्जुहोति तत्षट्तस्योक्तो बन्धुः

९.२.३.[१]

अथातः सम्प्रेष्यति । उद्यच्छेध्ममुपयचोपयमनीरग्नये
प्रह्रियमाणायानुब्रूह्यग्नीदेकस्फ्ययानूदेहि ब्रह्मन्नप्रतिरथं जपेति

९.२.३.[२]

एतद्वै देवानुपप्रैष्यतः । एतं यज्ञं तंस्यमानान्दक्षिणतोऽसुरा रक्षांसि
नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व इति

९.२.३.[३]

ते देवा इन्द्रमब्रुवन् । त्वं वै नः श्रेष्ठो बलिष्ठो वीर्यवत्तमोऽसि त्वमिमानि
रक्षांसि प्रतियतस्वेति तस्य वै मे ब्रह्म द्वितीयमस्त्विति तथेति तस्मै वै
बृहस्पतिं द्वितीयमकुर्वन्ब्रह्म वै बृहस्पतिस्त इन्द्रेण चैव बृहस्पतिना च
दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभये नाष्ट्र एतं यज्ञमतन्वत

९.२.३.[४]

तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवापहतानि
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो इन्द्रेण चैवैतद्बृहस्पतिना च
दक्षिणतो सुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते

९.२.३.[५]

स यः स इन्द्रः । एष सोऽप्रतिरथोऽथ यः स बृहस्पतिरेष स ब्रह्मा
तद्यद्ब्रह्माप्रतिरथं जपतीन्द्रेण चैवैतद्बृहस्पतिना च दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते
तस्माद्ब्रह्माप्रतिरथं जपति

९.२.३.[६]

आशुः शिशानो वृषभो न भीम इति । ऐन्द्र्योऽभिरूपा द्वादश भवन्ति द्वादश मासाः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैवैतद्दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति ता द्वाविंशतिर्गायत्र्यः सम्पद्यन्ते तदाग्नेय्यो
भवन्त्यग्निकर्म हि

९.२.३.[७]

अथैनमुद्यच्छति । उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति तस्योक्तो बन्धुः

९.२.३.[८]

अथाभिप्रयन्ति । पञ्च दिशो दैवोर्यज्ञमवन्तु देवीरिति देवाश्चासुराश्चोभये
प्राजापत्या दिक्ष्वस्पर्धन्त ते देवा असुराणां दिशो वृञ्जत तथैवैतद्यजमानो
द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते दैवीरिति तदेना दैवीः कुरुते यज्ञमवन्तु
देवारिति यज्ञमिमवन्तु देवीरित्येतदपामतिं दुर्मतिं बाधमाना इत्यशनाया वा
अमतिरशनायामपबाधमाना इत्येतद्रायस्पोषे यज्ञपतिमाभजन्तीरिति रय्यां च
पोसे च यज्ञपतिमाभजन्तीरित्येतद्रायस्पोषे अधि यज्ञो अस्थादिति रय्यां च पोषे
चाधि यज्ञोऽस्थादित्येतत्

९.२.३.[९]

समिद्धे अग्नावधि मामहान इति । यजमानो वै मामहान उक्थपत्र इत्युक्थानि
ह्येतस्य पत्राणीड्य इति यज्ञियं इत्येतद्गृभीत इति धारित इत्येतत्तप्तं घर्मम्
परिगृह्यायजन्तेति तप्तं ह्येतं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त
देवा इत्यूर्जा ह्येतं यज्ञमयजन्त देवाः

९.२.३.[१०]

दैव्याय धर्त्रे जोष्ट्र इति । दैवो ह्येष धर्ता जोषयितृतमो देवश्रीः श्रीमनाः
शतपया इति देवश्रीर्ह्येष श्रीमनाः शतपयाः परिगृह्य देवा यज्ञमायन्निति
परिगृह्य ह्येतं देवा यज्ञमायन्देवा देवेभ्यो अध्वर्यन्तो अस्थुरित्यध्वरो वै
यज्ञो देवा देवेभ्यो यज्ञियन्तोऽथुरित्येतत्

९.२.३.[११]

वीतं हविः शमितं शमिता यजध्या इति । इष्टं स्विष्टमित्येतत्तुरीयो यज्ञो यत्र
हव्यमेतीत्यध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा
दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञस्ततो वाका आशिषो नो जुषन्तामिति
ततो नो वाकाश्चाशिषश्च जुषन्तामित्येतत्

९.२.३.[१२]

सूर्यरश्मिर्हरिकेशः पुरस्तात् । सविता ज्योतिरुद्रियां अजस्रमित्यसौ वा आदित्य एषो
ऽग्निः स एष सूर्यरश्मिर्हरिकेशः पुरस्तात्सवितैतज्ज्योतिरुद्यच्छत्यजस्रं तस्य पूषा
प्रसवे याति विद्वानिति पशवो वै पूषा त एतस्य प्रसवे प्रेरते सम्पश्यन्विश्वा
भुवनानि गोपा इत्येष वा इदं सर्वं सम्पश्यत्येष उ एवास्य सर्वस्य भुवनस्य
गोप्ताः

९.२.३.[१३]

तद्या अमुष्मादादित्यादर्वाज्यः पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति

९.२.३.[१४]

अथाश्मानं पृश्निमुपदधाति । असौ वा आदित्योऽश्मा
पृश्निरमुमेवैतदादित्यमुपदधाति पृश्निर्भवति रश्मिभिर्हि मण्डलं पृश्नि
तमन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो
द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण
तपति

९.२.३.[१५]

आग्नीध्रवेलायाम् । अन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधाति तस्मादेषो
ऽन्तरिक्षायतनो व्यध्वे व्यध्वे ह्येष इतः

९.२.३.[१६]

स एष प्राणः । प्राणमेवैतदात्मन्धत्ते तदेतदायुरायुरेवैतदात्मन्धत्ते
तदेतदन्नमायुर्ह्येतदन्नमु वा आयुरश्मा भवति स्थिरो वा अश्मा स्थिरं तदायुः
कुरुते पृश्निर्भवति पृश्नीव ह्यन्नम्

९.२.३.[१७]

स उपदधाति । विमान एष दिवो मध्य आस्त इति विमानो ह्येष दिवो मध्य आस्त
आपप्रिवान्रोदसी अन्तरिक्षमित्युद्यन्वा एष इमांलोकानापूरयति स विश्वाचीरभिचष्टे
घृताचीरिति स्रुचश्चैतद्वेदीश्चाहान्तरा पूर्वमपरं च केतुमित्यन्तरेमं च
लोकममुं चेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति

९.२.३.[१८]

उक्षा समुद्रो अरुणः सुपर्ण इति । उक्षा ह्येष समुद्रोऽरुणः सुपर्णः पूर्वस्य
योनिं पितुराविवेशेति पूर्वस्य ह्येष एतं योनिं पितुराविशति मध्ये दिवो निहितः
पृश्निरश्मेति मध्ये ह्येष दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्ताविति
विक्रममाणो वा एष एषां लोकानामन्तान्याति
९.२.३.[१९]

द्वाभ्यामुपदधाति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष न सादयत्यसन्नोय्
ह्येष न सूददोहसाधिवदति प्राणो वै सूददोहाः प्राण एष किं प्राणे प्राणं
दध्यामिति तं निधाय यथा न नश्येत्

९.२.३.[२०]

अथोपायन्ति । इन्द्रं विश्वा अवीवृधन्निति तस्योक्तो बन्धुर्देवहूर्यज्ञ आ च
वक्षत्सुम्नहूर्यज्ञ आ च वक्षदिति देवहूश्चैव यज्ञः सुम्नहूश्च
यक्षदग्निर्देवो देवां आ च वक्षदिति यक्षच्चैवाग्निर्देवो देवाना च वहत्वित्येतत्

९.२.३.[२१]

वाजस्य मा प्रसवः । उद्ग्राभेणोदग्रभीत् अधा सपत्नानिन्द्रो मे निग्राभेणाधरा
अकरिति यथैव यजुस्तथा बन्धुः

९.२.३.[२२]

उद्ग्राभं च निग्राभं च । ब्रह्म देवा अवीवृधनधा सपत्नानिन्द्राग्नी मे
विषूचीनान्व्यस्यतामिति यथैव यजुस्तथा बन्धुः

९.२.३.[२३]

तद्या अमुष्मादादित्यादूर्ध्वाश्चतस्रो दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति

९.२.३.[२४]

अथाग्निमारोहन्ति । क्रमध्वमग्निना नाकमिति स्वर्गो वै लोको नाकः
क्रमध्वमनेनाग्निनैतं स्वर्गं लोकमित्येतदुख्यं हस्तेषु बिभ्रत
इत्युख्यं ह्येत एतं हस्तेषु बिभ्रति दिवस्पृष्ठं स्वर्गत्वा मिश्रा
देवेभिराध्वमिति दिवस्पृष्ठं स्वर्गं लोकं गत्वा मिश्रा देवेभिराध्वमित्येतत्

९.२.३.[२५]

प्राचीमनु प्रदिशं प्रेहि विद्वानिति । प्राची वै दिगग्नेः स्वामनु प्रदिशं प्रेहि
विद्वानित्येतदग्नेरग्ने पुरो अग्निर्भवेहेत्यस्य त्वमग्नेरग्ने पुरो
ऽग्निर्भवेहेत्येतद्विश्वा आशा दीद्यानो विभाहीति सर्वा आशा दीप्यमानो
विभाहीत्येतदूर्जं नो धेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते

९.२.३.[२६]

पृथिव्या अहम् । उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति
गार्हपत्याद्ध्याग्नीध्रीयमागच्छन्त्याग्नीध्रीयादाहवनीयं दिवो नाकस्य
पृष्ठात्स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत्

९.२.३.[२७]

स्वर्यन्तो नापेक्षन्ते । आ द्यां रोहन्ति रोदसी इति न हैव तेऽपेक्षन्ते ये स्वर्गं
लोकं यन्ति यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिर इत्येष एव यज्ञो
विश्वतोधार एत उ एव सुविद्वांसो य एतं वितन्वते

९.२.३.[२८]

अग्ने प्रेहि प्रथमो देवयतामिति । इममेतदग्निमाह त्वमेषां प्रेहि प्रथमो
देवयतामिति चक्षुर्देवानामुत मर्त्यानामित्युभयेषां हैतद्देवमनुष्याणां
चक्षुरियक्षमाणा भृगुभिः सजोषा इति यजमाना भृगुभिः सजोषा इत्येतत्स्वर्यन्तु
यजमानाः स्वस्तीति स्वर्गं लोकं यन्तु यजमानाः स्वस्तीत्येतत्

९.२.३.[२९]

तद्या अमुष्मिंलोके पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति

९.२.३.[३०]

अथैनमभिजुहोति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतयाहुत्या
तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतयाहुत्या कृष्णायै
शुक्लवत्सायै पयसा रात्रिर्वै कृष्णा शुक्लवत्सा तस्या असावादित्यो वत्सः
स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणात्युपरि धार्यमाण उपरि हि स
यमेतत्प्रीणाति दोहनेन दोहनेन हि पयः प्रदीयते

९.२.३.[३१]

यद्वेवैनमभिजुहोति । शिर एतद्यज्ञस्य यदग्निः प्राणः पयः शीर्षंस्तत्प्राणं
दधाति यथा स्वयमातृणामभिप्रक्षरेदेवमभिजुहुयात्प्राणः स्वयमातृणा रस
एष शिरश्च तत्प्राणं च रसेन संतनोति संदधाति नक्तोषासा समनसा विरूपे इति
तस्योक्तो बन्धुः
९.२.३.[३२]

अग्ने सहस्राक्षेति । हिरण्यशकलैर्वा एष सहस्राक्षः शतमूर्धन्निति यददः
शतशीर्षा रुद्रोऽसृज्यत शतं ते प्राणाः सहस्रं व्याना इति शतं हैव तस्य प्राणाः
सहस्रं व्याना यः शतशीर्षा त्वं साहस्रस्य राय ईशिष इति त्वं सर्वस्यै रय्या ईशिष
इत्येतत्तस्मै ते विधेम वाजाय स्वाहेत्येष वै वाजस्तमेतत्प्रीणाति

९.२.३.[३३]

द्वाभ्यामभिजुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदभिजुहोति

९.२.३.[३४]

अथैनं निदधाति । सुपर्णोऽसि गरुत्मानित्येतद्वा एनमदो विकृत्य सुपर्णं
गरुत्मन्तं विकरोति तं सुपर्णं गरुत्मन्तं चिनोति तं सुपर्णं गरुत्मन्तं
कृत्वान्ततो निदधाति पृष्ठे पृथिव्याः सीद भासान्तरिक्षमापृण ज्योतिषा
दिवमुत्तभान तेजसा दिश उद्दूंहेत्येवं ह्येष एतत्सर्वं करोति

९.२.३.[३५]

आजुह्वानः सुप्रतीकः पुरस्तादिति । आजुह्वानो नः सुप्रतीकः पुरस्तादित्येतदग्ने त्वं
योनिमासीद साधुयेत्येष वा अस्य स्वो योनिस्तं साध्वासीदेत्येतदस्मिन्त्सधस्थे
अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा यजमानश्च सीदतेति
तद्विश्वैर्देवैः सह यजमानं सादयति द्वाभ्यां निदधाति तस्योक्तो
बन्धुर्वषट्कारेण तस्योपरि बन्धुः

९.२.३.[३६]

अथास्मिन्त्समिध आदधाति । एतद्वा एनं देवा
ईयिवांसमुपरिष्टादन्नेनाप्रीणन्त्समिद्भिश्चाहुतिभिश्च
तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणाति समिद्भिश्चाहुतिभिश्च

९.२.३.[३७]

स वै शमीमयीं प्रथमामादधाति । एतद्वा एष एतस्यामाहुत्यां हुतायाम्
प्रादीप्यतोदज्वलत्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति त एतां
शमीमपश्यस्तयैनमशमयंस्तद्यदेतं शम्याशमयंस्तस्माच्छमी
तथैवैनमयमेतच्छम्या शमयति शान्त्या एव न जग्ध्यै

९.२.३.[३८]

तां सवितुर्वरेण्यस्य । चित्रामाहं वृणे सुमतिं विश्वजन्यां यामस्य कण्वो
अदुहत्प्रपीनां सहस्रधारां पयसा महीं गामिति कण्वो हैनां ददर्श सा हास्मै
सहस्रधारा सर्वान्कामान्दुदुहे तथैवैतद्यजमानाय सहस्रधारा
सर्वान्कामान्दुहे

९.२.३.[३९]

अथ वैकङ्कतीमादधाति । तस्या उक्तो बन्धुर्विधेम ते परमे जन्मन्नग्न इति
द्यौर्वा अस्य परमं जन्म विधेम स्तोमैरवरे सधस्थ इत्यन्तरिक्षं वा
अवरं सधस्थं यस्माद्योनेरुदारिथा यजे तमित्येष वा अस्य स्वो योनिस्तं यज
इत्येतत्प्र त्वे हवींषि जुहुरे समिद्ध इति यदा वा एष समिध्यते
ऽथैतस्मिन्हवींषि प्रजुह्वति

९.२.३.[४०]

अथौदुम्बरीमादधाति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेद्रसेन प्रीणाति
कर्णकवती भवति पशवो वै कर्णकाः पशुभिरेवैनमेतदन्नेन प्रीणाति यदि
कर्णकवतीं न विन्देद्दधिद्रप्समुपहत्यादध्यात्तद्यद्दधिद्रप्स
उपतिष्ठते तदेव पशुरूपं प्रेद्धो अग्ने दीदिहि पुरो न इति विराजादधान्यन्नं
विराडन्नेवैनमेतत्प्रीणाति तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतदन्नेन प्रीणाति

९.२.३.[४१]

अथाहुतीर्जुहोति । यथा परिविष्यानुपाययेत्तादृक्तत्स्रुवेण पूर्वे स्रुचोत्तरामग्ने
तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ऋध्यामा त ओहैरिति यस्ते
हृदिस्पृक्ष्तोमस्तं त ऋध्यासमित्येतत्पङ्क्त्या जुहोति पञ्चपदा पङ्क्तिः पञ्चचितिको
ऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति

९.२.३.[४२]

अथ वैश्वकर्मणीं जुहोति । विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति चित्तिं जुहोमि
मनसा घृतेनेति चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतद्यथा देवा
इहागमन्निति यथा देवा इहागच्छानित्येतद्वीतिहोत्रा ऋतावृध इति सत्यवृध इत्येतत्पत्ये
विश्वस्य भूमनो जुहोमि विश्वकर्मण इति योऽस्य सर्वस्य भूतस्य पतिस्तस्मै
जुहोमि विश्वकर्मण इत्येतद्विश्वाहाहाभ्यं हविरिति सर्वदैवाक्षितं हविरित्येतत्

९.२.३.[४३]

अथ पूर्णाहुतिं जुहोति सर्वमेतद्यत्पूर्णं सर्वेणैवैनमेतत्प्रीणाति

९.२.३.[४४]
सप्त ते अग्ने समिध इति प्राणा वै समिधः प्राणा ह्येतं समिन्धते सप्त जिह्वा इति
यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वंस्तेषामेतदाह सप्त ऋषय इति सप्त
हि त ऋषय आसन्त्सप्त धाम प्रियाणीति छन्दांस्येतदाह छन्दांसि वा अस्य सप्त
धाम प्रियाणि सप्त होत्राः सप्तधा त्वा यजन्तीति सप्त ह्येतं होत्राः सप्तधा
यजन्ति सप्त योनिरिति चितीरेतदाहापृणस्वेत्या प्रजायस्वेत्येतद्घ्रृतेनेति रेतो वै घृतं
रेत एवैतदेषु लोकेषु दधाति स्वाहेति यज्ञो वै स्वाहाकारो यज्ञियमेवैतदिदं
सकृत्सर्वं करोति

९.२.३.[४५]

सप्त सप्तेति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रीणाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तिस्रः
समिध आदधाति तत्षट्तस्योक्तो बन्धुः

९.२.३.[४६]

तिष्ठन्त्समिध आदधाति । अस्थीनि वै समिधस्तिष्ठन्तीव वा अस्थीन्यासीन
आहुतीर्जुहोति मांसानि वा आहुतय आसत इव वै मांसान्यन्तराः समिधो भवन्ति
बाह्या आहुतयोऽन्तराणि ह्यस्थीनि बाह्यानि मांसानि

९.२.३.[४७]

अथातः सम्पदेव । षट्पुरस्ताज्जुहोति षडुपरिष्टात्षद्भिराश्मनः पृश्नेर्यन्ति
द्वाभ्यामश्मानं पृश्निमुपदधाति चतुर्भिराग्नेर्यन्ति पञ्चभिरग्निमारोहन्ति
तदेकां न त्रिंशदाहुतिरेव त्रिंशत्तमी द्वाभ्यामग्निं निदधाति
तद्द्वात्रिंशद्द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्

९.२.३.[४८]

तद्या अमूस्तिस्रोऽनुष्टुभः । गार्हपत्ये सम्पादयन्ति तासामेतामत्रिकामाहरन्ति
तद्यदेतामत्राहरन्त्यत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र तस्मै
नालमासीद्यदन्नमात्स्यत्

९.२.३.[४९]

सोऽग्निमब्रवीत् । त्वयान्नमदानीति तथेति तस्माद्यदैवैतमत्राहरन्त्यथैषो
ऽलमन्नायालमाहुतिभ्यो भवति

९.२.३.[५०]

अथो आहुः । प्रजापतिरेवैतं प्रियं पुत्रमुरस्याधत्त इति स यो हैतदेवं वेदा
हैवं प्रियं पुत्रमुरसि धत्ते
९.२.३.[५१]

यदेवैतमत्राहरन्ति । यान्वै तान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्नयमेव
स योऽयमग्निश्चीयतेऽथ यामेषां तामूर्ध्वां श्रियं रसं समुदौहन्नेष स
यमेतमत्राग्निमाहरन्ति तद्यदेतमत्राहरन्ति यैवैतेषा सप्तानां पुरुषाणां
श्रीर्यो रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतच्छिर आत्मायमग्निश्चत
आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति

९.३.१.[१]

अथातो वैश्वानरं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वैश्वानरो देवता
तस्मा एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै
हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते द्वादशकपालो द्वादश मासाः
संवत्सरः संवत्सरो वैश्वानरः

९.३.१.[२]

यद्वेवैतं वैश्वानरं जुहोति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति
तमदः पुरस्ताद्दीक्षणीयायां रेतो भूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते
तादृग्जायते तद्यत्तत्र वैश्वानरं रेतो भूतं सिञ्चति तस्मादयमिह वैश्वानरो
जायत उपांशु तत्र भवति रेतो वै तत्र यज्ञ उपांशु वै रेतः सिच्यते निरुक्त इह
निरुक्तं हि रेतो जातं भवति

९.३.१.[३]

स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरोऽन्तरिक्षमेव
विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः

९.३.१.[४]

ते ये त इमे लोकाः । इदं तच्छिर इदमेव पृथिव्योषधयः श्मश्रूणि तदेतद्विश्वं
वागेवाग्निः स नरः सोपरिष्टादस्य भवत्युपरिष्टाद्ध्यस्या अग्निः

९.३.१.[५]

इदमेवान्तरिक्षम् । तस्मादेतदलोमकमलोमकमिव ह्यन्तरिक्षं तदेतद्विश्वम्
प्राण एव वायुः स नरः स मध्येनास्य भवति मध्येन ह्यन्तरिक्षस्य वायुः

९.३.१.[६]

शिर एव द्यौः । नक्षत्राणि केशास्तदेतद्विश्वं चक्षुरेवादित्यः स
नरस्तदवस्ताचोर्ष्णो भवत्यवस्ताद्धि दिव आदित्यस्तदस्यैतच्छिरो वैश्वानर
आत्मायमग्निश्चित आत्मायमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति

९.३.१.[७]

अथ मारुतान्जुहोति । प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्दधाति वैश्वानरं
हुत्वा
शिरो वै वैश्वानरः शीर्षंस्तत्प्राणान्दधाति

९.३.१.[८]

एक एष भवति । एकमिव हि शिरः सप्तेतरे सप्तकपाला यदु वा अपि बहु कृत्वः
सप्तसप्त सप्तैव तचीर्षण्येव तत्सप्त प्राणान्दधाति

९.३.१.[९]

निरुक्त एष भवति । निरुक्तमिव हि शिरोऽनिरुक्ता इतरेऽनिरुक्ता इव हि
प्राणास्तिष्ठन्नेतं जुहोति तिष्ठतीव हि शिर आसीन इतरानासत इव हि प्राणाः

९.३.१.[१०]

तद्यौ प्रथमौ मारुतौ जुहोति । इमौ तौ प्राणौ तौ मध्ये वैश्वानरस्य
जुहोति मध्ये हीमौ शीर्ष्णः प्राणौ

९.३.१.[११]

अथ यौ द्वितीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ
प्राणौ

९.३.१.[१२]

अथ यौ तृतीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ
प्राणौ वागेवारण्येऽनूच्यः सोऽरण्येऽनूच्यो भवति बहु हि वाचा घोरं निगच्छति

९.३.१.[१३]

यद्वेव वैश्वानरमारुतान्जुहोति । क्षत्रं वै वैश्वानरो विण्मारुताः क्षत्रं च
तद्विशं च करोति वैश्वानरं पूर्वं जुहोति क्षत्रं तत्कृत्वा विशं करोति

९.३.१.[१४]

एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि
तद्भूमानं दधाति

९.३.१.[१५]

निरुक्त एष भवति । निरुक्तमिव हि क्षत्रमनिरुक्ता इतरेऽनिरुक्तेव हि विट्
तिष्ठन्नेतं जुहोति तिष्ठतीव हि क्षत्रमासीन इतरानास्त इव हि विट्

९.३.१.[१६]

तं वा एतम् । पुरोऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति
हस्तेनैवेतरानासीनः स्वाहाकारेण क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं
करोति

९.३.१.[१७]

तदाहुः । कथमस्यैते पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता
भवन्तीत्येतेषां वै सप्तपदानां मारुतानां यानि त्रीणि प्रथमानि पदानि सा
त्रिपदा गायत्री पुरोऽनुवाक्याथ यानि चत्वार्युत्तमानि सा चतुष्पदा
त्रिष्टुब्याज्येदमेव कपुच्छलमयं दण्डः स्वाहाकारो वषट्कार एवमु हास्यैते
पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्ति

९.३.१.[१८]

तद्यं प्रथमं दक्षिणतो मारुतं जुहोति । याः सप्त प्राच्यः स्रवन्ति ताः स स
सप्तकपालो भवति सप्त हि ता याः प्राच्यः स्रवन्ति

९.३.१.[१९]

अथ यं प्रथममुत्तरतो जुहोति । ऋतवः स स सप्तकपालो भवति सप्त ह्यृतवः

९.३.१.[२०]

अथ यं द्वितीयं दक्षिणतो जुहोति । पशवः स स सप्तकपालो भवति सप्त हि
ग्राम्याः पशवस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यप्सु तत्पशून्प्रतिष्ठापयति

९.३.१.[२१]

अथ यं द्वितीयमुत्तररो जुहोति । सप्त ऋषयः स स सप्तकपालो भवति सप्त हि
सप्तऽर्षयस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यृतुषु तदृषीन्प्रतिष्ठापयति

९.३.१.[२२]

अथ यं तृतीय दक्षिणतो जुहोति । प्राणाः स स सप्तकपालो भवति सप्त हि
शीर्षन्प्राणास्तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितांस्तचीर्ष्णः प्राणान्दधाति

९.३.१.[२३]

अथ यं तृतीयमुत्तरतो जुहोति । छन्दांसि स स सप्तकपालो भवति सप्त हि
चतुरुत्तराणि छन्दांसि तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितानि
तदृषिभ्यश्चन्दांसि दधाति

९.३.१.[२४]

अथ याः सप्त प्रतीच्यः स्रवन्ति । सोऽरण्येऽनूच्यः स सप्तकपालो भवति सप्त हि ता
याः प्रतीच्यः स्रवन्ति सोऽस्यैषोऽवाङ्प्राण एतस्य प्रजापतेः सोऽरण्येऽनूच्यो भवन्ति
तिर इव तद्यदरण्यं तिर इवं तद्यदवाङ्प्राणस्तस्माद्य एतासां नदीनां पिबन्ति
रिप्रतराः शपनतरा आहनस्यवादितरा भवन्ति तद्यद्यदेतदाहेदं मारुता इति
तदस्मा अन्नं कृत्वापिदधाति तेनैनं प्रीणाति

९.३.१.[२५]

स यः स वैश्वानरो ।ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते ते सप्त सप्तकपाला
भवन्ति सप्तसप्त हि मारुता गणाः

९.३.१.[२६]

स जुहोति । शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्चेति नामान्येषामेतानि
मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहं प्रतिदधाति

९.३.२.[१]

अथातो वसोर्धारां जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वसुस्तस्मै देवा
एतां धारां प्रागृह्णंस्तयैनमप्रीणंस्तद्यदेतस्मै वसव एतां धाराम्
प्रागृह्णंस्तस्मादेनां वसोर्धारेत्याचक्षते तथैवास्मा अयमेतां धाराम्
प्रगृह्णाति तयैनं प्रीणाति

९.३.२.[२]

यद्वेवैतां वसोर्धारां जुहोति । अभिषेक एवास्यैष एतद्वा एनं देवाः सर्वं
कृत्स्नं संस्कृत्याथैनमेतैः कामैरभ्यषिञ्चन्नेतया वसोर्धारया
तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभिषिञ्चत्येतया
वसोर्धारयाज्येन पञ्चगृहीतेनौदुम्बर्या स्रुचा तस्योक्तो बन्धुः

९.३.२.[३]

वैश्वानरं हुत्वा । शिरो वै वैश्वानरः शीर्ष्णो वा अन्नमद्यतेऽथो शीर्षतो वा
अभिषिच्यमानोऽभिषिच्यते मारुतान्हुत्वा प्राणा वै मारुताः प्राणैरु वा अन्नमद्यते
ऽथो प्राणेषु वा अभिषिच्यमानोऽभिषिच्यते

९.३.२.[४]

तद्वा अरण्येऽनूच्ये । वाग्वा अरण्येऽनूच्यो वाचो वा अन्नमद्यतेऽथो वाचा वा
अभिषिच्यमानोऽभिषिच्यते तदेतत्सर्वं वसु सर्वे ह्येते कामाः सैषा वसुमयो
धारा यथा क्षोरस्य वा सर्पिषो वैवमारभ्यायैवेयमाज्याहुतिर्हूयते तद्यदेषा
वसुमयी धारा तस्मादेनां वसोधारेत्याचक्षते

९.३.२.[५]

स आह । इदं च म इदं च म इत्यनेन च त्वा प्रीणाम्यनेन चानेन च
त्वाभिषिञ्चाम्यनेन चेत्येतदथो इदं च मे देहीदं च म इति सा यदैवैषा
धाराग्निं प्राप्नुयादथैतद्यजुः प्रतिपद्येत

९.३.२.[६]

एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतान्कामानयाचन्त तेभ्य इष्टः प्रीतोऽभिषिक्त
एतान्कामान्प्रायच्छत्तथैवैनमयदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतान्कामान्याचते तस्मा इष्टः प्रीतोऽभिषिक्त
एतान्कामान्प्रयच्छति द्वौद्वौ कामौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ
संयुञ्ज्यादेवं यज्ञेन कल्पन्तामिति

९.३.२.[७]

एतद्वै देवा अब्रुवन् । केनेमान्कामान्प्रतिग्रहीष्याम इत्यात्मनैवेत्यब्रुवन्यज्ञो
वै देवानामात्मा यज्ञ उ एव यजमानस्य स यदाह यज्ञेन कल्पन्तमित्यात्मना
मे कल्पन्तामित्येवैतदाह

९.३.२.[८]

द्वादशसु कल्पयति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणात्यथो
तावतैवैनमेतदन्नेनाभिषिञ्चति चतुर्दशसु कल्पयत्यष्टासु कल्पयति दशसु
कल्पयति त्रयोदशसु कल्पयति

९.३.२.[९]

अथार्धेन्द्राणि जुहोति । सर्वमेतद्यदर्धेन्द्राणि सर्वेणैवैनमेतत्प्रीणात्यथो
सर्वेणैवैनमेतदभिषिञ्चति

९.३.२.[१०]

अथ ग्रहान्जुहोति । यज्ञो वै ग्रहा यज्ञेनैवैनमेतदन्नेन प्रीणात्यथो
यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति

९.३.३.[१]

अथैतान्यज्ञक्रतून्जुहोति । अग्निश्च मे घर्मश्च म
इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो
एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति

९.३.३.[२]

अथायुज स्तोमान्जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं
लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं लोकमेति

९.३.३.[३]

तद्वै त्रयस्त्रिंशादिति । अन्तो वै त्रयस्त्रिंशोऽयुजां स्तोमानामन्तत एव तद्देवाः
स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति

९.३.३.[४]

अथ युग्मतो जुहोति । एतद्वै छन्दांस्यब्रुवन्यातयामा वा अयुज स्तोमा
युग्मभिर्वयं स्तोमैः स्वर्गं लोकययामेति तानि युग्मभि स्तोमैः स्वर्गं
लोकमायंस्तथैवैतद्यजमानो युग्मभि स्तोमैः स्वर्गं लोकमेति

९.३.३.[५]

तद्वा अष्टाचत्वरिंशादिति । अन्तो वा अष्टाचत्वारिंशो युग्मतां स्तोमानामन्तत एव
तच्चन्दांसि स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति
९.३.३.[६]

स आह । एका च मे तिस्रश्च मे चतस्रश्च मेऽष्टौ च म इति यथा वृक्षं
रोहन्नुत्तरामुत्तरां शाखां समालम्भं रोहेत्तादृक्तद्यद्वेव
स्तोमान्जुहोत्यन्नं वै स्तोमा अन्नेनैवैनमेतदभिषिञ्चति

९.३.३.[७]

अथ वयांसि जुहोति । पशवो वै वयांसि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो
पशुभिरेवैनमेतदन्नेनाभिषिञ्चति

९.३.३.[८]

अथ नामग्राहं जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव
प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षम्
प्रीणाति वाजाय स्वाहा प्रसवाय स्वाहेति नामान्यस्यैतानि
नामग्राहमेवैनमेतत्प्रीणाति

९.३.३.[९]

त्रयोदशैतानि नामानि भवन्ति । त्रयोदश मासाः
संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्प्रीणाति यद्वेव नामग्राहं जुहोति
नामग्राहमेवैनमेतदभिषिञ्चति

९.३.३.[१०]

अथाह । इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां
त्वाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्ठिरन्नेनैवैनमेतत्प्रीणाति

९.३.३.[११]

यद्वेवाह । इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां
त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि यमन ऊर्जे च
नोऽसि वृष्ट्यै च नोऽसि प्रजानां च न आधिपत्यायासीत्युपब्रुवत एवैनमेतदेतस्मै
नः सर्वस्मा अस्येतस्मै त्वा सर्वस्मा अभ्यषिचामहीति तस्मादु हेदं मानुषं
राजानमभिषिक्तमुपब्रुवते

९.३.३.[१२]

अथ कल्पान्जुहोति । प्राणा वै कल्पाः प्राणानेवास्मिन्नेतद्दधात्यायुर्यज्ञेन
कल्पतां प्राणो यज्ञेन कल्पतामित्येतानेवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति
९.३.३.[१३]

द्वादश कल्पान्जुहोति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति यद्वेव
कल्पान्जुहोति प्राणा वै कल्पा अमृतमु वै प्राणा अमृतेनैवैनमेतदभिषिञ्चति

९.३.३.[१४]

अथाह स्तोमश्च यजुश्च ऋक्च साम स बृहच्च रथन्तरं चेति त्रयी हैषा विद्यान्नं
वै त्रयी विद्यान्नेनैवैनमेतत्प्रीणात्यथो अन्नेनैवैनमेतदभिषिञ्चति स्वर्देवा
अग्नमामृता अभूमेति स्वर्हि गच्छत्यमृतो हि भवति प्रजापतेः प्रजा अभूमेति
प्रजापतेर्हि प्रजा भवति वेट्स्वाहेति वषट्कारो हैष परोऽक्षं यद्वेट्कारो
वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते
तदेनमेताभ्यामुभाभ्यां प्रीणाति वषट्कारेण च स्वाहाकारेण चाथो
एताभ्यामेवैनमेतदुभाभ्यामभिषञ्चत्यत्र तां स्रुचमनुप्प्रास्यति
यदत्राज्यलिप्तं तन्नेद्बहिर्धाग्नेरसदिति

९.३.३.[१५]

तस्यै वा एतस्यै वसोर्धारायै । द्यौरेवात्माभ्रमूधो विद्युत्स्तनो धारैव धारा
दिवोऽधि गामागच्छति

९.३.३.[१६]

तस्यै गौरेवात्मा । ऊध एवोध स्तन स्तनो धारैव धारा गोरधि यजमानम्

९.३.३.[१७]

तस्यै यजामान एवात्माम् । बाहुरूधः स्रुक्ष्तनो धारैव धारा यजमानादधि
देवान्देवेभ्योऽधि गां गोरधि यजमानं तदेतदनन्तमक्षय्यं
देवानामन्नं परिप्लवते स यो हैतदेवं वेदैवं
हैवास्यैतदनन्तमक्षय्यमन्नं भवत्यथातः सम्पदेवः

९.३.३.[१८]

तदाहुः । कथममस्यैषा वमोर्धारा संवत्सरमग्निमाप्नोति कथं
संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्राणि च शतान्येषा वसोर्धाराथ
षडथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि
तत्संवत्सरस्याहान्याप्नोत्यथ यानि ष्ट्षड्वा ऋतवस्तदृतूनां रात्रीराप्नोति
तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स
आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर
एवमु हास्यैषा वसोर्धारा संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना
सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्ते
ऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथग्वसोर्धारयाभिहुता
भवन्ति

९.३.३.[१९]

तदाहुः । कथमस्यैषा वसोर्धारा महदुक्थमाप्नोति कथं महतोक्थेन
सम्पद्यत इत्येतस्या एव वसोर्धारायै यानि नव प्रथमानि यजूंषि तत्त्रिवृच्छिरोऽथ
यान्यष्टाचत्वारिंशत्तौ चतुर्विंशौ पक्षावथ यानि पञ्चविंशतिः स पञ्चविंश
आत्माथ यान्येकविंशतिस्तदेकविंशं पुच्छमथ यानि त्रयस्त्रिंशत्स वशोऽथ या
अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ
यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु
हास्यैषा वसोर्धारा महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते

९.३.४.[१]

अथातो वाजप्रसवीयं जुहोति । अन्नं वै वाजोऽन्नप्रसवीयं हास्यैतदन्नमेवास्मा
एतेन प्रसौति

९.३.४.[२]

एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतद्भूय एवाप्रीणंस्तथैवैनमयमेतदेतेनान्नेन
प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एव प्रीणाति

९.३.४.[३]

यद्वेवैतद्वाजप्रसवीयं जुहोति । अभिषेक एवास्यैष एतद्वा एतं देवा एतेनान्नेन
प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय
एवाभ्यषिञ्चंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतद्भूय एवाभिषिञ्चति

९.३.४.[४]

सर्वौषधं भवति । सर्वमेतदन्नं यत्सर्वौषधं
सर्वेणैवैनमेतदन्नेन प्रीणात्यथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति
तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण
चमसेनौदुम्बरेण स्रुवेण तयोरुक्तो बन्धुश्चतुःस्रक्तो भवतश्चतस्रो वै
दिशः सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणात्यथो सर्वाभ्य
एवैनमेतद्दिग्भ्योऽन्नेनाभिषिञ्चति

९.३.४.[५]

यद्वेवैतद्वाजप्रसवीयं जुहोति । एता ह देवताः सुता एतेन सवेन
येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं
सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चत्यथ
यदेताभ्यो देवताभ्यो जुहोति तदु तान्देवान्प्रीणाति य एतस्य सवस्येशते

९.३.४.[६]

अथ वा एतत्पार्थान्यपि जुहोति । एतद्वै देवा अकामयन्तात्रैव सर्वैः सवैः
सूयेमहीति तेऽत्रैव सर्वैः सवैरसूयन्त तथैवैतद्यजमानोऽत्रैव सर्वैः सवैः
सूयते

९.३.४.[७]

तद्यानि पार्थानि । तानि राजसूयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्राजुसूयेन
सूयतेऽथ यानि चतुर्दशोत्तराणि ततो यानि सप्त पूर्वाणि तानि वाजपेयस्य
वाजप्रसवीयं तद्यत्तानि जुहोति तद्वाजपेयेन सूयतेऽथ यानि सप्तोत्तराणि
तान्यग्नेस्तद्यत्तानि जुहोति तदग्निसवेन सूयते

९.३.४.[८]

स वै राजसूयस्य पूर्वाणि जुहोति । अथ वाजपेयस्य राजा वै राजुसूयेनेष्ट्वा भवति
सम्राड्वाजपेयेन राज्यमु वा अग्रेऽथ साम्राज्यं तस्माद्वाजपेयेनेष्ट्वा न
राजसूयेन यजेत प्रत्यवरोहः स यथा सम्राट्सन्राजा स्यात्तादृक्तत्

९.३.४.[९]

अग्नेरुत्तमानि जुहोति । सर्वे हैते सवा यदग्निसवः सर्वं हैतदग्निसवेन सुतो
भवति राजा च सम्राट्च तस्मादग्नेरुत्तमानि जुहोति

९.३.४.[१०]

अथैनं कृष्णाजिनेऽभिषिञ्चति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतदभिषिञ्चति
लोमतश्चन्दांसि वै लोमानि छन्दःस्वेवैनमेतदभिषिञ्चत्युत्तरतस्तस्योपरि
बन्धुः प्राचीनग्रीवे तद्धि देवत्रा

९.३.४.[११]

तं हैके दक्षिणतोऽग्नेरभिषिञ्चन्ति । दक्षिणतो वा
अन्नस्योपचारस्तदेनमन्नस्यार्धादभिषिञ्चाम इति न तथा कुर्यादेषा वै
दिक्पितॄणां क्षिप्रे हैतां दिशं प्रैति यं तथाभिषिञ्चन्ति

९.३.४.[१२]
आहवनीय उ हैकेऽभिषिञ्चति । स्वर्गो वै लोक आहवनीयस्तदेनं स्वर्गे लोके
ऽभिषिञ्चाम इति न तथा कुर्याद्दैवो वा अस्यैष आत्मा मानुषोऽयमनेन हास्य ते
मर्त्येनात्मनैतं दैवमात्मनैतं दैवमानमनुप्रसजन्ति यं
तथाभिषिञ्चन्ति

९.३.४.[१३]

उत्तरत एवैनभिषिञ्चेत् । एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची
स्वायामेवैनमेतद्दिश्यायत्तं प्रतिष्ठितमभिषिञ्चति न वै स्व आयतने
प्रतिष्ठितो रिष्यति

९.३.४.[१४]

आसीनं भूतमभिषिञ्चेत् । आस्त इव वै भूतस्तिष्ठ्न्तं बुभूषन्तं तिष्ठतीव वै
बुभूषन्बस्ताजिने पुष्टिकाममभिषिञ्चेत्कृष्णाजिने
ब्रह्मवर्चसकाममुभयोरुभयकामं तदुत्तरतः पुच्छस्योत्तरलोम
प्राचीनग्रीवमुपस्तृणाति

९.३.४.[१५]

आस्पृष्टं परिश्रितः । तद्यत्कृष्णाजिनमास्पृष्टं परिश्रितो भवति तथो हास्यैष
दैव आत्मा कृष्णाजिनेऽभिषिक्तो भवत्यथ यदेनमन्वारब्धमग्निं
तिष्ठन्तमभिषिञ्चति तथा हैतस्माद्दैवादभिषेकान्न व्यवच्छिद्यते

९.३.४.[१६]

अग्नौ हुत्वाथैनमभिषिञ्चति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रे
ऽथ मनुष्यास्तस्मादग्नौ हुत्वाथैनं तस्यैव परिषिष्टेनाभिषिञ्चत्यत्र तं
स्रुवमनुप्रास्यति

९.३.४.[१७]

अथैनं दक्षिणं बाहुमनुपर्यावृत्याभिषिञ्चति । देवस्य त्वा सवितुः प्रसवे
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः
साम्राज्येनाभिषिञ्चामीति वाग्वै सरस्वती तस्या इदं सर्वं यन्त्रं सवितृप्रसूत
एवैनमेतदनेन सर्वेण सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः
साम्राज्येनाभिषिञ्चत्यत्र तं चमसमनुप्रास्यति यदत्र विलिप्तं
तन्नेद्बहिर्धाग्नेरसदिति

९.३.४.[१८]

तं वै मध्ये पार्थानामभिषिञ्चति । संवत्सरो वै पार्थानि
संवत्सरस्यैवैनमेतन्मध्यत आदधाति षट्पुरस्ताज्जुहोति षडुपरिष्टात्षड्वा
ऋतव ऋतुभिरेवैनमेततत्सुषुवाणमुभयतः परिगृह्णाति बृहस्पतिः
पूर्वेषामुत्तमो भवतीन्द्र उत्तरेषां प्रथमो ब्रह्म वै बृहस्पतिः
क्षत्रमिन्द्रो ब्रह्मणा चैवैनमेतत्क्षत्रेण च सुषुवाणमुभयतः परिगृह्णाति

९.४.१.[१]

अथातो राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह
देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः
प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो
राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यद्राजानो राष्ट्राणि बिभ्रति
राजान उ एते देवास्तस्मादेता राष्ट्रभृतः

९.४.१.[२]

यद्वेवैता राष्ट्रभृतो जुहोति ।
प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन्गन्धर्वाप्सरसो भूत्वा तानि रथो भूत्वा
पर्यगच्छत्तानि परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुते

९.४.१.[३]

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि
मिथुनान्युदक्रामन्नेतास्ता देवता याभ्य एतज्जुहोति

९.४.१.[४]

गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि भूत्वोदक्रामन्न्नथो गन्धेन
च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपप्रैति
गन्धं चैव स रूपं च कामयते

९.४.१.[५]

मिथुनानि जुहोति । मिथुनाद्वा अधि प्रजातिर्यो वै प्रजायते स राष्ट्रम्
भवत्यराष्ट्रं वै स भवति यो न प्रजायते तद्यन्मिथुनानि राष्ट्रं बिभ्रति
मिथुना उ एते देवास्तस्मादेता राष्ट्रभृत आज्येन द्वादशगृहीतेन ता उ
द्वादशैवाहुतयो भवन्ति तस्योत्रो बन्धुः

९.४.१.[६]

पुंसे पूर्वस्मै जुहोति । अथ स्रीभ्यः पुमांसं तद्वीर्येणात्यादधात्येकस्मा इव
पुंसे जुहोति बह्वीभ्य इव स्रीभ्यस्तस्मादप्येकस्य पुंसो बह्व्यो जाया
भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च पुंसे जुहोति स्वानाकारेणैव
स्त्रीभ्यः पुमांसमेव तद्वीर्येणात्यादधाति
९.४.१.[७]

ऋताषाडृतधामेति । सत्यसाट्सत्यधामेत्येतदग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस
इत्यग्निर्ह गन्धर्व ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम मुदो
नामेत्योषधयो वै मुद ओषधिभिर्हीदं सर्वं मोदते स न इदं ब्रह्म
क्षत्रं पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहेति तस्योक्तो बन्धुः

९.४.१.[८]

संहित इति । असौ वा आदित्यः संहित एष ह्यहोरात्रे संदधाति विश्वसामेत्येष ह्येव
सर्वं साम सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस इति सूर्यो ह गन्धर्वो
मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्रामायुवो नामेत्यायुवाना इव हि मरीचयः
प्लवन्ते स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः

९.४.१.[९]

सुषुम्ण इति । सुयज्ञिय इत्येतत्सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो
रश्मयश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरस इति चन्द्रमा ह गन्धर्वो
नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह
नामैते भां हि नक्षत्राणि कुर्वन्ति स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो
बन्धुः

९.४.१.[१०]

इषिर इति । क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदं सर्वं व्यचः करोति वातो
गन्धर्वस्तस्यापो अप्सरस इति वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन
सहोच्चक्रामोर्जो नामेत्यापो वा ऊर्जोऽद्भ्यो ह्यूर्ग्जायते स न इदं ब्रह्म क्षत्रम्
पात्विति तस्योक्तो बन्धुः

९.४.१.[११]

भुज्युः सुपर्ण इति । यज्ञो वै भुज्युर्यज्ञो हि सर्वाणि भूतानि भुनक्ति यज्ञो
गन्धर्वस्तस्य दक्षिणा अप्सरस इति यज्ञो ह गन्धर्वो
दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम स्तावा नामेति दक्षिणा वै स्तावा
दक्षिणाभिर्हि यज्ञ स्तूयतेऽथो यो वै कश्च दक्षिणां ददाति स्तूयत एव स स न
इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः

९.४.१.[१२]

प्रजापतिर्विश्वकर्मेति । प्रजापतिर्वै विश्वकमा स हीदं सर्वमकरोन्मनो
गन्धर्वस्तस्य ऋक्षामान्यप्सरस इति मनो ह गन्धर्व
ऋक्षामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्षामानि वा एष्टय
ऋक्षामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्त्विति स न इदं ब्रह्म क्षत्रं पात्विति
तस्योक्तो बन्धुः

९.४.१.[१३]

अथ रथशीर्षे जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः
सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै नाज्येन पञ्चगृहीतेन ता उ पञ्चैवाहुतयो हुता भवन्ति
तस्योक्तो बन्धुः

९.४.१.[१४]

शीर्षतः । शीर्षतो वा अभिषिच्यमानोऽभिषिच्यत उपरि धार्यमाण उपरि हि स
यमेतदभिषिञ्चति समानेन मन्त्रेण समातो हि स यमेतदभिषिञ्चति सर्वतः
परिहारं सर्वत एवैनमेतदभिषिञ्चति

९.४.१.[१५]

यद्वेव रथशीर्षे जुहोति । असौ वा आदित्य एष रथ एतद्वै तद्रूपं कृत्वा
प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुत उपरि धार्यमाण उपरि हि
स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत समानेन मन्त्रेण
समानो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत सर्वतः
परिहारं सर्वतो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत

९.४.१.[१६]

स नो भुवनस्य पते प्रजापत इति । भुवनस्य ह्येष पतिः प्रजापतिर्यस्य त उपरि
गृहा यस्य वेहेत्युपरि च ह्येतस्य गृहा इह चास्मै ब्रह्मणेऽस्मै क्षत्रायेत्ययं
वा आग्निर्ब्रह्म च क्षत्रं च महि शर्म यच्छ स्वाहेति महचर्म यच्छ स्वाहेत्येतत्

९.४.२.[१]

अथ वातहोमान्जुहोति । इमे वै लोका एषोऽग्निर्वायुर्वातहोमा एषु तल्लोकेषु वायुं
दधाति तस्मादयमेषु लोकेषु वायुः

९.४.२.[२]

बाह्येनाग्निमाहरति । आप्तो वा अस्य स वायुर्य एषु लोकेष्वथ य इमांलोकान्परेण
वायुस्तमस्मिन्नेतद्दधाति

९.४.२.[३]
बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स वायुर्योऽस्यामथ य इमां परेण
वायुस्तमस्मिन्नेतद्दधाति

९.४.२.[४]

अञ्जलिना । न ह्येतस्येतीवाभिपत्तिरस्ति स्वाहाकारेण जुहोति ह्यधोऽधो धुरमसौ वा
आदित्य एष रथोऽर्वाचीनं तदादित्याद्वायुं दधाति तस्मादेषोऽर्वाचीनमेवातः
पवते

९.४.२.[५]

समुद्रोऽसि नभस्वानिति । असौ वै लोकः समुद्रो नभस्वानार्द्रदानुरित्येष
ह्यार्द्रं ददाति तद्योऽमुष्मिंलोके वायुस्तमस्मिन्नेतद्दधाति
शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत्

९.४.२.[६]

मारुतोऽसि मरुतां गण इति । अन्तरिक्षलोको वै मारुतो मरुतां गणस्तद्यो
ऽन्तरिक्षलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति
शिवः स्योनोऽभि मा वाहीत्येतत्

९.४.२.[७]

अवस्यूरसि दुवस्वानिति । अयं वै लोकोऽवस्यूर्दुवस्वांस्तद्योऽस्मिंलोके
वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि
मा वाहीत्येतत्

९.४.२.[८]

त्रिभिर्जुहोति । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव
तदेषु वायुं दधाति

९.४.२.[९]

यद्वेव वातहोमान्जुहोति । एतमेवैतद्रथं युनक्त्येदद्वै देवा एतं रथं
सर्वेभ्यः कामेभ्योऽयुञ्जत युक्तेन समश्नवामहा इति तेन युक्तेन
सर्वान्कामान्त्समाश्नुवत तथैवैतद्यजमान एतं रथं सर्वेभ्यः कामेभ्यो
युङ्क्ते युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते

९.४.२.[१०]

वातहोमैर्युनक्ति । प्राणा वै वातहोमाः प्राणैरेवैनमेतद्युनक्ति त्रिभिर्युनक्ति
त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवैनमेतद्युन्क्त्यधोऽधो धुरमधो
ऽधो हि धुरं योग्यं युञ्जन्ति हस्ताभ्यां हस्ताभ्यां हि योग्यं युञ्जन्ति
विपरिक्रामं विपरिक्रामं हि योग्यं युञ्जन्ति

९.४.२.[११]

स दक्षिणायुग्यमेवाग्रे युनक्ति । अथ सव्यायुग्यमथ दक्षिणाप्रष्टिमेवं
देवत्रेतरथा मानुषे तं नाभियुञ्ज्यान्नेद्युक्तमभियुनजानीति वाहनं तु
दद्याद्युक्तेन भुनजा इति तमुपर्येव हरन्त्याध्वर्योरावसथादुपरि ह्येष
तमध्वर्यवे ददाति स हि तेन करोति तं तु दक्षिणानां कालेऽनुदिशेत्

९.४.२.[१२]

अथ रुङ्नतीर्जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुचमैच्छत्तस्मिन्देवा
एताभि रुङ्नतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति

९.४.२.[१३]

यद्वेव रुङ्नतीर्जुहोति । प्रजापतेर्विस्रस्ताद्रुगुदक्रामत्तं यत्र देवाः
समस्कुर्वंस्तदस्मिन्नेताभी रुङ्नतीभी
रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति

९.४.२.[१४]

यास्ते अग्ने सूर्ये रुचः । या वो देवाः सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्विति रुचं
रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रुचं दधाति

९.४.२.[१५]

अथ वारुणीं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वरुणो देवता तस्मा
एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा
देवता न सा यस्यै न गृह्यते वारुण्यऽर्चा स्वेनैवैनमेतदात्मना स्वया देवतया
प्रीणाति

९.४.२.[१६]

यद्वेव वारुणीं जुहोति । प्रजापतेर्विस्रस्ताद्वीर्यमुदक्रामत्तं यत्र देवाः
समस्कुर्वंस्तदस्मिन्नेतया वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति वारुण्य
ऽर्चा क्षत्रं वै वरुणो वीर्यं वै क्षत्रं वीर्येणैवास्मिन्नेतद्वीर्यं दधाति
९.४.२.[१७]

तप्त्वा यामि ब्रह्मणा वन्दमान इति । तत्त्वा याचे ब्रह्मणा वन्दमान
इत्येतत्तदाशास्ते यजमानो हविर्भिरिति तदयमाशास्ते यजमानो
हविर्भिरित्येतदहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणेह
बोधीत्येतदुरुशंस मा न आयुः प्रमोषीरित्यात्मनः परिदां वदते

९.४.२.[१८]

अथार्काश्वमेधयोः संततीर्जुहोति । अयं वा अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ
सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः
समतन्वन्त्समदुधुस्तथैवैनावयमेताभिराहुतिभिः संतनोति संदधाति

९.४.२.[१९]

स्वर्ण घर्मः स्वाहेति । असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ
प्रतिष्ठापय्ति

९.४.२.[२०]

स्वर्णार्कः स्वाहेति । अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति

९.४.२.[२१]

स्वर्ण शुक्रः स्वाहेति । असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति

९.४.२.[२२]

स्वर्ण ज्योतिः स्वाहेति । अयमग्निर्ज्योतिस्तं पुनरिह दधाति

९.४.२.[२३]

स्वर्ण सूर्यः स्वाहेति । असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं
दधाति तस्मादेषोऽस्य सर्वस्योत्तमः

९.४.२.[२४]

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनावेतत्संतनोति संदधाति
९.४.२.[२५]

यद्वेवाह । स्वर्ण घर्मः स्वाहा स्वर्णार्कः स्वाहेत्यस्यैवैतान्यग्नेर्नामानि
तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता
न सा यस्यै न गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति

९.४.२.[२६]

पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्च पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति

९.४.२.[२७]

अथात आहुतीनामेवावपनस्य । यां कां च ब्राह्मणवतीमाहुतिं
विद्यात्तमेतस्मिन्काले जुहुयात्कामेभ्यो वा एतं रथं युङ्क्ते तद्यां कां चात्राहुतिं
जुहोत्याप्तां तां सतीं जुहोति

९.४.२.[२८]

तदाहुः । न जुहुयान्नेदतिरेचयानीति स वै जुहुयादेव कामेभ्यो वा एता आहुतयो
हूयन्ते न वै कामानामतिरिक्तमस्ति

९.४.३.[१]

अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपति । अग्नय एते यद्धिष्ण्या
अग्नीनेवैतच्चिनोति ता एता विशः क्षत्रमयमग्निश्चितः क्षत्रं च तद्विशं च
करोत्यमुं पूर्वं चिनोत्यथेमान्क्षत्रं तत्कृत्वा विशं करोति

९.४.३.[२]

एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि
तद्भमानं दधाति

९.४.३.[३]

पञ्चचितिक एष भवति । एकचितिका इतरे क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो
वीर्यवत्तरं करोत्यूर्ध्वमेतं चिनोति क्षत्रं तदूर्ध्वं चिति भिश्चिनोति तिरश्च
इतरान्क्षत्राय तद्विशमधस्तादुपनिषादिनीं करोति

९.४.३.[४]

उभाभ्यां यजुष्मत्या च लोकम्पृणया चैतं चिनोति ।
लोकम्पृणयैवेमान्क्षत्रमेव तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं
करोति विशं क्षत्रादवीर्यतराम्

९.४.३.[५]

स यदिमांलोकम्पृणयैव चिनोति क्षत्रं वै लोकम्पृणा क्षत्रं तद्विश्यत्तारं
दधात्युभयांश्चिनोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वानथाग्नेस्तस्योक्तो
बन्धुर्यंयमेवाध्वरधिष्ण्यं निवपति तंतं चिनोत्याग्नीध्रीयं प्रथमं
चिनोति तं हि प्रथमं निवपति दक्षिणत उदङ्ङासीनस्तस्योक्तो बन्धुः

९.४.३.[६]

तस्मिन्नष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति तासामश्मा पृश्निर्नवमो
नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तानेवास्मिन्नेतद्दधाति यश्चिते
ऽग्निर्निधीयते स दशमो दश वै प्राणा मध्यमाग्नीध्रम्
मध्यतस्तत्प्राणान्दधाति मध्ये ह वा एतत्प्राणाः सन्त इति चेति
चात्मानमनुव्युच्चरन्ति

९.४.३.[७]

एकविंशतिं होत्रीय उपदधाति । एकविंशतिर्वेव परिश्रितस्तस्योक्तो बन्धुरेकादश
ब्राह्मणाच्छंस्य एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभ इन्द्र ऐन्द्रो
ब्राह्मणाच्छंस्यष्टावष्टावितरेषु तस्योक्तो बन्धुः

९.४.३.[८]

षण्मार्जालीये । षड्वा ऋतवः पितरस्तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे स
एषामेष दक्षिणतः स वा इतीममुपदधातीतीमानित्यमुं विशं
तत्क्षत्रमभिसम्मुखां करोति

९.४.३.[९]

अथैनान्परिश्रिद्भिः परिश्रयति । आपो वै परिश्रितोऽद्भिरेवैनांस्तत्परितनोति स वै
पर्येव निदधाति क्षत्रं हैता अपां याः खातेन यन्त्यथ हैता विशो यानीमानि
वृथोदकानि स यदमुं खातेन परिश्रयति क्षत्रे तत्क्षत्रं दधाति क्षत्रं
क्षत्रेण परिश्रयत्यथ यदिमान्पर्येव निदधाति विशि तद्विशं दधाति विशा विशम्
परिश्रयति तेषां वै यावत्य एव यजुष्मत्यस्तावत्यः परिश्रितो यावत्यो ह्येवामुष्य
यजुष्मत्यस्तावत्यः परिश्रितः क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं
करोति

९.४.३.[१०]
अथैषु पुरीषं निवपति । तस्योक्तो बन्धुस्तूष्णीमनिरुक्ता हि
विडथाग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपति दिश एषो
ऽग्निस्ताभ्य एतानि हवींषि निर्वपति तदेना हविषा देवतां करोति यस्यै वै देवतायै
हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते पञ्च भवन्ति पञ्च हि दिशः

९.४.३.[११]

ददाहुः । दशहविषमेवैतामिष्टिं निर्वपेत्सा सर्वस्तोमा सर्वपृष्ठा सर्वाणि
छन्दांसि सर्वा दिशः सर्व ऋतवः सर्वम्वेतदयमग्निस्तदेनं हविषा देवतां
करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते दश
भवन्ति दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा
आग्नेर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति

९.४.३.[१२]

तत्त्वै देवस्वामेव । एतानि हवींषि निर्वपेदेता ह देवताः सुता एतेन सवेन
येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं
सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै न तद्यदेता देवताः सुता एतेन सवेन यद्वैनमेता देवता
एतस्मै सवाय सुवते तस्मादेता देवस्वः

९.४.३.[१३]

ता वै द्विनाम्न्यो भवन्ति । द्विनामा वै सवेना सुतो भवति यस्मै वै सवाय सूयते
येन वा सवेन सूयते तदस्य द्वितीयं नाम

९.४.३.[१४]

अष्टौ भवन्ति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति

९.४.३.[१५]

तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा
एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च
पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि
निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः
पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति
पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडेष्टा
देवता भवन्त्यसमवहितं स्विष्टकृते

९.४.३.[१६]

अथैन पूर्वाभिषेकेणाभिमृशति । सविता त्वा सवानां सुवतामेष वोऽमी राजा सोमो
ऽस्माकं ब्राह्मणानां राजेति ब्राह्मणानेवापोद्धरत्यनाद्यान्करोति

९.४.४.[१]

अथ प्रातः प्रातरनुवाकमुपाकरिष्यन् । अग्निं युनक्ति युक्तेन समश्नवा इति तेन
युक्तेन सर्वान्कामान्त्समश्नुते तं वै पुरस्तात्सर्वस्य कर्मणो युनक्ति तद्यत्किं
चात्र ऊर्ध्वं क्रियते युक्ते तत्सर्वं समाधीयते

९.४.४.[२]

परिधिषु युनक्ति । अग्नय एते यत्परिधयोऽग्निभिरेव तदग्निं युनक्ति

९.४.४.[३]

स मध्यमं परिधिमुपस्पृश्य । एतद्यजुर्जपत्यग्निं युनज्मि शवसा घृतेनेति
बलं वै शवोऽग्निं युनज्मि बलेन च घृतेन चेत्येतद्दिव्यं सुपर्णं वयसा
बृहन्तमिति दिव्यो वा एष सुपर्णो वयसो बृहन्धूमेन तेन वयं गमेम
ब्रध्नस्य विष्टपं स्वर्गं लोकं रोहन्तोऽधि नाकमुत्तममित्येतत्

९.४.४.[४]

अथ दक्षिणे । इमौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने
ताभ्यां पतेम सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा
इत्यमूनेतदृषीनाह

९.४.४.[५]

अथोत्तरे । इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युरित्यमृतं वै
हिरण्यममृतपक्षः शकुनो भर्तेत्येतन्महान्त्सधस्थे ध्रुव आ निषत्तो
नमस्ते अस्तु मा मा हिंसीरित्यात्मनः परिदां वदते

९.४.४.[६]

तद्यन्मध्यमं यजुः । स आत्माथ ये अभितस्तौ पक्षौ तस्मात्तेपक्षवती
भवतः पक्षौ हि तौ

९.४.४.[७]

त्रिभिर्युनक्ति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्युनक्ति
९.४.४.[८]

अथ राजानमभिषुत्याग्नौ जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै
तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो
राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति
तदग्निमभिषिञ्चति सोऽस्यैष दैव आत्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तोऽथ
भक्षयति तदात्मानमभिषिञ्चति सोऽस्यायमात्मा सोमाभिषिक्तो
भवत्यमृताभिषिक्तः

९.४.४.[९]

अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ
मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति

९.४.४.[१०]

अथैनं विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते यज्ञायज्ञियं
स्तोत्रमुपाकरिष्यन्त्स्वर्गो वै लोको यज्ञायज्ञियमेतस्य वै गत्या एनं युङ्क्ते
तदाप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते

९.४.४.[११]

तं वै पुरस्तात्स्तोत्रस्य विमुञ्चति । स यदुपरिष्टात्स्तोत्रस्य विमुञ्चेत्पराङ्हैतं
स्वर्गं लोकमतिप्रणश्येदथ यत्पुरस्तात्स्तोत्रस्य विमुञ्चति तत्सम्प्रति स्वर्गं
लोकमाप्त्वा विमुञ्चति

९.४.४.[१२]

परिधिषु विमुञ्चति । परिधिषु ह्येनं युनक्ति यत्र वाव योग्यं युञ्जन्ति तदेव
तद्विमुञ्चन्ति

९.४.४.[१३]

स संध्योरुपस्पृश्य । एने यजुषी जपति तथा द्वे यजुषी त्रीन्परिधीननुविभवतो
दिवो मूर्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधि तिष्ठसि श्रित
इत्युत्तरे मूर्धवतीभ्यां मूर्धा ह्यस्यैषो
ऽप्सुमतीभ्यामग्नेरेतद्वैश्वानरस्य स्तोत्रं यद्यज्ञायज्ञियं शान्तिर्वा
आपस्तस्मादप्सुमतीभ्याम्

९.४.४.[१४]

द्वाभ्यां विमुञ्चति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्विमुञ्चति त्रिभिर्युनक्ति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति

९.४.४.[१५]

तं हैके । प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमुञ्चन्ति संस्थारूपं वा
एतद्यद्विमोचनं किं पुरा संस्थायै संस्थारूपं कुर्यामेति न तथा
कुर्यादहरहरहर्वा एष यज्ञस्तायतेऽहरहः संतिष्ठतेऽहरहरेनं स्वर्गस्य
लोकस्य गत्यै युङ्क्तेऽहरहरेनेन स्वर्गं लोकं गच्छति तस्मादहरहरेव
युञ्ज्यादहरहर्विमुञ्चेत्

९.४.४.[१६]

अथो यथा प्रायणीयेऽतिरात्रे । सामिधेनीरनूच्य ब्रूयादुदयनीय एवातो
ऽनुवक्तास्मीति तादृक्तत्तस्मादहरहरेव युञ्ज्यदहरहर्विमुञ्चेत्

९.४.४.[१७]

तद्धैतच्छाण्डिल्यः । कङ्कतीयेभ्योऽहरहःकर्म प्रदिश्य प्रवव्राजाहरहरेव वो
युनजानहरहर्विमुञ्चानिति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत्

९.५.१.[१]

अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्याद्देवेभ्यो ह वा अमृतमपचक्राम

Search

Search will be available shortly.