शतपथ ब्राह्मणम् 8

ग्रंथालय  > ब्राह्मण ग्रंथ संहिता Posted at 2016-03-13 04:30:07
शतपथ ब्राह्मणम् 8 ९.५.१.[१] अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्याद्देवेभ्यो ह वा अमृतमपचक्राम ९.५.१.[२] ते होचुः । श्रमेण तपसेदमन्विच्छामेति तच्रमेण तपसान्वैचंस्ते दीक्षित्वा पयोव्रता अभवन्नेतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशुश्रुवुः ९.५.१.[३] ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते त्रीन्त्स्तनानुपेयुस्तत्पराददृशुः ९.५.१.[४] ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते द्वौ स्तना उपेयुस्तन्नेदीयसः पराददृशुः ९.५.१.[५] ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति त एकं स्तनमुपेयुस्तदधिजगाम न त्वभिपत्तुं शेकुः ९.५.१.[६] ते होचुः अधि वा अगन्न त्वभिपत्तुं शक्नुमः सर्वं तप उपायामेति त उपवसथे ऽनाशकमुपेयुरेतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् ९.५.१.[७] तत्प्रातरभिपद्य । अभिषुत्याग्नावजुहवुस्तदग्नावमृतमदधुः सर्वेषामु हैष देवानामात्मा यदग्निस्तद्यदग्नावमृतमदधुस्तदात्मन्नमृतमदधत ततो देवा अमृता अभवन् ९.५.१.[८] तद्यत्तदमृतं सोमः सः । तदद्यापि यजमानः श्रमेण तपसान्विच्छति स दीक्षित्वा पयोव्रतो भवत्येतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशृणोतीत्यहे क्रय इति ९.५.१.[९] स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स एकं स्तनमुपैति तदधिगच्छति न त्वभिपत्तुं शक्नोति स उपवसथे ऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् ९.५.१.[१०] तत्प्रातरभिपद्य । अभिषुत्याग्नौ जुहोति तदग्नावमृतं दधात्यथ भक्षयति तदात्मन्नमृतं धत्ते सोऽमृतो भवत्येतद्वै मनुष्यस्यामृतत्वं यत्सर्वमायुरेति तथो हानेनात्मना सर्वमायुरेति ९.५.१.[११] अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति ९.५.१.[१२] अथातः समिष्टयजुषामेव मीमांसा । देवाश्चासुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्वाचमेव सत्यानृते सत्यं चैवानृतं च त उभय एव सत्यमवदन्नुभयेऽनृतं ते ह सदृशं वदन्तः सदृशा एवासुः ९.५.१.[१३] ते देवा उत्सृज्यानृतम् । सत्यमन्वालेभिरेऽसुरा उ होत्सृज्य सत्यमनृतमन्वालेभिरे ९.५.१.[१४] तद्धेदं सत्यमीक्षां चक्रे । यदसुरेष्वास देवा वा उत्सृज्यानृतं सत्यमन्वालप्सत हन्त तदयानीति तद्देवानाजगाम ९.५.१.[१५] अनृतमु हेक्षां चक्रे । यद्देवेष्वासासुरा वा उत्सृज्य सत्यमनृतमन्वालप्सत हन्त तदयानीति तदसुरानाजगाम ९.५.१.[१६] ते देवाः । सर्वं सत्यमवदन्त्सर्वमसुरा अनृतं ते देवा आसक्ति सत्यं वदन्त ऐषावीरतरा इवासुरनाढ्यतरा इव तस्मादु हैतद्य आसक्ति सत्यं वदत्यैषावीरतर इवैव भवत्यनाढ्यतर इव स ह त्वेवान्ततो भवति देवा ह्येवान्ततोऽभवन् ९.५.१.[१७] अथ हासुराः । आसक्त्यनृतं वदन्त ऊष इव पिपिसुराढ्या इवासुस्तस्मादु हैतद्य आसक्त्यनृतं वदत्यूष इवैव पिस्यत्याढ्य इव भवति परा ह त्वेवान्ततो भवति परा ह्यसुरा अभवन् ९.५.१.[१८] तद्यत्तत्सत्यम् । त्रयी सा विद्या ते देवा अब्रुवन्यज्ञं कृत्वेदं सत्यं तनवामहा इति ९.५.१.[१९] ते दीक्षणीयां निरवपन् । तदु हासुरा अनुबुबुधिरे यज्ञं वै कृत्वा तद्देवाः सत्यं तन्वते प्रेत तदाहरिष्यामो यदस्माकं तत्रेति तस्य समिष्टयजुरहुतमासाथाजग्मुस्तस्मात्तस्य यज्ञस्य समिष्टयजुर्न जुह्वति ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यत्कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनः प्रेयुः ९.५.१.[२०] तेषु प्रेतेषु । प्रायणीयं निरवपंस्तदु हासुरा अन्वेव बुबुधिरे तस्य शम्योरुक्तमासाथाजग्मुस्तस्मात्स यज्ञः शम्य्वन्तस्ते देवा असुरान्प्रतिदृश्य ममुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ९.५.१.[२१] तेषु प्रेतेषु । राजानं क्रीत्वा पर्युह्याथास्मा आतिथ्यं हविर्निरवपंस्तदु हासुरा अन्वेव बुबुधिरे तस्येडोपहूतासाथाजग्मुस्तस्मात्स यज्ञ इडान्तस्ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ९.५.१.[२२] तेषु प्रेतेषु । उपसदोऽतन्वत ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन्न प्रयाजान्नानुयाजानुभयतो यज्ञस्योदसादयन्भूयिष्ठं हि तत्रात्वरन्त तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति न प्रयाजान्नानुयाजानुभयतो यज्ञस्योत्सादयति ९.५.१.[२३] त उपवसथेऽग्नीषोमीयं पशुमालेभिरे । तदु हासुरा अन्वेव बुबुधिरे तस्य समिष्टयजूंष्यहुतान्यासुरथाजग्मुस्तस्मात्तस्य पशोः समिष्टयजूंषि न जुह्वति ते देवा असुरान्प्र ९.५.१.[२४] तेषु प्रेतेषु । प्रातः प्रातःसवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावत्प्रातःसवनमथाजग्मुस्ते देवा असुरान्प्र ९.५.१.[२५] तेषु प्रेतेषु । माध्यन्दिनं सवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावन्माध्यन्दिनमथाजग्मुस्ते देवा असुरान्प्र ९.५.१.[२६] तेषु प्रेतषु । सवनीयेन पशुनाचरंस्तदु हासुरा अन्वेव बुबुधिरे तस्यैतावत्कृतमास यावदेतस्य पशोः क्रियतेऽथाजग्मुस्ते देवा असुरान्प्र ९.५.१.[२७] तेषु प्रेतेषु । तृतीयसवनमतन्वत तत्समस्थापयन्यत्समस्थापयंस्तत्सर्वं सत्यमाप्नुवंस्ततोऽसुरा अपपुप्रुविरे ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ९.५.१.[२८] ते देवा अब्रुवन् । ये न इमे यज्ञाः सामिसंस्थिता यानिमान्विजहतोऽगामोप तज्जानीत यथेमान्त्संस्थापयामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमान्यज्ञान्त्संस्थापयामेति ९.५.१.[२९] ते चेतयमानाः । एतानि समिष्टयजूंष्यपश्यंस्तान्यजुहवुस्तैरेतान्यज्ञान्त्समस्थापयन्यत्समस्थापयं स्तस्मात्संस्थितयजूंष्यथ यत्समयजंस्तस्मात्समिष्टयजूंषि ९.५.१.[३०] ते वा एते नव यज्ञाः । नवैतानि समिष्टयजूंषि तद्यदेतानि जुहोत्येतानेवैतद्यज्ञान्त्संस्थापयत्युभयानि जुहोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वाण्यथाग्नेस्तस्योक्तो बन्धुः ९.५.१.[३१] द्वे अग्नेर्जुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्यज्ञं संस्थापयतीष्टो यज्ञो भृगुभिरिष्टो अग्निराहुतः पिपर्तु न इति ९.५.१.[३२] तान्युभयान्येकादश सम्पद्यन्ते । एकादशाक्षरा त्रिष्टुब्वीर्यं त्रिष्टुब्वीर्यमेवैतद्यज्ञमभिसम्पादयति ९.५.१.[३३] यद्वेवैकादश । एकादशाक्षरा वै त्रिष्टुप्त्रैष्ठुभ इन्द्र इन्द्रो यज्ञस्यात्मेन्द्रो देवता तद्य एव यज्ञस्यात्मा या देवता तस्मिन्नेवैतद्यज्ञमन्ततः प्रतिष्ठापयति ९.५.१.[३४] समिष्टयजूंषि हुत्वावभृथं यन्ति । अवभृथादुदेत्योदयनीयेन चरित्वानूबन्ध्यस्य पशुपुरोडाशमनु देविकानां हवींषि निर्वपति ९.५.१.[३५] एतद्वै प्रजापतिः । प्राप्य राद्ध्वेवामन्यत स दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधदतिष्ठद्यद्दधद्विदधदतिष्ठत्तस्माद्धाता तथैवैतद्यजमानो दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधत्तिष्ठति ९.५.१.[३६] यद्वेवैतानि हवींषि निर्वपति । दिश एषोऽग्निस्ता उ एवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधाति ताः प्राणभृतः प्रथमायां चितौ सर्वैव द्वितीया सर्वा तृतीया सर्वा चतुर्थ्यथ पञ्चम्यै चितेरसपत्ना नाकसदः पञ्चचूडास्ता ऊर्ध्वा उत्क्रामन्त्य आयंस्ताभ्यः प्रजापतिरबिभेत्सर्वं वा इदमिमाः पराच्योऽत्येष्यन्तीति ता धाता भूत्वा पर्यगच्छत्तासु प्रत्यतिष्ठत् ९.५.१.[३७] स यः स धातासौ स आदित्यः । अथ यत्तद्दिशां परमं क्रान्तमेतत्तद्यस्मिन्नेष एतत्प्रतिष्ठितस्तपति ९.५.१.[३८] स यः स धातायमेव स धात्रः । द्वादशकपालः पुरोडाशो द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्धाताथ यत्तद्दिशां परमं क्रान्तमेतानि तानि पूर्वाणि हवींष्यनुमत्यै चरूराकायै चरुः सिनीवाल्यै चरुः कुह्व्यै चरुस्तद्यदेतानि निर्वपति यदेव तद्दिशां परमं क्रान्तं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तं सर्वं जुहोत्येतस्यैव कृत्स्नतायै ९.५.१.[३९] ता वा एता देव्यः । दिशो ह्येताश्चन्दांसि वै दिशश्चन्दांसि देव्योऽथैष कः प्रजापतिस्तद्यद्देव्यश्च कश्च तस्माद्देविकाः पञ्च भवन्ति पञ्च हि दिशः ९.५.१.[४०] तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडा ९.५.१.[४१] तस्य वा एतस्य पशोः । जुह्वति समिष्टयजूंष्यभ्यवयन्ति हृदयशूलेनावभृथं संस्था ह्येष पशुर्हृदयशूलेन चरित्वा ९.५.१.[४२] प्रत्येत्य वैश्वकर्मणानि जुहोति । विश्वानि कर्मण्ययमग्निस्तान्यस्यात्र सर्वाणि कर्माणि कृतानि भवन्ति तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यतेऽथो विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति ९.५.१.[४३] यद्वेव वैश्वकर्मणानि जुहोति । प्रायणं च हाग्नेरुदयनं च सावित्राणि प्रायणं वैश्वकर्मणान्युदयनं स यत्सावित्राण्येव जुहुयान्न वैश्वकर्मणानि यथा प्रायणमेव कुर्यान्नोदयनं तादृक्तदथ यद्वैश्वकर्मणान्येव जुहुयान्न सावित्राणि यथोदयनमेव कुर्यान्न प्रायणं तादृक्तदुभयानि जुहोति प्रायणं च तदुदयनंचकरोति ९.५.१.[४४] अष्टावसूनि भवन्ति । एवमिमानि तद्यथा प्रायणंतथोदयनं करोतिस्वाहाकारो ऽमीषां नवमो भवत्येवमेषां तद्यथा प्रायणं तथोदयनं करोत्याहुतिरमीषां दशमी भवत्येवमेषां तद्यथा प्रायणं तथोदयनं करोति संततां तत्राहुतिं जुहोति रेतो वै तत्र यज्ञो रेतसोऽविच्छेदाय स्रुवेणेह स्वाहाकारं निरुक्तं हि रेतो जात भवति ९.५.१.[४५] यदाकूतात् । समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वेत्येतस्माद्ध्येतत्सर्वस्मादग्रे कर्म समभवत्तदनु प्रेत सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह ९.५.१.[४६] एतं सधस्थ । परि ते ददामीति स्वर्गो वै लोकः सधस्थस्तदेनं स्वर्गाय लोकाय परिददाति यमावहाच्छेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तं स्म जानीत परमे व्योमन्निति यथैव यजुस्तथा बन्धुः ९.५.१.[४७] एतं जानाथ । परमे व्योमन्देवाः सधस्था विद रूपमस्य यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणवथाविरस्मा इति यथैव यजुस्तथा बन्धुरुद्बुध्यस्वाग्ने येन वहसीति तयोरक्तो बन्धुः ९.५.१.[४८] प्रस्तरेण परिधिना । स्रुचा वेद्या च बर्हिषा ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तव इत्येतैर्नो यज्ञस्य रूपैः स्वर्गं लोकं गमयेत्येतत् ९.५.१.[४९] यद्दत्तं यत्परादानम् । यत्पूर्तं याश्च दक्षिणाः तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधदिति यच्चैव सम्प्रति दद्नो यच्चासम्प्रति तन्नो ऽयमग्निर्वैश्वकर्मणः स्वर्गे लोके दधात्वित्येतत् ९.५.१.[५०] यत्र धारा अनपेताः । मधोर्घृतस्य च याः तदग्निर्वैश्वकर्मणः स्वर्देवेषु णो दधदिति यथैव यजुस्तथा बन्धुः ९.५.१.[५१] अष्टौ वैश्वकर्मणानि जुहोति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति ९.५.१.[५२] वैश्वकर्मणानि हुत्वा नाम करोति । यदा वै सर्वः कृत्स्नो जातो भवत्यथ नाम कुर्वन्त्यत्र वा एष सर्वः कृत्स्नो जातो भवति ९.५.१.[५३] नाम कृत्वाथैनमुपतिष्ठते । सर्वेण वा एष एतमात्मना चिनोति स यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष आत्मानं वृञ्चीताथ यदेतामत्रात्मनः परिदां वदते तयो हास्यैष आत्मानं न वृङ्क्ते ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि तेषामसि त्वमुत्तमः प्र नो जीवातवे सुवेति ये के चाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामसि त्वं सत्तमः प्रो अस्मान्जीवनाय सुवेत्येतदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि सर्वैरेवास्मा एतच्चन्दोभिर्निह्नुत उपस्थायाग्निं समारोह्य निर्मथ्योदवसानीयया यजते ९.५.१.[५४] अथ मैत्रावरुण्या पयस्यया यजते । देवत्रा वा एष भवति य एतत्कर्म करोति दैवम्वेतन्मिथुनं यन्मित्रावरुणौ स यदेतयानिष्ट्वा मानुष्यां चरेत्प्रत्यवरोहः स यथा दैवः सन्मानुषः स्यात्तादृक्तदथ यदेतया मैत्रावरुण्या पयस्यया यजते दैवमेवैतन्मिथुनमुपैत्येतयेष्ट्वा कामं यथाप्रतिरूपं चरेत् ९.५.१.[५५] यद्वेवैतया मैत्रावरुण्या पयस्यया यजते । प्रजापतेर्विस्रस्ताद्रेतः परापतत्तं यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतया मैत्रावरुण्या पयस्यया रेतो ऽदधुस्तथैवास्मिन्नयमेतद्दधाति ९.५.१.[५६] स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यदस्मात्तद्रेतः परापतदेषा सा पयस्या मैत्रावरुणी भवति प्राणोदानौ वै मित्रावरुणौ प्राणोदाना उ वै रेतः सिक्तं विकुरुतः पयस्या भवति पयो हि रेतो यज्ञो भवति यज्ञो ह्येव यज्ञस्य रेत उपांशु भवत्युपांशु हि रेतः सिच्यतेऽन्ततो भवत्यन्ततो हि रेतो धीयते ९.५.१.[५७] तस्यै वाजिनेन चरन्ति । तस्मिन्दक्षिणां दधाति तूपरौ मिथुनौ दद्यादित्यभ्याज्ञायेनैव मन्य इति ह स्माह माहित्थिः स्रवत्यु हैषाग्निचित आहुतिः सोमाहुतिर्यामनिष्टके जुहोति ९.५.१.[५८] स स्वयमातृणा एवोपदधीत । इमे वै लोकाः स्वयमातृणा इम उ लोका एषोऽग्निश्चितः ९.५.१.[५९] ऋतव्या एवोपदधीत । संवत्सरो वा ऋतव्याः संवत्सर एषोऽग्निश्चितः ९.५.१.[६०] विश्वज्योतिष एवोपदधीत । एता वै देवता विश्वज्योतिष एता उ देवता एषोऽग्निश्चितः ९.५.१.[६१] पुनश्चितिमेवोपदधीत । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो न तथा कुर्याद्यो वाव चितेऽग्निर्निधीयते तामेवेष्टकामेष सर्वो ऽग्निरभिसम्पद्यते तद्यदग्नौ जुहोति तदेवास्य यथा सर्वस्मिञ्चाण्डिलेऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति ९.५.१.[६२] सर्वाणि वा एष भूतानि । सर्वान्देवान्गर्भो भवति योऽग्निं भिभर्ति स यो ऽसंवत्सरभृतं चिनुत एतानि ह स सर्वाणि भूतानि गर्भं भूतं निर्हते यो न्वेव मानुषं गर्भं निर्हन्ति तन्न्वेव परिचक्षतेऽथ किं य एतं देवो ह्येष नासंवत्सरभृतस्यऽर्त्विजा भवितव्यमिति ह स्माह वात्स्यो नेदस्य देवरेतसस्य निर्हण्यमानस्य मेद्यसानीति ९.५.१.[६३] षण्मास्यमन्तमं चिन्वीतेत्याहुः । षण्मास्या वा अन्तमा गर्भा जाता जीवन्तीति स यद्यसंवत्सरभृते महदुक्थं शंसेदृगशीतीः शंसेदसर्वं वै तद्यदसंवत्सरभृतोऽसर्वं तद्यदृगशीतयो विकृष्टं त्वेनं स भूयो विकर्षेद्यदि चैव संवत्सरभृतः स्याद्यदि चासंवत्सरभृतः सर्वमेव महदुक्थं शंसेत् ९.५.१.[६४] अथ ह शाण्डिल्यायनः प्राच्यां जगाम । तं ह दैयाम्पातिरुवाच शाण्डिल्यायन कथमग्निश्चेतव्यो ग्लायामोऽह संवत्सरभृतायाग्निमु चिकीषामह इति ९.५.१.[६५] स होवाच । कामं न्वा एनं स चिन्वीत येन पुरा संवत्सरं भृतः स्यात्तं ह्येव तं भृतं सन्तं चिनुत इति ९.५.१.[६६] कामम्वेवैनं स चिन्वीत । यः संवत्सरमभिषविष्यन्त्स्यादेष वा एनं प्रत्यक्षमन्नेन बिभर्त्येताभिराहुतिभिः ९.५.१.[६७] कामम्वेवैनं स चिन्वीत । यः संवत्सरमग्निहोत्रं जुहुयाअद्बिभर्ति वा एनमेष योऽग्निहोत्रं जुहोति ९.५.१.[६८] कामम्वेवैनं स चिन्वीत । यः संवत्सरं जातः स्यात्प्राणो वा अग्निस्तमेतद्बिभर्त्यथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति तद्विन्दते तद्यज्जातंजातं विन्दते तस्माज्जातवेदास्तस्मादप्येवंवित्कामं सद्योभृतं चिन्वीत यदु ह वा एवंवित्पिबति वा पाययति वा तदेवास्य यथा सर्वस्मिञ्चाण्डिलेऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति ९.५.२.[१] इन्द्र एतत्त्सर्प्तच्चमपष्यत् न्यूनस्याप्त्या अतिरिक्त्यै व्यृद्धस्य समृद्ध्या अथ ह वा ईश्वरोऽग्निं चित्वा किंचिद्दौरितमापत्तोर्वि वा ह्वलितोर्यद्वा यदा ह वा एतच्यापर्णः सायकायनः शुश्रावाथ हैतत्कर्मोपदधर्ष ९.५.२.[२] सैषा त्रयस्य समृद्धिः । अग्नेः समृद्धिर्योऽग्निं चिनुते तस्य समृद्धिर्योऽग्निं चिनोति तस्य समृद्धिः ९.५.२.[३] तद्यदेतेनोपतिष्ठते । यदेवास्यात्र विद्वान्वाविद्वाति वा रेचयति न वाभ्यापयति तदेवास्यैतेन सर्वमाप्तं भवति यदस्य किं चानाप्तं य उ तस्यामनुष्टुभ्यृचि कामोऽत्रैव तमाप्नोत्यथा एतस्मादेवैतत्कर्मणो रक्षांसि नाष्ट्रा अपहन्ति नो हैनमनुव्याहारिण स्तृण्वते तस्मादप्येवंवित्कामं परस्मा अग्निं चिनुयादीश्वरो ह श्रेयान्भवितोः ९.५.२.[४] वार्त्रहत्याय शवसे । सहदानुं पुरुहूत क्षियन्तमिति वार्त्रघ्नीभ्याम् प्रथमाभ्यामुपतिष्टत एतद्वै देवा वृत्रं पाप्मानं हत्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वृत्रं पाप्मानं हत्वापहतपाप्मैतत्कर्म कुरुते ९.५.२.[५] वि न इन्द्र मृधो जहि । मृगो न भीमः कुचरो गिरिष्ठा इति वैमृधीभ्यां द्वितीयाभ्यामेतद्वै देवा मृधः पाप्मानं हत्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो मृधः पाप्मानं हत्वापहतपाप्मैतत्कर्म कुरुते ९.५.२.[६] वैश्वानरो न ऊतये । पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मैतत्कर्म कुरुते ९.५.२.[७] अश्याम त काममग्ने तवोतीति । एकया कामवत्यैतद्वै देवाः पाप्मानमपहत्यैकया कामवत्यैकधान्ततः सर्वान्कामानात्मन्नकुर्वत तथैवैतद्यजमानः षडृचेन पाप्मानमपहत्यैकया कामवत्येकधान्ततः सर्वान्कामानात्मन्कुरुते ९.५.२.[८] सप्तर्चं भवति । सप्तचितिकोऽग्निः सप्तऽर्तवः सप्त दिशः सप्त देवलोकाः सप्त स्तोमाः सप्त पृष्ठानि सप्त छन्दांसि सप्त ग्राभ्याः पशवः सप्तारण्याः सप्त शोर्षन्प्राणा यत्किं च सप्तविधमधिदेवतमध्यात्मं तदेनेन सर्वमाप्नोति ता अनुष्टुभमभिसम्पद्यन्ते वाग्वा अनुष्टुब्वाचैवास्य तदाप्नोति यदस्य किं चानाप्तम् ९.५.२.[९] अष्टर्चेनोपतिष्ठेतेत्यु हैक आहुः । वयं ते अद्य ररिमा हि काममिति द्वितीयया कामवत्या सप्त पूर्वास्तदष्टावष्टाक्षरो गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तमथो एवं समं देवते भजेते इति न तथा कुर्यादेता वाव सप्ताष्टावनुष्टुभो भवन्ति स योऽष्टर्चे कामोऽत्रैव तमाप्नोति ९.५.२.[१०] ऐन्द्राग्नीभिरुपतिष्ठते । ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्रैवास्य तदाप्नोति यदस्य किं चानाप्तमिन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तम् ९.५.२.[११] तद्धैके । कर्मणः कर्मण एवैतां प्रतिपदं कुर्वतेऽपहतपाप्मान एतत्कर्म करवामहा इति पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हि सा सर्वा कृत्स्ना भवतीति स यथा कामयेत तथा कुर्यादिति नु चयनस्याथातोऽचयनस्य ९.५.२.[१२] त्रयो ह वै समुद्राः । अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचां स य एतानि परस्मै करोत्येतान्ह स समुद्राञ्चोषयते ताञ्चुष्यतोऽन्वस्य छन्दांसि शुष्यन्ति छन्दांस्यनु लोको लोकमन्वात्मात्मानमनु प्रजा पशवः स ह श्वः श्व एव पापीयान्भवति य एतानि परस्मै करोति ९.५.२.[१३] अथ य एतान्यकृत्वा । पस्मा अपि सर्वैरन्यैर्यज्ञक्रतुभिर्याजयेदेतेभ्यो हैवास्य समुद्रेभ्यश्चन्दांसि पुनराप्यायन्ते छन्दांस्यनु लोको लोकमन्वात्मात्मानमनु प्रजा पशवः स ह श्वः श्व एव श्रेयान्भवति य एतानि परस्मै न करोत्यथैष ह वा अस्य दैवोऽमृत आत्मा स य एतानि परस्मै करोत्येतं ह स दैवमात्मानम् परस्मै प्रयच्छत्यथ शुष्क एव स्थाणुः परिशिष्यते ९.५.२.[१४] तद्धैके । कृत्वा कुर्वते वा प्रति वा कारयन्त एषा प्रायश्चित्तिरिति न तथा कुर्याद्यथा शुष्कं स्थाणुमुदकेनाभिषिञ्चेतादृक्तत्पूयेद्वा वै स वि वा म्रित्येन्नैतस्य प्रायश्चित्तिरस्तीत्येव विद्यात् ९.५.२.[१५] अथ ह स्माह शाण्डिल्यः । तुरो ह कावषेयः कारोत्यां देवेभ्योऽग्निं चिकाय तं ह देवाः पप्रच्छुर्मुने यदलोक्यामग्निचित्यामाहुरथ कस्मादचैषीरिति ९.५.२.[१६] स होवाच । किं नु लोक्यं किमलोक्यमात्मा वै यज्ञस्य यजमानोऽङ्गान्यृत्विजो यत्र वा आत्मा तदङ्गानि यत्रो अङ्गानि तदात्मा यदि वा ऋत्विजोऽलोका भवन्त्यलोक उ तर्हि यजमान उभये हि समानलोका भवन्ति दक्षिणासु त्वेव न संवदितव्यं संवादेनैवऽर्त्विजोऽलोका इति १०.१.१.[१] अग्निरेष पुरस्ताच्चीयते संवत्सर उपरिष्टान्महदुक्थं शस्यते प्रजापतेर्विस्रस्तस्याग्रं रसोऽगच्छत् १०.१.१.[२] स यः स प्रजापतिर्व्यस्रंसत संवत्सरः सोऽथ यान्यस्य तानि पर्वाणि व्यस्रंसन्ताहोरात्राणि तानि १०.१.१.[३] स यः स संवत्सरः प्रजापतिर्व्यस्रंसत अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्तेष्टका एव तास्तद्यदेता उपदधाति यान्येवास्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्त तान्यस्मिन्नेतत्प्रतिदधाति तदेतदत्रैव यजुश्चितमत्राप्तम् १०.१.१.[४] अथ योऽस्य सोऽग्रं रसोऽगच्छत् महत्तदुक्थं तमस्य तं रसमृक्षामाभ्यामनुयन्ति तद्यत्तत्र यजुः पुरस्तादेत्यभिनेतैव तदेति यथादो मेऽमुत्रैकं तदाहरिष्यामीत्येवं त् १०.१.१.[५] तमध्वर्युर्ग्रहेण गृह्णाति यद्गृह्णाति तस्माद्ग्रहस्तस्मिअद्यजुः पुरस्तादेति तं संवत्सर आप्नुवन्ति न्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिर्ऋग्भी रसं दधाति १०.१.१.[६] ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति तदेनमेष रसोऽप्येति न वै महाव्रतमिदं स्तुतं शेत इति पश्यन्ति नो महदिदमुक्थमित्यग्निमेव पश्यन्त्यात्मा ह्यग्निस्तदेनमेते उभे रसो भूत्वापीत ऋक्च साम च तदुभे ऋक्षामे यजुरपीतः १०.१.१.[७] स एष मिथुनोऽग्निः प्रथमा च चितिर्द्वितीया च तृतीया च चतुर्थी चाथ पञ्चम्यै चितेर्यश्चितेऽग्निर्निधीयते तन्मिथुनं मिथुन उ एवायमात्मा १०.१.१.[८] अङ्गुष्ठा इति पुमांसः अङ्गुलय इति स्त्रियः कर्णाविति पुमांसौ भ्रुवाविति स्त्रिया ओष्ठाविति पुमांसौ नासिके इति स्त्रियौ दन्ता इति पुमांसो जिह्वेति स्त्री सर्व एव मिथुनः सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति १०.१.१.[९] एषात्रापीतिः अप्यहैवं मिथुन इत्थं ह त्वेवापि मिथुनो वागेवेयं योऽयमग्निश्चितो वाचा हि चीयतेऽथ यश्चितेऽग्निर्निधीयते स प्राणः प्राणो वै वाचो वृषा प्राणो मिथुनं वाग्वेवायमात्माथ य आत्मन्प्राणस्तन्मिथुनं सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति १०.१.१.[१०] एषो अत्रापीतिः न ह वा अस्यापुत्रतायै का चन शङ्का भवति य एवमेतौ मिथुनावात्मानं चाग्निं च वेदान्नं ह त्वेवायमात्मा दक्षिणान्नं वनुते यो न आत्मेति ह्यप्यृषिणाभ्युक्तम् १०.१.१.[११] तदिदमन्नं जग्धं द्वेधा भवति यदस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वै प्राणैरुच्चरति तद्वायुमप्येत्यथ यन्मर्त्यं पराक्तन्नाभिमत्येति तद्द्वयम् भूत्वेमामप्येति मूत्रं च पुरीषं च तद्यदिमामप्येति योऽयमग्निश्चितस्तं तदप्येत्यथ यद्वायुमप्येति यश्चितेऽग्निर्निधीयते तं तदप्येत्येषो एवात्रापीतिः १०.१.२.[१] प्रजापतिरिमांलोकानैप्सत् स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त तेनेमं लोकमाप्नोत्स द्वितीयं वयोविधमात्मानमपश्यन्महाव्रतं तद्व्यधत्त तेनान्तरिक्षमाप्नोत्स तृतीयं वयोविधमात्मानमपश्यन्महदुक्थं तद्व्यधत्त तेन दिवमाप्नोत् १०.१.२.[२] अयं वाव लोक एषोऽग्निश्चितः अन्तरिक्षं महाव्रतं द्यौर्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयादग्निं महाव्रतं महदुक्थं सह हीमे लोका असृज्यन्त तद्यदग्निः प्रथमश्चीयतेऽयं ह्येषां लोकानाम् प्रथमोऽसृज्यतेत्यधिदेवतम् १०.१.२.[३] अथाध्यात्मम् मन एवाग्निः प्राणो महाव्रतं वाङ्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि मनः प्राणो वाक्तद्यदग्निः प्रथमश्चीयते मनो हि प्रथमं प्राणानाम् १०.१.२.[४] आत्मैवाग्निः प्राणो महाव्रतं वाङ्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह ह्यात्मा प्राणो वाक्तद्यदग्निः प्रथमश्चीयत आत्मा हि प्रथमः सम्भवतः सम्भवति १०.१.२.[५] शिर एवाग्निः प्राणो महाव्रतमात्मा महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि शिरः प्राण आत्मा तद्यदग्निः प्रथमश्चीयते शिरो हि प्रथमं जायमानस्य जायते तस्माद्यत्रैतानि सर्वाणि सह क्रियन्ते महदेवोक्थमातमां ख्यायत आत्मा हि महदुक्थम् १०.१.२.[६] तदाहुः यदेतानि सर्वाणि सह दुरुपापानि कैतेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमे ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत १०.१.२.[७] तस्य वा एतस्य ज्योतिष्टोमस्याग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तद्व्रतस्य शिरः पञ्चदशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ पञ्चदशं होतुराज्यं सप्तदशं पृष्ठमेकविंशं यज्ञायज्ञियं तत्पुच्छम् १०.१.२.[८] तयोर्वा एतयोः पञ्चदशसप्तदशयोर्द्वात्रिंशत्स्तोत्रियास्ततो याः पञ्चविंशतिः स पञ्चविंश आत्माथ याः सप्तातियन्ति ताः परिमादः पशवो हैताः पशवः परिमाद एतावद्वै महाव्रतं तदेतदत्रैव महाव्रतमाप्नोति १०.१.२.[९] अथ होता सप्त छन्दांसि शंसति चतुरुत्तराण्येकर्चानि विराडष्टमानि तेषां तिस्रश्चाशीतयोऽक्षराणि पञ्चचत्वारिंशच्च ततो या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यानि पञ्चचत्वारिंशत्ततो यानि पञ्चविंशतिः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ यानि विंशतिस्तदावपनमेतावद्वै महदुक्थं तदेतदत्रैव महदुक्थमाप्नोति तानि वा एतानि सर्वाणि ज्योतिष्टोम एवाग्निष्टोम आप्यन्ते तस्मादु ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत १०.१.३.[१] प्रजापतिः प्रजा असृजत स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत येऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा अथोर्ध्वमेव मृत्युं प्रजाभ्योऽत्तारमसृजत १०.१.३.[२] तस्य ह प्रजापतेः अर्धमेव मर्त्यमासीदर्धममृतं तद्यदस्य मर्त्यमासीत्तेन मृत्योरबिभेत्स बिभ्यादिमां प्राविशद्द्वयं भूत्वा मृच्चापश्च १०.१.३.[३] स मृत्युर्देवानब्रवीत् क्व नु सोऽभूद्यो नोऽसृष्टेति त्वद्बिभ्यदिमां प्राविक्षदिति सोऽब्रवीत्तं वा अन्विच्छाम तं सम्भराम न वा अहं तं हिंसिष्यामीति तं देवा अस्या अधि समभरन्यदस्याप्स्वासीत्ता अपः समभरन्नथ यदस्यां तां मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकुर्वंस्तस्मादेतदुभयमिष्टका भवति मृच्चापश्च १०.१.३.[४] तदेता वा अस्य ताः पञ्च मर्त्यास्तन्व आसंलोम त्वङ्मांसमस्थि मज्जाथैता अमृता मनो वाक्प्राणश्चक्षुः श्रोत्रम् १०.१.३.[५] स यः स प्रजापतिः अयमेव स योऽयमग्निश्चीयतेऽथ या अस्य ताः पञ्च मर्त्यास्तन्व आसन्नेतास्ताः पुरीषचितयोऽथ या अमृता एतास्ता इष्टकाचितयः १०.१.३.[६] ते देवा अब्रुवन् अमृतमिमं करवामेति तस्यैताभ्याममृताभ्यां तनूभ्यामेताम् मर्त्यां तनूं परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्यां पुरीषचितिं तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम् १०.१.३.[७] अथ पञ्चमीं चितिमुपधाय पुरीषं निवपति तत्र वकर्णीं च स्वयमातृणां चोपदधाति हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिस्तदमृतमेवमस्यैताभ्याममृताभ्यां तनूभ्यामेतां मर्त्यां तनूम् परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्यां पुरीषचितिं ततो वै प्रजापतिरमृतोऽभवत्तथैवैतद्यजमान एतममृतमात्मानं कृत्वा सोऽमृतो भवति १०.१.३.[८] ते वै देवास्तं नाविदुः यद्येनं सर्वं वाकुर्वन्न वा सर्वं यद्यति वाऽरेचयन्न वाभ्यापयंस्त एतामृचमपश्यन्धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभ इति १०.१.३.[९] तस्या अस्त्येवाग्नेयम् अस्त्यैन्द्रमस्ति वैश्वदेवं तद्यदस्या आग्नेयं यदेवैतस्याग्नेराग्नेयं तदस्य तेन समस्कुर्वन्यदैन्द्रं तदैन्द्रेण यद्वैश्वदेवं तद्वैश्वदेवेन तमत्रैव सर्वं कृत्स्नं समस्कुर्वन् १०.१.३.[१०] तद्यदेतयोपतिष्ठते यदेवास्यात्र विद्वान्वाविद्वान्वाति वा रेचयति न वाभ्यापयति तदेवास्यैतया सर्वमाप्नोति यदस्य किं चानाप्तमनुष्टुब्धामच्छद्भवति वाग्वा अनुष्टुब्वाग्धामच्छद्वाचैवास्य तदाप्नोति यदस्य किं चानाप्तं पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हिसा सर्वा कृत्स्ना भवतीति १०.१.३.[११] तदु वा आहुः यविष्ठवत्यैवोपतिष्ठेतैतद्धास्य प्रियं धाम यद्यविष्ठ इति तद्यदस्य प्रियं धाम तेनास्य तदाप्नोति यदस्य किं चानाप्तमाग्नेय्याग्निकर्म हि गायत्र्यागायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवस्य त दाप्नोति यदस्य किं चानाप्तमनिरुक्तया सर्वं वा अनिरुक्तं सर्वेणैवास्य तदाप्नोति यदस्य किं चानाप्तं त्वं यविष्ठ दाशुष इति तस्योक्तो बन्धुः पुरीषवतीं चितिं कृत्वोपतिष्ठेत तत्र हि सा सर्वा कृत्स्ना भवति १०.१.४.[१] उभयं हैतदग्रे प्रजापतिरास मर्त्यं चैवामृतं च तस्य प्राणा एवामृता आसुः शरीरं मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान उभयमेव भवति मर्त्यं चैवामृतं च तस्य प्राणा एवामृता भवन्ति शरीरं मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानं कुरुते १०.१.४.[२] स प्रथमां चितिं चिनोति सा हास्यैषा प्राण एव तद्वै तदमृतमृतं हि प्राणः सैषामृतचितिरथ पुरीषं निवपति तद्धास्यैतन्मज्जैव तद्वै तन्मर्त्यम् मर्त्यो हि मज्जा तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति १०.१.४.[३] द्वितीयां चितिं चिनोति सा हास्यैषापान एव तद्वै तदमृतममृतं ह्यपानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतदस्थ्येव तद्वै तन्मर्त्यं मर्त्यं ह्यस्थि तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति १०.१.४.[४] तृतीयां चितिं चिनोति सा हास्यैषा व्यान एव तद्वै तदमृतममृतं हि व्यानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतत्स्नावैव तद्वै तन्मर्त्यं हि स्नाव तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति १०.१.४.[५] चतुर्थीं चितिं चिनोति सा हास्यैषोदान एव तद्वै तदमृतममृतं ह्युदानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतन्मांसमेव तद्वै तन्मर्त्यं मर्त्यं हि मांसं तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति १०.१.४.[६] पञ्चमीं चितिं चिनोति सा हास्यैषा समान एव तद्वै तदमृतममृतं हि समानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरीषं निवपति तद्धास्यैतन्मेद एव तद्वै तन्मर्त्यं मर्त्यं हि मेदस्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति १०.१.४.[७] षष्ठीं चितिं चिनोति सा हास्यैषा वागेवतद्वै तदमृ तममृतं हि वाक्षैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम् भवत्यथ पुरिषं निवपति तद्धास्यैतदसृगेव त्वगेव तद्वै तन्मर्त्यम् मर्त्यं ह्यसृङ्मर्त्या त्वक्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम् भवति १०.१.४.[८] ता वा एताः षडिष्टकाचितयः षट्पुरीषचितयस्तद्द्वादश द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्प्रजापतिरेकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान एकधाजरममृतमात्मानं कुरुते १०.१.४.[९] अथ विकर्णीं च स्वयमातृणां चोपधाय हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति रूपमेव तत्प्रजापतिर्हिरण्मयमन्तत आत्मनोऽकुरुत तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्मादाहुर्हिरण्मयः प्रजापतिरिति तथैवैतद्यजमानो रूपमेव हिरण्मयमन्तत आत्मनः कुरुते तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्माद्ये चैतद्विदुर्ये च न हिरण्मयोऽग्निचिदमुष्मिंलोके सम्भवतीत्येवाहुः १०.१.४.[१०] तद्धैतच्छाण्डिल्यश्च साप्तरथवाहनिश्च आचार्यान्तेवासिबौ व्यूदाते रूपमेवास्यैतदिति ह स्माह शाण्डिल्यो लोमानीति साप्तरथवाहनिः १०.१.४.[११] स होवाच शाण्डिल्यः रूपं वाव लोमवद्रूपमलोमकं रूपमेवास्यैतदिति तद्वै तत्तथा यथा तच्छाण्डिल्य उवाच संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते १०.१.४.[१२] प्राणेन वै देवा अन्नमदन्ति अग्निरु देवानां प्राणस्तस्मात्प्राग्देवेभ्यो जुह्वति प्राणेन हि देवा अन्नमदन्त्यपानेन मनुष्या अन्नमदन्ति तस्मात्प्रत्यङ्मनुष्येष्वन्नं धीयतेऽपानेन हि मनुष्या अन्नमदन्ति १०.१.४.[१३] तदाहुः न वयसोऽग्निचिदश्नीयाद्वयो वा एष रूपं भवति योऽग्निं चिनुत ईश्वर आर्तिमातोस्तस्मान्न वयसोऽग्निचिदश्नीयादिति तद्वै काममेवैवंविदश्नीयादग्नेर्वा एष रूपं भवति योऽग्निं चिनुते सर्वं वा इदमग्नेरन्नं सर्वं म इदमन्नमित्येवैवंविद्विद्यादिति १०.१.४.[१४] तदाहुः किं तदग्नौ क्रियते येन यजमानः पुनर्मृत्युमपजयतीत्यग्निर्वा एष देवता भवति योऽग्निं चिनुतेऽमृतमु वा अग्निः श्रीर्देवाः श्रियं गच्छति यशो देवा यशो ह भवति य एवं वेद १०.१.५.[१] सर्वे हैते यज्ञा योऽयमग्निश्चितः स यत्पशुमालभते तदग्न्याधेयमथ यदुखां सम्भरति तान्यग्न्याधेयहवीम्ष्यथ यद्दीक्षते तदग्निहोत्रमथ यद्दीक्षितः समिधावादधाति ते अग्निहोत्राहुती १०.१.५.[२] ते वै सायम्प्रातरादधाति सायम्प्रातर्ह्यग्निहोत्राहुती जुह्वति समानेन मन्त्रेण समानेन हि मन्त्रेणाग्निहोत्राहुती जुह्वत्यथ यद्वनीवाहनं च भस्मनश्चाभ्यवहरणं तौ दर्शपूर्णमासावथ यद्गार्हपत्यं चिनोति तानि चातुर्मास्यान्यथ यदूर्ध्वं गार्हपत्यादा सर्वौषधात्ता इष्टयोऽथ यदूर्ध्वं सर्वौषधात्प्राचीनं चितिभ्यस्ते पशुबन्धा य एवैतेषु यज्ञेषु विष्णुक्रमास्ते विष्णुक्रमा यज्जप्यं तद्वात्सप्रम् १०.१.५.[३] सौम्योऽध्वरः प्रथमा चितिः यत्प्राचीनं सवेभ्यो राजसूयो द्वितीया वाजपेयस्तृतीयाश्वमेधश्चतुर्थ्यग्निसवः पञ्चमी यैश्चितं सामभिः परिगायति तन्महाव्रतमथ यत्तत्रोद्गातुः पुरस्ताज्जप्यं तच्छतरुद्रियं वसोर्धारा महदुक्थमथ यदूर्ध्वं सामभ्यः प्राचीनं वसोर्धारायै यदेव तत्र होतुः पुरस्ताज्जप्यं तत्तदथ यदूर्ध्वं वसोर्धारायै ते गृहमेधा एतावन्तो वै सर्वे यज्ञास्तानग्निनाप्नोति १०.१.५.[४] अथातो यज्ञवीर्याणामेव सायम्प्रातर्ह वा अमुष्मिंलोकेऽग्निहोत्रहुदश्नाति तावती ह तस्मिन्यज्ञ ऊर्गर्धमासेऽर्धमासे दर्शपूर्णमासयाजी चतुर्षुचतुर्षु मासेषु चातुर्मास्ययाजी षट्सुषट्सु पशुबन्धयाजी संवत्सरेसंवत्सरे सोमयाजी शतेशते संवत्सरेष्वग्निचित्काममश्नाति कामं न तद्धैतद्यावच्छतं संवत्सरास्तावदमृतमनन्तमपर्यन्तं स सो हैतदेवं वेदैवं हैवास्यैतदमृतमनन्तमपर्यन्तं भवति तस्य यदपीषीकयेवोपहन्यात्तदेवास्यामृतमनन्तमपर्यन्तं भवति १०.२.१.[१] प्रजापतिः स्वर्गं लोकमजिगांसत् सर्वे वै पशवः प्रजापतिः पुरुषोऽश्वो गौरविरजः स एतै रूपैर्नाशक्नोत्स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त सोऽनुपसमुह्यानुपाधायोदपिपतिषत्स नाशक्नोत्स उपसमुह्योपधायोदपतत्तस्मादप्येतर्हि वयांसि यदैव पक्षा उपसमूहन्ते यदा पत्राणि विसृजन्तेऽथोत्पतितुं शक्नुवन्ति १०.२.१.[२] तं वा अङ्गुलिभिर्मिमीते पुरुषो वै यज्ञस्तेनेदं सर्वं मितं तस्यैषावमा मात्रा यदङ्गुलयस्तद्यास्यावमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते १०.२.१.[३] चतुर्विंशत्याङ्गुलिभिर्मिमीते चतुर्विंशत्यक्षरा वै गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनं तन्मिमीते १०.२.१.[४] स चतुरङ्गुलमेवोभयतोऽन्तरत उपसमूहति चतुरङ्गुलमुभयतो बाह्यतो व्युदूहति तद्यावदेवोपसमूहति तावद्व्युदूहति तन्नाहैवातिरेचयति नो कनीयः करोति तथा पुच्छस्य तथोत्तरस्य पक्षस्य १०.२.१.[५] अथ निर्णामौ पक्षयोः करोति निर्णामौ हि वयसः पक्षयोर्भवतो वितृतीये वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतोऽन्तरे वितृतीयेऽन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः स चतुरङ्गुलमेव पुरस्तादुदूहति चतुरङ्गुलम् पश्चादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति १०.२.१.[६] स तस्मिन्निर्णामे एकामिष्टकामुपदधाति तद्येयं वयसः पततो निर्णामादेका नाड्युपशेते तां तत्करोत्यथो इदम् १०.२.१.[७] अथ वक्रौ करोति वक्रौ हि वयसः पक्षौ भवतः स चतुरङ्गुलमेव पश्चादुदूहति चतुरङ्गुलं पुरस्तादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति १०.२.१.[८] अथ रूपमूत्तमं करोति अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधाति स सहस्रमृज्वालिखिता इष्टकाः करोति सहस्रमित्यालिखिताः सहस्रमित्यालिखिताः १०.२.१.[९] अथ पञ्चमीं चितिमुपधाय त्रेधाग्निं विमिमीते स मध्यमे वितृतीये सहस्रमृज्वालिखिता इष्टका उपदधाति तद्यानीमानि वयसः प्रत्यञ्चि शीर्ष्ण आ पुच्छादृजूनि लोमानि तानि तत्करोति १०.२.१.[१०] अथ सहस्रमित्यालिखिता दक्षिणत उपदधाति तद्यानीमानि वयसो दक्षिणतो वक्राणि लोमानि तानि तत्करोति १०.२.१.[११] अथ सहस्रमित्यालिखिता उत्तरत उपदधाति तद्यानीमानि वयस उत्तरतो वक्राणि लोमानि तानि तत्करोति सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतद्रूपमुत्तमं दधाति त्रिभिः सहस्रैस्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रूपमुत्तमं दधाति १०.२.२.[१] यान्वै तान्त्सप्त पुरुषान् एकं पुरुषमकुर्वन्त्स प्रजापतिरभवत्स प्रजा असृजत स प्रजाः सृष्ट्वोर्ध्व उदक्रामत्स एतं लोकमगच्छद्यत्रैष एतत्तपति नो ह तर्ह्यन्य एतस्मादत्र यज्ञिय आस तं देवा यज्ञेनैव यष्टुमध्रियन्त १०.२.२.[२] तस्मादेतदृषिणाभ्यनूक्तम् यज्ञेन यज्ञमयजन्त देवा इति यज्ञेन हि तं यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति ते हि धर्माः प्रथमेऽक्रियन्त ते ह नाकं महिमानः सचन्तेति स्वर्गो वै लोको नाको देवा महिमानस्ते देवाः स्वर्गं लोकं सचन्त ये तं यज्ञमयजन्नित्येतत् १०.२.२.[३] यत्र पूर्वे साध्याः सन्ति देवा इति प्राणा वै साध्या देवास्त एतमग्र एवमसाधयन्नेतदेव बुभूषन्तस्त उ एवाप्येतर्हि साधयन्ति पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूनेति पश्चाहैवेदमन्यद्यज्ञियमास यत्किं चामृतम् १०.२.२.[४] सुपर्णो अङ्गं सवितुर्गरुत्मान् पूर्वो जातः स उ अस्यानु धर्मेति प्रजापतिर्वै सुपर्णो गरुत्मानेष सवितैतस्य प्रजापतिरनु धर्मनित्येतत् १०.२.२.[५] स वै सप्तपुरुषो भवति सप्तपुरुषो ह्ययं पुरुषो यच्चत्वार आत्मा त्रयः पक्षपुच्छानि चत्वारो हि तस्य पुरुषस्यात्मा त्रयः पक्षपुच्छानि १०.२.२.[६] तं वा उद्बाहुना पुरुषेण मिमीते पुरुषो वै यज्ञस्तेनेदं सर्वं मितं तस्यैषा परमा मात्रा यदुद्बाहुस्तद्यास्य परमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते तत्रोप यत्प्रपदेनाभ्युच्रितो भवति तत्परिश्रिद्भिराप्नोति तस्मादु बाह्येनैव लेखां परिश्रिद्भ्यः खनेत् १०.२.२.[७] अथ पक्षयोररत्नी उपादधाति पक्षयोस्तद्वीर्यं दधाति बाहू वै पक्षौ बाहुभ्यामु वा अन्नमद्यतेऽन्नायैव तमवकाशां करोति तद्यत्पक्षयोररत्नी उपादधात्यरत्निमात्राद्ध्यन्नमद्यते १०.२.२.[८] अथ पुच्छे वितस्तिमुपादधाति प्रतिष्ठायां तद्वीर्यं दधाति प्रतिष्ठा वै पुचं हस्तो वितस्तिर्हस्तेन वा अन्नमद्यतेऽन्नायैव तमवकाशं करोति तद्यत्पुच्छे वितस्तिमुपादधात्यन्न एवैनं तत्प्रतिष्ठापयति तद्यत्तत्र कनीय उपादधात्यन्नेह्येवैनं तत्प्रतिष्ठापयत्यथो एतावद्वा इदं मितम् भवत्येतावदिदं तद्यदेवं मिमीत एतस्यैवाप्त्यै १०.२.३.[१] या वा इयं वेदिः सप्तविधस्य एषा वेदेर्मात्रा स देवयजनमध्यवसाय पूर्वया द्वारा पत्नीशालं प्रपद्य गार्हपत्यायोद्धत्यावोक्षति गार्हपत्यस्योद्धतात्सप्त प्राचः प्रक्रमान्प्रक्रामति ततः प्राञ्चं व्यामं विमिमीते तस्य मध्य आहवनीयायोद्धत्यावोक्षति पूर्वार्धाद्व्यामस्य त्रीन्प्राचः प्रक्रमान्प्रक्रामति स वेद्यन्तः १०.२.३.[२] ते वा एते व्यामैकादशाः प्रक्रमा अन्तरा वेद्यन्तं च गार्हपत्यं चैकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्ताद्यज्ञमुखाद्रक्षांसि नाष्ट्रा अपहन्ति १०.२.३.[३] सैषा वेदेर्योनिः एतस्यै वै योनेर्देवा वेदिं प्राजनयन्नथ य एष व्यामः सा गार्हपत्यस्य योनिरेतस्यै वै योनेर्देवा गार्हपत्यम् प्राजनयन्गार्हपत्यादाहवनीयम् १०.२.३.[४] स वेद्यन्तात् षट्त्रिंशत्प्रक्रमां प्राचीं वेदिं विमिमीते त्रिंशतं पश्चात्तिरश्चीं चतुर्विंशतिं पुरस्तात्तन्नवतिः सैषा नवतिप्रक्रमा वेदिस्तस्यां सप्तविधमग्निं विदधाति १०.२.३.[५] तदाहुः कथमेष सप्तविध एतया वेद्या सम्पद्यत इति दश वा इमे पुरुषे प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदश एवं द्वितीय एवं तृतीये षट्सु पुरुषेषु नवतिरथैकः पुरुषोऽत्येति पाङ्क्तो वै पुरुषो लोम त्वङ्मांसमस्थि मज्जा पाङ्क्तो इयं वेदिश्चतस्रो दिश आत्मा पञ्चम्येवमेष सप्तविध एतया वेद्या सम्पद्यते १०.२.३.[६] तद्धैके उत्तरा विधा विधास्यन्त एतांश्च प्रक्रमानेतं च व्याममनुवर्धयन्ति योनिमनुवर्धयाम इति न तथा कुर्यान्न वै जातं गर्भं योनिरनुवर्धते यावद्वाव योनावन्तर्गर्भो भवति तावदेव योनिर्वर्धत एतावत्यु वा अत्र गर्भस्य वृद्धिः १०.२.३.[७] ते ये ह तथा कुर्वन्ति एतं ह ते पितरं प्रजापतिं सम्पदश्च्यावयन्ति त इष्ट्वा पापीयांसो भवन्ति पितरं हि प्रजापतिं सम्पदश्च्यावयन्ति सा यावत्येषा सप्तविधस्य वेदिस्तावतीं चतुर्दश कृत्व एकशतविधस्य वेदिं विमिमीते १०.२.३.[८] अथ षट्त्रिंशत्प्रक्रमां रज्जुं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्प्राच उपदधाति निःसृजति चतुरः १०.२.३.[९] अथ त्रिंशत्प्रक्रमां मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पश्चादुपदधाति निःसृजति चतुरः १०.२.३.[१०] अथ चतुर्विंशतिप्रक्रमां मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुरस्तादुपदधाति निःसृजति चतुर इति नु वेदिविमानम् १०.२.३.[११] अथाग्नेर्विधाः अष्टाविंशतिः प्राञ्चः पुरुषा अष्टाविंशतिस्तिर्यञ्चः स आत्मा चतुर्दश पुरुषा दक्षिणः पक्षश्चतुर्दशोत्तरश्चतुर्दश पुचं चतुर्दशारत्नीन्दक्षिणे पक्ष उपदधाति चतुर्दशोत्तरे चतुर्दश वितस्तीः पुच्छ इति न्वष्टानवतेः पुरुषाणां मात्रा साधिमानानाम् १०.२.३.[१२] अथ त्रिपुरुषां रज्जुं मिमीते तां सप्तधा समस्यति तस्यै चतुरो भागानात्मन्नुपदधाति त्रीन्पक्षपुच्छेषु १०.२.३.[१३] अथारत्निमात्रीं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्दक्षिणे पक्ष उपदधाति त्रीनेवोत्तरे निःसृजति चतुरः १०.२.३.[१४] अथ वितस्तिमात्रीं मिमीते तां सप्तधा समस्यति तस्यै त्रीन्भागान्पुच्छ उपदधाति निःसृजति चतुर एवमेष एकशतविध एतया वेद्या सम्पद्यते १०.२.३.[१५] तदाहुः यत्त्रयोदश पुरुषा अतियन्ति कथमेते सम्पदो न च्यवन्त इति या वा एतस्य सप्तमस्य पुरुषस्य सम्पत्सैवैतेषां सर्वेषां सम्पत् १०.२.३.[१६] अथो आहुः प्रजापतिरेवात्मानं विधाय तस्य यत्रयत्र न्यूनमासीत्तदेतैः समापूरयत तेनो एवापि सम्पन्न इति १०.२.३.[१७] तद्धैके एकविधं प्रथमं विदधत्यथैकोत्तरमापरिमितविधान्न तथा कुर्यात् १०.२.३.[१८] सप्तविधो वा अग्रे प्रजापतिरसृज्यत स आत्मानं विदधान ऐत्स एकशतविधेऽतिष्ठत स योऽर्वाचीनं सप्तविधाद्विधत्त एतं ह स पितरम् प्रजापतिं विच्छिनत्ति स इष्ट्वा पापीयान्भवति यथा श्रेयांसं हिंसित्वाथ स एकशतविधमतिविधत्तेऽस्मात्स सर्वस्माद्बहिर्धा निष्पद्यते सर्वमु हीदम् प्रजापतिस्तस्मादु सप्तविधमेव प्रथमं विदधीताथैकोत्तरमैकशतविधादेकशतविधं तु नातिविदधीत नाहैतम् पितरं प्रजापतिं विच्छिनत्ति नो अस्मात्सर्वस्माद्बहिर्धा निष्पद्यते १०.२.४.[१] संवत्सरो वै प्रजापतिः अग्निरु सर्वे कामाः सोऽयं संवत्सरः प्रजापतिरकामयताग्निं सर्वान्कामानात्मानमभिसंचिन्वीयेति स एकशतधात्मानं व्यधत्त स एकशतधात्मानं विधायाग्निं सर्वान्कामानात्मानमभिसमचिनुत स सर्वे कामा अभवत्तस्मान्न कश्चन बहिर्धा कामोऽभवत्तस्मादाहुः संवत्सरः सर्वे कामा इति न ह संवत्सरात्कश्चन बहिर्धा कामोऽस्ति १०.२.४.[२] तथैवैतद्यजमानः एकशतधात्मानं विधायाग्निं सर्वान्कामानात्मानमभिसंचिनुते स सर्वे कामा भवति तस्मान्न कश्चन बहिर्धा कामो भवति १०.२.४.[३] स यः स संवत्सरोऽसौ स आदित्यः स एष एकशतविधस्तस्य रश्मयः शतं विधा एष एवैकशततमो य एष तपत्यस्मिन्त्सर्वस्मिन्प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायास्मिन्त्सर्वस्मिन्प्रतितिष्ठति १०.२.४.[४] अथ वा एकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्तसु देवलोकेषु प्रतिष्ठितः सप्त वै देवलोकाश्चतस्रो दिशस्त्रय इमे लोका एते वै सप्त देवलोकास्तेष्वेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्तसु देवलोकेषु प्रतितिष्ठति १०.२.४.[५] यद्वेवैकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्तस्वृतुषु सप्तसु स्तोमेषु सप्तसु पृष्ठेषु सप्तसु छन्दःसु सप्तसु प्राणेषु सप्तसु दिक्षु प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधायैतस्मिन्त्सर्वस्मिन्प्रतितिष्ठति १०.२.४.[६] यद्वेवैकशतविधः सप्तविधमभिसम्पद्यत एकशतधा वा असावादित्यो विहितः सप्ताक्षरे ब्रह्मन्प्रतिष्ठितः सप्ताक्षरं वै ब्रह्मर्गित्येकमक्षरं यजुरिति द्वे सामेति द्वे अथ यदतोऽन्यद्ब्रह्मैव तद्द्व्यक्षरं वै ब्रह्म तदेतत्सर्वं सप्ताक्षरं ब्रह्म तस्मिन्नेष प्रतिष्ठितस्तथैवैतद्यजमान एकशतधात्मानं विधाय सप्ताक्षरे ब्रह्मन्प्रतितिष्ठति १०.२.४.[७] तस्मादु सप्तभिःसप्तभिः परिश्रयन्ति तस्मादेकशतविधः सप्तविधमभिसम्पद्यतेऽथ वै सप्तविध एकशतविधमभिसम्पद्यते १०.२.४.[८] सप्तविधो वा अग्रे प्रजापतिरसृज्यत स एतमेकशतधात्मानं विहितमपश्यत्प्राणभृत्सु पञ्चाशदिष्टकाः पञ्चाशद्यजूंषि तच्छतं सादनं च सूददोहाश्चैक=अततमे तत्समानं सादयित्वा हि सूददोहसाधिवदति स एतेनैकशतविधेनात्मनेमां जितिमजयदिमां व्यष्टिं व्याश्नुत तथैवैतद्यजमान एतेनैकशतविधेनात्मनेमां जितिं जयतीमां व्यष्टिं व्यश्नुत एवमु सप्तविध एकशतविधमभिसम्पद्यते स य एवैकशतविधः स सप्तविधो यः सप्तविधः स एकशतविध इति नु विधानम् १०.२.५.[१] अथातश्चयनस्यैव अन्तरोपसदौ चिनोत्येतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एताः पुरोऽपश्यन्नुपसद इमानेव लोकानिमे वै लोकाः पुरस्ताः प्रापद्यन्त ताः प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एताः पुरः प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते १०.२.५.[२] यद्वेवान्तरोपसदौ चिनोति एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति त एतान्वज्रानपश्यन्नुपसदो वज्रा वा उपसदस्तान्प्रापद्यन्त तान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं समस्कुर्वत तथैवैतद्यजमान एतान्वज्रान्प्रपद्याभयेऽनाष्ट्र एतमात्मानं संस्कुरुते १०.२.५.[३] एतदु ह यज्ञे तपः यदुपसदस्तपो वा उपसदस्तद्यत्तपसि चीयते तस्मात्तापश्चितस्तद्वै यावदेवोपसद्भिश्चरन्ति तावत्प्रवर्ग्येण संवत्सरमेवोपसद्भिश्चरन्ति संवत्सरं प्रवर्ग्येण १०.२.५.[४] अहोरात्राणि वा उपसदः आदित्यः प्रवर्ग्योऽमुं तदादित्यमहोरात्रेषु प्रतिष्ठापयति तस्मादेषोऽहोरात्रेषु प्रतिष्ठितः १०.२.५.[५] अथ यदि चतुर्विंशतिः चतुर्विंशतिर्वा अर्धमासा अर्धमासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमर्धमासेषु प्रतिष्ठापयति तस्मादेषोऽर्धमासेषु प्रतिष्ठितः १०.२.५.[६] अथ यदि द्वादश द्वादश वै मासा मासा उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यं मासेषु प्रतिष्ठापयति तस्मादेष मासेषु प्रतिष्ठितः १०.२.५.[७] अथ यदि षट् षड्वा ऋतव ऋतव उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमृतुषु प्रतिष्ठापयति तस्मादेष ऋतुषु प्रतिष्ठितः १०.२.५.[८] अथ यदि तिस्रः त्रयो वा इमे लोका इमे लोका उपसद आदित्यः प्रवर्ग्योऽमुं तदादित्यमेषु लोकेषु प्रतिष्ठापयति तस्मादेष एषु लोकेषु प्रतिष्ठितः १०.२.५.[९] अथातश्चितिपुरीषाणामेव मीमांसा मासं प्रथमा चितिर्मासम् पुरीषमेतावान्वासन्तिक ऋतौ कामस्तद्यावान्वासन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१०] मासं द्वितीया मासं पुरीषमेतावान्ग्रैष्म ऋतौ कामस्तद्यावान्ग्रैष्म ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[११] मासं तृतीया मासं पुरीषमेतावान्वार्षिक ऋतौ कामस्तद्यावान्वार्षिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१२] मासं चतुर्थी मासं पुरीषमेतावाञ्चारद ऋतौ कामस्तद्यावाञ्चारद ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१३] अथ पञ्चम्यै चितेः असपत्ना विराजश्च प्रथमाहमुपदधाति स्तोमभागा एकैकामन्वहं ताः स्कृत्सादयति सकृत्सूददोहसाधिवदति तूष्णीं मासं स्तोमभागापुरीषमभिहरन्त्येतावान्हैमन्तिक स्तौ कामस्तद्यावान्हैमन्तिक ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१४] मासं षष्ठी मासं पुरीषमेतावाञ्चैशिर ऋतौ कामस्तद्यावाञ्चैशिर ऋतौ कामस्तं तत्सर्वमात्मानमभिसंचिनुत एतावान्वै द्वादशसु मासेषु कामः षट्स्वृतुषु तद्यावान्द्वादशसु मासेषु कामः षट्स्वृतुषु तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१५] अथ त्रीण्यहान्युपातियन्ति यदहः शतरुद्रियं जुहोति यदहरुपवसथो यदहः प्रसुतस्तद्यत्तेष्वहःसूपसदा चरन्ति तानि तस्य मासस्याहोरात्राण्यथ यत्प्रवर्ग्येण तदु तस्मिन्नृतावादित्यं प्रतिष्ठापयत्येतावान्वै त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तद्यावांस्त्रयोदशसु मासेषु कामः सप्तस्वृतुषु तं तत्सर्वमात्मानमभिसंचिनुते १०.२.५.[१६] स संवत्सरं प्रसुतः स्यात् सर्वं वै संवत्सरः सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति यदि संवत्सरं न शक्नुयाद्विश्वजिता सर्वपृष्ठेनातिरात्रेण यजेत तस्मिन्त्सर्ववेदसं दद्यात्सर्वं वै विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्ववेदसं सर्वमेकशतविधः सर्वेणैव तत्सर्वमाप्नोति १०.२.६.[१] संवत्सरो वै प्रजापतिरेकशतविधः तस्याहोरात्राण्यर्धमासा मासा ऋतवः षष्टिर्मासस्याहोरात्राणि मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते चतुर्विंशतिरर्धमासास्त्रयोदश मासास्त्रय ऋतवस्ताः शतं विधाः संवत्सर एवैकशततमी विधा १०.२.६.[२] स ऋतुभिरेव सप्तविधः षडृतवः संवत्सर एव सप्तमी विधा तस्यैतस्य संवत्सरस्यैतत्तेजो य एष तपति तस्य रश्मयः शतं विधा मण्डलमेवैकशततमी विधा १०.२.६.[३] स दिग्भिरेव सप्तविधः ये प्राच्यां दिशि रश्मयः सैका विधा ये दक्षिणायां सैका ये प्रतीच्यां सैका य उदीच्यां सैका य ऊर्ध्वायां सैका येऽवाच्यां सैका मण्डलमेव सप्तमी विधा १०.२.६.[४] तस्यैतस्य पुरस्तात्कामप्रो लोकः अमृतं वै कामप्रममृतमेवास्य तत्परस्तात्तद्यत्तदमृतमेतत्तद्यदेतदर्चिर्दीप्यते १०.२.६.[५] तदेतद्वसुचित्रं राधः तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजत्यप्योषधिभ्योऽपि वनस्पतिभ्यो भूयैव ह त्वेकाभ्यः प्रयच्छति कनीय इवैकाभ्यस्तद्याभ्यो भूयः प्रयच्छति ता ज्योक्तमां जीवन्ति याभ्यः कनीयः कनीयस्ताः १०.२.६.[६] तदेतदृचाभ्युक्तं विभक्तारं हवामहे वसोश्चित्रस्य राधसः सवितारं नृचक्षसमिति तदेतत्सर्वमायुर्दीर्घमनन्तं हि तद्यदिदमाहुर्दीर्घं त आयुरस्तु सर्वमायुरिहीत्येष ते लोक एतत्तेऽस्त्विति हैवैतत् १०.२.६.[७] पश्यन्ती वाग्वदति तदेतदेकशतविधेन वैवाप्तव्यं शतायुतया वा य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति स हैवैतदमृतमाप्नोति तस्माद्ये चैतद्विदुर्ये च न लोक्या शतायुतेत्येवाहुस्तस्मादु ह न पुरायुषः स्वकामी प्रेयादलोक्यं हैत उ वाव लोका यदहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरः १०.२.६.[८] तद्येऽर्वाग्विंशेषु वर्षेषु प्रयन्ति अहोरात्रेषु ते लोकेषु सज्यन्तेऽथ ये परोविंशेष्वर्वाक्चत्वारिंशेष्वर्धमासेषु तेऽथ ये परश्चत्वारिंशेष्वर्वाक्षष्टेषु मासेषु तेऽथ ये परःषष्टेष्वर्वागशीतेष्वृतुषु तेऽथ ये परोऽशीतेष्वर्वाक्शतेषु संवत्सरे तेऽथ य एव शतं वर्षाणि यो वा भूयांसि जीवति स हैवैतदमृतमाप्नोति १०.२.६.[९] बहुभिर्ह वै यज्ञैः एकमहरेका रात्रिर्मिता स य एवैकशतविधं विधत्ते यो वा शतं वर्षाणि जीवति स हैवैनदद्धातमामाप्नोत्येष वा एकशतविधं विधत्ते य एनं संवत्सरं बिभर्ति तस्मादेनं संवत्सरभृतमेव चिन्वीतेत्यधिदेवतम् १०.२.६.[१०] अथाधियज्ञम् यानमूनेकशतमुद्बाहून्पुरुषान्मिमीते स विधैकशतविधः स चितिभिरेव सप्तविधः षडृतव्यवत्यश्चितयोऽग्निरेव सप्तमी विधा १०.२.६.[११] स उ वा इष्टकैकशतविधः याः पञ्चाशत्प्रथमा इष्टका याश्चोत्तमास्ताः शतं विधा अथ या एतदन्तरेणेष्टका उपधीयन्ते सैवैकशततमी विधा १०.२.६.[१२] स उ एव यजुस्तेजाः यजुरेकशतविधो यानि पञ्चाशत्प्रथमानि यजूंषि यानि चोत्तमानि ताः शतं विधा अथ यान्येतदन्तरेण यजूंषि क्रियन्ते सैवैकशततमी विधैवमु सप्तविध एकशतविधो भवति स यः शतायुतायां कामो य एकशतविधे सप्त्!विधेन हैव तमेवंविदाप्नोति १०.२.६.[१३] एवं वाव सर्वे यज्ञाः एकशतविधा आग्निहोत्रादृग्भिर्यजुर्भिः पदैरक्षरैः कर्मभिः सामभिः स यः शतायुतायां कामो य एकशतविधे यः सप्तविधे यज्ञेन यज्ञेन हैव तमेवंविदाप्नोतीत्यु एवाधियज्ञम् १०.२.६.[१४] अथाध्यात्मम् पञ्चेमाश्चतुर्विधा अङ्गुलयो द्वे कल्कुषी दोरंसफलकं चाक्षश्च तत्पञ्चविंशतिरेवमिमानीतराण्यङ्गानि ताः शतं विधा आत्मैवैकशततमी विधोक्तं सप्तविधतायै १०.२.६.[१५] स उ एव प्राणतेजाः प्राणैकशतविधोऽन्वङ्गमङ्गेऽङ्गे हि प्राणः स यः शतायुतायां कामो य एकशतविधे यः सप्तविधे यः सर्वेषु यज्ञेषु विद्याया हैव तमेवंविदाप्नोति सर्वौर्हि यज्ञैरात्मानं सम्पन्नं विदे १०.२.६.[१६] त्रीणि वा इमानि पञ्चविधानि संवत्सरोऽग्निः पुरुषस्तेषां पञ्च विधा अन्नम् पानं श्रीर्ज्योतिरमृतं यदेव संवत्सरेऽन्नं तदन्नं या आपस्तत्पानं रात्रिरेव श्रीः श्रियां हैतद्रात्र्यां सर्वाणि भूतानि संवसन्त्यहर्ज्योतिरादित्योऽमृतमित्यधिदेवतं १०.२.६.[१७] अथाधियज्ञम् यदेवाग्नावन्नमुपधीयते तदन्नं या आपस्तत्पानं परिश्रित एव श्रीस्तद्धि रात्रीणां रूपं यजुष्मत्यो ज्योतिस्तद्ध्यह्नां रूपमग्निरं!तं तद्ध्यादित्यस्य रूपमित्यु एवाधियज्ञम् १०.२.६.[१८] अथाध्यात्मम् यदेव पुरुषेऽन्नं तदन्नं या आपस्तत्पानमस्थीन्येव श्रीस्तद्धि परिश्रितां रूपं मज्जानो ज्योतिस्तद्धि यजुष्मतीनां रूपं प्राणोऽमृतं तद्ध्यग्ने रूपं प्राणोऽग्निः प्राणोऽमृतमित्यु वा आहुः १०.२.६.[१९] अन्नाद्वा अशनाया निवर्तते पानात्पिपासा श्रियै पाप्मा ज्योतिषस्तमोऽमृतान्मृत्युर्नि ह वा अस्मादेतानि सर्वाणि वर्तन्तेऽप पुनर्मृत्युं जयति सर्वमायुरेति य एवं वेद तदेतदमृतमित्येवामुत्रोपासीतायुरितीह प्राण इति हैक उपासते प्राणोऽग्निः प्राणोऽमृतमिति वदन्तो न तथा विद्यादध्रुवं वै तद्यत्प्राणस्तं ते विष्याम्यायुषो न मध्यादिति ह्यपि यजुषाभ्युक्तं तस्मादेनदमृतमित्येवामुत्रोपासीतायुरितीह तथो ह सर्वमायुरेति १०.३.१.[१] प्राणो गायत्री चक्षुरुष्णिग्वागनुष्टुम्मनो बृहती श्रोत्रं पङ्क्तिर्य एवायम् प्रजननः प्राण एष त्रिष्टुबथ योऽयमवाङ्प्राण एष जगती तानि वा एतानि सप्त छन्दांसि चतुरुत्तराण्यग्नौ क्रियन्ते १०.३.१.[२] प्राणो गायत्रीति तद्य एव प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रम् प्राणस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः प्राण उत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष गायत्रीः संचितो भवति १०.३.१.[३] चक्षुरुष्णिगिति तद्य एव चक्षुषो महिमा यद्वीर्यं तदेतत्सहस्रं चक्षुष एवैतद्वीर्यं यद्ध्यस्य चिन्वतश्चक्षुरुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष उष्णिहः संचितो भवति १०.३.१.[४] वागनुष्टुबिति तद्य एव वाचो महिमा यद्वीर्यं तदेतत्सहस्रं वाच एवैतद्वीर्यं यद्ध्यस्य चिन्वतो वागुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेषोऽनुष्टुभः संचितो भवति १०.३.१.[५] मनो बृहतीति तद्य एव मनसो महिमा यद्वीर्यं तदेतत्सहस्रं मनस एवैतद्वीर्यं यद्ध्यस्य चिन्वतो मन उत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष बृहतीः संचितो भवति १०.३.१.[६] श्रोत्रं पङ्क्तिरिति तद्य एव श्रोत्रस्य महिमा यद्वीर्यं तदेतत्सहस्रं श्रोत्रस्यैवैतद्वीर्यं यद्ध्यस्य चिन्वतः श्रोत्रमुत्क्रामेत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष पङ्क्तीः संचितो भवति १०.३.१.[७] य एवायं प्रजननः प्राणः एष त्रिष्टुबिति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष त्रिष्टुभः संचितो भवति १०.३.१.[८] अथ योऽयमवाङ्प्राणः एष जगतीति तद्य एवैतस्य प्राणस्य महिमा यद्वीर्यं तदेतत्सहस्रमेतस्यैवैतत्प्राणस्य वीर्यं यद्ध्यस्य चिन्वत एष प्राण आलुभ्येत्तत एवैषोऽग्निर्न चीयेतैतेनैवास्य रूपेण सहस्रमेष जगतीः संचितो भवति १०.३.१.[९] तानि वा एतानि सप्त छन्दांसि चतुरुत्तराण्यन्योऽन्यस्मिन्प्रतिष्ठितानि सप्तेमे पुरुषे प्राणा अन्योऽन्यस्मिन्प्रतिष्ठितास्तद्यावन्तमेवंविच्चन्दसां गणमन्वाह च्छन्दसश्छन्दसो हैवास्य सोऽनूक्तो भवति स्तुतो वा शस्तो वोपहितो वा १०.३.२.[१] तदाहुः किं छन्दः का देवताग्नेः शिर इति गायत्री च्छन्दोऽग्निर्देवता शिरः १०.३.२.[२] किं छन्दः का देवता ग्रीवा इत्युष्णिक्चन्दः सविता देवता ग्रीवाः १०.३.२.[३] किं छन्दः का देवतानूकमिति बृहती च्छन्दो बृहस्पतिर्देवतानूकम् १०.३.२.[४] किं छन्दः का देवता पक्षाविति बृहद्रथन्तरे च्छन्दो द्यावापृथिवी देवते पक्षौ १०.३.२.[५] किं छन्दः का देवता मध्यमिति त्रिष्टुप्छन्द इन्द्रो देवता मध्यम् १०.३.२.[६] किं छन्दः का देवता श्रोणी इति जगती च्छन्द आदित्यो देवता श्रो णी १०.३.२.[७] किं छन्दः का देवता यस्मादिदं प्राणाद्रेतः सिच्यत इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता १०.३.२.[८] किं छन्दः का देवता योऽयमवाङ्प्राण इति यज्ञायज्ञियं छन्दो वैश्वानरो देवता १०.३.२.[९] किं छन्दः का देवतोरू इत्यनुष्टुप्छन्दो विश्वे देवा देवतोरू १०.३.२.[१०] किं छन्दः का देवताष्ठीवन्ताविति पङ्क्तिश्छन्दो मरुतो देवताष्ठीवन्तौ १०.३.२.[११] किं छन्दः का देवता प्रतिष्ठे इति द्विपदा च्छन्दो विष्णुर्देवता प्रतिष्ठे १०.३.२.[१२] किं छन्दः का देवता प्राणा इति विच्छन्दाश्छन्दो वायुर्देवता प्राणाः १०.३.२.[१३] किं छन्दः का देवतोनातिरिक्तानीति न्यूनाक्षरा छन्द आपो देवतोनातिरिक्तानि सैषात्मविद्यैवैतन्मयो हैवैता देवता एतमात्मानमभिसम्भवति न हात्रान्या लोक्यताया आशीरस्ति १०.३.३.[१] धीरो ह शातपर्णेयः महाशालं जाबालमुपोत्ससाद तं होवाच किं मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति वाचमिति यस्तमग्निं वेद किं स भवतीति वाग्मी भवतीति होवाच नैनं वाग्जहातीति १०.३.३.[२] वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति चक्षुरिति यस्तमग्निं वेद किं स भवतीति चक्षुष्मान्भवतीति होवाच नैनं चक्षुर्जहातीति १०.३.३.[३] वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति मन इति यस्तमग्निं वेद किं स भवतीति मनस्वी भवतीति होवाच नैनं मनो जहातीति १०.३.३.[४] वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति श्रोत्रमिति यस्तमग्निं वेद किं स भवतीति श्रोत्रवान्भवतीति होवाच नैनं श्रोत्रं जहातीति १०.३.३.[५] वेत्थाग्निमिति होवाच किमेव मा विद्वानुपोदसद इत्यग्निं वेदेति कमग्निं वेत्थेति य एतत्सर्वमग्निस्तं वेदेति तस्मिन्होक्त उपावरुरोहाधीहि भोस्तमग्निमिति १०.३.३.[६] स होवाच प्राणो वाव सोऽग्निर्यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्मम् १०.३.३.[७] अथाधिदेवतम् या वै सा वागग्निरेव स यत्तच्चक्षुरसौ स आदित्यो यत्तन्मन एष स चन्द्रमा यत्तच्रोत्रं दिश एव तदथ यः स प्राणोऽयमेव स वायुर्योऽयम् पवते १०.३.३.[८] यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मादेनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते स यदैवंविदस्माल्लोकात्प्रैति वाचैवाग्निमप्येति चक्षुषादित्यं मनसा चन्द्रं श्रोत्रेण दिशः प्राणेन वायुं स एतन्मय एव भूत्वैतासां देवतानां यांयां कामयते सा भूत्वेलयति १०.३.४.[१] श्वेतकेतुर्हारुणेयः यक्ष्यमाण आस तं ह पितोवाच कानृत्विजोऽवृथा इति स होवाचायं न्वेव मे वैश्वावसव्यो होतेति तं ह पप्रच्छ वेत्थ ब्राह्मण वैश्वावसव्य १०.३.४.[२] चत्वारि महान्ती३ इति वेद भो३ इति होवाच वेत्थ चत्वारि महतां महान्ती३ इति वेद भो३ इति होवोच वेत्थ चत्वारि व्रतानि३ इति वेद भो३ इति होवाच वेत्थ चत्वारि व्रतानां व्रतानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानी३ इति वेद भो३ इति होवाच वेत्थ चत्वारि क्यानां क्यानी३ इति वेद भो३ इति होवाच वेत्थ चतुरोऽर्का३ इति वेद भो३ इति होवाच वेत्थ चतुरोऽर्काणामर्का३ इति वेद भो३ इति होवाच १०.३.४.[३] वेत्थार्कमिति अथ वै नो भवान्वक्ष्यतीति वेत्थार्कपर्णे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कपुष्पे इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्ककोश्यावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कसमुद्गावित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कधाना इत्यथ वै नो भवान्वक्ष्यतीति वेत्थार्काष्ठीलामित्यथ वै नो भवान्वक्ष्यतीति वेत्थार्कमूलमित्यथ वै नो भवान्वक्ष्यतीति १०.३.४.[४] स ह वै यत्तदुवाच वेत्थ चत्वारि महान्ति वेत्थ चत्वारि महताम् महान्तीत्यग्निर्महांस्तस्य महतो महदोषधयश्च वनस्पतयश्च तद्ध्यस्यान्नं वायुर्महांस्तस्य महतो महदापस्तद्ध्यस्यान्नमादित्यो महांस्तस्य महतो महच्चन्द्रमास्तद्ध्यस्यान्नं पुरुषो महांस्तस्य महतो महत्पशवस्तद्ध्यस्यान्नमेतान्येव चत्वारि महान्त्येतानि चत्वारि महताम् महान्त्येतान्येव चत्वारि व्रतान्येतानि चत्वारि व्रतानां व्रतान्येतान्येव चत्वारि क्यान्येतानि चत्वारि क्यानां क्यान्येत एव चत्वारोऽर्का एते चत्वारोऽर्काणामर्काः १०.३.४.[५] अथ ह वै यत्तदुवाच वेत्थार्कमिति पुरुषं हैव तदुवाच वेत्थार्कपर्णे इति कर्णौ हैव तदुवाच वेत्थार्कपुष्पे इत्यक्षिणी हैव तदुवाच वेत्थार्ककोश्याविति नासिके हैव तदुवाच वेत्थार्कसमुद्गावित्योष्ठौ हैव तदुवाच वेत्थार्कधाना इति दन्तान्हैव तदुवाच वेत्थार्काष्ठीलामिति जिह्वां हैव तदुवाच वेत्थार्कमूलमित्यन्नं हैव तदुवाच स एषोऽग्निरर्को यत्पुरुषः स यो हैतमेवमग्निमर्कं पुरुषमुपास्तेऽयमहमग्निरर्कोऽस्मीति विद्यया हैवास्यैष आत्मन्नग्निरर्कश्चितो भवति १०.३.५.[१] अयं वाव यजुर्योऽयं पवते एष हि यन्नेवेदं सर्वं जनयत्येतं यन्तमिदमनु प्रजायते तस्माद्वायुरेव यजुः १०.३.५.[२] अयमेवाकाशो जूः यदिदमन्तरिक्षमेतं ह्याकाशमनु जवते तदेतद्यजुर्वायुश्चान्तरिक्षं च यच्च जूश्च तस्माद्यजुरेष एव यदेष ह्येति तदेतद्यजुर्ऋक्षामयोः प्रतिष्ठितमृक्षामे वहतस्तस्मात्समानैरेवाध्वयुर्ग्रहैः कर्म करोत्यन्यान्यन्यानि स्तुतशस्त्राणि भवन्ति यथा पूर्वाभ्यां स्यन्त्त्वापराभ्यां धावयेत्तादृक्तत् १०.३.५.[३] अग्निरेव पुरः अग्निं हि पुरस्कृत्येमाः प्रजा उपासत आदित्य एव चरणं यदा ह्येवैष उदेत्यथेदं सर्वं चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं १०.३.५.[४] अथाध्यात्मम् प्राण एव यजुः प्राणो हि यन्नेवेदं सर्वं जनयति प्राणं यन्तमिदमनु प्रजायते तस्मात्प्राण एव यजुः १०.३.५.[५] अयमेवाकाशो जूः योऽयमन्तरात्मन्नाकाश एतं ह्याकाशमनु जवते तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च तस्माद्यजुः प्राण एव यत्प्राणो ह्येति १०.३.५.[६] अन्नमेव यजुः अन्नेन हि जायतेऽन्नेन जवते तदेतद्यजुरन्ने प्रतिष्ठितमन्नं वहति तस्मात्समान एव प्राणेऽन्यदन्यदन्नं धीयते १०.३.५.[७] मन एव पुरः मनो हि प्रथमं प्राणानां चक्षुरेव चरणं चक्षुषा ह्ययमात्मा चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं स यो हैतदेवं यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद १०.३.५.[८] अरिष्टो हैवानार्तः स्वस्ति यज्ञस्योदृचमश्नुते स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद १०.३.५.[९] य उ हैवंविदं स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वै तमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति १०.३.५.[१०] तदेतज्ज्येष्ठं ब्रह्म न ह्येतस्मात्किं चन ज्यायोऽस्ति ज्येष्ठो ह वै श्रेष्ठः स्वानां भवति य एवं वेद १०.३.५.[११] तदेतद्ब्रह्मापूर्वमपरवत् स यो हैतदेवं ब्रह्मापूर्वमपरवद्वेद न हास्मात्कश्चन श्रेयान्त्ममानेषु भवति श्रेयांसः श्रेयांसो हैवास्मादपरपुरुषा जायन्ते तस्माद्योऽस्माज्ज्यायान्त्स्याद्दिशोऽस्मात्पूर्वा इत्युपासीत तथो हैनं न हिनस्ति १०.३.५.[१२] तस्य वा एतस्य यजुषः रस एवोपनिषत्तस्माद्यावन्मात्रेण यजुषाध्वर्युर्ग्रहं गृह्णाति स उभे स्तुतशस्त्रे अनुविभवत्युभे स्तुतशस्त्रे अनुव्यश्नुते तस्माद्यावन्मात्र इवान्नस्य रसः सर्वमन्नमवति सर्वमन्नमनुव्येति १०.३.५.[१३] तृप्तिरेवास्य गतिः तस्माद्यदान्नस्य तृप्यत्यथ स गत इव मन्यत आनन्द एवास्य विज्ञानमात्मानन्दात्मानो हैव सर्वे देवाः सा हैषैव देवानामद्धाविद्या स ह स न मनुष्यो य एवंविद्देवानां हैव स एकः १०.३.५.[१४] एतद्ध स्म वै तद्विद्वान्प्रियव्रतो रौहिणायन आह वायुं वान्तमानन्दस्त आत्मेतो वा वाहितो वेति स ह स्म तथैव वाति तस्माद्यां देवेष्वाशिषमिच्छेदेतेनैवोपतिष्ठेतानन्दो व आत्मासौ मे कामः स मे समृध्यतामिति सं हैवास्मै स काम ऋध्यते यत्कामो भवत्येतां ह वै तृप्तिमेतां गतिमेतमानन्दमेतमात्मानमभिसम्भवति य एवं वेद १०.३.५.[१५] तदेतद्यजुरुपांश्वनिरुक्तम् प्राणो वै यजुरुपांश्वायतनो वै प्राणस्तद्य एनं निर्ब्रुवन्तं ब्रूयादनिरुक्तां देवतां निरवोचत्प्राण एनं हास्यतीति तथा हैव स्यात् १०.३.५.[१६] तस्य ह यो निरुक्तमाविर्भावं वेद आविर्भवति कीर्त्या यशसोपांशु यजुषाध्वर्युर्ग्रहं गृह्णाति गृहीतः सन्न आविर्भवत्युपांशु यजुषाग्निं चिनोति चितः संचित आविर्भवत्युपांशु यजुषा हविर्निर्वपति शृतं निष्ठितमाविर्भवत्येवं यत्किं चोपांशु करोति कृतं निष्ठितमाविर्भवति तस्य ह य एतमेवं निरुक्तमाविर्भावं वेदाविर्भवति कीर्त्या यशसा ब्रह्मवर्चसेन क्षिप्र उ हैवाविदं गच्छति स ह यजुरेव भवति यजुषैनमाचक्षते १०.४.१.[१] प्रजापतिं विस्रस्तम् यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतो भूतमसिञ्चन्योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्योऽयमग्निश्चितस्तदात्मना पर्यदधुस्तदात्मना परिहितमात्मैवाभवत्तस्मादन्नमात्मना परिहितमात्मैव भवति १०.४.१.[२] तथैवैतद्यजमानः आत्मानमुखायां योनौ रेतो भूतं सिञ्चति योनिर्वा उखा तस्मा एतत्संवत्सरेऽन्नं संस्करोति योऽयमग्निश्चितस्तदात्मना परिदधाति तदात्मना परिहितमात्मैव भवति तस्मादन्नमात्मना परिहितमात्मैव भवति १०.४.१.[३] तं निदधाति वौषडिति वौगिति वा एष षडितीदं षट्चितिकमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति १०.४.१.[४] स एष एवार्कः यमेतमत्राग्निमाहरन्ति तस्यैतदन्नंक्यं योऽयमग्निश्चितस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्रेधाख्यायते १०.४.१.[५] अथेन्द्राग्नी वा असृज्येताम् ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रं तौ सृष्टौ नानैवास्तां तावब्रूतां न वा इत्थं सन्तौ शक्ष्यावः प्रजाः प्रजनयितुमेकं रूपमुभावसावेति तावेकं रूपमुभावभवताम् १०.४.१.[६] तौ यौ ताविन्द्राग्नी एतौ तौ रुक्मश्च पुरुषश्च रुक्म एवेन्द्रः पुरुषोऽग्निस्तौ हिरण्मयौ भवतो ज्योतिर्वै हिरण्यं ज्योतिरिन्द्राग्नि! अमृतं हिरण्वममृतमिन्द्राग्नी १०.४.१.[७] तावेताविन्द्राग्नी एव चिन्वन्ति यद्धि किं चैष्टकमग्निरेव तत्तस्मात्तदग्निना पचन्ति यद्धि किं चाग्निना पचन्त्यग्निरेव तदथ यत्पुरीषं स इन्द्रस्तस्मात्तदग्निना न पचन्ति नेदग्निरेवासन्नेन्द्र इति तस्मादेताविन्द्राग्नी एव चितौ १०.४.१.[८] अथ यश्चितेऽग्निर्निधीयते तदेकं रूपमुभौ भवतस्तस्मात्तावेतेनैव रूपेणेमाः प्रजाः प्रजनयतः सैषैकैवेष्टकाग्निरेव तामेष सर्वोऽग्निरभिसम्पद्यते सैवेष्टकासम्पत्तदेतदेकमेवाक्षरं वौगिति तदेष सर्वोऽग्निरभिसम्पद्यते सैवाक्षरसम्पत् १०.४.१.[९] तद्धैतत्पश्यन्नृषिरभ्यनूवाद भूतं भविष्यत्प्रस्तौमि महद्ब्रह्मैकमक्षरं बहु ब्रह्मैकमक्षरमित्येतद्ध्येवाक्षरं सर्वे देवाः सर्वाणि भूतान्यभिसम्पद्यन्ते तदेतद्ब्रह्म च क्षत्रं चाग्निरेव ब्रह्मेन्द्रः क्षत्रमिन्द्राग्नी वै विश्वे देवा विडु विश्वे देवास्तदेतद्ब्रह्म क्षत्रं विट् १०.४.१.[१०] एतद्ध स्म वै तद्विद्वाञ्च्यापर्णः सायकायन आह यद्वै म इदं कर्म समाप्स्यत ममैव प्रजा सल्वानां राजानोऽभविष्यन्मम ब्राह्मणा मम वैश्या यत्तु म एतावत्कर्मणः समापि तेन म उभयथा सल्वान्प्रजातिरेक्ष्यत इति स एष एव श्रीरेष यश एषोऽन्नादः १०.४.१.[११] एतद्ध वै तच्छाण्डिल्यः वामकक्षायणाय प्रोच्योवाच श्रीमान्यशस्व्यन्नादो भविष्यसीति श्रीमान्ह वै यशस्व्यन्नादो भवति य एवं वेद १०.४.१.[१२] स एषोऽग्निः प्रजापतिरेव त देवा एतमग्निं प्रजापतिं संस्कृत्याथास्मा एतत्संवत्सरेऽन्नं समस्कुर्वन्य एष महाव्रतीयो ग्रहः १०.४.१.[१३] तमध्वर्युर्ग्रहेण गृह्णाति यद्गृह्णाति तस्माद्ग्रहस्तस्मिन्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिर्ऋग्भी रसं दधाति १०.४.१.[१४] ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति १०.४.१.[१५] स एष एवार्कः योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष महाव्रतीयो ग्रहस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते १०.४.१.[१६] स एष संवत्सरः प्राजापतिरग्निः तस्यार्धमेव सावित्राण्यर्धं वैश्वकर्मणान्यष्टावेवास्य कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिर्यो वै कला मनुष्याणामक्षरं तद्देवानाम् १०.४.१.[१७] तद्वै लोमेति द्वे अक्षरे त्वगिति द्वे असृगिति द्वे मेद इति द्वे मांसमिति द्वे स्नावेति द्वे अस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः १०.४.१.[१८] तस्मा एतस्मै प्राणाय एताः षोडश कला अन्नमभिहरन्ति ता यदानभिहर्तुं ध्रियन्तेऽथैता एव जग्ध्वोत्क्रामति तस्मादु हैतदशिशिषतस्तृप्रमिव भवति प्राणैरद्यमानस्य तस्मादु हैतदुपतापी कृशैव भवति प्राणैर्हि जग्धो भवति १०.४.१.[१९] तस्मा एतस्मै सप्तदशाय प्रजापतये एतत्सप्तदशमन्नं समस्कुर्वन्य एष सौम्योऽध्वरोऽथ या अस्य ताः षोडश कला एते ते षोडशर्त्विजस्तस्मान्न सप्तदशमृत्विजं कुर्वीत नेदतिरेचयानीत्यथ य एवात्र रसो या आहुतयो हूयन्ते तदेव सप्तदशमन्नम् १०.४.१.[२०] ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति वौगिति वा एष षडितीदं षड्विधमन्नं कृत्वास्मा अपिदधात्यात्मसम्मितं यदु वा आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति १०.४.१.[२१] स एष एवार्कः योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष सौम्योऽध्वरस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एतेनान्नेन सहोर्ध्व उदक्रामत्स यः स उदक्रामदसौ स आदित्योऽथ येन तेनान्नेन सहोदक्रामदेष स चन्द्रमाः १०.४.१.[२२] स एष एवार्को य एष तपति तस्यैतदन्नं क्यमेष चन्द्रमास्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायत इत्यधिदेवतम् १०.४.१.[२३] अथाध्यात्मम् प्राणो वा अर्कस्तस्यान्नमेव क्यं तदर्क्यं यजुष्टः प्राण एव माहांस्तस्यान्नमेव व्रतं तन्महाव्रतं सामतः प्राण उ एवोक्तस्यान्नमेव थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते स एष एवैषोऽधिदेवतमयमध्यात्मम् १०.४.२.[१] संवत्सरो वै प्रजापतिरग्निः सोमो राजा चन्द्रमाः स ह स्वयमेवात्मानं प्रोचे यज्ञवचसे राजस्तम्बायनाय यावन्ति वाव मे ज्योतींषि तावत्यो म इष्टका इति १०.४.२.[२] तस्य वा एतस्य संवत्सरस्य प्रजापतेः सप्त च शतानि विंशतिश्चाहोरात्राणि ज्योतींषि ता इष्टकाः षष्टिश्च त्रीणि च शताणि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्यः सोऽयं संवत्सरः प्रजापतिः सर्वाणि भूतानि ससृजे यच्च प्राणि यच्चाप्राणमुभयान्देवमनुष्यान्त्स सर्वाणि भूतानि सृष्ट्वा रिरिचानैव मेने स मृत्योर्बिभयां चकार १०.४.२.[३] स हेक्षां चक्रे कथं न्वहमिनानि सर्वाणि भूतानि पुनरात्मन्नावपेय पुनरात्मन्दधीय कथं न्वहमेवैषां सर्वेषां भूतानां पुनरात्मा स्यामिति १०.४.२.[४] स द्वेधात्मानं व्यौहत् षष्टिश्च त्रीणि च शतान्यन्यतरस्येष्टका अभवन्नेवमन्यतरस्य स न व्याप्नोत् १०.४.२.[५] त्रीनात्मनोऽकुरुत तिस्रस्तिस्रोऽशीतय एकैकस्येष्टका अभवन्त्स नैव व्याप्नोत् १०.४.२.[६] चतुर आत्मनोऽकुरुत अशीतिशतेष्टकान्त्स नैव व्याप्नोत् १०.४.२.[७] पञ्चात्मनोऽकुरुत चतुश्चत्वारिंशं शतमेकैकस्येष्टका अभवन्त्स नैव व्याप्नोत् १०.४.२.[८] षडात्मनोऽकुरुत विंशतिशतेष्टकान्त्स नैव व्याप्नोन्न सप्तधा व्यभवत् १०.४.२.[९] अष्टावात्मनोऽकुरुत नवतीष्टकान्त्स नैव व्याप्नोत् १०.४.२.[१०] नवात्मनोऽकुरुत अशीतीष्टकान्त्स नैव व्याप्नोत् १०.४.२.[११] दशात्मनोऽकुरुत द्वासप्ततीष्टकान्स नैव व्याप्नोन्नैकादशधा व्यभवत् १०.४.२.[१२] द्वादशात्मनोऽकुरुत षष्टीष्टकान्त्स नैव व्याप्नोन्न त्रयोदशधा व्यभवन्न चतुर्दशधा १०.४.२.[१३] पञ्चदशात्मनोऽकुरुत अष्टाचत्वारिंशदिष्टकान्त्स नैव व्याप्नोत् १०.४.२.[१४] षोडशात्मनोऽकुरुत पञ्चचत्वारिंशदिष्टकान्त्स नैव व्याप्नोन्न सप्तदशधा व्यभवत् १०.४.२.[१५] अष्टादशात्मनोऽकुरुत चत्वारिंशदिष्टकान्त्स नैव व्याश्नोन्नैकां न विंशतिधा व्यभवत् १०.४.२.[१६] विंशतिमात्मनोऽकुरुत षट्त्रिंशदिष्टकान्त्स नैव व्याप्नोन्नैकविंशतिधा व्यभवन्न द्वाविंशतिधा न त्रयोविंशतिधा १०.४.२.[१७] चतुर्विंशतिमात्मनोऽकुरुत त्रिंशदिष्टकान्त्सोऽत्रातिष्ठत पञ्चदशे व्यूहे तद्यत्पञ्चदशे व्यूहेऽतिष्ठत तस्मात्पञ्चदशापूर्यमाणस्य रूपाणि पञ्चदशापक्षीयमाणस्य १०.४.२.[१८] अथ यच्चतुर्विंशतिमात्मनोऽकुरुत तस्माच्चतुर्विंशत्यर्धमासः संवत्सरः स एतैश्चतुर्विंशत्या त्रिंशदिष्टकैरात्मभिर्न व्यभवत्स पञ्चदशाह्नो रूपाण्यपश्यदात्मनस्तन्वो मुहूर्तालोकम्पृणाः पञ्चदशैव रात्रेस्तद्यन्मुहु त्रायन्ते तस्मान्मुहुर्ता अथ यत्क्षुद्राः सन्त इमांलोकानापूरयन्ति तस्माल्लोकम्पृणाः १०.४.२.[१९] एष वा इदं सर्वं पचति अहोरात्रैरर्धमासैर्मासैर्ऋतुभिः संवत्सरेण तदमुना पक्वमयं पचति पक्वस्य पक्तेति ह स्माह भारद्वाजोऽग्निममुना हि पक्वमयं पचतीति १०.४.२.[२०] तानि संवत्सरे दश च सहस्राण्यष्टौ च शतानि समपद्यन्त सोऽत्रातिष्ठत दशसु च सहस्रेष्वष्टासु च शतेषु १०.४.२.[२१] अथ सर्वाणि भूतानि पर्यैक्षत् स त्रय्यामेव विद्यायां सर्वाणि भूतान्यपश्यदत्र हि सर्वेषां छन्दसामात्मा सर्वेषां स्तोमानां सर्वेषां प्राणानां सर्वेषां देवानामेतद्वा अस्त्येतद्ध्यमृतं यद्ध्यमृतं तद्ध्यस्त्येतदु तद्यन्मर्त्यम् १०.४.२.[२२] स ऐक्षत प्रजापतिः त्रय्यां वाव विद्यायां सर्वाणि भूतानि हन्त त्रयोमेव विद्यामात्मानमभिसंस्करवा इति १०.४.२.[२३] स ऋचो व्यौहत् द्वादश बृहतीसहस्राण्येतावत्यो हर्चो याः प्रजापतिसृष्टास्तास्त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठन्त ता यत्त्रिंशत्तमे व्यूहेऽतिष्ठन्त तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतं शतानि पङ्क्तयोऽभवन् १०.४.२.[२४] अथेतरौ वेदौ व्यौहत् द्वादशैव बृहतीसहस्राण्यष्टौ यजुषां चत्वारि साम्नामेतावद्धैतयोर्वेदयोर्यत्प्रजापतिसृष्टं तौ त्रिंशत्तमे व्यूहे पङ्क्तिष्वतिष्ठेतां तौ यत्त्रिंशत्तमे व्यूहेऽतिष्ठेतां तस्मात्त्रिंशन्मासस्य रात्रयोऽथ यत्पङ्क्तिषु तस्मात्पाङ्क्तः प्रजापतिस्ता अष्टाशतमेव शतानि पङ्क्तयोऽभवन् १०.४.२.[२५] ते सर्वे त्रयो वेदाः दश च सहस्राण्यष्टौ च शतान्यशीतोनामभवन्त्स मुहूर्तेनमुहूर्तेनाशीतिमाप्नोन्मुहूर्तेनमुहूर्तेनाशीतिः समपद्यत १०.४.२.[२६] स एसु त्रिषु लोकेषूखायाम् योनौ रेतो भूतमात्मानमसिञ्चच्चन्दोमयं स्तोममयं प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा समस्क्रियत दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः समस्क्रियत १०.४.२.[२७] तद्यत्परिश्रितमुपाधत्त तद्रात्रिमुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपाधत्त तदहरुपाधत्त तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपतात्मन्नकुरुत सोऽत्रैव सर्वेषाम् भूतानामात्माभवच्चन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उदक्रामत्स यः स उदक्रामदेष स चन्द्रमाः १०.४.२.[२८] तस्यैषा प्रतिष्ठा य एष तपत्येतस्मादेवाध्यचीयतैतस्मिन्नध्यचीयतात्मन एवैनं तन्निरमिमीतात्मनः प्राजनयत् १०.४.२.[२९] स यदग्निं चेष्यमाणो दीक्षते यथैव तत्प्रजापतिरेषु त्रिषु लोकेषूखायां योनौ रेतो भूतमात्मानमसिञ्चदेवमेवैष एतदात्मानमुखायां योनौ रेतो भूतं सिञ्चति च्छन्दोमयं स्तोममयं प्राणमयं देवतामयं तस्यार्धमासे प्रथम आत्मा संस्क्रियते दवीयसि परो दवीयसि परः संवत्सर एव सर्वः कृत्स्नः संस्क्रियते १०.४.२.[३०] तद्यत्परिश्रितमुपधत्ते तद्रात्रिमुपधत्ते तदनु पञ्चदश मुहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरथ यद्यजुष्मतीमुपधत्ते तदहरुपधत्ते तदनु पञ्चदश मूहूर्तान्मुहूर्ताननु पञ्चदशाशीतीरेवमेतां त्रयीं विद्यामात्मन्नावपत आत्मन्कुरुते सोऽत्रैव सर्वेषां भूतानामात्मा भवति च्छन्दोमय स्तोममयः प्राणमयो देवतामयः स एतन्मय एव भूत्वोर्ध्व उत्क्रामति १०.४.२.[३१] तस्यैषा प्रतिष्ठा य एष तपत्येतस्माद्वेवाधिचीयत एतस्मिन्नधिचीयत आत्मन एवैनं तन्निर्मिमीत आत्मनः प्रजनयति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति च्छन्दोमयम् प्राणमयं देवतामयं स एतन्मय एव भूत्वोर्ध्व उत्क्रामति य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेद १०.४.३.[१] एष वै मृत्युर्यत्संवत्सरः एष हि मर्त्यानामहोरात्राभ्यामायुः क्षिणोत्यथ म्रियन्ते तस्मादेष एव मृत्युः स यो हैतं मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुः क्षिणोति सर्वं हैवायुरेति १०.४.३.[२] एष उ एवान्तकः एष हि मर्त्यानामहोरात्राभ्यामायुषोऽन्तं गच्छत्यथ म्रियन्ते तस्मादेष एवान्तकः स यो हैतमन्तकं मृत्युं संवत्सरं वेद न हास्यैष पुरा जरसोऽहोरात्राभ्यामायुषोऽन्तं गच्छति सर्वं हैवायुरेति १०.४.३.[३] ते देवाः एतस्मादन्तकान्मृत्योः संवत्सरात्प्रजापतेर्बिभयां चक्रुर्यद्वै नोऽयमहोरात्राभ्यामायुषोऽन्तं न गच्छेदिति १०.४.३.[४] त एतान्यज्ञक्रतूंस्तेनिरे अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धं सौम्यमध्वरं त एतैर्यज्ञक्रतुभिर्यजमाना नामृतत्वमानशिरे १०.४.३.[५] ते हाप्यग्निं चिक्यिरे तेऽपरिमिता एव परिश्रित उपदधुरपरिमिता यजुष्मतीरपरिमिता लोकम्पृणा यथेदमप्येतर्ह्येक उपदधतीति देवा अकुर्वन्निति ते ह नैवामृतत्वमानशिरे १०.४.३.[६] तेऽर्चन्तः श्राम्यन्तश्चेरुः अमृतत्वमवरुरुत्समानास्तान्ह प्रजापतिरुवाच न वै मे सर्वाणि रूपाण्युपधत्थाति वैव रेचयथ न वाभ्यापयथ तस्मान्नामृता भवथेति १०.४.३.[७] ते होचुः तेभ्यो वै नस्त्वमेव तद्ब्रूहि यथा ते सर्वाणि रूपाण्युपदधामेति १०.४.३.[८] स होवाच षष्टिं च त्रीणि च शतानि परिश्रित उपधत्त षष्टिं च त्रीणि च शतानि यजुष्मतीरधि षट्त्रिंशतमथ लोकम्पृणा दश च सहस्राण्यष्टौ च शतान्युपधत्ताथ मे सर्वाणि रूपाण्युपधास्यथाथामृता भविष्यथेति ते ह तथा देवा उपदधुस्ततो देवा अमृता आसुः १०.४.३.[९] स मृत्युर्देवानब्रवीत् इत्थमेव सर्वे मनुष्या अमृता भविष्यन्त्यथ को मह्यं भागो भविष्यतीति ते होचुर्नातोऽपरः कश्चन सह शरीरेणामृतोऽसद्यदैव त्वमेतं भागं हरासा अथ व्यावृत्य शरीरेणामृतोऽसद्योऽमृतोऽसद्विद्यया वा कर्मणा वेति यद्वै तदब्रुवन्विद्यया वा कर्मणा वेत्येषा हैव सा विद्या यदग्निरेतदु हैव तत्कर्म यदग्निः १०.४.३.[१०] ते य एवमेतद्विदुः ये वैतत्कर्म कुर्वते मृत्वा पुनः सम्भवन्ति ते सम्भवन्त एवामृतत्वमभिसम्भवन्त्यथ य एवं न विदुर्ये वैतत्कर्म न कुर्वते मृत्वा पुनः सम्भवन्ति त एतस्यैवान्नं पुनःपुनर्भवन्ति १०.४.३.[११] स यदग्निं चिनुते एतमेव तदन्तकं मृत्युं संवत्सरं प्रजापतिमग्निमाप्नोति यं देवा आप्नुवन्नेतमुपधत्ते यथैवैनमदो देवा उपादधत १०.४.३.[१२] परिश्रिद्भिरेवास्य रात्रीराप्नोति यजुष्मतीभिरहान्यर्धमासान्मासानृतूंलोकमृणाभिर्मुहूर्तान् १०.४.३.[१३] तद्याः परिष्रितः रात्रिलोकास्ता रात्रीणामेव साप्तिः क्रियते रात्रीणां प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयस्तासामेकविंशतिं गार्हपत्ये परिश्रयति द्वाभ्यां नाशीतिं धिष्ण्येषु द्वे एकषष्टे शते आहवनीये १०.४.३.[१४] अथ यजुष्मत्यः दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृणा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिर्ऋतव्ये अषाढा कूर्म उलूखलमुसले उखा पञ्च पशुशीर्षणि पञ्चदशापस्याः पञ्च छन्दस्याःः १०.४.३.[१५] अथ द्वितीया पञ्चाश्विन्यो द्वे ऋतव्ये पञ्च वैश्वदेव्यः पञ्च प्राणभृतः पञ्चापस्या एकया न विंशतिर्वयस्यास्ता एकचत्वारिंशद्द्वितीया चितिः १०.४.३.[१६] अथ तृतीया स्वयमातृणा पञ्च दिश्या विश्वज्योतिश्चतस्र ऋतव्या दश प्राणभृतः षट्त्रिंशच्चन्दस्याश्चतुर्दश वालखिल्यास्ता एकसप्ततिस्तृतीया चितिः १०.४.३.[१७] अथ चतुर्थी अष्टादश प्रथमा अथ द्वादशाथ सप्तदश ताः सप्तचत्वारिंशच्चतुर्थी चितिः १०.४.३.[१८] अथ पञ्चमी पञ्चासपत्नाश्चत्वारिंशद्विराज एकया न त्रिंशत्स्तोमभागाः पञ्च नाकसदः पञ्च पञ्चचूडा एकत्रिंशच्चन्दस्या अष्टौ गार्हपत्यो चितिरष्टौ पुनश्चितिर्ऋतव्ये विश्वज्योतिर्विकर्णी च स्वयमातृणा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते ता अष्टात्रिंशं शतं पञ्चमी चितिः १०.४.३.[१९] ताः सर्वाः पञ्चभिर्न चत्वारि शतानि तयो याः षष्टिश्च त्रीणि च शतान्यहर्लोकास्ता अह्नामेव साप्तिः क्रियतेऽह्नां प्रतिमा ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ याः षट्त्रिंशत्पुरीषं तासां षट्त्रिंशी ततो याश्चतुर्विंशतिरर्धमासलोकास्ता अर्धमासानामेव साप्तिः क्रियतेऽर्धमासानाम् प्रतिमाथ या द्वादश मासलोकास्ता मासानामेव साप्तिः क्रियते मासानां प्रतिमा ता उ द्वद्वे सहर्तुलोका ऋतूनामशून्यतायै १०.४.३.[२०] अथ या लोकम्पृणाः मुहुर्तलोकास्ता मुहूर्तानामेव साप्तिः क्रियते मुहूर्तानाम् प्रतिमा ता दश च सहस्राण्यष्टौ च शतानि भवन्त्येतावन्तो हि संवत्सरस्य मुहूर्तास्तासामेकविह्+शतिं गार्हपत्य उपदधाति द्वाभ्यां नाशीतिं धिष्ण्येष्वाहवनीय इतरा एतावन्ति वै संवत्सरस्य रूपाणि तान्यस्यात्राप्तान्युपहितानि भवन्ति १०.४.३.[२१] तद्धैके आहवनीय एवैतां सम्पदमापिपयिषन्त्यन्ये वा एतेऽग्नयश्चिताः किमन्यत्रोपहिता इह सम्पश्येमेति न तथा कुर्याद्दश वा एतानग्नींश्चिनुतेऽष्टौ धिष्ण्यानाहवनीयं च गार्हपत्यं च तस्मादाहुर्विराडग्निरिति दशाक्षरा हि विराट् तान्नु सर्वानेकमिवैवाचक्षतेऽग्निरित्येतस्य ह्येवैतानि सर्वाणि रूपाणि यथा संवत्सरस्याहोरात्राण्यर्धमासा मासा ऋतव एवमस्यैतानि सर्वाणि रूपाणि १०.४.३.[२२] ते ये ह तथा कुर्वन्ति एतानि हास्य ते रूपाणि बहिर्धा कुर्वन्त्यथो पापवस्यसं कुर्वन्ति क्षत्राय विशं प्रतिप्रतिनीं प्रत्युद्यामिनीमाग्नीध्रीये वा अश्मानम् पृश्निमुपदधात्यथ तं सम्पश्यति किमु तं सम्पश्यन्नितरा न सम्पश्येद्येनैव निर्ऋतिं पाप्मानमपहते स एकादशः १०.४.३.[२३] तदाहुः कथमु ता अत्र न सम्पश्यतीति न ह्येना अभिजुहोत्याहुत्या वा इष्टका सर्वा कृत्स्ना भवतीति १०.४.३.[२४] तदाहुः कथमस्यैता अनतिरिक्ता उपहिता भवन्तीति वीर्यं वा अस्यैता अनतिरिक्तं वै पुरुषं वीर्यं स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वानेतत्कर्म कुरुते यो वैतदेवं वेद १०.४.४.[१] प्रजापतिं वै प्रजाः सृजमानम् पाप्मा मृत्युरभिपरिजघान स तपोऽतप्यत सहस्रं संवत्सरान्पाप्मानं विजिहासन् १०.४.४.[२] तस्य तपस्तेपानस्य एभ्यो लोमगर्तेभ्य ऊर्ध्वानि ज्योतींष्यायंस्तद्यानि तानि ज्योतींष्येतानि तानि नक्षत्राणि यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः १०.४.४.[३] स सहस्रतमे संवत्सरे सर्वोऽत्यपवत स यः सोऽत्यपवतायमेव स वायुर्योऽयम् पवतेऽथ यं तं पाप्मानमत्यपवतेदं तच्छरीरं क उ तस्मै मनुष्यो यः सहस्रसंवत्सरमवरुन्धीत विद्यया ह वा एवंवित्सहस्रसंवत्सरमवरुन्द्धे १०.४.४.[४] सर्वा एवैता इष्टकाः साहस्रीरुपासीत रात्रिसहस्रेण रात्रिसहस्रेणैकैकां परिश्रितं सम्पन्नामुपासीताहःसहस्रेणाहःसहस्रेणैकैकामहर्भाजमर्धमाससहस्रेणार्द् हमाससहस्रेणैकैकामर्धमासभाजं माससहस्रेणमाससहस्रेणैकैकाम् मासभाजमृतुसहस्रेणर्तृसहस्रेणैकैकामृतुभाजम् मुहूर्तसहस्रेणमुहूर्तसहस्रेणैकैकां मुहूर्तभाजं संवत्सरसहस्रेण संवत्सरं ते य एतमेवमग्निं संवत्सरेण सम्पन्नं विदुः सहस्रतमीं हास्य ते कलां विदुरथ य एनमेवं न विदुर्न हास्य ते सहस्रतमीं चन कलां विदुरथ य एवैवं वेद यो वैतत्कर्म कुरुते स हैवैतं सर्वं कृत्स्नम् प्राजापत्यमग्निमाप्नोति यं प्रजापतिराप्नोत्तस्मादेवंवित्तप एव तप्येत यदु ह वा एवंवित्तप तप्यत आ मैथुनात्सर्वं हास्य तत्स्वर्गं लोकमभिसम्भवति १०.४.४.[५] तदेतदृचाभ्युक्तम् न मृषा श्रान्तं यदवन्ति देवा इति न हैवैवं विदुषः किं चन मृषा श्रान्तं भवति तथो हास्यैतत्सर्वं देवा अवन्ति १०.४.५.[१] अथादेशा उपनिषदाम् वायुरग्निरिति ह शाकायनिन उपासत आदित्योऽग्निरित्यु हैक आहुरथ ह स्माह श्रौमत्यो वा हालिङ्गवो वा वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येतीति १०.४.५.[२] शाट्यायनिरु ह स्माह संवत्सर एवाग्निस्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षा उत्तरः शरदृतुर्मध्यमात्मा हेमन्तशिशिरावृतू पुचं प्रतिष्ठा वागग्निः प्राणो वायुश्चक्षुरादित्यो मनश्चन्द्रमाः श्रोत्रं दिश आपो मिथुनं तपः प्रतिष्ठा मासाः पर्वाण्यर्धमासा नाड्योऽहोरात्राणि रजतसुवर्णानि पत्राणि स एवं देवानप्येतीति संवत्सरोऽग्निरित्यु हैव विद्यादेतन्मयो भवतीति त्वेव विद्यात् १०.४.५.[३] चेलक उ ह स्माह शाण्डिल्यायनः इम एव लोकास्तिस्रः स्वयमातृणवत्यश्चितयो यजमानश्चतुर्थी सर्वे कामाः पञ्चमीमांश्च लोकान्त्संस्कुर्व आत्मानं च सर्वांश्च कामानित्येव विद्यादिति १०.५.१.[१] तस्य वा एतस्याग्नेः वागेवोपनिषद्वाचा हि चीयत ऋचा यजुषा साम्नेति नु दैव्याथ यन्मानुष्या वाचाहेतीदं कुरुतेतीदं कुरुतेति तदु ह तया चीयते १०.५.१.[२] सा वा एषा वाक्त्रेधाविहिता ऋचो यजूंषि सामानि तेनाग्निस्त्रेधाविहित एतेन हि त्रयेण चीयतेऽप्यहैवं त्रेधाविहित इत्थं ह त्वेवापि त्रेधाविहितो यदस्मिंस्त्रेधाविहिता इष्टका उपधीयन्ते पुंनाम्न्य स्त्रीनाम्न्यो नपुंसकनाम्न्यस्त्रेधाविहितान्यु एवेमानि पुरुषस्याङ्गानि पुंनामानि स्त्रीनामानि नपुंसकनामानि १०.५.१.[३] सोऽयमात्मा त्रेधाविहित एव सोऽनेन त्रेधाविहितेनात्मनैतं त्रेधाविहितं दैवममृतमाप्नोति ता उ सर्वा इष्टका इत्येवाचक्षते नेष्टक इति नेष्टकमिति वाचो रूपेण वाग्घ्येवैतत्सर्वं यत्स्त्री पुनान्नपुंसकं वाचा ह्येवैतत्सर्वमाप्तं तस्मादेना अङ्गिरस्वद्ध्रुवा सीदेत्येव सर्वाः सादयति नाङ्गिरस्वद्ध्रुवः सीदेति नाङ्गिरस्वद्ध्रुवं सीदेति वाचं ह्येवैतां संस्कुरुते १०.५.१.[४] सा या सा वागसौ स आदित्यः स एष मृत्युस्तद्यकिं चार्वाचीनमादित्यात्सर्वं तन्मृत्युनाप्तं स यो हैनमतोऽर्वाचीनं चिनुते मृत्युना हैनं स आप्तं चिनुते मृत्यवे ह स आत्मानमपिदधात्यथ य एनमत ऊर्ध्वं चिनुते स पुनर्मृत्युमपजयति विद्यया ह वा अस्यैषोऽत ऊर्ध्वं चितो भवति १०.५.१.[५] सा वा एषा वाक्त्रेधाविहिता ऋचो यजूंषि सामानि मण्डलमेवर्चोऽर्चिः सामानि पुरुषो यजूंष्यथैतदमृतं यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णं तद्यत्पुष्करपर्णमुपधायाग्निं चिनोत्येतस्मिन्नेवैतदमृत ऋङ्मयं यजुर्मयं साममयमात्मानं संस्कुरुते सोऽमृतो भवति १०.५.२.[६]/1 यदेतन्मण्डलं तपति तन्महदुक्थं ता .!चः स ऋचां लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः १०.५.२.[७]/2 सैषा त्रय्येव विद्या तपति तद्धैतदप्यविद्वांस आहुस्त्रयी वा एषा विद्या तपतीति वाग्घैव तत्पश्यन्ती वदति १०.५.२.[८]/3 स एष एव मृत्युः। य एष एतस्मिन्मण्डले पुरुषोऽथैतदमृतं यदेतदर्चिर्दीप्यते तस्मान्मृत्युर्न म्रियतेऽमृते ह्यन्तस्तस्मादु न दृश्यतेऽमृते ह्यन्तः १०.५.२.[९]/4 तदेष श्लोको भवति अन्तरं मृत्योरमृतमित्यवरं ह्येतन्मृत्योरमृतम् मृत्यावमृतमाहितमित्येतस्मिन्हि पुरुष एतन्मण्डलं प्रतिष्ठितं तपति मृत्युर्विवस्वन्तं वस्त इत्यसौ वा आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष वस्ते सर्वतो ह्येनेन परिवृतो मृत्योरात्मा विवस्वतीत्येतस्मिन्हि मण्डल एतस्य पुरुषस्यात्मैतदेष श्लोको भवति १०.५.२.[१०]/5 तयोर्वा एतयोः उभयोरेतस्य चार्चिष एतस्य च पुरुषस्यैतन्मण्डलं प्रतिष्ठा तस्मान्महदुक्थं परस्मै न शंसेन्नेदेतां प्रतिष्ठां छिनदा इत्येतां ह स प्रतिष्ठां छिन्त्ते यो महदुक्थं परस्मै शंसति तस्मादुक्थशसं भूयिष्ठम् परिचक्षते प्रतिष्ठाछिन्नो हि भवतीत्यधिदेवतम् १०.५.२.[११]/6 अथाधियज्ञम् यदे तन्मण्डलं तपत्ययं स रुक्मोऽथ यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णमापो ह्येता आपः पुष्करपर्णमथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव स योऽयं हिरण्मयः पुरुषस्तदेतदेवैतत्त्रयं संस्कृत्येहोपधत्ते तद्यज्ञस्यैवानु संस्थामूर्ध्वमुत्क्रामति तदेतमप्येति य एष तपति तस्मादग्निं नाद्रियेत परिहन्तुममुत्र ह्येष तदा भवतीत्यु एवाधियज्ञम् १०.५.२.[१२] अथाध्यात्मम् यदेतन्मण्डलं तपति यश्चैष रुक्म इदं तच्छुक्लमक्षन्नथ यदेतदर्चिर्दीप्यते यच्चैतत्पुष्करपर्णमिदं तत्कृष्णमक्षन्नथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषोऽयमेव स योऽयं दक्षिणेऽक्षन्पुरुषः १०.५.२.[१३] स एष एव लोकम्पृणा तामेष सर्वोऽग्निरभिसम्पद्यते तस्यैतन्मिथुनं योऽयं सव्येऽक्षन्पुरुषोऽर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नतायै तद्यत्ते द्वे भवतो द्वन्द्वं हि मिथुनम् प्रजननं तस्माद्द्वेद्वे लोकम्पृणे उपधीयेते तस्मादु द्वाभ्यां चितिम् प्रणयन्ति १०.५.२.[१४] स एष एवेन्द्रः योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी ताभ्यां देवा एतां विधृतिमकुर्वन्नासिकां तस्माज्जायाया अन्ते नाश्नीयाद्वीर्यवान्हास्माज्जायते वीर्यवन्तमु ह सा जनयति यस्या अन्ते नाश्नाति १०.५.२.[१५] तदेतद्देवव्रतं राजन्यबन्धवो मनुष्याणामनुतमां गोपायन्ति तस्मादु तेषु वीर्यवान्जायतेऽमृतवाका वयसां सा क्षिप्रश्येनं जनयति १०.५.२.[१६] तौ हृदयस्याकाशं प्रत्यवेत्य मिथुनीभवतस्तौ यदा मिथुनस्यान्तं गच्छतोऽथ हैतत्पुरुषः स्वपिति तद्यथा हैवेदं मानुषस्य मिथुनस्यान्तं गत्वासंविद इव भवत्येवं हैवैतदसंविदैव भवति दैवं ह्येतन्मिथुनम् परमो ह्येष आनन्दः १०.५.२.[१७] तस्मादेवंवित्स्वप्यात् लोक्यं हैते एव तद्देवते मिथुनेन प्रियेण धाम्ना समर्धयति तस्मादु ह स्वपन्तं धुरेव न बोधयेन्नेदेते देवते मिथुनोभवन्त्यौ हिनसानीति तस्मादु हैतत्सुषुपुषः श्लेष्मणमिव मुखम् भवत्येते एव तद्देवते रेतः सिञ्चतस्तस्माद्रेतस इदं सर्वं सम्भवति यदिदं किं च १०.५.२.[१८]/13 स एष एव मृत्युः य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तस्य हैतस्य हृदये पादावतिहतौ तौ हैतदाचिद्योत्क्रामति स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते तस्मादु हैतत्प्रेतमाहुराच्छेद्यस्येति १०.५.२.[१९]/14 एष उ एव प्राणः एष हीमाः सर्वाः प्रजा प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः १०.५.२.[२०]/15 स एतैः सुप्तः न कस्य चन वेद न मनसा संकल्पयति न वाचान्नस्य रसं विजानाति न प्राणेन गन्धं विजानाति न चक्षुषा पश्यति न श्रोत्रेण शृणोत्येतं ह्येते तदापीता भवन्ति स एष एकः सन्प्रजासु बहुधा व्याविष्टस्तस्मादेका सती लोकम्पृणा सर्वमग्निमनुविभवत्यथ यदेक एव तस्मादेका १०.५.२.[२१] तदाहुः एको मृत्युर्बहवा३ इत्येकश्च बहवश्चेति ह ब्रूयाद्यदहासावमुत्र तेनैकोऽथ यदिह प्रजासु बहुधा व्याविष्टस्तेनो बहवः १०.५.२.[२२] तदाहुः अन्तिके मृत्युर्दूरा इत्यन्तिके च दूरे चेति ह ब्रूयाद्यदहायमिहाध्यात्मं तेनान्तिकेऽथ यदसावमुत्र तेनो दूरे १०.५.२.[२३] तदेष श्लोको भवति अन्ने भात्यपश्रितो रसानां संक्षरेऽमृत इति यदेतन्मण्डलं तपति तदन्नमथ य एष एतस्मिन्मण्डले पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भातीत्यधिदेवतम् १०.५.२.[२४] अथाध्यात्मम् इदमेव शरीरमन्नमथ योऽयं दक्षिणेऽक्षन्पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भाति १०.५.२.[२५] तमेतमग्निरित्यध्वर्यव उपासते यजुरित्येष हीदं सर्वं युनक्ति सामेति च्छन्दोगा एतस्मिन्हीदं सर्वं समानमुक्थमिति बह्वृचा एष हीदं सर्वमुत्थापयति यातुरिति यातुविद एतेन हीदं सर्वं यतं विषमिति सर्पाः सर्प इति सर्पविद ऊर्गिति देवा रयिरिति मनुष्या मायेत्यसुराः स्वधेति पितरो देवजन इति देवजनविदो रूपमिति गन्धर्वा गन्ध इत्यप्सरसस्तं यथायथोपासते तदेव भवति तद्धैनान्भूत्वावति तस्मादेतमेवंवित्सर्वैरेवैतैरुपासीत सर्वं हैतद्भवति सर्वं हैनमेतद्भूत्वावति १०.५.२.[२६] स एष त्रीष्टकोऽग्निः ऋगेका यजुरेका सामैका तद्यां कां चात्रर्चोपदधाति रुक्म एव तस्या आयतनमथ यां यजुषा पुरुष एव तस्या आयतनमथ यां साम्ना पुष्करपर्णमेव तस्या आयतनमेवं त्रीष्टकः १०.५.२.[२७] ते वा एते उभे एष च रुक्म एतच्च पुष्करपर्णमेतं पुरुषमपीत उभे ह्यृक्षामे यजुरपीत एवम्वेकेष्टकः १०.५.२.[२८]/23 स एष एव मृत्युः य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः स एष एवंविद आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति १०.५.३.[१] नेव वा इदमग्रेऽसदासीन्नेव सदासीत् आसीदिव वा इदमग्रे नेवासीत्तद्ध तन्मन एवास १०.५.३.[२] तस्मादेतदृषिणाभ्यनूक्तम् नासदासीन्नो सदासीत्तदानीमिति नेव हि सन्मनो नेवासत् १०.५.३.[३] तदिदं मनः सृष्टमाविरबुभूषत् निरुक्ततरं मूर्ततरं तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्चत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितस्ते मनसैवाधीयन्त मनसाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवत मनसाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत तद्यत्किं चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै मनसो विभूतिरेतावती विसृष्टिरेतावन्मनः षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः १०.५.३.[४] तन्मनो वाचमसृजत सेयं वाक्षृष्टाविरबुभूषन्निरुक्ततरा मूर्ततरा सात्मानमन्वैच्छत्सा तपोऽतप्यत सा प्रामूर्चत्सा षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्वाङ्मयान्वाक्चितस्ते वाचैवाधीयन्त वाचैषु ग्रहा अगृह्यन्त वाचास्तुवत वाचाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म वाचैव तेषु तद्वाङ्मयेषु वाक्चित्सु वाङ्मयमक्रियत तद्यत्किं चेमानि भूतानि वाचा वदन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै वाचो विभूतिरेतावती विसृष्टिरेतावती वाक्षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः १०.५.३.[५] सा वाक्प्राणमसृजत सोऽयं प्राणः सृष्ट आविरबुभूषन्निरुक्ततरो मूर्ततरः स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्चत्स षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्प्राणमयान्प्राणचितस्ते प्राणेनैवाधीयन्त प्राणेनाचीयन्त प्राणेनैषु ग्रहा अगृह्यन्त प्राणेनास्तुवत प्राणेनाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म प्राणेनैव तेषु तत्प्राणमयेषु प्राणचित्सु प्राणमयमक्रियत तद्यत्किं चेमानि भूतानि प्राणेन प्राणन्ति तेषामेव सा कृतिस्तानेवादधति तांष्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै प्राणस्य विभूतिरेतावती विसृष्टिरेतावान्प्राणः षट्त्रिंश १०.५.३.[६] स प्राणश्चक्षुरसृजत तदिदं चक्षुः सृष्टमाविरबुभूषन्निरुक्ततरम् मूर्ततरं तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्चत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्काश्चक्षुर्मयांश्चक्षुश्चितस्ते चक्षुषैवाधीयन्त चक्षुषाचीयन्त चक्षुषैषु ग्रहा अग्रृह्यन्त चक्षुषास्तुवत चक्षुषाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म चक्षुषैव तेषु तच्चक्षुर्मयेषु चक्षुश्चित्सु चक्षुर्मयमक्रियत तद्यत्किं चेमानि भूतानि चक्षुषा पश्यन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै चक्षुषो विभूतिरेतावती विसृष्टिरेतावच्चक्षुः षट्त्रिंश १०.५.३.[७] तच्चक्षुः श्रोत्रमसृजत तदिदं श्रोत्रं सृष्टमाविरबुभूषन्निरुक्ततरम् मूर्ततरं तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्चत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्काण्च्रोत्रमयाञ्च्रोत्रचितस्ते श्रोत्रेणैवाधीयन्त श्रोत्रेणाचीयन्त श्रोत्रेणैषु ग्रहा अगृह्यन्त श्रोत्रेणास्तुवत श्रोत्रेणाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तच्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयमक्रियत तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै श्रोत्रस्य विभूतिरेतावती विसृष्टिरेतावच्रोत्रं षट्त्रिंश १०.५.३.[८] तच्रोत्रं कर्मासृजत तत्प्राणानभिसममूर्चदिमं संदेघमन्नसंदेहमकृत्स्नं वै कर्मर्ते प्राणेभ्योऽकृत्स्ना उवै प्राणा ऋते कर्मणः १०.५.३.[९] तदिदं कर्म सृष्टमाविरबुभूषत् निरुक्ततरं मूर्ततरं तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्चत्तत्षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्कर्ममयान्कर्मचितस्ते कर्मणैवाधीयन्त कर्मणाचीयन्त कर्मणैषु ग्रहा अगृह्यन्त कर्मणास्तुवत कर्मणाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म कर्मणैव तेषु तत्कर्ममयेषु कर्मचित्सु कर्ममयमक्रियत तद्यत्किं चेमानि भूतानि कर्म कुर्वते तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वै कर्मणो विभूतिरेतावती विसृष्टिरेतावत्कर्म षट्त्रिंश १०.५.३.[१०] तत्कर्माग्निमसृजत आविस्तरां वा अग्निः कर्मणः कर्मणा ह्येनं जनयन्ति कर्मणेन्धते १०.५.३.[११] सोऽयमग्निः सृष्ट आविरबुभूषत् निरुक्ततरो मूर्ततरः स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्चत्स षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कानग्निमयानग्निचितस्तेऽग्निनैवाधीयन्ताग्निनाचीयन् ताग्निनैषु ग्रहा अगृह्यन्ताग्निनास्तुवताग्निनाशंसन्यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्माग्निनैव तेषु तदग्निमयेष्वग्निचित्स्वग्निमयमक्रियत तद्यत्किं चेमानि भूतान्यग्निमिन्धते तेषामेव सा कृतिस्तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्त्येतावती वा अग्नेर्विभूतिरेतावती विसृष्टिरेतावानग्निः षट्त्रिंशत्सहस्राण्यग्नयो=र्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः १०.५.३.[१२] ते हैते विद्याचित एव तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते विद्यया हैवैत एवंविदश्चिता भवन्ति १०.५.४.[१] अयं वाव लोक एषोऽग्निश्चितः तस्याप एव परिश्रितो मनुष्या यजुष्मत्य इष्टकाः सूददोहा ओषधयश्च वनस्पतयश्च पुरीषमाहुतयः समिधोऽग्निर्लोकम्पृणा तद्वा एतत्सर्वमग्निमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते स यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते १०.५.४.[२] अन्तरिक्षं ह त्वेवैषोऽग्निश्चितः तस्य द्यावापृथिव्योरेव संधिः परिश्रितः परेण हान्तरिक्षं द्यावापृथिवी संधत्तस्ताः परिश्रितो वयांसि यजुष्मत्य इष्टका वर्षं सूददोहा मरीचयः पुरीषमाहुतयः समिधो वायुर्लोकम्पृणा तद्वा एतत्सर्वं वायुमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लो १०.५.४.[३] द्यौर्ह त्वेवैषोऽग्निश्चितः तस्याप एव परिश्रितो यथा ह वा इदं कोशः समुब्जित एवमिमे लोका अप्स्वन्तस्तद्या इमांलोकान्परेणापस्ताः परिश्रितो देवा यजुष्मत्य इष्टका यदेवैतस्मिंलोकेऽन्नं तत्सूददोहा नक्षत्राणि पुरीषमाहुतयः समिध आदित्यो लोकम्पृणा तद्वा एतत्सर्वमादित्यमेवाभिसम्पद्यते तत्सर्वोऽग्निर्लो १०.५.४.[४] आदित्यो ह त्वेवैषोऽग्निश्चितः तस्य दिश एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं दिशः समन्तं परियन्ति रश्मयो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यस्य रश्मयस्तद्यत्परिश्रित्सु यजुष्मतीः प्रत्यर्पयति रश्मींस्तद्दिक्षु प्रत्यर्पयत्यथ यदन्तरा दिशश्च रश्मींश्च तत्सूददोहा अथ यद्दिक्षु च रश्मिषु चान्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यद्दिश इति च रश्मय इति चाख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं दिश इति चैव रश्मय इति चाख्यायते तत्सर्वोऽग्निर्लो १०.५.४.[५] नक्षत्राणि ह त्वेवैषोऽग्निश्चितः तानि वा एतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विंशतिश्चाधि षट्त्रिंशत्ततो यानि सप्त च शतानि विंशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षट्त्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे शिर एव षट्त्रिंश्यौ तद्यत्ते द्वे भवतो द्व्यक्षरं हि शिरोऽथ यदन्तरा नक्षत्रे तत्सूददोहा अथ यन्नक्षत्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वंनक्षत्राणीत्येवाख्यायते तत्सर्वोऽग्निर्लो १०.५.४.[६] ता वा एताः एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमं बृहतीं च छन्दः १०.५.४.[७] छन्दांसि ह त्वेवैषोऽग्निश्चितः तानि वा एतानि सप्त छन्दांसि चतुरुत्तराणि त्रिचानि तेषां सप्त च शतानि विंशतिश्चाक्षराण्यधि षट्त्रिंशत्ततो यानि सप्त च शतानि विंशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षट्त्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिंश्यौ तद्यत्ते द्वे भवतो द्व्यक्षरं हि शिरः १०.५.४.[८] तस्यै वा एतस्यै षट्त्रिंशदक्षरायै बृहत्यै यानि दश प्रथमान्यक्षराणि सा दशाक्षरैकपदाथ यानि विंशतिः सा विंशत्यक्षरा द्विपदाथ यानि त्रिंशत्सा त्रिंशदक्षरा विराडथ यानि त्रयस्त्रिंशत्सा त्रयस्त्रिंशदक्षराथ यानि चतुस्त्रिंशत्सा चतुस्त्रिंशदक्षरा स्वराडथ यत्सर्वैश्छन्दोभिरयमग्निश्चितस्तदतिच्छन्दास्ता उ सर्वा इष्टका एवेष्टकेति त्रीण्यक्षराणि त्रिपदा गायत्री तेनैष गायत्रोऽग्निर्मृदाप इति त्रीण्यक्षराणि त्रिपदा गायत्री तेनो एवैष गायत्रोऽथ यदन्तरा छन्दसी तत्सूददोहा अथ यच्चन्दःस्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यच्चन्दांसीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं छन्दांसीत्येवाख्यायते तत्सर्वोऽग्निर्लो १०.५.४.[९] ता वा एताः एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमं बृहतीं च छन्दः १०.५.४.[१०] संवत्सरो ह त्वेवैषोऽग्निश्चितः तस्य रात्रय एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयोऽहानि यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मार्धमासाश्च ते मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासा अथ यदन्तराहोरात्रे तत्सूददोहा अथ यदहोरात्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यदहोरात्राणीत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वमहोरात्राणीत्येवाख्यायते तत्सर्वोऽग्निर्लो १०.५.४.[११] ता वा एताः एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यते एकविंशं च स्तोमं बृहतीं च छन्दः १०.५.४.[१२] आत्मा ह त्वेवैषोऽग्निश्चितः तस्यास्थीन्येव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्यास्थीनि मज्जानो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मज्जानोऽथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा प्राणः स तस्य त्रिंशदात्मन्विधाः प्रतिष्ठायां द्वे शीर्षन्द्वे तद्यत्ते द्वे भवतो द्विकपालं हि शिरोऽथ येनेमानि पर्वाणि संततानि तत्सूददोहा अथैतत्त्रयं येनायमात्मा प्रच्छन्नो लोम त्वङ्मांसमिति तत्पुरीषं यत्पिबति ता आहुतयो यदश्नाति ताः समिधोऽथ यदात्मेत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वमात्मेत्येवाख्यायते तत्सर्वोऽग्निर्लो १०.५.४.[१३] ता वा एताः एकविंशतिर्बृह १०.५.४.[१४] सर्वाणि ह त्वेव भूतानि सर्वे देवा एषोऽग्निश्चित आपो वै सर्वे देवाः सर्वाणि भूतानि ता हैता आप एवैषोऽग्निश्चितस्तस्य नाव्या एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्याः समन्तं परियन्ति नाव्या उ एव यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्त्यथ यदन्तरा नाव्ये तत्सूददोहा अथ या अमूः षट्त्रिंशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मायमेव स योऽयं हिरण्मयः पुरुषः १०.५.४.[१५] तस्यैते प्रतिष्ठे रुक्मश्च पुष्करपर्णं चापश्चादित्यमण्डलं च स्रुचौ बाहू ताविन्द्राग्नी द्वे स्वयमातृणे इयं चान्तरिक्षं च तिस्रो विश्वज्योतिष एता देवता अग्निर्वायुरादित्य एता ह्येव देवता विश्वं ज्योतिर्द्वादशर्तव्याः स संवत्सरः स आत्मा पञ्च पञ्चचूडाः स यज्ञस्ते देवा अथ यद्विकर्णी च स्वयमातृणा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते सा पञ्चत्रींशी लोकम्पृणायै यजुः षट्त्रिंशी सोऽस्यैष सर्वस्यान्तमेवात्मा स एष सर्वासामपां मध्ये स एष सर्वैः कामैः सम्पन्न आपो वै सर्वे कामाः स एषोऽकामः सर्वकामो न ह्येतं कस्य चन कामः १०.५.४.[१६] तदेष श्लोको भवति विद्यया तदारोहन्ति यत्र कामाः परागताः न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन इति न हैव तं लोकं दक्षिणाभिर्न तपसानेवंविदश्नुत एवंविदां हैव स लोकः १०.५.४.[१७] अभ्रं पुरीषम् चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षत्रे वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेषा प्रतिष्ठा तस्मादाहुतिर्न क्षीयत एतद्ध्यस्या अन्नमेषा प्रतिष्ठाथ यद्देवा इत्याख्यायते तल्लोकम्पृणा तद्वा एतत्सर्वं देवा इत्येवाख्यायते १०.५.४.[१८] तदेतदृचाभ्युक्तम् विश्वे देवा अनु तत्ते यजुर्गुरिति सर्वाणि ह्यत्र भूतानि सर्वे देवा यजुरेव भवन्ति तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते स यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते १०.५.४.[१९] ता वा एताः एकविंशतिर्बृहत्य एकविंशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविंशं च स्तोमं बृहतीं च छन्दः १०.५.५.[१] कुश्रिर्ह वाजश्रवसोऽग्निं चिक्ये तं होवाच सुश्रुवाः कौष्यो गौतम यदग्निमचैषीः प्राञ्चमेनमचैषीः प्रत्यञ्चमेनमचैषीर्न्यञ्चमेनमचैषीरुत्तानमेनमचैषीः १०.५.५.[२] यद्यहैनं प्राञ्चमचैषीः यथा पराच आसीनाय पृष्ठतोऽन्नाद्यमुपाहरेत्तादृक्तन्न ते हविः प्रतिग्रहीष्यति १०.५.५.[३] यद्यु वा एनं प्रत्यञ्चमचैषीः कस्मादस्य तर्हि पश्चात्पुच्छमकार्षीः १०.५.५.[४] यद्यु वा एनं न्यञ्चमचैषीः यथा नीचः शयानस्य पृष्ठेऽन्नाद्यम् प्रतिष्ठापयेत्तादृक्तन्नैव ते हविः प्रतिग्रहीस्यति १०.५.५.[५] यद्यु वा एनमुत्तानमचैषीः न वा उत्तानं वयः स्वर्गं लोकमभिवहति न त्वा स्वर्गं लोकमभिवक्ष्यत्यस्वर्ग्य उ ते भविष्यतीति १०.५.५.[६] स होवाच प्राञ्चमेनमचैषं प्रत्यञ्चमेनमचैषं न्यञ्चमेनमचैषमुत्तानमेनमचैषं सर्वा अनु दिश एनमचैषमिति १०.५.५.[७] स यत्प्राञ्चं पुरुषमुपदधाति प्राच्यौ स्रुचौ तत्प्राङ्चीयतेऽथ यत्प्रत्यञ्चं कूर्ममुपदधाति प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ्चीयतेऽथ यन्न्यञ्चं कूर्ममुपदधाति न्यञ्चि पशुशीर्षाणि नीचीरिष्टकास्तन्न्यङ्चीयतेऽथ यदुत्तानम् पुरुषमुपदधात्युत्ताने स्रुचा उत्तानमुलूखलमुत्तानामुखां तदुत्तानश्चीयतेऽथ यत्सर्वा अनु दिशः परिसर्पमिष्टका उपदधाति तत्सर्वतश्चीयते १०.५.५.[८] अथ ह कोषा धावयन्तः निरूढशिरसमग्निमुपाधावयां चक्रुस्तेषां हैक उवाच श्रीर्वै शिरः श्रियमस्य निरौहीत्सर्वज्यानिं ज्यास्यत इति स ह तथैवास १०.५.५.[९] अथ हैक उवाच प्राणा वै शिरः प्राणानस्य निरौहीत्क्षिप्रेऽमुं लोकमेष्यतीति स उ ह तथैवास १०.५.५.[१०] ऊर्ध्वो वा एष एतच्चीयते यद्दर्भस्तम्बो लोगेष्टकाः पुष्करपर्णं रुक्मपुरुषौ स्रुचौ स्वयमातृणा दूर्वेष्टका द्वियजू रेतःसिचौ विश्वज्योतिर्ऋतव्ये अषाढा कूर्मोऽथ हास्यैतदेव प्रत्यक्षतमां शिरो यश्चितेऽग्निर्निधीयते तस्मान्न निरूहेत् १०.६.१.[१] अथ हैतेऽरुणे औपवेशौ समाजग्मुः सत्ययज्ञः पौलुषिर्महाशालो जाबालो बुडिल आश्वतराश्विरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यस्ते ह वैश्वानरे समासत तेषां ह वैश्वानरे न समियाय १०.६.१.[२] ते होचुः अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद तं गच्छामेति ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्षाहस्रान्त्सोमान्प्रोवाच ते ह प्रातरसंविदाना एव समित्प्राणयः प्रतिचक्रमिर उप त्वायामेति १०.६.१.[३] स होवाच यन्नु भगवन्तोऽनूचाना अनूचानपुत्राः किमिदमिति ते होचुर्वैश्वानरं ह भगवान्त्सम्प्रति वेद तं नो ब्रूहीति स होवाच सम्प्रति खलु न्वा अहं वैश्वानरं वेदाभ्याधत्त समिध उपेता स्थेति १०.६.१.[४] स होवाचारुणमौपवेशिं गौतम कं त्वं वैश्वानरं वेत्थेति पृथिवीमेव राजन्निति होवाचोमिति होवाचैष वै वैश्वानर एतं हि वै त्वं प्रतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वं प्रतिष्ठितः प्रजया पशुभिरसि यो वा एतम् प्रतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युह्+ जयति सर्वमायुरेति पादौ त्वा एतौ वैश्वानरस्य पादौ तेऽम्लास्यतां यदि ह नागमिष्य इति पादौ तेऽविदितावभविष्यतां यदि ह नागमिष्य इति वा १०.६.१.[५] अथ होवाच सत्ययज्ञं पौलुषिम् प्राचीनयोग्य कं त्वं वैश्वानरं वेत्थेत्यप एव राजन्निति होवाचोमिति होवाचैष वै रयिर्वैश्वानर एतं हि वै त्वं रयिं वैश्वानरं वेत्थ तस्मात्त्वं रयिमान्पुष्टिमानसि यो वा एतं रयिं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति वस्तिस्त्वा एष वैश्वानरस्य वस्तिस्त्वाहास्यद्यदि ह नागमिष्य इति वस्तिस्तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा १०.६.१.[६] अथ होवाच महाशालं जाबालम् औपमन्यव कं त्वं वैश्वानरं वेत्थेत्याकाशमेव राजन्निति होवाचोमिति होवाचैष वै बहुलो वैश्वानर एतं हि वै त्वं बहुलं वैश्वानरं वेत्थ तस्मात्त्वं बहुः प्रजया पशुभिरसि यो वा एतम् बहुलं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेत्यात्मा त्वा एष वैश्वानरस्यात्मा त्वाहास्यद्यदि ह नागमिष्य इत्यात्मा तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा १०.६.१.[७] अथ होवाच बुडिलमाश्वतराश्विम् वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेति वायुमेव राजन्निति होवाचोमिति होवाचैष वै पृथग्वर्त्मा वैश्वानर एतं हि वै त्वं पृथग्वर्त्मानं वैश्वानरं वेत्थ तस्मात्त्वां पृथग्रथश्रेणयोऽनुयान्ति यो वा एतं पृथग्वर्त्मानं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति प्राणस्त्वा एष वैश्वानरस्य प्राणस्त्वाहास्यद्यदि ह नागमिष्य इति प्राणस्तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा १०.६.१.[८] अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेत्यादित्यमेव राजन्निति होवाचोमिति होवाचैष वै सुततेजा वैश्वानर एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ तस्मात्तवैष सुतोऽद्यमानः पच्यमानोऽक्षीयमाणो गृहेषु तिष्ठति यो वा एतं सुततेजसं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति चक्षुस्त्वा एतद्वैश्वानरस्य चक्षुस्त्वाहास्यद्यदि ह नागमिष्य इति चक्षुस्तेऽविदितमभविष्यद्यदि ह नागमिष्य इति वा १०.६.१.[९] अथ होवाच जनं शार्कराक्ष्यम् सायवस कं त्वं वैश्वानरं वेत्थेति दिवमेव राजन्निति होवाचोमिति होवाचैष वा अतिष्ठा वैश्वानर एतं हि वै त्वमतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वं समानानतितिष्ठसि यो वा एतमतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति मूर्धा त्वा एष वैश्वानरस्य मूर्धा त्वाहास्यद्यदि ह नागमिष्य इति मूर्धा तेऽविदितोऽभविष्यद्यदि ह नागमिष्य इति वा १०.६.१.[१०] तान्होवाच एते वै यूयं पृथग्वैश्वानरान्विद्वांसः पृथगन्नमघस्त प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नास्तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति १०.६.१.[११] स होवाच मूर्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानर इति चक्षुषी उपदिशन्नुवाचैष वै सुततेजा वैश्वानर इति नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मा वैश्वानर इति मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानरो इति च्छुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानर इति स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति न हास्य ब्रुवाणं चन वैश्वानरो हिनस्ति १०.६.२.[१] द्वयं वा इदमत्ता चैवाद्यं च तद्यदोभयं समागच्छत्यत्तैवाख्यायते नाद्यम् १०.६.२.[२] स वै यः सोऽत्ताग्निरेव सः तस्मिन्यत्किं चाभ्यादधत्याहितय एवास्य ता आहितयो ह वै ता आहुतय इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः १०.६.२.[३] आदित्यो वा अत्ता तस्य चन्द्रमा एवाहितयश्चन्द्रमसं ह्यादित्य आदधतीत्यधिदेवतम् १०.६.२.[४] अथाध्यात्मम् प्राणो वा अत्ता तस्यान्नमेवाहितयोऽन्नं हि प्राण आदधतीति न्वग्नेः १०.६.२.[५] अथार्कस्य अग्निर्वा अर्कस्तस्याहुतय एव कमाहुतयो ह्यग्नये कम् १०.६.२.[६] आदित्यो वा अर्कः तस्य चन्द्रमा एव कं चन्द्रमा ह्यादित्याय कमित्यधिदेवतम् १०.६.२.[७] अथाध्यात्मम् प्राणो वा अर्कस्तस्यान्नमेव कमन्नं हि प्राणाय कमिति न्वेवार्कस्य १०.६.२.[८] अथोक्थस्य अग्निर्वा उक्तस्याहुतय एव थमाहुतिभिर्ह्यग्निरुत्तिष्ठति १०.६.२.[९] आदित्यो वा उक् तस्य चन्द्रमा एव थं चन्द्रमसा ह्यादित्य उत्तिष्ठतीत्यधिदेवतम् १०.६.२.[१०] अथाध्यात्मम् प्राणो वा उक्तस्यान्नमेव थमन्नेन हि प्राण उत्तिष्ठतीति न्वेवोक्थस्य स एषोऽग्निविधोऽर्कविध उक्थविधो यत्पुरुषः स यो हैतमेवमग्निविधमर्कविधमुक्थविधं पुरुषमुपास्ते विदुषो हैवास्यैवं भ्रातृव्यो म्लायति १०.६.२.[११] प्राणेन वा अग्निर्दीप्यते अग्निना वायुर्वायुनादित्य आदित्येन चन्द्रमाश्चन्द्रमसा नक्षत्राणि नक्षत्रैर्विद्युदेतावती वै दीप्तिरस्मिंश्च लोकेऽमुष्मिंश्च सर्वा हैतां दीप्तिं दीप्यतेऽस्मिंश्च लोकेऽमुष्मिंश्च य एवं वेद १०.६.३.[१] सत्यं ब्रह्मेत्युपासीत अथ खलु क्रतुमयोऽयं पुरुषः स यावत्क्रतुरयमस्माल्लोकात्प्रैत्येवंक्रतुर्हामुं लोकं प्रेत्याभिसम्भवति १०.६.३.[२] स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मानं कामरूपिणम् मनोजवसं सत्यसंकल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा अनु दिशः प्रभूतं सर्वमिदमभ्याप्तमवाक्कमनादरं यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयो यथा ज्योतिरधूममेवं ज्यायान्दिवो ज्यायानाकाशाज्ज्यायानस्यै पृथिव्यै ज्यायान्त्सर्वेभ्यो भूतेभ्यः स प्राणस्यात्मैष म आत्मैतमित आत्मानं प्रेत्याभिसम्भविष्यामीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्य एवमेतदिति १०.६.४.[१] उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य द्यौष्पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसान्यूवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचन्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वागहर्वा अश्वम् पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनीरात्रिरेनम् पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्त्समुद्र एवास्य बन्धुः समुद्रो योनिः १०.६.५.[१] नैवेह किं चनाग्र आसीत् मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्क्यस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद १०.६.५.[२] आपो वा अर्कः तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः १०.६.५.[३] स त्रेधात्मानं व्यकुरुत आदित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधाविहितस्तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौष्पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् १०.६.५.[४] सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायां मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान्त्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत् १०.६.५.[५] स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किं चर्चो यजूंषि सामानि छन्दांसि यज्ञान्प्रजां पशून्त्स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद १०.६.५.[६] सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् १०.६.५.[७] सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वमेष ह वा अश्वमेधं वेद य एनमेवं वेद १०.६.५.[८] तमनवरुध्येवामन्यत तं संवत्सरस्य परस्तादात्मन आलभत पशून्देवताभ्यः प्रत्यौहत्तसम्त्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्कामेधौ सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवति सर्वमायुरेत्येतासां देवतानामेको भवति य एवं वेद १०.६.५.[९] अथ वंशः समानमा सांजीवीपुत्रात्सांजीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्वामकक्षायणो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ११.१.१.[१] संवत्सरो वै यज्ञः प्रजापतिः तस्यैतद्द्वारं यदमावास्या चन्द्रमा एव द्वारपिधानः ११.१.१.[२] स योऽमावास्यायामग्नी आधत्ते यथा विवृतायां द्वारि द्वारा पुरं प्रपद्येत स तत एव स्वर्गं लोकमियादेवं तद्योऽमावास्यायामाधत्ते ११.१.१.[३] अथ यो नक्षत्र आधत्ते यथापिहितायां द्वार्यद्वारा पुरं प्रपित्सेत्स जिह्मः पुरः स्यादेवं तद्यो नक्षत्र आधत्ते तस्मान्न नक्षत्र आदधीत ११.१.१.[४] यदहरेवैषः न पुरस्तान्न पश्चाद्दृश्येत तदहरुपवसेत्तर्हि ह्येष इमं लोकमागच्छति तस्मिन्निह वसति ११.१.१.[५] सर्वे देवा वसन्ति सर्वाणि भूतानि सर्वा देवताः सर्व ऋतवः सर्वे स्तोमाः सर्वाणि पृष्ठानि सर्वाणि छन्दांसि ११.१.१.[६] सर्वेषु ह वा अस्य देवेषु सर्वेषु भूतेषु सर्वासु देवतासु सर्वेष्वृतुषु सर्वेषु स्तोमेषु सर्वेषु पृष्ठेषु सर्वेषु छन्दःस्वग्नी आहितौ भवतो योऽमावास्यायामाधत्ते तस्मादमावास्यायामेवाग्नी आदधीत ११.१.१.[७] योऽसौ वैशाखस्यामावास्या तस्यामादधीत सा रोहिण्या सम्पद्यत आत्मा वै प्रजा पशवो रोहिण्यात्मन्येवैतत्प्रजायां पशुषु प्रतितिष्ठत्यमावास्या वा अग्न्याधेयरूपं तस्मादमावास्यायामेवाग्नी आदधीत पौर्णमास्यामन्वारभेतामावास्यायां दीक्षेत ११.१.२.[१] घ्नन्ति वा एतद्यज्ञम् यदेनं तन्वते यन्न्वेव राजानमभिषुण्वनि[ तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति ११.१.२.[२] तं हत्वा यज्ञम् अग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते तद्दश ता आहुतीः सम्पादयेद्याभ्यो वषट्क्रियते ११.१.२.[३] अयं वै यज्ञो योऽयं पवते सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टो दशधाविहितः स एवं कॢप्तैः प्राणैरग्नेर्योनेरधिजायते सैषा दशाक्षरा विराट् सैषा सम्पत्स यज्ञः ११.१.२.[४] अथो अपि नव स्युः तन्न्यूनां विराजं करोति प्रजननाय न्यूनाद्वा इमाः प्रजाः प्रजायन्ते सैषा सम्पत्स यज्ञः ११.१.२.[५] अथो अप्येकातिरिक्ता स्यात् सा प्रजापतिमभ्यतिरिच्यते सैषा सम्पत्स यज्ञः ११.१.२.[६] अथो अपि द्वे अतिरिक्ते स्याताम् द्वन्द्वं वै मिथुनं प्रजननम् मिथुनमेवैतत्प्रजननं क्रियते सैषा सम्पत्स यज्ञः ११.१.२.[७] अथो अपि तिस्रोऽतिरिक्ता स्युः द्वन्द्वमह मिथुनं प्रजननमथ यज्जायते तत्तृतीयं सैषा सम्पत्स यज्ञः ११.१.२.[८] अथो अपि चतस्रोऽतिरिक्ताः स्युः तद्यथैकैवं चतस्रस्त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांलोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याप्नोति सैषा सम्पत्स यज्ञः ११.१.२.[९] स यद्द्वाभ्यामूनं तदूनं सोऽयज्ञो यत्पञ्चभिरतिरिक्तं तदतिरिक्तं सोऽयज्ञः सैषैव दशत्यधि सम्पदेषा विंशत्यामेषा सहस्रात् ११.१.२.[१०] आजिं वा एते धावन्ति ये दर्शपूर्णमासाभ्यां यजन्ते स वै पञ्चदश वर्षाणि यजेत तेषां पञ्चदशानां वर्षाणां त्रीणि च शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयस्तद्रात्रीराप्नोति ११.१.२.[११] अथापराणि पञ्चदशैव वर्षाणि यजेत तेषां पञ्चदशानां वर्षाणां त्रीणि चैव शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति तद्वेव संवत्सरमाप्नोति ११.१.२.[१२] मर्त्या ह वा अग्रे देवा आसुः स यदैव ते संवत्सरमापुरथामृता आसुः सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः ११.१.२.[१३] स आजिसृतामेकः य एवं विद्वांस्त्रिंशतं वर्षाणि यजते तस्मादु त्रिंशतमेव वर्षाणि यजेत यद्यु दाक्षायणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेतात्र ह्येव सा सम्पत्सम्पद्यते द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये अत्रो एव खलु सा सम्पद्भवति ११.१.३.[१] पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजत आमावास्येनेष्ट्वादित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते ११.१.३.[२] स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य देवताथैदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्राय त्वेति किं चन क्रियत एतेनो हास्यैतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हन्ति ११.१.३.[३] अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्यदितिः सेयमद्धा सेयं प्रतिष्ठितैतेनो हास्यैतदद्धेव हविर्भवत्येतेन प्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ यस्मान्नानुनिर्वपेत् ११.१.३.[४] स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति सेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वो यज्ञ इन्द्रस्यैवैतेनो हास्येतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञः ११.१.३.[५] अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वपत्यामावास्यं वा अनुनिर्वाप्यम् पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन्यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तसन्न्नानुनिर्वपेत् ११.१.३.[६] स यत्पौर्णमासेनेष्ट्वा अथान्यद्धविरनुनिर्वपत्यामावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं प्रत्युच्रयतेऽथ यः पौर्णमासीं यजत आमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति ११.१.३.[७] पौर्णमासेन वै देवाः पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त स यो हैवं विद्वान्पौर्णमासेनैव पौर्णमासीं यजत आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपहते क्षिप्रे प्रजायते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति न्वनुनिर्वाप्यस्याथाभ्युदितस्य ११.१.४.[१] तद्धैके दृष्ट्वोपवसन्ति श्वो नोदेतेत्यभ्रस्य वा हेतोरनिर्ज्ञाय वाथोतोपवसन्त्यथैनमुताभ्युदेति स यद्यगृहीतं हविरभ्युदियात्प्रज्ञातमेव तदेषैव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत्कुर्वन्ति प्रतिप्रमुञ्चन्ति वत्सांस्तान्पुनरपाकुर्वन्ति ११.१.४.[२] तानपराह्णे पर्णशाखयापाकरोति तद्यथैवादः प्रज्ञातमामावास्यं हविरेवमेव तद्यद्यु व्रतचर्यां वा नोदाशंसेत गृहीतं वा हविरभ्युदियादितरथो तर्हि कुर्यादेतानेव तण्डुलान्त्सुफलीकृतान्कृत्वा स येऽणीयांसस्तानग्नये दात्रेऽष्टाकपालम् पुरोडाशं श्रपयति ११.१.४.[३] अथ यत्पूर्वेद्युः दुग्धं दधि तदिन्द्राय प्रदात्रेऽथ तदानींदुग्धे विष्णवे शिपिविष्टायैतांस्तण्डुलाञ्चूते चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपन्ति ११.१.४.[४] तद्यदेवं भवति एष वै सोमो राजा देवानामन्नं यच्चन्द्रमास्तमेतदुपैत्सीत्तमपारात्सीत्तमस्मा अग्निर्दाता ददातीन्द्रः प्रदाता प्रयच्छति तमस्मा इन्द्राग्नी यज्ञं दत्तस्तेनेन्द्राग्निभ्यां दत्तेन यज्ञेन यजतेऽथ यद्विष्णवे शिपिविष्टायेति यज्ञो वै विष्णुरथ यच्छिपिविष्टायेति यमुपैत्सीत्तमपारात्सीत्तच्छिपितमिव यज्ञस्य भवति तस्माच्छिपिविष्टायेति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदैव नोदियादथोपवसेत् ११.१.५.[१] अद्यामावास्येति मन्यमान उपवसति अथैष पश्चाद्ददृशे स हैष दिव्यः श्वा स यजमानस्य पशूनभ्यवेक्षते तदपशव्यं स्यादप्रायश्चित्तिकृत एतस्मादु हैतद्भीषावचन्द्रमसादिति ११.१.५.[२] च्छायामुपसर्पन्ति एतेनो हैतदुपतपदाचक्षते श्वलुचितमित्येतमु हैवैतदाचक्षते ११.१.५.[३] शशश्चान्द्रमस इति चन्द्रमा वै सोमो देवानामन्नं तम् पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषधीः प्रविशति पशवो वा अप ओषधीरदन्ति तदेनमेतां रात्रीं पशुभ्यः संनयति ११.१.५.[४] सोऽद्यामावास्येति मन्यमान उपवसति अथैष पश्चाद्ददृशे तद्यजमानो यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता३ न यजेता३ इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः श्व एवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा ११.१.५.[५] तस्य त्रीणि हवींषि भवन्ति अग्नये पथिकृतेऽष्टाकपालं पुरोडाशमिन्द्राय वृत्रघ्न एकादशकपालमग्नये वैश्वानराय द्वादशकपालं पुरोडाशम् ११.१.५.[६] स यदग्नये पथिकृते निर्वपति अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति ११.१.५.[७] अथ यदिन्द्राय वृत्रघ्ने पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति कल्याणात्कर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने ११.१.५.[८] अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं समदहत्तथो एवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्वं पाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते ११.१.५.[९] तस्यै सप्तदश सामिधेन्यो भवन्ति उपांशु देवता यजति याः कामयते ता याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये ११.१.५.[१०] तिसृधन्वं दक्षिणां ददाति धन्वना वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति ११.१.५.[११] दण्डं दक्षिणां ददाति दण्डेन वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यद्दण्डं दक्षिणां ददात्येषा न्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्या इतरा दक्षिणास्तासां यत्सम्पद्येत सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव ११.१.६.[१] आपो ह वा इदमग्रे सलिलमेवास ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्यंस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्डं सम्बभूवाजातो ह तर्हि संवत्सर आस तदिदं हिरण्मयमाण्डं यावत्संवत्सरस्य वेला तावत्पर्यप्लवत ११.१.६.[२] ततः संवत्सरे पुरुषः समभवत् स प्रजापतिस्तस्मादु संवत्सर एव स्त्री वा गौर्वा वडबा वा विजायते संवत्सरे हि प्रजापतिरजायत स इदं हिरण्मयमाण्डं व्यरुजन्नाह तर्हि का चन प्रतिष्ठास तदेनमिदमेव हिरण्मयमाण्डं यावत्संवत्सरस्य वेलासीत्तावद्बिभ्रत्पर्यप्लवत ११.१.६.[३] स संवत्सरे व्याजिहीर्षत् स भूरिति व्याहरत्सेयं पृथिव्यभवद्भुव इति तदितमन्तरिक्षमभवत्स्वरिति सासौ द्यौरभवत्तस्मादु संवत्सर एव कुमारो व्याजिहीर्षति संवत्सरे हि प्रजापतिर्व्याहरत् ११.१.६.[४] स वा एकाक्षरद्व्यक्षराण्येव प्रथमं वदन्प्रजापतिरवदत्तस्मादेकाक्षरद्व्यक्षराण्येव प्रथमं वदन्कुमारो वदति ११.१.६.[५] तानि वा !एतानि पञ्चाक्षराणि तान्पञ्चर्तूनकुरुत त इमे पञ्चर्तवः स एवमिमांलोकान्जातान्त्संवत्सरे प्रजापतिरभ्युदतिष्ठत्तस्मादु संवत्सर एव कुमार उत्तिष्ठासति संवत्सरे हि प्रजापतिरुदतिष्ठत् ११.१.६.[६] स सहस्रायुर्जज्ञे स यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारम् पराचख्यौ ११.१.६.[७] सोऽर्चञ्च्राम्यंश्चचार प्रजाकामः स आत्मन्येव प्रजातिमधत्त स आस्येनैव देवानसृजत ते देवा दिवमभिपद्यासृज्यन्त तद्देवानां देवत्वं यद्दिवमभिपद्यासृज्यन्त तस्मै ससृजानाय दिवेवास तद्वेव देवानां देवत्वं यदस्मै ससृजानाय दिवेवास ११.१.६.[८] अथ योऽयमवाङ्प्राणः तेनासुरानसृजत त इमामेव पृथिवीमभिपद्यासृज्यन्त तस्मै ससृजानाय तम इवास ११.१.६.[९] सोऽवेत् पाप्मानं वा असृक्षि यस्मै मे ससृजानाय तम इवाभूदिति तांस्तत एव पाप्मनाविध्यत्ते तत एव पराभवंस्तस्मादाहुर्नैतदस्ति यद्दैवासुरं यदिदमन्वाख्याने त्वदुद्यत इतिहासे त्वत्ततो ह्येव तान्प्रजापतिः पाप्मनाविध्यत्ते तत एव पराभवन्निति ११.१.६.[१०] तस्मादेतदृषिणाभ्यनूक्तम् न त्वं युयुत्से कतमच्चनाहर्न तेऽमित्रो मघवन्कश्चनास्ति मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं न नु पुरा युयुत्स इति ११.१.६.[११] स यदस्मै देवान्त्ससृजानाय दिवेवास तदहरकुरुताथ यदस्मा असुरान्त्ससृजानाय तम इवास तां रात्रिमकुरुत ते अहोरात्रे ११.१.६.[१२] स ऐक्षत प्रजापतिः सर्वं वा अत्सारिषं य इमा देवता असृक्षीति स संवत्सरोऽभवत्संवत्सरो ह वै नामैतद्यत्संवत्सर इति स यो हैवमेतत्संवत्सरस्य संवत्सरत्वं वेद यो हैनं पाप्मा मायया त्सरति न हैनं सोऽभिभवत्यथ यमभिचरत्यभि हैवैनं भवति य एवमेतत्संवत्सरस्य संवत्सरत्वं वेद ११.१.६.[१३] स ऐक्षत प्रजापतिः इमं वा आत्मनः प्रतिमामसृक्षि यत्संवत्सरमिति तस्मादाहुः प्रजापतिः संवत्सर इत्यात्मनो ह्येतं प्रतिमामसृजत यद्वेव चतुरक्षरः संवत्सरश्च!तुरक्षरः प्रजापतिस्तेनो हैवास्यैष प्रतिमा ११.१.६.[१४] ता वा एताः प्रजापतेरधि देवता असृज्यन्ताग्निरिन्द्रः सोमः परमेष्ठी प्राजापत्यः ११.१.६.[१५] ताः सहस्रायुषो जज्ञिरे ता यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारम् पराचख्युः ११.१.६.[१६] ता अर्चन्त्यः श्राम्यन्त्यश्चेरुः तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ ताभ्यामयजत ताभ्यामिष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स आपोऽभवदापो वा इदं सर्वं ता यत्परमे स्थाने तिष्ठन्ति यो हीहाभिखनेदप एवाभिविन्देत्परमाद्वा एतत्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम ११.१.६.[१७] स परमेष्ठी प्रजापतिं पितरमब्रवीत् कामप्रं वा अहं यज्ञमदर्शं तेन त्वा याजयानीति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स प्राणोऽभवत्प्राणो वा इदं सर्वमयं वै प्राणो योऽयं पवते स प्रजापतिस्तस्य दृष्टिर्यदेव वेदेत्थाद्वातीति यद्वै किं च प्राणि स प्रजापतिः स यो हैवमेताम् प्रजापतेर्दृष्टिं वेदाविरिव हैव भवति ११.१.६.[१८] स प्रजापतिरिन्द्रं पुत्रमब्रवीत् अनेन त्वा कामप्रेण यज्ञेन याजयानि येन मामिदं परमेष्ठ्ययीयजदिति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स वागभवद्वाग्वा इदं सर्वं तस्मादाहुरिन्द्रो वागिति ११.१.६.[१९] स इन्द्रोऽग्नीषोमौ भ्रातरावब्रवीत् अनेन वां कामप्रेण यज्ञेन याजयानि येन मामिदं पिता प्रजापतिरयीयजदिति तथेति तावयाजयत्ताविष्ट्वाकामयेतामावमेवेदं सर्वं स्यावेति तयोरन्नाद एवान्यतरोऽभवदन्नमन्यतरोऽन्नाद एवाग्निरभवदन्नं सोमोऽन्नादश्च वा इदं सर्वमन्नं च ११.१.६.[२०] ता वा एताः पञ्च देवता एतेन कामप्रेण यज्ञेनायजन्त ता यत्कामा अयजन्त स आभ्यः कामः समार्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सोऽस्मै कामः समृध्यते ११.१.६.[२१] त इष्ट्वा प्राचीं दिशमपश्यन् तां प्राचीमेवाकुर्वत सेयं प्राच्येव दिक्तस्मादिमाः प्रजाः प्राच्यः सर्पन्ति प्राचीं ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तामूर्जमकुर्वतेमां खलूर्जं पश्येमेति सासौ द्यौरभवत् ११.१.६.[२२] अथ दक्षिणां दिशमपश्यन् तां दक्षिणामेवाकुर्वत सेयं दक्षिणैव दिक्तस्मादु दक्षिणत एव दक्षिणा उपतिष्ठन्ते दक्षिणतोऽभ्यवाजन्ति दक्षिणां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तं लोकमकुर्वतेमं खलु लोकम् पश्येमेति तदिदमन्तरिक्षमभवदेष वै लोकः सा यथा हैवेयम् प्रतिष्ठाविरस्मिंलोके पृथिव्येवमु हैवैषा प्रतिष्ठाविरमुष्मिंलोक इदमन्तरिक्षं स यदिह सन्नमुं लोकं न पश्यति तस्मादाहुः परोऽक्षमसौ लोक इति ११.१.६.[२३] अथ प्रतीचीं दिशमपश्यन् तामाशामकुर्वत तस्माद्यत्प्राङ्सृत्वा विन्दत एतामेव तेन दिशमेत्याशां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तां श्रियमकुर्वतेमां खलु श्रियं पश्येमेति सेयं पृथिव्यभवच्रीर्वा इयं तस्माद्योऽस्यै भूयिष्ठं विन्दते स एव श्रेष्ठो भवति ११.१.६.[२४] अथोदीचीं दिशमपश्यन् तामपोऽकुर्वतोपैनामितः कुर्वीमहीति तं धर्ममकुर्वत धर्मो वा आपस्तस्माद्यदेमं लोकमाप आगच्छन्ति सर्वमेवेदं यथाधर्मं भवत्यथ यदावृष्टिर्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्मो ह्यापः ११.१.६.[२५] ता वा एताः एकादश देवताः पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत्त्रयोऽनुयाजा ११.१.६.[२६] ता एकादशाहुतयः एताभिर्वा आहुतिभिर्देवा इहांलोकानजयन्नेता दिशस्तथो एवैष एताभिराहुतिभिरिमांलोकान्जयत्येता दिशः ११.१.६.[२७] चतस्रोऽवान्तरदिशः त एव चत्वारः पत्नीसंयाजा अवान्तरदिशो वै देवाश्चतुर्भिः पत्नीसंयाजैरजयन्नवान्तरदिश उ एवैष एतैर्जयति ११.१.६.[२८] अथेडा अन्नाद्यमेवैतया देवा अजयंस्तथो एवैष एतयान्नाद्यमेव जयत्येषा नु देवत्रा दर्शपूर्णमासयोः सम्पत् ११.१.६.[२९] अथाध्यात्मम् पञ्चेमे पुरुषे प्राणा ऋते चक्षुर्भ्यां त एव पञ्च प्रयाजा चक्षुषी आज्यभागौ ११.१.६.[३०] अयमेवावाङ्प्राणः स्विष्टकृत् स यत्तमभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति तस्मादेतस्मात्प्राणात्सर्वे प्राणा बीभत्सन्तेऽथ यत्स्विष्टकृते सर्वेषां हविषामवद्यति तस्माद्यत्किं चेमान्प्राणानापद्यत एतमेव तत्सर्वं समवैति ११.१.६.[३१] त्रीणि शिश्नानि त एव त्रयोऽनुयाजाः स योऽयं वर्षिष्ठोऽनुयाजस्तदिदं वर्षिष्ठमिव शिश्नं तं वा अनवानन्यजेदित्याहुस्तथो हास्यैतदमृध्रम् भवतीति ११.१.६.[३२] स वै सकृदवान्यात् एकं ह्येतस्य पर्वाथ यदपर्वकं स्यात्प्रतृणं वैव तिष्ठेल्लम्बेत वा तस्मादेतदुच्च तिष्टति पद्यते च तस्मात्सकृदवान्यात् ११.१.६.[३३] द्वौ बाहू द्वा ऊरू त एव चत्वारः पत्नीसंयाजाः प्रतिष्ठायमेव प्राण इडा यत्तां नाग्नौ जुहोति यत्साप्रदग्धेव तस्मादयमनवतृणः प्राणः ११.१.६.[३४] अस्थ्येव याज्यानुवाक्याः मांसं हविस्तन्मितं च्छन्दो यद्याज्यानुवाक्यास्तस्मादु समावन्त्येवास्थीनि मेद्यतश्च कृश्यतश्च भवन्त्यथ यद्भूय इव च हविर्गृह्णाति कनीय इव च तस्मादु मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति तेनैतेन यज्ञेन यां कामयते देवतां तां यजति यस्यै हविर्भवति ११.१.६.[३५] ता वा एताः अनपोद्धार्या आहुतयो भवन्ति स यद्धैतासामपोद्धरेद्यथैकमङ्गं शृणीयात्प्राणं वा निर्हण्यादेवं तदन्यान्येव हवींष्युप चाह्रियन्तेऽप च ह्रियन्ते ११.१.६.[३६] ता वा एताः षोडशाहुतयो भवन्ति षोडशकलो वै पुरुषः पुरुषो यज्ञस्तस्मात्षोडशाहुतयो भवन्ति ११.१.७.[१] तद्वा अदो व्रतोपायन उद्यते यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति देवानत्यश्नातीति तदारण्यमश्नीयादिति तत्र स्थापयन्ति ११.१.७.[२] स यदि ग्राम्या ओषधीरश्नाति पुरोडाशस्य मेधमश्नाति यद्यारण्या ओषधीरश्नाति बर्हिषो मेधमश्नाति यदि वानस्पत्यमश्नातीध्मस्य मेधमश्नाति यदि पयः पिबति सांनाय्यस्य चाज्यस्य च मेधमश्नाति यद्यपः पिबति प्रणीतानाम् मेधमश्नाति यदि नाश्नाति पितृदेवत्यो भवति ११.१.७.[३] तदाहुः किमयनमिति स्वयं हैवैते रात्री अग्निहोत्रं जुहुयात्स यद्धुत्वा प्राश्नाति तेनापितृदेवत्यो भवत्याहुतिर्वा एषा स यदेवैतामात्मन्नाहुतिं जुहोति तेनो एतेषाम् मेधानां नाश्नाति ११.१.७.[४] एते ह वै रात्री सर्वा रात्रयः समवयन्ति या आपूर्यमाणपक्षस्य रात्रयस्ताः सर्वाः पौर्णमासीं समवयन्ति या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्वा अमावास्यां समवयन्ति स यो हैवं विद्वान्त्स्वयमुपवसथे जुहोति सर्वदा हैवास्य स्वयं हुतं भवति ११.१.८.[१] देवाश्च वा असुराश्च उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः ११.१.८.[२] अथ देवाः अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानं प्रददौ यज्ञो हैषामास यज्ञो हि देवानामन्नं ११.१.८.[३] स देवेभ्य आत्मानं प्रदाय अथैतमात्मनः प्रतिमामसृजत यद्यज्ञं तस्मादाहुः प्रजापतिर्यज्ञ इत्यात्मनो ह्येतं प्रतिमामसृजत ११.१.८.[४] स एतेन यज्ञेन देवेभ्य आत्मानं निरक्रीणीत स यद्व्रतमुपैति यथैव तत्प्रजापतिर्देवेभ्य आत्मानं प्रायच्छदेवमेवैष एतद्देवेभ्य आत्मानम् प्रयच्छति तस्मादु संयत एवैतां रात्रिं चिचरिषेद्यथा हविषा चरेदेवं हविर्ह्येष देवानां भवति ११.१.८.[५] अथ यद्यज्ञं तनुते यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते यथैव तत्प्रजापतिर्निरक्रीणीतैवमथ यद्धविर्निर्वपति हविषैवैतद्यज्ञं निष्क्रीणाति हविरनुवाक्ययानुवाक्यामवदानेनावदानं याज्यया याज्यां वषट्कारेण वषट्कारमाहुत्या तस्याहुतिरेवानिष्क्रीता भवति ११.१.८.[६] स यथाग्रप्रशीर्णो वृक्षः एवमस्यैष यज्ञो भवत्याहुतिमेवान्वाहार्येण निष्क्रीणाति तद्यदेतद्धीनं यज्ञस्यान्वाहरति तस्मादन्वाहार्यो नामैवमु हास्यैष सर्व एव यज्ञो निष्क्रीतो भवत्येष ह वै यजमानस्यामुष्मिंलोक आत्मा भवति यद्यज्ञ स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति य एवं विद्वान्निष्क्रीत्या यजते ११.२.१.[१] त्रिर्ह वै पुरुषो जायते एतन्न्वेव मातुश्चाधि पितुश्चाग्रे जायतेऽथ यं यज्ञ उपनमति स यद्यजते तद्द्वितीयं जायतेऽथ यत्र म्रियते यत्रैनमग्नावभ्यादधति स यत्ततः सम्भवति तत्तृतीयं जायते तस्मात्त्रिः पुरुषो जायत इत्याहुः ११.२.१.[२] ता वा एताः एकादश सामिधेनीरन्वाह दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदेनं कृत्स्नं जनयत्यथ यदूर्ध्वं सामिधेनीभ्यः सा प्रतिष्ठा तदेनं जनयित्वा प्रतिष्ठापयति ११.२.१.[३] नव प्रसवस्य व्याहृतयः नवमे पुरुषे प्राणास्तदेनं द्वितीयं जनयत्याश्रावणं प्रत्याश्रावणं सा प्रतिष्ठाथ यदेवादः सृष्टौ जन्मोद्यते तदेनं तृतीयं जनयति पत्नीसंयाजा एव तत्र प्रतिष्ठा ११.२.१.[४] त्रिर्हि वै पुरुषो जायते एवमेवैनमेतद्यज्ञात्त्रिर्जनयति तासामेकादशानां त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ११.२.१.[५] ताः पञ्चदश सामिधेन्यः द्वावाघारौ पञ्च प्रयाजा इडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाकश्च तास्त्रयोदशाहुतयोऽथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च ११.२.१.[६] ताः पञ्चदशाहुतयः तासां पञ्चदशानामाहुतीनामेता अनुवाक्या एताः पञ्चदश सामिधेन्य एतासामनुवाक्यानामेता याज्या य एवात्र मन्त्रो यो निगदस्तद्याज्यारूपमेतेनो हास्यैता आहुतयोऽनुवाक्यवत्यो भवन्त्येताभिः सामिधेनीभिरेताभिराहुतिभिरेता अनुवाक्या याज्यवत्यश्चाहुतिवत्यश्च भवन्ति ११.२.२.[१] गायत्रीमनुवाक्यामन्वाह त्रिपदा वै गायत्री त्रय इमे लोका इमानेवैतल्लोकान्देवाः प्रत्यष्ठापयन् ११.२.२.[२] अथ त्रिष्टुभा यजति चतुष्पदा वै त्रिष्टुप्चतुष्पादाः पशवस्तत्पशूनेवैतदेषु लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन् ११.२.२.[३] द्व्यक्षरो वषट्कारः द्विपाद्वै पुरुषस्तत्पुरुषमेवैतद्द्विपादमेषु पशुषु प्रतिष्ठितेषु प्रत्यष्ठापयन् ११.२.२.[४] सोऽयं द्विपात्पुरुषः पशुषु प्रतिष्ठित एवमेवैष एतल्लोकान्प्रतिष्ठापयति लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति पशुषु प्रतिष्ठितेष्वात्मानम् प्रतिष्ठापयत्येवमेष पुरुषः पशुषु प्रतिष्ठितो य एवं विद्वान्यजते ११.२.२.[५] अथ यद्वषट्कृते जुहोति एष वै वषट्कारो य एष तपति स एष मृत्युस्तदेनमुपरिष्टान्मृत्योः संस्करोति तदेनमतो जनयति स एतम् मृत्युमतिमुच्यते यज्ञो वा अस्यात्मा भवति तद्यज्ञ एव भूत्वैतन्मृत्युमतिमुच्यत एतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः ११.२.२.[६] अथ यामेतामाहुतिं जुहोति एषा ह वा अस्याहुतिरमुष्मिंलोक आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैनमेषाहुतिरेतस्य पृष्ठे सत्याह्वयत्येह्यहं वै त इहात्मास्मीति तद्यदाह्वयति तस्मादाहुतिर्नाम ११.२.३.[१] ब्रह्म वा इदमग्र आसीत् तद्देवानसृजत तद्देवान्त्सृष्ट्वैषु लोकेषु व्यारोहयदस्मिन्नेव लोकेऽग्निं वायुमन्तरिक्षे दिव्येव सूर्यम् ११.२.३.[२] अथ येऽथ ऊर्ध्वा लोकाः तद्या अत ऊर्ध्वा देवतास्तेषु ता देवता व्यारोहयत्स यथा हैवेम आविर्लोका इमाश्च देवता एवमु हैव त आविर्लोकास्ताश्च देवता येषु ता देवता व्यारोहयत् ११.२.३.[३] अथ ब्रह्मैव परार्धमगच्छत् तत्परार्धं गत्वैक्षत कथं न्विमांलोकान्प्रत्यवेयामिति तद्द्वाभ्यामेव प्रत्यवैद्रूपेण चैव नाम्ना च स यस्य कस्य च नामास्ति तन्नाम यस्यो अपि नाम नास्ति यद्वेद रूपेणेदं रूपमिति तद्रूपमेतावद्वा इदं यावद्रूपं चैव नाम च ११.२.३.[४] ते हैते ब्रह्मणो महती अभ्वे स यो हैते ब्रह्मणो महती अभ्वे वेद महद्धैवाभ्वं भवति ११.२.३.[५] ते हैते ब्रह्मणो महती यक्षे स यो हैते ब्रह्मणो महती यक्षे वेद महद्धैव यक्षं भवति तयोरन्यतरज्ज्यायो रूपमेव यद्ध्यपि नाम रूपमेव तत्स यो हैतयोर्ज्यायो वेद ज्यायान्ह तस्माद्भवति यस्माज्ज्यायान्बुभूषति ११.२.३.[६] मर्त्या ह वा अग्रे देवा आसुः स यदैव ते ब्रह्मणापुरथामृता आसुः स यं मनस आघारयति मनो वै रूपं मनसा हि वेदेदं रूपमिति तेन रूपमाप्नोत्यथ यं वाच आघारयति वाग्वै नाम वाचा हि नाम गृह्णाति तेनो नामाप्नोत्येतावद्वा इदं सर्वं यावद्रूपं चैव नाम च तत्सर्वमाप्नोति सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः ११.२.३.[७] तद्वा अद आग्नेय्यामिष्टा उद्यते यथा तदृषिभ्यो यज्ञः प्रारोचत तं यथातन्वत तद्यज्ञं तन्वानानृषीन्गन्धर्वा उपनिषेदुस्ते ह स्म संनिदधतीदं वा अत्यरीरिचन्निदमूनमक्रन्निति स यदैषां यज्ञः संतस्थेऽथैनांस्तद्दर्शयां चक्रुरिदं वा अत्यरीरिचतेदमूनमकर्तेति ११.२.३.[८] स यदतिरेचयां चक्रुः यथा गिरिरेवं तदासाथ यदूनं चक्रुर्यथा श्वभ्राः प्रदरा एवं तदास ११.२.३.[९] स यत्र शम्योराह तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति यज्ञस्य शिवे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति स्विष्टे मे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तत्स्विष्टं तेनो तदुभयं शमयत्येवमु हास्यैतेन यज्ञेनान्यूनातिरिक्तेनैवेष्टं भवति य एवं विद्वानेवमभिमृशति तस्मादेवमेवाभिमृशेत्ते ह ते गन्धर्वा आसुः शूर्पं यवमान्कृषिरुद्वालवान्धानान्तर्वान् ११.२.४.[१] एष वै पूर्णमाः य एष तपत्यहरहर्ह्येवैष पूर्णोऽथैष एव दर्शो यच्चन्द्रमा दृदृश इव ह्येषः ११.२.४.[२] अथो इतरथाहुः एष एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनु पूरणम् पौर्णमासीत्याचक्षतेऽथैष एव दर्शो य एष तपति ददृश इव ह्येषः ११.२.४.[३] इयमेव पूर्णमाः पूर्णेव हीयमसावेव द्यौर्दर्शो ददृश इव ह्यसौ द्यौः ११.२.४.[४] रात्रिरेव पूर्णमाः पूर्णेव हीयं रात्रिरहरेव दर्शो ददृश इव हीदमहरेषा नु देवत्रा दर्शपूर्णमासयोर्मीमांसा ११.२.४.[५] अथाध्यात्मम् उदान एव पूर्णमा उदानेन ह्ययं पुरुषः पूर्यत इव प्राण एव दर्शो ददृश इव ह्ययं प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ ११.२.४.[६] प्राण एवान्नादः प्राणेन हीदमन्नमद्यत उदान एवान्नप्रद उदानेन हीदमन्नं प्रदीयते स यो हैतावन्नादं चान्नप्रदं च दर्शपूर्णमासौ वेदान्नादो हैव भवति प्र हास्मा अन्नाद्यं दीयते ११.२.४.[७] मन एव पूर्णमाः पूर्णमिव हीदं मनो वागेव दर्शो ददृश इव हीयं वाक्तदेतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ स यदुपवसथे व्रतोपायनीयमश्नाति तेनैतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ प्रीणाति यज्ञेन प्रातर्दैवौ ११.२.४.[८] तदाहुः यन्न पूर्णमासायेति हविर्गृह्यते न दर्शायेति हविर्गृह्यते न पूर्णमासायानुब्रूहि न दर्शायानुब्रूहि न पूर्णमासं यज न दर्शं यजेत्यथ केनास्य दर्शपूर्णमासाविष्टौ भवत इति स यं मनस आघारयति मनो वै पूर्णमास्तेन पूर्णमासं यजत्यथ यं वाच आघारयति वाग्वै दर्शस्तेनो दर्शं यजत्येतेनो हास्य दर्शपूर्नमासाविष्टौ भवतः ११.२.४.[९] तद्धैके चरू निर्वपन्ति पौर्णमास्यां सरस्वतेऽमावास्यायां सरस्वत्या एतत्प्रत्यक्षं दर्शपूर्णमासौ यजामह इति वदन्तस्तदु तथा न कुर्यान्मनो वै सरस्वान्वाक्षरस्वती स यदेवैतावाघारावाघारयति तदेवास्य दर्शपूर्णमासाविष्टौ भवतस्तस्मादेतौ चरू न निर्वपेत् ११.२.४.[१०] तदाहुः आगूर्ती वा एष भवति यो दर्शपूर्णमासाभ्यां यजते पौर्णमेसेन हीष्ट्वा वेदामावास्येन यक्ष्य इत्यामावास्येनेष्ट्वा वेद पुनः पौर्णमासेन यक्ष्य इति स आगूर्त्येवामुं लोकमेति यदामुं लोकमेति कथमनागूर्ती भवतीति स यदेवैता उभयत्राघारावाघारयति तदेवास्य दर्शपूर्णमासौ संतिष्ठेते स संस्थितयोरेव दर्शपूर्णमासयोरथामुं लोकमेति तथानागूर्ती भवति ११.२.५.[१] अपि ह वा एतर्हि देवेभ्योऽश्वमेधमालभन्ते तदाहुः प्राकृतोऽश्वमेध इतीतर इन्नूनं स तद्वा एष एवाश्वमेधो यच्चन्द्रमाः ११.२.५.[२] तदाहुः पदेपदेऽश्वश्य मेध्यस्याहुतिं जुह्वतीति स यत्सायम्प्रातरग्निहोत्रं जुहोति द्वे सायमाहुती जुहोति द्वे प्रातस्ताश्चतस्र आहुत्यश्चतुष्पाद्वा अश्वस्तदस्य पदेपद एवाहुतिर्हुता भवति ११.२.५.[३] तदाहुः विवृत्तेऽश्वस्येष्टिं निर्वपतीत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति सोऽस्मिंलोके विवर्तते ११.२.५.[४] स यदामावास्येन यजते विवृत्त एवास्यैतदिष्टिं निर्वपत्यथ यत्पौर्णमासेन यजतेऽश्वमेधमेवैतदालभते तमालभ्य देवेभ्यः प्रयच्छति संवत्सरे वा इतरमश्वमेधमालभन्त एष वै मासः परिप्लवमानः संवत्सरं करोति तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति ११.२.५.[५] तं वा एतम् मासिमास्येवाश्वमेधमालभन्ते स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाभ्यां च यजते मासिमासि हैवास्याश्वमेधेनेष्टम् भवत्येतदु हास्याग्निहोत्रं च दर्शपूर्णमासौ चाश्वमेधमभिसम्पद्येते ११.२.६.[१] शिरो ह वा एतद्यज्ञस्य यत्प्रणीताः स यत्प्रणीताः प्रणयति शिर एवैतद्यज्ञस्य संस्करोति स विद्याच्छिर एव म एतत्संस्क्रियत इति ११.२.६.[२] प्राण एवास्येध्मः प्राणेन हीदं सर्वमिद्धं यत्प्राणभृन्निमिषद्यदेजति स विद्यादहमेवैष इध्म इति ११.२.६.[३] अनूकमेवास्य सामिधेन्यः तस्मात्ता ब्रूयात्संतन्वन्निव मेऽनुब्रूहीति संततमिव हीदमनूकं मनश्चैवास्य वाक्चाघारौ सरस्वांश्च सरस्वती च स विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वांश्च सरस्वती चेति ११.२.६.[४] पञ्च प्रयाजाः इम एवास्य ते शीर्षण्याः पञ्च प्राणा मुखमेवास्य प्रथमः प्रयाजो दक्षिणा नासिका द्वितीयः सव्या नासिका तृतीयो दक्षिणः कर्णश्चतुर्थः सव्यः कर्णः पञ्चमोऽथ यच्चतुर्थे प्रयाजे समानयति तस्मादिदं श्रोत्रमन्तरतः संतृणं चक्षुषी आज्यभागौ स विद्याच्चक्षुषी एव म एताविति ११.२.६.[५] अथ य आग्नेयः पुरोडाशः अयमेवास्य स दक्षिणोऽर्धो हृदयमेवास्योपांशुयाजः स यत्तेनोपांशु चरन्ति तस्मादिदं गुहेव हृदयम् ११.२.६.[६] अथ योऽग्नीषोमीयः पुरोडाशः अयमेवास्य स उत्तरोऽर्ध ऐन्द्रं वा सांनाय्यमन्तरांसमेवास्य स्विष्टकृद्विषं प्राशित्रम् ११.२.६.[७] स यत्प्राशित्रमवद्यति यथैव तत्प्राजापतेराविद्धं निरकृन्तन्नेवमेवैतस्यैतद्यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्ति स विद्याद्यथैव तत्प्रजापतेराविद्धं निरकृन्तन्नेवमेव म इदं यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्तीति ११.२.६.[८] उदरमेवास्येडा तद्यथैवाद इडायां समवद्यन्त्येवमेवेदं विश्वरूपमन्नमुदरे समवधीयते ११.२.६.[९] त्रयोऽनुयाजाः इम एवास्य तेऽवाञ्चस्त्रयः प्राणा बाहू एवास्य सूक्तवाकश्च शम्योर्वाकश्च चत्वारः पत्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ द्वौ प्रादावेवास्य समिष्टयजुः ११.२.६.[१०] ता एकविंशतिराहुतयः द्वावाघारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्तद्दशाग्नीषोमीय उपांशुयाजोऽग्नीशोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च ११.२.६.[११] ता एकविंशतिराहुतयः द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति ११.२.६.[१२] तद्ध स्मैतदारुणिराह अर्धमासशो वा अहममुनादित्येन सलोको भवामि तामहं दर्शपूर्णमासयोः सम्पदं वेदेति ११.२.६.[१३] तदाहुः आत्मयाजी श्रेया३ देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो निर्मुच्येतैवमस्मान्मर्त्याच्छरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति ११.२.६.[१४] अथ ह स देवयाजी यो वेद देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा श्रेयसे पापीयान्बलिं हरेद्वैश्यो वा राज्ञे बलिं हरेदेवं स स ह न तावन्तं लोकं जयति यावान्तमितरः ११.२.७.[१] संवत्सरो यज्ञः स यो ह वै संवत्सरो यज्ञ इति वेदान्ते हैवास्य संवत्सरस्येष्टं भवत्यथो यत्किं च संवत्सरे क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ११.२.७.[२] ऋतव ऋत्विजः स यो ह वा ऋतव ऋत्विज इति वेदान्ते हैवास्यर्तूनामिष्टं भवत्यथो यत्किं चर्तुषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ११.२.७.[३] मासा हवींषि स यो ह वै मासा हवींषीति वेदान्ते हैवास्य मासानामिष्टम् भवत्यथो यत्किं च मासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ११.२.७.[४] अर्धमासा हविष्पात्राणि स यो ह वा अर्धमासा हविष्पात्राणीति वेदान्ते हैवास्यार्धमासानामिष्टं भवत्यथो यत्किं चार्धमासेषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ११.२.७.[५] अहोरात्रे परिवेष्ट्री स यो ह वा अहोरात्रे परिवेष्ट्री इति वेदान्ते हैवास्याहोरात्रयोरिष्टं भवत्यथो यत्किं चाहोरात्रयोः क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति ११.२.७.[६] इयमेव प्रथमा सामिधेनी अग्निर्द्वितीया वायुस्तृतीयान्तरिक्षं चतुर्थी द्यौष्पञ्चम्यादित्यः षष्ठी चन्द्रमाः सप्तमी मनोऽष्टमी वाङ्नवमी तपो दशमी ब्रह्मैकादश्येता हि वा इदं सर्वं समिन्धत एताभिरिदं सर्वं समिद्धं तस्मात्सामिधेन्यो नाम ११.२.७.[७] स वै त्रिः प्रथमामन्वाह स यत्प्रथममन्वाह प्राचीं तेन दिशं जयति यद्द्वितीयं दक्षिणां तेन दिशं जयति यत्तृतीयमूर्ध्वामेव तेन दिशं जयति ११.२.७.[८] त्रिर्वेवोत्तमामन्वाह स यत्प्रथममन्वाह प्रतीचीं तेन दिशं जयति यद्द्वितीयमुदीचीं तेन दिशं जयति यत्तृतीयमिमामेव तेन प्रतिष्ठां जयत्येवमु हाभिरिमांलोकान्जयत्येता दिशः ११.२.७.[९] ऋतमेव पूर्व आघारः सत्यमुत्तरोऽव ह वा ऋतसत्ये रुन्द्धेऽथो यत्किं चर्तसत्याभ्यां जय्यं सर्वं हैव तज्जयति ११.२.७.[१०] त्विषिरेव प्रथमः प्रयाजः अपचितिर्द्वितीयो यशस्तृतीयो ब्रह्मवर्चसं चतुर्थोऽन्नाद्यं पञ्चमः ११.२.७.[११] स प्रथमं प्रयाजमनुमन्त्रयेत त्विषिमान्भूयासमित्यपचितिमान्भूयासमिति द्वितीयं यशस्वी भूयासमिति तृतीयं ब्रह्मवर्चसी भूयासमिति चतुर्थमन्नादो भूयासमिति पञ्चमं त्विषिमान्ह वा अपचितिमान्यशस्वी ब्रह्मवर्चस्यन्नादो भवति य एवमेतद्वेद ११.२.७.[१२] एतद्ध स्म वै तद्विद्वानाह श्वेतकेतुरारुणेयः कं स्विदेवापरीषु महानागमिवाभिसंसारं दिदृक्षितारो य एवमेतत्प्रयाजानां यशो वेदितेति ११.२.७.[१३] भूतमेव पूर्व आज्यभागः भविष्यदुत्तरोऽव ह वै भूतं च भविष्यच्च रुन्द्धेऽथो यत्किं च भूतेन च भविष्यता च जय्यं सर्वं हैव तज्जयति ११.२.७.[१४] ब्रह्माग्नेयः पुरोडाशः स यो ह वै ब्रह्माग्नेयः पुरोडाश इति वेदाव ह ब्रह्म रुन्द्धेऽथो यत्किं च ब्रह्मणा जय्यं सर्वं हैव तज्जयति ११.२.७.[१५] क्षत्रमुपांशुयाजः स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते ११.२.७.[१६] विदुत्तरः पुरोडाशः स यो ह वै विदुत्तरः पुरोडाश इति वेदाव ह विशं रुन्द्धेऽथो यत्किं च विशा जय्यं सर्वं हैव तज्जयति तद्यदाग्नेयश्च पुरोडाश उपांशुयाजश्च पूर्वौ भवतस्तस्मादुभे ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते ११.२.७.[१७] राष्ट्रं सांनाय्यं स यो ह वै राष्ट्रं सांनाय्यमिति वेदाव ह राष्ट्रं रुन्द्धेऽथो यत्किं च राष्ट्रेण ज य्यं सर्वं हैव तज्जयति तद्यत्संनयन्त्येके नैके तस्माद्राष्ट्रं सं चैति वि च ११.२.७.[१८] तपः स्विष्टकृत् स यो ह वै तपः स्विष्टकृदिति वेदाव ह तपो रुन्द्धेऽथो यत्किं च तपसा जय्यं सर्वं हैव तज्जयति ११.२.७.[१९] लोकः प्राशित्रं स यो ह वै लोकः प्राशित्रमिति वेदाव ह लोकं रुन्द्धेऽथो यत्किं च लोकेन जय्यं सर्वं हैव तज्जयति नो ह लवेन लोकाद्व्यथथे लवेन ह वा अमुष्मिंलोके लोकाद्व्यथन्तेऽथ य एवं वेद न ह बहु चन पापं कृत्वा लोकाद्व्यथते ११.२.७.[२०] श्रद्धेडा स यो ह वै श्रद्धेडेति वेदाव ह श्रद्धां रुन्द्धेऽथो यत्किं च श्रद्धया जय्यं सर्वं हैव तज्जयति ११.२.७.[२१] अशनिरेव प्रथमोऽनुयाजः ह्रादुनिर्द्वितीय उल्कुषी तृतीयः ११.२.७.[२२] स प्रथममनुयाजमनुमन्त्रयेत अशन्यमुं जहीति यं द्विष्याद्ध्रादुन्यमुं जहीति द्वितीयमुल्कुष्यमुं जहीति तृतीयम् ११.२.७.[२३] स य एष क्षिप्रं म्रियते अशनिर्ह तमनुयाजो हन्त्यथ यो विस्रवन्मिश्र इव ह्रादुनिर्ह तमनुयाजो हन्त्यथ योऽभ्युष्टमिश्र इवोल्कुषी ह तमनुयाजो हन्ति ११.२.७.[२४] सैषा यज्ञमेनिः एतया वै मेन्या देवा असुरान्पराभावयां चक्रुस्तथो एवैवंविद्यजमानः पाप्मानं द्विषन्तं भ्रातृव्यं पराभावयति ११.२.७.[२५] स यदनुयाजान्तो यज्ञः स्यात् अशन्यन्तः स्याद्ध्रादुन्यन्त उत्कुष्यन्तस्तस्माद्वै देवानां यज्ञ इडान्तो वैव शम्य्वन्तो वा ११.२.७.[२६] प्रयाजैर्वै देवाः स्वर्गं लोकमायंस्तानसुरा अन्वाजिगांसंस्ताननुयाजैः प्रत्यौहंस्तद्यदनुयाजा इज्यन्ते पाप्मानमेव तद्द्विषन्तं भ्रातृव्यं यजमानः प्रत्यूहति ११.२.७.[२७] प्राणा वै प्रयाजाः अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम् प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते ११.२.७.[२८] संस्था सूक्तवाकः स यो ह वै संस्था सूक्तवाक इति वेदाव ह संस्थां रुन्द्धेऽथो यत्किं च संस्थया जय्यं सर्वं हैव तज्जयति गच्छति वयसः संस्थाम् ११.२.७.[२९] प्रतिष्ठा शम्योर्वाकः स यो ह वै प्रतिष्ठा शम्योर्वाकिति वेदाव ह प्रतिष्ठां रुन्द्धेऽथो यत्किं च प्रतिष्ठया जय्यं सर्वं हैव तज्जयति गच्छति प्रतिष्ठाम् ११.२.७.[३०] ते देवाः एतान्पत्नीसंयाजान्पश्चात्पर्यौहन्त मिथुनमेवैतदुपरिष्टाददधत प्रजात्यै तद्यत्पत्नीसंयाजा इज्यन्ते मिथुनमेवैतदुपरिष्टाद्धत्ते प्रजात्यै देवानां ह वै प्रजातिमनु प्रजायते मिथुनेनमिथुनेन ह प्रजायते य एवमेतद्वेद ११.२.७.[३१] अन्नं समिष्टयजुः स यो ह वा अन्नं समिष्टयजुरिति वेदाव हान्नं रुन्द्धेऽथो यत्किं चान्नेन जय्यं सर्वं हैव तज्जयति ११.२.७.[३२] संवत्सरो यजमानः तमृतवो याजयन्ति वसन्त आग्नीध्रस्तस्माद्वसन्ते दावाश्चरन्ति तद्ध्यग्निरूपं ग्रीष्मोऽध्वर्युस्तप्त इव वै ग्रीष्मस्तप्तमिवाध्वर्युर्निष्क्रामति वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते शरद्ब्रह्मा तस्माद्यदा सस्यं पच्यते ब्रह्मण्वत्यः प्रजा इत्याहुर्हेमन्तो होता तस्माद्धेमन्वषट्कृताः पशवः सीदन्त्येता ह वा एनं देवता याजयन्ति स यद्येनमैषावीरा याजयेयुरेता एव देवता मनसा ध्यायेदेता हैवैनं देवता याजयन्ति ११.२.७.[३३] अथ हैषैव तुला यद्दक्षिणो वेद्यन्तः स यत्साधु करोति तदन्तर्वेद्यथ यदसाधु तद्बहिर्वेदि तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलायां ह वा अमुष्मिंलोक आदधति यतरद्यंस्यति तदन्वेष्यति यदि साधु वासाधु वेत्यथ य एवं वेदास्मिन्हैवलोके तुलामारोहत्यत्यमुष्मिंलोके तुलाधानं मुच्यते साधुकृत्या हैवास्य यच्छति न पापकृत्या ११.३.१.[१] वाग्घ वा एतस्याग्निहोत्रस्याग्निहोत्री मन एव वत्सस्तदिदं मनश्च वाक्च समानमेव सन्नानेव तस्मात्समान्या रज्ज्वा वत्सं च मातरं चाभिदधति तेज एव श्रद्धा सत्यमाज्यम् ११.३.१.[२] तद्धैतज्जनको वैदेहः याज्ञवल्क्यं पप्रच्छ वेत्थाग्निहोत्रं याज्ञवल्क्या३ इति वेद सम्राडिति किमिति पय एवेति ११.३.१.[३] यत्पयो न स्यात् केन जुहुया इति व्रीहियवाभ्यामिति यद्व्रीहियवौ न स्यातां केन जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या ओषध्त्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरिति यदापो न स्युः केन जुहुया इति ११.३.१.[४] स होवाच न वा इह तर्हि किं चनासीदथैतदहूयतैव सत्यं श्रद्धायामिति वेत्थाग्निहोत्रं याज्ञवल्क्य धेनुशतं ददामीति होवाच ११.३.१.[५] तदप्येते श्लोकाः किं स्विद्विद्वान्प्रवसत्यग्निहोत्री गृहेभ्यः कथं स्विदस्य काव्यं कथं संततो अग्निभिरिति कथं स्विदस्यानपप्रोषितं भवतीत्येवैतदाह ११.३.१.[६] यो जविष्ठो भुवनेषु स विद्वान्प्रवसन्विदे तथा तदस्य काव्यं तथा संततो अग्निभिरिति मन एवैतदाह मनसैवास्यानपप्रोषितं भवतीति ११.३.१.[७] यत्स दूरं परेत्य अथ तत्र प्रमाद्यति कस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य जुह्वतीति यत्स दूरं परेत्याथ तत्र प्रमाद्यति कस्मिन्नस्य साहुतिर्हुता भवतीत्येवैतदाह ११.३.१.[८] यो जागार भुवनेषु विश्वा जातानि योऽबिभः तस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य जुह्वतीति प्राणमेवैतदाह तस्मादाहुः प्राण एवाग्निहोत्रमिति ११.३.२.[१] यो ह वा अग्निहोत्रे षण्मिथुनानि वेद मिथुनेनमिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिर्यजमानश्च पत्नी च तदेकं मिथुनं तस्मादस्य पत्नीवदग्निहोत्रं स्यादेतन्मिथुनमुपाप्नवानीति वत्सश्चाग्निहोत्री च तदेकं मिथुनं तस्मादस्य पुंवत्साग्निहोत्री स्यादेतन्मिथुनमुपाप्नवानीति स्थाली चाङ्गाराश्च तदेकम् मिथुनं स्रुक्च स्रुवश्च तदेकं मिथुनमाहवनीयश्च समिच्च तदेकम् मिथुनमाहुतिश्च स्वाहाकारश्च तदेकं मिथुनमेतानि ह वा अग्निहोत्रे षण्मिथुनानि तानि य एवं वेद मिथुनेनमिथुनेन ह प्रजायते सर्वाभिः प्रजातिभिः ११.३.३.[१] ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् तस्मै ब्रह्मचारिणमेव न प्रायच्छत्सोऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रिं समिधं नाहराता इति तस्माद्यां रात्रिं ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति तस्माद्ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानीति ११.३.३.[२] दीर्घसत्त्रं वा एष उपैति यो ब्रह्मचर्यमुपैति स यामुपयन्त्समिधमादधाति सा प्रायणीया यां स्नास्यन्त्सोदयनीयाथ या अन्तरेण सत्त्र्या एवास्य ता ब्राह्मणो ब्रह्मचर्यमुपयन् ११.३.३.[३] चतुर्धा भूतानि प्रविशति अग्निं पदा मृत्युं पदाचार्यं पदात्मन्येवास्य चतुर्थः पादः परिशिष्यते ११.३.३.[४] स यदग्नये समिधमाहरति य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमा!विशति ११.३.३.[५] अथ यदात्मानं दरिद्रीकृत्येव अह्रीर्भूत्वा भिक्षते य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति ११.३.३.[६] अथ यदाचार्यवचसं करोति यदाचार्याय कर्म करोति य एवास्याचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यान्मन्धत्ते स एनमाविशति ११.३.३.[७] न ह वै स्नात्वा भिक्षेत अप ह वै स्नात्वा भिक्षां जयत्यप ज्ञातीनामशनायामप पितॄणां स एवं विद्वान्यस्या एव भूयिष्ठं श्लाघेत ताम् भिक्षेतेत्याहुस्तल्लोक्यमिति स यद्यन्यां भिक्षितव्यां न विन्देदपि स्वामेवाचार्यजायां भिक्षेताथो स्वां मातरं नैनं सप्तम्यभिक्षितातीयात्तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह वा अग्निः समिद्धो रोचत एवं ह वै स स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरति ११.४.१.[१] उद्दालको हारुणिः उदीच्यान्वृतो धावयां चकार तस्य निष्क उपाहित आसैतद्ध स्म वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितं भवत्युपवल्हाय बिभ्यतां तान्होदीच्यानां ब्राह्मणान्भीर्विवेद

Search

Search here.