शतपथ ब्राह्मणम् 9

Posted at 2016-03-13 04:45:51
शतपथ ब्राह्मणम्  9

 

११.४.१.[१]

उद्दालको हारुणिः उदीच्यान्वृतो धावयां चकार तस्य निष्क उपाहित आसैतद्ध स्म
वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितं भवत्युपवल्हाय
बिभ्यतां तान्होदीच्यानां ब्राह्मणान्भीर्विवेद

११.४.१.[२]

कौरुपञ्चालो वा अयं ब्रह्मा ब्रह्मपुत्रः यद्वै नोऽयमर्धं न पर्याददीत
हन्तैनं ब्रह्मोद्यमाह्वयामहा इति केन वीरेणेति स्वैदायनेनेति शौनको ह
स्वैदायन आस

११.४.१.[३]

ते होचुः स्वैदायन त्वया वीरेणेमं प्रतिसंयतामहा इति स होवाचोपात्र खलु
रमताहं न्वेनं वेदानीति तं हाभिप्रपेदे तं हाभिप्रपन्नमभ्युवाद
स्वैदायना३ इति हो३ गौतमस्य पुत्रेतीतरः प्रतिशुश्राव तं ह तत एव प्रष्टुं
दध्रे

११.४.१.[४]

स वै गौतमस्य पुत्र वृतो जनं धावयेत् यो दर्शपूर्णमासयोरष्टौ
पुरस्तादाज्यभागान्विद्यात्पञ्च मध्यतो हविर्भागान्षट्प्राजापत्यानष्टा
उपरिष्टादाज्यभागान्

११.४.१.[५]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा अदन्तका जायन्ते यस्मादासां
जायन्ते यस्मादासां प्रभिद्यन्ते यस्मादासां संस्तिष्ठन्ते यस्मादासाम्
पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते यस्मादधर एवाग्रे जायन्तेऽथोत्तरे
यस्मादणीयांस एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयांसो यस्मात्समा
एव जम्भ्याः
११.४.१.[६]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासाम्
पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्ते यस्माचीर्षण्येवाग्रे पलितो
भवत्यथ पुनरुत्तमे वयसि सर्व एव पलितो भवति

११.४.१.[७]

स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मात्कुमारस्य रेतः सिक्तं न सम्भवति
यस्मादस्य मध्यमे वयसि सम्भवति यस्मादस्य पुनरुत्तमे वयसि न
सम्भवति

११.४.१.[८]

यो गायत्रीं हरिणीम् ज्योतिष्पक्षां यजमानं स्वर्गं लोकमभिवहन्तीं विद्यादिति
तस्मै ह निष्कं प्रददावनूचानः स्वैदायनासि सुवर्णं वाव सुवर्णविदे ददतीति
तं होपगुह्य निश्चक्राम तं ह पप्रचुः किमिवैष गौतमस्य पुत्रोऽभूदिति

११.४.१.[९]

स होवाच यथा ब्रह्मा ब्रह्मपुत्रो मूर्धास्य विपतेद्य एनमुपवल्हेतेति ते ह
तत एव विप्रेयुस्तं ह तत एव समित्प्राणिः प्रतिचक्रमुप त्वायानीति
किमध्येष्यमाण इति यानेव मा प्रश्नानप्राक्षीस्तानेव मे विब्रूहीति स
होवाचानुपेतायैव त एनान्ब्रवाणीति

११.४.१.[१०]

तस्मा उ हैतदुवाच द्वावाघारौ पञ्च प्रयाजा आग्नेय आज्यभागोऽष्टम एतेऽष्टौ
पुरस्तादाज्यभागाः सौम्य आज्यभागो हविर्भागाणां प्रथमो हविर्हि सोम
आग्नेयः पुरोडाशोऽग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदेते
पञ्च मध्यतो हविर्भागाः

११.४.१.[११]

प्राशित्रं चेडा च यच्चाग्नीध आदधाति ब्रह्मभागो यजमानभागोऽन्वाहार्य एते
षट्प्राजापत्यास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममेतेऽष्टा
उपरिष्टादाज्यभागाः

११.४.१.[१२]

अथ यदपुरोऽनुवाक्यकाः प्रयाजा भवन्ति तस्मादिमाः प्रजा अदन्तका जायन्तेऽथ
यत्पुरोऽनुवाक्यवन्ति हवींषि भवन्ति तस्मादासां जायन्तेऽथ यदपुरोऽनुवाक्यका
अनुयाजा भवन्ति तस्मादासां प्रभिद्यन्तेऽथ यत्पुरोऽनुवाक्यवन्तः पत्नीसंयाजा
भवन्ति तस्मादासां संतिष्ठन्तेऽथ यदपुरोऽनुवाक्यकं समिष्टयजुर्भवति
तस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते

११.४.१.[१३]

अथ यदनुवाक्यामनूच्य याज्यया यजति तस्मादधर एवाग्रे जायन्तेऽथोत्तरेऽथ
यद्गायत्रीमनूच्य त्रिष्टुभा यजति तस्मादणीयांस एवाधरे प्रथीयांस उत्तरेऽथ
यत्प्राञ्चावाघारावाघारयति तस्माद्दंष्ट्रा वर्षीयांसोऽथ यत्सच्छन्दसावेव
संयाज्ये भवतस्तस्मात्समा एव जम्भ्याः

११.४.१.[१४]

अथ यद्बर्हि स्तृणाति तस्मादिमाः प्रजा लोमशा जायन्तेऽथ यत्पुनरिव प्रस्तरं
स्तृणाति तस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्तेऽथ
यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति तस्माचीर्षण्येवाग्रे पलितो भवत्यथ
यत्सर्वमेव बर्हिरनुप्रहरति तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति

११.४.१.[१५]

अथ यदाज्यहविषः प्रयाजा भवन्ति तस्मात्कुमारस्य रेतः सिक्तं न
सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यमथ यन्मध्ये यज्ञस्य
दध्ना पुरोडाशेनेति यजन्ति तस्मादस्य मध्यमे वयसि सम्भवति द्रप्सीवैव
भवति द्रप्सीव हि रेतोऽथ यदाज्यहविष एवानुयाजा भवन्ति तस्मादस्य
पुनरुत्तमे वयसि न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यम्

११.४.१.[१६]

वेदिरेव गायत्री तस्यै येऽष्टौ पुरस्तादाज्यभागाः स दक्षिणः पक्षो येऽष्टा
उपरिष्टादाज्यभागाः स उत्तरः पक्षः सैषा गायत्री हरिणी ज्योतिष्पक्षा यजमानं
स्वर्गं लोकमभिवहति य एवमेतद्वेद

११.४.२.[१]

अथातः स्रुचोरादानस्य तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव
जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा
अयमध्वर्युर्यजमानस्य द्विषन्तं भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह
तथैव स्यात्

११.४.२.[२]

इत्थमेव कुर्यात् उभाभ्यामेव प्राणिभ्यां जुहूम्
परिगृह्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते
असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो
यजमानमृच्छेत्तस्मादसंशिञ्जयन्नाददीत

११.४.२.[३]

अथातोऽतिक्रमणस्य वज्रेण ह वा अन्योऽध्वर्युर्यजमानस्य पशून्विधमति वज्रेण
हास्मा अन्य उपसमूहत्येष ह वा अध्वर्युर्वज्रेण यजमानस्य पशून्विधमति य
आश्रावयिष्यन्दक्षिणेनातिक्रामति सव्येनाश्राव्याथ हास्मा एष उपसमूहति य
आश्रावयिष्यन्त्सव्येनातिक्रामति दक्षिणेनाश्राव्यैष हास्मा उपसमूहति

११.४.२.[४]

अथातो धारणस्य तद्धैतदेके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ
धारयन्ति न तथा कुर्याद्यो हैनं तत्र ब्रूयाचूलौ न्वा अयमध्वर्युर्बाहू अकृत
शूलबाहुर्भविष्यतीतीश्वरो ह तथैव स्यादथ हैष मध्यमः प्राणस्तस्मादु
तमुपन्यच्येवैव धारयेत्

११.४.२.[५]

अथात आश्रावणस्य षडु वा आश्रावितानि न्यक्तिर्यगूर्ध्वं कृपणं बहिःश्र्यन्तःश्रि

११.४.२.[६]

एतद्ध वै न्यक् योऽयमुच्चैरादाय शनैर्निदधाति स यमिच्छेत्पापीयान्त्स्यादिति
तस्योच्चैरादाय शनैर्निदध्यात्तेन स पापीयान्भवति

११.४.२.[७]

अथ हैतत्तिर्यक् योऽयं यावतैवादत्ते तावता निदधाति स यमिच्छेन्नैव
श्रेयान्त्स्यान्न पापीयानिति तस्य यावतैवाददीत तावता निदध्यात्तेन स नैव
श्रेयान्न
पापीयान्भवति

११.४.२.[८]

अथ हैतदूर्ध्वम् योऽयं शनैरादायोच्चैर्निदधाति स यमिच्छेच्रेयान्त्स्यादिति तस्य
शनैरादायोच्चैर्निदध्यात्तेन स श्रेयान्भवति

११.४.२.[९]

अथ हैतत्कृपणम् योऽयमणु दीर्घमस्वरमाश्रावयति यो हैनं तत्र
ब्रूयात्कृपणं न्वा अयमध्वर्युर्यजमानमकद्द्विषतो
भ्रातृव्यस्योपावसायिनमितीश्वरो ह तथैव स्यात्

११.४.२.[१०]

अथ हैतद्बहिःश्रि योऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति श्रीर्वै स्वरो
बाह्यत एव तच्रियं धत्तेऽशनायुको भवति

११.४.२.[११]

अथ हैतदन्तःश्रि योऽयं संधायौष्ठा उच्चैः स्वरवदाश्रावयति श्रीर्वै
स्वरोऽन्तरत एव तच्रियं धत्तेऽन्नादो भवति

११.४.२.[१२]

स वै मन्द्रमिवोरसि परास्तभ्योभयतोबार्हतमुच्चैरन्ततो निदध्यात्तस्य
नोपमीमांसास्ति तत्पशव्यमायुष्यम्

११.४.२.[१३]

अथातो होमस्य तद्धैतदेके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा
पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादनुयुवं न्वा
अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्यान्ववसायिनमितीश्वरो ह
तथैव स्यात्

११.४.२.[१४]

पार्श्वत उ हैके स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा
कुर्याद्यो हैनं तत्र ब्रूयादतीर्थेन न्वा अयमध्वर्युराहुतीः प्रारौत्सीत्सं वा
शरिष्यते घुणिर्वा भविष्यतीतीश्वरो ह तथैव स्यात्

११.४.२.[१५]

इत्थमेव कुर्यात् प्राचीमेव स्रुचमुपावहृत्य हुत्वा
तेनैवाधिहृत्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम्

११.४.२.[१६]

प्रदग्धाहुतिर्ह वा अन्योऽध्वर्युः आहुतीर्हान्यः संतर्पयत्येष ह वै
प्रदग्धाहुतिरध्वयुर्योऽयमाज्यं हुत्वावदानानि जुहोत्येतं ह वै
तददृश्यमाना वागभ्युवाद प्रदग्धाहुतिर्न्वा अयमध्वर्युरित्यथ हैना एष
संतर्पयति योऽयमाज्यं हुत्वावदानानि जुहोत्यथ पुनरन्तत आज्येनाभिजुहोत्येष
हैनाः संतर्पयति तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्ते

११.४.२.[१७]

तदु होवाच याज्ञवल्क्यः यद्वा उपस्तीर्यावदायाभिघारयति तदेवैनाः संतर्पयति
तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्तेऽयस्थूणगृहपतीनां वै
शौल्बायनोऽध्वर्युरास

११.४.२.[१८]

स होवाच इदमहेदं सत्त्रं कृशपश्वल्पाज्यमथायं गृहपतिरस्मीति मन्यत इति

११.४.२.[१९]

स होवाच अध्वर्यवा वै नोऽक्रुक्ष एते वै ते स्रुचौ ये त्वं संवत्सरं नाशक
आदातुं यद्वै त्वाहमेतयोरनुशिष्यां प्र प्रजया पशुभिर्जायेथा अभि स्वर्गं
लोकं वहेरिति

११.४.२.[२०]

स होवाच उप त्वायानीति स होवाचात्र वाव खल्वर्हसि यो नः
संवत्सरेऽध्वर्युरभूरनुपेतायैव त एतद्ब्रवाणीति तस्मा उ हैतदेव
स्रुचोरादानमुवाच यदेतद्व्याख्यां तस्मादेवंविदमेवाध्वर्युं
कुर्वीतनानेवंविदम्

११.४.३.[१]

प्रजापतिर्वै प्रजाः सृजमानोऽतप्यत तस्माच्रान्तात्तपानाच्रीरुदक्रामत्सा
दीप्यमाना
भ्राजमाना लेलायन्त्यतिष्ठतां दीप्यमानां भ्राजमानां लेलायन्तीं देवा
अभ्यध्यायन्

११.४.३.[२]

ते प्रजापतिमब्रुवन् हनामेमामेदमस्या ददामहा इति स होवाच स्त्री वा एषा
यच्रीर्न वै स्त्रियं घ्नन्त्युत त्वा अस्या जीवन्त्या एवाददत इति

११.४.३.[३]

तस्या अग्निरन्नाद्यमादत्त सोमो राज्यं वरुणः साम्राज्यं मित्रः क्षत्रमिन्द्रो
बलं बृहस्पतिर्ब्रह्मवर्चसं सविता राष्ट्रं पूषा भगं सरस्वती पुष्टिं
त्वष्टा रूपाणि

११.४.३.[४]

सा प्रजापतिमब्रवीत् आ वै म इदमदिषतेति स होवाच यज्ञेनैनान्पुनर्याचस्वेति

११.४.३.[५]

सैतां दशहविषमिष्टिमपश्यत् आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं
वारुणं दशकपालं पुरोडाशं मैत्रं चरुमैन्द्रमेकादशकपालम्
पुरोडाशं बार्हस्पत्यं चरुं सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशम्
पौष्णं चरुं सारस्वतं चरुं त्वाष्ट्रं दशकपालं पुरोडाशम्

११.४.३.[६]

तानेतयानुवाक्ययान्ववदत् अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः
सहस्री पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ते
प्रत्युपातिष्ठन्त

११.४.३.[७]

तानेतया याज्यया परस्तात्प्रतिलोमं प्रत्यैत्त्वष्टा रूपाणि ददती सरस्वती पूषा
भगं सविता मे ददातु बृहस्पतिर्दददिन्द्रो बलं मे मित्रं क्षत्रं वरुणः
सोमो अग्निरिति ते पुनर्दानायाध्रियन्त

११.४.३.[८]

सैतानुपहोमानपश्यत् अग्निरन्नादोऽन्नपतिरन्नाद्यमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादायाग्निरुदक्रामत्पुनरस्या अन्नाद्यमददात्

११.४.३.[९]

सोमो राजा राजपतिः राज्यमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सोम
उदक्रामत्पुनरस्यै राज्यमददात्

११.४.३.[१०]

वरुणः सम्राट्सम्राट्पतिः साम्राज्यमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय वरुण उदक्रामत्पुनरस्यै साम्राज्यमददात्
११.४.३.[११]

मित्रः क्षत्रं क्षत्रपतिः क्षत्रमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय मित्र! उदक्रामत्पुनरस्यै क्षत्रमददात्

११.४.३.[१२]

इन्द्रो बलं बलपतिः बलमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादायेन्द्र
उदक्रामत्पुनरस्यै बलमददात्

११.४.३.[१३]

बृहस्पतिर्ब्रह्म ब्रहस्पतिः ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय बृहस्पतिरुदक्रामत्पुनरस्यै ब्रह्मवर्चसमददात्

११.४.३.[१४]

सविता राष्ट्रं राष्ट्रपतिः राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय
सवितोदक्रामत्पुनरस्यै राष्ट्रमददात्

११.४.३.[१५]

पूषा भगं भगपतिः भगमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय
पूषोदक्रामत्पुनरस्यै भगमददात्

११.४.३.[१६]

सरस्वती पुष्टिं पुष्टिपतिः पुष्टिमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय सरस्वत्युदक्रामत्पुनरस्यै पुष्टिमददात्

११.४.३.[१७]

त्वष्टा रूपाणां रूपकृद्रूपपतिः रूपेण पशूनस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय त्वष्टोदक्रामत्पुनरस्यै रूपेण पशूनददात्श दक्षिणा
दशंदशिनी विराट्श्रीर्विराट्श्रियां हश दक्षिणा दशंदशिनी विराट्श्रीर्विराट्श्रियां


११.४.३.[१८]

ता वा एताः दश देवता दश हवींषि दशाहुतयो दैतद्विराज्यन्नाद्ये प्रतितिष्ठति
११.४.३.[१९]

तस्यै पञ्चदश सामिधेन्यो भवन्ति उपांशु देवता यजति पञ्च प्रयाजा भवन्ति
त्रयोऽनुयाजा एकं समिष्टयजुः पुष्टिमन्तावाज्यभागावग्निना
रयिमश्नवत्पोषमेव दिवेदिवे यशसं वीरवत्तमम् गयस्फानो अमीवहा
वसुवित्पुष्टिवर्धनः सुमित्रः सोम नो भवेति सहस्रवत्यौ संयाज्ये नू नो
रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु द्युमदग्ने सुवीर्यं
वर्षिष्ठमनुपक्षितम् उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः शं नः
शोचा मरुद्वृधोऽग्ने सहस्रसातम इति

११.४.३.[२०]

तां हैतां गोतमो राहूगणः विदां चकार सा ह जनकं वैदेहं प्रत्युत्ससाद तां
हाङ्गिजिद्ब्राह्मणेष्वन्वियेष तामु ह याज्ञवल्क्ये विवेद स होवाच सहस्रं भो
याज्ञवल्क्य दद्नो यस्मिन्वयं त्वयि मित्रविन्दामन्वविदामेति विन्दते मित्रं
राष्ट्रमस्य भवत्यप पुनर्मृत्युं जयति सर्वमायुरेति य एवं विद्वानेतयेष्ट्या
यजते यो वैतदेवं वेद

११.४.४.[१]

अथातो हविषः समृद्धिः षड्ढ वै ब्रह्मणो द्वारोऽग्निर्वायुरापश्चन्द्रमा
विद्युदादित्यः

११.४.४.[२]

स य उपदग्धेन हविषा यजते अग्निना ह स ब्रह्मणो द्वारेण प्रतिपद्यते
सोऽग्निना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति

११.४.४.[३]

अथ यो विपतितेन हविषा यजते वायुना ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
वायुना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति

११.४.४.[४]

अथ योऽशृतेन हविषा यजते अद्भिर्हि स ब्रह्मणो द्वारेण प्रतिपद्यते
सोऽद्भिर्ब्रह्मणो द्वारेण प्रतिप

११.४.४.[५]

अथ य उपरक्तेन हविषा यजते चन्द्रमसा ह स ब्रह्मणो द्वारेण प्रतिपद्यते
स चन्द्रमसा ब्रह्मणो द्वारेण प्रतिप
११.४.४.[६]

अथ यो लोहितेन हविषा यजते विद्युता ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
विद्युता ब्रह्मणो द्वारेण प्रतिप

११.४.४.[७]

अथ यः सुशृतेन हविषा यजते आदित्येन ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
आदित्येन ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति सैषा
हविषः समृद्धिः स यो हैवमेतां हविषः समृद्धिं वेद सर्वसमृद्धेन
हैवास्य हविषेष्टं भवति

११.४.४.[८]

अथातो यज्ञस्य समृद्धिः यद्वै यज्ञस्य न्यूनं प्रजननमस्य तदथ
यदतिरिक्तं पशव्यमस्य तदथ यत्संकसुकं श्रिया अस्य तदथ यत्सम्पन्नं
स्वर्ग्यमस्य तत्

११.४.४.[९]

स यदि मन्येत न्यूनं मे यज्ञेऽभूदिति प्रजननं म एतत्प्रजनिष्य इत्येव
तदुपासीत

११.४.४.[१०]

अथ यदि मन्येत अतिरिक्तं मे यज्ञेऽभूदिति पशव्यं म
एतत्पशुमान्भविष्यामीत्येव तदुपासीत

११.४.४.[११]

अथ यदि मन्येत संकसुकं मे यज्ञेऽभूदिति श्रियै म एतदा मा श्रीस्तेजसा यशसा
ब्रह्मवर्चसेन परिवृता गमिष्यतीत्येव तदुपासीत

११.४.४.[१२]

अथ यदि मन्येत सम्पन्नं मे यज्ञेऽभूदिति स्वर्ग्यं म एतत्स्वर्गलोको
भविष्यामीत्येव तदुपासीत सैषा यज्ञस्य समृद्धिः स यो हैवमेतां यज्ञस्य
समृद्धिं वेद सर्वसमृद्धेन हैवास्य यज्ञेनेष्टं भवति

११.५.१.[१]

उर्वशी हाप्सराः पुरूरवसमैडं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो
वैतसेन दण्डेन हतादकामां स्म मा निपद्यासै मो स्म त्वा नग्नं दर्शमेष
वै न स्त्रीणामुपचार इति

११.५.१.[२]

सा हास्मिन्योगुवास अपि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह
गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्मीदुपजानीत यथेयम्
पुनरागच्छेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वा
अन्यतरमुरणं प्रमेथुः

११.५.१.[३]

सा होवाच अवीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह
तथैवोवाच

११.५.१.[४]

अथ हायमीक्षां चक्रे कथं नु तदवीरं कथमजनं स्याद्यत्राहं स्यामिति स
नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा
विद्युतं जनयां चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव
पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यातःप्लक्षेति
बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे

११.५.१.[५]

तं हेयं ज्ञात्वोवाच अयं वै स मनुष्यो यस्मिन्नहमवात्समिति ता होचुस्तस्मै
वा आविरसामेति तथेति तस्मै हाविरासुः

११.५.१.[६]

तां हायं ज्ञात्वाभिपरोवाद हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा
कृणवावहै नु न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन्नित्युप नु
रम सं नु वदावहा इति हैवैनां तदुवाच

११.५.१.[७]

तं हेतरा प्रत्युवाच किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव
पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मीति न वै त्वं
तदकरोर्यदहमब्रवं दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति
हैवैनं तदुवाच
११.५.१.[८]

अथ हायं परिद्यून उवाच सुदेवो अद्य प्रपतेदनावृत्परावतं परमाम्
गन्तवाउ अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युरिति सुदेवोऽद्योद्वा
बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच

११.५.१.[९]

तं हेतरा प्रत्युवाच पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ
क्षन् न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येतेति मैतदादृथा न वै
स्त्रैणं सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच

११.५.१.[१०]

यद्विरूपाचरम् मर्त्येष्ववसं रात्रीः शरदश्चतस्रः घृतस्य स्तोकं सकृदह्नु
आश्नां तादेवेदं तातृपाणा चरामीति तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः
प्राहुस्तस्यै ह हृदयमाव्ययां चकार

११.५.१.[११]

सा होवाच संवत्सरतमीं रात्रिमागच्छतात्तन्म एकां रात्रिमन्ते शयितासे जात उ
तेऽयं तर्हि पुत्रो भवितेति स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि
ततो हैनमेकमूचुरेतत्प्रपद्यस्वेति तद्धास्मै तामुपप्रजिध्युः

११.५.१.[१२]

सा होवाच गन्धर्वा वै ते प्रातर्वरं दातारस्तं वृणासा इति तं वै मे त्वमेव
वृणीष्वेति युष्माकमेवैकोऽसानीति ब्रूतादिति तस्मै ह प्रातर्गन्धर्वा वरं ददुः
स होवाच युष्माकमेवैकोऽसानीति

११.५.१.[१३]

ते होचुः न वै सा मनुष्येष्वग्नेर्यज्ञिया तनूरस्ति ययेष्ट्वास्माकमेकः स्यादिति
तस्मै ह स्थाल्यामोप्याग्निं प्रददुरनेनेष्ट्वास्माकमेको भविष्यसीति तं च ह
कुमारं चादायावव्राज सोऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय
पुनरैमीत्येत्तिरोभूतं योऽग्निरश्वत्थं तं या स्थाली शमीं तां स ह
पुनर्गन्धर्वानेयाय

११.५.१.[१४]

ते होचुः संवत्सरं चातुष्प्राश्यमोदनं पच स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः
समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्याधत्तात्स
यस्ततोऽग्निर्जनिता स एव स भवितेति

११.५.१.[१५]

ते होचुः परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्व
शमीमयीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति

११.५.१.[१६]

ते होचुः परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्वाश्वत्थीमधरारणिं
स यस्ततोऽग्निर्जनिता स एव स भवितेति

११.५.१.[१७]

स आश्वत्थीमेवोत्तरारणिं चक्रे आश्वत्थीमधरारणिं स यस्ततोऽग्निर्जज्ञे स एव स
आस तेनेष्ट्वा गन्धर्वाणामेक आस तस्मादाश्वत्थीमेवोत्तरारणिं
कुर्वीताश्वत्थीमधरारणिं स यस्ततोऽग्निर्जायते स एव स भवति तेनेष्ट्वा
गन्धर्वाणामेको भवति
११.५.२.[१]

प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे स इममेव दक्षिणं बाहुं
वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं
सावित्रं

११.५.२.[२]

स वै वर्षिष्ठः पुरोडाशो भवति तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम्
पौष्णमथ य एष उपरिष्टाद्धस्तस्य संधिस्तन्मारुतमिदं वैश्वदेवं
दोर्द्यावापृथिवीयं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम्

११.५.२.[३]

अयमेव दक्षिण ऊरुर्वरुणप्रघासाः तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ
द्वौ कुल्फाविदं वारुणमिदं मारुतमनूकं कायस्तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तम्

११.५.२.[४]
मुखमेवास्यानीकवतीष्टिः मुखं हि प्राणानामनीकमुरः सांतपनीयोरसा हि
समिव तप्यत उदरं गृहमेधीया प्रतिष्ठा वा उदरं प्रतिष्ठित्या एव
शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ्प्राण आदित्येष्टिः

११.५.२.[५]

अयमेवोत्तर ऊरुर्महाहविः तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ
द्वौ कुल्फाविदं माहेन्द्रमिदं वैश्वकर्मणं तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तमथ यदिदमन्तरुदरे तत्पितृयज्ञस्तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तम्

११.५.२.[६]

अयमेवोत्तरो बाहुः शुनासीरीयम् तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयोऽथ य एष उपरिष्टाद्धस्तस्य संधिस्तच्छुनासीरीयमिदं वायव्यं दोः
सौर्यं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम्

११.५.२.[७]

तानि वा एतानि चातुर्मास्यानि त्रिषंधीनि द्विसमस्तानि तस्मादिमानि पुरुषस्याङ्गानि
त्रिषंधीनि द्विसमस्तानि तेषां वै चतुर्णां द्वयोस्त्रीणित्रीणि हवींष्यनिरुक्तानि
भवन्ति द्वेद्वे द्वयोः

११.५.२.[८]

तेषां वै चतुर्ष्वग्निं मन्थन्ति तस्माच्चतुर्भिरङ्गैरायुते द्वयोः प्रणयन्ति
तस्माद्द्वाभ्यामेत्येवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे तथो
एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते

११.५.२.[९]

तदाहुः स्वर्गायत्रं वैश्वदेवं हविः स्यात्सर्वत्रैष्टुभं वरुणप्रघासाः
सर्वजागतं महाहविः सर्वानुष्टुभं शुनासीरीयं चतुष्टोमस्याप्स्या इति तदु
तथा न कुर्याद्यत्त्वा एतान्यभिसम्पद्यन्ते तेनैवास्य स काम उपाप्तो भवति

११.५.२.[१०]

तानि वा एतानि चातुर्मास्यानि द्वाषष्टानि त्रीणि शतानि बृहत्यः सम्पद्यन्ते तदेभिः
संवत्सरं च महाव्रतं चाप्नोत्यथो द्विप्रतिष्ठो वा अयं यजमानो
यजमानमेवैतत्स्वर्गे लोक आयातयति प्रतिष्ठापयति
११.५.३.[१]

शौचेयो ह प्राचीनयोग्यः उद्दाल्ल्कमारुणिमाजगाम ब्रह्मोद्यमग्निहोत्रं
विविदिषामीति

११.५.३.[२]

स होवाच गौतम का तेऽग्निहोत्री को वत्सः किमुपसृष्टा किं संयोजनं किं
दुह्यमानं किं दुग्धं किमाह्रियमाणं किमधिश्रितं किमवज्योत्यमानं
किमद्भिः प्रत्यानीतं किमुद्वास्यमानं किमुद्वासितं किमुन्नीयमानं
किमुन्नीतं किमुद्यतं किं ह्रियमाणं किं निगृहीतम्

११.५.३.[३]

कां समिधमादधासि का पूर्वाहुतिः किमुपासीषदः किमपैक्षिष्ठाः कोत्तराहुतिः

११.५.३.[४]

किं हुत्वा प्रकम्पयसि किं स्रुचं परिमृज्य कूर्चे न्यमार्जीः किं द्वितीयम्
परिमृज्य दक्षिणतो हस्तमुपासीषदः किं पूर्वं प्राशीः किं द्वितीयं
किमुत्सृप्यापाः किं स्रुच्यप आनीय निरौक्षीः किं द्वितीयं किं तृतीयमेतां
दिशमुदौक्षीः किं जघनेनाहवनीयमपो न्यनैषीः किं समतिष्ठिपो यदि वा
एतद्विद्वानग्निहोत्रमहौषीरथ ते हुतं यद्यु वा अविद्वानहुतमेव त इति

११.५.३.[५]

स होवाच इडैव मे मानव्यग्निहोत्री वायव्यो वत्सः सजूरुपसृष्टा विराट्
संयोजनमाश्विनं दुह्यमानं वैश्वदेवं दुग्धं
वायव्यमाह्रियमाणमाग्नेयमधिश्रितमैन्द्राग्नमवज्योत्यम्नानं
वारुणमद्भिः प्रत्यानीतं वायव्यमुद्वास्यमानं
द्यावापृथिव्यमुद्वासितमाश्विनमुन्नीयमानं वैश्वदेवमुन्नीतम्
महादेवायोद्यतं वायव्यं ह्रियमाणं वैष्णवं निगृहीतम्

११.५.३.[६]

अथ यां समिधमादधामि आहुतीनां सा प्रतिष्ठा या पूर्वाहुतिर्देवांस्तयाप्रैषं
यदुपासीषदं बार्हस्पत्यं तद्यदपैक्षिषीमं चामुं च लोकौ तेन समधां
योत्तराहुतिर्मां तया स्वर्गे लोकेऽधाम्

११.५.३.[७]

अथ यद्धुत्वा प्रकम्पयामि वायव्यं तद्यत्स्रुचं परिमृज्य कूर्चे
न्यमार्जिषधिवनस्पतींस्तेनाप्रैषं यद्द्वितीयं परिमृज्य दक्षिणतो
हस्तमुपासीषदं पितॄंस्तेनाप्रैषं यत्पूर्वं प्राशिषं मां तेनाप्रैषं
यद्द्वितीयं प्रजां तेनाथ यदुत्सृप्यापां पशूंस्तेनाप्रैषं यत्स्रुच्यप आनीय
निरौक्षिषं सर्पदेवजनांस्तेनाप्रैषं यद्द्वितीयं गन्धर्वाप्सरसस्तेनाथ
यत्तृतीयमेतां दिशमुदौक्षिषं स्वर्गस्य लोकस्य तेन द्वारं व्यवारिषं
यज्जघनेनाहवनीयमपो न्यनैषमस्मै लोकाय तेन वृष्टिमदां
यत्समतिष्ठिपं यत्पृथिव्या ऊनं तत्तेनापूपुरमित्येतन्नौ भगवन्त्सहेति होवाच

११.५.३.[८]

शौचेयो ज्ञप्तः प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यस्मिन्काल उद्धृतास्तेऽग्नयः स्युरुपावहृतानि पात्राणि होष्यन्त्स्या अथ त
आहवनीयोऽनुगच्छेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा
चिरादस्य ज्येष्ठः पुत्रो म्रियेत यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति प्राण
उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच

११.५.३.[९]

शौचेयो ज्ञप्तः प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले गार्हपत्योऽनुगद्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्य गृहपतिर्म्रियेत यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरित्युदानः
प्राणमप्यगादित्याहवनीय आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच

११.५.३.[१०]

शौचेयो ज्ञप्तः प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव कालेऽन्वाहार्यपचनोऽनुगच्छेद्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्य सर्वे पशवो म्रियेरन्यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति व्यान
उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच

११.५.३.[११]

शौचेयो ज्ञप्तः प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले सर्वेऽग्नयोऽनुगच्छेयुर्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्यादायादं कुलं स्याद्यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निम्
मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयमुद्धृत्य वायव्यामाहुतिं
जुहुयां स विद्यां समृद्धं मेऽग्निहोत्रं सर्वदेवत्यं वायुं ह्येव सर्वाणि
भूतान्यपियन्ति वायोः पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ
भगवन्त्सहेति होवाच
११.५.३.[१२]

शौचेयो ज्ञप्तः प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले निवाते सर्वेऽग्नयोऽनुगच्छेयुर्वेत्थ तद्भयं यदत्र
जुह्वतो भवतीति वेदेति होवाचाप्रियमेवास्मिंलोके
पश्येताप्रियममुष्मिन्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं
विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निं मथित्वा प्राञ्चमाहवनीयमुद्धृत्य
जघनेनाहवनीयमुपविश्याहमेवैनत्पिबेयं स विद्यां समृद्धं मेऽग्निहोत्रं
सर्वदेवत्यं ब्राह्मणं ह्येव सर्वाणि भूतान्यपियन्ति ब्राह्मणात्पुनर्विसृज्यन्ते
सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्यथ वा अहमेतन्नावेदिषमिति होवाच

११.५.३.[१३]

शौचेयो ज्ञप्तः इमानि समित्काष्ठान्युपायानि भगवन्तमिति स होवाच यदेवं
नावक्ष्यो मूर्धा ते व्यपतिष्यदेह्युपेहीति तथेति तं होपनिन्ये तस्मै हैतां
शोकतरां व्याहृतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत्

११.५.४.[१]

ब्रह्मचर्यमागामित्याह ब्रह्मण एवैतदात्मानं निवेदयति
ब्रह्मचार्यसानीत्याह ब्रह्मण एवैतदात्मानं परिददात्यथैनमाह को
नामासीति प्रजापतिर्वै कः प्राजापत्यमेवैनं तत्कृत्वोपनयते

११.५.४.[२]

अथास्य हस्तं गृह्णाति इन्द्रस्य
ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासावित्येते वै श्रेष्ठे बलिष्ठे देवते
एताभ्यामेवैनं श्रेष्ठाभ्यां बलिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य
ब्रह्मचारी न कां चनार्तिमार्चति न स यएवं वेद

११.५.४.[३]

अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे
परिददामीत्येते वै श्रेष्ठे वर्षिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्यां
वर्षिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य ब्रह्मचारी न कां
चनार्तिमार्चति न स य एवं वेद

११.५.४.[४]

अद्भ्यस्त्वौषधीभ्यः परिददामीति तदेनमद्भ्यश्चौषधिभ्यश्च परिददाति
द्यावापृथिवीभ्यां त्वा परिददामीति तदेनमाभ्यां द्यावापृथिवीभ्यां परिददाति
ययोरिदं सर्वमधि विश्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति तदेनं
सर्वेभ्यो भूतेभ्यः परिददात्यरिष्ट्यै तथा हास्य ब्रह्मचारी न कां
चनार्तिमार्चति न स य एवं वेद
११.५.४.[५]

ब्रह्मचार्यसीत्याह ब्रह्मण एवैनं तत्परिददात्यपोऽशा नेत्यमृतं वा
आपोऽमृतमशानेत्येवैनं तदाह कर्म कुर्विति वीर्यं वै कर्म वीर्यं
कुर्वित्येवैनं तदाह समिधमाधेहीति समिन्त्स्वात्मानं तेजसा
ब्रह्मवर्चसेनेत्येवैनं तदाह मा शुषुप्था इति मा मृथा इत्येवैनं
तदाहापोऽशानेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह तदेनमुभयतोऽमृतेन
परिगृह्णाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्चति न स य एवं वेद

११.५.४.[६]

अथास्मै सावित्रीमन्वाह तां ह स्मैतां पुरा संवत्सरेऽन्वाहुः संवत्सरसम्मिता
वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति

११.५.४.[७]

अथ षट्सु मासेषु षड्वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः
प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति

११.५.४.[८]

अथ चतुर्विंशत्यहे चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरसम्मिता वै
गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति

११.५.४.[९]

अथ द्वादशाहे द्वादश वै मासाः संवत्सरस्य संवत्सरसम्

११.५.४.[१०]

अथ षडहे षद्वा ऋतवः संवत्सरस्य संवत्सरसं

११.५.४.[११]

अथ त्र्यहे त्रयो वा ऋतवः संवत्सरस्य संवत्सरसं

११.५.४.[१२]

तदपि श्लोकं गायन्ति आचार्यो गर्भी भवति हस्तमाधाय दक्षिणम् तृतीयस्यां स
जायते सावित्र्या सह ब्राह्मण इति सद्यो ह त्वाव ब्राह्मणायानुब्रूयादाग्नेयो वै
ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुब्रूयात्

११.५.४.[१३]

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वाग्वा अनुष्टुप्तदस्मिन्वाचं दध्म
इति न तथा कुर्याद्यो हैनं तत्र ब्रूयादा न्वा अयमस्य वाचमदित मूको
भविष्यतीतीश्वरो ह तथैव स्यात्तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूयात्

११.५.४.[१४]

अथ हैके दक्षिणतः तिष्ठते वासीनाय वान्वाहुर्न तथा कुर्याद्यो हैनं तत्र
ब्रूयाद्बुल्बं न्वा अयमिममजीजनत बुल्बो भविष्यतीतीश्वरो ह तथैव
स्यात्तस्मात्पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रूयात्

११.५.४.[१५]

तां वै पचोऽन्वाह त्रयो वै प्राणाः प्राण उदानो
व्यानस्तानेवास्मिंस्तद्दधात्यथार्धर्चशो द्वौ वा इमौ प्राणौ प्राणोदानावेव
प्राणोदानावेवास्मिंस्तद्दधात्यथ कृत्स्नामेको वा अयं प्राणः कृत्स्न एव
प्राणमेवास्मिंस्तत्कृत्स्नं दधाति

११.५.४.[१६]

तदाहुः न ब्रह्मणं ब्रह्मचर्यमुपनीय मिथुनं चरेद्गर्भो वा एष
भवति यो ब्रह्मचर्यमुपैति नेदिमं ब्रह्मणं विषिक्ताद्रेतसो जनयानीति

११.५.४.[१७]

तदु वा आहुः काममेव चरेद्द्वय्यो वा इमाः प्रजा दैव्यश्चैव मनुष्यश्च ता वा
इमा मनुष्यः प्रजाः प्रजननात्प्रजायन्ते छन्दांसि वै दैव्यः प्रजास्तानि मुखतो
जनयते तत एतं जनयते तस्मादु काममेव चरेत्

११.५.४.[१८]

तदाहुः न ब्रह्मचारी सन्मध्वश्नीयादोषधीनां वा एष परमो रसो यन्मधु
नेदन्नाद्यस्यान्तं गच्छानीत्यथ ह स्माह श्वेतकेतुरारुणेयो ब्रह्मचारी
सन्मध्वश्नंस्त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु स तु रसो
यस्येदृक्शिष्टमिति यथा ह वा ऋचं वा यजुर्वा साम वाभिव्याहरेत्तादृक्तद्य एवं
विद्वान्ब्रह्मचारी सन्मध्वश्नाति तस्मादु काममेवाश्नीयात्

११.५.५.[१]
देवान्वा ऊर्ध्वान्त्स्वर्गं लोकं यतः असुरास्तमसान्तरदधुस्ते होचुर्न वा
अस्यान्येन सत्त्रादपघातोऽस्ति हन्त सत्त्रमासामहा इति

११.५.५.[२]

ते शताग्निष्टोमं सत्त्रमुपेयुः ते यावदासीनः
परापश्येत्तावतस्तमोऽपाघ्नतैवमेव शतोक्थ्येन
यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाघ्नत

११.५.५.[३]

ते होचुः अप वाव तमो हन्महे न त्वेव सर्वमिव हन्त प्रजापतिं पितरम्
प्रत्ययामेति ते प्रजापतिं पितरं प्रतीत्योचुरसुरा वै नो भगव ऊर्ध्वान्त्स्वर्गं
लोकं यतस्तमसान्तरदधुः

११.५.५.[४]

ते शताग्निष्टोमं सत्त्रमुपैम ते यावदासीनः
परापश्येत्तावतस्तमोऽपाहन्मह्येवमेव शतोक्थ्येन
यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाहन्महि प्र नो भगवञ्चाधि
यथासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्याम इति

११.५.५.[५]

स होवाच असर्वक्रतुभ्यां वै यज्ञाभ्यामगन्त यदग्निष्टोमेन चोक्थ्येन च
शतातिरात्रं सत्त्रमुपेत तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य
स्वर्गं लोकं प्रज्ञास्यथेति

११.५.५.[६]

ते शतातिरात्रं सत्त्रमुपेयुः तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य
स्वर्गं लोकं प्रजज्ञुस्तेषामर्वाक्पञ्चाशेष्वेवाहःस्वहरभि रात्रिसामानि परीयू
रात्रिमभ्यहःसामानि

११.५.५.[७]

ते होचुः अमुहाम वै न प्रजानीमो हन्त प्रजापतिमेव पितरं प्रत्ययामेति ते
प्रजापतिमेव पितरं प्रतीत्योचुरहन्नो रात्रिसामानि रात्र्यामह्नो भवन्ति नः
विपश्चिद्यज्ञान्मुग्धान्विद्वान्धीरोऽनुशाधि न इति

११.५.५.[८]
तान्हैतदुपजगौ महाहिमिव वै ह्रदाद्बलीयानन्ववेत्]य अनुत्त
स्वादास्थानात्ततः सत्त्रं न तायत इति

११.५.५.[९]

आश्विनं वै वः शस्यमानम् प्रातरनुवाकमास्थानादनुत्त यमास्थानादनुद्ध्वं
धीराः सन्तो अधीरवत् प्रशास्त्रा तमुपेत शनैरप्रतिशंसतेति

११.५.५.[१०]

ते होचुः कथं नु भगवः शस्तं कथमप्रतिशस्तमिति स होवाच यत्र
होताश्विनं शंसन्नाग्नेयास्य क्रतोर्गायत्रस्य छन्दसः पारं गच्छात्तत्प्रतिप्रस्थाता
वसतीवरीः परिहृत्य मैत्रावरुणस्य हविर्धानयोः
प्रातरनुवाकमुपाकुरुतादुच्चैर्होता शंसति शनैरितरो जञ्जप्यमान इवान्वाह
तन्न वाचा वाचं प्रत्येति न च्छन्दसा छन्दः

११.५.५.[११]

परिहिते प्रातरनुवाके यथायतनमेवोपांश्वन्तर्यामौ हुत्वा द्रोणकलशे
पवित्रं प्रपीड्यं निदधाति तिरोऽह्नयैश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य
तिरोह्नयानेव भक्षयाध्वा अथानुपूर्वं यज्ञपुचं संस्थाप्य य ऊर्ध्वा
अन्तर्यामाद्ग्रहास्तान्गृहीत्वा विप्रुषां होमं हुत्वा संतनिं च बहिष्पवमानेन
स्तुत्वाहरेव प्रतिपद्याध्वा इति

११.५.५.[१२]

तदेतेऽभि श्लोकाः चतुर्भिः सैन्धवैर्युक्तैर्धीरा व्यजहुस्तमः विद्वांसो ये
शतक्रतु देवाः सत्त्रमतन्वतेति

११.५.५.[१३]

चत्वारो ह्यत्र युक्ता भवन्ति द्वौ होतारौ द्वावध्वर्यू पवेर्नु शक्वेव हनूनि
कल्पयन्नह्नोरन्तौ व्यतिषजन्त धीराः न दानवा यज्ञियं तन्तुमेषां विजानीमो
विततं मोहयन्ति नः पूर्वस्याह्नः परिषिंषन्ति कर्म
तदुत्तरेणाभिवितन्वतेऽह्ना दुर्विज्ञानं काव्यं देवतानां सोमाः सोमैर्व्यतिषक्ताः
प्लवन्ते समानान्त्सदमुक्षन्ति हयान्काष्ठभृतो यथा पूर्णान्परिस्रुतः
कुम्भान्जनमेजयसादन इत्यसुररक्षसान्यपेयुः

११.५.६.[१]

पञ्चैव महायज्ञाः तान्येव महासत्त्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो
देवयज्ञो ब्रह्मयज्ञ इति
११.५.६.[२]

अहरहर्भूतेभ्यो बलिं हरेत् तथैतं भूतयज्ञं
समाप्नोत्यहरहर्दद्यादोदपात्रात्तथैतं मनुष्ययज्ञं समाप्नोत्यहरहः
स्वधाकुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोत्यहरहः स्वाहाकुर्यादा
काष्ठात्तथैतं देवयज्ञं समाप्नोति

११.५.६.[३]

अथ ब्रह्मयज्ञः स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य
वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो
लोक उदयनं यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददंलोकं जयति
त्रिस्तावन्तं जयति भूयांसं चाक्षय्यं य एवं विद्वानहरहः स्वाध्यायमधीते
तस्मात्स्वाह्यायोऽध्येतव्यः

११.५.६.[४]

पयाअहुतयो ह वा एता देवानाम् यदृचः स य एवं विद्वानृचोऽहरहः
स्वाध्यायमधीते पयाअहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या
मधुकुल्याः पितॄ!न्त्स्वधा अभिवहन्ति

११.५.६.[५]

आज्याहुतयो ह वा एता देवानाम् यद्यजूंषि स य एवं विद्वान्यजूंष्यहरहः
स्वाध्यायमधीत आज्याहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रे

११.५.६.[६]

सोमाहुतयो ह वा एता देवानाम् यत्सामानि स य एवं विद्वान्त्सामान्यहरहः
स्वाध्यायमधीते सोमाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रे

११.५.६.[७]

मेदाअहुतयो ह वा एता देवानाम् यदथर्वाङ्गिरसः स य एवं
विद्वानथर्वाङ्गिरसोऽहरहः स्वाध्यायमधीते मेदाअहुतिभिरेव
तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे

११.५.६.[८]

मध्वाहुतयो ह वा एता देवानाम् यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं
गाथा नाराशंस्यः स य एवं विद्वाननुशासनानि विद्या वाकोवाक्यमितिहासपुराणं
गाथा नाराशंसीरित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव
तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे

११.५.६.[९]

तस्य वा एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्कारा यद्वातो वाति यद्विद्योतते
यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने
स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामच्छम्बट्कारायाति ह वै पुनर्मृत्युम्
मुच्यते गच्छति ब्रह्मणः सात्मतां स चेदपि प्रबलमिव न शक्नुयादप्येकं
देवपदमधीयीतैव तथा भूतेभ्यो न हीयते

११.५.७.[१]

अथातः स्वाध्यायप्रशंसा प्रिये स्वाध्यायप्रवचने भवतो युक्तमना
भवत्यपराधीनोऽहरहरर्थान्त्साधयते सुखं स्वपिति परमचिकित्सक आत्मनो
भवतीन्द्रियसंयमश्चैकारामता च प्रज्ञाऋद्धिर्यशो लोकपक्तिः प्रज्ञा
वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पादयति ब्राह्मण्यम्
प्रतिरूपचर्यां यशो लोकपक्तिं लोकः पच्यमानश्चतुर्भिर्धर्मैर्ब्राह्मणम्
भुनक्त्यर्चया च दानेन चाज्येयतया चावध्यतया च

११.५.७.[२]

ये ह वै के च श्रमाः इमे द्यावापृथिवी अन्तरेण स्वाध्यायो हैव तेषां परमता
काष्ठा य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः

११.५.७.[३]

यद्यद्ध वा अयं छन्दसः स्वाध्यायमधीते तेनतेन हैवास्य
यज्ञक्रतुनेष्टं भवति य एवं विद्वान्त्स्वाध्यायमधीते
तस्मात्स्वाध्यायोऽध्येतव्यः

११.५.७.[४]

यदि ह वा अप्यभ्यक्तः अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीत
आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते
तस्मात्स्वाध्यायोऽध्येतव्यः

११.५.७.[५]

मधु ह वा ऋचः घृतं ह सामान्यमृतं यजूंषि यद्ध वा अयं
वाकोवाक्यमधीते क्षीरौदनमांसौदनौ हैव तौ
११.५.७.[६]

मधुना ह वा एष देवांस्तर्पयति य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते त
एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः

११.५.७.[७]

घृतेन ह वा एष देवांस्तर्पयति य एवं विद्वान्त्सामान्यहरहः
स्वाध्यायमधीते त एनं तृप्ता

११.५.७.[८]

अमृतेन ह वा एष देवांस्तर्पयति य एवं विद्वान्यजूंष्यहरहः
स्वाध्यायमधीते त एनं तृप्ता

११.५.७.[९]

क्षीरौदनमांसौदनाभ्यां ह वा एष देवांस्तर्पयति य एवं
विद्वान्वाकोवाक्यमितिहासपुराणमित्यहरहः स्वाध्यायमधीते त एनं तृप्ता

११.५.७.[१०]

यन्ति वा आपः एत्यादित्य एति चन्द्रमा यन्ति नक्षत्राणि यथा ह वा एता देवता नेयुर्न
कुर्युरेवं हैव तदहर्ब्राह्मणो भवति यदहः स्वाध्यायं नाधीते
तस्मात्स्वाध्यायोऽध्येतव्यस्तस्मादप्यृचं वा यजुर्वा साम वा गाथां वा कुंव्यां
वाभिव्याहरेद्व्रतस्याव्यवच्छेदाय

११.५.८.[१]

प्रजापतिर्वा इदमग्र आसीत् एक एव सोऽकामयत स्यां प्रजायेयेति सोऽश्राम्यत्स
तपोऽतप्यत तस्माच्रान्तात्तेपानात्त्रयो लोका असृज्यन्त पृथिव्यन्तरिक्षं द्यौः

११.५.८.[२]

स इमांस्त्रींलोकानभितताप तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निर्योऽयम्
पवते सूर्यः

११.५.८.[३]

स इमानि त्रीणि ज्योतींष्यभितताप तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताग्नेर्ऋग्वेदो
वायोर्यजुर्वेदः सूर्यात्सामवेदः

११.५.८.[४]

स इमांस्त्रीन्वेदानभितताप तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त
भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्तदृग्वेदेनैव होत्रमकुर्वत
यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथं यदेव त्रय्यै विद्यायै शुक्रं तेन
ब्रह्मत्वमथोच्चक्राम

११.५.८.[५]

ते देवाः प्रजापतिमब्रुवन् यदि न ऋक्तो वा यजुष्टो वा सामतो वा यज्ञो
ह्वलेत्केनैनं भिषज्येमेति

११.५.८.[६]

स होवाच यद्यृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवथ यदि
यजुष्टो भुव इति चतुर्गृहीतमाज्यं गृहीत्वाग्नीध्रीये जुहवथान्वाहार्यपचने वा
हविर्यज्ञे यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाहवनीये जुहवथ यद्यु
अविज्ञातमसत्सर्वाण्यनुद्रुत्याहवनीये जुहवथ तदृग्वेदेनैवर्ग्वेदम्
भिषज्यति यजुर्वेदेन यजुर्वेदं सामवेदेन सामवेदं स यथा पर्वणा पर्व
संदध्यादेवं हैव स संदधाति य एताभिर्भिषज्यत्यथ यो हातोऽन्येन
भिषज्यति यथा शीर्णेन शीर्णं संधित्सेद्यथा वा शीर्णे गरमभिनिदध्यादेवं
तत्तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्

११.५.८.[७]

तदाहुः यदृचा होत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथोऽथ केन
ब्रह्मत्वमित्यनया त्रय्या विद्ययेति ह ब्रूयात्

११.५.९.[१]

प्रजापतिर्ह वा एष यदंशुः सोऽस्यैष आत्मैवात्मा ह्ययं प्रजापतिर्वागेवादाभ्यः
स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम्
प्रतिष्ठापयति

११.५.९.[२]

अथ मनो ह वा अंशुः वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः
श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै
११.५.९.[३]

अथ देवाश्च ह वा असुराश्च उभये प्राजापत्या अस्पर्धन्त त एतस्मिन्नेव यज्ञे
प्रजापतावस्पर्धन्तास्माकमयं स्यादस्माकमयं स्यादिति

११.५.९.[४]

ततो देवाः अर्चन्तः श्राम्यन्तश्चेरुस्त एतं ग्रहं ददृशुरेतमदाभ्यं
तमगृह्णत ते सवनानि प्रावृहन्त ते सर्वं यज्ञं
समवृञ्जतान्तरायन्नसुरान्यज्ञात्

११.५.९.[५]

ते होचुः अदभाम वा एनानिति तस्माददाभ्यो न वै नोऽदभन्निति तस्माददाभ्यो
वाग्वा अदाभ्यः सेयमदब्धा वाक्तस्माद्वेवादाभ्य एवं ह वै द्विषतो
भ्रातृव्यस्य सर्वं यज्ञं संवृङ्क्त एवं द्विषन्तं भ्रातृव्यं
सर्वस्माद्यज्ञान्निर्भजति बहिर्धा करोति य उ एवमेतद्वेद

११.५.९.[६]

स येनैव पात्रेणांशुं गृह्णाति तस्मिन्नेव पात्रे निग्राभ्याभ्योऽप आनीय
तस्मिन्नेतानंशून्गृह्णाति

११.५.९.[७]

उपयामगृहीतोऽसि अग्नये त्वा गायत्रच्छन्दसं गृह्णामीति गायत्रं प्रातःसवनं
तत्प्रातःसवनं प्रवृहतीन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामीति त्रैष्टुभम्
माध्यन्दिनं सवनं तन्माध्यन्दिनं सवनं प्रवृहति विश्वेभ्यस्त्वा देवेभ्यो
जगच्चन्दसं गृह्णामीति जागतं तृतीयसवनं तत्तृतीयसवनम्
प्रवृहत्यनुष्टुप्तेऽभिगर इति यद्वा ऊर्ध्वं सवनेभ्यस्तदानुष्टुभं
तदेवैतत्प्रवृहति तन्नाभिषुणोति वज्रो वै ग्रावा वागदाभ्यो नेद्वज्रेण वाचं
हिनसानीति

११.५.९.[८]

अंशूनेवाधूनोति व्रेशीनां त्वा पत्मन्नाधूनोमि कुकूननानां त्वा
पत्मन्नाधूनोमि भन्दनानां त्वा पत्मन्नाधूनोमि मदिन्तमानां त्वा
पत्मन्नाधूनोमि मधुन्तमानां त्वा पत्मन्नाधूनोमीत्येता वै
दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी
रसं दधाति

११.५.९.[९]

शुक्रं त्वा शुक्र आधूनोमीति शुक्रं ह्येतच्छुक्र आधूनोत्यह्नो रूपे सूर्यस्य
रश्मिष्विति तदह्नश्चैवैनमेतद्रूपे सूर्यस्य च रश्मिष्वाधूनोति

११.५.९.[१०]

ककुभं रूपं वृषभस्य रोचते बृहदिति एतद्वै ककुभं रूपं वृषभस्य
रोचते बृहद्य एष तपति शुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगा इति
तच्छुक्रमेवैतच्छुक्रस्य पुरोगां करोति सोमं सोमस्य पुरोगां यत्ते सोमादाभ्यं
नाम जागृवि तस्मै त्वा गृह्णामीत्येतद्ध वा अस्यादाभ्यं नाम जागृवि
यद्वाक्तद्वाचमेवैतद्वाचे गृह्णाति

११.५.९.[११]

अथोपनिष्क्रम्य जुहोति तस्मै ते सोम सोमाय स्वाहेति तत्सोममेवैतत्सोमाय
जुहोति तथो वाचमग्नौ न प्रवृणक्त्यथ हिरण्यमभिव्यनित्यसावेव
बन्धुस्तस्य तावतीरेव दक्षिणा यावतीरंशोः

११.५.९.[१२]

अथांशून्पुनरप्यर्जति उशिक्त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि वशी त्वं देव
सोमेन्द्रस्य प्रियं पाथोऽपीह्यस्मत्सखा त्वं देव सोम विश्वेषां देवानाम्
प्रियं पाथोऽपीहीति सवनानि वा अदः प्रवृहति
तान्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते

११.६.१.[१]

भृगुर्ह वै वारुणिः वरुणं पितरं विद्ययातिमेने तद्ध वरुणो विदां
चकारातिवै मा विद्यया मन्यत इति

११.६.१.[२]

स होवाच प्राङ्पुत्रक व्रजतात्तत्र यत्पश्येतद्दृष्ट्वा दक्षिणा व्रजतात्तत्र
यत्पश्येस्तद्दृष्ट्वा प्रत्यग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वोदग्व्रजतात्तत्र
यत्पश्येस्तद्दृष्ट्वैतयोः पूर्वयोरुत्तरमन्ववान्तरदेशं व्रजतात्तत्र
यत्पश्येस्तन्म आचक्षीथा इति

११.६.१.[३]

स ह तत एव प्राङ्प्रवव्राज एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत
भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषां संव्रश्चं पर्वशो व्यभक्षतेति ते
होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स
होवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काति पिता ते वेदेति
११.६.१.[४]

स ह तत एव दक्षिणा प्रवव्राज एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत
भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषां पर्वशः संकर्तं पर्वशो
व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह
प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काति पितैव ते वेदेति

११.६.१.[५]

स ह तत एव प्रत्यङ्प्रवव्राज एदु पुरुषैः
पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानान्त्स होवाच भीष्मं बत भोः
पुरुषान्न्वा एतत्पुरुषास्तूष्णीमासीनांस्तूष्णीमासीना अदन्तीति ते होचुरित्थं वा
इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह
प्रायश्चित्ती३ इत्यस्तीति काति पितैव ते वेदेति

११.६.१.[६]

स ह तत एवोदङ्प्रवव्राज एदु पुरुषैः पुरुषानाक्रन्दयत
आक्रन्दयद्भिरद्यमानान्त्स होवाच भीष्मं बत भोः पुरुषान्न्वा एतत्पुरुषा
आक्रन्दयत आक्रन्दयन्तोऽदन्तीति ते होचुरित्थं वा इमेऽस्मानमु

११.६.१.[७]

स ह तत एवैतयोः पूर्वयोः उत्तरमन्ववान्तरदेशं प्रवव्राजेदु स्त्रियौ
कल्याणीं चातिकल्याणीं च ते अन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिस्तस्थौ तं
हैनं दृष्ट्वा भीर्विवेद स हेत्य संविवेश तं ह पितोवाचाधीष्व स्वाध्यायं
कस्मान्नु स्वाध्यायं नाधीष इति स होवाच किमध्येष्ये न किं चनास्तीति तद्ध
वरुणो विदां चकाराद्राग्वा इति

११.६.१.[८]

स होवाच यान्वै तत्प्राच्यां दिश्यद्राक्षीः पुरुषैः पु रुषान्पर्वाण्येषां पर्वशः
संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति वनस्पतयो वै ते
अभूवन्त्स यद्वनस्पतीनां समिधमादधाति तेन वनस्पतीनवरुन्द्धे तेन
वनस्पतीनां लोकं जयति

११.६.१.[९]

अथ यानेततद्दक्षिणायां दिश्यद्राक्षीः पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति पशवो वै ते अभूवन्त्स
यत्पयसा जुहोति तेन पशूनवरुन्धे तेन पशूनां लोकं जयति
११.६.१.[१०]

अथ यानेतत्प्रतीच्यां दिश्यद्राक्षीः पुरुषैः
पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानानोषधयो वै ता अभूवन्त्स
यत्तृणेनावज्योतयति तेनौषधीरवरुन्द्धे तेनौषधीनां लोकं जयति

११.६.१.[११]

अथ यानेतदुदीच्यां दिश्यद्राक्षीः पुरुषैः पुरुषानाक्रन्दयत
आक्रन्दयद्भिरद्यमानानापो वै ता अभूवन्त्स यदपः प्रत्यानयति
तेनापोऽवरुन्द्धे तेनापां लोकं जयति

११.६.१.[१२]

अथ ये एते स्त्रियावद्राक्षीः कल्याणीं चातिकल्याणीं च सा या कल्याणी सा श्रद्धा स
यत्पूर्वामाहुतिं जुहोति तेन श्रद्धामवरुन्द्धे तेन श्रद्धां जयत्यथ
यातिकल्याणी साश्रद्धा स यदुत्तरामाहुतिं जुहोति तेनाश्रद्धामवरुन्द्धे
तेनाश्रद्धां जयति

११.६.१.[१३]

अथ य एने सोऽन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिरस्थात्क्रोधो वै
सोऽभूत्स यत्स्रुच्यप आनीय निनयति तेन क्रोधमवरुन्द्धे तेन क्रोधं जयति स
य एवं विद्वानग्निहोत्रं जुहोति तेन सर्वं जयति सर्वमवरुन्द्धे

११.६.२.[१]

जनको ह वै वैदेहो ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनारुणेयेन
सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथंकथमग्निहोत्रं
जुहुथेति

११.६.२.[२]

स होवाच श्वेतकेतुरारुणेयो घर्मावेव सम्राडहमजस्रौ यशसा
विष्यन्दमानावन्योऽन्यस्मिन्जुहोमीति कथं तदित्यादित्यो वै घर्मस्तं
सायमग्नौ जुहोम्यग्निर्वै घर्मस्तं प्रातरादित्ये जुहोमीति किं स भवति य
एवं जुहोत्यजस्र एव श्रिया यशसा भवत्येतयोश्च देवतयोः सायुज्यं सलोकतां
जयतीति

११.६.२.[३]

अथ होवाच सोमशुष्मः सात्ययज्ञिः तेज एव सम्राडहं तेजसि जुहोमीति कथं
तदित्यादित्यो वै तेजस्तं सायमग्नौ जुहोम्यग्निर्वै तेजस्तं प्रातरादित्ये जुहोमीति
किं स भवति य एवं जुहोतीति तेजस्वी यशस्व्यन्नादो भवत्येतयोश्चैव देवतयोः
सायुज्यं सलोकतां जयतीति

११.६.२.[४]

अथ होवाच याज्ञवल्क्यः यदहमग्निमुद्धराम्यग्निहोत्रमेव
तदुद्यच्छाम्यादित्यं वा अस्तं यन्तं सर्वे देवा अनुयन्ति ते म एतमग्निमुद्धृतं
दृष्ट्वोपावर्तन्तेऽथाहं पात्राणि निर्णिज्योपवाप्याग्निहोत्रीं दोहयित्वा
पश्यन्पश्यतस्तर्पयामीति त्वं नेदिष्ठं याज्ञवल्क्याग्निहोत्रस्यामीमांसिष्ठा
धेनुशतं ददामीति होवाच न त्वेवैनयोस्त्वमुत्क्रात्रिं न गतिं न प्रतिष्ठां न
तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनमित्युक्त्वा रथमास्थाय प्रधावयां
चकार

११.६.२.[५]

ते होचुः अति वै नोऽयं राजन्यबन्धुरवादीद्धन्तैनं ब्रह्मोद्यमाह्वयामहा
इति स होवाच याज्ञवल्क्यो ब्राह्मणा वै वयं स्मो राजन्यबन्धुरसौ यद्यमुं
वयं जयेम कमजैष्मेति ब्रूयामाथ
यद्यसावस्मान्जयेद्ब्राह्मणान्राजन्यबन्धुरजैषीदिति नो
ब्रूयुर्मेदमादृढ्वमिति तद्धास्य जज्ञुरथ ह याज्ञवल्क्यो
रथमास्तायानुप्रधावयां चकार तं हान्वाजगाम स होवाचाग्निहोत्रं याज्ञवल्क्य
वेदितू३ इत्यग्निहोत्रं सम्राडिति

११.६.२.[६]

ते वा एते आहुती हुते उत्क्रामतः ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं
कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत
उत्क्रामतः

११.६.२.[७]

ते दिवमाविशतः ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव
शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तेते

११.६.२.[८]

ते इमामाविशतः ते इमामेवाहवनीयं कुर्वाते अग्निं समिधमोषधीरेव
शुक्रामाहुतिं ते इमां तर्पयतस्ते तत उत्क्रामतः

११.६.२.[९]

ते पुरुषमाविशतः तस्य मुखमेवाहवनीयं कुर्वाते जिह्वां
समिधमन्नमेव शुक्रामाहुतिं ते पुरुषं तर्पयतः स य एवं
विद्वानश्नात्यग्निहोत्रमेवास्य हुतं भवति ते तत उत्क्रामतः

११.६.२.[१०]

ते स्त्रियमाविशतः तस्या उपस्थमेवाहवनीयं कुर्वाते धारकां समिधं धारका
ह वै नामैषैतया ह वै प्रजापतिः प्रजा धारयां चकार रेत एव शुक्रामाहुतिं
ते स्त्रियं तर्पयतः स य एवं विद्वान्मिथुनमुपैत्यग्निहोत्रमेवास्य हुतम्
भवति यस्ततः पुत्रो जायते स लोकः प्रत्युत्थाय्येतदग्निहोत्रं याज्ञवल्क्य नातः
परमस्तीति होवाच तस्मै ह याज्ञवल्क्यो वरं ददौ स होवाच कामप्रश्न एव मे
त्वयि याज्ञवल्क्यासदिति ततो ब्रह्मा जनक आस

११.६.३.[१]

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे स ह गवां
सहस्रमवरुन्धन्नुवाचैता वो ब्राह्मणा यो ब्रह्मिष्ठः स उदजतामिति

११.६.३.[२]

स होवाच याज्ञवल्क्यो ऽर्वाचीरेता इति ते होचुस्त्वं स्विन्नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३
इति स होवाच नमोऽस्तु ब्रह्मिष्ठाय गोकामा एव वयं स्म इति

११.६.३.[३]

ते होचुः को न इमं प्रक्ष्यतीति स होवाच विदग्धः शाकल्योऽहमिति तं ह
प्रतिख्यायोवाच त्वां स्विच्छाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३ ति

११.६.३.[४]

स होवाच कति देवा याज्ञवल्क्येति त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति
होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा
याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच
कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक
इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति

११.६.३.[५]

स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते
त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव
प्रजापतिश्च त्रयस्त्र्ंशाविति
११.६.३.[६]

कतमे वसव इति अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च
चन्द्रमाश्च नक्षत्राणि चैते वसव एते हीदं सर्वं वासयन्ते ते यदिदं सर्वं
वासयन्ते तस्माद्वसव इति

११.६.३.[७]

कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते
यदास्मान्मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति

११.६.३.[८]

कतम आदित्या इति द्वादश मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना
यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति

११.६.३.[९]

कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतम
स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति

११.६.३.[१०]

कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ
द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति कतम
एको देव इति प्राण इति

११.६.३.[११]

स होवाच अनतिप्रश्न्यां मा देवतामत्यप्राक्षीः पुरेतिथ्यै मरिष्यसि न तेऽस्थीनि
चन गृहान्प्राप्स्यन्तीति स ह तथैव ममार तस्य हाप्यन्यन्मन्यमानाः
परिमोषिणोऽस्थीन्यपजह्रुस्तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवति

११.७.१.[१]

पशुबन्धेन यजते पशवो वै पशुबन्धः स यत्पशुबन्धेन यजते
पशुमानसानीति तेन गृहेषु यजेत गृहेषु पशून्बध्ना इति तेन सुयवसे यजेत
सुयवसे पशून्बध्ना इति जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयोऽग्नीन्जीर्यतोऽनु
यजमानो यजमानमनु गृहाश्च पशवश्च

११.७.१.[२]
स यत्पशुबन्धेन यजते अग्नीनेवैतत्पुनर्णवान्कुरुतेऽग्नीनां पुनर्णवतामनु
यजमानमनु गृहाश्च पशवश्चायुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति
मांसीयन्ति ह वै जुह्वतो यजमानस्याग्नयस्ते यजमानमेव ध्यायन्ति यजमानं
संकल्पयन्ति पचन्ति वा अन्येष्वग्निषु वृथामांसमथैतेषां नातोऽन्या मांसाशा
विद्यते यस्यो चैते भवन्ति

११.७.१.[३]

स यत्पशुबन्धेन यजते आत्मानमेवैतन्निष्क्रीणीते वीरेण वीरं वीरो हि
पशुर्वीरो यजमान एतदु ह वै परमन्नाद्यं यन्मांसं स
परमस्यैवान्नाद्यस्यात्ता भवति तं वै संवत्सरो नानीजनमतीयादायुर्वै
संवत्सर आयुरेवैतदमृतमात्मन्धत्ते

११.७.२.[१]

हविर्यज्ञविधो ह वा अन्यः पशुबन्धः सवविधोऽन्यः स हैष हविर्यज्ञविधो
यस्मिन्व्रतमुपनयति यस्मिन्नपः प्रणयति यस्मिन्पूर्णपात्रं निनयति
यस्मिन्विष्णुक्रमान्क्रमयत्यथ हैष सवविधो यस्मिन्नेतानि न क्रियन्ते

११.७.२.[२]

तदाहुः इष्टिः पशुबन्धा३ महायज्ञा३ इति महायज्ञ इति ह ब्रूयादिष्टिं वै तर्हि
पशुबन्धमकर्व्येनमकृक्षथा इत्येनं ब्रूयात्

११.७.२.[३]

तस्य प्रयाजा एव प्रातःसवनम् अनुयाजास्तृतीयसवनं पुरोडाश एव माध्यन्दिनं
सवनम्

११.७.२.[४]

तद्धैके वपायां हुतायां दक्षिणा नयन्ति तदु तथा न कुर्याद्यो हैनं तत्र
ब्रूयाद्बहिर्धा न्वा अयं प्राणेभ्यो दक्षिणा अनैषीन्न प्राणानददक्षदन्धो वा
स्रामो वा बधिरो वा पक्षहतो वा भविष्यतीतीश्वरो ह तथैव स्यात्

११.७.२.[५]

इत्थमेव कुर्यात् पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेदैन्द्रो वा अयम्
मध्यतः प्राण इममेवैतदैन्द्रं मध्यतः प्राणं
दक्षिणाभिर्दक्षयत्यैन्द्रं वै माध्यन्दिनं सवनं माध्यन्दिने वै सवने
दक्षिणा नीयन्ते तस्मात्पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत्
११.७.२.[६]

तदाहुः अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमदिदीक्ष
इत्यावभृथादनूद्दृंहेयुरध्वर्युश्च प्रतिप्रस्थाता च होता च मैत्रावरुणश्च
ब्रह्मा चाग्नीध्रश्चैतैर्वा एष षड्ढोता तमनुद्रुत्य षड्ढोतारं
जुहोत्येकामाहुतिं कृत्वा पञ्च वाज्या द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञम्
पृथिवीं शरीरैः वाचस्पतेऽच्छिद्रया वाचाच्छिद्रया जुह्वा दिवि देवावृधं
होत्रामैरयत्स्वाहेति सैव दीक्षा

११.७.२.[७]

तदाहुः अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते
क्वैनमवभृथमवनेष्यसीति स यद्धृदयशूलेन चरन्ति स हैवैतस्यावभृथः

११.७.२.[८]

मधुको ह स्माह पैङ्ग्यः विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके
दिवि वै सोम आसीत्तं गायत्री वयो भूत्वाहरत्तस्य यत्पर्णमच्छिद्यत तत्पर्णस्य
पर्णत्वमिति न्वा एतद्ब्राह्मणमुद्यते विसोमेन वा एके पशुबन्धेन यजन्ते
ससोमेनैके स हैष विसोमेन पशुबन्धेन यजते योऽन्यं पालाशाद्यूपं
कुरुतेऽथ हैष ससोमेन पशुबन्धेन यजते यः पालाशं यूपं कुरुते
तस्मात्पालाशमेव यूपं कुर्वीत

११.७.३.[१]

स य एष बहुसारः स हापशव्यस्तस्मात्तादृशं पशुकामो यूपं न कुर्वीताथ य
एष फल्गुप्रासहः स ह पशव्यस्तस्मात्तादृशं पशुकामो यूपं कुर्वीत

११.७.३.[२]

अथ यस्यैतद्वक्रस्य सतः शूलैवाग्रं भवति स ह कपोती नाम स यो ह
तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न
कुर्वीत

११.७.३.[३]

अथ य एष आनतः उपरिष्टादपनतो मध्ये सोऽशनायै रूपं स यो ह तादृशं
यूपं कुरुतेऽशनायुका हास्य भार्या भवन्ति तस्मात्तादृशमन्नाद्यकामो यूपं न
कुर्वीताथ य एष आनत उपरिष्टादुपनतो मध्ये सोऽन्नाद्यस्य रूपं
तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत

११.७.४.[१]

स यत्पशुना यक्ष्यमाणः एकारत्निं यूपं कुरुत इममेव तेन लोकं जयत्यथ
यद्द्व्यरत्निमन्तरिक्षलोकमेव तेन जयत्यथ यत्त्र्यरत्निं दिवमेव तेन
जयत्यथ यच्चतुरर्त्निं दिश एव तेन जयति स वा एष त्र्यरत्निर्वैव चतुररत्निर्वा
पशुबन्धयूपो भवत्यथ योऽत ऊर्ध्वः सौम्यस्यैव सोऽध्वरस्य

११.७.४.[२]

तदाहुः यजेदाज्यभागौ ना३ इति यजेदित्याहुश्चक्षुषी वा एते यज्ञस्य यदाज्यभागौ
किमृते पुरुषश्चक्षुर्भ्यां स्यादिति यावद्वै भागिनं स्वेन भागधेयेन न
निर्भजन्त्यनिर्भक्तो वै स तावन्मन्यतेऽथ यदैव तं स्वेन भागधेयेन
निर्भजन्त्यथैव स निर्भक्तो मन्यते स यत्रैतद्धोतान्वाहास्ना रक्षः
संसृजतादिति तदेनं स्वेन भागधेयेन निर्भजति

११.७.४.[३]

एतद्वै पशोः संज्ञप्यमानस्य हृदयं शुक्षमवैति हृदयाचूलं तद्ये सह
हृदयेन पशुं श्रपयन्ति पुनः पशुं शुगनुविष्पन्देत पार्श्वत एवैनत्काष्ठे
प्रतृद्य श्रपयेत्

११.७.४.[४]

उपस्तृणीत आज्यम् तत्पृथिव्यै रूपं करोति हिरण्यशकलमवदधाति तदग्ने रूपं
करोति वपामवदधाति तदन्तरिक्षस्य रूपं करोति हिरण्यशकलमवदधाति
तदादित्यस्य रूपं करोत्यथ यदुपरिष्टादभिघारयति तद्दिवो रूपं करोति सा वा
एषा पञ्चावत्ता वपा भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य
तस्मात्पञ्चावत्ता वपा भवति

११.८.१.[१]

तद्यथा ह वै इदं रथचक्रं वा कौलालचक्रं वाप्रतिष्ठितं क्रन्देदेवं
हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः

११.८.१.[२]

स ह प्रजापतिरीक्षां चक्रे कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स
एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं
जीमूतैश्च नक्षत्रैश्च दिवम्

११.८.१.[३]

स मह इति व्याहरत् पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति
भूयिष्ठमस्य कुले महीयन्ते बहवो ह वा अस्यैते भवन्ति भूयिष्ठं हास्य
कुले महीयन्ते तस्माद्यद्येनमायतनाद्बाधेरन्वा प्र वा यापयेयुरग्निहोत्रं
हुत्वा मह इत्युपतिष्ठेत प्रति प्रजया पशुभिस्तिष्ठति नायतनाच्च्यवते

११.८.२.[१]

चत्वारो ह वा अग्नयः आहित उद्धृतः प्रहृतो विहृतोऽयमेव लोक आहितोऽन्तरिक्षलोक
उद्धृतो द्यौष्प्रहृतो दिशो विहृतोऽग्निरेवाहितो वायुरुद्धृत आदित्यः
प्रहृतश्चन्द्रमा विहृतो गार्हपत्य एवाहित आहवनीय उद्धृतोऽथ
यमेतमाहवनीयात्प्राञ्चं प्रणयन्ति स प्रहृतोऽथ यमेतमुदञ्चम्
पशुश्रपणायाहरन्ति यं चोपयङ्भ्यः स विहृतस्तस्मात्प्रहार्येऽग्नौ पशुबन्धेन
यजेत

११.८.३.[१]

तदाहुः किंदेवत्य एष पशुः स्यादिति प्राजापत्यः स्यादित्याहुः प्रजापतिर्वा
एतमग्रेऽभ्यपश्यत्तस्मात्प्राजापत्य एवैष पशुः स्यादिति

११.८.३.[२]

अथो अप्याहुः सौर्य एवैष पशुः स्यादिति तस्मादेतस्मिन्नस्तमिते पशवो बध्यन्ते
बध्नन्त्येकान्यथागोष्ठमेक उपसमायन्ति तस्मात्सौर्य एवैष पशुः स्यादिति

११.८.३.[३]

अथो अप्याहुः ऐन्द्राग्न एवैष पशुः स्यादित्येते वै देवते अन्वन्त्ये देवा यद्यार्तो
यजते पारयत एव यदि महसायजते पारयत एव तस्मादैन्द्राग्न एवैष पशुः
स्यादिति

११.८.३.[४]

प्राण एव पशुबन्धः तस्माद्यावज्जीवति नास्यान्यः पशूनामीष्टे बद्धा
ह्यास्मिन्नेते भवन्ति

११.८.३.[५]

स ह प्रजापतिरग्निमुवाच यजै त्वया त्वा लभा इति नेति होवाच वायुं ब्रूहीति स ह
वायुमुवाच यजै त्वया त्वा लभा इति नेति होवाच पुरुषं ब्रूहीति स ह
पुरुषमुवाच यजै त्वया त्वा लभा इति नेति होवाच पशून्ब्रूहीति स ह पशूनुवाच
यजै युष्माभिरा वो लभा इति नेति होचुश्चन्द्रमसं ब्रूहीति स ह
चन्द्रमसमुवाच यजै त्वया त्वा लभा इति नेति होवाचादित्यं ब्रूहीति स
हादित्यमुवाच यजै त्वया त्वा लभा इति तथेति होवाच य उ त एते नाचीकमन्त किमु
म एतेषु स्यादिति यद्यत्कामयेथा इति तथेति तमालभत सोऽस्यायं पशुरालब्धः
संज्ञप्तोऽश्वयत्तमेताभिराप्रीभिराप्रीणात्तद्यदेनमेताभिराप्रीभिराप्रीणात्तस्मादाप्
रियो नाम तस्मादु पशुं संज्ञप्तं ब्रूयाचेतां नु मुहूर्तमिति स
यावन्तमश्वमेधेनेष्ट्वा लोकं जयति तावन्तमेतेन जयति

११.८.३.[६]

तं प्राची दिक् प्राणेत्यनुप्राणत्प्राणमेवास्मिंस्तददधात्तं दक्षिणा
दिग्व्यानेत्यनुप्राणद्व्यानमेवास्मिंस्तददधात्तं प्रतीची
दिगपानेत्यनुप्राणदपानमेवास्मिंस्तददधात्तमुदीची
दिगुदानेत्यनुप्राणदुदानमेवास्मिंस्तददधात्तमूर्ध्वा
दिक्षमानेत्यनुप्राणत्समानमेवास्मिंस्तददधात्तस्मादु पुत्रं
जातमकृत्तनाभिं पञ्च ब्राह्मणान्ब्रूयादित्येनमनुप्राणितेति यद्यु तान्न
विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यात्स सर्वमायुरेत्या हैव जरायै जीवति

११.८.३.[७]

स प्राणमेवाग्नेरादत्त तस्मादेष नानुपध्मातो नानुपज्वलितो ज्वलत्यात्तो ह्यस्य
प्राण आ ह वै द्विषतो भ्रातृव्यस्य प्राणं दत्ते य एवं वेद

११.८.३.[८]

रूपमेव वायोरादत्त तस्मादेतस्य लेलयत इवैवोपशृण्वन्ति न त्वेनम्
पश्यन्त्यात्तं ह्यस्य रूपमा ह वै द्विषतो भ्रातृव्यस्य रूपं दत्ते य एवं वेद

११.८.३.[९]

चित्तमेव पुरुषस्यादत्त तस्मादाहुर्देवचित्तं त्वावतु मा मनुष्यचित्तमित्यात्तं
ह्यस्य चित्तमा ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते य एवं वेद

११.८.३.[१०]

चक्षुरेव पशूनामादत्त तस्मादेते चाकश्यमाना इवैव न जानन्त्यथ
यदैवोपजिघ्रन्त्यथ जानन्त्यात्तं ह्येषां चक्षुरा ह वै द्विषतो भ्रातृव्यस्य
चक्षुर्तत्ते य एवं वेद

११.८.३.[११]

भामेव चन्द्रमस आदत्त तस्मादेतयोः सदृशयोः सतोर्नतरां चन्द्रमा
भात्यात्ता ह्यस्य भा आ ह वै द्विषतो भ्रातृव्यस्य भां दत्ते य एवं वेद
तद्यदादत्त तस्मादादित्यः

११.८.४.[१]
केशिगृहपतीनामु ह सम्राड्दुघां शार्दूलो जघान स ह ससत्त्रिण आमन्त्रयां
चक्रे केह प्रायश्चित्तिरिति ते होचुर्नेह प्रायश्चित्तिरस्ति खण्डिक एवौद्भारिरस्य
प्रायश्चित्तिं वेद स उ त एतादृक्चैव कामयतेऽतश्च पापीय इति

११.८.४.[२]

स होवाच संग्रहीतर्युङ्ग्धि मे स्यन्त्स्यामि स यद्यह मे वक्ष्यति समाप्स्यामि
यद्यु मा मारयिष्यति यज्ञं विकृष्टमनु विक्रक्ष्य इति

११.८.४.[३]

स ह युक्त्वा ययावाजगाम तं ह प्रतिख्यायोवाच यन्न्वेतान्येवाजिनानि मृगेषु
भवन्त्यथैषां पृष्टीरपिशीर्य पचामहे कृष्णाजिनं मे ग्रीवास्वाबद्धमित्येव
मेदमधृषोऽभ्यवस्यन्त्तू३ मिति

११.८.४.[४]

नेति होवाच सम्राड्दुघां वै मे भगवः शार्दूलोऽवधीत्स यद्यह मे वक्ष्यसि
समाप्स्यामि यद्यु मा मारयिष्यसि यज्ञं विकृष्टमनु विक्रक्ष्य इति

११.८.४.[५]

स होवाच आमन्त्रणीयान्न्वामन्त्रया इति तान्हामन्त्र्योवाच यद्यस्मै
वक्ष्याम्यमुष्यैवेदं प्रजा भविष्यति न मम लोकी त्वहं भविष्यामि यद्यु
वा अस्मै न वक्ष्यामि ममैवेदं प्रजा भविष्यति नामुष्य लोकी त्वसौ
भविष्यतीति ते होचुर्मा भगवो वोचोऽयं वाव क्षत्रियस्य लोक इति स होवाच
वक्ष्याम्येवामूर्वै रात्रयो भूयस्य इति
११.८.४.[६]

तस्मा उ हैतदुवाच स्पृतीर्हुत्वान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति
चन्द्रात्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान्त्स्पृणोमि
स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते
शरीरं स्पृणोमि स्वाहेत्यथान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति ततो हैव स
उत्ससाद कैशिनीरेवेमा अप्येतर्हि प्रजा जायन्ते
<blockquote><span style="font-size: 21px;">अथ मध्यमसौत्रामण्युभयनामकं द्वादशं काण्डम्</span>

<span style="font-size: 21px;"><strong>गवामयनब्राह्मणम्</strong></span></blockquote>
अयं वै यज्ञो योऽयं पवते। तमेत ईप्सन्ति, संवत्सराय दीक्षन्ते। तेषां गृहपतिः प्रथमो दीक्षते। अयं वै लोको गृहपतिः। अस्मिन् वै लोक इदं सर्वं प्रतिष्ठितम्। गृहपता उ वै ससत्रिणः प्रतिष्ठिताः प्रतिष्ठायामेवैतत् प्रतिष्ठाय दीक्षन्ते। - १२.१.१.१
अथ ब्रह्माणं दीक्षयत। चन्द्रमा वै ब्रह्मा। सोमो वै चन्द्रमाः। सौम्या ओषधयः। ओषधीस्तदनेन लोकेन संदधाति। तस्मादेतावंतरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। ओषधीस्तदनेन लोकेन नाना कुर्यात्। उच्छोषुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत॥२॥
अथोद्गातारं दीक्षयति। पर्जन्यो वा उद्गाता। पर्जन्यादु वै वृष्टिर्जायते। वृष्टिं तदोषधिभिः संदधाति। तस्मादेतावंतरेणान्यो न दीक्षेत। स यद्धैतावंतरेणान्यो दीक्षेत। वृष्टिं तदोषधिभिर्नाना कुर्यात्। अवर्षुको ह स्यात्। तस्मादेतावंतरेणान्यो न दीक्षेत॥३॥
अथ होतारं दीक्षयति। अग्निर्वै होताऽधिदेवतम्। वागध्यात्मम्। अन्नं वृष्टिः। अग्निं च तद्वाचं चान्नेन सन्दधाति। तस्मादेतावन्तरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। अग्निं च तद्वाचं चान्नेन नाना कुर्यात्। अशनायुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत। एतांश्चतुरोऽध्वर्युर्दीक्षयति॥४॥
अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति। मनो वा अध्वर्युः। वाग् होता। मनश्च तद्वाचं च सन्दधाति। तस्मादेतावन्तरेणान्यो न दीक्षेत। स यद्धैतावन्तरेणान्यो दीक्षेत। मनश्च तद्वाचं च नाना कुर्यात्। प्रमायुका ह स्युः। तस्मादेतावन्तरेणान्यो न दीक्षेत॥५॥
अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति। तं हि सोऽनु। अथोद्गात्रे प्रस्तोतारं दीक्षयति। तं हि सोऽनु। अथ होत्रे मैत्रावरुणं दीक्षयति। तं हि सोऽनु। एतांश्चतुरः प्रतिप्रस्थाता दीक्षयति॥६॥
अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति। तं हि सोऽनु। एतेषां वै नवानां क्लृप्तिमन्वितरे कल्पन्ते। नव वै प्राणाः। प्राणानेवैष्वेतद्दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात् प्रयंति॥७॥
अथ ब्रह्मणे पोतारं दीक्षयति। तं हि सोऽनु। अथोद्गात्रे प्रतिहर्तारं दीक्षयति। तं हि सोऽनु। अथ होत्रेऽच्छावाकं दीक्षयति। तं हि सोऽनु। एतांश्चतुरो नेष्टा दीक्षयति॥८॥
अथाध्वर्यवे नेष्टारमुन्नेता दीक्षयति। तं हि सोऽनु। अथ ब्रह्मण आग्नीध्रं दीक्षयति। तं हि ऽनु। अथोद्गात्रे सुब्रह्मण्यां दीक्षयति। तं हि सोऽनु। अथ होत्रे ग्रावस्तुतं दीक्षयति। तं हि सोऽनु। एतांश्चतुर उन्नेता दीक्षयति॥९॥
अथोन्नेतारं स्नातको वा ब्रह्मचारी वाऽन्यो वा दीक्षितो दीक्षयति। न पूतः पावयेत् इति ह्याहुः। सैषाऽनुपूर्वदीक्षा। स यत्र हैवं विद्वांसो दीक्षन्ते। दीक्षमाणा हैव ते यज्ञं कल्पयन्ति। यज्ञस्य क्लृप्तिमनु सत्रिणां योगक्षेमः कल्पते। सत्रिणां योगक्षेमस्य क्लृप्तिमन्वपि तस्यार्द्धस्य योगक्षेमः कल्पते। यस्मिन्नर्द्धे यजन्ते॥१०॥
तेषां वा उन्नेतोत्तमो दीक्षते। प्रथमोऽवभृथादुदायतामुदैति। प्राणो वा उन्नेता। प्राणमेवैष्वेतदुभयतो दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात्प्रयन्ति। सैषाऽनुपूर्वदीक्षा। स यत्र हैवं विद्वांसो दीक्षेरन्। तदेव दीक्षेत॥११॥
१२.१.२
श्रद्धाया वै देवा दीक्षां निरमिमत। अदित्यै प्रायणीयम्। सोमात् क्रयम्। विष्णोरातिथ्यम्। आदित्यात्प्रवर्ग्यम्। स्वधाया उपसदः। अग्नीषोमाभ्यामुपवसथम्। अस्माल्लोकात् प्रायणीयमतिरात्रम्॥१॥
संवत्सरात् चतुर्विंशमहः। ब्रह्मणोऽभिप्लवम्। क्षत्त्रात् पृष्ठ्यम्। अग्नेरभिजितम्। अद्भ्यः स्वरसाम्नः। आदित्याद्विषुवंतम्। उक्ताः स्वरसामानः। इंद्राद्विश्वजितम्। उक्तौ पृष्ठ्याभिप्लवौ। मित्रावरुणाभ्यां गोआयुषी। विश्वेभ्यो देवेभ्यो दशरात्रम्। दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्। एभ्यो लोकेभ्यश्छन्दोमान्॥२॥
संवत्सराद्दशममहः। प्रजापतेर्महाव्रतम्। स्वर्गाल्लोकादुदयनीयमतिरात्रम्। तदेतत्संवत्सरस्य जन्म। स यो हैवमेतत्संवत्सरस्य जन्म वेद। आ हास्माच्छ्रेयान् जायते। सात्मा भवति। संवत्सरो भवति। संवत्सरो भूत्वा देवानप्येति॥३॥
१२.१.३
देवविद्याब्राह्मणम्
यद्वै दीक्षन्ते। अग्नाविष्णू एव देवते यजन्ते। अग्नाविष्णू देवते भवन्ति। अग्नाविष्ण्वोः सायुज्यं सलोकतां जयन्ति॥१॥
अथ यत् प्रायणीयेन यजन्ते। अदितिमेव देवतां यजन्ते। अदितिर्देवता भवन्ति। अदितेः सायुज्यं सलोकतां जयन्ति॥२॥
अथ यत् क्रयेण चरन्ति। सोममेव देवतां यजन्ते। सोमो देवता भवन्ति। सोमस्य सायुज्यं सलोकतां जयन्ति॥३॥
अथ यदातिथ्येन यजन्ते। विष्णुमेव देवतां यजन्ते। विष्णुर्देवता भवन्ति। विष्णोः सायुज्यं सलोकतां जयन्ति॥४॥
अथ यत्प्रवर्ग्येण यजन्ते। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति॥५॥
अथ यदुपसद उपयन्ति। एता एव देवता यजन्ते। या एता उपसत्सु। एता देवता भवन्ति। एतासां देवतानां सायुज्यं सलोकतां जयन्ति॥६॥
अथ यदग्नीषोमीयेण पशुना यजन्ते। अग्नीषोमावेव देवते यजन्ते। अग्नीषोमौ देवते भवन्ति। अग्नीषोमयोः सायुज्यं सलोकतां जयन्ति॥७॥
अथ यत् प्रायणीयमतिरात्रमुपयन्ति। अहोरात्रे एव देवते यजन्ते। अहोरात्रे देवते भवन्ति। अहोरात्रयोः सायुज्यं सलोकतां जयन्ति॥८॥
अथ यच्चतुर्विंशमहरुपयन्ति। संवत्सरमेव देवतां यजन्ते। संवत्सरो देवता भवन्ति। संवत्सरस्य सायुज्यं सलोकतां जयन्ति॥९॥
अथ यदभिप्लवं षडहमुपयन्ति। अर्द्धमासांश्च मासांश्च देवते यजन्ते। अर्द्धमासाश्च मासाश्च देवता भवन्ति। अर्द्धमासानां च मासानां च सायुज्यं सलोकतां जयन्ति॥१०॥
अथ यत्पृष्ठ्यं षडहमुपयन्ति। ऋतूनेव देवता यजन्ते। अग्निर्देवता भवन्ति। अग्नेः सायुज्यं सलोकतां जयन्ति॥११॥
अथ यदभिजितमुपयन्ति। अग्निमेव देवतां यजन्ते। अग्निर्देवता भवन्ति। अग्नेः सायुज्यं सलोकतां जयन्ति॥१२॥
अथ यत् स्वरसाम्न उपयन्ति। अप एव देवता यजन्ते। आपो देवता भवन्ति। अपां सायुज्यं सलोकतां जयन्ति॥१३॥
अथ यद्विषुवन्तमुपयन्ति। आदित्यमेव देवतां यजन्ते। आदित्यो देवता भवन्ति। आदित्यस्य सायुज्यं सलोकतां जयन्ति। उक्ताः स्वरसामानः॥१४॥
अथ यद्विश्वजितमुपयन्ति। इन्द्रमेव देवतां यजन्ते। इन्द्रो देवता भवन्ति। इन्द्रस्य सायुज्यं सलोकतां जयन्ति। उक्तौ पृष्ठ्याभिप्लवौ॥१५॥
अथ यत् गोआयुषी उपयन्ति। मित्रावरुणावेव देवते यजन्ते। मित्रावरुणौ देवते भवन्ति। मित्रावरुणयोः सायुज्यं सलोकतां जयन्ति॥१६॥
अथ यद्दशरात्रमुपयन्ति। विश्वानेव देवान् देवता यजन्ते। विश्वे देवा देवता भवन्ति। विश्वेषां देवानां सायुज्यं सलोकतां जयन्ति॥१७॥
अथ यद्दाशरात्रिकं पृष्ठ्यं षडहमुपयन्ति। दिश एव देवता यजन्ते। दिशो देवता भवन्ति। दिशां सायुज्यं सलोकतां जयन्ति॥१८॥
अथ यच्छंदोमानुपयन्ति। इमानेव लोकान् देवता यजन्ते। इमे लोका देवता भवन्ति। एषां लोकानां सायुज्यं सलोकतां जयन्ति॥१९॥
अथ यद्दशममहरुपयन्ति। संवत्सरमेव देवतां यजन्ते। संवत्सरो देवता भवन्ति। संवत्सरस्य सायुज्यं सलोकतां जयन्ति ॥२०॥
अथ यन्महाव्रतमुपयन्ति। प्रजापतिमेव देवतां यजन्ते। प्रजापतिर्देवता भवन्ति। प्रजापतेः सायुज्यं सलोकतां जयन्ति॥२१॥
अथ यदुदयनीयमतिरात्रमुपयन्ति। संवत्सरमेव तदाप्त्वा स्वर्गे लोके प्रतितिष्ठन्ति। तान् यदि पृच्छेयुः कामद्य देवतां यजध्वे। का देवता स्थ। कस्यां देवतायां वसथेति। अत एवैकतमां ब्रूयुः। यस्यै तु नेदिष्ठं स्युः। एते सतिसदः। एते हि सतीषु देवतासु सीदन्तो यन्ति। सत्रसदो हैवेतरे। स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयेत्। एताभ्यस्त्वा देवताभ्य आवृश्चामः इत्येनं ब्रूयुः। स पापीयान् भवति। श्रेयांस आत्मना॥२२॥
स एष संवत्सरस्त्रिमहाव्रतः। चतुर्विंशे महाव्रतम्। विषुवति महाव्रतम्। महाव्रत एव महाव्रतम्। तं ह स्मैतं पूर्व उपयंति। त्रिमहाव्रतं ते। ते तेजस्वन आसुः। सत्यवादिनः। संशितव्रताः। अथ य उ ह एनमप्येतर्हि तथोपेयुः। यथाऽमपात्रमुदक आसिक्ते विम्रित्येतत्। एवं हैव ते विम्रित्येयुः। उपर्युपयंति। तदेषां सत्येन श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिरवरुद्धं भवति॥२३॥
१२.१.४
अध्यात्मविद्ब्राह्मणम्
पुरुषो वै संवत्सरः। तस्य पादावेव प्रायणीयोऽतिरात्रः। पादाभ्यां हि प्रयन्ति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येवौषधिवनस्पतीनां रूपम्। ऊरू चतुर्विंशमहः। उरोऽभिप्लवः। पृष्ठं पृष्ठ्यः॥१॥
अयमेव दक्षिणो बाहुरभिजित्। इम एव दक्षिणे त्रयः प्राणाः स्वरसामानः। मूर्द्धा विषुवान्। इम एवोत्तरे त्रयः प्राणाः स्वरसामानः॥२॥
अयमेवोत्तरो बाहुर्विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याववांचौ प्राणौ ते गोआयुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। हस्तावेवोदयनीयोऽतिरात्रः। हस्ताभ्यां ह्युद्यन्ति। तयोर्यच्छुक्लं तदह्नो रूपम्। यत्कृष्णं तद्रात्रेः। नखान्येव नक्षत्राणां रूपम्। स एष संवत्सरोऽध्यात्मं प्रतिष्ठितः। स यो हैवमेतं संवत्सरमध्यात्मं प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके अमृतत्वेनामुष्मिन्॥३॥
१२.२.१
सम्वत्सरे समुद्रप्रतरणोपासनम्।
समुद्रं वा एते प्रतरन्ति। ये संवत्सराय दीक्षन्ते। तस्य तीर्थमेव प्रायणीयोऽतिरात्रः। तीर्थेन हि प्रस्नांति। तद्यत्प्रायणीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नायुः। तादृक्तत्॥१॥
गाधमेव प्रतिष्ठा चतुर्विंशमहः। यथोपपक्षदघ्नं वा कंठदघ्नं वा यतो विश्रम्य प्रस्नांति। प्रस्नेयोऽभिप्लवः। प्रस्नेयः पृष्ठ्यः॥२॥
गाधमेव प्रतिष्ठाऽभिजित्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्क्रामन्ति। ऊरुदघ्न एव प्रथमः स्वरसामा। जानुदघ्नो द्वितीयः। कुल्फदघ्नस्तृतीयः। द्वीपः प्रतिष्ठा विषुवान्। कुल्फदघ्न एव प्रथमोऽर्वाक्सामा। जानुदघ्नो द्वितीयः। ऊरुदघ्नस्तृतीयः॥३॥
गाधमेव प्रतिष्ठा विश्वजित्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्य प्रस्नान्ति। प्रस्नेयः पृष्ठ्यः। प्रस्नेयोऽभिप्लवः। प्रस्नेयो गोआयुषी। प्रस्नेयो दशरात्रः॥४॥
गाधमेव प्रतिष्ठा महाव्रतम्। यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्स्नान्ति। तीर्थमेवोदयनीयोऽतिरात्रः। तीर्थेन ह्युत्स्नान्ति। तद्यदुदयनीयमतिरात्रमुपयन्ति। यथा तीर्थेन समुद्रं प्रस्नाय तीर्थेनोत्स्नायुः। तादृक्तत्॥५॥
तदाहुः – कति संवत्सरस्यातिरात्राः। कत्यग्निष्टोमाः। कत्युक्थ्याः। कति षोडशिनः। कति षडहा इति। द्वावतिरात्रौ। षट्शतमग्निष्टोमाः। द्वे चत्वारिंशे शते उक्थ्यानाम्। इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति॥६॥
अथ येऽग्निष्टोमान्। द्वादशशतमग्निष्टोमाः। द्वे चतुस्त्रिंशे शते उक्थ्यानाम्। द्वादश षोडशिनः। षष्टिः षडहाः। इति नु संवत्सरस्याप्तिः॥७॥
द्वादश वै मासाः संवत्सरस्य। तेषामेतत्तेजः, इंद्रियं – यत्पृष्ठानि। तद्यन्मासि मासि पृष्ठान्युपयन्ति। मासश एव तत्संवत्सरस्य तेज आप्नुवन्ति। अथ कथं त्रयोदशस्य मासस्य तेज आप्नुवन्ति इति। उपरिष्टात् विषुवतो विश्वजितं सर्वपृष्ठमग्निष्टोममुपयन्ति। एवमु त्रयोदशस्य मासस्य तेज आप्नुवन्ति॥८॥
एतद्ध स्म वै तद्विद्वानाह श्वेतकेतुरारुणेयः। संवत्सराय न्वा अहं दीक्षिष्य इति। तं ह पितोपेक्ष्योवाच। वेत्थ न्वायुष्मन् संवत्सरस्य गाधप्रतिष्ठा इति। वेदेति होवाच। तद्ध तद्विद्वानुवाच॥९॥

१२.२.२
तदाहुः - कस्मादुभयतोज्योतिषोऽभिप्लवा भवन्ति। अन्यतोज्योतिः पृष्ठ्य इति। इमे वै लोका अभिप्लवाः। उभयतोज्योतिषो वा इमे लोकाः – अग्निनेतः, आदित्येनामुतः। ऋतवः पृष्ठ्यः। अन्यतोज्योतिषो वा ऋतवः। एष एषां ज्योतिः। य एष तपति॥१॥
देवचक्रे वा एत पृष्ठ्यप्रतिष्ठिते यजमानस्य पाप्मानं तृहती परिप्लवेते। स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयति। एते हास्य देवचक्रे शिरश्छिंतः। दशरात्र उद्धिः। पृष्ठ्याभिप्लवौ चक्रे॥२॥
तदाहुः – यत्समे एव चक्रे भवतः। अथैते विषमाः। स्तोमाः। कथमस्यैते समा स्तोमाः। उपेता भवन्तीति। यदेह षडन्यान्यहानि षडन्यानि। तेनेति ब्रूयात्॥३॥
पृष्ठ्याभिप्लवौ तन्त्रे कुर्वीत । इति ह स्माह पैंग्यः। तयोः स्तोत्राणि च शस्त्राणि च संचारयेदिति। स यत्संचारयति। तस्मादिमे प्राणा नाना सन्त एकोतयः समानमूतिमनु सञ्चरन्ति। अथ यन्न संचारयेत्। प्रमायुको यजमानः स्यात्। एष ह वै प्रमायुकः। योऽन्धो वा बधिरो वा॥४॥
नवाग्निष्टोमा मासि संपद्यन्ते। नव वै प्राणाः। प्राणानेवैष्वेतद्दधाति। तथा सर्वमायुर्यन्ति। तथा उ ह न पुराऽऽयुषोऽस्माल्लोकात्प्रयन्ति॥५॥
एकविंशतिरुक्थ्याः। द्वादश वै मासाः संवत्सरस्य। पंचर्तवः। त्रयो लोकाः। तद्विंशतिः। एष एवैकविंशः। य एष तपति एतामभिसंपदम्। स एतया संपदा मासि मासि स्वर्गं लोकं रोहति। मासशः स्वर्गं लोकं समश्नुते। एकविंशं च स्तोमं बृहतीं च च्छन्दः॥६॥
चतुस्त्रिंशदग्निष्टोमा मासि संपद्यन्ते। त्रयस्त्रिंशद्वै देवाः। प्रजापतिश्चतुस्त्रिंशः। सर्वासां देवतानामाप्त्यै। एक उक्थ्यः षोडशिमान्। अन्नं वा उक्थ्यः। वीर्यं षोडशी॥७॥
एतेन वै देवा वीर्येणान्नेन सर्वान् कामानाप्नुवन्। सर्वान् कामानाश्नुवत। तथा उ एवैष एतेन वीर्येणान्नेन सर्वान् कामानाप्नोति। सर्वान् कामानश्नुते। तस्मात् पृष्ठ्याभिप्लवा उपैवेयात् – संवत्सराय दीक्षित एतस्मै कामाय॥८॥
अथादित्याश्च ह वा अंगिरसश्च उभये प्राजापत्या अस्पर्द्धंत। वयं पूर्वे स्वर्गं लोकमेष्यामो वयं पूर्व इति॥९॥
त आदित्याश्चतुर्भिः स्तोमैश्चतुर्भिः पृष्ठैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त। यदभ्यप्लवन्त। तस्मादभिप्लवाः॥१०॥
अन्वंच इवांगिरसः सर्वैः स्तोमैः सर्वैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन्। यदस्पृशन्। तस्मात् पृष्ठ्यः॥११॥
अभिप्लवः षडहः। षड्ढ्यहानि भवन्ति। अभिप्लवः पञ्चाहः। पञ्च ह्यहानि भवन्ति। यद्ध्येव प्रथममहः। तदुत्तमम्। अभिप्लवश्चतुरहः। चत्वारो हि स्तोमा भवन्ति। त्रिवृत् पञ्चदशः सप्तदश एकविंश इति। अभिप्लवस्त्र्यहः। त्र्यावृद्धि ज्योतिर्गौरायुः। अभिप्लवो द्व्यहः। द्वे ह्येव सामनी भवतः। बृहद्रथन्तरे एव। अभिप्लव एकाहः। एकाहस्य उ हि स्तोमैस्तायते। चतुर्णामुक्थ्यानां द्वादश स्तोत्राणि द्वादश शस्त्राण्यतियन्ति। स सप्तमोऽग्निष्टोमः। एवमु सप्ताग्निष्टोमाः सम्पद्यन्ते॥१२॥
प्रोतिर्ह कौशांपबेयः कौसुरिबिंदिरुद्दालके आरुणौ ब्रह्मचर्यमुवास। तं हाचार्यः पप्रच्छ। कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति॥१३॥
दशेति होवाच। दश वा इति होवाच। दशाक्षरा विराट्। वैराजो यज्ञः॥१४॥
कति त्वेवेति। नवेति होवाच। नव वा इति होवाच। नव वै प्राणाः। प्राणैरु यज्ञस्तायते॥१५॥
कति त्वेवेति। अष्टेति होवाच। अष्टौ वा इति होवाच। अष्टाक्षरा गायत्री। गायत्रो यज्ञः॥१६॥
कति त्वेवेति। सप्तेति होवाच। सप्त वा इति होवाच। सप्त च्छंदांसि चतुरुत्तराणि। छन्दोभिरु यज्ञस्तायते॥१७॥
कति त्वेवेति। षडिति होवाच। षड्वा इति होवाच। षड् ऋतवः संवत्सरः। संवत्सरो यज्ञः। समानमेतदहः – यत् प्रायणीयोदयनीयौ॥१८॥
कति त्वेवेति। पञ्चेति होवाच। पञ्च वा इति होवाच। पांक्तो यज्ञः। पांक्तः पशुः। पंचर्तवः संवत्सरस्य। संवत्सरो यज्ञः। समानमेतदहः – यत् चतुर्विंशमहाव्रते॥१९॥
कति त्वेवेति। चत्वारीति होवाच। चत्वारि वा इति होवाच। चतुष्पादाः पशवः। पशवो यज्ञः। समानमेतदहः – यत् पृष्ठ्याभिप्लवौ॥२०॥
कति त्वेवेति। त्रीणीति होवाच। त्रीणि वा इति होवाच। त्रीणि च्छंदांसि। त्रक्षयो लोकाः। त्रिसवनो यज्ञः। समानमेतदहः – यदभिजिद्विश्वजितौ॥२१॥
कति त्वेवेति। द्वे इति होवाच। द्वे वा इति होवाच। द्विपाद्वै पुरुषः। पुरुषो यज्ञः। समानमेतदहः – यत्स्वरसामानः॥२२॥
कति त्वेवेति। एकमिति होवाच। अहरेवेति। तदेतदहरहरिति सर्वं संवत्सरम्। सैषा संवत्सरस्योपनिषत्। स यो हैवमेतां संवत्सरस्योपनिषदं वेद। आ हास्मात् श्रेयान् जायते। सात्मा भवति। संवत्सरो भवति। संवत्सरो भूत्वा देवानप्येति॥२३॥

१२.२.३
स वा एष संवत्सरो बृहतीमभिसंपन्नः। द्वावार्क्ष्यतामह्नां षडहौ। द्वौ पृष्ठ्याभिप्लवौ। गोआयुषी। दशरात्रः। तत् षट्त्रिंशत्। षट्त्रिंशदक्षरा वै बृहती। बृहत्या वै देवाः स्वर्गे लोकेऽयतन्त। बृहत्या स्वर्गं लोकमाप्नुवन्। तथा उ एवैष एतद् बृहत्यैव स्वर्गे लोके यतते। बृहत्या स्वर्गं लोकमाप्नोति। अथ यो बृहत्यां कामः। तमेवैतेनैवम्विदवरुंधे॥२३ ॥
यद्वै चतुर्विंशमहः। दशरात्रस्य वै तत्सप्तमं वा नवमं वा। अभिप्लवात् पृष्ठ्यो निर्मितः। पृष्ठ्यादभिजित्। अभिजितः स्वरसामानः। स्वरसामभ्यो विषुवान्। विषुवतः स्वरसामानः। स्वरसामभ्यो विश्वजित्। विश्वजितः पृष्ठ्यः। पृष्ठ्यादभिप्लवः। अभिप्लवात् गोआयुषी। गोआयुर्भ्यां दशरात्रः॥२॥
अथैतदहरार्क्ष्यत्, यन्महाव्रतम्। पंचविंशो ह्येतस्य स्तोमो भवति। नाक्षराच्छन्दो व्येत्येकस्मात्। न द्वाभ्याम्। न स्तोत्रियया स्तोमः॥३॥
अभिप्लवं पूर्वं पुरस्तात् विषुवत उपयन्ति। पृष्ठ्यमुत्तरम्। पुत्रा वा अभिप्लवः। पिता पृष्ठ्यः। तस्मात् पूर्ववयसे पुत्राः पितरमुपजीवन्ति। पृष्ठ्यमुपरिष्टात् विषुवतः पूर्वमुपयन्ति। अभिप्लवमुत्तरम्। तस्मादुत्तरवयसे पुत्रान् पितोपजीवति। उप ह वा एनं पूर्ववयसे पुत्रा जीवन्ति। उपोत्तरवयसे पुत्रान् जीवति। य एवमेतद्वेद॥४॥
तदाहुः – यच्चतुर्विंशमहरुपेत्य प्रेयात्। कथमनागूर्ती भवतीति। यदेवाः प्रायणीयमतिरात्रमुपयन्ति। तेनेति ब्रूयात्॥५॥
तदाहुः – यत् द्वादश मासाः संवत्सरस्य। अथैतदहरत्येति। यत् वैषुवतम्। अवरेषामेता ३ त्परेषा ३ मिति। अवरेषां चैव परेषां चेति ह ब्रूयात्। आत्मा वै संवत्सरस्य विषुवान्. अंगानि मासाः। यत्र वा आत्मा तदंगानि। यत्रो अंगानि तदात्मा। न वा आत्मा अंगान्यतिरिच्यते। नात्मानमंगान्यतिरिच्यन्ते। एवमु हैतत् अवरेषां चैव परेषां च भवति॥६॥
अथ ह वा एष महासुपर्ण एव। यत् संवत्सरः। तस्या यान् पुरस्तात् विषुवतः षण्मासानुपयन्ति। सः अन्यतरः पक्षः। अथ यान् षडुपरिष्टात् सः अन्यतरः। आत्मा विषुवान्। यत्र वा आत्मा तत्पक्षौ। यत्र वा पक्षौ तदात्मा। न वा आत्मा पक्षावतिरिच्यते। नात्मानं पक्षावतिरिच्येते। एवमु है तत्। अवरेषां चैव परेषां च भवति॥७॥
तदाहुः – यत् पुरस्तात् विषुवत् ऊर्ध्वान् स्तोमान् षण्मासानुपयन्ति। षडुपरिष्टादावृत्तान्। कथमस्यैत ऊर्ध्वाः स्तोमा उपेता भवंतीति। यमेवामुमूर्ध्वस्तोमं दशरात्रमुपयन्ति। तेनेति ब्रूयात्। देवेभ्यो ह वै महाव्रतं न तस्थे। कथमूर्ध्वै सोततोमैर्विषुवन्तमुपागात। आवृत्तैर्मामिति॥८॥
ते ह देवा ऊचुः। उप तं यज्ञक्रतुं जानीत। य ऊर्ध्वस्तोमः। येनेदमाप्नवामेति। त एतमूर्ध्वस्तोमं दशरात्रमपश्यन् संवत्सरविधन् तस्य यः पृष्ठ्यः षडहः। ऋतवः सः। इमे लोकाश्छन्दोमाः। संवत्सरो दशममहः।तेनैनदाप्नुवन्। तदेभ्योऽतिष्ठत। तिष्ठते ह वा अस्मै महाव्रतम्। य एवमेतद्वेद॥९॥
अथ वा अतोऽह्नामभ्यारोहः। प्रायणीयेनातिरात्रेमोदयनीयमतिरात्रमभ्यारोहन्ति। चतुर्विंशेन महाव्रतम्। अभिप्लवेन परमभिप्लवम्। पृष्ठ्येन परं पृष्ठ्यम्। अभिजिता विश्वजितम्। स्वरसामभिः परान् स्वरसाम्नः। अथैतदहरनभ्यारूढम्। यत् वैषुवतम्। अभि ह वै श्रेयांसं होरति। नैनं पापीयानभ्यारोहति। य एवमेतद्वेद॥१०॥
अथ वा अतोऽह्नां निवाहः। प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति। चतुर्विंशमहरभिप्लवाय। अभिप्लवः पृ,अठ्याय। पृष्ठ्योऽभिजिते। अभिजित् स्वरसामभ्यः। स्वरसामानो विषुवते। विषुवान् स्वरसामभ्यः। स्वरसामानो विश्वजिते। विश्वजित् पृष्ठ्याय। पृष्ठ्योऽभिप्लवाय अभिप्लवो गोआयुर्भ्याम्। गोआयुषी दशरात्राय। दशरात्रो महाव्रताय। महाव्रतमुदयनीयायातिरात्राय। उदयनीयोऽतिरात्रः स्वर्गाय लोकाय प्रतिष्ठाया अन्नाद्याय॥११॥
तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि। तानि शतं शतं रथाह्न्यानि। अन्तरेण तानि ये विद्वांस उपयन्ति। यथाऽऽरण्यान्यां मुग्धाँश्चरतोऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन्। एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते। अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम्। एवं हैव ते देवतायै देवतामुपसंयन्ति। ते स्वस्ति स्वर्गं लोकं समश्नुवते॥१२॥
तदाहुः – कति संवत्सरस्याहानि पराञ्चि। कत्यर्वांचीति। स यानि सकृत्सकृदुपयन्ति। तानि परांचि। अथ यानि पुनः पुनः। तान्यर्वांचि इति ह तेवैनान्युपासीत। षडहयोर्हि आवृत्तिमन्वावर्तंते॥१३॥
१२.२.४
गवामयनीयसंवत्सरस्य पुरुषविधोपासनम्।
पुरुषो वै संवत्सरः। तस्य प्राण एव प्रायणीयोऽतिरात्रः। प्राणेन हि प्रयन्ति। वागेवारंभणीयमहः। वाचा ह्यारभन्ते। तद्यदारभन्ते॥१॥
अयमेव दक्षिणो हस्तोऽभिप्लवः षडहः। तस्येदमेव प्रथममहः। तस्येदमेव प्रातःसवनम्। इदं माध्यंदिनं सवनम्। इदं तृतीयसवनम्। गायत्र्या आयतने। तस्मादियमासां ह्रसिष्ठा॥२॥
इदमेव द्वितीयमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। त्रिष्टुभ आयतने। तस्मादियमस्मै वर्षीयसी॥३॥
इदमेव तृतीयमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। जगत्या आयतने। तस्मादियमासां वर्षिष्ठा॥४॥
इदमेव चतुर्थमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्। इदं तृतीयसवनम्। विराज आयतने। अन्नं वै विराट्। तस्मादियमासामन्नादितमा॥५॥
इदमेव पंचममहः। तस्येदमेव प्रातःसवनम्। इदं माध्यन्दिनं सवनम्।इदं तृतीयसवनम्। पंक्तेरायतने। पृथुरिव वै पंक्तिः। तस्मादयमासां प्रथिष्ठः॥६॥
इदमेव षष्ठमहः। तस्येदमेव प्रातःसवनम्। इदं माध्यंदिनं सवनम्। इदं तृतीयसवनम्। अतिच्छंदस आयतने। तस्मादयमासां वर्षिष्ठः। गायत्रमेतदहर्भवति। तस्मादिदं फलकं ह्रसिष्ठम्। स इतोऽभिप्लवः षडहः। सस इतः। स इतः। स इत आत्मा पृष्ठ्यः॥७॥
एतद्ध स्म वै तद्विद्वानाह पैंग्यः।प्लवन्त इव वा अभिप्लवाः। तिष्ठतीव पृष्ठ्य इति। प्लवत इव ह्ययमंगैः। तिष्ठतीवात्मनेति॥८॥
शिर एवास्य त्रिवृत्। तस्मात्तत् त्रिविधं भवति। त्वगस्थि मस्तिष्कः॥९॥
ग्रीवाः पंचदशः। चतुर्दश वा एतासां करूकराणि। वीर्यं पंचदशम्। तस्मादेताभिरण्वीभिः सतीभिर्गुरुं भारं हरति। तस्मात् ग्रीवा पंचदशः॥१०॥
उरः सप्तदशः। अष्टावन्ये जत्रवोऽष्टावन्ये। उरः सप्तदशम्। तस्मादुरः सप्तदशः॥११॥
उदरमेकविंशः। विंशतिर्वा अंतरुदरे कुंतापानि। उदरमेकविंशम्। तस्मादुदरमेकविंशः॥१२॥
पार्श्वे त्रिणवः। त्रयोदशान्याः पर्शवस्त्रयोदशान्याः। पार्श्वे त्रिणवे। तस्मात्पार्श्वे त्रिणवः॥१३॥
अनूकं त्रयस्त्रिंशः। द्वात्रिंशद्वा एतस्य करूकराणि। अनूकं त्रयस्अत्रिंशम्। तस्मादनूकं त्रयस्त्रिंशः॥१४॥
अयमेव दक्षिणः कर्णोऽभिजित्। यदिदमक्ष्णः शुक्लम्। स प्रथमः स्वरसामा। यत् कृष्णं, स द्वितीयः। यन्मंडलं, स तृतीयः। नासिके विषुवान्। यदिदमक्ष्णो मंडलम्। स प्रथमोऽर्वाक्सामा। यत् कृष्णं, स द्वितीयः। यत् शुक्लं, स तृतीयः॥१५॥
अयमेवोत्तरः कर्णो विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याववांचौ प्राणौ, ते गोआयुषी। अंगानि दशरात्रः। मुखं महाव्रतम्। उदान एवोदयनीयोऽतिरात्रः। उदानेन ह्युद्यंति। स एष संवत्सरोऽध्यात्मं प्रतिष्ठितः स यो हैवमेतं संवत्सरमध्यात्मं प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके, अमृतत्वेनामुष्मिन्॥१६॥

१२.३.१
यद्बालाके त्रिवृदेति सर्वमन्योन्यमभिसंपद्यमानम्। कथं स्विद्यज्ञः पुरुषः प्रजापतिरन्योऽन्यं नातिरिच्यन्त एते॥१॥
यदूर्ध्वाः स्तोमा अनुयन्ति यज्ञमभ्यावर्तं सामभिः कल्पमानाः। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति।॥२॥
प्रायणीयोऽतिरात्रश्चतुर्विंशमहश्चत्वारोऽभिप्लवाः पृष्ठ्य इत्येते। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति॥३॥
अभिजिता स्वरसामानोऽभिक्लृप्ता उभयतो विषुवन्तमुपयन्ति। कथंस्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति॥४॥
त्रिवृत्प्रायाः सप्तदशाभिक्लृप्तास्त्रयस्त्रिंशांताश्चतुरुत्तरेण। कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति इति॥५॥
शिरस्त्रिवृत् पंचदशोऽस्य ग्रीवा उर आहुः सप्तदशाभिक्लृप्तम्। एकविंशमुदरं कल्पयन्ति पार्श्वे पर्शूस्त्रिणवेनाभिकलृप्ते॥६॥
अभिप्लवा उभयतोऽस्य बाहू पृष्ठ्यं पृष्ठ्य इति धीरा वदन्ति। अनूकमस्य चतुरुत्तरेण संवत्सरे ब्राह्मणाः कल्पयन्ति॥७॥
कर्णावस्याभिजिद्विविश्वजिच्चाक्ष्या बाहुः स्वरसामाऽभिकलृप्ते। नस्यं प्राणं विषुवन्तमाहुर्गोआयुषी प्राणावेताववांचौ॥८॥
अङ्गान्यस्य दशरात्रमाहुर्मुखं महाव्रतं संवत्सरे ब्राह्मणाः कल्पयन्ति। सर्वस्तोमं सर्वसामानमेतं संवत्सरमध्यात्मं प्रविष्टम्। समं धीर आत्मना कल्पयित्वा ब्रध्नस्यास्ते विष्टपेऽजातशोकः॥९॥
१२.३.२

पुरुषो वै संवत्सरः। पुरुष इत्येकम्। अत्र तत्समम्। द्वे वै संवत्सरस्याहोरात्रे। द्वाविमौ पुरुषे प्राणौ। अत्र तत्समम्। त्रय ऋतवः संवत्सरस्य। त्रय इमे पुरुषे प्राणाः। अत्र तत्समम्। चतुरक्षरो वै संवत्सरः। चतुरक्षरोऽयं यजमानः। अत्र तत्समम्। पंचर्तवः संवत्सरस्य। पंचेमे पुरुषे प्राणाः। अत्र तत्समम्। षड् ऋतवः संवत्सरस्य। षडिमे पुरुषे प्राणाः। अत्र तत् समम्। सप्तर्तवः संवत्सरस्य। सप्तेमे पुरुषे प्राणाः। अत्र तत्समम्॥१॥
द्वादश वै मासाः संवत्सरस्य। द्वादशेमे पुरुषे प्राणा-. अत्र तत्समम्। त्रयोदश वै मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणाः। नाभिस्त्रयोदशी। अत्र तत्समम्। चतुर्विंशतिर्वै संवत्सरस्यार्द्धमासाः। चतुर्विंशोऽयं पुरुषः। विंशत्यंगुलिः। चतुरंगः। अत्र तत्समम्। षड्विंशतिर्वै संवत्सरस्यार्द्धमासाः। षड्विंशोऽयं पुरुषः। प्रतिष्ठे षड्विंश्यौ। अत्र तत्समम्॥२॥
त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयः। त्रीणि च शतानि षष्टिश्च पुरुषस्यास्थीनि। अत्र तत्समम्। त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि। त्रीणि च शतानि षष्टिश्च पुरुषस्य मज्जानः। अत्र तत्समम्॥३॥
सप्त च वै शतानि वंशतिश्च संवतसरस्याहोरात्राणि। सप्त च शतानि विंशतिश्च पुरुषस्यास्थीनि च मज्जानश्च। अत्र तत्समम्॥४॥
दश च वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ताः। यावन्तो मुहूर्तास्तावन्ति पंचदशकृत्वः क्षिप्राणि। यावन्ति क्षिप्राणि तावन्ति पंचदशकृत्व एतर्हीणि। यावन्त्येतर्हीणि तावन्ति पंचदशकृत्व इदानीनि। यावन्तीदानीनि तावन्तः पंचदशकृत्वः प्राणाः। यावन्तः प्राणास्तावन्तोऽक्तनाः। यावन्तोऽक्तनास्तावन्तो निमेषाः। यावंतो निमेषास्तावंतो लोमगर्ताः। यावन्तो लोमगर्तास्तावन्ति स्वेदायनानि। यावंति स्वेदायनानि तावंत एते स्तोका वर्षंति॥५॥
एतद्ध स्म वै तद्विद्वानाह वार्कलिः। सार्वभौमं मेघं वर्षंतं वेदाहम्। अस्य वर्षस्य स्तोकानिति॥६॥
तदेष श्लोकोऽभ्युक्तः – श्रमादन्यत्र परिवर्तमानस्तिष्ठन्नासीनो यदि वा स्वपन्नपि। अहोरात्राभ्यां पुरुषः समेन कतिकृत्वः प्राणिति चाप चानिति इति॥७॥
तदेष श्लोकः प्रत्युक्तः – शतं शतानि पुरुषः समेनाष्टौ शता यन्मितं तद्वदंति। अहोरात्राभ्यां पुरुषः समेन तावत्कृत्वः प्राणिति चाप चानिति॥८॥

१२.३.३

प्रायश्चित्तसत्रम्।
देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे। तेषां पंच शतानि संवत्सराणां पर्यवेतान्यासुः। अथेदं सर्वमेव शश्राम। ये स्तोमा यानि पृष्ठानि यानि च्छंदांसि॥१॥
ततो देवा एतद्यज्ञस्यायातयामापश्यन्। तेनायातयाम्ना या वेदे व्यष्टिरासीत् – तां व्याश्नुवत। अयातयामा वा अस्य वेदाः। अयातयाम्न्या हास्य त्रय्या विद्यया आर्त्विज्यं कृतं भवति। य एवमेतद्वेद॥२॥
तदेतद्यज्ञस्यायातयाम। ओश्रावयास्तु श्रौषड्यज येयजामहे वौषडिति। तासां वा एतासां पंचानां व्याहृतीनां सप्तदशाक्षराणि। ओश्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। यजेति द्वयक्षरम्। येयजामह इति पंचाक्षरम्॥३॥
द्व्यक्षरो वषट्कारः। स एष सप्तदशः प्रजापतिः अधिदेवतं चाध्यात्मं च प्रतिष्ठितः। स यो हैवमेतं सप्तदशं प्रजापतिमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद। प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके। अमृतत्वेनामुष्मिन्॥४॥
ते ह देवा ऊचुः। उप तं यज्ञक्रतुं जानीत। यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण समाप्नुयादिति॥५॥
ते विश्वजितमेव सर्वपृष्ठं पृष्ठ्यस्य षडहस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छन्दांसि॥६॥
पृष्ठ्यमेव षडहं द्वादशाहस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छन्दांसि॥७॥
द्वादशाहमेव संवत्सरस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति. तानि पृष्ठानि। तानि च्छंदांसि॥८॥
संवत्सरमेव तापश्चितस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छंदांसि॥९॥
तापश्चितमेव सहस्रसंवत्सरस्यांजःसवमपश्यन्। ते हि स्तोमा भवन्ति। तानि पृष्ठानि। तानि च्छंदांसि॥१०॥
स वै संवत्सरं दीक्षाभिरेति। संवत्सरमुपसद्भिः। संवत्सरं सुत्याभिः॥११॥
स यत्संवत्सरं दीक्षाभिरेति। पूर्वार्द्धमेव तेन सहस्रसंवतसरस्यावरुन्द्धे। अथ यत्संवत्सरमुपसद्भिः मध्यमेव तेन सहस्रसंवत्सरस्यावरुन्धे। अथ यत्संवत्सरं सुत्याभिः। उत्तरार्द्धमेव तेन सहस्रसंवत्सरस्यावरुन्धे॥१२॥
स वै द्वादश मासान्दीक्षाभिरेति द्वादशोपसद्भिः। द्वादश सुत्याभिः। तत्षट्त्रिंशत्। षट्त्रिंशदक्षरा वै बृहती। बृहत्या वै देवाः स्वर्गे लोके ऽयतंत। बृहत्या स्वर्गं लोकमाप्नुवन्। तथो एवैष एतद्बृहत्यैव स्वर्गे लोके यतते। बृहत्या स्वर्गं लोकमाप्नोति। अथ यो बृहत्यां कामः। तमेवैतेनैवंविदवरुन्धे॥१३॥
तद्वा एतत्त्रयं सह क्रियते। अग्निरर्क्यं महदुक्थ्यम्। स यत्संवत्सरं दीक्षाभिरेति, संवत्सरमुपसद्भिः। तेनास्याग्न्यर्कावाप्तौ भवतः। अथ यत्संवत्सरं सुत्याभिरेति, तेनो एवासय महदुक्थ्यमाप्तं भवन्ति। स वा एष एव सहस्रसंवत्सरस्य प्रतिमा, यत्तापश्चितः। एष प्रजानां प्रजात्यै। यत्तापश्चितः॥१४॥
इति प्रथम प्रपाठके एकादशं ब्राह्मणम्॥
१२.३.४
पुरुषं ह नारायणं प्रजापतिरुवाच यजस्वयजस्वेति। स होवाच। यजस्वयजस्वेति वा त्वं मामात्थ। त्रिरयक्षि। वसवः प्रातःसवनेनागुः। रुद्रा माध्यंदिनेन सवनेन। आदित्यास्तृतीयसवनेन। अथ मम यज्ञवास्त्वेव। यज्ञवास्तावेवाहमास इति॥१॥
स होवाच। यजस्वैव। अहं वै ते तद्वक्ष्यामि। यथा त उक्थ्यानि मणिरिव सूत्र ओतानि भविष्यन्ति। सूत्रमिव वा मणाविति॥२॥
तस्मा उ हैतदुवाच। प्रातःसवने बहिष्पवमान उद्गातारमन्वरभासै। श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥३॥
अथ माध्यन्दिने पवमाने उद्गातारमन्वारभासै। सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥४॥
अथ तृतीयसवन आर्भवे पवमान उद्गातारमन्वारभासै। ऋभुरसि जगच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारय इति॥५॥
अथ संस्थितेषु संस्थितेषु सवनेषु जपेः। मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति॥६॥
अयं वै लोको भर्गः। अंतरिक्षलोको महः।द्यौर्यशः। येऽन्ये लोकास्तत्सर्वम्॥७॥
अग्निर्वै भर्गः। वायुर्महः। आदित्यो यशः। येऽन्ये देवास्तत्सर्वम्॥८॥
ऋग्वेदो वै भर्गः। यजुर्वेदो महः। सामवेदो यशः। येऽन्ये वेदास्तत्सर्वम्॥९॥
वाग्वे भर्गः। प्राणो महः। चक्षुर्यशः। येऽन्ये प्राणास्तत्सर्वम्॥१०॥
तद्विद्यात् सर्वान् लोकानात्मन्नधिषि। सर्वेषु लोकेषु आत्मानमधाम्। सर्वान् वेदान् आत्मन्नधिषि सर्वेषु वेदेष्वात्मानमधाम्। सर्वान् प्राणानात्मन्नधिषि। सर्वेषु प्राणेष्वात्मानमधामिति। अक्षिता वै लोकाः। अक्षिता देवाः। अक्षिता वेदाः। अक्षिताः प्राणाः। अक्षितं सर्वम्। अक्षिताद्ध वा अक्षितमुपसंक्रामति। अप पुनर्मृत्युं जयति। सर्वमायुरेति। य एवमेतद्वेद॥११॥

१२.३.५

सावित्रं ह स्मैतं पूर्वे पशुमालभन्ते। अथैतर्हि प्राजापत्यम्। यो ह्येव सविता स प्रजापतिरिति वदन्तः। तस्मात् संन्युप्याग्नीन् तेन यजेरन्। गृहपतेरेवाग्निषु। ययेदं जाघन्या पत्नीः संयाजयन्ति। तस्यां नोप्यऽसदिति। ते ततो यदानिकामं दीक्षन्ते॥१॥
तदु वा आहुः। नानाधिष्ण्या एव स्युः। यदि दीक्षितस्योपतपेत्। पार्श्वतः अग्निहोत्रं जुह्वत् वसेत्। स यद्यगदो भवति। संसृज्यैनं पुनरुपह्वयन्ते। यद्यु म्रियते।स्वैरेव तमग्निभिर्दहन्ति। अशवाग्निभिरितरे यजमाना आसत इति।तदहैवाहिताग्नेः कर्म। समानधिष्ण्यास्ते भवन्ति। तस्य तदेव ब्राह्मणं यत् पुरश्चरणे॥२॥
तदाहुः – यत् संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषामग्निहोत्रमनन्तरितं भवतीति। व्रतेनेति ब्रूयात्॥३॥
तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पौर्णमासं हविरनन्तरितं भवतीति। आज्येन च पुरोडाशेन चेति ब्रूयात्॥४॥
तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पितृयज्ञोऽनन्तरितो भवतीति। औपासनैरिति ब्रूयात्॥५॥
तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषामामावास्यं हविरनन्तरितं भवतीति। दध्ना च पुरोडाशेन चेति ब्रूयात्॥६॥
तदाहुः – यत्संवत्सराय दीक्षन्ते। कथमेषामाग्रयणेष्टिरनन्तरिता भवतीति। सौम्येन चरुणेति ब्रूयात्॥७॥
तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्तीति। पयस्ययेति ब्रूयात्॥८॥
तदाहुः – यत्संवत्सराय संवत्सरसदो दीक्षन्ते। कथमेषां पशुबन्धोऽनन्तरितो भवतीति। पशुना च पुरोडाशेन चेति ब्रूयात्॥९॥
तदाहुः – यत् संवत्सराय संवत्सरसदो दीक्षंते। कथमेषां सोमोऽनन्तरितो भवतीति। सवनैरिति ब्रूयात्॥१०॥
ते वा एवमेते यज्ञक्रतवः संवत्सरमपियन्ति। स यो हैवमेतां यज्ञक्रतूनामपीतिं वेद। अप्यस्य स्वर्गे लोके भवति॥११॥
संवत्सरस्य समता वेदितव्या। एकं पुरस्तात् विषुवतोऩतिरात्रमुपयन्ति। एकमुपरिष्टात्। त्रयःपञ्चाशतं पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति। त्रयःपंचाशतमुपरिष्टात्। विंशतिशतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयन्ति। विंशतिशतमुपरिष्टात्। इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति॥१२॥
अथ येऽग्निष्टोमान् षट्पंचाशतं पुरस्तात् विषुवतोऽग्निष्टोमानुपयंति। षट्पंचाशतमुपरिष्टात्। सप्तदशं शतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयंति। सप्तदशमुपरिष्टात्। षट्पुरस्ताद्विषुवतः षोडशिन उपयंति। षडुपरिष्टात्। त्रिंशतं पुरस्ताद्विषुवतः षडहान्युपयंति। त्रिंशतमुपरिष्टात्। एषा हास्य समता। समेन ह वा अस्या व्यृद्धेनान्यूनेनानतिरिक्तेनायनेनेतं भवति। य एवमेतद्वेद॥१३॥
इति द्वितीयप्रपाठके द्वितीयं ब्राह्मणम्॥
१२.४.१
दीर्घसत्रं वा एत उपयंति। येऽग्निहोत्रं जुह्वति। एतद्वै जरामर्यं सत्रम्। यदग्निहोत्रम्। जरया वा ह्येवास्मान्मुच्यंते मृत्युना वा॥१॥
तदाहुः – यदेतस्य दीर्घसत्रिणोऽग्निहोत्रं जुह्वतोऽन्तरेणाग्नी। युक्तं वा विवायात्। सं वा चरेयुः। किं तत्र कर्म। का प्रायश्चित्तिरिति। कुर्वीत हैव निष्कृतिम्। अपीष्ट्या यजेत। तदु तन्नाद्रियेत। इमान्वा एष लोकाननु वितनुते। योऽग्नी आधत्ते॥२॥
तस्यायमेव लोको गार्हपत्यः। अन्तरिक्षलोकोऽन्वाहार्यपचनः। असौ लोक आहवनीयः। कामं न्वा एषु लोकेषु वयांसि युक्तं चा युक्तं च संचरन्ति। स यदि हास्याप्यंतरेण ग्रामोऽग्नीन् वियायात्। नैव मे काचनार्तिरस्ति। न रिष्टिः। इति हवै विद्यात्॥३॥
त्रयो ह त्वाव पशवोऽमेध्याः – दुर्वराहः, ऐडकः, श्वा। तेषां यद्यधिश्रितेऽग्निहोत्रेऽन्तरेण कश्चित्संचरेत्, किं तत्र कर्म, का प्रायश्चित्तिरिति। तद्धैके – गार्हपत्याद्भस्मोपहत्याहवनीयान्निवपन्तो यन्ति। इदं विष्णुर्विचक्रमे इत्येतयर्चा। यज्ञो वै विष्णुः। तद्यज्ञेनैव यज्ञमनुसन्तन्मः। भस्मनाऽस्य पदमपि वपाम इति वदन्तः। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। आसां न्वा अयं यजमानस्यावाप्सीत्। क्षिप्रे परमा सा नावप्स्यते। ज्येष्ठगृह्यं रोत्स्यतीति। ईश्वरो ह तथैव स्यात्॥४॥
इत्थमेव कुर्यात्। उदस्थालीं वैवोदकमण्डलुं वाऽऽदाय। गार्हपत्यादग्र आहवनीयान्निनयन्नियात्। इदं विष्णुर्विचक्रमे इत्येतयैवर्चा। यज्ञो वै विष्णुः। तद्यज्ञेनैव यज्ञमनुसंतनोति। यद्वै यज्ञस्य रिष्टम्। यदशान्तम्। आपो वै तस्य सर्वस्य शान्तिः। अद्भिरेवैनत्तच्छांत्या शमयति। एतदेव तत्र च कर्म॥५॥
तदाहुः – यस्याग्निहोत्रं दोह्यमानं स्कन्देत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्कन्नप्रायश्चित्तेनाभिमृश्य। अद्भिरुपनिनीय परिशिष्टेन जुहुयात्। यद्यु नीची स्थाली स्यात्। यदि वा भिद्येत। स्कन्नप्रायश्चित्तेनैवाभिमृश्य अद्भिरुपनिनीय। यदन्यद्विंदेत् – तेन जुहुयात्॥६॥
अथ यत्र स्कन्नं स्यात्। तदभिमृशेत् अस्कन्नधित प्राजनि इति। यदा वै स्कन्दति। अथ धीयते। यदा धीयते। अथ प्रजायते। योनिर्वा इयम्। रेतः पयः। तदस्यां योनौ रेतो दधाति। अनुष्ठ्या हास्य रेतः सिक्तं प्रजायते। य एवमेतद्वेद। अमुतो वै दिवो वर्षति। इहौषधयो वनस्पतयः प्रजायन्ते। पुरुषाद्रेतः स्कन्दति। पशुभ्यस्तत इदं सर्वं प्रजायते। तद्विद्यात्। भूयसी मे प्रजातिरभूत्। बहुः प्रजया पशुभिर्भविष्यामि। श्रेयान् भविष्यामीति॥७॥
अथ यत्रावभिन्नं स्यात्। तदुदस्थालीं वै वा उदकमण्डलुं वा निनयेत्। यद्वै यज्ञस्य रिष्टम्। यदशान्तम्। आपो वै तस्य सर्वस्य शान्तिः। अद्भिरेवैनत्तचछांत्या शमयति। भूर्भुवः स्वः इत्याताभिर्व्याहृतिभिः। एता वै व्याहृतयः सर्वप्रायश्चित्तीः। तदनेन सर्वेण प्रायश्चित्तिं कुरुते। तानि कपालानि संचित्य। यत्र भस्मोदधृतं स्यात्। तन्निवपेत्। एतदेव तत्र कर्म॥८॥
तदाहुः – यस्याग्निहोत्री दोह्यमानोपविशेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तां हैके यजुषोत्थापयन्ति। उदस्थाद्देव्यदितिः इति। इयं वा अदितिः। इमामेवास्मा एतदुत्थापयाम इति वदन्तः। आयुर्यज्ञपतावधात् इति। आयुरेवास्मिंस्तद्दध्म इति वदन्तः। इन्द्राय कृण्वती भागम् इति। इन्द्रियमेवास्मिंस्तद्दध्म इति वदन्तः। मित्राय वरुणाय च इति। प्राणोदानौ वै मित्रावरुणौ। प्राणोदानावेवास्मिंस्तद्दध्म इति वदन्तः। तां तस्यामाहुत्यां ब्राह्मणाय दद्यात्, यमनभ्यागमिष्यन्मन्येत। आर्तिं वा एषा पाप्मानं यजमानस्य प्रतिदृश्योपाविक्षत्। आर्तिमेवास्मिंस्तत्पाप्मानं प्रतिमुंचाम इति वदन्तः॥९॥
तदु होवाच याज्ञवल्क्यः। अश्रद्दधानेभ्यो हैभ्यो गौरपक्रामति। आर्त्यो वा आहुतिं विध्यन्ति। इत्थमेव कुर्यात्। दण्डेनैवैनां विपिष्योत्थापयेदिति। तद्यथैवादः धावयतोऽश्वो वाऽश्वतरो वा गदायेत। बलीवर्दो वा युक्तः। तेन दण्डप्रजितेन तोत्त्रप्रजितेन यमध्वानं समीप्सति तं समश्नुते। एवमेवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं समीप्सति तं समश्नुते॥१०॥
अथ होवाचारुणिः। द्यौर्वा एतस्याग्निहोत्रस्याग्निहोत्री। अयमेव वत्सः। योऽयं पवते। इयमेवाग्निहोत्रस्थाली। न वा एवं विदुषोऽग्निहोत्री नश्यति। क्व ह्यसौ नश्येत्। नैवं विदुषोऽग्निहोत्री। वत्सो नश्यति। क्व ह्येष नश्येत्। नैवं विदुषोऽग्निहोत्रस्थाली भिद्यते। क्व हीयं भिद्येत। श्रियो वै प्रजन्यो वर्षति। तद्विद्यात्। श्रेमाणं मे महिमानमधारयमाणोपाविक्षत्। श्रेयान् भविष्यामीति। तामात्मन्येव कुर्वीत। आत्मन्येव तच्छ्रियं धत्ते। इति ह स्माहारुणिः। एतदेव तत्र कर्म॥११॥
तदाहुः यस्याग्निहोत्री दोह्यमाना वाश्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्तंबमाच्छिद्य ग्रासयेत्। एतदेव तत्र कर्म॥१२॥
१२.४.२

तदाहुः – यस्याग्निहोत्री लोहितं दुहीत। किं तत्र कर्म। का प्रायश्चित्तिरिति। व्युत्क्रामतेत्युक्त्वा मेक्षणं कृत्वा। अन्वाहार्यपचनं परिश्रयितवै ब्रूयात्। तस्मिन्नेतच्छ्रपयित्वा। तस्मिंस्तूष्णीं जुहुयात्। अनिरुक्तो वै प्रजापतिः। प्राजापत्यमग्निहोत्रम्। सर्वं वा अनिरुक्तम्। तदनेन सर्वेण प्रायश्चित्तिं कुरुते। तां तस्यामाहुत्यां ब्राह्मणाय दद्यात् यमनभ्यागमिष्यन्मन्येत। आर्तिं वा एषा पाप्मानं यजमानस्य प्रतिदृश्य दुहे। या लोहितं दुहे। आर्तिमेवास्मिंस्तत्पाप्मानं प्रतिमुञ्चति। अथ यदन्यद्विंदेत। तेन जुहुयात्। अनार्तेनैव तदार्तं यज्ञस्य निषकरोति। एतदेव तत्र कर्म॥१॥
तदाहुः – यस्याग्निहोत्रं दोह्यमानममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्धैके होतव्यं मन्यन्ते। प्रयतमेतत्। नैतस्या होमोऽवकल्पते। न वै देवाः कस्माच्चन बीभत्सन्ते। बीभत्संता ३ इ तु देवाः। इत्थमेव कुर्यात्। गार्हपत्यादुष्णं भस्म निरुह्य। तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं निनयेत्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विंदेत्। तेन जुहुयात्। एतदेव तत्र कर्म॥२॥
तदाहुः – यस्याग्निहोत्रं दोहितममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। य एवैतदेऽङ्गारा निरूढा। येष्वधिश्रयिष्यन् भवति। तान्प्रत्युह्य तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं नियेत्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विंदेत्। तेन जुहुयात्। एतदेव तत्र कर्म॥३॥
तदाहुः – यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। य एवैतेऽङ्गारा निरूढा। येष्वधिश्रितं भवति। तेष्वेनत्तूष्णीं जुहुयात्। तद्धुतमहुतम्। यदहैनत्तेषु जुहोति। तेन हुतम्। यद्वेनांस्तेनैवाआनुगमयति। तेनाहुतम्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विन्देत्। तेन जुहुयात्। एतदेव तत्र कर्म॥४॥
तदाहुः - यदधिश्रितेऽग्निहोत्रे यजमानो म्रियेत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तदेवैनदभिपर्याधाय विष्यंदयेत्। अथो खल्वाहुः – एतावती सर्वस्य हविर्यस्य प्रायश्चित्तिरिति। एतदेव तत्र कर्म॥५॥
तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतं स्कन्देत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्कन्नप्रायश्चित्तेनाभिमृश्य अद्भिरुनिनीय परिशिष्टेन जुहुयात्। यद्यु नीची स्रुक् स्यात्। यदि वा भिद्येत। स्कन्नप्रायश्चित्तेनैवाभिमृश्य अद्भिरुनिनीय यत्स्थाल्यां परिशिष्टं स्यात्। तेन जुहुयात्॥६॥
तद्धैके प्रतिपरेत्य यत् स्थाल्यां परिशिष्टं भवति तेन जुह्वति। तदु तथा न कुर्यात्। स्वर्ग्यं वा एतत्। यदग्निहोत्रम्। यो हैनं तत्र ब्रूयात्। प्रति न्वा अयं स्वर्गाल्लोकादवारुक्षत्। नास्येदं स्वर्ग्यमिव भविष्यतीति। ईश्वरो ह तथैव स्यात्॥७॥
इत्थमेव कुर्यात्। तदेवोपविशेत्। यत् स्थाल्यां परिशिष्टं स्यात्। तस्मा उन्नीयाहरेयुः। तद्धैक उपवल्हन्ते। हुतोच्छिष्टं वा एतत्। यातयाम वा एतत्। नैतस्य होतव्यमिति। तदु तन्नाद्रियेत। यदा वा एतदयातयाम। अथैनद्धविरातंचनं कुर्वते. तस्माद्यत्स्थाल्यां परिशिष्टं स्यात्। तदस्मा उन्नीयाहरेयुः। यद्यु तत्र न स्यात्। यदन्यत् विंदेत्। तदग्नावधिश्रित्यावज्योत्यापः प्रत्यानीयोद्वास्य। तददो हैवोन्नेष्यामीत्युक्तं भभवति। अथात्र यथोन्नीतमेवास्मा उन्नीयाहरेयुः। तेन कामं जुहुयात्। एतदेव तत्र कर्म॥८॥
तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्धैके होतव्यं मन्यंते. प्रयतमेतत्। नैतस्या होमोऽवकल्पते। न वै देवाः कस्माच्चन बीभत्संत इति। तद्धैक उत्सिच्य च्छर्दयन्ति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। परासिचत न्वा अयमग्निहोत्रम्। क्षिप्रेऽयं यजमानः परासेक्ष्यत इति। ईस्वरो ह तथैव स्यात्। इत्थमेव कुर्यात् आहवनीये समिधमभ्याधाय आहवनीयादेवोष्णं भस्म निरुह्य तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं निनयेत्। अद्भिरुनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यत् विंदेत्, तेन जुहुयात्। एतदेव तत्र कर्म॥९॥
तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतमुपरिष्टादववर्षेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्विद्यात्। उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। तेन कामं जुहुयात्। एतदेव तत्र कर्म॥१०॥

१२.४.३

तदाहुः – यत् पूर्वस्यामाहुत्यां हुतायाम्। अथाग्निरनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। यं प्रतिवेशं शकलं विंदेत्। तमभ्यस्याभिजुहुयात्। दारौ दारावग्निः इति। वदन्। दारौ दारौ ह्येवाग्निम्। यद्यु अस्य हृदयं व्येव लिखेत्। हिरण्यमभिजुहुयात्। अग्नेर्वा एतद्रेतः, यद्धिरण्यम्। य उ वै पुत्रः, स पिता। यः पिता, स पुत्रः। तस्माद्धिरण्यमभिजुहुयात्। एतदेव तत्र कर्म॥१॥
तदाहुः – यस्याहवनीय उद्धृतः। पुराऽग्निहोत्रादनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। गार्हपत्यादेवैनं प्रांचमुद्धृत्य, उपसमाधाय, अग्निहोत्रं जुहुयात्। स यद्यपि शतमेव कृत्वः पुनः पुनरुद्धृतोऽनुगच्छेत्। गार्हपत्यादेवैनं प्रांचमुद्धृत्योपसमाधायाग्निहोत्रं जुहुयात्। एतदेव तत्र कर्म॥२॥
तदाहुः – यस्य गार्हपत्योऽनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तं हैक उल्मुकादेव निर्मन्थन्ति। यतो वै पुरुषस्यांततो नश्यति। ततो वै स तस्य प्राश्चित्तिमिच्छते इति वदन्तः। तदु तथा न कुर्यात्। उल्मुकं ह वैवादाय चरेयुः। उल्मुकस्य वाऽवव्रश्चम्। इत्थमेव कुर्यात्। उल्मुकादंगारमादाय। तमरण्योरभिविमथ्नीयात्। उप ह तं काममाप्नोति। य उल्मुकमथेय। उपो तं, योऽरण्योः। एतदेव तत्र कर्म॥३॥
तदाहुः – यस्याग्नावग्निमभ्युद्धरेयुः। किं तत्र कर्म। का प्रायश्चित्तिरिति। ईश्वरौ वा एतौ संपाद्याशांतौ यजमानस्य प्रजां च पशूंश्च निर्द्दहतः। तदभिमन्त्रयेत। समितं संकल्पेथां संप्रियौ रोचिष्णू सुमनस्यमानौ। इषमूर्जमभिसंवसानौ॥ सं वां मनांसि संव्रता समु चित्तान्याकरम्। अग्ने पुरीष्याधिपा भव त्वन्न इषमूर्जं यजमानाय धेहि इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै॥४॥
यद्यु अस्य हृदयं व्येव लिखेत्। अग्नयेऽग्निमतेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ।विराजौ संयाज्ये। अथैते याज्यानुवाक्ये। अग्निनाऽग्निः समिध्यते कविर्गृहपतिर्युवा। हव्यवाड् जुह्वास्यः इति। अथ याज्या। त्वं ह्यग्नेऽग्निना विप्रो विप्रेण सन्त्सता। सखा सख्या समिध्यसे इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥५॥
तदाहुः - यस्याहवनीयेऽननुगते गार्हपत्योऽनुगच्छेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तं हैके तत एव प्रांचमुद्धरन्ति। प्राणा वा अग्नयः। प्राणानेवास्मा एतदुद्धराम इति वदंतः। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। प्राचो न्वा अयं यजमानस्य प्राणान् प्रौत्सीत्. मरिष्यत्ययं यजमानः। इति ईश्वरो ह तथैव स्यात्॥६॥
अथ हैके प्रत्यंचमाहरन्ति। प्राणोदानाविमाविति वदंतः।तदु तथा न कुर्यात्। स्वर्ग्यं वा एतत्, यदग्निहोत्रम्। यो हैनं तत्र ब्रूयात्। प्रति न्वा अयं स्वर्गाल्लोकादवारुक्षत्। नास्येदं स्वर्ग्यमिव भविष्यति इति। ईश्वरो ह तथैव स्यात्॥७॥
अथ हैकेऽन्यं गार्हपत्यं मन्थन्ति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। अग्नेर्न्वा अयमधिद्विषन्तं भ्रातृव्यमजीजनत। क्षिप्रेऽस्यद्विषन्भ्रातृव्यो जनिष्यते। प्रियतमं रोत्स्यति। इति। ईश्वरो ह तथैव स्यात्॥८॥
अथ हैके अनुगमय्यान्यं मन्थन्ति। तस्याशां नेयात्। अपि यत्परिशिष्टमभूत्। तदजीजसत। नास्य दायादश्चन परिशेक्ष्यत इति। ईश्वरो ह तथैव स्यात्॥९॥
इत्थमेव कुर्यात्। अरण्योरग्नी समारोह्य उदङ्ङुदवसाय निर्मथ्य जुह्वद्वसेत्। तथा ह न कांचन परिचक्षां करोति। नवावसान उ अस्याभितो रात्रं हुतं भवति॥१०॥
इति द्वितीयप्रपाठके पंचमं ब्राह्मणम्॥

१२.४.४

अथ प्रातर्भस्मान्युद्धृत्य, गोमयेनालिप्य, अरण्योरेवाग्नी समारोह्य प्रत्यवस्यति। मथित्वा गार्हपत्यम्, उद्धृत्याहवनीयम्, आहृत्यान्वाहार्यपचनम्, अग्नये पथिकृतेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्यानुवाक्ये – वेत्था हि वेधो अध्वनः पथश्च देवांजसा। अग्ने यज्ञेषु सुक्रतो – इति। अथ याज्या – देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोढुम्। अग्निर्विद्वान्त्स यजात्सेदु होतासो अध्वरान्त्स ऋतून्कल्पयाति इति। अग्निर्वै पथिकृत्। पथामपि नेता। स एवैनं यज्ञपथमपिनयति। एतदेव तत्र कर्म॥१॥
तदाहुः – यस्याग्नयः संसृज्येरन्। कि तत्र कर्म। का प्रायश्चित्तिरिति। स यदि परस्तादहं न भीयात्। तद्विद्यात्। परस्तान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। यद्यु अस्य हृदयं व्येव लिखेत अग्नये विवचयेऽष्टाकपालं पुरोडाशं निर्वपेत्. तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति। तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः इति। अथ याज्या – त्वामग्ने मानुषीरीडते विशो होऊआविदं विविचिं रत्नधातमम्। गुहा संतं सुभग विश्वदर्शतं तुविष्वणसं सुयुजं घृतश्रियम् इति। अथो ह यो द्विषतो भ्रातृव्याद्व्याविवृत्सेत। तत्काम एतया यजेत। वि हैवास्माद्वर्तते। एतदेव तत्र कर्म॥२॥
यद्वयमितोदहं न भीयात्। तद्विद्यात्। अभि द्विषंतं भ्रातृव्यं भविष्यामि, श्रेयान् भविष्यामीति। यद्यु अस्य हृदयं व्येव लिखेत्। अग्नये संवर्गायाष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्यानुवाक्ये – परस्या अधि संवतोऽवराँ२ऽ अभ्यातर. यत्राहमस्मि ताँ२ऽ अव इति। अथ याज्या – मा नो अस्मिन्महाधने परावर्ग्भारभृद्यथा। संवर्गं संरयिं जय इति। अथो ह यो द्विषतो भ्रातृव्यात् संविवृक्षेत। तत्काम एतया यजेत। सं हैवास्मात् वृंक्ते। एतदेव तत्र कर्म॥३॥
तदाहुः – यस्य वैद्युतो दहेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्विद्यात्। उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। यद्यु अस्य हृदयं व्येव लिखेत्। अग्नयेऽप्सुमतेऽष्टाकपालं पुरोडाशं निर्वपेत्. तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे। गर्भे सञ्जायसे पुनः इति। अथ याज्या – गर्भो अस्योषधीनां गर्भो वनस्पतीनाम्। गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥४॥
तदाहुः - यस्याग्नयोऽमेध्यैरग्निभिः संसृज्येरन्। किं तत्र कर्म। का प्रायश्चित्तिरिति। अग्नये शुचयेऽष्टाकपालं पुरोडाशं निर्वपेत्। तस्यावृत्। ता एव सप्तदश सामिधेनीरनुब्रूयात्। वार्त्रघ्नावाज्यभागौ। विराजौ संयाज्ये। अथैते याज्याऽनुवाक्ये – अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः। शुची रोचत आहुतः इति। अथ याज्या – उदग्ने शुचयस्तव शुक्रा भ्राजंत ईरते। तव ज्योतींष्यर्चयः इति। शांतिमेवाभ्यामेतद्वदति। यजमानस्य प्रजायै पशूनामहिंसायै। एतदेव तत्र कर्म॥५॥
तदाहुः - यस्याहवनीयमनुद्धृतमादित्योऽभ्यस्तमियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादपप्रयन्ति। तदस्मै व्यृध्यते। यस्माद्देवा अपप्रयन्ति। तामनुव्यृद्धिं यश्च वेद। यश्च न। ता उभावाहतुः। अनुद्धृतमस्याभ्यस्तमगादिति। तत्रेत्थं कुर्यात्। हरितं हिरण्यं दर्भे प्रबध्य पश्चाद्धर्तवै ब्रूयात्। तदेतस्य रूपं क्रियते। य एष तपति। अहर्वा एषः। तदह्नो रूपं क्रियते। पवित्रं दर्भाः। पवयत्येवैनं तत्। अथेध्ममादीप्य प्रांचं हर्तवै ब्रूयात्। ब्राह्मण आर्ष उद्धरेत्। ब्राह्णो वा आर्षेयः सर्वा देवताः। सर्वाभिरेवैनं तद्देवताभिः समर्द्धयति। तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य चतुर्गृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति। अथाहवनीये समिधमभ्याधाय दक्षिणं जान्वाच्य जुहोति – विश्वेभ्यो देवेभ्यः स्वाहा इति। स यथा ब्राह्मणमावसथवासिं क्रुद्धं यंतमुक्षवे हतोपमन्त्रयेत। एवमेवैतत् विश्वान्देवानुपमन्त्रयते। जानन्ति हैनम्। उप हैनमावर्तंते। एतदेव तत्र कर्म॥५॥
तदाहुः – यस्याहवनीयमनुद्धृतम् आदित्योऽभ्युदियात्। किं तत्र कर्म। का प्रायश्चित्तिरिति। एते वै रश्मयो विश्वे देवाः। तेऽस्मादूषिवांसोऽपप्रयंति। तदस्मै व्यृध्यते। यस्माद्देवा अपप्रयंति। तामनुव्यृद्धिं यश्च वेद। यश्च न। ता उभावाहतुः। अनुद्धृतमस्याभ्युदगादिति। तत्रेत्थं कुर्यात्। रजतं हिरण्यं दर्भे प्रबध्य पुरस्ताद्धर्तवै ब्रूयात्। तच्चंद्रमसो रूपं क्रियते। रात्रिर्वै चंद्रमाः। तद्रात्रे रूपं क्रियते। पवित्रं दर्भाः। पवयत्येवैनं तत्। अथेध्ममादीप्य अन्वंचं हर्तवै ब्रूयात्। ब्राह्मण आर्षेय उद्धरेत्। ब्राह्मणो वा आर्षेयः सर्वा देवताः। कर्वाभिरेवैनं तद्देवताभिः समर्द्धयति। तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य यथागृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति। अथाहवनीये समिधमभ्याधाय दक्षिणं जान्वाच्य जुहोति – विश्वेभ्यो देवेभ्यः स्वाहा इति। सोऽसावेव हंधुः। न ह वै तत्र काचनार्तिः। न रिष्टिर्भवति। यत्रैषा प्रायश्चित्तिः क्रियते। एतदेव तत्र कर्म॥७॥
१२.५.१
तदाहुः – यदेव दीर्घसत्र्.ग्निहोत्रं जुह्वत् प्रवसन् म्रियेत। जहुयुरस्मा ३ इ। ना ३ इति। तद्धैके होतव्यं मन्यन्ते। आगन्तोरिति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव जुहुयुः। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। स हैनममृष्यमाणस्तृप्रं सचते॥१॥
अथ हैक आहुः। एवमेवान्वाहिता अहूयमाननाः शयीरन्निति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इवेन्धीरन्। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। स हैनममृष्यमाणस्तृप्रं सचते॥२॥
अथ हैके। अरण्योरग्नी समारोह्य निदधति तम्। आहृते निर्मन्थन्ति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव निर्मन्येयुः। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। सहैनममृष्यमाणस्तृप्रं सचते॥३॥
इत्थमेव कुर्यात्। निवान्यवत्सामेष्टवै ब्रूयात्। तस्यै पयसा जुहुयात्। आर्तं वा एतत्पयः। यन्निवान्यवत्सायाः। आर्तमेतदग्निहोत्रम्। यन्मृतस्य तत्। आर्तेनैव तदार्त्तं निष्कृत्य श्रेयान् भवति॥४॥
तदपि उपमाऽस्ति। यत् द्वौ रथौ मृदितौ समागच्छेताम्। स्यादेवान्यतरः स्यदयिति॥५॥
तस्य वा एतस्याग्निहोत्रस्योपचारः। प्राचीनावीती दोहयति। यज्ञोपवीती वै देवेभ्यो दोहयति। अथैवं पितृणाम्॥६॥
नांगारेष्वधिश्रयति। यद्धांगारेष्वधिश्रयेत्। देवत्रा कुर्यात्। गार्हपत्यादुष्णं भस्म दक्षिणा निरुह्य। तस्मिन्नेनदधिश्रयति। पितृदेवत्यमेवैनत् तत्करोति॥७॥
नावज्योतयति। नापः प्रत्यानयति। यद्धावज्योतयेत्, यदपः प्रत्यानयेत्। देवत्रा कुर्यात्। न त्रिः प्रतिष्ठापं हरति। यत् त्रिः प्रतिष्ठापं हरेत्। देवत्रा कुर्यात्। सकृदेव निकर्षन् हरति। पितृदेवत्यमेवैनत् तत्करोति॥८॥
नोन्नेष्यामीत्याह। न चतुरुन्नयति। यद्धोन्नेष्यामीति ब्रूयात्। यच्चतुरुन्नयेत्। देवत्रा कुर्यात्। सकृदेव तूष्णीं न्यक् पर्यस्यति। पितृदेवत्यमेवैनत् तत्करोति॥९॥
नोपरिष्टात् समिधमभ्यस्य हरति। यद्धोपरिष्टात् समिधमभ्यस्य हरेत्। देवत्रा कुर्यात्। अधस्तादुपास्य हरति। पितृदेवत्यमेवैनत् तत्करोति॥१०॥
नोत्तरेण गार्हपत्यमेति। यद्धोत्तरेण गार्हपत्यमियात्। देवत्रा कुर्यात्। दक्षिणेन गार्हपत्यमेति। पितृदेवत्यमेवैनत् तत्करोति॥११॥
अथ यान्यमून्युदीचीनाग्राणि तृणाणि भवन्ति दक्षिणाग्राणि तानि करोति। पितृदेवत्यमेवैनत् तत्करोति। नोदिंगयति। नोपमृष्टेन प्राश्नाति। नोदुक्षति। पितृदेवत्यमेवैनत् तत्करोति॥१२॥
तदाहुः – यदेष दीर्घसत्र्यग्निहोत्रं जुह्वत् प्रवसन् म्रियेत। कथमेनमग्निभिःकुर्युरिति। तं हैकेऽदग्ध्वाऽऽ हरन्ति। तमाहृतमग्निभिः संघ्रापयन्ति। तदु तथा न कुर्यात्। यथाऽन्यस्यां योनौ रेतः सिक्तम्। तदन्यस्यां प्रजिजनयिषेत्। तादृक्तत्। अस्थीन्येतान्याहृत्य। कृष्णाजिने न्युप्य। पुरुषविधिं विधाय। ऊर्णाभिः प्रच्छाद्य। आज्येनाभिघार्य। तमग्निभिः समुपोषेत्। तदेनं स्वाद्योनेः प्रजनयतीति॥१३॥
तं हैके – ग्रामाग्निना दहन्ति। तदु तथा न कुर्यात्। एष वै विश्वात् क्रव्यादग्निः। स हैनमीश्वरः सपुत्रं सपशुं समत्तोः॥१४॥
अथ हैके – प्रदव्येन दहन्ति। तदु तथा न कुर्यात्। एष वा अशान्तोऽग्निः। स हैनमीश्वरः सपुत्रं सपशुं प्रदग्धोः॥१५॥
अथ हैके – उल्मुक्येन दहन्ति। तदु तथा न कुर्यात्। एष वै रुद्रियोऽग्निः। स हैनमीश्वरः सपुत्रं सपशुमभिमन्तोः॥१६॥
अथ हैके – अन्तरेणाग्नींश्चितिं चित्वा तमग्निभिः समुपोषन्ति। एतद्वै यजमानस्यायतनम्। यदन्तरेणाग्नीनिति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। मध्ये न्वा अयं ग्रामस्याशसनमजीजनत। क्षिप्रेऽस्याशसनं जनिष्यते। प्रियतमं रोत्स्यतीति। ईश्वरो ह तथैव स्यात्॥१७॥
इति द्वितीयप्रपाठके सप्तमं ब्राह्मणम्॥
१२.५.२

अथ ह स्माह नाको मौद्गल्यः॥ मरिष्यंतं चेद्यजमानं मन्येत। यत्रैवास्मा आशसनं जोषितं स्यात्। तदरण्योरग्नी समारोह्य निर्मथ्य जुह्वद्वसेत्। स यदाऽस्माल्लोकाद्यजमानः प्रेयात्॥१॥
अथैनमन्तरेणाग्नींश्चितिं चित्वा। तमग्निभिः समुपोषेदिति। तदु तथा न कुर्यात् अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव जुहुयुः। यज्ञाय वा एषः। आहुतिभ्यस्तस्थान स हैनममृष्यमाणस्तृप्रं सचते॥२॥
इत्थमेव कुर्यात्। तिस्र एव स्थालीरेष्टवै ब्रूयात्। तासु गोमयानि च शुंबलानि चावधाय। नाना त्रिष्वग्निषु प्रवृंज्यात्। ते ये ततः सन्तापादग्नयो जायेरन्। तैरेनं दहेयुः। तथो ह तैरेव दग्धो भवति। नो प्रत्यक्षमिव॥३॥
तस्मादपि एतत् ऋषिणाऽभ्यनूक्तम् – यो अग्निरग्रेरध्यजायत शोकात्पृथिव्या उत वा दिवस्परि। येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु इति। यथा ऋक् तथा ब्राह्मणम्॥४॥
अथैनं विपुरीषं कृत्वा। अस्यां पुरीषं प्रतिष्ठापयति। पुरीषं वा इयम्। तत्पुरीष एवैतत्पुरीषं दधाति। या ह वा अस्यैषा वृकला सपुरीषा। तस्यै ह विदग्धायै सृगालः संभवति। नेत् सृगालः संभवदिति। तदु तथा न कुर्यात्। क्षोधुका हास्य प्रजा भवति। तमंतरतः प्रक्षाल्य, आज्येनान्वनक्ति। मेध्यमेवैनं तत्करोति॥५॥
अथास्य सप्तसु प्राणायतनेषु सप्त हिरण्यशकलान् प्रास्यति। ज्योतिर्वा अमृतं हिरण्यम्। ज्योतिरेवास्मिंस्तदमृतं दधाति॥६॥
अथैनमंतरेणाग्नीन् चितिं चित्वा। कृष्णाजिनमुत्तरलोम प्राचीनग्रीवं प्रस्तीर्य। तस्मिन्नेनमुत्तानं निपाद्य। जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति। सव्य उपभृतम्। उरसि ध्रुवाम्। मुखेऽग्निहोत्रहवणीम्। नासिकयोः स्रुवौ। कर्णयोः प्राशित्रहरणे। शीर्षंश्चमसं प्रणीताप्रणयनम्। पार्श्वयोः शूर्पे। उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीम्। शिश्नस्यांते शम्याम्। आंडयोरंते वृषास्वौ। अन्वगुलूखलं च मुसलं च। अंतरेणोरू अन्यानि यज्ञपात्राणि। दक्षिणे पाणौ स्फ्यम्॥७॥
स एष यज्ञायुधी यजमानः यथा बिभ्यदामोषमतीयात्। एवमेव योऽस्य स्वर्गे लोको जितो भवति। तमभ्यत्येति। तमेते संताप्या अग्नयो यथा पुत्राः पितरं प्रोषुषमागतं शिवमुपस्पृशंति। एवं शिवं हैवैनमुपस्पृशंति। प्र हैवैनं कल्पयंति॥८॥
तं यदि गार्हपत्यः पूर्वः प्राप्नुयात्। तद्विद्यात्। प्रतिष्ठ एनमग्निः पूर्वः प्रापत्। प्रतिष्ठास्यति। प्रत्येव तेऽस्मिन् लोके स्थास्यंति। येऽस्मात्प्रत्यंच इति॥९॥
अथ यद्याहवनीयः। तद्विद्यात्। मुख्य एनमग्निः पूर्वः प्रापत्। मुखतो लोकानजैषीत्। मुखमेव तेऽस्मिन् लोके भविष्यंति। येऽस्मात्प्रत्यंच इति॥१०॥
अथ यद्यन्वाहार्यपचनः। तद्विद्यात्। अन्नाद एनमग्निः पूर्वः प्रापत्। अन्नमत्स्यति। अन्नमेव तेऽस्मिन् लोकेऽत्स्यन्ति। येऽस्मात्प्रत्यंच इति॥११॥
अथ यदि सर्वे सकृत्। तद्विद्यात्। कल्याणं लोकमजैषीदिति। एतान्यस्मिन् विज्ञानानि॥१२॥
तां वा एतां यजमानात्माहुतिमंततो जुहोति। स योऽस्य स्वर्गे लोको जितो भवति। तत आहुतिमयोऽमृतः संभवति॥१३॥
अथ यान्यश्ममयानि च मृन्मयानि च भवन्ति। तानि ब्राह्मणाय दद्यात्। शवोद्वहमु ह तं मन्यन्ते। यस्तानि प्रतिगृह्णाति। अप एवैनान्यभ्यवहरेयुः। आपो वा अस्य सर्वस्य प्रतिष्ठा। तदेनमप्स्वेव प्रतिष्ठापयति॥१४॥
अथैतामाहुतिं जुहोति। पुत्रो वा भ्राता वा यो वाऽन्यो ब्राह्मणः स्यात् – अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः। असौ स्वर्गाय लोकाय स्वाहा इति। अनपेक्षमेत्य अप उपस्पृशंति॥१५॥
इति द्वितीयप्रपाठकेऽष्टमं ब्राह्मणम्॥
१२.६.१

अथ ज्योतिष्टोमप्रायश्चित्तब्राह्मणम्

सोमो वै राजा यज्ञः प्रजापतिः। तस्यैतास्तन्वः। या एता देवताः। या एता आहुतीर्जुहोति॥१॥
स यद्यज्ञस्यार्छेत्। यां तत्प्रति देवतां मन्येत। तामनुसमीक्ष्य जुहुयात्। यदि दीक्षोपसत्स्वाहवनीये। यदि प्रसुत आग्नीध्रे। वि वाऽएतत् यज्ञस्य पर्व स्रंसते – यत् ह्वलति। सा यैव तर्हि तत्र देवता भवति। तयैवैतत् देवतया यज्ञम्भिषज्यति। तया देवतया यज्ञं प्रतिसंदधाति॥२॥
स यद्येनं मनसाऽभिध्यातो यज्ञो नोपनमेत्। परमेष्ठिने स्वाहा इति जुहुयात् परमेष्ठी हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३॥
अथ यद्येनं वाचाऽभिव्याहृतो यज्ञो नोपनमेत्। प्रजापतये स्वाहा इति जुहुयात्। प्रजापतिर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥४॥
अथ यस्य राजानमच्छेत्त्वा नाहरन्त एयुः। अन्धसे स्वाहा इति जुहुयात्। अन्धो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥५॥
अथ यदि सातः किंचिदापद्येत। सवित्रे स्वाहा इति जुहुयात्। सविता हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥६॥
अत यदि दीक्षासु किंचिदापद्येत। विश्वकर्मणे स्वाहा इति जुहुयात्। विश्वकर्मा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥७॥
अथ यदि सोमक्रयण्यां किंचिदापद्येत। पूष्णे स्वाहा इति जुहुयात्। पूषा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥८॥
अथ यदि क्रयायोपोत्थितः किंचिदापद्येत। इन्द्राय च मरुद्भ्यश्च स्वाहा इति जुहुयात्। इन्द्रश्च ह स तर्हि मरुतश्च भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥९॥
अथ यदि पण्यमानः किंचिदापद्येत। असुराय स्वाहा इति जुहुयात्। असुरो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१०॥
अथ यदि क्रीतः किंचिदापद्येत। मित्राय स्वाहा इति जुहुयात्। मित्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥११॥
अथ यद्यूरावासन्नः किंचिदापद्येत। विष्णवे शिपिविष्टाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि शिपिविष्टो भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२॥
अथ यदि पर्युह्यमाणः किंचिदापद्येत। विष्णवे नरंधिषाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि नरन्धिषो भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१३॥
अथ यद्यागतः किंचिदापद्येत। सोमाय स्वाहा इति जुहुयात्। सोमो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१४॥
अथ यद्यासंद्यामासन्नः किंचिदापद्येत। वरुणाय स्वाहा इति जुहुयात्। वरुणो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१५॥
अथ यद्याग्नीध्रगतः किंचिदापद्येत। अग्नये स्वाहा इति जुहुयात्। अग्निर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१६॥
अथ यदि हविर्द्धानगतः किंचिदापद्येत। इन्द्राय स्वाहा इति जुहुयात्। इन्द्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१७॥
अथ यदुपावह्रियमाणः किंचिदापद्येत। अथर्वणे स्वाहा इति जुहुयात्। अथर्वा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१८॥
अथ यद्यंशुषु न्युप्तः किंचिदापद्येत। विश्वेभ्यो देवेभ्यः स्वाहा इति जुहुयात्। विश्वे हि स तर्हि देवा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१९॥
अथ यद्याप्याय्यमानः किंचिदापद्येत। विष्णव आप्रीतपाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्ह्याप्रीतपा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२०॥
अथ यद्यभिषूयमाणः किंचिदापद्येत। यमाय स्वाहा इति जुहुयात्। यमो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२१॥
अथ यदि संभ्रियमाणः किञ्चिदापद्येत। विष्णवे स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२२॥
अथ यदि पूयमानः किंचिदापद्येत। वायवे स्वाहा इति जुहुयात्। वायुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२३॥
अथ यदि पूतः किंचिदापद्येत। शुक्राय स्वाहा इति जुहुयात्। शुक्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२४॥
अथ यदि क्षीरश्रीः किंचिदापद्येत। शुक्राय स्वाहा इति जुहुयात्। शुक्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२५॥
अथ यदि सक्तुश्रीः किंचिदापद्येत। मंथिने स्वाहा इति जुहुयात्। मंथी हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२६॥
अथ यदि चमसेषून्नीतः किंचिदापद्येत। विश्वेभ्यो देवेभ्यः स्वाहा इति जुहुयात्। विश्वे हि स तर्हि देवा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२७॥
अथ यदि होमायोद्यतःकिंचिदापद्येत। असवे स्वाहा इति जुहुयात्। असुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२८॥
अथ यदि हूयमानः किंचिदापद्येत। रुद्राय स्वाहा इति जुहुयात्। रुद्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥२९॥
अथ यद्यभ्यावृत्तः किंचिदापद्येत। वाताय स्वाहा इति जुहुयात्। वातो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३०॥
अथ यदि प्रतिख्यातः किंचिदापद्येत। नृचक्षसे स्वाहा इति जुहुयात्। नृचक्षा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३१॥
अथ यदि भक्ष्यमाणः किंचिदापद्येत। भक्षाय स्वाहा इति जुहुयात्। भक्षो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३२॥
अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत। पितृभ्यो नाराशंसेभ्यः स्वाहा इति जुहुयात्। पितरो हि स तर्हि नाराशंसा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३३॥
अथ यद्यवभृथायोद्यतः किंचिदापद्येत। सिंधवे स्वाहा इति जुहुयात्। सिंधुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३४॥
अथ यद्यभ्यवह्रियमाणः किंचिदापद्येत। समुद्राय स्वाहा इति जुहुयात्। समुद्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३५॥
अथ यदि प्रप्लुतः किंचिदापद्येत। सलिलाय स्वाहा इति जुहुयात्। सलिलो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥३६॥
ता वा एताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोति। त्रयस्त्रिंशद्वै देवाः। प्रजापतिश्चतुस्त्रिंशः। एतदु सर्वैर्देवैर्यज्ञं भिषज्यति। सर्वैर्देवैर्यज्ञं प्रतिसंदधाति॥३७॥
ता ब्रह्मैव जुहुयात्। नाब्रह्मा। ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते। ब्रह्मा यज्ञं दक्षिणतो गोपायति। यदि तु ब्रह्मा न विद्यात्। अपि य एव कश्च विद्यात्। स जुहुयात्। ब्रह्माणं त्वामंत्र्य। ब्रह्मणाऽतिसृष्टः। तासां वा एतासां व्याहृतीनां बन्धुता। वसिष्ठो ह विराजं विदांचकार। तां हेन्द्रोऽभिदध्यौ॥३८॥
स होवाच – ऋषे विराजं ह वै वेत्थ। तां मे ब्रूहीति। स होवाच – किं मम ततः स्यादिति। सर्वस्य च ते यज्ञस्य प्रायश्चित्तिं ब्रूयाम्। रूपं च त्वा दर्शयेय इति। स होवाच – यन्नु मे सर्वस्य यज्ञस्य प्रायश्चित्तिं ब्रूयाः। किमु न स्यात्। यं त्वं रूपं दर्शयेथा इति। जीवस्वर्ग एवास्माल्लोकात्प्रेयादिति॥३९॥
ततो हैतामृषिरिन्द्राय विराजमुवाच। इयं वै विराडिति। तस्माद्योऽस्यै भूयिष्ठं लभते। स एव श्रेष्ठो भवति॥४०॥
अथ हैतामिंद्र ऋषये प्रायश्चित्तिमुवाच। अग्निहोत्रादग्र आ महत उक्थात्। ता ह स्मैताः पुरा व्याहृतीर्वसिष्ठा एव विदुः। तस्माद्ध स्म पुरा वासिष्ठ एव ब्रह्मा भवति। यतस्त्वेना अप्येतर्हि य एव कश्चाधीते। ततोऽप्येतर्हि य एव कश्च ब्रह्मा भवति। स ह वै ब्रह्मा भवितुमर्हति। स वा ब्रह्मन्नित्यामन्त्रितः प्रतिशृणुयात्। य एवमेता व्याहृतीर्वेद॥४१॥
इति तृतीयप्रपाठके प्रथमं ब्राह्मणम्॥
समाप्तानि प्रायश्चित्तानि॥
१२.७.१

अथ सौत्रामणी यागः।
विश्वरूपं वै त्वाष्ट्रमिन्द्रोऽहन्। तं त्वष्टा हतपुत्रोऽभ्यचरत्। सोऽभिचरणीयमपेन्द्रं सोममाहरत्। तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्। स विष्वङ्व्यार्च्छत्। तस्येन्द्रियं वीर्यमङ्गादङ्गादस्रवत्॥१॥
तस्याक्षिभ्यामेव तेजोऽस्रवत्, गोऽजः पशुरभवद्धूम्रः। अथ यत्पक्ष्मभ्यस्ते गोधूमाः। यदश्रुभ्यस्तत्कुवलम्॥२॥
नासिकाभ्यामेवास्य वीर्यमस्रवत्, सोऽविः पशुरभवन्मेषः। अथ यत् श्लेष्मणस्ता उपवाकाः। यत् स्नीहा तद्बदरम्॥३॥
मुखादेवास्य बलमस्रवत्, स गौः पशुरभवदृषभः। अथ ये फेनास्ते यवाः। यत् स्नेहः तत्कर्कन्धु॥४॥
श्रोत्रादेवास्य यशोऽस्रवत्, तदेकशफमभवत्, अश्वोऽश्वतरो गर्द्दभः॥५॥
स्तनाभ्यामेवास्य शुक्रमस्रवत्, तत्पयोऽभवत्, पशूनां ज्योतिः। उरस एवास्य हृदयात्त्विषिरस्रवत्, स श्येनोऽपाष्ठिहाऽभवत्, वयसां राजा॥६॥
नाभ्या एवास्य शूषोऽस्रवत्, तत्सीसमभवत्, नायः, न हिरण्यम्। रेतस एवास्य रूपमस्रवत्, तत् सुवर्णं हिरण्यमभवत्। शिश्नादेवास्य रसोऽस्रवत्, सा परिस्रुदभवत्। स्फिगीभ्यामेवास्य भामोऽस्रवत्, सा सुराऽभवत्, अन्नस्य रसः॥७॥
मूत्रादेवास्यौजोऽस्रवत्, स वृकोऽभवत्, आरण्यानां पशूनां जूतिः। ऊवध्यादेवास्य मन्युरस्रवत्, स व्याघ्रोऽभवत्, आरण्यानां पशूनां राजा। लोहितादेवास्य सहोऽस्रवत्, स सिंहोऽभवत्, आरण्यानां पशूनामीशः॥८॥
लोमभ्य एवास्य चित्तमस्रवत्, ते श्यामाका अभवन्। त्वच एवास्यापचितिरस्रवत्, सो ऽश्वत्थो वनस्पतिरभवत्। मांसेभ्य एवास्योर्गस्रवत्, स उदुंबरोऽभवत्। अस्थिभ्य एवास्य स्वधाऽस्रवत्, स न्यग्रोधोऽभवत्। मज्जभ्य एवास्य भक्षः सोमपीथोऽस्रवत्, ते व्रीहयोऽभवन्। एवमस्येन्द्रियाणि वीर्याणि व्युदक्रामन्॥९॥
अथ ह वै तर्हि नमुचिनैवासुरेण सह चचार। स ऐक्षत नमुचिः, अपुनर्वा अयमभूत्। हंत अस्येन्द्रियं वीर्यं सोमपीथमन्नाद्यं हराणीति। तस्यैतयैव सुरयेन्द्रियं वीर्यं सोमपीथमन्नाद्यमहरत्। स ह न्यर्णः शिश्ये। तं देवा उपसंजग्मिरे। श्रेष्ठो वै नोऽयमभूत्। तमिमं पाप्माऽविदत्। हन्त इमं भिषज्यामेति॥१०॥
तेऽश्विनावब्रुवन्। युवं वै ब्रह्माणौ भिषजो स्थः। युवमिमं भिषज्यतमिति। तावब्रूताम्। अस्तु नौ भाग इति। तेऽब्रुवन्। य एषोऽजः, स वां भाग इति। तथेति। तस्मादाश्विनो धूम्रो भवति॥११॥
ते सरस्वतीमब्रुवन्। त्वं वै भैषज्यमसि। त्वमिमं भिषज्येति। साऽब्रवीत्। अस्तु मे भाग इति। तेऽब्रुवन्। य एषोऽविः, स ते भाग इति। तथेति। तस्मात्सारस्वतो मेषो भवति॥१२॥
अथाब्रुवन्। एतावद्वा अस्मिन् एतर्हि। यावत् अयमृषभः। अस्यैवायमस्त्विति। तथेति। तस्मादैन्द्र ऋषभो भवति॥१३॥
तावश्विनौ च सरस्वती च इंद्रियं वीर्यं नमुचेराहृत्य तदस्मिन्पुनरदधुः। तं पाप्मनोऽत्रायंत। सुत्रातं बतैनं पाप्मनोऽत्रास्महीति। तद्वाव सौत्रामण्यभवत्। तत्सौत्रामण्यै सौत्रामणीत्वम्। त्रायते मृत्योरात्मानम्। अप पाप्मानं हते। य एवमेतत्सौत्रामण्यै सौत्रामणीत्वं वेद। त्रयस्त्रिंशद्दक्षिणा भवंति। त्रयस्त्रिंशद्धि तं देवता अभिषज्यन्। तस्मादाहुः। भेषजं दक्षिणा इति॥१४॥
इति तृतीयप्रपाठके द्वितीयं ब्राह्मणम्॥

१२.७.२

अप वा एतस्मात्तेज इंद्रियं वीर्यं क्रामति। यं सोमोऽतिपवते – ऊर्ध्वं वा, अवांचं वा॥१॥
तदाहुः – अन्नं वा एतद् ब्राह्मणस्य – यत्सोमः। न वै सोमेन ब्राह्मणः सोमवामी सः। यो वा अलं भूत्यै सम्भूतिं न प्राप्नोति। यो वाऽलं पशुभ्यः सन्पशून्न विंदते। स सोमवामी। पशवो हि सोम इति॥२॥
(१)स एतमाश्विनं धूम्रमालभेत।(२)सारस्वतं मेषम्।(३)ऐन्द्रमृषभम्। अश्विनौ वै देवानां भिषजौ। ताभ्यामेवैनं भिषज्यति। सरस्वती भेषजम्। तयैवास्मिन् भेषजं करोति। इंद्र इंद्रियं वीर्यम्। तेनैवास्मिन्निन्द्रियं वीर्यं दधाति॥३॥
चक्षुर्वा अश्विनौ तेजः। यदाश्विनो भवति। चक्षुरेवास्मिंस्तत्तेजो दधाति, अथो श्रोत्रम्। समानं हि चक्षुश्च श्रोत्रं च॥४॥
प्राणः सरस्वती वीर्यम्। यत्सारस्वतो भवति। प्राणमेवास्मिंस्तद्वीर्यं दधाति, अथो अपानम्। समानं हि प्राणश्चापानश्च॥५॥
वागिन्द्रो बलम्। यदैंद्रो भवति। वाचमेवास्मिंतद्बलं दधाति, अथो मनः। समानं हि वाक् च मनश्च॥६॥
आश्विनीरजाः सारस्वतीरवीरैंद्रीर्गाव इत्याहुः। यदेते पशव आलभ्यंते। एताभिरेव देवताभिरेतान्पशूनवरुन्धे॥७॥
(४)वडवाऽनुशिशुर्भवति। यश एवैकशफमवरुंधे। आरण्यानां पशूनां लोमानि भवंति। आरण्यानां पशूनामवरुद्ध्यै।(५) वृकलोमानि भवंति। ओज एव जूतिमारण्यानां पशूनामवरुंधे। (६) व्याघ्रलोमानि भवंति। मन्युमेव राज्यमारण्यानां पशूनामवरुंधे। (७) सिंहलोमानि भवंति। सह एवेशामारण्यानां पशूनामवरुन्धे॥८॥
(८) व्रीहयश्च (९) श्यामाकाश्च भवन्ति। (१०)गोधूमाश्च (११) कुवलानि च । (१२) उपवाकाश्च (१३)बदराणि च। (१४) यवाश्च (१५)कर्क्कन्धूनि च। (१६) शष्पाणि च (१७) तोक्मानि च। उभयमेव ग्राम्यं चान्नमारण्यं चावरुन्धे। अथो उभयेनैवान्नेन यथा रूपमिन्द्रियं वीर्यमात्मन्धत्ते॥९॥
(१८) सीसेन शष्पाणि क्रीणाति। (१९) ऊर्णाभिस्तोक्मानि। (२०) सूत्रैर्व्रीहीन्। उभयोर्वा एतद्रूपम्। अयसश्च हिरण्यस्य च। यत्सीसम्। उभयं सौत्रामणी। इष्टिश्च पशुबन्धश्च। उभयस्यावरुद्ध्यै॥१०॥
(२१) ऊर्णासूत्रेण क्रीणाति। तद्वा एतत् स्त्रीणां कर्म, यदूर्णासूत्रम्। कर्म वा इन्द्रियं वीर्यम्। तदेतदुत्सन्नं स्त्रीषु। तद्यदेवेन्द्रियं वीर्यमुत्सन्नं स्त्रीषु तदेवावरुन्धे॥११॥
तद्धैतत् अन्येऽध्वर्यवः – सीसेन क्लीबाच्छष्पाणि क्रीणंति। तत्तदिति। न वा एष स्त्री, न पुमान्। यत् क्लीबः। नेष्टिर्न पशुबंधः सौत्रामणीति वदंतः। तदु तथा न कुर्यात्। उभयं वै सौत्रामणी। इष्टिश्च पशुबंधश्च। व्यृद्धमु वा एतन्मनुष्येषु। यत् क्लीबः। यज्ञमुख एव ते यज्ञस्य व्यृद्धिं दधति। ये तथा कुर्वन्ति। सोमविक्रयिण एव क्रीणीयात्। सोमो वै सौत्रामणी यज्ञमुख एव तत्सोमरूपं करोति। यज्ञस्य समृद्ध्यै॥१२॥
(२२) शतातृण्णा कुंभी भवति। बहुधेव स व्यस्रवत्। अथो शतोन्मानो वै यज्ञो यज्ञमेवावरुंधे। (२३) सतं भवति। सदेवावरुंधे। (२४) चप्पं भवति। अन्नाद्यस्यैवावरुद्ध्यै। (२५) पवित्रं भवति। पुनंति ह्येनम्। (२६) वालो भवति। पाप्मनो व्यावृत्त्यै। (२७) सुवर्णं (२८) हिरण्यं भवति। रूपस्यैवावरुद्ध्यै। (२९) शतमानं भवति। शतायुर्वै पुरुषः शतेंद्रियः। आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥१३॥
(३०) आश्वत्थं पात्रं भवति। अपचितिमेवावरुंधे। (३१) औदुंबरं भवति। ऊर्जमेवावरुंधे। (३२) नैयग्रोधं भवति। स्वधामेवावरुंधे। (३३) स्थाल्यो भवंति। पृथिव्या एवान्नाद्यमवरुंधे॥१४॥
(३४) पालाशान्युपशयानि भवंति। ब्रह्म वै पलाशः। ब्रह्मणैव स्वर्गं लोकं जयति। अपाष्ठिहस्य (३५,३६) पत्रे भवतः। त्विषिमेव राज्यं वयसामवरुंधे। षट्त्रिंशदेतानि भवंति। षट्त्रिंशदक्षरा वै बृहती। बार्हताः पशवः। बृहत्यैवास्मै पशूनवरुंधे॥१५॥
तदाहुः – अन्यदेवत्याः पशवो भवंति। अन्यदेवत्या- पुरोडाशाः। विलोमैतत्क्रियते। कथमेतत्सलोम भवतीति। ऐंद्रः पशूनामुत्तमो भवति। ऐंद्रः पुरोडाशानां प्रथमः। इंद्रियं वै वीर्यम् इंद्रः। इंद्रियेणैवास्मा इंद्रियं वीर्यं संदधाति। इंद्रियेणेंद्रियं वीर्यमवरुंधे॥१६॥
सावित्रः पुरोडाशो भवति। सवितृप्रसूततायै। वारुणो भवति। वरुणो वा एतं गृह्णाति। यः पाप्मना गृहीतो भवति। वरुणेनैवैनं वरुण्यान्मुंचति। अंत्यो भवति। अंतत एवैनं वरुणपाशात्प्रमुंचति॥१७॥
एकादशकपाल ऐंद्रो भवति। एकादशाक्षरा वै त्रिष्टुप्। इंद्रियमु वै वीर्यं त्रिष्टुप्। इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै॥१८॥ द्वादशकपालः सावित्रो भवति। द्वादश वै मासाः संवत्सरस्य। संवत्सरं वा अन्नाद्यमन्वायत्तम्। संवत्सरादेवास्मा अन्नाद्यमवरुंधे॥१९॥
दशकपालो वारुणो भवति। दशाक्षरा वै विराट्। अन्नं विराट्। वरुणोऽन्नपतिः। वरुणेनैवास्मा अन्नमवरुन्धे। मध्यत एतैः पुरोडाशैः प्रचरति। मध्यं वा एतेषां योनिः। स्वादेवैनान् योनेः प्रजनयति॥२०॥
वडवाऽनुशिशुर्दक्षिणा भवति। उभयं वा एषा जनयति। अश्वं चाश्वतरं च। उभयं सौत्रामणी। इष्टिश्च पशुबन्धश्च। उभयस्यैवावरुद्ध्यै॥२१॥
१२.७.३

इन्द्रस्येन्द्रियम् अन्नस्य रसम्, सोमस्य भक्षं सुरयाऽऽसुरो नमुचिरहरत्। सोऽश्विनौ च सरस्वतीं चोपाधावत्। शेपानोऽस्मि नमुचये। न त्वा दिवा न नक्तं हनानि। न दंडेन। न धन्वना। न पृथेन। न मुष्टिना। न शुष्केण। नार्द्रेण। अथ म इदमहार्षीत्। इदं म आजिहीर्षयेति॥१॥
ते अब्रुवन्। अस्तु नोऽत्रापि। अथाहरामेति। सह न एतत् अथाहरतेत्यब्रवीदिति॥२॥
तावश्विनौ च सरस्वती च अपां फेनं वज्रमसिञ्चन्। न शुष्को नार्द्र इति। तेनेंद्रो नमुचेरासुरस्य व्युष्टायां रात्रौ, अनुदित आदित्ये, न दिवा न नक्तमिति शिर उदवासयत्॥३॥
तस्मादेतदृषिणाऽभ्यनूक्तम्। अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः। विश्वा यदजयः स्पृधः इति। पाप्मा वै नमुचिः। पाप्मानं वाव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्यावृंक्त। स यो भ्रातृव्यवान् स्यात्। स सौत्रामण्या यजेत। पाप्मानमेव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्य वृंक्ते। तस्य शीर्षंश्छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्। तस्मादबीभत्संत। त एतदन्धसो विपानमश्यन्। सोमो राजाऽमृतं सुतः इति। तेनैनं स्वदयित्वाऽऽत्मन्नदधत॥4॥
स्वाद्वीं त्वा स्वादुना इति सुरां सन्दधाति। स्वदयत्येवैनाम्। तीव्रां तीव्रेण इति। इन्द्रियमेवास्मिन् दधाति। अमृताममृतेन इति। आयुरेवास्मिन् दधाति। मधुमतीं मधुमता इति। रसमेवास्यां दधाति। सृजामि सं सोमेन इति। सोमरूपमेवैनां करोति॥५॥
सोमोऽस्यश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, इन्द्राय सुत्राम्णे पच्यस्व इति। एता वा एतं देवता अग्रे यज्ञं समभरन्। ताभिरेवैनं संभरति। अथो एता एवैतद्देवता भागधेयेन समर्द्धयति। आसुनोति सुत्यायै। तिस्रो रात्रीर्वसति। तिस्रो हि रात्रीः सोमः क्रीतो वसति। सोमरूपमेवैनां करोति॥६॥
द्वे वेदी भवतः। द्वौ वाव लोकावित्याहुः। देवलोकश्चैव पितृलोकश्चेति। उत्तराऽन्या भवति। दक्षिणाऽन्या। उत्तरो वै देवलोकः। दक्षिणः पितृलोकः। उत्तरयैव देवलोकमरुन्धे। दक्षिणया पितृलोकम्॥७॥ पयश्च सुरा च भवतः। सोमो वै पयः। अन्नं सुरा। पयसैव सोमपीथमवरुन्धे। सुरयाऽन्नाद्यम्। क्षत्त्रं वै पयः। विट् सुरा। सुरां पूत्वा पयः पुनाति। विश एव तत् क्षत्त्रं जनयति। विशो हि क्षत्त्रं जायते॥८॥
वायोः पूतः पवित्रेण प्रत्यङ्क्सोमो अतिद्रुतः इति। सोमातिपूतस्य पुनाति। यथारूपमेवैनं पुनाति। इन्द्रस्य युज्यः सखा इति। यदेवास्य तेनेन्द्रियं वीर्यमतिक्रान्तं भवति। तदस्मिन् पुनर्दधाति॥९॥
वायोः पूतः पवित्रेण प्राङ्क्सोमो अतिद्रुतः इति सोमवामिनः पुनाति। यथारूपमेवैनं पुनाति। इन्द्रस्य युज्यः सखा इति। यदेवास्य तेनेन्द्रियं वीर्यमतिक्रान्तं भवति। तदस्मिन्पुनर्दधाति॥१०॥
पुनाति ते परिस्रुतम् इति समृद्धिकामस्य पुनाति। समृद्ध्यै। सोमं सूर्यस्य दुहिता इति। श्रद्धा वै सूर्यस्य दुहिता। श्रद्धयैष सोमो भवति। श्रद्धयैवैनं सोमं करोति। वारेण शश्वता तना इति। वालेन ह्येषा पूयते॥११॥
ब्रह्म क्षत्त्रं पवते इति पयः पुनाति। ब्रह्मण एव तत्क्षत्रं जनयति। ब्रह्मणो हि क्षत्त्रं जायते। तेज इन्द्रियम् इति तेज एवास्मिन्निन्द्रियं वीर्यं दधाति। सुरया सोमः इति। सुरया हि सोमः। सुत आसुतः इति। आसुताद्धि सूयते। मदाय इति। मदाय वाव सोमः। मदाय सुरा। उभावेव सोममदं च सुरामदं चावरुन्धे। शुक्रेण देव देवताः पिपृग्धि इति। शुक्रेण देव देवताः प्रीणीहीत्येवैतदाह। रसेनान्नं यजमानाय धेहि इति। रसमेवान्नं यजमाने दधाति। पूर्वे पयोग्रहा गृह्यन्ते। परे सुराग्रहाः। विशं तत्क्षत्त्रस्यानुवर्त्मानं करोति॥१२॥
कुविदंग यवमन्तो यवं चित् इति पयोग्रहान् गृह्णाति। सोमांशवो वै यवाः। सोमः पयः। सोमेनैवैनं सोमं करोति। एकया गृह्णाति। एकधैव यजमाने श्रियं दधाति। श्रीर्हि पयः॥१३॥
नाना हि वां देवहितं सदस्कृतम् इति सुराग्रहान् गृह्णाति। नाना हि सोमश्च सुरा च। देवहितमिति। देवहिते ह्येते। नाना सदस्कृतमिति। द्वे हि वेदी भवतः। मा संसृक्षाथां परमे व्योमन् इति। पाप्मनैवैनं व्यावर्तयति। सुरा त्वमसि शुष्मिणी इति। सुरामेव सुरां करोति। सोम एषः इति। सोममेव सोमं करोति। मा मा हिंसीः स्वां योनिमाविशन्ती इति। यथायोन्येवैनां व्यावर्तयति। आत्मनोऽहिंसायै। एकया गृह्णाति। एकधैव यजमाने यशो दधाति। यशो हि सुरा॥१४॥
क्षत्त्रं वै पयोग्रहाः। विट् सुराग्रहाः। यदव्यतिषक्तान् गृह्णीयात्। विशं क्षत्त्रात् व्यवच्छिन्द्यात्। क्षत्त्रं विशः पापवस्यसं कुर्यात्। यज्ञस्य व्यृद्धिम्। व्यतिषक्तान् गृह्णाति। विशमेव क्षत्त्रेण सन्दधाति। क्षत्त्रं विशा। पापवस्यसस्य व्यावृत्त्यै। यज्ञस्य समृद्ध्यै॥१५॥
प्राणा वै पयोग्रहाः। शरीरं सुराग्रहाः। यदव्यतिषक्तान् गृह्णीयात्। शरीरं प्राणेभ्यो व्यवच्छिन्द्यात्। प्राणान् शरीरात्। प्रमायुको यजमानः स्यात्। व्यतिषक्तान् गृह्णाति। शरीरमेव प्राणैः सन्दधाति। प्राणान् शरीरेण। अथो आयुरेवास्मिन् दधाति। तस्मात् सौत्रामण्येजानः सर्वमायुरेति। अथो य एवमेतद्वेद॥१६॥
सोमो वै पयोग्रहाः। अन्नं सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। सोमपीथं चैवान्नाद्यं चावरुन्धे॥१७॥
पशवो वै पयोग्रहाः। अन्नं सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। पशूंश्चैवान्नाद्यं चावरुन्धे॥१८॥
ग्राम्या वै पशवः पयोग्रहाः। आरण्याः सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। ग्राम्यांश्चैव पशूनारण्याश्चावरुन्धे। ग्राम्येण चान्नेनारण्येन च पयोग्रहान् श्रीणाति। तस्मात् ग्राम्याणां पशूनां ग्राम्यं चैवान्नाद्यमारण्यं चावरुद्धम्॥१९॥
तदाहुः – एतस्यै वा एतदघलायै देवतायै रूपम्। यदेते घोरा आरण्याः पशवः। यदेतेषां पशूनां लोमभिः पयोग्रहान् श्रीणीयात्। रुद्रस्यास्ये पशूनपिद्ध्यात्। अपशुर्यजमानः स्यात्। यन्न श्रीणीयात्। अनवरुद्धा अस्य पशवः स्युः। रुद्रो हि पशूनामीष्टे इति सुराग्रहानेवैतेषां पशूनां लोमभिः श्रीणाति। सुरायामेव तत् रौद्रं दधाति। तस्मात् सुरां पीत्वा रौद्रमनाः। अथो आरण्येष्वेव पशुषु रुद्रस्य हेतिं दधाति। ग्राम्याणां पशूनामहिंसायै। अवरुद्धा अस्य पशवो भवंति। न रुद्रस्यास्ये पशूनपिदधाति॥२०॥
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति। श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः॥ यदापिपेष मातरं पुत्रः प्रमुदितो धयन्। एतत्तदग्रे अनृणो भवाम्यहतौ पितरौ मया इति॥२१॥
अध्वर्युश्च प्रतिप्रस्थाता च जघनेन वेदिं प्रांचमावृत्तं यजमानं श्येनपत्राभ्यामूर्ध्वं चावांचं च पावयतः। प्राणोदानयोस्तत् रूपम्। प्राणोदानावेवावरुंधे। ऊर्ध्वश्च ह्ययमवाङ्च प्राण आत्मानमनु संचरति। संपृचः स्थ सं मा भद्रेण पृंक्त इति पयोग्रहान् संमृशति। श्रियैवैनं यशसा समर्द्धयति। विपृचः स्थ वि मा पाप्मना पृंक्त इति सुराग्रहान्। पाप्मनैवैनं व्यावर्तयति॥२२॥
१२.८.१
इन्द्रस्य वै यत्रेन्द्रियाणि वीर्याणि व्युदक्रामन्। तानि देवा एतेनैव यज्ञेन पुनः समदधुः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। इन्द्रियाण्येवास्मिन् तद्वीर्याणि सन्दधाति। उत्तरेऽग्नौ पयोग्रहान् जुह्वति। शुक्रेणैवैनं तत्सोमपीथेन समर्द्धयति॥१॥
स जुहोति – सुरावन्तं बर्हिषदं सुवीरम् इति। सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी। बर्हिषैवैनं यज्ञेन समर्द्धयति। यज्ञेन यजमानम्। दधानाः सोमम् इति। सोमपीथमेवास्मिन् दधति। दिवि देवतासु इति। दिव्येवैनं देवतासु दधति। मदेमेन्द्रम् इति। मदाय वाव सोमः। मदाय सुरा। उभावेव सोममदं च सुरामदं चावरुन्धे। यजमानाः स्वर्काः इति। अर्को वै देवानामन्नम्। अन्नं यज्ञः। यज्ञेनैवैनमन्नाद्येन समर्द्धयति। हुत्वा भक्षयन्ति। समृद्धमेवास्य तद् वर्द्धयन्ति॥२॥
स भक्षयति – यमश्विना नमुचेरासुरादधि इति। अश्विनौ ह्येतन्नमुचेरध्याहरताम्। सरस्वत्यसुनोदिंद्रियाय इति। सरस्वती ह्येतमसुनोत् इंद्रियाय। इमन्तं शुक्रं मधुमंतमिंदुम् इति। शुक्रो वा एष मधुमानिन्दुः यत्सोमः। सोमं राजानमिह भक्षयामि इति। सोम एवास्य राजा भक्षितो भवति। दक्षिणेऽग्नौ सुराग्रहान् जुह्वति। पाप्मनैवैनं तद् व्यावर्तयंति॥३॥
स जुहोति। यस्ते रसः संभृत ओषधीषु इति। अपां च वा एष ओषधीनां च रसः। यत्सुरा। अपां चैवैनमेतदोषधीनां च रसेन समर्द्धयति। सोमस्य शुष्मः सुरया सुतस्य इति। य एव सोमे शुष्मः। यः सुरायाम्। तमेवावरुंधे। तेन जिन्व यजमानं मदेन इति। तेन प्रीणीहि यजमानं मदेन इत्येवैतदाह। सरस्वतीमश्विनाविंद्रमग्निम् इति। देवताभिरेव यज्ञं समर्द्धयति। देवताभिर्यज्ञेन यजमानम्। हुत्वा भक्षयंति। व्यृद्धमेवास्य तत्समर्द्धयति॥४॥
स भक्षयति। यदत्र रिप्तं रसिनः सुतस्य इति। सुतासुतयोरेव रसमवरुंधे।यदिंद्रो अपिबच्छचीभिः इति। इंद्रो ह्येतदपिबत् शचीभिः। अहं तदस्य मनसा शिवेन इति। अशिव इव वा एष भक्षः। यत्सुरा ब्राह्मणस्य। शिवमेवैनमेतत् कृत्वाऽऽत्मन्धत्ते। सोमं राजानमिह भक्षयामि इति। सोम एवास्य राजा भक्षितो भवति॥५॥
तद्धैतत् अन्येऽध्वर्यवः राजान्यं वा वैश्यं वा परिक्रीणंति। स एतत् भक्षयिष्यतीति। तदु तथा न कुर्यात्। यो ह वा एतद् भक्षयति। तस्य हैव पितॄन् पितामहान् एष सोमपीथोऽन्वेति। दक्षिणस्यैवाग्नेस्त्रीनंगारान्निर्वर्त्य बहिष्परिधि। तदेताभिर्व्याहृतिभिर्जुहुयात्॥६॥
पितृभ्यः स्वधायिभ्यः स्वधा नमः इति। पितॄनेव पितृलोके स्वधायां दधाति। पितामहेभ्यः स्वधायिभ्यः स्वधा नमः इति। पितामहानेव पितामहलोके स्वधायां दधाति। प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः इति। प्रपितामहानेव प्रपितामहलोके स्वधायां दधाति॥७॥
अप आनीय निनयति। अक्षन्पितरः इति। अन्नाद्यमेवैषु दधाति। अमीमदन्त पितरः इति। मदयत्येवैनान्। अतीतृपन्त पितरः इति। तर्पयत्येवैनान्। पितरः शुंधध्वम् इति। अनुपूर्वमेवैनान् सर्वान्पावयति। पवित्रं वै सौत्रामणी॥८॥
त्रिभिः पवित्रैः पावयन्ति। त्रयो वा इमे लोकाः। एभिरेवैनं लोकैः पुनन्ति॥९॥
पावमानीभिः पावयन्ति। पवित्रं वै पावमान्यः। पवित्रेणैवैनं पुनन्ति॥१०॥
तिसृभिस्तिसृभिः पावयन्ति। त्रयो वै प्राणाः। प्राण उदानो व्यानः। तैरेवैनं पुनन्ति॥११॥
नवभिः पावयन्ति। नव वै प्राणाः। प्राणैरेवैनं पुनन्ति। प्राणेषु पुनः पूतं प्रतिष्ठापयन्ति॥१२॥
पवित्रेण पावयन्ति। अजाविकस्य वा एतद् रूपम्। यत् पवित्रम्। अजाविकेनैवैनं पुनन्ति॥१३॥
वालेन पावयन्ति। गोश्वस्य वा एतद् रूपम्। यद्वालः। गोश्वेनैवैनं पुनन्ति॥१४॥
हिरण्येन पावयन्ति। देवानां वा एतद्रूपम्। यद्धिरण्यम्। देवानामेवैनं रूपेण पुनन्ति॥१५॥
सुरया पावयन्ति। सुरा हि पूता। पूतयैवैनं पुनन्ति। तद्यथा सुरा पूयमाना वल्कसेन विविच्यते। एवमेवैतद् यजमानः सर्वस्मात् पाप्मनो निर्मुच्यते। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥१६॥
तदाहुः – याजयितव्यं सौत्रामण्या ३ न याजयितव्या३मिति। अनन्तरायं ह्येवास्य सर्वं पाप्मानमपघ्नन्तीति। तदु ह स्माह रेवोत्तरास्थपतिः पाटवश्चाक्रोऽपि। प्रदानं प्रदाय याजयितव्यमेव। आत्मा वै यज्ञस्य यजमानः। अंगानि ऋत्विजः। यत्र वा आत्मा पूतः। पूतानि तत्रांगानि। उभय एव पुनते। उभये पाप्मानमपघ्नते। तस्मादपि प्रदानं प्रदाय याजयितव्यमेवेति॥१७॥
पितृलोकं वा एतऽन्ववयन्ति। ये दक्षिणेऽग्नौ चरन्ति। आज्याहुतिं जुहोति। यज्ञो वा आज्यम्। यज्ञादेव यज्ञे प्रतितिष्ठन्ति॥१८॥
स जुहोति। ये समानाः समनसः पितरो यमराज्ये। तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् इति। पितॄनेव यमे परिदधाति। अथो पितृलोकमेव जयति। सर्वे यज्ञोपवीतानि कृत्वा उत्तरमग्निमुपसमायन्ति। अयं वै लोक उत्तरोऽग्निः। अस्मिन्नेव लोके प्रतितिष्ठन्ति। आज्याहुतिं जुहोति। यज्ञो वा आज्यम्। यज्ञादेव यज्ञे प्रतितिष्ठन्ति॥१९॥
स जुहोति। ये समानाः समनसो जीवा जीवेषु मामकाः। तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः इति। स्वानामेव श्रियमवरुन्धे अथो ज्योग् जीवातुमेवैषु दधाति। पयः समन्वारब्धेषु जुहोति। प्राणो वा अन्नं पयः। प्राण एव अन्नाद्येऽन्ततः प्रतितिष्ठन्ति॥२०॥
स जुहोति। द्वे सृती अशृणवं पितृणामहम् इति द्वे वाव सृती इत्याहुः देवानां चैव पितॄणां चेति। ताभ्यामिदं विश्वमेजत् समेति इति। ताभ्यां हीदं सर्वमेजत्समेति। यदन्तरा पितरं मातरं च इति। असौ वै पिता। इयं माता। आभ्यामेव पितॄन् देवलोकमपिनयति। एकाकी हुतोच्छिष्टं भक्षयति। एकधेव श्रियमात्मन् धत्ते। श्रीर्हि पयः॥२१॥
स भक्षयति। इदं हविः प्रजननं मे अस्तु इति। प्रजननं हि। यदि पयो यदि सोमः। दशवीरम् इति । प्राणा वै दश वीराः। प्राणानेवात्मन्धत्ते। सर्वगणम् इति । अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। स्वस्तय आत्मसनि इति। आत्मानमेव सनोति। प्रजासनि इति। प्रजामेव सनोति। पशुसनि इति। पशूनेव सनोति। लोकसनि इति। लोकाय वै यजते। तमेव जयति। अभयसनि इति। स्वर्गो वै लोकोऽभयम्। स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति। अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त इति। हिरण्येन मार्जयन्ते। अमृतं वै हिरण्यम्। अमृत एवांततः प्रतितिष्ठन्ति॥२२॥
इति तृतीयप्रपाठके पञ्चमं ब्राह्मणम् ॥
१२.८.२
अथ सौत्रामण्यां सोमसम्पत्तिः
प्रजापतिर्यज्ञमसृजत्। तमाहरत्। तेनायजत। तेनेष्ट्वा रिरिचान इवामन्यत। स एतं यज्ञक्रतुमपश्यत् सौत्रामणीम्। तेनायजत। ततो वै स पुनराप्यायत। रिच्यत इव वा एषः – यः सोमेन यजते। वीव ह्यस्य वित्तं वेदो हरन्ति॥१॥
सोमेनेष्ट्वा सौत्रामण्या यजेत। यथा धेनुर्दुग्धा पुनराप्ययेत। एवं हैव पुनराप्यायते। आ प्रजया पशुभिः प्यायते। प्रत्यस्मिन् लोके तिष्ठति। अभि स्वर्गं लोकं जयति। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥२॥
तद्धैतत् पप्रच्छ सुप्ला सार्ञ्जयः प्रतीदर्शमैभावतं । यन्न दीक्षयेव दीक्षते। न सोमांशव इव न्युप्यंते।अथ कथं सौत्रामणी सोमयज्ञो भवतीति॥३॥
स होवाच। शिरो वा एतद्यज्ञस्य। यद् व्रतम्। आत्मा दीक्षा। एतत् खलु वै व्रतस्य रूपम्। यत् सत्यम्। एतद्दीक्षायै। यत् श्रद्धा। मनो यजमानस्य रूपम्। वाग् यज्ञस्येति॥४॥
स यत् वाचा व्रतमुपैति। आत्मन्येवैतद्यज्ञस्य शिरः प्रतिदधाति। सत्यं श्रद्धायां दधाति। यजमानं यज्ञे॥५॥
तस्मात् एतस्य यज्ञस्य व्रतमेव दीक्षा। वृषा उ वै व्रतम्। योषा दीक्षा। वृषा सत्यम्। योषा श्रद्धा। वृषा मनः। योषा वाग्। वृषा पत्न्यै यजमानः। तस्मात् यत्रैव पतिस्तत्र जाया। अथो यज्ञमुख एव तन्मिथुनानि करोति प्रजात्यै॥६॥
एते खलु वा एतस्य यज्ञस्य सोमांशव इत्याहुः। यच्छष्पाणि तोक्मानि लाजा इति॥ ७ ॥
प्रातःसवनस्यैतद् रूपं यच्छष्पाणि। अयं वै लोकः प्रातःसवनम्। स आश्विनः। आश्विनेन पयसा प्रथमां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्द्धयति॥८॥
माध्यंदिनस्यैतत्सवनस्य रूपं यत्तोक्मानि। अंतरिक्षं वै माध्यंदिनं सवनम्। तत्सारस्वतम्। सारस्वतेन पयसा द्वितीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण माध्यंदिनेन सवनेन समर्धयति॥९॥
तृतीयसवनस्यैतद् रूपं यत् लाजाः। द्यौर्वै तृतीयसवनम्। सैन्द्री। ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति॥१०॥
एकस्यै दुग्धेन प्रथमां रात्रिं परिषिंचति। द्योर्दुग्धेन द्वितीयाम्। तिसृणां दुग्धेन तृतीयाम्। यथारूपमेवैनं यथादेवतं सवनैः समर्द्धयति॥११॥
परीतो षिंचता सुतम् इति परिषिंचति। सुत्यायै। सोमो य उत्तमं हविः इति। उत्तमं वा एतद्धविः। यत्सोमः। उत्तममेवैनं हविष्करोति। दधन्वा यो नर्यो अप्स्वंतरा इति। अद्भिश्च ह्येषोऽन्तरेण च सूयते। सुषाव सोममद्रिभिः इति। अद्रिभिर्वै सोमः सूयते। अद्रिभिरेवैनं सुनोति। सोमसुत्यायै॥१२॥
तदाहुः। उभयोर्वा एतद् रूपम्। सुतस्य चासुतस्य च। यत् सौत्रामणी। अपामेष ओषधीनां रसः। यत्पयः। तत्सुतस्य रूपम्। अन्नस्यैष रसः यत्परिस्रुत्। तदासुतस्य रूपम्। उभाभ्यामेवैनं सवाभ्यां सुनोति। उभाभ्यां सवाभ्यामवरुन्द्धे॥१३॥
तदाहुः – यद् ग्रावभिः सोमः सूयते। अथ कथं सौत्रामणीति। प्रैषाप्रीभिरिति ब्रूयात्। बार्हता वै प्रैषाः। बार्हता ग्रावाणः। ग्रावभिर्वै सोमः सूयते। ग्रावभिरेवैनं सुनोति। सोमसुत्यायै॥१४॥
सर्वे पयस्वन्तो भवन्ति। पयसा हि सूयते। सर्वे सोमवन्तो भवन्ति। सोमरूपतायै। सर्वे परिस्रुन्मन्तो भवन्ति। परिस्रुता हि सूयते। सर्वे घृतवन्तो भवन्ति। तद्वै प्रत्यक्षाद्यज्ञरूपम्। यद् घृतम्। प्रत्यक्षादेवैनं यज्ञरूपं करोति। सर्वे मधुमन्तो भवन्ति। तद्वै प्रत्यक्षात्सोमरूपम्। यन्मधु। प्रत्यक्षादेवैनं सोमरूपं करोति॥१५॥
सर्व आश्विना भवन्ति। भैषज्याय। सर्वे सारस्वताः। अन्नाद्यस्यैवावरुद्ध्यै। सर्वे ऐन्द्राः। इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै॥१६॥
यद्वेव सर्व आश्विना भवन्ति। सर्वे सारस्वताः. सर्व ऐन्द्राः। एता वा एतं देवता अग्रे यज्ञं समभरन्। ताभिरेवैनं संभरति। अथो एता एवैतद्देवता भागधेयेन समर्द्धयति॥१७॥
सन्तता याज्यापुरोऽनुवाक्या भवन्ति समानदेवत्याः। प्रजानां सन्तत्या अव्यवच्छेदाय। सर्वा आश्विन्यो भवन्ति। सर्वाः सारस्वत्यः। सर्वा ऐन्द्र्यः। समानी बन्धुता॥१८॥
अनुष्टुभ आप्रियो भवन्ति। वाग्वा अनुष्टुप्। वाचा वै सोमः सूयते। वाचैवैनं सुनोति। सोमसुत्यायै। सर्वा आश्विन्यो भवन्ति। सर्वाः सारस्वत्यः। सर्वा ऐन्द्र्यः। समानी बन्धुता॥१९॥
जागता अनुप्रैषा भवन्ति। इयं वै जगती। अनया वै सोमः सूयते। अनयैवैनं सुनोति। सोमसुत्यायै। सर्व आश्विना भवन्ति। सर्वे सारस्वताः। सर्व ऐन्द्राः। समानी बन्धुता॥२०॥
स वा एष प्रत्यक्षात् सोमयज्ञ एव। यत् सौत्रामणी। तं यद्येकाकी यजमानो भक्षयेत्। इष्टिर्वैव स्यात् पशुबन्धो वा। सर्व ऋत्विजो भक्षयन्ति। सर्वे वा ऋत्विजः सोमं भक्षयन्ति। सोमरूपतायै॥२१॥
आश्विनमध्वर्यवो भक्षयन्ति। अश्विनौ वै देवानामध्वर्यू। स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति॥२२॥
सारस्वतं होता ब्रह्मा मैत्रावरुणः। वाग्वै यज्ञस्य होता। हृदयं ब्रह्मा। मनो मैत्रावरुणः। स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति॥२३॥
ऐन्द्रं यजमानो भक्षयति। ऐन्द्रो वा एष यज्ञः। यत्सौत्रामणी। इन्द्रायतन एष एतर्हि। यो यजते। स्वमेवैतत् भागधेयं स्व आयतने भक्षयति॥२४॥
चक्षुर्वा आश्विनो ग्रहः। प्राणः सारस्वतः। वागैन्द्रः। आश्विनात्सारस्वतेऽवनयति। चक्षुरेवास्य तत्प्राणैः सन्दधाति। सारस्वतादैन्द्रे। प्राणानेवास्य तद्वाचा सन्दधाति। अथो प्राणानेवास्य तद्वाचि प्रतिष्ठापयति। तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः॥२५॥
त्रय आश्विनं भक्षयन्ति। अध्वर्युः प्रतिप्रस्थाताऽऽग्नीध्रः। त्रिवृद्वा इदं चक्षुः। शुक्लं कृष्णं कनीनका। यथारूपमेवास्मिन् चक्षुर्दधाति॥२६॥
त्रयः सारस्वतम्। होता ब्रहमा मैत्रावरुणः। त्रेधाविहितो वा अयं प्राणः। प्राण उदानो व्यान इति। यथारूपमेवास्मिन् प्राणं दधति॥२७॥
एकाक्यैन्द्रं यजमानो भक्षयति। एकधा वा एषा प्राणानां श्रीः। यद् वाक्। एकधैव वाचं श्रियमात्मन्धत्ते। तस्मात्सौत्रामण्येजान एकधा स्वानां श्रेष्ठो भवति। अथो य एवमेतद्वेद॥२८॥
ऋतवो वा ऋत्विजः। मासा भक्षाः। षड् ऋत्विजो भक्षयन्ति। षड्वा ऋतवः। ऋत्विग्भिरेव ऋतूनवरुन्धे॥२९॥
द्वादश भक्षा भवन्ति। द्वादश वै मासाः। भक्षैरेव मासानवरुन्द्धे। पुनःपुनरभिनिवर्त्तमृत्विजो भक्षयन्ति। तस्मात् ऋतवश्च मासाश्चान्योऽन्यमभिनिवर्त्तन्ते॥३०॥
त्रयोदशं यजमानो भक्षयति। यो ह वा एष त्रयोदशो मासः। एष एव प्रत्यक्षात्संवत्सरः। एतमेवाप्त्वाऽवरुन्द्धे। स वा एष संवत्सर एव। यत्सौत्रामणी। तेन सर्वं जयति। सर्वमरुन्द्धे॥३१॥
त्रयः पशवो भवन्ति। त्रयो वा इमे लोकाः। इमानेव तैर्लोकानवरुन्द्धे। इममेव लोकमाश्विनेन। अन्तरिक्षं सारस्वतेन। दिवमैन्द्रेण। यथारूपमेव यथादेवतमिमान् लोकान् जयति चाव च रुन्द्धे॥३२॥
त्रयः पुरोडाशा भवन्ति। त्रयो वा ऋतवः। ऋतूनेवैतैरवरुन्द्धे। ग्रीष्ममेवैन्द्रेण। वर्षाः सावित्रेण। हेमन्तं वारुणेन। यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्द्धे॥३३॥
षड् ग्रहा भवन्ति। षड्वा ऋतवः। ऋतूनेवैतैरवरुन्द्धे। वसन्तग्रीष्मावेवाश्विनाभ्याम्। वर्षाशरदौ सारस्वताभ्याम्। हेमन्तशिशिरावैन्द्राभ्याम्। यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्द्धे॥३४॥
संतता याज्यापुरोऽनुवाक्या भवन्ति समानदेवत्याः। ऋतूनां संतत्या अव्यवच्छेदाय। सर्वाः पुरोऽनुवाक्या भवन्ति। सर्वा याज्याः। तस्मात् ऋतवः सर्वे परांचः। सर्वे प्रत्यंचः। सर्वाः प्रथमा भवन्ति। सर्वा मध्यमाः। सर्वा उत्तमाः। तस्मात् ऋतवः सर्वे प्रथमाः। सर्वे मध्यमाः। सर्व उत्तमाः। सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः। अहोरात्रयोस्तद्रूपम्। अहोरात्रे एवावरुन्द्धे। तस्मात् ऋतवश्च मासाश्चाहोरात्रयोरेव प्रतिष्ठिताः॥३५॥
स वा एष संवत्सर एव। यत्सौत्रामणी। चंद्रमा एव प्रत्यक्षात् आदित्यो यजमानः। तस्येयमेव पृथिवी वेदिः। अंतरिक्षमुत्तरवेदिः। द्यौर्बर्हिः। दिश ऋत्विजः। वनस्पतय इध्मः। आप आज्यम्। ओषधय आहुतयः। अग्निरेवाग्निः। संवत्सरः संस्था। तद्वा इदं सर्वं संवत्सर एव। यदिदं किंच। तस्मात् सौत्रामण्येजानः सर्वं जयति। सर्वमरुन्द्धे॥३६॥
इति चतुर्थप्रपाठके प्रथमं ब्राह्मणम्॥
१२.८.३
त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रं सोममाहरत्। तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्। स विष्वङ् व्यार्च्छत्। तस्य मुखात् प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामन्। तानि पशून् प्राविशन्। तस्मात्पशवो यशः। यशो ह भवति। य एवं विद्वान् सौत्रामण्याऽभिषिच्यते॥१॥
ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञं समभरन् सौत्रामणीं भैषज्याय। तयैनमभ्यषिंचन्। ततो वै स देवानां श्रेष्ठोऽभवत्। श्रेष्ठः स्वानां भवति। य एनयाऽभिषिच्यते॥२॥
कृष्णाजिनेऽभिषिंचति। यज्ञो वै कृष्णाजिनम्। यज्ञ एवैनमेतदभिषिंचति। लोमतः। छन्दांसि वै लोमानि। छन्दस्स्वेवैनमेतदभिषिंचति॥३॥
आसंद्यामभिषिंचति। आसंदीसद्वै साम्राज्यम्। साम्राज्येनैवैनं साम्राज्यं गमयति॥४॥
औदुम्बरी भवति। ऊर्ग्वा उदुम्बरः। ऊर्ज्येवाध्यभिषिच्यते। जानुसंमिता भवति। जानुसंमितो वा अयं लोकः। अस्मा उ वै लोकाय क्षत्रियोऽभिषिच्यते। क्षत्त्रमु वा एष भवति। यः सौत्रामण्याऽभिषिच्यते। तस्मात् जानुसंमिता। परिमिता तिरश्ची॥५॥
राष्ट्रं वा आसंदी। अपरिमितसमृद्धमु वै राष्ट्रम्। मुंजविवयना भवति। यज्ञिया हि मुंजाः। द्वा उत्तरस्यां वेद्यां पादौ भवतः। द्वौ दक्षिणस्याम्। अयं वै लोक उत्तरवेदिः। दक्षिणा पितृलोकः। तदेनमुभयोर्लोकयोरध्यभिषिंचति॥६॥
एतद्ध स्म वै तद्विद्वानाह गोरीवीतिः शाक्त्यः। क्षत्त्रमिवाह किल वयममुष्मिन् लोके भवितास्म इति। शश्वद्धास्मा ऋषभो याज्ञतुरः प्रोवाच श्विक्नानां राजा॥७॥
स आसंदीमास्तृणाति। क्षत्त्रस्य योनिरसि क्षत्त्रस्य नाभिरसि इति। क्षत्त्रस्य वा एषा योनिः। क्षत्त्रस्य नाभिः॥८॥
अथैनां कृष्णाजिनेनास्तृणाति। मा त्वा हिंसीन्मा मा हिंसीः इति। यज्ञो वै कृष्णाजिनम्। यज्ञस्य चैवात्मनश्चाहिंसायै॥९॥
अथाधिरोहति वारुण्यर्चा। वरुणो वै देवानां राजा। स्वयैवैनमेतद्देवतयाऽभिषिंचति। निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय सुक्रतुः इति॥१०॥
अथ सुवर्णरजतौ रुक्मौ व्युपास्यति। मृत्योः पाहि विद्योत्पाहि इति। वृष्टिर्वै विराट्। तस्या एते घोरे तन्वौ। विद्युच्च – ह्रादुनिश्च। ततः सुवर्ण एव रुक्मो विद्युतो रूपम्। रजतो ह्रादुनेः। ताभ्यामेवास्मै देवताभ्यां शर्म यच्छति। तस्मात् सौत्रामण्येजानस्यैताभ्यां देवताभ्यां न शंका भवति। अथो य एवमेतद्वेद॥११॥
पशूनां वसयाऽभिषिंचति। श्रीर्वै पशूनां वसा। श्रियैवैनमेतत् पशूनां रसेनाभिषिंचति। अथो परमं वा एतदन्नाद्यम्। यद्वसा। परमेणैवैनमेतदन्नाद्येनाभिषिंचति॥१२॥
शफग्रहा भवंति। शफैर्वै पशवः प्रतितिष्ठंति। प्रतिष्ठामेवैनं गमयति। त्रयस्त्रिंशत् ग्रहा भवंति। त्रयस्त्रिंशद्वै सर्वा देवताः। सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति। जगतीभिर्जुहोति। जागता वै पशवः। जगत्यैवास्मै पशूनवरुंधे। षोडशभिर्ऋग्भिर्जुहोति। षोडशकला वै पशवः। अनुकलमेवास्मिन् श्रियं दधाति॥१३॥
सीसेन तंत्रं मनसा मनीषिणः इति द्वौ द्वौ समासं हुत्वा। सते संस्रवान् समवनयति। अहोरात्राण्येवैतदर्धमासान् मासान् ऋतून् संवत्सरे प्रतिष्ठापयति। तानीमान्यहोरात्राण्यर्द्धमासा मासा ऋतवः संवत्सरे प्रतिष्ठिताः॥१४॥
वैतसः ततो भवति। अप्सुयोनिर्वै वेतसः। आपो वै सर्वा देवताः। सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति॥१५॥
सर्वसुरभ्युन्मर्द्दनं भवति। परमो वा एष गंधः। यत्सर्वसुरभ्युन्मर्द्दनम्। गंधेनैवैनमेतदभिषिंचति॥१६॥
पुरस्तात्प्रत्यङ्ङभिषिंचति। पुरस्ताद्धि प्रत्यगन्नमद्यते शीर्षतः। शीर्षतो ह्यन्नमद्यते। आ मुखादन्ववस्रावयति। मुखेन ह्यन्नमद्यते। सर्वतः परिक्रामम्। सर्वाभ्य एवास्मिन्नेतद्दिग्भ्योऽन्नाद्यं दधाति। तस्मात्सौत्रामण्येजानस्य सर्वासु दिक्ष्वन्नाद्यमवरुद्धं भवति। अथो य एवमेतद्वेद॥१७॥
आश्विनेन प्रथमेन यजुषाऽभिषिंचति। अथ सारस्वतेन। अथैन्द्रेण एताभिरेवैनमेतद्देवताभिरभिषिंचति। तं हैके – एताभिश्च देवताभिरभिषिंचन्ति। भूर्भुवः स्वरित्येताभिरु च व्याहृतिभिः। एता वै व्याहृतय इदं सर्वम्। तदेनमनेन सर्वेणाभिषिंचाम इति। न तथा कुर्यात्। एताभिरेवैनं देवताभिरभिषिंचेत्। एता उ ह्येव देवता इदं सर्वम्॥१८॥
पुरस्तात् स्विष्टकृतोऽभिषिंचति। क्षत्रं वै स्विष्टकृत्। क्षत्त्रेणैवैनमेतदभिषिंचति। अंतरा वनस्पतिं च स्विष्टकृतं चाभिषिंचति। सोमो वै वनस्पतिः। अग्निः स्विष्टकृत्। अग्नीषोमाभ्यामेवैनमेतत्परिगृह्याभिषिंचति। तस्मात् ये चैतद्विदुः। ये च न। त आहुः। क्षत्रियो वाव क्षत्रियस्याभिषेक्तेति॥१९॥
अथैनं जानुमात्रे धारयंति। अथ नाभिमात्रे। अथ मुखमात्रे। एष्वेवास्मा एतल्लोकेष्वायतनानि कल्पयति। अभिषेको वा एषः। यत् वाजपेयम्। अभिषेकः सौत्रामणी। तद्यथैवादो वाजपेये यूपं रोहति। तदेवैतत् रूपं क्रियते॥२०॥
तदाहुः – प्रेव वा एषोऽस्माल्लोकाच्च्यवते। यः सौत्रामण्याऽभिषिच्यत ऽइति। कृष्णाजिने प्रत्यवरोहति। यज्ञो वै कृष्णाजिनम्। यज्ञ एवांततः प्रतितिष्ठति॥२१॥
प्रति क्षत्त्रे प्रतितिष्ठामि राष्ट्रे इति। क्षत्त्र एव राष्ट्रे प्रतितिष्ठति। क्षत्त्रात् राष्ट्रादप्रभ्रंशाय। प्रत्यश्वेषु प्रतितिष्ठामि गोषु इति। गोऽश्व एव प्रतितिष्ठति। गोऽश्वादप्रभ्रंशाय। प्रत्यंगेषु प्रतितिष्ठाम्यात्मन् इति। अङ्गेष्वेवात्मन्प्रतितिष्ठति। अंगेभ्य आत्मनोऽप्रभ्रंशाय। प्रति प्राणेषु प्रतितिष्ठामि पुष्टे इति। प्राणेष्वेव पुष्टे प्रतितिष्ठति। प्राणेभ्यः पुष्टादप्रभ्रंशाय। प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे इति। तदनयोर्द्यावापृथिव्योः प्रतितिष्ठति। ययोरिदं सर्वमधि॥२२॥
अथ साम गायति। क्षत्त्रं वै साम। क्षत्त्रेणैवैनमेतदभिषिंचति। अथो साम्राज्यम् वै साम। साम्राज्येनैवैनं साम्राज्यं गमयति। सर्वेषां वा एष वेदानां रसः। यत्साम। सर्वेषामेवैनमेतद् वेदानां रसेनाभिषिंचति॥२३॥
बृहत्यां गायति। बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति। बृहत्यामेवैनमेतच्छ्रियां प्रतिष्ठायां प्रतिष्ठापयति॥२४॥
ऐंद्र्यां बृहत्यां गायति। ऐंद्रो वा एष यज्ञः। यत्सौत्रामणी। इंद्रायतन एष एतर्हि। यो यजते। स्व एवैनमेतदायतनेऽभिषिंचति॥२५॥
अथ यस्मात् संशानानि नाम। एतैर्वै सामभिर्देवा इंद्रमिंद्रियाय वीर्याय समश्यन्। तथो एवैतमृत्विजो यजमानमेतैरेव सामभिरिंद्रियाय वीर्याय संश्यंति। संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवंति। एष्वेवैनमेतल्लोकेषु श्रावयंति। चतुर्निधनं भवति। चतस्रो वै दिशः। सर्वास्वेवैनमेतद्दिक्षु प्रतिष्ठापयंति। सर्वे निधनमुपावयंति। संविदाना एवास्मिन् श्रियं दधति॥२६॥
तदाहुः – यदेतत् साम गीयते। अथ क्वैतस्य साम्न उक्थम्। का प्रतिष्ठा। व्यृद्धं हि तत्। यत् स्तुतम् अननुशस्तम् इति॥२७॥
त्रया देवा एकादशेति। एतद्वा एतस्य साम्न उक्थम्। एषा प्रतिष्ठा॥२८॥
अथो त्रया देवा एकादश इति त्रयस्त्रिंशं ग्रहं जुहोति। त्रया हि देवा एकादश त्रयस्त्रिंशाः सुराधसः इति। त्रयस्त्रिंशद्धि देवाः। बृहस्पतिपुरोहिताः इति। ब्रह्म वै बृहस्पतिः। ब्रह्मपुरोहिताः इत्येवैतदाह। देवस्य सवितुः सवे इति। देवेन सवित्रा प्रसूता इत्येवैतदाह। देवा देवैरवंतु मा इति। देवा ह्येतं देवैरभिषिंचन्ति॥२९॥
प्रथमा द्वितीयैः इति। प्रथमा ह्येतं द्वितीयैरभिषिंचन्ति। द्वितीयास्तृतीयैः इति। द्वितीया ह्येतं तृतीयैरभिषिंचन्ति। तृतीयाः सत्येन इति। तृतीया ह्येतं सत्येनाभिषिंचन्ति। सत्यं यज्ञेन इति। सत्यं ह्येतं यज्ञेनाभिषिंचति। यज्ञो यजुर्भिः इति। यज्ञो ह्येतं यजुर्भिरभिषिंचति। यजूंषि सामभिः इति। यजूंषि ह्येतं सामभिरभिषिंचन्ति। सामानि ऋग्भिः इति। सामानि ह्येतमृग्भिरभिषिञ्चन्ति। ऋचः पुरोऽनुवाक्याभिः इति। ऋचो ह्येतं पुरोऽनुवाक्याभिरभिषिंचन्ति। पुरोऽनुवाक्या याज्याभिः इति। पुरोऽनुवाक्या ह्येतं याज्याभिरभिषिंचन्ति। याज्या वषट्कारैः इति। याज्या ह्येतं वषट्कारैरभिषिंचन्ति। वषट्कारा आहुतिभिः इति। वषट्कारा ह्येतमाहुतिभिरभिषिंचन्ति। आहुतयो मे कामान् समर्द्धयन्तु भूः स्वाहा इति। तदेनमेताभिर्देवताभिः परोऽवरमभिषिच्य अथास्मा आहुतिभिः सर्वान् कामान् समर्द्धयन्ति। अथर्त्विक्षूपहवमिष्ट्वा भक्षयति। ऋतवो वा ऋत्विजः। ऋतुष्वेवैतदुपहवमिच्छते॥३०॥
स भक्षयति। लोमानि प्रयतिर्मम त्वङ्म आनतिरागतिः। मांसं म उपनतिर्वस्वस्थि मज्जा म आनतिः इति। प्रेव वा एष लोकांश्च देवताश्च विशति। यः सौत्रामण्याऽभिषिच्यते। तदेतदवांतरामात्मानमुपह्वयते। तथा कृत्स्न एव सर्वतनूः सांगः संभवति॥३१॥
इति चतुर्थप्रपाठके द्वितीयं ब्राह्मणम्॥
१२.९.१
अथ सौत्रामणीयज्ञात्पुरुषोत्पत्तिः

एतस्मात् वै यज्ञात् पुरुषो जायते। स यद्ध वाऽअस्मिंल्लोके पुरुषोऽन्नमत्ति तदेनममुष्मिंल्लोके प्रत्यत्ति। स वा एष परिस्रुतो यज्ञस्तायते। अन्नाद्या वै ब्राह्मणेन परिस्रुत्। स एतस्मादन्नाद्यात् जायते। तं हामुष्मिंल्लोकेऽन्नं न प्रत्यत्ति। तस्मादेष ब्राह्मणयज्ञ एव। यत्सौत्रामणी॥१॥
तस्य लोमान्येव शष्पाणि। त्वक् तोक्मानि। मांसं लाजाः। अस्थि कारोतरः। मज्जा मासरम्। रसः परिस्रुत्। नग्नहुर्लोहितम्। रेतः पयः। मूत्रं सुरा। ऊवध्यं वल्कसम्॥२॥
हृदयमेवास्यैन्द्रः पुरोडाशः। यकृत् सावित्रः। क्लोमा वारुणः। मतस्ने एवास्याश्वत्थं च पात्रमौदुम्बरं च। पित्तं नैयग्रोधम्। आंत्राणि स्थाल्यः। गुदा उपशयानि। श्येनपत्रे प्लीहा। आसन्दी नाभिः। कुंभो वनिष्ठुः। प्लाशिः शतातृण्णा। तद्यत् सा बहुधा वितृण्णा भवति। तस्मात् प्लाशिर्बहुधा विकृता उ। मुखं सतम्। जिह्वा पवित्रम्। चप्पं पायुः। बस्तिर्वालः॥३॥
अंगान्येवास्याश्विनः पशुः। आत्मा सारस्वतः। रूपमैन्द्र ऋषभः। तस्मादाहुर्गावः पुरुषस्य रूपमिति। आयुर्हिरण्यम्। तत् शतमानं भवति। तस्मात् शतायुः पुरुषः॥४॥
चक्षुषी एवास्याश्विनौ ग्रहौ। पक्ष्माणि गोधूमसक्तवश्च कुवलसक्तवश्च। नासिके एवास्य सारस्वतौ ग्रहौ। अथ यानि नासिकयोर्लोमानि तान्युपवाकसक्तवश्च बदरसक्तवश्च। श्रोत्रे एवास्यैन्द्रौ ग्रहौ। अथ यानि कर्णयोर्लोमानि। यानि च भ्रुवोः। तानि यवसक्तवश्च कर्कन्धुसक्तवश्च॥५॥
अथ यान्युपस्थे लोमानि. यानि चाधस्तात्। तानि वृकलोमानि। अथ यान्युरसि लोमानि। यानि च निकक्षयोः। तानि व्याघ्रलोमानि। केशाश्च श्मश्रूणि च सिंहलोमानि॥६॥
त्रयः पशवो भवन्ति। त्रेधाविहितो वा अयं पुरुषस्यात्मा। आत्मानमेवास्य तैः स्पृणोति। यदवाङ् नाभेः। तदाश्विनेन। यदूर्ध्वं नाभेः। अवाचीनं शीर्ष्णः। तत्सारस्वतेन। शिर ऐन्द्रण। यथारूपमेव यथादेवतमात्मानं मृत्योः स्पृत्वा, अमृतं कुरुते॥७॥
त्रयः पुरोडाशा भवन्ति। त्रेधाविहितं वा इदं पुरुषस्य वयः। वय एवास्य तैः स्पृणोति। पूर्ववयसमैन्द्रेण। मध्यमवयसं सावित्रेण। उत्तमवयसं वारुणेन। यथारूपमेव यथादेवतं वयो मृत्योः स्पृत्वा अमृतं कुरुते॥८॥
षड् ग्रहा भवंति। षड् वा इमे शीर्षन् प्राणाः। प्राणानेवास्य तैः स्पृणोति। चक्षुषी एवाश्विनाभ्याम्। नासिके सारस्वताभ्याम्। श्रोत्रे ऐन्द्राभ्याम्। यथारूपमेव यथादेवतं प्राणान् मृत्योः स्पृत्वा अमृतान् कुरुते॥९॥
संतता याज्यापुरोऽनुवाक्या भवंति। समानदेवत्याः। प्राणानां संतत्या अव्यवच्छेदाय। सर्वाः पुरोऽनुवाक्या भवंति। सर्वा याज्याः। तस्मात् प्राणाः सर्वे परांचः सर्वे प्रत्यंचः। सर्वाः प्रथमा भवंति। सर्वा मध्यमाः। सर्वा उत्तमाः। तस्मात् प्राणाः सर्वे प्रथमाः। सर्वे मध्यमाः। सर्व उत्तमाः। सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः। प्राणोदानयोस्तद्रूपम्। प्राणोदानावेवावरुंधे। तस्मात् सर्वे प्राणाः प्राणोदानयोरेव प्रतिष्ठिताः॥१०॥
स वा एष आत्मैव। यत्सौत्रामणी। मन एव प्रत्यक्षात्। वाक् यजमानः। तस्यात्मैव वेदिः। प्रजोत्तरवेदिः। पशवो बर्हिः। आंगानि ऋत्विजः। अस्थीनिध्मः। आज्यं मज्जा। मुखमग्निः। अन्नमाहुतिः। वयः संस्था। तस्मात् सौत्रामण्येजानो वय उपगच्छति॥११॥
तद्यौ ह वा इमौ पुरुषाविवाक्ष्योः। एतावेवाश्विनौ। अथ यत् कृष्णम्। तत्सारस्वतम्। यच्छुक्लम्। तदैन्द्रम्। तद्यदाश्विने पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१२॥
मन एवेन्द्रः। वाक् सरस्वती। श्रोत्रे अश्विनौ। यद् वै मनसा ध्यायति। तद्वाचा वदति। यद्वाचा वदति। तत् कर्णाभ्यां शृणोति। तद् यत् सारस्वते पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्धं कृत्वाऽऽत्मन् धत्ते॥१३॥
प्राण एवेन्द्रः। जिह्वा सरस्वती। नासिके अश्विनौ। यद्वै प्राणेनान्नमात्मन् प्रणयते। तत् प्राणस्य प्राणत्वम्। जिह्वया वा अन्नस्य रसं विजानाति। नासिके उ वै प्राणस्य पंथाः। तद्यदैन्द्रे पशौ सति, अथैता देवताः सह यजति। एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१४॥
हृदयमेवेन्द्रः। यकृत् सविता। क्लोमा वरुणः। तद्यदैन्द्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत्सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१५॥
प्राण एव सविता। व्यानो वरुणः। शिश्नमिन्द्रः। यत् वै प्राणेनान्नमत्ति। तत् व्यानेन व्यनिति। शिश्नेन वा अन्नस्य रसं रेतः सिंचति। तद्यत् सावित्रे पुरोडाशे सति, अथैता देवताः सह यजति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते॥१६॥
योनिरेव वरुणः। रेत इन्द्रः। सवितैव रेतसः प्रजनयिता। तद्यत् वारुणे पुरोडाशे सति, अथैता देवताः सह जति। एतान्येवैतत् सार्द्धं कृत्वाऽऽत्मन् धत्ते। स य एवमेतत् वेद। एता एव देवता अनुसंभवति। एता देवता अनुप्रजायते। आ प्रजया पशुभिः प्यायते। प्रत्यस्मिन् लोके तिष्ठति। अभि स्वर्गं लोकं जयति। य एवं विद्वान् सौत्रामण्या यजते। यो वैतदेवं वेद॥१७॥
इति चतुर्थप्रपाठके तृतीयं ब्राह्मणम्॥
१२.९.२
अथ सौत्रामण्यामवभृथः
अवभृथमिष्टवा यन्ति। अवभृथं वै सोमेनेष्ट्वा यन्ति। सोम एषः। यत्सौत्रामणी॥१॥
यद्देवा देवहेडनम् इति। देवकृतादेवैनमेनसो मुंचति। यदि दिवा यदि नक्तम् इति। यदेवाहोरात्राभ्यामेनः करोति। तस्मादेवैनं मुंचति। यदि जाग्रत् यदि स्वप्ने इति। मनुष्या वै जागरितम्। पितरः सुप्तम्। मनुष्यकिल्बिषाच्चैवैनं पितृकिल्बिषाच्च मुंचति॰॥२॥
यद्ग्रामे यदरण्ये इति। ग्रामे वा ह्यरण्ये वैनः क्रियते। तस्मादेवैनं मुंचति। यत् सभायाम् इति। सभ्यादेवैनमेनसो मुंचति। यदिन्द्रिये इति। दैवादेवैनमेनसो मुंचति। यत् शूद्रे यदर्ये यदेनश्चकृमा वयं यदेकस्याधि धर्मणि तस्यावयजनमसि इति। सर्वस्मादेवैनमेतस्मादेनसो मुंचति॥३॥
यदापो अघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुंच इति। वरुण्यादेवैनमेनसो मुंचति। अवभृथनिचुंपुण निचेरुरसि निचुंपुणः इति। यो ह वा अयमपामावर्तः। स हावभृथः। स हैष वरुणस्य पुत्रो वा भ्राता वा। तमेवैतत् स्तौति। अवदेवैर्देवकृतमेनोऽयक्षि इति। देवकृतमेवैनोऽवयजते। अव मर्त्यैर्मर्त्यकृतम् इति। मर्त्यकृतमेवैनोऽवयजते। पुरुराव्णो देव रिषस्पाहि इति। सर्वाभ्यो माऽऽर्तिभ्यो गोपायेत्येवैतदाह॥४॥
समुद्रे ते हृदयमप्स्वंतः इति। आपो वै समुद्रः। रसो वा आपः। तदेनमेतेन रसेन संसृजति। सं त्वा विशंत्वोषधीरुतापः इति तदेनमेतेन उभयेन रसेन संसृजति। यश्च ओषधिषु यश्चाप्सु। द्वौ विक्रमा उदङुत्क्रामति। एतावती वै मनुष्ये जूतिः। यावान् विक्रमः। तत् यावत्येवास्मिन् जूतिः। तयैव पाप्मानं विजहाति॥५॥
सुमित्रिया न आप ओषधयः सन्तु इति अंजलिना अप उपाचति। वज्रो वा आपः। वज्रेणैवैतन्मित्रधेयं कुरुते। दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति यामस्य दिशं द्वेष्यः स्यात्, तां दिशं परासिंचेत्। तेनैव तं पराभावयति॥६॥
द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव। पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः इति वासोऽपप्लावयति। यथेषीकां मुंजात् विवृहेत्। एवमेनं सर्वस्मात् पाप्मनो विवृहति। स्नाति। तम एवापहते॥७॥
उद्वयं तमसस्परि इति। पाप्मा वै तमः। पाप्मानमेव तमोऽपहते। स्वः पश्यन्त उत्तरम् इति। अयं वै लोकोऽद्भ्य उत्तरः। अस्मिन्नेव लोके प्रतितिष्ठति। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इति। स्वर्गो वै लोकः सूर्यो ज्योतिरुत्तमम्। स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति। अनपेक्षमेत्य आहवनीयमुपतिष्ठते॥८॥
अपो अद्यान्वचारिषम् इति। अपामेव रसमवरुन्द्धे। रसेन समसृक्ष्महि इति। अपामेव रसमात्मन् धत्ते। पयस्वानग्न आगमं तं मा संसृज वर्चसा प्रजया च धनेन च इति। आशिषमेवैतदाशास्ते॥९॥
एधोऽस्एधिषीमहि इति समिधमादत्ते। एधो ह वा अग्नेः समित्। समिदसि तेजोऽसि तेजो मयि धेहि इति। आहवनीये समिधमभ्यादधाति। अग्निमेवैतया समिन्धे। स एनं समिद्धस्तेजसा समिन्द्धे॥१०॥
आदित्यं चरुं यक्ष्यमाणो निर्वपति। आदित्यमीजानः। इयं वा अदितिः। अस्यामेव यज्ञं तनुते। अस्यामिष्ट्वा प्रतितिष्ठति। धेनुर्दक्षिणा। इयं वै धेनुः। इमामेव सर्वान् कामान् दुहे। वत्सं पूर्वस्यां दधाति। मातरमुत्तरस्याम्। यदा वै वत्सो मातरं धयति। अथ सा प्रत्ता दुहे। प्रत्तामेवैमां सर्वान् कामान् दुहे॥११॥
तदाहुः। प्रेव वा एषोऽस्मात् लोकात् च्यवते। योऽपोऽवभृथमभ्यवैतीति। अवभृथादुदेत्य मैत्रावरुण्या पयस्यया यजते। अयं वै लोको मित्रः। असौ वरुणः। यदेवेदमन्तरेण। तत्पयस्या। तत् यत् मैत्रावरुण्या पयस्यया यजते। एष्वेवैतल्लोकेषु प्रतितिष्ठति। प्राणो वै मित्रः। अपानो वरुणः। अन्नमेव पयस्या। तद्यत् मैत्रावरुण्या पयस्यया यजते। प्राण एवान्नाद्येऽन्ततः प्रतितिष्ठति॥१२॥
इति चतुर्थप्रपाठके चतुर्थं ब्राह्मणम्॥

१२.९.३
दुष्टरीतुर्ह पौंसायनो दशपुरुषं राज्यादपरुद्ध आस। रेवोत्तरसम् उ ह पाटवं च्क्रं स्थपतिं सृंजया अपरुरुधुः॥१॥
स होवाच दुष्टरीतुं पौंस्यायनम्। सौत्रामण्या त्वा याजयानि। यदिदं सृंजयेषु राष्ट्रम्। तत् त्वयि धास्यामीति। तथेति। तयैनमयाजयत्॥२॥
तदु ह बल्हिकः प्रातिपीयः शुश्राव कौरव्यो राजा। यो ह वा अयं दुष्टरीतुः पौंसायनो दशपुरुषं राज्यादपरुद्धोऽभूत्। तमयं चाक्रः स्थपतिः सौत्रामण्या याजयिष्यति। यदिदं सृञ्जयेषु राष्ट्रम्। तद्धास्मिन् धास्यतीति॥३॥
स होवाच। तन्न्वा अहं तं वेदिष्यामि। यदि स तस्मिन् राष्ट्रं धास्यति। बहिर्धा वैनं राष्ट्रात् धास्यतीति। स आजगाम। यस्यां वेलायां ग्रहा गृह्यन्ते॥४॥
स होवाच। स्थपते चाक्र नाहवनीये सुरा होतव्येत्याहुः। नान्यत्राहवनीयात्। यद्याहवनीये सुरां होष्यसि। पापवस्यसं करिष्यसि। जामि यज्ञस्य। यद्यन्यत्राहवनीयात्। बहिर्धैनं राष्ट्रात् धास्यसि। नैनं राष्ट्रे धास्यसि। नास्मिन् राष्ट्रं धास्यसीति॥५॥
स होवाच। नाहवनीये सुरां होष्यामि। नान्यत्राहवनीयात्। न पापवस्यसं करिष्यामि। न जामि यज्ञस्य। नैनं बहिर्द्धा राष्ट्रात् धास्यामि। राष्ट्र एनं धास्यामि। राष्ट्रमस्मिन् धास्यामीति॥६॥
स होवाच। कथं हि करिष्यसी३ इति। स हैतदुवाच। असुरेषु वा एषोऽग्रे यज्ञ आसीत् सौत्रामणी। स देवानुपप्रैत्। सोऽप आगच्छत्। तमापः प्रत्यनंदन्। तस्मात् उ श्रेयांसमागतं प्रत्येव नंदंति। तं होचुः। एह्येव भगव इति॥७॥
स होवाच। बिभेमि वै। प्रणयत मेति। कस्मात् भगवो बिभेषीति। असुरेभ्य इति। तथेति। तमापः प्राणयन्। तस्मात् यो वधत्रो भवति। स बिभ्यतं प्रणयति। यदापः प्राणयन्। तस्मादापः प्रणीताः। तत् प्रणीतानां प्रणीतात्वम्। प्रति ह तिष्ठति। य एवमेतत् प्रणीतानां प्रणीतात्वं वेद॥८॥
तदिष्टाः प्रयाजा आसुः। अपर्यग्निकृतम्। अथासुरा अन्वाजग्मुः। ते देवाः पर्यग्निनैवासुरान् सपत्नान् भ्रातृव्यान् यज्ञादंतरायन्। तथो एवैष एतत् पर्यग्निनैव द्विषन्तं भ्रातृव्यं यज्ञादंतरेति॥९॥
देवयोनिर्वा एषः। यदाहवनीयः। तस्यैतावमृतपक्षौ। यावेतावभितोऽग्नी। तत् यदाहवनीये यज्ञं तन्वते। देवयोनावेवैतद्देवेभ्यो यज्ञं तन्वते। उप हैनं पुनर्यज्ञो नमति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥१०॥
उत्तरेऽग्नौ पयोग्रहान् जुह्वति। उत्तरेऽग्नौ पशून् श्रपयंति। पशूनेव तन्मर्त्यान् सतोऽमृतयोनौ दधाति। मर्त्यान् सतोऽमृतयोनेः प्रजनयति। अप ह वै पशूनां पुनर्मृत्युं जयति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥११॥
दक्षिणेऽग्नौ सुराग्रहान् जुह्वति। दक्षिणेऽग्नौ पावयंति पवित्राभिस्त्रिषंयुक्ताभिः। पितॄनेव तन्मर्त्यान् सतोऽमृतयोनौ दधाति। मर्त्यान् सतोऽमृतयोनेः प्रजनयति।अप ह वै पितॄणां पुनर्मृत्युं जयति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥१२॥
तद्यदेतावग्नी आहवनीयात् विह्रियेते। तेनाहवनीयौ। अथ यदाहवनीयं पुनर्नाश्नुवाते। तेनानाहवनीयौ। तेनोभौ होमा उपाप्नोति। यश्चाहवनीये। यश्चानाहवनीये। यच्च हुतम्। यच्चाहुतम्। पुनर्हायमित्वोवाच। न तदस्ति यत् सृंजयानां राष्ट्रम्। दुष्टरीतोस्तत्। अद्य तथाऽयं चाक्रस्थपतिर्यज्ञेऽकरिति॥१३॥
उत्तरेऽग्नौ पशुभिः पुरोडाशैः पयोग्रहैरिति चरन्ति। यदु चान्यत्। तेन देवानेव तद्देवलोके प्रीणाति। त एनं प्रीताः प्रीणन्ति। अथो देवलोकमेव जयति॥१५॥
स वा एष आत्मैव। यत्सौत्रामणी। तस्मात् सा निरुक्ता। निरुक्तो ह्यात्मा।
लोको वयोधाः। तस्मात् सोऽनिरुक्तः। अनिरुक्तो हि लोकः। आत्मा वै यज्ञस्य यत्सौत्रामणी। बाहू ऐन्द्रश्च वयोधाश्च। तद्यदेतावभितः पशू भवतः। तस्मादिमावात्मानमभितो बाहू। यथा उ वै पशुः। एवं यूपः। तद्यदेतं सौत्रामणिकं यूपमेतौ यूपावभितो भवतः। तस्मादिमावात्मानमभितो बाहू॥१६॥
इति चतुर्थप्रपाठके पञ्चमं ब्राह्मणम्॥

१३.१.१.[१]

ब्रह्मौदनं पचति रेत एव तद्धत्ते यदाज्यमुच्छिष्यते तेन
रशनामभ्यज्यादत्ते तेजो वा आज्यं प्राजापत्योऽश्वः प्रजापतिमेव तेजसा
समर्धयत्यपूतो वा एषोऽमेध्यो यदश्वः

Search

Search will be available shortly.