श्री स्वर्णाकर्षण भैरव स्तोत्र

स्तोत्र - मंत्र  > शिव स्तोत्र Posted at 2019-02-17 07:09:04
श्री स्वर्णाकर्षण भैरव स्तोत्र ओं अस्य श्री स्वर्णाऽकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥ ऋष्यादि न्यासः । ब्रह्मर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । स्वर्णाकर्षण भैरवाय नमः हृदि । ह्रीं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । सः कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे । ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥ --- ध्यानम् --- पारिजातद्रुम कान्तारे स्थिते माणिक्य मण्डपे सिंहासन गतं वन्दे भैरवं स्वर्णदायकं । गाङ्गेय पात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रं देव्यायुतं तप्त स्वर्णवर्ण स्वर्णाकर्षण भैरवमाश्रयामि ॥ मन्त्रः । ओं ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षण भैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐं । स्तोत्रं ।-- ओं नमस्ते भैरवाय ब्रह्म विष्णु शिवात्मने। नमः त्रैलोक्य वन्द्याय वरदाय वरात्मने ॥ १ ॥ रत्नसिंहासनस्थाय दिव्याभरण शोभिने । दिव्यमाल्य विभूषाय नमस्ते दिव्यमूर्तये ॥ २ ॥ नमस्ते अनेक हस्ताय अनेक शिरसे नमः । नमस्ते अनेक नेत्राय अनेक विभवे नमः ॥ ३ ॥ नमस्ते अनेक कण्ठाय अनेकाम्शाय ते नमः । नमस्ते अनेक पार्श्वाय नमस्ते दिव्य तेजसे ॥ ४ ॥ अनेकाऽयुधयुक्ताय अनेक सुरसेविने । अनेक गुणयुक्ताय महादेवाय ते नमः ॥ ५ ॥ नमो दारिद्र्यकालाय महासम्पत्प्रदायिने । श्री भैरवी सम्युक्ताय त्रिलोकेशाय ते नमः ॥ ६ ॥ दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः । नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ ७ ॥ सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्य चक्षुषे । अजिताय नमस्तुभ्यं जितमित्राय ते नमः ॥ ८ ॥ नमस्ते रुद्ररूपाय महावीराय ते नमः । नमोऽस्त्वनन्त वीर्याय महाघोराय ते नमः ॥ ९ ॥ नमस्ते घोर घोराय विश्वघोराय ते नमः । नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ॥ १० ॥ गुरवे सर्वलोकानां नमः प्रणव रूपिणे । नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ॥ ११ ॥ नमस्ते कामराजाय योषित कामाय ते नमः । दीर्घमायास्वरूपाय महामायाय ते नमः ॥ १२ ॥ सृष्टिमाया स्वरूपाय निसर्ग समयाय ते । सुरलोक सुपूज्याय आपदुद्धारणाय च ॥ १३ ॥ नमो नमो भैरवाय महादारिद्र्यनाशिने । उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ॥ १४ ॥ नमो अजामलवध्याय नमो लोकेष्वराय ते । स्वर्णाऽकर्षण शीलाय भैरवाय नमो नमः ॥ १५ ॥ मम दारिद्र्य विद्वेषणाय लक्ष्याय ते नमः । नमो लोकत्रयेशाय स्वानन्द निहिताय ते ॥ १६ ॥ नमः श्री बीजरूपाय सर्वकामप्रदायिने । नमो महाभैरवाय श्री भैरव नमो नमः ॥ १७ ॥ धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः । नमः प्रसन्न (रूपाय) आदिदेवाय ते नमः ॥ १८ ॥ नमस्ते मन्त्ररूपाय नमस्ते मन्त्ररूपिणे । नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ॥ १९ ॥ नमः सुवर्णवर्णाय महापुण्याय ते नमः । नमः शुद्धाय बुद्धाय नमः संसार तारिणे ॥ २० ॥ नमो देवाय गुह्याय प्रचलाय नमो नमः । नमस्ते बालरूपाय परेषां बलनाशिने ॥ २१ ॥ नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने । नमः पातालवासाय अनाधाराय ते नमः ॥ २२ ॥ नमो नमस्ते शान्ताय अनन्ताय नमो नमः । द्विभुजाय नमस्तुभ्यं भुजत्रय सुशोभिने ॥ २३ ॥ नमोऽणिमादि सिद्धाय स्वर्णहस्ताय ते नमः । पूर्णचन्द्र प्रतीकाश वदनाम्भोज शोभिने ॥ २४ ॥ नमस्तेऽस्तु स्वरूपाय स्वर्णालङ्कार शोभिने । नमः स्वर्णाऽकर्षणाय स्वर्णाभाय नमो नमः ॥ २५ ॥ नमस्ते स्वर्णकण्ठाय स्वर्णाभ अम्बरधारिणे । स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ॥ २६ ॥ नमः स्वर्णाभपादाय स्वर्णकाञ्ची सुशोभिने । नमस्ते स्वर्णजङ्घाय भक्तकामदुधात्मने ॥ २७ ॥ नमस्ते स्वर्णभक्ताय कल्पवृक्ष स्वरूपिणे । चिन्तामणि स्वरूपाय नमो ब्रह्मादि सेविने ॥ २८ ॥ कल्पद्रुमाद्यः संस्थाय बहुस्वर्ण प्रदायिने । नमो हेमाकर्षणाय भैरवाय नमो नमः ॥ २९ ॥ स्तवेनानेन सन्तुष्टो भव लोकेश भैरव । पश्य मां करुणाद्रुष्ट्या शरणागतवत्सल ॥ ३० ॥ श्री महाभैरवस्य इदं स्तोत्रमुक्तं सुदुर्लभं । मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ ३१ ॥ यः पठेन्नित्यं एकाग्रं पातकै स प्रमुच्यते । लभते महतीं लक्ष्मीं अष्टैश्वर्यं अवाप्नुयात् ॥ ३२ ॥ चिन्तामणिं अवाप्नोति धेनु कल्पतरुं धृवं । स्वर्णराशिं अवाप्नोति शीघ्रमेव न सम्शयः ॥ ३३ ॥ त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्या नरोत्तमः । स्वप्ने श्री भैरवः तस्य साक्षात् भूत्वा जगद्गुरुः ॥ ३४ ॥ स्वर्णराशि ददात्यस्यै तत्‍क्षणं नात्र सम्शयः । अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥ ३५ ॥ लभते सकलान् कामान् सप्ताहान् नात्र सम्शयः । सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनाः ॥ ३६ ॥ लोकत्रयं वशीकुर्यात् अचलां लक्ष्मीं अवाप्नुयात् । न भयं विद्यते क्वापि विषभूतादि सम्भवम् ॥ ३७ ॥ म्रियते शत्रवः तस्य अलक्ष्मी नाशं आप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ ३८ ॥ अष्ट पञ्चात्वर्णाद्यो मन्त्रराजः प्रकीर्तितः । दारिद्र्य दुःखशमनः स्वर्णाकर्षण कारकः ॥ ३९ ॥ य एन सञ्चयेत् धीमान् स्तोत्रं वा प्रपठेत् सदा । महाभैरव सायुज्यं स अनन्तकाले लभेत् धृवम् ॥ ४० ॥ इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रं सम्पूर्णम् ॥

Search

Search here.