श्री स्वामीकवच स्तोत्र

स्तोत्र - मंत्र  > श्री स्वामी समर्थ स्तोत्र Posted at 2018-10-27 14:29:25
॥ श्रीअक्कलकोटस्वामीकवच स्तोत्रम् ॥ ॐ । अस्य श्री स्वामी कवच स्तोत्रमंत्रस्य । सुव्रत ऋषिः । अनुष्टुप् छंदः । स्वामी समर्थ देवता । शङ्करराजे शक्तिः । बाळाप्पा कीलकम् । मम सकलाभीष्टप्राप्त्यर्थं पाठे विनियोगः । । अथ करन्यासः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥ ॐ ह्रीं तर्जनीभ्यां नमः ॥ ॐ ह्रूं मध्यमाभ्यां नमः ॥ ॐ ह्रैं अनामिकाभ्यां नमः ॥ ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥ ॥ अथ षडङ्गन्यासः ॥ ॐ ह्रां हृदयाय नमः ॥ ॐ ह्रीं शिरसे स्वाहा ॥ ॐ ह्रूं शिखायै वषट् ॥ ॐ ह्रैं कवचाय हुं ॥ ॐ ह्रौं नेत्रत्रयाय वौषट् ॥ ॐ ह्रः अस्त्राय फट् ॥ ॥ अथ ध्यानम् ॥ भूमानंदं सहजसुखदं केवलं ब्रह्ममूर्तिम् । विश्वातीतं विमलहृदयं वेदवेदान्त वेद्यम् ॥ १॥ शान्तं दान्तं सरलमनसं सर्वसामर्थ्यरूपम् । ं सर्वातीतं ह्यमरमचलं स्वामिनं तं नमामि ॥ २॥ ॐ शीर्षं मे पातु स्वामी वै । भालं नेत्रे च सद्गुरुः ॥ १॥ कण्ठं मुखञ्च पातु मे । स्वामीसमर्थ देशिकः ॥ २॥ स्कन्धौ मे पातु स्वामी वै । बाहू पातु तु सद्गुरुः ॥ ३॥ करौ मे पातु स्वामी च । अङ्गुलयश्च देशिकः ॥ ४॥ प्रज्ञाप्राकारवासी वै । हृदयं पातु मे सदा ॥ ५॥ उरः स्थलञ्च स्वामी वै । कटिं मध्यं हि सद्गुरुः ॥ ६॥ नाभिं जङ्घे च स्वामी वै । गुह्यं पातु च देशिकः ॥ ७॥ ऊरू जानु समर्थश्च । पादौ स्वामी च पातु मे ॥ ८॥ देहं मनश्च प्रज्ञाञ्च । प्रज्ञापुरस्थितः सदा ॥ ९॥ दशदिक्षु स पातु मां । स्वामीसमर्थ सद्गुरुः ॥ १०॥ उत्पातान्त्रिविधान्नित्यं । नष्टान् कुर्वन्तु सद्गुरुः ॥ ११॥ संकटानाधिव्याधींश्च । नश्यन्तु देशिकः सदा ॥ १२॥ नानापीडांश्च बाधांश्च जरामरणयातनाः । प्रातिकूल्यादिविघ्नांश्च नश्यन्तु सद्गुरुः सदा ॥ १३॥ भूतप्रेतपिशाचांश्च वेतालब्रह्मराक्षसान् । शाकिनिडाकिन्यादींश्च नश्यन्तु स्वामीसमर्थः ॥ १४॥ महापापांश्च घोरांश्च ब्रह्महत्यादिदुर्धरान् । समूलान्पातकान्नित्यं नश्यन्तु सद्गुरुस्तथा ॥ १५॥ स्वामी समर्थ तेजश्च रक्षतु माञ्च सर्वदा । भूत्वा तत्कवचं मे च अभेद्यं तत्भवेत्सदा ॥ १६॥ वज्रकवचमिदं वै च यः पठेद्भक्तिमान्नरः । तीर्त्वा च संकटान्घोरान् सर्वतः सुखमाप्नुयात् ॥ १७॥ प्रतिदिनं पठेद्यो भक्तो भावपूरितचित्ततः । संसारसागरं तीर्त्वा भुक्तिं मुक्तिञ्च विन्दति ॥ १८॥ साधको यो यदिच्छेच्च गुरुभक्तो हि वर्तते । प्रसन्नो तस्मिन्हि भूत्वा च कृपालुर्भवति शीघ्रतः ॥ १९॥ स्वामीसमर्थप्रसादश्च कवचं जानयेद् बुधः ॥ सच्छिष्याय भक्ताय दातव्यं न च कर्हिचित् ॥ २०॥ अतिदिव्यं कवचं श्रेष्ठं दत्तं मे स्वामिनाऽधुना । अहं ददामि शिष्याय प्रकाशाय प्रियाय च ॥ २१॥ इदं कवचं तस्मै वै शुभं करोति सर्वदा । सर्वेषां मंगलं भूयात् दिव्यं कवचमेव च ॥ २२॥ सदिच्छां प्रकटीकृत्वा समापनं करोम्यहम् । नत्त्वा स्वामीसमर्थं च नमामि श्रीधरं गुरुम् ॥ २३॥ प्रकाशस्य निमित्तेन प्रकाशितमिदं स्तवः । तर्हि तत्प्रति चाशींश्च ददामि च पुनः पुनः ॥ २४॥ अक्कलकोटवासी च स्वामीसमर्थ सद्गुरुः । भूयात् सर्वमांगल्यं सर्वेषामिति प्रार्थये ॥ २५॥ ॥ इति सुव्रतविरचितं स्वामीसमर्थवज्रकवचं समाप्तम् ॥

Search

Search here.