वास्तु विशेष हवन वर्धिनि

यज्ञ - शान्ति  > पूजन कर्म विधी Posted at 2018-10-20 14:04:58
वर्धिनीमंत्र -- ॐवर्धिन्यै 0 वरुणाय 0 ब्रम्हणे 0 रुद्राय 0 विष्णवे 0 मातृभ्यो 0 सागरेभ्यो 0 मह्यै 0 नदीभ्यो 0 तीर्थेभ्यो 0 गायत्र्यै  0 ऋग्वेदाय 0 यजुर्वेदाय 0 सामवेदाय 0 अथर्ववेदाय 0 अग्नये 0 आदित्येभ्यो 0  एकादशरुद्रेभ्यो 0 मरुद्भ्यो 0 मरुतः 0 गंधर्वेभ्यो 0 ऋषये 0 वरुणाय 0 वायवे 0 धनदाय 0 यमाय 0 धर्माय 0 शिवाय 0 यज्ञाय 0 विश्वेभ्यो देवेभ्यो 0 स्कंदाय 0 गणेशाय 0 यक्षाय 0 अरुंधत्यै 0 द्वारशाखापूजनम् --  ॐधात्रे 0 विधात्रे 0 गणपतये 0 देहल्यै 0 चंडाय 0 प्रचंडाय 0 द्वारश्रियै 0 वास्तुपुरुषाय 0 गंगायै 0 शंखनिधये 0 यमुनायै 0 पद्मनिधये 0 गणपतये  0 दुर्गायै 0 सरस्वत्यै 0 क्षेत्रपालाय ॥इति॥ वास्तु विशेष हवन -- इहरतिरिह रमध्वमिह धृतिरिह स्वधृति: स्वाहा इदमग्नये न मम .. ॐ उपसृजं धरुणं मात्रे धरुणो मातरन्धयन् रायस्पोषमस्मासु दीधरत्स्वाहा इदमग्नये न मम .. ॐवास्तोष्पते प्रतिजानी . स्वाहा इदं वास्तोष्पतये .. ॐवास्तोष्पते प्रतरणोनऽएधि गयस्फानो गोभिरश्र्वेभिरिन्दो अजरासस्ते सख्ये स्याम पितेव पुत्रान् प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा इदं वास्तोष्पतये .. ॐ वास्तोष्पते शग्मयास सदा ते सक्षीमहिरण्वया गातुमत्या पाहि क्षेमऽ उतयोगे वरन्नो यूयं पात स्वस्तिभिः सदा नः स्वाहा इदं वास्तोष्पतये . ॐ अमीवहा वास्तोष्पते विश्वा रुपाण्याविशम् सखाऽसुशेव एधि नः स्वाहा इदं वास्तोष्पतये .. ॐअग्निमिन्द्रं बृहस्पतिं विश्वांश्च देवानुपह्वये सरस्वतीं च वाजीं च वास्तु मे दत्तवाजिनः स्वाहा इदम् अग्नये इन्द्राय बृहस्पतये विश्वेभ्योदेवेभ्यः सरस्वत्यै वाज्यै च न मम.. ॐ सर्पदेव जनान्सर्वान् हिमवन्तं सुदर्शनम् वसूंश्च रुद्रानादित्यानींशानं जगदैः सह एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्तवाजिनः स्वाहा इदं सर्पदेवजनेभ्यः सर्वेभ्यो हिमवते सुदर्शनाय वसुभ्यो रुद्रेभ्य आदित्येभ्य ईशानाय जगदेभ्यश्च न मम .. ॐ पूर्वाह्णमपराह्ण चोभौ मध्यंदिना सह प्रदोषमर्धरात्रं च व्युष्टां देवीं महापथाम् एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्तवाजिनः स्वाहा इदं पूर्वाह्णायापराह्णाय मध्यंदिनाय प्रदोषाय अर्धरात्राय व्युष्टायै देव्यै महापथायै च न मम.. ॐ कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतींन् एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्तवाजिनः स्वाहा इदं कर्त्रे विकर्त्रे विश्वकर्मण ओषधीभ्यो वनस्पतिभ्यश्च न मम ॐ धातारं च विधातारं निधीनां च पतिं सह एतान्सर्वान्प्रपद्येऽहं वास्तु मे दत्तवाजिनः स्वाहा इदं धात्रे विधात्रे निधीनां पतये च न मम.. ॐ स्योनं शिवमिदं वास्तु दत्तं ब्रह्मप्रजापतिः सर्वाश्चदेवताः स्वाहा इदं ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यश्च न मम श्रीफलार्घ -- अयोने भगवन भर्ग ललाटस्वेदसंभव । गृहाणार्घ्यं मया दत्तं वास्तोस्वामिंन नमोस्तुते ॥ नमस्कार - यथा मेरुगिरे : श्रृंगे देवानामालय: सदा । तथा शिख्यादिदेवानां मद्गृहे च स्थिरो भव ॥ वास्तुपुरुषदेवेश सर्वविघ्नहरोभव । शांतिं कुरु सुखं देहि सर्वांन कामांन प्रयच्छ मे ॥ पूजितोसि मया देव सर्वसौख्यफलप्रद , मद्गृहे धनधान्यादि पुत्रांन पौत्रांन प्रवर्धय ॥ गाईची प्रार्थना -- गावोममाग्रत:सन्तु गावो मे संतु पृष्ठत:॥ गावो मे ह्रदये सन्तु गवां मध्ये वसाम्यहं ॥ पंचगाव: समुत्पन्ना मथ्यमाने महोदधौ॥तासां मध्ये तु या नंदा तस्यै धेन्वै नमो नम:॥अदितिर्देवमाता च वेदमाता च धीश्र्वरी ॥ धेनुरुपेण सा देवी मम पापं व्यपोहतु॥

Search

Search here.