यजमान कुटुंबियांवर अभिषेक
यज्ञ - शान्ति > पूजन कर्म विधी Posted at 2018-10-27 16:23:13
यजमान कुटुंबियांवर अभिषेक
यजमान पत्नीस डाव्या बाजूस बसवावे.
१. जपाकुसुम संकाशं० ।
२. दशिशंख तुषाराभं० ।
३. धरणी गर्भ संभूतं० ।
४. प्रियंगु कलिका श्यामं० ।
५. देवानांच ऋषिणांच० ।
६. हिमकुंद मृणालाभं० ।
७. नीलांजन समाभासं० ।
८. अर्धकायं महावीर्यं० ।
९. पलाशपुष्पं संकाशं० ।
१. रुद्रोदेव वृषारूढ० ।
२. आग्नेयः पुरशोरक्तः० ।
३. वास्तोष्पते नमस्तुभ्यं० ।
सुरास्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः ।
वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः
प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते ।
आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः ।
बुद्धिर्लज्जा वपुः शांतिः कांतिः स्तुष्टिश्च मातरः ।
एतेत्वां अभिषिंचंतु देवपत्न्यः समाश्रिताः ।
आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः ।
ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः ।
देवदानव गंधर्व यक्षराक्षस पन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ।
औषधानि च रत्नानि कालस्या वयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदा
एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये ।
ग्रहाणामादिरादित्यो लोकरक्षण कारकः ।
विषमस्थान संभूतां पीडां हरतु मे रविः ।
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानं संभूतां पीडां हरतु मे विधुः ।
भूमिपुत्रो महातेजा जगतां भयकृद् सदा ।
वृष्टिकृद् वष्टिहर्ता च पीडां हरतु मे कुजः ।
उत्पातरूपो जगतां चंद्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वानं पीडां हरतु मे बुधः ।
देवमंत्री विशालाक्षः सदा लोकहिते रतः ।
अनेक शिष्य संपूर्णः पीडां हरतु मे गुरुः ।
दैत्यमंत्री गुरूस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ।
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
दीर्घचारः प्रसन्नात्मा पीडां हरतु मे शनिः ।
महाशिरा महाक्यो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे ततः ।
अनेक रूप वर्णेश्च शतशोऽथ सहस्त्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे शिखी ।
मूळ नक्षत्रासाठी -
निऋतिं खड्गहस्तं च सर्व लौकेक पावनम् ।
नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।
योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः ।
मूलजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥
योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः ।
सप्तजिव्हश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥२॥
योऽ सौ दंडधरो देवो धर्मो महिषवाहनः ।
मूलजातशिशोर्दोषं व्यपोहतु यमो मम ॥३॥
योऽसौ खड्गधरो देवो निऋती राक्षसाधिपः ।
प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम् ॥४॥
योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः ।
नक्रवाहः प्रचेतानो मूलोत्थाघं व्युपोहतु ॥५॥
यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः ।
प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ॥६॥
योऽसौ निधिपतिर्देवो खड्गभृद्वाजिवाहनः ।
मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ॥७॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
आश्लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥
विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः ।
सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥
आश्लेषासाठी
योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः ।
सार्पजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥
योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः ।
सप्तजिव्हश्च देवोऽग्निः सार्पदोषं व्यपोहतु ॥२॥
योऽ सौ दंडधरो देवो धर्मो महिषवाहनः ।
सार्पदोषं शिशोर्दोषं व्यपोहतु यमो मम ॥३॥
योऽसौ खड्गधरो देवो निऋती राक्षसाधिपः ।
प्रशामयतु सार्पोत्थं दोषं गंडांतसंभवम् ॥४॥
योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः ।
नक्रवाहः प्रचेतानः सार्पोत्थाघं व्युपोहतु ॥५॥
यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः ।
प्रशामयतु सार्पोत्थं दोषं बालस्य शांतये
मातापित्रोः शिशोश्चैव सार्पंदोष व्यपोहतु ॥६॥
योऽसौ निधिपतिर्देवो खड्गभृद्वाजिवाहनः ।
मातापित्रोः शिशोश्चैव सार्पदोषं व्यपोहतु ॥७॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
आश्लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥
विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः ।
सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥
आश्लेषा ऋक्षजातस्य मातापित्रोर्धनस्य च ।
भ्रातुर्ज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु ॥१०॥
योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः ।
मातापित्रोः शिशोश्चैव गंडांत स व्यपोहतु ॥११॥
पितरः सर्वभूतानां रक्षंतु पितरः सदा ।
सार्पनक्षत्र जात्तस्य वित्तं च ज्ञातिबांधवान् ॥१२॥
Search
Search here.