अथर्व वेद 1

ग्रंथालय  > वेद-संहिता Posted at 2016-03-11 13:15:25
(१,१.१ ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । (१,१.१ ) वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥ (१,१.२ ) पुनरेहि वचस्पते देवेन मनसा सह । (१,१.२ ) वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥ (१,१.३ ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया । (१,१.३ ) वाचस्पतिर्नि यछतु मय्येवास्तु मयि श्रुतम् ॥३॥ (१,१.४ ) उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् । (१,१.४ ) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥ (१,२.१ ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । (१,२.१ ) विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥ (१,२.२ ) ज्याके परि णो नमाश्मानं तन्वं कृधि । (१,२.२ ) वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥ (१,२.३ ) वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् । (१,२.३ ) शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥ (१,२.४ ) यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् । (१,२.४ ) एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥ (१,३.१ ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् । (१,३.१ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥ (१,३.२ ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् । (१,३.२ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥ (१,३.३ ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् । (१,३.३ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥ (१,३.४ ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् । (१,३.४ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥ (१,३.५ ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् । (१,३.५ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥ (१,३.६ ) यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् । (१,३.६ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥ (१,३.७ ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव । (१,३.७ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥ (१,३.८ ) विषितं ते वस्तिबिलं समुद्रस्योदधेरिव । (१,३.८ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥ (१,३.९ ) यथेषुका परापतदवसृष्टाधि धन्वनः । (१,३.९ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥ (१,४.१ ) अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । (१,४.१ ) पृञ्चतीर्मधुना पयः ॥१॥ (१,४.२ ) अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । (१,४.२ ) ता नो हिन्वन्त्वध्वरम् ॥२॥ (१,४.३ ) अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः । (१,४.३ ) सिन्धुभ्यः कर्त्वं हविः ॥३॥ (१,४.४ ) अप्स्वन्तरमृतमप्सु भेषजम् । (१,४.४ ) अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥ (१,५.१ ) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । (१,५.१ ) महे रणाय चक्षसे ॥१॥ (१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः । (१,५.२ ) उशतीरिव मातरः ॥२॥ (१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । (१,५.३ ) आपो जनयथा च नः ॥३॥ (१,५.४ ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । (१,५.४ ) अपो याचामि भेषजम् ॥४॥ (१,६.१ ) शं नो देवीरभिष्टय आपो भवन्तु पीतये । (१,६.१ ) शं योरभि स्रवन्तु नः ॥१॥ (१,६.२ ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । (१,६.२ ) अग्निं च विश्वशंभुवम् ॥२॥ (१,६.३ ) आपः पृणीत भेषजं वरूथं तन्वे मम । (१,६.३ ) ज्योक्च सूर्यं दृशे ॥३॥ (१,६.४ ) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः । (१,६.४ ) शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः । (१,६.४ ) शिवा नः सन्तु वार्षिकीः ॥४॥ (१,७.१ ) स्तुवानमग्न आ वह यातुधानं किमीदिनम् । (१,७.१ ) त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥ (१,७.२ ) आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् । (१,७.२ ) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥ (१,७.३ ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः । (१,७.३ ) अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥ (१,७.४ ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् । (१,७.४ ) ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥ (१,७.५ ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः । (१,७.५ ) त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥ (१,७.६ ) आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे । (१,७.६ ) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥ (१,७.७ ) त्वमग्ने यातुधानान् उपबद्धामिहा वह । (१,७.७ ) अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥ (१,८.१ ) इदं हविर्यातुधानान् नादी फेनमिवा वहत्। (१,८.१ ) य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥ (१,८.२ ) अयं स्तुवान आगमदिमं स्म प्रति हर्यत । (१,८.२ ) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥ (१,८.३ ) यातुधानस्य सोमप जहि प्रजां नयस्व च । (१,८.३ ) नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥ (१,८.४ ) यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः । (१,८.४ ) तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥ (१,९.१ ) अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः । (१,९.१ ) इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥ (१,९.२ ) अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् । (१,९.२ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥ (१,९.३ ) येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः । (१,९.३ ) तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥ (१,९.४ ) ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने । (१,९.४ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥ (१,१०.१ ) अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । (१,१०.१ ) ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥ (१,१०.२ ) नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् । (१,१०.२ ) सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥ (१,१०.३ ) यदुवक्थानृतं जिह्वया वृजिनं बहु । (१,१०.३ ) राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥ (१,१०.४ ) मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि । (१,१०.४ ) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥ (१,११.१ ) वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः । (१,११.१ ) सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥ (१,११.२ ) चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत । (१,११.२ ) देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥ (१,११.३ ) सूषा व्यूर्णोतु वि योनिं हापयामसि । (१,११.३ ) श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥ (१,११.४ ) नेव मांसे न पीवसि नेव मज्जस्वाहतम् । (१,११.४ ) अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥ (१,११.५ ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके । (१,११.५ ) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥ (१,११.६ ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः । (१,११.६ ) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥ (१,१२.१ ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या । (१,१२.१ ) स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥ (१,१२.२ ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम । (१,१२.२ ) अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥ (१,१२.३ ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य । (१,१२.३ ) यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥ (१,१२.४ ) शं मे परस्मै गात्राय शमस्त्ववराय मे । (१,१२.४ ) शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥ (१,१३.१ ) नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे । (१,१३.१ ) नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥ (१,१३.२ ) नमस्ते प्रवतो नपाद्यतस्तपः समूहसि । (१,१३.२ ) मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥ (१,१३.३ ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः । (१,१३.३ ) विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥ (१,१३.४ ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् । (१,१३.४ ) सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥ (१,१४.१ ) भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् । (१,१४.१ ) महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥ (१,१४.२ ) एषा ते राजन् कन्या वधूर्नि धूयतां यम । (१,१४.२ ) सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥ (१,१४.३ ) एषा ते कुलपा राजन् तामु ते परि दद्मसि । (१,१४.३ ) ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥ (१,१४.४ ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च । (१,१४.४ ) अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥ (१,१५.१ ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः । (१,१५.१ ) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥ (१,१५.२ ) इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः । (१,१५.२ ) इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥ (१,१५.३ ) ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः । (१,१५.३ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥ (१,१५.४ ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च (१,१५.४ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥ (१,१६.१ ) येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः । (१,१६.१ ) अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥ (१,१६.२ ) सीसायाध्याह वरुणः सीसायाग्निरुपावति । (१,१६.२ ) सीसं म इन्द्रः प्रायछत्तदङ्ग यातुचातनम् ॥२॥ (१,१६.३ ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः । (१,१६.३ ) अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥ (१,१६.४ ) यदि नो गां हंसि यद्यश्वं यदि पूरुषम् । (१,१६.४ ) तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥ (१,१७.१ ) अमूर्या यन्ति योषितो हिरा लोहितवाससः । (१,१७.१ ) अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥ (१,१७.२ ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे । (१,१७.२ ) कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥ (१,१७.३ ) शतस्य धमनीनां सहस्रस्य हिराणाम् । (१,१७.३ ) अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥ (१,१७.४ ) परि वः सिकतावती धनूर्बृहत्यक्रमीत्। (१,१७.४ ) तिष्ठतेलयता सु कम् ॥४॥ (१,१८.१ ) निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि । (१,१८.१ ) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥ (१,१८.२ ) निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा । (१,१८.२ ) निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥ (१,१८.३ ) यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा । (१,१८.३ ) सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥ (१,१८.४ ) रिश्यपदीं वृषदतीं गोषेधां विधमामुत । (१,१८.४ ) विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥ (१,१९.१ ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् । (१,१९.१ ) आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥ (१,१९.२ ) विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः । (१,१९.२ ) दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥ (१,१९.३ ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति । (१,१९.३ ) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥ (१,१९.४ ) यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः । (१,१९.४ ) देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥ (१,२०.१ ) अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः । (१,२०.१ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥ (१,२०.२ ) यो अद्य सेन्यो वधोऽघायूनामुदीरते । (१,२०.२ ) युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥ (१,२०.३ ) इतश्च यदमुतश्च यद्वधं वरुण यावय । (१,२०.३ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥३॥ (१,२०.४ ) शास इत्था महामस्यमित्रसाहो अस्तृतः । (१,२०.४ ) न यस्य हन्यते सखा न जीयते कदा चन ॥४॥ (१,२१.१ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । (१,२१.१ ) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥ (१,२१.२ ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः । (१,२१.२ ) अधमं गमया तमो यो अस्मामभिदासति ॥२॥ (१,२१.३ ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज । (१,२१.३ ) वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥ (१,२१.४ ) अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् । (१,२१.४ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥४॥ (१,२२.१ ) अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते । (१,२२.१ ) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥ (१,२२.२ ) परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि । (१,२२.२ ) यथायमरपा असदथो अहरितो भुवत्॥२॥ (१,२२.३ ) या रोहिणीर्देवत्या गावो या उत रोहिणीः । (१,२२.३ ) रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥ (१,२२.४ ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि । (१,२२.४ ) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥ (१,२३.१ ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च । (१,२३.१ ) इदं रजनि रजय किलासं पलितं च यत्॥१॥ (१,२३.२ ) किलासं च पलितं च निरितो नाशया पृषत्। (१,२३.२ ) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥ (१,२३.३ ) असितं ते प्रलयनमास्थानमसितं तव । (१,२३.३ ) असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥ (१,२३.४ ) अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि । (१,२३.४ ) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥ (१,२४.१ ) सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ । (१,२४.१ ) तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥ (१,२४.२ ) आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् । (१,२४.२ ) अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥ (१,२४.३ ) सरूपा नाम ते माता सरूपो नाम ते पिता । (१,२४.३ ) सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥ (१,२४.४ ) श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता । (१,२४.४ ) इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥ (१,२५.१ ) यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि । (१,२५.१ ) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥ (१,२५.२ ) यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् । (१,२५.२ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥ (१,२५.३ ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः । (१,२५.३ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥ (१,२५.४ ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि । (१,२५.४ ) यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥ (१,२६.१ ) आरेऽसावस्मदस्तु हेतिर्देवासो असत्। (१,२६.१ ) आरे अश्मा यमस्यथ ॥१॥ (१,२६.२ ) सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः । (१,२६.२ ) सविता चित्रराधाः ॥२॥ (१,२६.३ ) यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः । (१,२६.३ ) शर्म यछथ सप्रथाः ॥३॥ (१,२६.४ ) सुषूदत मृडत मृडया नस्तनूभ्यो । (१,२६.४ ) मयस्तोकेभ्यस्कृधि ॥४॥ (१,२७.१ ) अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः । (१,२७.१ ) तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥ (१,२७.२ ) विषूच्येतु कृन्तती पिनाकमिव बिभ्रती । (१,२७.२ ) विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥ (१,२७.३ ) न बहवः समशकन् नार्भका अभि दाधृषुः । (१,२७.३ ) वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥ (१,२७.४ ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् । (१,२७.४ ) इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥ (१,२८.१ ) उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः । (१,२८.१ ) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥ (१,२८.२ ) प्रति दह यातुधानान् प्रति देव किमीदिनः । (१,२८.२ ) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥ (१,२८.३ ) या शशाप शपनेन याघं मूरमादधे । (१,२८.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥ (१,२८.४ ) पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् । (१,२८.४ ) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥ (१,२९.१ ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे । (१,२९.१ ) तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥ (१,२९.२ ) अभिवृत्य सपत्नान् अभि या नो अरातयः । (१,२९.२ ) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥ (१,२९.३ ) अभि त्वा देवः सविताभि षोमो अवीवृधत्। (१,२९.३ ) अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥ (१,२९.४ ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः । (१,२९.४ ) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥ (१,२९.५ ) उदसौ सूर्यो अगादुदिदं मामकं वचः । (१,२९.५ ) यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥ (१,२९.६ ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः । (१,२९.६ ) यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥ (१,३०.१ ) विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् । (१,३०.१ ) मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥ (१,३०.२ ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् । (१,३०.२ ) सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥ (१,३०.३ ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः । (१,३०.३ ) ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥ (१,३०.४ ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः । (१,३०.४ ) येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥ (१,३१.१ ) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । (१,३१.१ ) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥ (१,३१.२ ) य आशानामाशापालाश्चत्वार स्थन देवाः । (१,३१.२ ) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥ (१,३१.३ ) अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि । (१,३१.३ ) य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥ (१,३१.४ ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः । (१,३१.४ ) विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥ (१,३२.१ ) इदं जनासो विदथ महद्ब्रह्म वदिष्यति । (१,३२.१ ) न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥ (१,३२.२ ) अन्तरिक्ष आसां स्थाम श्रान्तसदामिव । (१,३२.२ ) आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥ (१,३२.३ ) यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् । (१,३२.३ ) आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥ (१,३२.४ ) विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् । (१,३२.४ ) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥ (१,३३.१ ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः । (१,३३.१ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥ (१,३३.२ ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् । (१,३३.२ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥ (१,३३.३ ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । (१,३३.३ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥ (१,३३.४ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे । (१,३३.४ ) घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥ (१,३४.१ ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि । (१,३४.१ ) मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥ (१,३४.२ ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् । (१,३४.२ ) ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥ (१,३४.३ ) मधुमन् मे निक्रमणं मधुमन् मे परायणम् । (१,३४.३ ) वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥ (१,३४.४ ) मधोरस्मि मधुतरो मदुघान् मधुमत्तरः । (१,३४.४ ) मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥ (१,३४.५ ) परि त्वा परितत्नुनेक्षुणागामविद्विषे । (१,३४.५ ) यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥ (१,३५.१ ) यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः । (१,३५.१ ) तत्ते बद्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥ (१,३५.२ ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्। (१,३५.२ ) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥ (१,३५.३ ) अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि । (१,३५.३ ) इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥ (१,३५.४ ) समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि । (१,३५.४ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥ (२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् । (२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥ (२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्। (२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥ (२,१.३ ) स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा । (२,१.३ ) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥ (२,१.४ ) परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य । (२,१.४ ) वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥ (२,१.५ ) परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् । (२,१.५ ) यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥ (२,२.१ ) दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः । (२,२.१ ) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥ (२,२.२ ) दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य । (२,२.२ ) मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥ (२,२.३ ) अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्। (२,२.३ ) समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥ (२,२.४ ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे । (२,२.४ ) ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥ (२,२.५ ) याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः । (२,२.५ ) ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥ (२,३.१ ) अदो यदवधावत्यवत्कमधि पर्वतात्। (२,३.१ ) तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥ (२,३.२ ) आदङ्गा कुविदङ्ग शतं या भेषजानि ते । (२,३.२ ) तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥ (२,३.३ ) नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्। (२,३.३ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥ (२,३.४ ) उपजीका उद्भरन्ति समुद्रादधि भेषजम् । (२,३.४ ) तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥ (२,३.५ ) अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् । (२,३.५ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥ (२,३.६ ) शं नो भवन्त्वप ओषधयः शिवाः । (२,३.६ ) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥ (२,४.१ ) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव । (२,४.१ ) मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥ (२,४.२ ) जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्। (२,४.२ ) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥ (२,४.३ ) अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः । (२,४.३ ) अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥ (२,४.४ ) देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा । (२,४.४ ) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥ (२,४.५ ) शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् । (२,४.५ ) अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥ (२,४.६ ) कृत्यादूषिरयं मणिरथो अरातिदूषिः । (२,४.६ ) अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥ (२,५.१ ) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् । (२,५.१ ) पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥ (२,५.२ ) इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न । (२,५.२ ) अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥ (२,५.३ ) इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न । (२,५.३ ) बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥ (२,५.४ ) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः । (२,५.४ ) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥ (२,५.५ ) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री । (२,५.५ ) अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥ (२,५.६ ) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । (२,५.६ ) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥ (२,५.७ ) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य । (२,५.७ ) आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥ (२,६.१ ) समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । (२,६.१ ) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश्चतस्रः ॥१॥ (२,६.२ ) सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय । (२,६.२ ) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥ (२,६.३ ) त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः । (२,६.३ ) सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥३॥ (२,६.४ ) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व । (२,६.४ ) सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥ (२,६.५ ) अति निहो अति सृधोऽत्यचित्तीरति द्विषः । (२,६.५ ) विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥ (२,७.१ ) अघद्विष्टा देवजाता वीरुच्छपथयोपनी । (२,७.१ ) आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥ (२,७.२ ) यश्च सापत्नः शपथो जाम्याः शपथश्च यः । (२,७.२ ) ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥ (२,७.३ ) दिवो मूलमवततं पृथिव्या अध्युत्ततम् । (२,७.३ ) तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥ (२,७.४ ) परि मां परि मे प्रजां परि णः पाहि यद्धनम् । (२,७.४ ) अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥ (२,७.५ ) शप्तारमेतु शपथो यः सुहार्त्तेन नः सह । (२,७.५ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥ (२,८.१ ) उदगातां भगवती विचृतौ नाम तारके । (२,८.१ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥ (२,८.२ ) अपेयं रात्र्युछत्वपोछन्त्वभिकृत्वरीः । (२,८.२ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥२॥ (२,८.३ ) बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या । (२,८.३ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥३॥ (२,८.४ ) नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः । (२,८.४ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥४॥ (२,८.५ ) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः । (२,८.५ ) नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥५॥ (२,९.१ ) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु । (२,९.१ ) अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥ (२,९.२ ) आगादुदगादयं जीवानां व्रातमप्यगात्। (२,९.२ ) अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥ (२,९.३ ) अधीतीरध्यगादयमधि जीवपुरा अगान् । (२,९.३ ) शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥ (२,९.४ ) देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः । (२,९.४ ) चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥ (२,९.५ ) यश्चकार स निष्करत्स एव सुभिषक्तमः । (२,९.५ ) स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥ (२,१०.१ ) क्षेत्रियात्त्वा निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.१ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥ (२,१०.२ ) शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः । (२,१०.२ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.२ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥ (२,१०.३ ) शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः । (२,१०.३ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.३ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥ (२,१०.४ ) इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे । (२,१०.४ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.४ ) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥ (२,१०.५ ) तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः । (२,१०.५ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.५ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥ (२,१०.६ ) अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः । (२,१०.६ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.६ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥ (२,१०.७ ) अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके । (२,१०.७ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.७ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥ (२,१०.८ ) सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः । (२,१०.८ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। (२,१०.८ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥ (२,११.१ ) दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि । (२,११.१ ) आप्नुहि श्रेयांसमति समं क्राम ॥१॥ (२,११.२ ) स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि । (२,११.२ ) आप्नुहि श्रेयांसमति समं क्राम ॥२॥ (२,११.३ ) प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (२,११.३ ) आप्नुहि श्रेयांसमति समं क्राम ॥३॥ (२,११.४ ) सूरिरसि वर्चोधा असि तनूपानोऽसि । (२,११.४ ) आप्नुहि श्रेयांसमति समं क्राम ॥४॥ (२,११.५ ) शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि । (२,११.५ ) आप्नुहि श्रेयांसमति समं क्राम ॥५॥ (२,१२.१ ) द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः । (२,१२.१ ) उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥ (२,१२.२ ) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति । (२,१२.२ ) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥ (२,१२.३ ) इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि । (२,१२.३ ) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥ (२,१२.४ ) अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः । (२,१२.४ ) इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥ (२,१२.५ ) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् । (२,१२.५ ) अङ्गिरसः पितरः सोम्यासः पापमा ऋछत्वपकामस्य कर्ता ॥५॥ (२,१२.६ ) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् । (२,१२.६ ) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥ (२,१२.७ ) सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा । (२,१२.७ ) अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥ (२,१२.८ ) आ दधामि ते पदं समिद्धे जातवेदसि । (२,१२.८ ) अग्निः शरीरं वेवेष्ट्वसुं वागपि गछतु ॥८॥ (२,१३.१ ) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने । (२,१३.१ ) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥ (२,१३.२ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । (२,१३.२ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥ (२,१३.३ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ । (२,१३.३ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥ (२,१३.४ ) एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः । (२,१३.४ ) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥ (२,१३.५ ) यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः । (२,१३.५ ) तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥ (२,१४.१ ) निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् । (२,१४.१ ) सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥ (२,१४.२ ) निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्। (२,१४.२ ) निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥ (२,१४.३ ) असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः । (२,१४.३ ) तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥ (२,१४.४ ) भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः । (२,१४.४ ) गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥ (२,१४.५ ) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः । (२,१४.५ ) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥ (२,१४.६ ) परि धामान्यासामाशुर्गाष्ठामिवासरम् । (२,१४.६ ) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥ (२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः । (२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥ (२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः । (२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥ (२,१५.३ ) यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः । (२,१५.३ ) एवा मे प्राण मा बिभेः ॥३॥ (२,१५.४ ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः । (२,१५.४ ) एवा मे प्राण मा बिभेः ॥४॥ (२,१५.५ ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः । (२,१५.५ ) एवा मे प्राण मा बिभेः ॥५॥ (२,१५.६ ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः । (२,१५.६ ) एवा मे प्राण मा बिभेः ॥६॥ (२,१६.१ ) प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥ (२,१६.२ ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥ (२,१६.३ ) सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥ (२,१६.४ ) अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥ (२,१६.५ ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥ (२,१७.१ ) ओजोऽस्योजो मे दाः स्वाहा ।१॥ (२,१७.२ ) सहोऽसि सहो मे दाः स्वाहा ॥२॥ (२,१७.३ ) बलमसि बलं दाः स्वाहा ॥३॥ (२,१७.४ ) आयुरस्यायुर्मे दाः स्वाह ॥४॥ (२,१७.५ ) श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥ (२,१७.६ ) चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥ (२,१७.७ ) परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥ (२,१८.१ ) भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥ (२,१८.२ ) सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥ (२,१८.३ ) अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥ (२,१८.४ ) पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥ (२,१८.५ ) सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥ (२,१९.१ ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,१९.२ ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,१९.३ ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,१९.४ ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,१९.५ ) अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२०.१ ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२०.२ ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२०.३ ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२०.४ ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२०.५ ) वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२१.१ ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२१.२ ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२१.३ ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२१.४ ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२१.५ ) सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२२.१ ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२२.२ ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२२.३ ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२२.४ ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२२.५ ) चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२३.१ ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥ (२,२३.२ ) आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥ (२,२३.३ ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥ (२,२३.४ ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥ (२,२३.५ ) आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥ (२,२४.१ ) शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.१ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥ (२,२४.२ ) शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.२ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥ (२,२४.३ ) म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.३ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥ (२,२४.४ ) सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.४ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥ (२,२४.५ ) जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.५ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥ (२,२४.६ ) उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.६ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥ (२,२४.७ ) अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.७ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥ (२,२४.८ ) भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः । (२,२४.८ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥ (२,२५.१ ) शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः । (२,२५.१ ) उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥ (२,२५.२ ) सहमानेयं प्रथमा पृश्निपर्ण्यजायत । (२,२५.२ ) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥ (२,२५.३ ) अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति । (२,२५.३ ) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥ (२,२५.४ ) गिरिमेनामा वेशय कण्वान् जीवितयोपनान् । (२,२५.४ ) तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥ (२,२५.५ ) पराच एनान् प्र णुद कण्वान् जीवितयोपनान् । (२,२५.५ ) तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥५॥ (२,२६.१ ) एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष । (२,२६.१ ) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥१॥ (२,२६.२ ) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् । (२,२६.२ ) सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यछ ॥२॥ (२,२६.३ ) सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः । (२,२६.३ ) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥ (२,२६.४ ) सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् । (२,२६.४ ) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥ (२,२६.५ ) आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् । (२,२६.५ ) आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥ (२,२७.१ ) नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि । (२,२७.१ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥ (२,२७.२ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । (२,२७.२ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥ (२,२७.३ ) इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे । (२,२७.३ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥ (२,२७.४ ) पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे । (२,२७.४ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥ (२,२७.५ ) तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव । (२,२७.५ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥ (२,२७.६ ) रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। (२,२७.६ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥ (२,२७.७ ) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । (२,२७.७ ) अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥ (२,२८.१ ) तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये । (२,२८.१ ) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥ (२,२८.२ ) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ । (२,२८.२ ) तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥ (२,२८.३ ) त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः । (२,२८.३ ) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥ (२,२८.४ ) द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने । (२,२८.४ ) यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥ (२,२८.५ ) इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् । (२,२८.५ ) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर्यथासत्॥५॥ (२,२९.१ ) पार्थिवस्य रसे देवा भगस्य तन्वो बले । (२,२९.१ ) आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥ (२,२९.२ ) आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै । (२,२९.२ ) रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥ (२,२९.३ ) आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ । (२,२९.३ ) जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥ (२,२९.४ ) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् । (२,२९.४ ) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥ (२,२९.५ ) ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् । (२,२९.५ ) ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥ (२,२९.६ ) शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः । (२,२९.६ ) सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥ (२,२९.७ ) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा । (२,२९.७ ) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥ (२,३०.१ ) यथेदं भूम्या अधि तृणं वातो मथायति । (२,३०.१ ) एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥ (२,३०.२ ) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः । (२,३०.२ ) सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥ (२,३०.३ ) यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः । (२,३०.३ ) तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥३॥ (२,३०.४ ) यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् । (२,३०.४ ) कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥ (२,३०.५ ) एयमगन् पतिकामा जनिकामोऽहमागमम् । (२,३०.५ ) अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥ (२,३१.१ ) इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । (२,३१.१ ) तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥ (२,३१.२ ) दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् । (२,३१.२ ) अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥ (२,३१.३ ) अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । (२,३१.३ ) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥ (२,३१.४ ) अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् । (२,३१.४ ) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥ (२,३१.५ ) ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः । (२,३१.५ ) ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥ (२,३२.१ ) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः । (२,३२.१ ) ये अन्तः क्रिमयो गवि ॥१॥ (२,३२.२ ) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् । (२,३२.२ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥ (२,३२.३ ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। (२,३२.३ ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥ (२,३२.४ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । (२,३२.४ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥ (२,३२.५ ) हतासो अस्य वेशसो हतासः परिवेशसः । (२,३२.५ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥ (२,३२.६ ) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि । (२,३२.६ ) भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥ (२,३३.१ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । (२,३३.१ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥ (२,३३.२ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्। (२,३३.२ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥ (२,३३.३ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । (२,३३.३ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥ (२,३३.४ ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि । (२,३३.४ ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥ (२,३३.५ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । (२,३३.५ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥ (२,३३.६ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । (२,३३.६ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥ (२,३३.७ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि । (२,३३.७ ) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥ (२,३४.१ ) य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् । (२,३४.१ ) निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥ (२,३४.२ ) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । (२,३४.२ ) उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥ (२,३४.३ ) ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च । (२,३४.३ ) अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥ (२,३४.४ ) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । (२,३४.४ ) वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥ (२,३४.५ ) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् । (२,३४.५ ) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥ (२,३५.१ ) ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः । (२,३५.१ ) या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥ (२,३५.२ ) यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् । (२,३५.२ ) मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥ (२,३५.३ ) अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः । (२,३५.३ ) यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥ (२,३५.४ ) घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् । (२,३५.४ ) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥ (२,३५.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि । (२,३५.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥ (२,३६.१ ) आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन । (२,३६.१ ) जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥ (२,३६.२ ) सोमजुष्टं ब्रह्मजुष्टमर्यम्ना संभृतं भगम् । (२,३६.२ ) धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥ (२,३६.३ ) इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति । (२,३६.३ ) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥ (२,३६.४ ) यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव । (२,३६.४ ) एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥ (२,३६.५ ) भगस्य नावमा रोह पूर्णामनुपदस्वतीम् । (२,३६.५ ) तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥ (२,३६.६ ) आ क्रन्दय धनपते वरमामनसं कृणु । (२,३६.६ ) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥ (२,३६.७ ) इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः । (२,३६.७ ) एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७ (२,३६.७ ) आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः । (३,१.१ ) अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् । (३,१.१ ) स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥ (३,१.२ ) यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् । (३,१.२ ) अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥ (३,१.३ ) अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि । (३,१.३ ) युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥ (३,१.४ ) प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । (३,१.४ ) जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥ (३,१.५ ) इन्द्र सेनां मोहयामित्राणाम् । (३,१.५ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥ (३,१.६ ) इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा । (३,१.६ ) चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥ (३,२.१ ) अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् । (३,२.१ ) स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥ (३,२.२ ) अयमग्निरमूमुहद्यानि चित्तानि वो हृदि । (३,२.२ ) वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥ (३,२.३ ) इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर । (३,२.३ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥ (३,२.४ ) व्याकूतय एषामिताथो चित्तानि मुह्यत । (३,२.४ ) अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥ (३,२.५ ) अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि । (३,२.५ ) अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥ (३,२.६ ) असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना । (३,२.६ ) तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥ (३,३.१ ) अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची । (३,३.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥ (३,३.२ ) दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् । (३,३.२ ) यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥ (३,३.३ ) अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः । (३,३.३ ) इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४} (३,३.४ ) श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् । (३,३.४ ) अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५} (३,३.५ ) ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत । (३,३.५ ) इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६} (३,३.६ ) यस्ते हवं विवदत्सजातो यश्च निष्ट्यः । (३,३.६ ) अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७} (३,४.१ ) आ त्वा गन् राष्त्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज । (३,४.१ ) सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥ (३,४.२ ) त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः । (३,४.२ ) वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥ (३,४.३ ) अछ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै । (३,४.३ ) जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥ (३,४.४ ) अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु । (३,४.४ ) अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥ (३,४.५ ) आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् । (३,४.५ ) तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥ (३,४.६ ) इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः । (३,४.६ ) स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥ (३,४.७ ) पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् । (३,४.७ ) तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥ (३,५.१ ) आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् । (३,५.१ ) ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥ (३,५.२ ) मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् । (३,५.२ ) अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥ (३,५.३ ) यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् । (३,५.३ ) तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥ (३,५.४ ) सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः । (३,५.४ ) तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥ (३,५.५ ) आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये । (३,५.५ ) यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥ (३,५.६ ) ये धीवानो रथकाराः कर्मारा ये मनीषिणः । (३,५.६ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥ (३,५.७ ) ये राजानो राजकृतः सूता ग्रामण्यश्च ये । (३,५.७ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥ (३,५.८ ) पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया । (३,५.८ ) संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥ (३,६.१ ) पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि । (३,६.१ ) स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥ (३,६.२ ) तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः । (३,६.२ ) इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥ (३,६.३ ) यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे । (३,६.३ ) एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥ (३,६.४ ) यः सहमानश्चरसि सासहान इव ऋषभः । (३,६.४ ) तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥ (३,६.५ ) सिनात्वेनान् निरृतिर्मृत्योः पाशैरमोक्यैः । (३,६.५ ) अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥ (३,६.६ ) यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् । (३,६.६ ) एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥ (३,६.७ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। (३,६.७ ) न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥ (३,६.८ ) प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा । (३,६.८ ) प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥ (३,७.१ ) हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् । (३,७.१ ) स क्षेत्रियं विषाणया विषूचीनमनीनशत्॥१॥ (३,७.२ ) अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। (३,७.२ ) विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥२॥ (३,७.३ ) अदो यदवरोचते चतुष्पक्षमिव छदिः । (३,७.३ ) तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥ (३,७.४ ) अमू ये दिवि सुभगे विचृतौ नाम तारके । (३,७.४ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥ (३,७.५ ) आप इद्वा उ भेषजीरापो अमीवचातनीः । (३,७.५ ) आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्॥५॥ (३,७.६ ) यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे । (३,७.६ ) वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्॥६॥ (३,७.७ ) अपवासे नक्षत्राणामपवास उषसामुत । (३,७.७ ) अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुछतु ॥७॥ (३,८.१ ) आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः । (३,८.१ ) अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥ (३,८.२ ) धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः । (३,८.२ ) हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥ (३,८.३ ) हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे । (३,८.३ ) अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥ (३,८.४ ) इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्। (३,८.४ ) अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥ (३,८.५ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि । (३,८.५ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥ (३,८.६ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । (३,८.६ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥ (३,९.१ ) कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता । (३,९.१ ) यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥ (३,९.२ ) अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् । (३,९.२ ) कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥ (३,९.३ ) पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः । (३,९.३ ) श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥ (३,९.४ ) येना श्रवस्यवश्चरथ देवा इवासुरमायया । (३,९.४ ) शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥ (३,९.५ ) दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् । (३,९.५ ) उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥ (३,९.६ ) एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु । (३,९.६ ) तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥ (३,१०.१ ) प्रथमा ह व्युवास सा धेनुरभवद्यमे । (३,१०.१ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥ (३,१०.२ ) यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् । (३,१०.२ ) संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥ (३,१०.३ ) संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे । (३,१०.३ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥ (३,१०.४ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा । (३,१०.४ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥ (३,१०.५ ) वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् । (३,१०.५ ) एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥ (३,१०.६ ) इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय । (३,१०.६ ) ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥ (३,१०.७ ) आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम । (३,१०.७ ) पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत । (३,१०.७ ) सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥ (३,१०.८ ) आयमगन्त्संवत्सरः पतिरेकाष्टके तव । (३,१०.८ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥ (३,१०.९ ) ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् । (३,१०.९ ) समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥ (३,१०.१० ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । (३,१०.१० ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥ (३,१०.११ ) इडया जुह्वतो वयं देवान् घृतवता यजे । (३,१०.११ ) गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥ (३,१०.१२ ) एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । (३,१०.१२ ) तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥ (३,१०.१३ ) इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः । (३,१०.१३ ) कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥ (३,११.१ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। (३,११.१ ) ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥ (३,११.२ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव । (३,११.२ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥ (३,११.३ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् । (३,११.३ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥ (३,११.४ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् । (३,११.४ ) शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥ (३,११.५ ) प्र विशतं प्राणापानावनड्वाहाविव व्रजम् । (३,११.५ ) व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥ (३,११.६ ) इहैव स्तं प्राणापानौ माप गातमितो युवम् । (३,११.६ ) शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥ (३,११.७ ) जरायै त्वा परि ददामि जरायै नि धुवामि त्वा । (३,११.७ ) जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥ (३,११.८ ) अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा । (३,११.८ ) यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया । (३,११.८ ) तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥ (३,१२.१ ) इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा । (३,१२.१ ) तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥ (३,१२.२ ) इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती । (३,१२.२ ) ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥ (३,१२.३ ) धरुण्यसि शाले बृहछन्दाः पूतिधान्या । (३,१२.३ ) आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥ (३,१२.४ ) इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् । (३,१२.४ ) उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥ (३,१२.५ ) मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे । (३,१२.५ ) तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥ (३,१२.६ ) ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् । (३,१२.६ ) मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥ (३,१२.७ ) एमां कुमारस्तरुण आ वत्सो जगता सह । (३,१२.७ ) एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥ (३,१२.८ ) पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् । (३,१२.८ ) इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥ (३,१२.९ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः । (३,१२.९ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥ (३,१३.१ ) यददः संप्रयतीरहावनदता हते । (३,१३.१ ) तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥ (३,१३.२ ) यत्प्रेषिता वरुणेनाच्छीभं समवल्गत । (३,१३.२ ) तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥ (३,१३.३ ) अपकामं स्यन्दमाना अवीवरत वो हि कम् । (३,१३.३ ) इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥ (३,१३.४ ) एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् । (३,१३.४ ) उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥ (३,१३.५ ) आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः । (३,१३.५ ) तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥ (३,१३.६ ) आदित्पश्याम्युत वा शृणोम्या मा घोषो गछति वाङ्मासाम् । (३,१३.६ ) मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥ (३,१३.७ ) इदं व आपो हृदयमयं वत्स ऋतावरीः । (३,१३.७ ) इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥ (३,१४.१ ) सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या । (३,१४.१ ) अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥ (३,१४.२ ) सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः । (३,१४.२ ) समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥ (३,१४.३ ) संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः । (३,१४.३ ) बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥ (३,१४.४ ) इहैव गाव एतनेहो शकेव पुष्यत । (३,१४.४ ) इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥ (३,१४.५ ) शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत । (३,१४.५ ) इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥ (३,१४.६ ) मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः । (३,१४.६ ) रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥ (३,१५.१ ) इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु । (३,१५.१ ) नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥ (३,१५.२ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (३,१५.२ ) ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥ (३,१५.३ ) इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय । (३,१५.३ ) यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥ (३,१५.४ ) इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् । (३,१५.४ ) शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु । (३,१५.४ ) इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥ (३,१५.५ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः । (३,१५.५ ) तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥ (३,१५.६ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः । (३,१५.६ ) तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥ (३,१५.७ ) उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः । (३,१५.७ ) स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥ (३,१५.८ ) विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः । (३,१५.८ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥ (३,१६.१ ) प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । (३,१६.१ ) प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥ (३,१६.२ ) प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता । (३,१६.२ ) आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥ (३,१६.३ ) भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः । (३,१६.३ ) भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥ (३,१६.४ ) उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् । (३,१६.४ ) उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥ (३,१६.५ ) भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम । (३,१६.५ ) तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥ (३,१६.६ ) समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । (३,१६.६ ) अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ (३,१६.७ ) अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः । (३,१६.७ ) घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥ (३,१७.१ ) सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्। (३,१७.१ ) धीरा देवेषु सुम्नयौ ॥१॥ (३,१७.२ ) युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् । (३,१७.२ ) विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥ (३,१७.३ ) लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु । (३,१७.३ ) उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥ (३,१७.४ ) इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु । (३,१७.४ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥ (३,१७.५ ) शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् । (३,१७.५ ) शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥ (३,१७.६ ) शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । (३,१७.६ ) शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥ (३,१७.७ ) शुनासीरेह स्म मे जुषेथाम् । (३,१७.७ ) यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥ (३,१७.८ ) सीते वन्दामहे त्वार्वाची सुभगे भव । (३,१७.८ ) यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥ (३,१७.९ ) घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः । (३,१७.९ ) सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥ (३,१८.१ ) इमां खनाम्योषधिं वीरुधां बलवत्तमाम् । (३,१८.१ ) यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥ (३,१८.२ ) उत्तानपर्णे सुभगे देवजूते सहस्वति । (३,१८.२ ) सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥ (३,१८.३ ) नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ । (३,१८.३ ) परामेव परावतं सपत्नीं गमयामसि ॥३॥ (३,१८.४ ) उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । (३,१८.४ ) अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥ (३,१८.५ ) अहमस्मि सहमानाथो त्वमसि सासहिः । (३,१८.५ ) उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥ (३,१८.६ ) अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् । (३,१८.६ ) मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥ (३,१९.१ ) संशितं म इदं ब्रह्म संशितं वीर्यं बलम् । (३,१९.१ ) संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥ (३,१९.२ ) समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् । (३,१९.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥ (३,१९.३ ) नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् । (३,१९.३ ) क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥ (३,१९.४ ) तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत । (३,१९.४ ) इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥ (३,१९.५ ) एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि । (३,१९.५ ) एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥ (३,१९.६ ) उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः । (३,१९.६ ) पृथग्घोषा उलुलयः केतुमन्त उदीरताम् । (३,१९.६ ) देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥ (३,१९.७ ) प्रेता जयता नर उग्रा वः सन्तु बाहवः । (३,१९.७ ) तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥ (३,१९.८ ) अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । (३,१९.८ ) जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥ (३,२०.१ ) अयं ते योनिरृत्वियो यतो जातो अरोचथाः । (३,२०.१ ) तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥ (३,२०.२ ) अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव । (३,२०.२ ) प्र णो यछ विशां पते धनदा असि नस्त्वम् ॥२॥ (३,२०.३ ) प्र णो यछत्वर्यमा प्र भगः प्र बृहस्पतिः । (३,२०.३ ) प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥ (३,२०.४ ) सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । (३,२०.४ ) आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥ (३,२०.५ ) त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय । (३,२०.५ ) त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥ (३,२०.६ ) इन्द्रवायू उभाविह सुहवेह हवामहे । (३,२०.६ ) यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥ (३,२०.७ ) अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । (३,२०.७ ) वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥ (३,२०.८ ) वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः । (३,२०.८ ) उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥८॥ (३,२०.९ ) दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् । (३,२०.९ ) प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥ (३,२०.१० ) गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि । (३,२०.१० ) आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥ (३,२१.१ ) ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु । (३,२१.१ ) य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥ (३,२१.२ ) यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु । (३,२१.२ ) य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥ (३,२१.३ ) य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः । (३,२१.३ ) यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥ (३,२१.४ ) यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः । (३,२१.४ ) यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥ (३,२१.५ ) यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः । (३,२१.५ ) वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥ (३,२१.६ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । (३,२१.६ ) वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥ (३,२१.७ ) दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति । (३,२१.७ ) ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥ (३,२१.८ ) हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् । (३,२१.८ ) विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥ (३,२१.९ ) शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः । (३,२१.९ ) अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥ (३,२१.१० ) ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः । (३,२१.१० ) वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥ (३,२२.१ ) हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव । (३,२२.१ ) तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥ (३,२२.२ ) मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु । (३,२२.२ ) देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥ (३,२२.३ ) येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः । (३,२२.३ ) येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥ (३,२२.४ ) यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः । (३,२२.४ ) यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः । (३,२२.४ ) तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥ (३,२२.५ ) यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते । (३,२२.५ ) तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥ (३,२२.६ ) हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि । (३,२२.६ ) तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥ (३,२३.१ ) येन वेहद्बभूविथ नाशयामसि तत्त्वत्। (३,२३.१ ) इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥ (३,२३.२ ) आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् । (३,२३.२ ) आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥ (३,२३.३ ) पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् । (३,२३.३ ) भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥ (३,२३.४ ) यानि बद्राणि बीजान्यृषभा जनयन्ति च । (३,२३.४ ) तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥ (३,२३.५ ) कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते । (३,२३.५ ) विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥ (३,२३.६ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव । (३,२३.६ ) तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥ (३,२४.१ ) पयस्वतीरोषधयः पयस्वन् मामकं वचः । (३,२४.१ ) अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥१॥ (३,२४.२ ) वेदाहं पयस्वन्तं चकार धान्यं बहु । (३,२४.२ ) संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥ (३,२४.३ ) इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः । (३,२४.३ ) वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥३॥ (३,२४.४ ) उदुत्सं शतधारं सहस्रधारमक्षितम् । (३,२४.४ ) एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥४॥ (३,२४.५ ) शतहस्त समाहर सहस्रहस्त सं किर । (३,२४.५ ) कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥ (३,२४.६ ) तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः । (३,२४.६ ) तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥ (३,२४.७ ) उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते । (३,२४.७ ) ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥७॥ (३,२५.१ ) उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे । (३,२५.१ ) इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥ (३,२५.२ ) आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् । (३,२५.२ ) तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥ (३,२५.३ ) या प्लीहानं शोषयति कामस्येषुः सुसंनता । (३,२५.३ ) प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥ (३,२५.४ ) शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा । (३,२५.४ ) मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥ (३,२५.५ ) आजामि त्वाजन्या परि मातुरथो पितुः । (३,२५.५ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥ (३,२५.६ ) व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् । (३,२५.६ ) अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥ (३,२६.१ ) येऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः । (३,२६.१ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥१॥ (३,२६.२ ) येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः । (३,२६.२ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥२॥ (३,२६.३ ) येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः । (३,२६.३ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥३॥ (३,२६.४ ) येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः । (३,२६.४ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥४॥ (३,२६.५ ) येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः । (३,२६.५ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥५॥ (३,२६.६ ) येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः । (३,२६.६ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥६॥ (३,२७.१ ) प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः । (३,२७.१ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.१ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥ (३,२७.२ ) दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः । (३,२७.२ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.२ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥ (३,२७.३ ) प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः । (३,२७.३ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.३ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥ (३,२७.४ ) उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः । (३,२७.४ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.४ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥ (३,२७.५ ) ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः । (३,२७.५ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥ (३,२७.६ ) ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः । (३,२७.६ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु । (३,२७.६ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥ (३,२८.१ ) एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः । (३,२८.१ ) यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥ (३,२८.२ ) एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी । (३,२८.२ ) उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥ (३,२८.३ ) शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा । (३,२८.३ ) शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥ (३,२८.४ ) इह पुष्टिरिह रस इह सहस्रसातमा भव । (३,२८.४ ) पशून् यमिनि पोषय ॥४॥ (३,२८.५ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (३,२८.५ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥ (३,२८.६ ) यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः । (३,२८.६ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥ (३,२९.१ ) यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः । (३,२९.१ ) अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥ (३,२९.२ ) सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् । (३,२९.२ ) आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥ (३,२९.३ ) यो ददाति शितिपादमविं लोकेन संमितम् । (३,२९.३ ) स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥ (३,२९.४ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् । (३,२९.४ ) प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥ (३,२९.५ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् । (३,२९.५ ) प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥ (३,२९.६ ) इरेव नोप दस्यति समुद्र इव पयो महत्। (३,२९.६ ) देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥ (३,२९.७ ) क इदं कस्मा अदात्कामः कामायादात्। (३,२९.७ ) कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश । (३,२९.७ ) कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥ (३,२९.८ ) भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्। (३,२९.८ ) माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥ (३,३०.१ ) सहृदयं सांमनस्यमविद्वेषं कृणोमि वः । (३,३०.१ ) अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥ (३,३०.२ ) अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । (३,३०.२ ) जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥ (३,३०.३ ) मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा । (३,३०.३ ) सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥ (३,३०.४ ) येन देवा न वियन्ति नो च विद्विषते मिथः । (३,३०.४ ) तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥ (३,३०.५ ) ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः । (३,३०.५ ) अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥ (३,३०.६ ) समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि । (३,३०.६ ) सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥ (३,३०.७ ) सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् । (३,३०.७ ) देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥ (३,३१.१ ) वि देवा जरसावृतन् वि त्वमग्ने अरात्या । (३,३१.१ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥ (३,३१.२ ) व्यार्त्या पवमानो वि शक्रः पापकृत्यया । (३,३१.२ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥ (३,३१.३ ) वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् । (३,३१.३ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥ (३,३१.४ ) वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् । (३,३१.४ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥ (३,३१.५ ) त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति । (३,३१.५ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥ (३,३१.६ ) अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः । (३,३१.६ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥ (३,३१.७ ) प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् । (३,३१.७ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥ (३,३१.८ ) आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः । (३,३१.८ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥ (३,३१.९ ) प्राणेन प्राणतां प्राणेहैव भव मा मृथाः । (३,३१.९ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥ (३,३१.१० ) उदायुषा समायुषोदोषधीनां रसेन । (३,३१.१० ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥ (३,३१.११ ) आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् । (३,३१.११ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥ (४,१.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । (४,१.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥ (४,१.२ ) इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः । (४,१.२ ) तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥ (४,१.३ ) प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति । (४,१.३ ) ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥ (४,१.४ ) स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्। (४,१.४ ) महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥ (४,१.५ ) स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। (४,१.५ ) अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥ (४,१.६ ) नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम । (४,१.६ ) एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥ (४,१.७ ) योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्। (४,१.७ ) त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥ (४,२.१ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । (४,२.१ ) योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥ (४,२.२ ) यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव । (४,२.२ ) यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥ (४,२.३ ) यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् । (४,२.३ ) यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥ (४,२.४ ) यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् । (४,२.४ ) यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥ (४,२.५ ) यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः । (४,२.५ ) इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥ (४,२.६ ) आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः । (४,२.६ ) यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥ (४,२.७ ) हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। (४,२.७ ) स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥ (४,२.८ ) आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् । (४,२.८ ) तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥ (४,३.१ ) उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः । (४,३.१ ) हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥ (४,३.२ ) परेणैतु पथा वृकः परमेणोत तस्करः । (४,३.२ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥ (४,३.३ ) अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि । (४,३.३ ) आत्सर्वान् विंशतिं नखान् ॥३॥ (४,३.४ ) व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि । (४,३.४ ) आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥ (४,३.५ ) यो अद्य स्तेन आयति स संपिष्टो अपायति । (४,३.५ ) पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥ (४,३.६ ) मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः । (४,३.६ ) निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥ (४,३.७ ) यत्संयमो न वि यमो वि यमो यन् न संयमः । (४,३.७ ) इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥ (४,४.१ ) यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे । (४,४.१ ) तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥ (४,४.२ ) उदुषा उदु सूर्य उदिदं मामकं वचः । (४,४.२ ) उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥ (४,४.३ ) यथा स्म ते विरोहतोऽभितप्तमिवानति । (४,४.३ ) ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥ (४,४.४ ) उच्छुष्मौषधीनां सारा ऋषभाणाम् । (४,४.४ ) सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥ (४,४.५ ) अपां रसः प्रथमजोऽथो वनस्पतीनाम् । (४,४.५ ) उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥ (४,४.६ ) अद्याग्ने अद्य सवितरद्य देवि सरस्वति । (४,४.६ ) अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥ (४,४.७ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । (४,४.७ ) क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥ (४,४.८ ) अश्वस्याश्वतरस्याजस्य पेत्वस्य च । (४,४.८ ) अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥ (४,५.१ ) सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्। (४,५.१ ) तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥ (४,५.२ ) न भूमिं वातो अति वाति नाति पश्यति कश्चन । (४,५.२ ) स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥ (४,५.३ ) प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः । (४,५.३ ) स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥ (४,५.४ ) एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् । (४,५.४ ) अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥ (४,५.५ ) य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति । (४,५.५ ) तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥ (४,५.६ ) स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः । (४,५.६ ) स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥ (४,५.७ ) स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् । (४,५.७ ) ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥ (४,६.१ ) ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः । (४,६.१ ) स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥ (४,६.२ ) यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे । (४,६.२ ) वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥ (४,६.३ ) सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्। (४,६.३ ) नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥ (४,६.४ ) यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः । (४,६.४ ) अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥ (४,६.५ ) शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः । (४,६.५ ) अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥ (४,६.६ ) अरसस्त इषो शल्योऽथो ते अरसं विषम् । (४,६.६ ) उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥ (४,६.७ ) ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् । (४,६.७ ) सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥ (४,६.८ ) वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे । (४,६.८ ) वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥ (४,७.१ ) वारिदं वारयातै वरणावत्यामधि । (४,७.१ ) तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥ (४,७.२ ) अरसं प्राच्यं विषमरसं यदुदीच्यम् । (४,७.२ ) अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥ (४,७.३ ) करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् । (४,७.३ ) क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥ (४,७.४ ) वि ते मदं मदावति शरमिव पातयामसि । (४,७.४ ) प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥ (४,७.५ ) परि ग्राममिवाचितं वचसा स्थापयामसि । (४,७.५ ) तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥ (४,७.६ ) पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत । (४,७.६ ) प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥ (४,७.७ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (४,७.७ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥ (४,८.१ ) भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव । (४,८.१ ) तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥ (४,८.२ ) अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा । (४,८.२ ) आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥ (४,८.३ ) आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः । (४,८.३ ) महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥ (४,८.४ ) व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः । (४,८.४ ) विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥ (४,८.५ ) या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् । (४,८.५ ) तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥ (४,८.६ ) अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः । (४,८.६ ) यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥ (४,८.७ ) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय । (४,८.७ ) समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥ (४,९.१ ) एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् । (४,९.१ ) विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥ (४,९.२ ) परिपाणं पुरुषाणां परिपाणं गवामसि । (४,९.२ ) अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥ (४,९.३ ) उतासि परिपाणं यातुजम्भनमाञ्जन । (४,९.३ ) उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥ (४,९.४ ) यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः । (४,९.४ ) ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥ (४,९.५ ) नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् । (४,९.५ ) नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥ (४,९.६ ) असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत । (४,९.६ ) दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥ (४,९.७ ) इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् । (४,९.७ ) सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥ (४,९.८ ) त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः । (४,९.८ ) वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥ (४,९.९ ) यदाञ्जनं त्रैककुदं जातं हिमवतस्परि । (४,९.९ ) यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥ (४,९.१० ) यदि वासि त्रैककुदं यदि यामुनमुच्यसे । (४,९.१० ) उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥ (४,१०.१ ) वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि । (४,१०.१ ) स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥ (४,१०.२ ) यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे । (४,१०.२ ) शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥ (४,१०.३ ) शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः । (४,१०.३ ) शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥ (४,१०.४ ) दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः । (४,१०.४ ) स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥ (४,१०.५ ) समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः । (४,१०.५ ) सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥ (४,१०.६ ) हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे । (४,१०.६ ) रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥ (४,१०.७ ) देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः । (४,१०.७ ) तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥ (४,११.१ ) अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् । (४,११.१ ) अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥ (४,११.२ ) अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः । (४,११.२ ) भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥ (४,११.३ ) इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः । (४,११.३ ) सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥ (४,११.४ ) अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्। (४,११.४ ) पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥ (४,११.५ ) यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता । (४,११.५ ) यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥ (४,११.६ ) येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् । (४,११.६ ) तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥ (४,११.७ ) इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्। (४,११.७ ) विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्यक्रमत । (४,११.७ ) सोऽदृंहयत सोऽधारयत ॥७॥ (४,११.८ ) मध्यमेतदनडुहो यत्रैष वह आहितः । (४,११.८ ) एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥ (४,११.९ ) यो वेदानदुहो दोहान् सप्तानुपदस्वतः । (४,११.९ ) प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥ (४,११.१० ) पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् । (४,११.१० ) स्रमेणानड्वान् कीलालं कीनाशश्चाभि गछतः ॥१०॥ (४,११.११ ) द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः । (४,११.११ ) तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥ (४,११.१२ ) दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि । (४,११.१२ ) दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥ (४,१२.१ ) रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी । (४,१२.१ ) रोहयेदमरुन्धति ॥१॥ (४,१२.२ ) यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि । (४,१२.२ ) धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥ (४,१२.३ ) सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः । (४,१२.३ ) सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥ (४,१२.४ ) मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु । (४,१२.४ ) असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥ (४,१२.५ ) लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । (४,१२.५ ) असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥ (४,१२.६ ) स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः । (४,१२.६ ) सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥ (४,१२.७ ) यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान । (४,१२.७ ) ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥ (४,१३.१ ) उत देवा अवहितं देवा उन् नयथा पुनः । (४,१३.१ ) उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥ (४,१३.२ ) द्वाविमौ वातौ वात आ सिन्धोरा परावतः । (४,१३.२ ) दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥ (४,१३.३ ) आ वात वाहि भेषजं वि वात वाहि यद्रपः । (४,१३.३ ) त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥ (४,१३.४ ) त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः । (४,१३.४ ) त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥ (४,१३.५ ) आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः । (४,१३.५ ) दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥ (४,१३.६ ) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । (४,१३.६ ) अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥ (४,१३.७ ) हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । (४,१३.७ ) अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥ (४,१४.१ ) अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे । (४,१४.१ ) तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥ (४,१४.२ ) क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः । (४,१४.२ ) दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥ (४,१४.३ ) पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । (४,१४.३ ) दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥ (४,१४.४ ) स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी । (४,१४.४ ) यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥ (४,१४.५ ) अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् । (४,१४.५ ) इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥ (४,१४.६ ) अजमनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् । (४,१४.६ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥ (४,१४.७ ) पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् । (४,१४.७ ) प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥ (४,१४.८ ) प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् । (४,१४.८ ) ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥ (४,१४.९ ) शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् । (४,१४.९ ) स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥ (४,१५.१ ) समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु । (४,१५.१ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥ (४,१५.२ ) समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् । (४,१५.२ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥ (४,१५.३ ) समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् । (४,१५.३ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥ (४,१५.४ ) गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्। (४,१५.४ ) सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥ (४,१५.५ ) उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ । (४,१५.५ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥ (४,१५.६ ) अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि । (४,१५.६ ) त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥ (४,१५.७ ) सं वोऽवन्तु सुदानव उत्सा अजगरा उत । (४,१५.७ ) मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥ (४,१५.८ ) आशामाशां वि द्योततां वाता वान्तु दिशोदिशः । (४,१५.८ ) मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥ (४,१५.९ ) आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत । (४,१५.९ ) मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥ (४,१५.१० ) अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव । (४,१५.१० ) स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥ (४,१५.११ ) प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति । (४,१५.११ ) प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥ (४,१५.१२ ) अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज । (४,१५.१२ ) वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥ (४,१५.१३ ) संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । (४,१५.१३ ) वाचं पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥१३॥ (४,१५.१४ ) उपप्रवद मण्डूकि वर्षमा वद तादुरि । (४,१५.१४ ) मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥ (४,१५.१५ ) खण्वखा३ खैमखा३ मध्ये तदुरि । (४,१५.१५ ) वर्षं वनुध्वं पितरो मरुतां मन इछत ॥१५॥ (४,१५.१६ ) महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः । (४,१५.१६ ) तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥ (४,१६.१ ) बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति । (४,१६.१ ) य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥ (४,१६.२ ) यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् । (४,१६.२ ) द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥ (४,१६.३ ) उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता । (४,१६.३ ) उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥ (४,१६.४ ) उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः । (४,१६.४ ) दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥ (४,१६.५ ) सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्। (४,१६.५ ) संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥ (४,१६.६ ) ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः । (४,१६.६ ) छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥ (४,१६.७ ) शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः । (४,१६.७ ) आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥ (४,१६.८ ) यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो । (४,१६.८ ) यो दैवो वरुणो यश्च मानुषः ॥८॥ (४,१६.९ ) तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र । (४,१६.९ ) तान् उ ते सर्वान् अनुसंदिशामि ॥९॥ (४,१७.१ ) ईशाणां त्वा भेषजानामुज्जेष आ रभामहे । (४,१७.१ ) चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥ (४,१७.२ ) सत्यजितं शपथयावनीं सहमानां पुनःसराम् । (४,१७.२ ) सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥ (४,१७.३ ) या शशाप शपनेन याघं मूरमादधे । (४,१७.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥ (४,१७.४ ) यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते । (४,१७.४ ) आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥ (४,१७.५ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । (४,१७.५ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥ (४,१७.६ ) क्षुधामारं तृष्णामारमगोतामनपत्यताम् । (४,१७.६ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥ (४,१७.७ ) तृष्णामारं क्षुधामारमथो अक्षपराजयम् । (४,१७.७ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥ (४,१७.८ ) अपामार्ग ओषधीनां सर्वासामेक इद्वशी । (४,१७.८ ) तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥ (४,१८.१ ) समं ज्योतिः सूर्येणाह्ना रात्री समावती । (४,१८.१ ) कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥ (४,१८.२ ) यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् । (४,१८.२ ) वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥ (४,१८.३ ) अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति । (४,१८.३ ) अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥ (४,१८.४ ) सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् । (४,१८.४ ) प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥ (४,१८.५ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । (४,१८.५ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥ (४,१८.६ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । (४,१८.६ ) चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥ (४,१८.७ ) अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः । (४,१८.७ ) अपाह यातुधानीरप सर्वा अराय्यः ॥७॥ (४,१८.८ ) अपमृज्य यातुधानान् अप सर्वा अराय्यः । (४,१८.८ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥ (४,१९.१ ) उतो अस्यबन्धुकृदुतो असि नु जामिकृत्। (४,१९.१ ) उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥ (४,१९.२ ) ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन । (४,१९.२ ) सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥ (४,१९.३ ) अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् । (४,१९.३ ) उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥ (४,१९.४ ) यददो देवा असुरांस्त्वयाग्रे निरकुर्वत । (४,१९.४ ) ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥ (४,१९.५ ) विभिन्दती शतशाखा विभिन्दन् नाम ते पिता । (४,१९.५ ) प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥ (४,१९.६ ) असद्भूम्याः समभवत्तद्यामेति महद्व्यचः । (४,१९.६ ) तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृछतु ॥६॥ (४,१९.७ ) प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् । (४,१९.७ ) सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥ (४,१९.८ ) शतेन मा परि पाहि सहस्रेणाभि रक्षा मा । (४,१९.८ ) इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥ (४,२०.१ ) आ पश्यति प्रति पश्यति परा पश्यति पश्यति । (४,२०.१ ) दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥ (४,२०.२ ) तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्। (४,२०.२ ) त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥ (४,२०.३ ) दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका । (४,२०.३ ) सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥ (४,२०.४ ) तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्। (४,२०.४ ) तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥ (४,२०.५ ) आविष्कृणुष्व रूपानि मात्मानमप गूहथाः । (४,२०.५ ) अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥ (४,२०.६ ) दर्शय मा यातुधानान् दर्शय यातुधान्यः । (४,२०.६ ) पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥ (४,२०.७ ) कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः । (४,२०.७ ) वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥ (४,२०.८ ) उदग्रभं परिपाणाद्यातुधानं किमीदिनम् । (४,२०.८ ) तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥ (४,२०.९ ) यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति । (४,२०.९ ) भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥ (४,२१.१ ) आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे । (४,२१.१ ) प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥ (४,२१.२ ) इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति । (४,२१.२ ) भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥ (४,२१.३ ) न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति । (४,२१.३ ) देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥ (४,२१.४ ) न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि । (४,२१.४ ) उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥ (४,२१.५ ) गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः । (४,२१.५ ) इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥ (४,२१.६ ) यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् । (४,२१.६ ) भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥ (४,२१.७ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (४,२१.७ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥ (४,२२.१ ) इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् । (४,२२.१ ) निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥ (४,२२.२ ) एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य । (४,२२.२ ) वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥ (४,२२.३ ) अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा । (४,२२.३ ) अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥ (४,२२.४ ) अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू । (४,२२.४ ) अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥ (४,२२.५ ) युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते । (४,२२.५ ) यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥ (४,२२.६ ) उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते । (४,२२.६ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥ (४,२२.७ ) सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् । (४,२२.७ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥ (४,२३.१ ) अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते । (४,२३.१ ) विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥ (४,२३.२ ) यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् । (४,२३.२ ) एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥ (४,२३.३ ) यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे । (४,२३.३ ) रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥ (४,२३.४ ) सुजातं जातवेदसमग्निं वैश्वानरं विभुम् । (४,२३.४ ) हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥ (४,२३.५ ) येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः । (४,२३.५ ) येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥ (४,२३.६ ) येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् । (४,२३.६ ) येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥ (४,२३.७ ) यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् । (४,२३.७ ) स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥ (४,२४.१ ) इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः । (४,२४.१ ) यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥ (४,२४.२ ) य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज । (४,२४.२ ) येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥ (४,२४.३ ) यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् । (४,२४.३ ) यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥ (४,२४.४ ) यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे । (४,२४.४ ) यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥ (४,२४.५ ) यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ । (४,२४.५ ) यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥ (४,२४.६ ) यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् । (४,२४.६ ) येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥ (४,२४.७ ) यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि । (४,२४.७ ) स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥ (४,२५.१ ) वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः । (४,२५.१ ) यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥ (४,२५.२ ) ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे । (४,२५.२ ) ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥ (४,२५.३ ) तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो । (४,२५.३ ) युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥ (४,२५.४ ) अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् । (४,२५.४ ) सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥ (४,२५.५ ) रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् । (४,२५.५ ) अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥ (४,२५.६ ) प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः । (४,२५.६ ) अर्वाग्वामस्य प्रवतो नि यछतं तौ नो मुञ्चतमंहसः ॥६॥ (४,२५.७ ) उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् । (४,२५.७ ) स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥ (४,२६.१ ) मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि । (४,२६.१ ) प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥ (४,२६.२ ) प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची । (४,२६.२ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥ (४,२६.३ ) असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये । (४,२६.३ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥ (४,२६.४ ) ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् । (४,२६.४ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥ (४,२६.५ ) ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः । (४,२६.५ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥ (४,२६.६ ) ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति । (४,२६.६ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥ (४,२६.७ ) यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्। (४,२६.७ ) स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥ (४,२७.१ ) मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु । (४,२७.१ ) आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥ (४,२७.२ ) उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु । (४,२७.२ ) पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥ (४,२७.३ ) पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ । (४,२७.३ ) शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥ (४,२७.४ ) अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति । (४,२७.४ ) ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥ (४,२७.५ ) ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति । (४,२७.५ ) ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥ (४,२७.६ ) यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार । (४,२७.६ ) यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥ (४,२७.७ ) तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् । (४,२७.७ ) स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥ (४,२८.१ ) भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते । (४,२८.१ ) यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥ (४,२८.२ ) ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ । (४,२८.२ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥ (४,२८.३ ) सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ । (४,२८.३ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥ (४,२८.४ ) यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु । (४,२८.४ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥ (४,२८.५ ) ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु । (४,२८.५ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥ (४,२८.६ ) यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ । (४,२८.६ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥ (४,२८.७ ) अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी । (४,२८.७ ) स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥ (४,२९.१ ) मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे । (४,२९.१ ) प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥ (४,२९.२ ) सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु । (४,२९.२ ) यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥ (४,२९.३ ) यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् । (४,२९.३ ) यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥ (४,२९.४ ) यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् । (४,२९.४ ) यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥ (४,२९.५ ) यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् । (४,२९.५ ) यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥ (४,२९.६ ) यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ । (४,२९.६ ) यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥ (४,२९.७ ) ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् । (४,२९.७ ) स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥ (४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । (४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥ (४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । (४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥ (४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् । (४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥ (४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् । (४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥ (४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । (४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥ (४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । (४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥ (४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे । (४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥ (४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा । (४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥ (४,३१.१ ) त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन् । (४,३१.१ ) तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥ (४,३१.२ ) अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । (४,३१.२ ) हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥ (४,३१.३ ) सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् । (४,३१.३ ) उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥ (४,३१.४ ) एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि । (४,३१.४ ) अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि ॥४॥ (४,३१.५ ) विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । (४,३१.५ ) प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥ (४,३१.६ ) आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् । (४,३१.६ ) क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥ (४,३१.७ ) संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः । (४,३१.७ ) भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥ (४,३२.१ ) यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। (४,३२.१ ) साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥ (४,३२.२ ) मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । (४,३२.२ ) मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥ (४,३२.३ ) अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् । (४,३२.३ ) अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥ (४,३२.४ ) त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः । (४,३२.४ ) विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥ (४,३२.५ ) अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । (४,३२.५ ) तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥ (४,३२.६ ) अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् । (४,३२.६ ) मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥ (४,३२.७ ) अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि । (४,३२.७ ) जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥ (४,३३.१ ) अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् । (४,३३.१ ) अप नः शोशुचदघम् ॥१॥ (४,३३.२ ) सुक्षेत्रिया सुगातुया वसूया च यजामहे । (४,३३.२ ) अप नः शोशुचदघम् ॥२॥ (४,३३.३ ) प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः । (४,३३.३ ) अप नः शोशुचदघम् ॥३॥ (४,३३.४ ) प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । (४,३३.४ ) अप नः शोशुचदघम् ॥४॥ (४,३३.५ ) प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः । (४,३३.५ ) अप नः शोशुचदघम् ॥५॥ (४,३३.६ ) त्वं हि विश्वतोमुख विश्वतः परिभूरसि । (४,३३.६ ) अप नः शोशुचदघम् ॥६॥ (४,३३.७ ) द्विषो नो विश्वतोमुखाति नावेव पारय । (४,३३.७ ) अप नः शोशुचदघम् ॥७॥ (४,३३.८ ) स नः सिन्धुमिव नावाति पर्ष स्वस्तये । (४,३३.८ ) अप नः शोशुचदघम् ॥८॥ (४,३४.१ ) ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य । (४,३४.१ ) छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥ (४,३४.२ ) अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् । (४,३४.२ ) नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥ (४,३४.३ ) विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन । (४,३४.३ ) आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥ (४,३४.४ ) विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः । (४,३४.४ ) रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥ (४,३४.५ ) एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश । (४,३४.५ ) आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । (४,३४.५ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥ (४,३४.६ ) घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना । (४,३४.६ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥ (४,३४.७ ) चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना । (४,३४.७ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥ (४,३४.८ ) इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् । (४,३४.८ ) स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥ (४,३५.१ ) यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। (४,३५.१ ) यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥ (४,३५.२ ) येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण । (४,३५.२ ) यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥ (४,३५.३ ) यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन । (४,३५.३ ) यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥ (४,३५.४ ) यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः । (४,३५.४ ) अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥ (४,३५.५ ) यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति । (४,३५.५ ) ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥ (४,३५.६ ) यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव । (४,३५.६ ) यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥ (४,३५.७ ) अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु । (४,३५.७ ) ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥ (४,३६.१ ) तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा । (४,३६.१ ) यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥ (४,३६.२ ) यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति । (४,३६.२ ) वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥ (४,३६.३ ) य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये । (४,३६.३ ) क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥ (४,३६.४ ) सहे पिशाचान्त्सहसैषां द्रविणं ददे । (४,३६.४ ) सर्वान् दुरस्यतो हन्मि सं म आकूतिरृध्यताम् ॥४॥ (४,३६.५ ) ये देवास्तेन हासन्ते सूर्येण मिमते जवम् । (४,३६.५ ) नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥ (४,३६.६ ) तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव । (४,३६.६ ) श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥ (४,३६.७ ) न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः । (४,३६.७ ) पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥ (४,३६.८ ) यं ग्राममाविशत इदमुग्रं सहो मम । (४,३६.८ ) पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥ (४,३६.९ ) ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । (४,३६.९ ) तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥ (४,३६.१० ) अभि तं निरृतिर्धत्तामश्वमिव अश्वाभिधान्या । (४,३६.१० ) मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥ (४,३७.१ ) त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे । (४,३७.१ ) त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥ (४,३७.२ ) त्वया वयमप्सरसो गन्धर्वांस्चातयामहे । (४,३७.२ ) अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥ (४,३७.३ ) नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् । (४,३७.३ ) गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी । (४,३७.३ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥ (४,३७.४ ) यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः । (४,३७.४ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥ (४,३७.५ ) यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति । (४,३७.५ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥ (४,३७.६ ) एयमगन्न् ओषधीनां वीरुधां वीर्यावती । (४,३७.६ ) अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥ (४,३७.७ ) आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः । (४,३७.७ ) भिनद्मि मुष्कावपि यामि शेपः ॥७॥ (४,३७.८ ) भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः । (४,३७.८ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥ (४,३७.९ ) भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः । (४,३७.९ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥ (४,३७.१० ) अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् । (४,३७.१० ) पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥ (४,३७.११ ) श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः । (४,३७.११ ) प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्। (४,३७.११ ) तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥ (४,३७.१२ ) जाया इद्वो अप्सरसो गन्धर्वाः पतयो युयम् । (४,३७.१२ ) अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥ (४,३८.१ ) उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् । (४,३८.१ ) ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥ (४,३८.२ ) विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् । (४,३८.२ ) ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥ (४,३८.३ ) यायैः परिनृत्यत्याददाना कृतं ग्लहात्। (४,३८.३ ) सा नः कृतानि सीषती प्रहामाप्नोतु मायया । (४,३८.३ ) सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥ (४,३८.४ ) या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती । (४,३८.४ ) आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥ (४,३८.५ ) सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति । (४,३८.५ ) यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् । (४,३८.५ ) स न ऐतु होममिमं जुसाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥ (४,३८.६ ) अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् । (४,३८.६ ) इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥ (४,३८.७ ) अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् । (४,३८.७ ) अयं घासो अयं व्रज इह वत्सां नि बध्नीमः । (४,३८.७ ) यथानाम व ईश्महे स्वाहा ॥७॥ (४,३९.१ ) पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्। (४,३९.१ ) यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥ (४,३९.२ ) पृथिवी धेनुस्तस्या अग्निर्वत्सः । (४,३९.२ ) सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.२ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥ (४,३९.३ ) अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। (४,३९.३ ) यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥ (४,३९.४ ) अन्तरिक्षं धेनुस्तस्या वत्सः । (४,३९.४ ) सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.४ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥ (४,३९.५ ) दिव्यादित्याय समनमन्त्स आर्ध्नोत्। (४,३९.५ ) यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥ (४,३९.६ ) द्यौर्धेनुस्तस्या आदित्यो वत्सः । (४,३९.६ ) सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् । (४,३९.६ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥ (४,३९.७ ) दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्। (४,३९.७ ) यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥ (४,३९.८ ) दिशो धेनवस्तासां चन्द्रो वत्सः । (४,३९.८ ) ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥ (४,३९.९ ) अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ । (४,३९.९ ) नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥ (४,३९.१० ) हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् । (४,३९.१० ) सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥ (४,४०.१ ) ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.१ ) अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥ (४,४०.२ ) ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् । (४,४०.२ ) यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥ (४,४०.३ ) ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.३ ) वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥ (४,४०.४ ) य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.४ ) सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥ (४,४०.५ ) येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् । (४,४०.५ ) भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥ (४,४०.६ ) येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् । (४,४०.६ ) वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥ (४,४०.७ ) य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् । (४,४०.७ ) सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥ (४,४०.८ ) ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् । (४,४०.८ ) ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥ (५,१.१ ) ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा । (५,१.१ ) अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥ (५,१.२ ) आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि । (५,१.२ ) धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥ (५,१.३ ) यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः । (५,१.३ ) अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥ (५,१.४ ) प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् । (५,१.४ ) कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥ (५,१.५ ) तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि । (५,१.५ ) यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥ (५,१.६ ) सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्। (५,१.६ ) आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥ (५,१.७ ) उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः । (५,१.७ ) उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥ (५,१.८ ) उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये । (५,१.८ ) दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥ (५,१.९ ) अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर । (५,१.९ ) अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् । (५,१.९ ) कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥ (५,२.१ ) तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । (५,२.१ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥ (५,२.२ ) ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । (५,२.२ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥ (५,२.३ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः । (५,२.३ ) स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥ (५,२.४ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः । (५,२.४ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥ (५,२.५ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि । (५,२.५ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥ (५,२.६ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे । (५,२.६ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥ (५,२.७ ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् । (५,२.७ ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥ (५,२.८ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः । (५,२.८ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥ (५,२.९ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव । (५,२.९ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥ (५,३.१ ) ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । (५,३.१ ) मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥ (५,३.२ ) अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः । (५,३.२ ) अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥ (५,३.३ ) मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । (५,३.३ ) ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥ (५,३.४ ) मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु । (५,३.४ ) एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥ (५,३.५ ) मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः । (५,३.५ ) दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥ (५,३.६ ) दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् । (५,३.६ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥ (५,३.७ ) तिस्रो देवीर्महि नः शर्म यछत प्रजायै नस्तन्वे यच्च पुष्टम् । (५,३.७ ) मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥ (५,३.८ ) उरुव्यचा नो महिषः शर्म यछत्वस्मिन् हवे पुरुहूतः पुरुक्षु । (५,३.८ ) स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥ (५,३.९ ) धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः । (५,३.९ ) आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात्॥९॥ (५,३.१० ) ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् । (५,३.१० ) आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥ (५,३.११ ) अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । (५,३.११ ) इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥ (५,४.१ ) यो गिरिष्वजायथा वीरुधां बलवत्तमः । (५,४.१ ) कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥ (५,४.२ ) सुपर्णसुवने गिरौ जातं हिमवतस्परि । (५,४.२ ) धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥ (५,४.३ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (५,४.३ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥ (५,४.४ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (५,४.४ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥ (५,४.५ ) हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया । (५,४.५ ) नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥ (५,४.६ ) इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु । (५,४.६ ) तमु मे अगदं कृधि ॥६॥ (५,४.७ ) देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः । (५,४.७ ) स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥ (५,४.८ ) उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् । (५,४.८ ) तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥ (५,४.९ ) उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता । (५,४.९ ) यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥ (५,४.१० ) शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः । (५,४.१० ) कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥ (५,५.१ ) रात्री माता नभः पितार्यमा ते पितामहः । (५,५.१ ) सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥ (५,५.२ ) यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । (५,५.२ ) भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥ (५,५.३ ) वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला । (५,५.३ ) जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥ (५,५.४ ) यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् । (५,५.४ ) तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥ (५,५.५ ) भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्। (५,५.५ ) भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥ (५,५.६ ) हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे । (५,५.६ ) रुतं गछासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥ (५,५.७ ) हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने । (५,५.७ ) अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥ (५,५.८ ) सिलाची नाम कानीनोऽजबभ्रु पिता तव । (५,५.८ ) अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥ (५,५.९ ) अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे । (५,५.९ ) सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥ (५,६.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः । (५,६.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥ (५,६.२ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे । (५,६.२ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥ (५,६.३ ) सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः । (५,६.३ ) तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥ (५,६.४ ) पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः । (५,६.४ ) द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥ (५,६.५ ) न्वेतेनारात्सीरसौ स्वाहा । (५,६.५ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥ (५,६.६ ) अवैतेनारात्सीरसौ स्वाहा । (५,६.६ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥ (५,६.७ ) अपैतेनारात्सीरसौ स्वाहा । (५,६.७ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥ (५,६.८ ) मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥ (५,६.९ ) चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते । (५,६.९ ) मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥ (५,६.१० ) योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्। (५,६.१० ) त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥ (५,६.११ ) इन्द्रस्य गृहोऽसि । (५,६.११ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥ (५,६.१२ ) इन्द्रस्य शर्मासि । (५,६.१२ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥ (५,६.१३ ) इन्द्रस्य वर्मासि । (५,६.१३ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥ (५,६.१४ ) इन्द्रस्य वरूथमसि । (५,६.१४ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥ (५,७.१ ) आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् । (५,७.१ ) नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥ (५,७.२ ) यमराते पुरोधत्से पुरुषं परिरापिणम् । (५,७.२ ) नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥ (५,७.३ ) प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् । (५,७.३ ) अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥ (५,७.४ ) सरस्वतीमनुमतिं भगं यन्तो हवामहे । (५,७.४ ) वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥ (५,७.५ ) यं याचाम्यहं वाचा सरस्वत्या मनोयुजा । (५,७.५ ) श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥ (५,७.६ ) मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि । (५,७.६ ) सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥ (५,७.७ ) परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि । (५,७.७ ) वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥ (५,७.८ ) उत नग्ना बोभुवती स्वप्नया सचसे जनम् । (५,७.८ ) अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥ (५,७.९ ) या महती महोन्माना विश्वा आशा व्यानशे । (५,७.९ ) तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥९॥ (५,७.१० ) हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही । (५,७.१० ) तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥ (५,८.१ ) वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह । (५,८.१ ) अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥ (५,८.२ ) इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु । (५,८.२ ) इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे । (५,८.२ ) तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥ (५,८.३ ) यदसावमुतो देवा अदेवः संश्चिकीर्षति । (५,८.३ ) मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥ (५,८.४ ) अति धावतातिसरा इन्द्रस्य वचसा हत । (५,८.४ ) अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥ (५,८.५ ) यममी पुरोदधिरे ब्रह्माणमपभूतये । (५,८.५ ) इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥ (५,८.६ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । (५,८.६ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥ (५,८.७ ) यान् असावतिसरांश्चकार कृणवच्च यान् । (५,८.७ ) त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥ (५,८.८ ) यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् । (५,८.८ ) कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥ (५,८.९ ) अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य । (५,८.९ ) अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव । (५,८.९ ) अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥ (५,९.१ ) दिवे स्वाहा ॥१॥ (५,९.२ ) पृथिव्यै स्वाहा ॥२॥ (५,९.३ ) अन्तरिक्षाय स्वाहा ॥३॥ (५,९.४ ) अन्तरिक्षाय स्वाहा ॥४॥ (५,९.५ ) दिवे स्वाहा ॥५॥ (५,९.६ ) पृथिव्यै स्वाहा ॥६॥ (५,९.७ ) सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् । (५,९.७ ) अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥ (५,९.८ ) उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् । (५,९.८ ) आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा । (५,९.८ ) आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥ (५,१०.१ ) अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्। (५,१०.१ ) एतत्स ऋछात्॥१॥ (५,१०.२ ) अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। (५,१०.२ ) एतत्स ऋछात्॥२॥ (५,१०.३ ) अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। (५,१०.३ ) एतत्स ऋछात्॥३॥ (५,१०.४ ) अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्। (५,१०.४ ) एतत्स ऋछात्॥४॥ (५,१०.५ ) अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्। (५,१०.५ ) एतत्स ऋछात्॥५॥ (५,१०.६ ) अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। (५,१०.६ ) एतत्स ऋछात्॥६॥ (५,१०.७ ) अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। (५,१०.७ ) एतत्स ऋछात्॥७॥ (५,१०.८ ) बृहता मन उप ह्वये मातरिश्वना प्राणापानौ । (५,१०.८ ) सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् । (५,१०.८ ) सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥ (५,११.१ ) कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः । (५,११.१ ) पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥ (५,११.२ ) न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे । (५,११.२ ) केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥ (५,११.३ ) सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः । (५,११.३ ) न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥ (५,११.४ ) न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् । (५,११.४ ) त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥ (५,११.५ ) त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते । (५,११.५ ) किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥ (५,११.६ ) एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। (५,११.६ ) तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥ (५,११.७ ) त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि । (५,११.७ ) मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥ (५,११.८ ) मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि । (५,११.८ ) स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥ (५,११.९ ) आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु । (५,११.९ ) देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥ (५,११.१० ) समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा । (५,११.१० ) ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥ (५,११.११ ) देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः । (५,११.११ ) अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् । (५,११.११ ) तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥ (५,१२.१ ) समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । (५,१२.१ ) आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥ (५,१२.२ ) तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व । (५,१२.२ ) मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥ (५,१२.३ ) आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । (५,१२.३ ) त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥ (५,१२.४ ) प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । (५,१२.४ ) व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥ (५,१२.५ ) व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । (५,१२.५ ) देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥ (५,१२.६ ) आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । (५,१२.६ ) दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥ (५,१२.७ ) दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । (५,१२.७ ) प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥ (५,१२.८ ) आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती । (५,१२.८ ) तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥ (५,१२.९ ) य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । (५,१२.९ ) तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥ (५,१२.१० ) उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि । (५,१२.१० ) वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥ (५,१२.११ ) सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । (५,१२.११ ) अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥ (५,१३.१ ) ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् । (५,१३.१ ) खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥ (५,१३.२ ) यत्ते अपोदकं विषं तत्त एतास्वग्रभम् । (५,१३.२ ) गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥ (५,१३.३ ) वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते । (५,१३.३ ) अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥ (५,१३.४ ) चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् । (५,१३.४ ) अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥ (५,१३.५ ) कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः । (५,१३.५ ) मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥ (५,१३.६ ) असितस्य तैमातस्य बभ्रोरपोदकस्य च । (५,१३.६ ) सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥ (५,१३.७ ) आलिगी च विलिगी च पिता च मता च । (५,१३.७ ) विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥ (५,१३.८ ) उरुगूलाया दुहिता जाता दास्यसिक्न्या । (५,१३.८ ) प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥ (५,१३.९ ) कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका । (५,१३.९ ) याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥ (५,१३.१० ) ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् । (५,१३.१० ) ताबुवेनारसं विषम् ॥१०॥ (५,१३.११ ) तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् । (५,१३.११ ) तस्तुवेनारसं विषम् ॥११॥ (५,१४.१ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा । (५,१४.१ ) दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥ (५,१४.२ ) अव जहि यातुधानान् अव कृत्याकृतं जहि । (५,१४.२ ) अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥ (५,१४.३ ) रिश्यस्येव परीशासं परिकृत्य परि त्वचः । (५,१४.३ ) कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥ (५,१४.४ ) पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय । (५,१४.४ ) समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥ (५,१४.५ ) कृत्याः सन्तु कृत्याकृते शपथः शपथीयते । (५,१४.५ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥ (५,१४.६ ) यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । (५,१४.६ ) तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥ (५,१४.७ ) यदि वासि देवकृता यदि वा पुरुषैः कृता । (५,१४.७ ) तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥ (५,१४.८ ) अग्ने पृतनाषाट्पृतनाः सहस्व । (५,१४.८ ) पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥ (५,१४.९ ) कृतव्यधनि विध्य तं यश्चकार तमिज्जहि । (५,१४.९ ) न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥ (५,१४.१० ) पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश । (५,१४.१० ) बन्धमिवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥१०॥ (५,१४.११ ) उदेणीव वारण्यभिस्कन्दं मृगीव । (५,१४.११ ) कृत्या कर्तारमृछतु ॥११॥ (५,१४.१२ ) इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । (५,१४.१२ ) सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥ (५,१४.१३ ) अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् । (५,१४.१३ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥ (५,१५.१ ) एका च मे दश च मेऽपवक्तार ओषधे । (५,१५.१ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥ (५,१५.२ ) द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे । (५,१५.२ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥ (५,१५.३ ) तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे । (५,१५.३ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥ (५,१५.४ ) चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे । (५,१५.४ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥ (५,१५.५ ) पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे । (५,१५.५ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥ (५,१५.६ ) षट्च मे षष्टिश्च मेऽपवक्तार ओषधे । (५,१५.६ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥ (५,१५.७ ) सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे । (५,१५.७ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥ (५,१५.८ ) अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे । (५,१५.८ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥ (५,१५.९ ) नव च मे नवतिश्च मेऽपवक्तार ओषधे । (५,१५.९ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥ (५,१५.१० ) दश च मे शतं च मेऽपवक्तार ओषधे । (५,१५.१० ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥ (५,१५.११ ) शतं च मे सहस्रं चापवक्तार ओषधे । (५,१५.११ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥ (५,१६.१ ) यद्येकवृषोऽसि सृजारसोऽसि ॥१॥ (५,१६.२ ) यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥ (५,१६.३ ) यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥ (५,१६.४ ) यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥ (५,१६.५ ) यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥ (५,१६.६ ) यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥ (५,१६.७ ) यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥ (५,१६.८ ) यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥ (५,१६.९ ) यदि नववृषोऽसि सृजारसोऽसि ॥९॥ (५,१६.१० ) यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥ (५,१६.११ ) यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥ (५,१७.१ ) तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा । (५,१७.१ ) वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥ (५,१७.२ ) सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछदहृणीयमानः । (५,१७.२ ) अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥ (५,१७.३ ) हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। (५,१७.३ ) न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥ (५,१७.४ ) यामाहुस्तारकैषा विकेशीति दुछुनां ग्राममवपद्यमानाम् । (५,१७.४ ) सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥ (५,१७.५ ) ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् । (५,१७.५ ) तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥ (५,१७.६ ) देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः । (५,१७.६ ) भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥ (५,१७.७ ) ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते । (५,१७.७ ) वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥ (५,१७.८ ) उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः । (५,१७.८ ) ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥ (५,१७.९ ) ब्राह्मण एव पतिर्न राजन्यो न वैश्यः । (५,१७.९ ) तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥ (५,१७.१० ) पुनर्वै देवा अददुः पुनर्मनुष्या अददुः । (५,१७.१० ) राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥ (५,१७.११ ) पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् । (५,१७.११ ) ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥ (५,१७.१२ ) नास्य जाया शतवाही कल्याणी तल्पमा शये । (५,१७.१२ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥ (५,१७.१३ ) न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते । (५,१७.१३ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥ (५,१७.१४ ) नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः । (५,१७.१४ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥ (५,१७.१५ ) नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते । (५,१७.१५ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥ (५,१७.१६ ) नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् । (५,१७.१६ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥ (५,१७.१७ ) नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते । (५,१७.१७ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥ (५,१७.१८ ) नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् । (५,१७.१८ ) विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥ (५,१८.१ ) नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे । (५,१८.१ ) मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥ (५,१८.२ ) अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । (५,१८.२ ) स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥ (५,१८.३ ) आविष्टिताघविषा पृदाकूरिव चर्मणा । (५,१८.३ ) सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥ (५,१८.४ ) निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् । (५,१८.४ ) यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥ (५,१८.५ ) य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्। (५,१८.५ ) सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥ (५,१८.६ ) न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । (५,१८.६ ) सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥ (५,१८.७ ) शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् । (५,१८.७ ) अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥ (५,१८.८ ) जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः । (५,१८.८ ) तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥ (५,१८.९ ) तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा । (५,१८.९ ) अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥ (५,१८.१० ) ये सहस्रमराजन्न् आसन् दशशता उत । (५,१८.१० ) ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥ (५,१८.११ ) गौरेव तान् हन्यमाना वैतहव्यामवातिरत्। (५,१८.११ ) ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥ (५,१८.१२ ) एकशतं ता जनता या भूमिर्व्यधूनुत । (५,१८.१२ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥ (५,१८.१३ ) देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् । (५,१८.१३ ) यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥ (५,१८.१४ ) अग्निर्वै नः पदवायः सोमो दायाद उच्यते । (५,१८.१४ ) हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥ (५,१८.१५ ) इषुरिव दिग्धा नृपते पृदाकूरिव गोपते । (५,१८.१५ ) सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥ (५,१९.१ ) अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । (५,१९.१ ) भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥ (५,१९.२ ) ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः । (५,१९.२ ) पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥ (५,१९.३ ) ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे । (५,१९.३ ) अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥ (५,१९.४ ) ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे । (५,१९.४ ) तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥ (५,१९.५ ) क्रूरमस्या आशसनं तृष्टं पिशितमस्यते । (५,१९.५ ) क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥ (५,१९.६ ) उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । (५,१९.६ ) परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥ (५,१९.७ ) अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः । (५,१९.७ ) द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥ (५,१९.८ ) तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । (५,१९.८ ) ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥ (५,१९.९ ) तं वृक्षा अप सेधन्ति छायां नो मोप गा इति । (५,१९.९ ) यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥ (५,१९.१० ) विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्। (५,१९.१० ) न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥ (५,१९.११ ) नवैव ता नवतयो या भूमिर्व्यधूनुत । (५,१९.११ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥ (५,१९.१२ ) यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् । (५,१९.१२ ) तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥ (५,१९.१३ ) अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः । (५,१९.१३ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥ (५,१९.१४ ) येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते । (५,१९.१४ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥ (५,१९.१५ ) न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति । (५,१९.१५ ) नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥ (५,२०.१ ) उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः । (५,२०.१ ) वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥ (५,२०.२ ) सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव । (५,२०.२ ) वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥ (५,२०.३ ) वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्। (५,२०.३ ) शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥ (५,२०.४ ) संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व । (५,२०.४ ) दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥ (५,२०.५ ) दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा । (५,२०.५ ) नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥ (५,२०.६ ) पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः । (५,२०.६ ) अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥ (५,२०.७ ) अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् । (५,२०.७ ) अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥ (५,२०.८ ) धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि । (५,२०.८ ) इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥ (५,२०.९ ) संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी । (५,२०.९ ) श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥ (५,२०.१० ) श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि । (५,२०.१० ) अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥ (५,२०.११ ) शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्। (५,२०.११ ) वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥ (५,२०.१२ ) अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः । (५,२०.१२ ) इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥ (५,२१.१ ) विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे । (५,२१.१ ) विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥ (५,२१.२ ) उद्वेपमाना मनसा चक्षुषा हृदयेन च । (५,२१.२ ) धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥ (५,२१.३ ) वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः । (५,२१.३ ) प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥ (५,२१.४ ) यथा मृगाः संविजन्त आरण्याः पुरुषादधि । (५,२१.४ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥ (५,२१.५ ) यथा वृकादजावयो धावन्ति बहु बिभ्यतीः । (५,२१.५ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥ (५,२१.६ ) यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा । (५,२१.६ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥ (५,२१.७ ) परामित्रान् दुन्दुभिना हरिणस्याजिनेन च । (५,२१.७ ) सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥ (५,२१.८ ) यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह । (५,२१.८ ) तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥ (५,२१.९ ) ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः । (५,२१.९ ) सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥ (५,२१.१० ) आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत । (५,२१.१० ) पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥ (५,२१.११ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् । (५,२१.११ ) सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥ (५,२१.१२ ) एता देवसेनाः सूर्यकेतवः सचेतसः । (५,२१.१२ ) अमित्रान् नो जयन्तु स्वाहा ॥१२॥ (५,२२.१ ) अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः । (५,२२.१ ) वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥ (५,२२.२ ) अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् । (५,२२.२ ) अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥ (५,२२.३ ) यः परुषः पारुषेयोऽवध्वंस इवारुणः । (५,२२.३ ) तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥ (५,२२.४ ) अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने । (५,२२.४ ) शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥ (५,२२.५ ) ओको अस्य मूजवन्त ओको अस्य महावृषाः । (५,२२.५ ) यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥ (५,२२.६ ) तक्मन् व्याल वि गद व्यङ्ग भूरि यावय । (५,२२.६ ) दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥६॥ (५,२२.७ ) तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् । (५,२२.७ ) शूद्रामिछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥ (५,२२.८ ) महावृषान् मूजवतो बन्ध्वद्धि परेत्य । (५,२२.८ ) प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥ (५,२२.९ ) अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः । (५,२२.९ ) अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥ (५,२२.१० ) यत्त्वं शीतोऽथो रूरः सह कासावेपयः । (५,२२.१० ) भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥ (५,२२.११ ) मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् । (५,२२.११ ) मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥ (५,२२.१२ ) तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह । (५,२२.१२ ) पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥ (५,२२.१३ ) तृतीयकं वितृतीयं सदन्दिमुत शारदम् । (५,२२.१३ ) तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥ (५,२२.१४ ) गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः । (५,२२.१४ ) प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥ (५,२३.१ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (५,२३.१ ) ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥ (५,२३.२ ) अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि । (५,२३.२ ) हता विश्वा अरातय उग्रेण वचसा मम ॥२॥ (५,२३.३ ) यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति । (५,२३.३ ) दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥३॥ (५,२३.४ ) सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ । (५,२३.४ ) बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥ (५,२३.५ ) ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः । (५,२३.५ ) ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥ (५,२३.६ ) उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा । (५,२३.६ ) दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥ (५,२३.७ ) येवाषासः कष्कषास एजत्काः शिपवित्नुकाः । (५,२३.७ ) दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥ (५,२३.८ ) हतो येवाषः क्रिमीणां हतो नदनिमोत । (५,२३.८ ) सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥ (५,२३.९ ) त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् । (५,२३.९ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥ (५,२३.१० ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। (५,२३.१० ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥ (५,२३.११ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । (५,२३.११ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥ (५,२३.१२ ) हतासो अस्य वेशसो हतासः परिवेशसः । (५,२३.१२ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥ (५,२३.१३ ) सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् । (५,२३.१३ ) भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥ (५,२४.१ ) सविता प्रसवानामधिपतिः स मावतु । (५,२४.१ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥ (५,२४.२ ) अग्निर्वनस्पतीनामधिपतिः स मावतु । (५,२४.२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥ (५,२४.३ ) द्यावापृथिवी दातॄणामधिपतिः स मावतु । (५,२४.३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥ (५,२४.४ ) वरुणोऽपामधिपतिः स मावतु । (५,२४.४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥ (५,२४.५ ) मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् । (५,२४.५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥ (५,२४.६ ) मरुतः पर्वतानामधिपतयस्ते मावन्तु । (५,२४.६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥ (५,२४.७ ) सोमो वीरुधामधिपतिः स मावतु । (५,२४.७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥ (५,२४.८ ) वायुरन्तरिक्षस्याधिपतिः स मावतु । (५,२४.८ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.८ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥ (५,२४.९ ) सूर्यश्चक्षुषामधिपतिः स मावतु । (५,२४.९ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.९ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥ (५,२४.१० ) चन्द्रमा नक्षत्राणामधिपतिः स मावतु । (५,२४.१० ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१० ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥ (५,२४.११ ) इन्द्रो दिवोऽधिपतिः स मावतु । (५,२४.११ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.११ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥ (५,२४.१२ ) मरुतां पिता पशूनामधिपतिः स मावतु । (५,२४.१२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥ (५,२४.१३ ) मृत्युः प्रजानामधिपतिः स मावतु । (५,२४.१३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥ (५,२४.१४ ) यमः पितॄणामधिपतिः स मावतु । (५,२४.१४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥ (५,२४.१५ ) पितरः परे ते मावन्तु । (५,२४.१५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥ (५,२४.१६ ) तता अवरे ते मावन्तु । (५,२४.१६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् । (५,२४.१६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥ (५,२४.१७ ) ततस्ततामहास्ते मावन्तु । (५,२४.१७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् । (५,२४.१७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥ (५,२५.१ ) पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् । (५,२५.१ ) शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥ (५,२५.२ ) यथेयं पृथिवी मही भूतानां गर्भमादधे । (५,२५.२ ) एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥ (५,२५.३ ) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । (५,२५.३ ) गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥ (५,२५.४ ) गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः । (५,२५.४ ) गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥ (५,२५.५ ) विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । (५,२५.५ ) आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥ (५,२५.६ ) यद्वेद राजा वरुणो यद्वा देवी सरस्वती । (५,२५.६ ) यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥ (५,२५.७ ) गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । (५,२५.७ ) गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥ (५,२५.८ ) अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् । (५,२५.८ ) वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥ (५,२५.९ ) वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् । (५,२५.९ ) अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥ (५,२५.१० ) धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१० ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥ (५,२५.११ ) त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.११ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥ (५,२५.१२ ) सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१२ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥ (५,२५.१३ ) प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । (५,२५.१३ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥ (५,२६.१ ) यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥ (५,२६.२ ) युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥ (५,२६.३ ) इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥ (५,२६.४ ) प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥ (५,२६.५ ) छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥ (५,२६.६ ) एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥ (५,२६.७ ) विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥ (५,२६.८ ) त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥ (५,२६.९ ) भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥ (५,२६.१० ) सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥ (५,२६.११ ) इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥ (५,२६.१२ ) अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ । (५,२६.१२ ) बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥ (५,२७.१ ) ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः । (५,२७.१ ) द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥ (५,२७.२ ) देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥ (५,२७.३ ) मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥ (५,२७.४ ) अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥ (५,२७.५ ) अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥ (५,२७.६ ) तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥ (५,२७.७ ) द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥ (५,२७.८ ) उरुव्यचसाग्नेर्धाम्ना पत्यमाने । (५,२७.८ ) आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥ (५,२७.९ ) दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये । (५,२७.९ ) तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥ (५,२७.१० ) तन् नस्तुरीपमद्भुतं पुरुक्षु । (५,२७.१० ) देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥ (५,२७.११ ) वनस्पतेऽव सृजा रराणः । (५,२७.११ ) त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥ (५,२७.१२ ) अग्ने स्वाहा कृणुहि जातवेदः । (५,२७.१२ ) इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥ (५,२८.१ ) नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय । (५,२८.१ ) हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥ (५,२८.२ ) अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च । (५,२८.२ ) आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥ (५,२८.३ ) त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन । (५,२८.३ ) अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥ (५,२८.४ ) इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः । (५,२८.४ ) इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥ (५,२८.५ ) भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः । (५,२८.५ ) वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥ (५,२८.६ ) त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। (५,२८.६ ) अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥ (५,२८.७ ) त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । (५,२८.७ ) त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥ (५,२८.८ ) त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः । (५,२८.८ ) प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥ (५,२८.९ ) दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् । (५,२८.९ ) भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥ (५,२८.१० ) इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः । (५,२८.१० ) तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥ (५,२८.११ ) पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे । (५,२८.११ ) तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥ (५,२८.१२ ) आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः । (५,२८.१२ ) अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥ (५,२८.१३ ) ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा । (५,२८.१३ ) संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥ (५,२८.१४ ) घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु । (५,२८.१४ ) भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥ (५,२९.१ ) पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् । (५,२९.१ ) त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥ (५,२९.२ ) तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः । (५,२९.२ ) यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥ (५,२९.३ ) यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः । (५,२९.३ ) विश्वेभिर्देवैर्सह संविदानः ॥३॥ (५,२९.४ ) अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि । (५,२९.४ ) पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥ (५,२९.५ ) यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः । (५,२९.५ ) तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥ (५,२९.६ ) आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ । (५,२९.६ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥ (५,२९.७ ) क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः । (५,२९.७ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥ (५,२९.८ ) अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । (५,२९.८ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥ (५,२९.९ ) दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् । (५,२९.९ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥ (५,२९.१० ) क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः । (५,२९.१० ) तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥ (५,२९.११ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (५,२९.११ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥ (५,२९.१२ ) समाहर जातवेदो यद्धृतं यत्पराभृतम् । (५,२९.१२ ) गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥ (५,२९.१३ ) सोमस्येव जातवेदो अंशुरा प्यायतामयम् । (५,२९.१३ ) अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥ (५,२९.१४ ) एतास्ते अग्ने समिधः पिशाचजम्भनीः । (५,२९.१४ ) तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥ (५,२९.१५ ) तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा । (५,२९.१५ ) जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥ (५,३०.१ ) आवतस्त आवतः परावतस्त आवतः । (५,३०.१ ) इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥ (५,३०.२ ) यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः । (५,३०.२ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥ (५,३०.३ ) यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या । (५,३०.३ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥ (५,३०.४ ) यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्। (५,३०.४ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥ (५,३०.५ ) यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः । (५,३०.५ ) प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥ (५,३०.६ ) इहैधि पुरुष सर्वेण मनसा सह । (५,३०.६ ) दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥ (५,३०.७ ) अनुहूतः पुनरेहि विद्वान् उदयनं पथः । (५,३०.७ ) आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥ (५,३०.८ ) मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा । (५,३०.८ ) निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥ (५,३०.९ ) अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः । (५,३०.९ ) यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥ (५,३०.१० ) ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः । (५,३०.१० ) तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥ (५,३०.११ ) अयमग्निरुपसद्य इह सूर्य उदेतु ते । (५,३०.११ ) उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥ (५,३०.१२ ) नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति । (५,३०.१२ ) उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥ (५,३०.१३ ) ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् । (५,३०.१३ ) शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥ (५,३०.१४ ) प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन । (५,३०.१४ ) वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥ (५,३०.१५ ) मा ते प्राण उप दसन् मो अपानोऽपि धायि ते । (५,३०.१५ ) सूर्यस्त्वाधिपतिर्मृत्योरुदायछतु रश्मिभिः ॥१५॥ (५,३०.१६ ) इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा । (५,३०.१६ ) त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥ (५,३०.१७ ) अयं लोकः प्रियतमो देवानामपराजितः । (५,३०.१७ ) यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे । (५,३०.१७ ) स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥ (५,३१.१ ) यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । (५,३१.१ ) आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥ (५,३१.२ ) यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । (५,३१.२ ) अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥ (५,३१.३ ) यां ते चक्रुरेकशफे पशूनामुभयादति । (५,३१.३ ) गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥ (५,३१.४ ) यां ते चक्रुरमूलायां वलगं वा नराच्याम् । (५,३१.४ ) क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥ (५,३१.५ ) यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः । (५,३१.५ ) शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥ (५,३१.६ ) यां ते चक्रुः सभायां यां चक्रुरधिदेवने । (५,३१.६ ) अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥ (५,३१.७ ) यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे । (५,३१.७ ) दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥ (५,३१.८ ) यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः । (५,३१.८ ) सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥ (५,३१.९ ) यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् । (५,३१.९ ) म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥ (५,३१.१० ) अपथेना जभारैनां तां पथेतः प्र हिण्मसि । (५,३१.१० ) अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥ (५,३१.११ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् । (५,३१.११ ) चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥ (५,३१.१२ ) कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् । (५,३१.१२ ) इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥ (६,१.१ ) दोषो गाय बृहद्गाय द्युमद्धेहि । (६,१.१ ) आथर्वण स्तुहि देवं सवितारम् ॥१॥ (६,१.२ ) तमु ष्टुहि यो अन्तः सिन्धौ सूनुः । (६,१.२ ) सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥ (६,१.३ ) स घा नो देवः सविता साविषदमृतानि भूरि । (६,१.३ ) उभे सुष्टुती सुगातवे ॥३॥ (६,२.१ ) इन्द्राय सोममृत्विजः सुनोता च धावत । (६,२.१ ) स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥ (६,२.२ ) आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः । (६,२.२ ) विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥ (६,२.३ ) सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे । (६,२.३ ) युवा जेतेशानः स पुरुष्टुतः ॥३॥ (६,३.१ ) पातं न इन्द्रापूषणादितिः पान्तु मरुतः । (६,३.१ ) अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥ (६,३.२ ) पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः । (६,३.२ ) पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥ (६,३.३ ) पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् । (६,३.३ ) अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥ (६,४.१ ) त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । (६,४.१ ) पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥ (६,४.२ ) अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः । (६,४.२ ) अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥ (६,४.३ ) धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् । (६,४.३ ) द्यौष्पितर्यावय दुछुना या ॥३॥ (६,५.१ ) उदेनमुत्तरं नयाग्ने घृतेनाहुत । (६,५.१ ) समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥ (६,५.२ ) इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी । (६,५.२ ) रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥ (६,५.३ ) यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् । (६,५.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥ (६,६.१ ) योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते । (६,६.१ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥ (६,६.२ ) यो नः सोम सुशंसिनो दुःशंस आदिदेशति । (६,६.२ ) वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥ (६,६.३ ) यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः । (६,६.३ ) अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥ (६,७.१ ) येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः । (६,७.१ ) तेना नोऽवसा गहि ॥१॥ (६,७.२ ) येन सोम साहन्त्यासुरान् रन्धयासि नः । (६,७.२ ) तेना नो अधि वोचत ॥२॥ (६,७.३ ) येन देवा असुराणामोजांस्यवृणीध्वम् । (६,७.३ ) तेना नः शर्म यछत ॥३॥ (६,८.१ ) यथा वृक्षं लिबुजा समन्तं परिषस्वजे । (६,८.१ ) एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥ (६,८.२ ) यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् । (६,८.२ ) एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥ (६,८.३ ) यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः । (६,८.३ ) एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥ (६,९.१ ) वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ । (६,९.१ ) अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥ (६,९.२ ) मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् । (६,९.२ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥ (६,९.३ ) यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥ (६,१०.१ ) पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा ॥१॥ (६,१०.२ ) प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा ॥२॥ (६,१०.३ ) दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥ (६,११.१ ) शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् । (६,११.१ ) तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥ (६,११.२ ) पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते । (६,११.२ ) तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥ (६,११.३ ) प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्। (६,११.३ ) स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥ (६,१२.१ ) परि द्यामिव सूर्योऽहीनां जनिमागमम् । (६,१२.१ ) रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥ (६,१२.२ ) यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा । (६,१२.२ ) यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥ (६,१२.३ ) मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु । (६,१२.३ ) मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥ (६,१३.१ ) नमो देववधेभ्यो नमो राजवधेभ्यः । (६,१३.१ ) अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥ (६,१३.२ ) नमस्ते अधिवाकाय परावाकाय ते नमः । (६,१३.२ ) सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥ (६,१३.३ ) नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः । (६,१३.३ ) नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥ (६,१४.१ ) अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् । (६,१४.१ ) बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥ (६,१४.२ ) निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा । (६,१४.२ ) छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥ (६,१४.३ ) निर्बलासेतः प्र पताशुङ्गः शिशुको यथा । (६,१४.३ ) अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥ (६,१५.१ ) उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः । (६,१५.१ ) उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥ (६,१५.२ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति । (६,१५.२ ) तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥ (६,१५.३ ) यथा सोम ओषधीनामुत्तमो हविषां कृतः । (६,१५.३ ) तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥ (६,१६.१ ) आबयो अनाबयो रसस्त उग्र आबयो । (६,१६.१ ) आ ते करम्भमद्मसि ॥१॥ (६,१६.२ ) विहह्लो नाम ते पिता मदावती नाम ते माता । (६,१६.२ ) स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥ (६,१६.३ ) तौविलिकेऽवेलयावायमैलब ऐलयीत्। (६,१६.३ ) बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥ (६,१६.४ ) अलसालासि पूर्व सिलाञ्जालास्युत्तरा । (६,१६.४ ) नीलागलसाल ॥४॥ (६,१७.१ ) यथेयं पृथिवी मही भूतानां गर्भमादधे । (६,१७.१ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥ (६,१७.२ ) यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् । (६,१७.२ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥ (६,१७.३ ) यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् । (६,१७.३ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥ (६,१७.४ ) यथेयं पृथिवी मही दाधार विष्ठितं जगत्। (६,१७.४ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥ (६,१८.१ ) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् । (६,१८.१ ) अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥ (६,१८.२ ) यथा भूमिर्मृतमना मृतान् मृतमनस्तरा । (६,१८.२ ) यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥ (६,१८.३ ) अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् । (६,१८.३ ) ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥ (६,१९.१ ) पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । (६,१९.१ ) पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥ (६,१९.२ ) पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे । (६,१९.२ ) अथो अरिष्टतातये ॥२॥ (६,१९.३ ) उभाभ्यां देव सवितः पवित्रेण सवेन च । (६,१९.३ ) अस्मान् पुनीहि चक्षसे ॥३॥ (६,२०.१ ) अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति । (६,२०.१ ) अन्यमस्मदिछतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥१॥ (६,२०.२ ) नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते । (६,२०.२ ) नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥ (६,२०.३ ) अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि । (६,२०.३ ) तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥ (६,२१.१ ) इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा । (६,२१.१ ) तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥ (६,२१.२ ) श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् । (६,२१.२ ) सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥ (६,२१.३ ) रेवतीरनाधृषः सिषासवः सिषासथ । (६,२१.३ ) उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥ (६,२२.१ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (६,२२.१ ) त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥ (६,२२.२ ) पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः । (६,२२.२ ) ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥ (६,२२.३ ) उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति । (६,२२.३ ) एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥ (६,२३.१ ) सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः । (६,२३.१ ) वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥ (६,२३.२ ) ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये । (६,२३.२ ) सद्यः कृण्वन्त्वेतवे ॥२॥ (६,२३.३ ) देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः । (६,२३.३ ) शं नो भवन्त्वप ओषधीः शिवाः ॥३॥ (६,२४.१ ) हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः । (६,२४.१ ) आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥ (६,२४.२ ) यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। (६,२४.२ ) आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥ (६,२४.३ ) सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन । (६,२४.३ ) दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥ (६,२५.१ ) पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि । (६,२५.१ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥ (६,२५.२ ) सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि । (६,२५.२ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥ (६,२५.३ ) नव च या नवतिश्च संयन्ति स्कन्ध्या अभि । (६,२५.३ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥ (६,२६.१ ) अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः । (६,२६.१ ) आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥ (६,२६.२ ) यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् । (६,२६.२ ) पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥ (६,२६.३ ) अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः । (६,२६.३ ) यं द्वेषाम तमृछतु यमु द्विष्मस्तमिज्जहि ॥३॥ (६,२७.१ ) देवाः कपोत इषितो यदिछन् दूतो निरृत्या इदमाजगाम । (६,२७.१ ) तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥ (६,२७.२ ) शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः । (६,२७.२ ) अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥ (६,२७.३ ) हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने । (६,२७.३ ) शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत ॥३॥ (६,२८.१ ) ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः । (६,२८.१ ) संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥ (६,२८.२ ) परीमेऽग्निमर्षत परीमे गामनेषत । (६,२८.२ ) देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥ (६,२८.३ ) यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः । (६,२८.३ ) योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥ (६,२९.१ ) अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्। (६,२९.१ ) यद्वा कपोत पदमग्नौ कृणोति ॥१॥ (६,२९.२ ) यौ ते दूतौ निरृत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः । (६,२९.२ ) कपोतोलूकाभ्यामपदं तदस्तु ॥२॥ (६,२९.३ ) अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्। (६,२९.३ ) पराङेव परा वद पराचीमनु संवतम् । (६,२९.३ ) यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥ (६,३०.१ ) देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः । (६,३०.१ ) इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥ (६,३०.२ ) यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि । (६,३०.२ ) आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥ (६,३०.३ ) बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि । (६,३०.३ ) मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥ (६,३१.१ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः । (६,३१.१ ) पितरं च प्रयन्त्स्वः ॥१॥ (६,३१.२ ) अन्तश्चरति रोचना अस्य प्राणादपानतः । (६,३१.२ ) व्यख्यन् महिषः स्वः ॥२॥ (६,३१.३ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। (६,३१.३ ) प्रति वस्तोरहर्द्युभिः ॥३॥ (६,३२.१ ) अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन । (६,३२.१ ) आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥ (६,३२.२ ) रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः । (६,३२.२ ) वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥ (६,३२.३ ) अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः । (६,३२.३ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥ (६,३३.१ ) यस्येदमा रजो युजस्तुजे जना नवं स्वः । (६,३३.१ ) इन्द्रस्य रन्त्यं बृहत्॥१॥ (६,३३.२ ) नाधृष आ दधृषते धृषाणो धृषितः शवः । (६,३३.२ ) पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥ (६,३३.३ ) स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् । (६,३३.३ ) इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥ (६,३४.१ ) प्राग्नये वाचमीरय वृषभाय क्षितीनाम् । (६,३४.१ ) स नः पर्षदति द्विषः ॥१॥ (६,३४.२ ) यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा । (६,३४.२ ) स नः पर्षदति द्विषः ॥२॥ (६,३४.३ ) यः परस्याः परावतस्तिरो धन्वातिरोचते । (६,३४.३ ) स नः पर्षदति द्विषः ॥३॥ (६,३४.४ ) यो विश्वाभि विपश्यति भुवना सं च पश्यति । (६,३४.४ ) स नः पर्षदति द्विषः ॥४॥ (६,३४.५ ) यो अस्य पारे रजसः शुक्रो अग्निरजायत । (६,३४.५ ) स नः पर्षदति द्विषः ॥५॥ (६,३५.१ ) वैश्वानरो न ऊतय आ प्र यातु परावतः । (६,३५.१ ) अग्निर्नः सुष्टुतीरुप ॥१॥ (६,३५.२ ) वैश्वानरो न आगमदिमं यज्ञं सजूरुप । (६,३५.२ ) अग्निरुक्थेष्वंहसु ॥२॥ (६,३५.३ ) वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्। (६,३५.३ ) ऐषु द्युम्नं स्वर्यमत्॥३॥ (६,३६.१ ) ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । (६,३६.१ ) अजस्रं घर्ममीमहे ॥१॥ (६,३६.२ ) स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी । (६,३६.२ ) यज्ञस्य वय उत्तिरन् ॥२॥ (६,३६.३ ) अग्निः परेषु धामसु कामो भूतस्य भव्यस्य । (६,३६.३ ) सम्रादेको वि राजति ॥३॥ (६,३७.१ ) उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् । (६,३७.१ ) शप्तारमन्विछन् मम वृक इवाविमतो गृहम् ॥१॥ (६,३७.२ ) परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् । (६,३७.२ ) शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥ (६,३७.३ ) यो नः शपादशपतः शपतो यश्च नः शपात्। (६,३७.३ ) शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥ (६,३८.१ ) सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या । (६,३८.१ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥ (६,३८.२ ) या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु । (६,३८.२ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥ (६,३८.३ ) रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे । (६,३८.३ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥ (६,३८.४ ) राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ । (६,३८.४ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥ (६,३९.१ ) यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् । (६,३९.१ ) प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥ (६,३९.२ ) अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम । (६,३९.२ ) स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥ (६,३९.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । (६,३९.३ ) यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥ (६,४०.१ ) अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु । (६,४०.१ ) अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥ (६,४०.२ ) अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु । (६,४०.२ ) अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥ (६,४०.३ ) अनमित्रं नो अधरादनमित्रं न उत्तरात्। (६,४०.३ ) इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥ (६,४१.१ ) मनसे चेतसे धिय आकूतय उत चित्तये । (६,४१.१ ) मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥ (६,४१.२ ) अपानाय व्यानाय प्राणाय भूरिधायसे । (६,४१.२ ) सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥ (६,४१.३ ) मा नो हासिषुरृषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः । (६,४१.३ ) अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥ (६,४२.१ ) अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः । (६,४२.१ ) यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥ (६,४२.२ ) सखायाविव सचावहा अव मन्युं तनोमि ते । (६,४२.२ ) अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥ (६,४२.३ ) अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च । (६,४२.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥ (६,४३.१ ) अयं दर्भो विमन्युकः स्वाय चारणाय च । (६,४३.१ ) मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥ (६,४३.२ ) अयं यो भूरिमूलः समुद्रमवतिष्ठति । (६,४३.२ ) दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥ (६,४३.३ ) वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि । (६,४३.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥ (६,४४.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। (६,४४.१ ) अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥ (६,४४.२ ) शतं या भेषजानि ते सहस्रं संगतानि च । (६,४४.२ ) श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥ (६,४४.३ ) रुद्रस्य मूत्रमस्यमृतस्य नाभिः । (६,४४.३ ) विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥ (६,४५.१ ) परोऽपेहि मनस्पाप किमशस्तानि शंससि । (६,४५.१ ) परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥ (६,४५.२ ) अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः । (६,४५.२ ) अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥ (६,४५.३ ) यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि । (६,४५.३ ) प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥ (६,४६.१ ) यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न । (६,४६.१ ) वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥ (६,४६.२ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । (६,४६.२ ) अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥ (६,४६.३ ) यथा कलां यथा शफं यथर्णं संनयन्ति । (६,४६.३ ) एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥ (६,४७.१ ) अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः । (६,४७.१ ) स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥ (६,४७.२ ) विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । (६,४७.२ ) आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥ (६,४७.३ ) इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त । (६,४७.३ ) ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥ (६,४८.१ ) श्येनोऽसि गायत्रछन्दा अनु त्वा रभे । (६,४८.१ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥ (६,४८.२ ) ऋभुरसि जगछन्दा अनु त्वा रभे । (६,४८.२ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥ (६,४८.३ ) वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे । (६,४८.३ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥ (६,४९.१ ) नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः । (६,४९.१ ) कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥ (६,४९.२ ) मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः । (६,४९.२ ) शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥ (६,४९.३ ) सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः । (६,४९.३ ) नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥ (६,५०.१ ) हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् । (६,५०.१ ) यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥ (६,५०.२ ) तर्द है पतङ्ग है जभ्य हा उपक्वस । (६,५०.२ ) ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥ (६,५०.३ ) तर्दापते वघापते तृष्टजम्भा आ शृणोत मे । (६,५०.३ ) य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥ (६,५१.१ ) वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः । (६,५१.१ ) इन्द्रस्य युजः सखा ॥१॥ (६,५१.२ ) आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु । (६,५१.२ ) विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥ (६,५१.३ ) यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति । (६,५१.३ ) अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥ (६,५२.१ ) उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् । (६,५२.१ ) आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥ (६,५२.२ ) नि गावो गोष्ठे असदन् नि मृगासो अविक्षत । (६,५२.२ ) न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥ (६,५२.३ ) आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् । (६,५२.३ ) आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥ (६,५३.१ ) द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । (६,५३.१ ) अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥ (६,५३.२ ) पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु । (६,५३.२ ) वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥ (६,५३.३ ) सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । (६,५३.३ ) त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥ (६,५४.१ ) इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये । (६,५४.१ ) अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥ (६,५४.२ ) अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् । (६,५४.२ ) इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥ (६,५४.३ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति । (६,५४.३ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥ (६,५५.१ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । (६,५५.१ ) तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥ (६,५५.२ ) ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात । (६,५५.२ ) आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥ (६,५५.३ ) इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः । (६,५५.३ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥ (६,५६.१ ) मा नो देवा अहिर्वधीत्सतोकान्त्सहपुरुषान् । (६,५६.१ ) सम्यतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः । (६,५६.२ ) नमोऽस्त्वसिताय नमस्तिरश्चिराजये । (६,५६.२ ) स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥ (६,५६.३ ) सं ते हन्मि दता दतः समु ते हन्वा हनू । (६,५६.३ ) सं ते जिह्वया जिह्वां सं वास्नाह आस्यम् ॥३॥ (६,५७.१ ) इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् । (६,५७.१ ) येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥ (६,५७.२ ) जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत । (६,५७.२ ) जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥ (६,५७.३ ) शं च नो मयश्च नो मा च नः किं चनाममत्। (६,५७.३ ) क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥ (६,५८.१ ) यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे । (६,५८.१ ) यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥ (६,५८.२ ) यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः । (६,५८.२ ) एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥ (६,५८.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत । (६,५८.३ ) यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥ (६,५९.१ ) अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति । (६,५९.१ ) अधेनवे वयसे शर्म यछ चतुष्पदे ॥१॥ (६,५९.२ ) शर्म यछत्वोषधिः सह देवीररुन्धती । (६,५९.२ ) करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥ (६,५९.३ ) विश्वरूपां सुभगामछावदामि जीवलाम् । (६,५९.३ ) सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥ (६,६०.१ ) अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः । (६,६०.१ ) अस्या इछन्न् अग्रुवै पतिमुत जायामजानये ॥१॥ (६,६०.२ ) अश्रमदियमर्यमन्न् अन्यासां समनं यती । (६,६०.२ ) अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥ (६,६०.३ ) धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् । (६,६०.३ ) धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥ (६,६१.१ ) मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् । (६,६१.१ ) मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥ (६,६१.२ ) अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् । (६,६१.२ ) अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥ (६,६१.३ ) अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् । (६,६१.३ ) अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥ (६,६२.१ ) वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः । (६,६२.१ ) द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥ (६,६२.२ ) वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः । (६,६२.२ ) तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥ (६,६२.३ ) वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः । (६,६२.३ ) इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥ (६,६३.१ ) यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्। (६,६३.१ ) तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥ (६,६३.२ ) नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् । (६,६३.२ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥ (६,६३.३ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् । (६,६३.३ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥ (६,६३.४ ) संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ । (६,६३.४ ) इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥ (६,६४.१ ) सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । (६,६४.१ ) देवा भागं यथा पूर्वे सम्जानाना उपासते ॥१॥ (६,६४.२ ) समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् । (६,६४.२ ) समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥ (६,६४.३ ) समानी व आकूतिः समाना हृदयानि वः । (६,६४.३ ) समानमस्तु वो मनः यथा वः सुसहासति ॥३॥ (६,६५.१ ) अव मन्युरवायताव बाहू मनोयुजा । (६,६५.१ ) पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥ (६,६५.२ ) निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ । (६,६५.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥ (६,६५.३ ) इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः । (६,६५.३ ) जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥ (६,६६.१ ) निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् । (६,६६.१ ) समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥ (६,६६.२ ) आतन्वाना आयछन्तोऽस्यन्तो ये च धावथ । (६,६६.२ ) निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥ (६,६६.३ ) निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि । (६,६६.३ ) अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥ (६,६७.१ ) परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः । (६,६७.१ ) मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥ (६,६७.२ ) मूढा अमित्राश्चरताशीर्षाण इवाहयः । (६,६७.२ ) तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥ (६,६७.३ ) ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि । (६,६७.३ ) पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥ (६,६८.१ ) आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि । (६,६८.१ ) आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥ (६,६८.२ ) अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा । (६,६८.२ ) चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥ (६,६८.३ ) येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । (६,६८.३ ) तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥ (६,६९.१ ) गिरावरगराटेषु हिरन्ये गोषु यद्यशः । (६,६९.१ ) सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥ (६,६९.२ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । (६,६९.२ ) यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥ (६,६९.३ ) मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः । (६,६९.३ ) तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥ (६,७०.१ ) यथा मांसं यथा सुरा यथाक्षा अधिदेवने । (६,७०.१ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.१ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥ (६,७०.२ ) यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे । (६,७०.२ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.२ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥ (६,७०.३ ) यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि । (६,७०.३ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः । (६,७०.३ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥ (६,७१.१ ) यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् । (६,७१.१ ) यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृनोतु ॥१॥ (६,७१.२ ) यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः । (६,७१.२ ) यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥२॥ (६,७१.३ ) यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि । (६,७१.३ ) वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥३॥ (६,७२.१ ) यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया । (६,७२.१ ) एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥ (६,७२.२ ) यथा पसस्तायादरं वातेन स्थूलभं कृतम् । (६,७२.२ ) यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥ (६,७२.३ ) यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। (६,७२.३ ) यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥ (६,७३.१ ) एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु । (६,७३.१ ) अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥ (६,७३.२ ) यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा । (६,७३.२ ) तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥ (६,७३.३ ) इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु । (६,७३.३ ) वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥ (६,७४.१ ) सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता । (६,७४.१ ) सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥ (६,७४.२ ) सम्ज्ञपनं वो मनसोऽथो सम्ज्ञपनं हृदः । (६,७४.२ ) अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥ (६,७४.३ ) यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः । (६,७४.३ ) एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥ (६,७५.१ ) निरमुं नुद ओकसः सपत्नो यः पृतन्यति । (६,७५.१ ) नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥ (६,७५.२ ) परमां तं परावतमिन्द्रो नुदतु वृत्रहा । (६,७५.२ ) यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥ (६,७५.३ ) एतु तिस्रः परावत एतु पञ्च जनामति । (६,७५.३ ) एतु तिस्रोऽति रोचना यतो न पुनरायति । (६,७५.३ ) शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥ (६,७६.१ ) य एनं परिषीदन्ति समादधति चक्षसे । (६,७६.१ ) संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥ (६,७६.२ ) अग्नेः साम्तपनस्याहमायुषे पदमा रभे । (६,७६.२ ) अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥ (६,७६.३ ) यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । (६,७६.३ ) नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥ (६,७६.४ ) नैनं घ्नन्ति पर्यायिणो न सन्नामव गछति । (६,७६.४ ) अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥ (६,७७.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। (६,७७.१ ) आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥ (६,७७.२ ) य उदानत्परायणं य उदानण्न्यायनम् । (६,७७.२ ) आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥ (६,७७.३ ) जातवेदो नि वर्तय शतं ते सन्त्वावृतः । (६,७७.३ ) सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥ (६,७८.१ ) तेन भूतेन हविषायमा प्यायतां पुनः । (६,७८.१ ) जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥ (६,७८.२ ) अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् । (६,७८.२ ) रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥ (६,७८.३ ) त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् । (६,७८.३ ) त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥ (६,७९.१ ) अयं नो नभसस्पतिः संस्फानो अभि रक्षतु । (६,७९.१ ) असमातिं गृहेषु नः ॥१॥ (६,७९.२ ) त्वं नो नभसस्पते ऊर्जं गृहेसु धारय । (६,७९.२ ) आ पुष्टमेत्वा वसु ॥२॥ (६,७९.३ ) देव संस्फान सहस्रापोषस्येशिषे । (६,७९.३ ) तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥ (६,८०.१ ) अन्तरिक्षेण पतति विश्वा भूतावचाकशत्। (६,८०.१ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥ (६,८०.२ ) ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः । (६,८०.२ ) तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥ (६,८०.३ ) अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् । (६,८०.३ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥ (६,८१.१ ) यन्तासि यछसे हस्तावप रक्षांसि सेधसि । (६,८१.१ ) प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥ (६,८१.२ ) परिहस्त वि धारय योनिं गर्भाय धातवे । (६,८१.२ ) मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥ (६,८१.३ ) यं परिहस्तमबिभरदितिः पुत्रकाम्या । (६,८१.३ ) त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥ (६,८२.१ ) आगछत आगतस्य नाम गृह्णाम्यायतः । (६,८२.१ ) इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥ (६,८२.२ ) येन सूर्यां सावित्रीमश्विनोहतुः पथा । (६,८२.२ ) तेन मामब्रवीद्भगो जयामा वहतादिति ॥२॥ (६,८२.३ ) यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः । (६,८२.३ ) तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥ (६,८३.१ ) अपचितः प्र पतत सुपर्णो वसतेरिव । (६,८३.१ ) सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोछतु ॥१॥ (६,८३.२ ) एन्येका श्येन्येका कृष्णैका रोहिणी द्वे । (६,८३.२ ) सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥ (६,८३.३ ) असूतिका रामायण्यपचित्प्र पतिष्यति । (६,८३.३ ) ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥ (६,८३.४ ) वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥ (६,८४.१ ) यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् । (६,८४.१ ) भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥१॥ (६,८४.२ ) भूते हविष्मती भवैष ते भागो यो अस्मासु । (६,८४.२ ) मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥ (६,८४.३ ) एवो ष्वस्मन् निरृतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् । (६,८४.३ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥ (६,८४.४ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् । (६,८४.४ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥ (६,८५.१ ) वरणो वारयाता अयं देवो वनस्पतिः । (६,८५.१ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥ (६,८५.२ ) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । (६,८५.२ ) देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥ (६,८५.३ ) यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः । (६,८५.३ ) एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥ (६,८६.१ ) वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् । (६,८६.१ ) वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥ (६,८६.२ ) समुद्र ईशे स्रवतामग्निः पृथिव्या वशी । (६,८६.२ ) चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥ (६,८६.३ ) सम्राडस्यसुराणां ककुन् मनुष्यानाम् । (६,८६.३ ) देवानामर्धभागसि त्वमेकवृषो भव ॥३॥ (६,८७.१ ) आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्। (६,८७.१ ) विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥ (६,८७.२ ) इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्। (६,८७.२ ) इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥ (६,८७.३ ) इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा । (६,८७.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥ (६,८८.१ ) ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्। (६,८८.१ ) ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥ (६,८८.२ ) ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । (६,८८.२ ) ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥ (६,८८.३ ) ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व । (६,८८.३ ) सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥ (६,८९.१ ) इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् । (६,८९.१ ) ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥ (६,८९.२ ) शोचयामसि ते हार्दिं शोचयामसि ते मनः । (६,८९.२ ) वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥ (६,८९.३ ) मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती । (६,८९.३ ) मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥ (६,९०.१ ) यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च । (६,९०.१ ) इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥ (६,९०.२ ) यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः । (६,९०.२ ) तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥ (६,९०.३ ) नमस्ते रुद्रास्यते नमः प्रतिहितायै । (६,९०.३ ) नमो विसृज्यमानायै नमो निपतितायै ॥३॥ (६,९१.१ ) इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः । (६,९१.१ ) तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥ (६,९१.२ ) न्यग्वातो वाति न्यक्तपति सूर्यः । (६,९१.२ ) नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥ (६,९१.३ ) आप इद्वा उ भेषजीरापो अमीवचातनीः । (६,९१.३ ) आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥ (६,९२.१ ) वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः । (६,९२.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥ (६,९२.२ ) जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः । (६,९२.२ ) तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥ (६,९२.३ ) तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् । (६,९२.३ ) अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥ (६,९३.१ ) यमो मृत्युरघमारो निरृथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः । (६,९३.१ ) देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥ (६,९३.२ ) मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय । (६,९३.२ ) नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥ (६,९३.३ ) त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः । (६,९३.३ ) अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥ (६,९४.१ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि । (६,९४.१ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥ (६,९४.२ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । (६,९४.२ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥ (६,९४.३ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती । (६,९४.३ ) ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥ (६,९५.१ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि । (६,९५.१ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥ (६,९५.२ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । (६,९५.२ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥ (६,९५.३ ) गर्भो अस्योषधीनां गर्भो हिमवतामुत । (६,९५.३ ) गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥ (६,९६.१ ) या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः । (६,९६.१ ) बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥ (६,९६.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । (६,९६.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥ (६,९६.३ ) यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः । (६,९६.३ ) सोमस्तानि स्वधया नः पुनातु ॥३॥ (६,९७.१ ) अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः । (६,९७.१ ) अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥ (६,९७.२ ) स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् । (६,९७.२ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥ (६,९७.३ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् । (६,९७.३ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥ (६,९८.१ ) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै । (६,९८.१ ) चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥ (६,९८.२ ) त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् । (६,९८.२ ) त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥ (६,९८.३ ) प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि । (६,९८.३ ) यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥ (६,९९.१ ) अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे । (६,९९.१ ) ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥ (६,९९.२ ) यो अद्य सेन्यो वधो जिघांसन् न उदीरते । (६,९९.२ ) इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥ (६,९९.३ ) परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः । (६,९९.३ ) देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥ (६,१००.१ ) देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। (६,१००.१ ) तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥ (६,१००.२ ) यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् । (६,१००.२ ) तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥ (६,१००.३ ) असुराणां दुहितासि सा देवानामसि स्वसा । (६,१००.३ ) दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥ (६,१०१.१ ) आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च । (६,१०१.१ ) यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥ (६,१०१.२ ) येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् । (६,१०१.२ ) तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥ (६,१०१.३ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि । (६,१०१.३ ) क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥ (६,१०२.१ ) यथायं वाहो अश्विना समैति सं च वर्तते । (६,१०२.१ ) एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥ (६,१०२.२ ) आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव । (६,१०२.२ ) रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥ (६,१०२.३ ) आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च । (६,१०२.३ ) तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥ (६,१०३.१ ) संदानं वो बृहस्पतिः संदानं सविता करत्। (६,१०३.१ ) संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥ (६,१०३.२ ) सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् । (६,१०३.२ ) इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥ (६,१०३.३ ) अमी ये युधमायन्ति केतून् कृत्वानीकशः । (६,१०३.३ ) इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥ (६,१०४.१ ) आदानेन संदानेनामित्रान् आ द्यामसि । (६,१०४.१ ) अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥ (६,१०४.२ ) इदमादानमकरं तपसेन्द्रेण संशितम् । (६,१०४.२ ) अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥ (६,१०४.३ ) ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ । (६,१०४.३ ) इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥ (६,१०५.१ ) यथा मनो मनस्केतैः परापतत्याशुमत्। (६,१०५.१ ) एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥ (६,१०५.२ ) यथा बाणः सुसंशितः परापतत्याशुमत्। (६,१०५.२ ) एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥ (६,१०५.३ ) यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्। (६,१०५.३ ) एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥ (६,१०६.१ ) आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः । (६,१०६.१ ) उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥ (६,१०६.२ ) अपामिदं न्ययनं समुद्रस्य निवेशनम् । (६,१०६.२ ) मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥ (६,१०६.३ ) हिमस्य त्वा जरायुणा शाले परि व्ययामसि । (६,१०६.३ ) शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥ (६,१०७.१ ) विश्वजित्त्रायमाणायै मा परि देहि । (६,१०७.१ ) त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥१॥ (६,१०७.२ ) त्रायमाणे विश्वजिते मा परि देहि । (६,१०७.२ ) विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥ (६,१०७.३ ) विश्वजित्कल्याण्यै मा परि देहि । (६,१०७.३ ) कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥३॥ (६,१०७.४ ) कल्याणि सर्वविदे मा परि देहि । (६,१०७.४ ) सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥४॥ (६,१०८.१ ) त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि । (६,१०८.१ ) त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥ (६,१०८.२ ) मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् । (६,१०८.२ ) प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥ (६,१०८.३ ) यां मेधामृभवो विदुर्यां मेधामसुरा विदुः । (६,१०८.३ ) ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥ (६,१०८.४ ) यामृषयो भूतकृतो मेधां मेधाविनो विदुः । (६,१०८.४ ) तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥ (६,१०८.५ ) मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि । (६,१०८.५ ) मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥ (६,१०९.१ ) पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी । (६,१०९.१ ) तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥ (६,१०९.२ ) पिप्पल्यः समवदन्तायतीर्जननादधि । (६,१०९.२ ) यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥ (६,१०९.३ ) असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः । (६,१०९.३ ) वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥ (६,११०.१ ) प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । (६,११०.१ ) स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥ (६,११०.२ ) ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् । (६,११०.२ ) अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥ (६,११०.३ ) व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः । (६,११०.३ ) स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥ (६,१११.१ ) इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति । (६,१११.१ ) अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥ (६,१११.२ ) अग्निष्टे नि शमयतु यदि ते मन उद्युतम् । (६,१११.२ ) कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥ (६,१११.३ ) देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि । (६,१११.३ ) कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥ (६,१११.४ ) पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः । (६,१११.४ ) पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥ (६,११२.१ ) मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् । (६,११२.१ ) स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥ (६,११२.२ ) उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् । (६,११२.२ ) स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥ (६,११२.३ ) येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च । (६,११२.३ ) वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥ (६,११३.१ ) त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे । (६,११३.१ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥ (६,११३.२ ) मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् । (६,११३.२ ) नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥ (६,११३.३ ) द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि । (६,११३.३ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥ (६,११४.१ ) यद्देवा देवहेडनं देवासश्चकृम वयम् । (६,११४.१ ) आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥ (६,११४.२ ) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः । (६,११४.२ ) यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥ (६,११४.३ ) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः । (६,११४.३ ) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥ (६,११५.१ ) यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् । (६,११५.१ ) यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥ (६,११५.२ ) यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् । (६,११५.२ ) भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥ (६,११५.३ ) द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव । (६,११५.३ ) पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥ (६,११६.१ ) यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । (६,११६.१ ) वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥ (६,११६.२ ) वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति । (६,११६.२ ) मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥ (६,११६.३ ) यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् । (६,११६.३ ) यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥ (६,११७.१ ) अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि । (६,११७.१ ) इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥ (६,११७.२ ) इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। (६,११७.२ ) अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥ (६,११७.३ ) अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम । (६,११७.३ ) ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥ (६,११८.१ ) यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः । (६,११८.१ ) उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥ (६,११८.२ ) उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्। (६,११८.२ ) ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥ (६,११८.३ ) यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः । (६,११८.३ ) ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥ (६,११९.१ ) यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि । (६,११९.१ ) वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥ (६,११९.२ ) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु । (६,११९.२ ) स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥ (६,११९.३ ) वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् । (६,११९.३ ) अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥ (६,१२०.१ ) यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम । (६,१२०.१ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥ (६,१२०.२ ) भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः । (६,१२०.२ ) द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥ (६,१२०.३ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः । (६,१२०.३ ) अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥ (६,१२१.१ ) विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये । (६,१२१.१ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥ (६,१२१.२ ) यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा । (६,१२१.२ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥ (६,१२१.३ ) उदगातां भगवती विचृतौ नाम तारके । (६,१२१.३ ) प्रेहामृतस्य यछतां प्रैतु बद्धकमोचनम् ॥३॥ (६,१२१.४ ) वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् । (६,१२१.४ ) योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥ (६,१२२.१ ) एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य । (६,१२२.१ ) अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥ (६,१२२.२ ) ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन । (६,१२२.२ ) अबन्ध्वेके ददतः प्रयछन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥ (६,१२२.३ ) अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते । (६,१२२.३ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥ (६,१२२.४ ) यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः । (६,१२२.४ ) उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥ (६,१२२.५ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (६,१२२.५ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥ (६,१२३.१ ) एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः । (६,१२३.१ ) अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥ (६,१२३.२ ) जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र । (६,१२३.२ ) अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥ (६,१२३.३ ) देवाः पितरः पितरो देवाः । (६,१२३.३ ) यो अस्मि सो अस्मि ॥३॥ (६,१२३.४ ) स पचामि स ददामि । (६,१२३.४ ) स यजे स दत्तान् मा यूषम् ॥४॥ (६,१२३.५ ) नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु । (६,१२३.५ ) विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥ (६,१२४.१ ) दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन । (६,१२४.१ ) समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥ (६,१२४.२ ) यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव । (६,१२४.२ ) यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निरृतिं पराचैः ॥२॥ (६,१२४.३ ) अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव । (६,१२४.३ ) सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निरृतिर्मो अरातिः ॥३॥ (६,१२५.१ ) वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । (६,१२५.१ ) गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥१॥ (६,१२५.२ ) दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । (६,१२५.२ ) अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२॥ (६,१२५.३ ) इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । (६,१२५.३ ) स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥ (६,१२६.१ ) उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्। (६,१२६.१ ) स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥ (६,१२६.२ ) आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः । (६,१२६.२ ) अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥ (६,१२६.३ ) प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु । (६,१२६.३ ) समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥ (६,१२७.१ ) विद्रधस्य बलासस्य लोहितस्य वनस्पते । (६,१२७.१ ) विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥ (६,१२७.२ ) यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ । (६,१२७.२ ) वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥ (६,१२७.३ ) यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः । (६,१२७.३ ) वि वृहामो विसल्पकं विद्रधं हृदयामयम् । (६,१२७.३ ) परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥ (६,१२८.१ ) शकधूमं नक्षत्राणि यद्राजानमकुर्वत । (६,१२८.१ ) भद्राहमस्मै प्रायछन् इदं राष्ट्रमसादिति ॥१॥ (६,१२८.२ ) भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः । (६,१२८.२ ) भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥ (६,१२८.३ ) अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् । (६,१२८.३ ) भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥ (६,१२८.४ ) यो नो भद्राहमकरः सायं नक्तमथो दिवा । (६,१२८.४ ) तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥ (६,१२९.१ ) भगेन मा शांशपेन साकमिन्द्रेण मेदिना । (६,१२९.१ ) कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥ (६,१२९.२ ) येन वृक्षामभ्यभवो भगेन वर्चसा सह । (६,१२९.२ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥ (६,१२९.३ ) यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः । (६,१२९.३ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥ (६,१३०.१ ) रथजितां राथजितेयीनामप्सरसामयं स्मरः । (६,१३०.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥ (६,१३०.२ ) असौ मे स्मरतादिति प्रियो मे स्मरतादिति । (६,१३०.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥ (६,१३०.३ ) यथा मम स्मरादसौ नामुष्याहं कदा चन । (६,१३०.३ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥ (६,१३०.४ ) उन् मादयत मरुत उदन्तरिक्ष मादय । (६,१३०.४ ) अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥ (६,१३१.१ ) नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते । (६,१३१.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥ (६,१३१.२ ) अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः । (६,१३१.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥ (६,१३१.३ ) यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् । (६,१३१.३ ) ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥ (६,१३२.१ ) यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.१ ) तं ते तपामि वरुणस्य धर्मणा ॥१॥ (६,१३२.२ ) यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.२ ) तं ते तपामि वरुणस्य धर्मणा ॥२॥ (६,१३२.३ ) यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.३ ) तं ते तपामि वरुणस्य धर्मणा ॥३॥ (६,१३२.४ ) यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.४ ) तं ते तपामि वरुणस्य धर्मणा ॥४॥ (६,१३२.५ ) यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या । (६,१३२.५ ) तं ते तपामि वरुणस्य धर्मणा ॥५॥ (६,१३३.१ ) य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज । (६,१३३.१ ) यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥ (६,१३३.२ ) आहुतास्यभिहुत ऋषीणामस्यायुधम् । (६,१३३.२ ) पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥ (६,१३३.३ ) मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय । (६,१३३.३ ) तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥ (६,१३३.४ ) श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव । (६,१३३.४ ) सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥ (६,१३३.५ ) यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे । (६,१३३.५ ) सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥ (६,१३४.१ ) अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् । (६,१३४.१ ) शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥ (६,१३४.२ ) अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। (६,१३४.२ ) वज्रेणावहतः शयाम् ॥२॥ (६,१३४.३ ) यो जिनाति तमन्विछ यो जिनाति तमिज्जहि । (६,१३४.३ ) जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥ (६,१३५.१ ) यदश्नामि बलं कुर्व इत्थं वज्रमा ददे । (६,१३५.१ ) स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥ (६,१३५.२ ) यत्पिबामि सं पिबामि समुद्र इव संपिबः । (६,१३५.२ ) प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥ (६,१३५.३ ) यद्गिरामि सं गिरामि समुद्र इव संगिरः । (६,१३५.३ ) प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥ (६,१३६.१ ) देवी देव्यामधि जाता पृथिव्यामस्योषधे । (६,१३६.१ ) तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥ (६,१३६.२ ) दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥ (६,१३६.३ ) यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते । (६,१३६.३ ) इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥ (६,१३७.१ ) यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् । (६,१३७.१ ) तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥ (६,१३७.२ ) अभीशुना मेया आसन् व्यामेनानुमेयाः । (६,१३७.२ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥ (६,१३७.३ ) दृंह मूलमाग्रं यछ वि मध्यं यामयौषधे । (६,१३७.३ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥ (६,१३८.१ ) त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे । (६,१३८.१ ) इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥ (६,१३८.२ ) क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि । (६,१३८.२ ) अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥ (६,१३८.३ ) क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् । (६,१३८.३ ) कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥ (६,१३८.४ ) ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् । (६,१३८.४ ) ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥ (६,१३८.५ ) यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना । (६,१३८.५ ) एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥ (६,१३९.१ ) न्यस्तिका रुरोहिथ सुभगंकरणी मम । (६,१३९.१ ) शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥ (६,१३९.१ ) तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥ (६,१३९.२ ) शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् । (६,१३९.२ ) अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥ (६,१३९.३ ) संवननी समुष्पला बभ्रु कल्याणि सं नुद । (६,१३९.३ ) अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥ (६,१३९.४ ) यथोदकमपपुषोऽपशुष्यत्यास्यम् । (६,१३९.४ ) एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥ (६,१३९.५ ) यथा नकुलो विछिद्य संदधात्यहिं पुनः । (६,१३९.५ ) एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥ (६,१४०.१ ) यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च । (६,१४०.१ ) तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥ (६,१४०.२ ) व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् । (६,१४०.२ ) एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥ (६,१४०.३ ) उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ । (६,१४०.३ ) अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥ (६,१४१.१ ) वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् । (६,१४१.१ ) इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥ (६,१४१.२ ) लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि । (६,१४१.२ ) अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥ (६,१४१.३ ) यथा चक्रुर्देवासुरा यथा मनुष्या उत । (६,१४१.३ ) एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥ (६,१४२.१ ) उच्छ्रयस्व बहुर्भव स्वेन महसा यव । (६,१४२.१ ) मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥ (६,१४२.२ ) आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि । (६,१४२.२ ) तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥ (६,१४२.३ ) अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः । (६,१४२.३ ) पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥ (७,१.१ ) धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि । (७,१.१ ) तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥ (७,१.२ ) स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः । (७,१.२ ) स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥ (७,२.१ ) अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् । (७,२.१ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥ (७,३.१ ) अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । (७,३.१ ) स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥ (७,४.१ ) एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च । (७,४.१ ) तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥ (७,५.१ ) यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । (७,५.१ ) ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥ (७,५.२ ) यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः । (७,५.२ ) स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥ (७,५.३ ) यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन । (७,५.३ ) मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥ (७,५.४ ) यत्पुरुषेण हविषा यज्ञं देवा अतन्वत । (७,५.४ ) अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥ (७,५.५ ) मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त । (७,५.५ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥ (७,६.१ ) अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । (७,६.१ ) विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥ (७,६.२ ) महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे । (७,६.२ ) तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥ (७,६.३ ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । (७,६.३ ) दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥१॥ (७,६.४ ) वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे । (७,६.४ ) यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात्॥२॥ (७,७.१ ) दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् । (७,७.१ ) तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥ (७,८.१ ) भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु । (७,८.१ ) अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥१॥ (७,९.१ ) प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । (७,९.१ ) उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥ (७,९.२ ) पूषेमा आशा अनु वेद सर्वाः सो अस्मामभयतमेन नेषत्। (७,९.२ ) स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुछन् पुर एतु प्रजानन् ॥२॥ (७,९.३ ) पूषन् तव व्रते वयं न रिष्येम कदा चन । (७,९.३ ) स्तोतारस्त इह स्मसि ॥३॥ (७,९.४ ) परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् । (७,९.४ ) पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥ (७,१०.१ ) यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः । (७,१०.१ ) येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥१॥ (७,११.१ ) यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् । (७,११.१ ) मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥१॥ (७,१२.१ ) सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । (७,१२.१ ) येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥ (७,१२.२ ) विद्म ते सभे नाम नरिष्टा नाम वा असि । (७,१२.२ ) ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥ (७,१२.३ ) एषामहं समासीनानां वर्चो विज्ञानमा ददे । (७,१२.३ ) अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥ (७,१२.४ ) यद्वो मनः परागतं यद्बद्धमिह वेह वा । (७,१२.४ ) तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥ (७,१३.१ ) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे । (७,१३.१ ) एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥ (७,१३.२ ) यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ । (७,१३.२ ) उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥ (७,१४.१ ) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् । (७,१४.१ ) अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥१॥ (७,१४.२ ) उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि । (७,१४.२ ) हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥२॥ (७,१४.३ ) सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । (७,१४.३ ) अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥ (७,१४.४ ) दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि । (७,१४.४ ) पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥४॥ (७,१५.१ ) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् । (७,१५.१ ) यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥ (७,१६.१ ) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय । (७,१६.१ ) संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥१॥ (७,१७.१ ) धाता दधातु नो रयिमीशानो जगतस्पतिः । (७,१७.१ ) स नः पूर्णेन यछतु ॥१॥ (७,१७.२ ) धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् । (७,१७.२ ) वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥ (७,१७.३ ) धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे । (७,१७.३ ) तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥ (७,१७.४ ) धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । (७,१७.४ ) त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥ (७,१८.१ ) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः । (७,१८.१ ) उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥ (७,१८.२ ) न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः । (७,१८.२ ) आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥ (७,१९.१ ) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः । (७,१९.१ ) संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥१॥ (७,२०.१ ) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् । (७,२०.१ ) अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥ (७,२०.२ ) अन्विदनुमते त्वं मंससे शं च नस्कृधि । (७,२०.२ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥ (७,२०.३ ) अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् । (७,२०.३ ) तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥ (७,२०.४ ) यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु । (७,२०.४ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥ (७,२०.५ ) एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । (७,२०.५ ) भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥ (७,२०.६ ) अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति । (७,२०.६ ) तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥ (७,२१.१ ) समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् । (७,२१.१ ) स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥१॥ (७,२२.१ ) अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥ (७,२२.२ ) ब्रध्नः समीचीरुषसः समैरयन् । (७,२२.२ ) अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥ (७,२३.१ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः । (७,२३.१ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥१॥ (७,२४.१ ) यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः । (७,२४.१ ) तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यछात्॥१॥ (७,२५.१ ) ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा । (७,२५.१ ) यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥ (७,२५.२ ) यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः । (७,२५.२ ) पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥ (७,२६.१ ) विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि । (७,२६.१ ) यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥ (७,२६.२ ) प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । (७,२६.२ ) परावत आ जगम्यात्परस्याः ॥२॥ (७,२६.३ ) यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा । (७,२६.३ ) उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि । (७,२६.३ ) घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥ (७,२६.४ ) इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा । (७,२६.४ ) समूढमस्य पंसुरे ॥४॥ (७,२६.५ ) त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । (७,२६.५ ) इतो धर्माणि धारयन् ॥५॥ (७,२६.६ ) विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । (७,२६.६ ) इन्द्रस्य युज्यः सखा ॥६॥ (७,२६.७ ) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । (७,२६.७ ) दिवीव चक्षुराततम् ॥७॥ (७,२६.८ ) दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्। (७,२६.८ ) हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयछ दक्षिणादोत सव्यात्॥८॥ (७,२७.१ ) इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः । (७,२७.१ ) घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥१॥ (७,२८.१ ) वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति । (७,२८.१ ) हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥१॥ (७,२९.१ ) अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम । (७,२९.१ ) दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥ (७,२९.२ ) अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ । (७,२९.२ ) दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥ (७,३०.१ ) स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् । (७,३०.१ ) स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्॥१॥ (७,३१.१ ) इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व । (७,३१.१ ) यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥१॥ (७,३२.१ ) उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । (७,३२.१ ) अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे ॥१॥ (७,३३.१ ) सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः । (७,३३.१ ) सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥१॥ (७,३४.१ ) अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्यजातान् जातवेदो नुदस्व । (७,३४.१ ) अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥१॥ (७,३५.१ ) प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व । (७,३५.१ ) इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥ (७,३५.२ ) इमा यास्ते शतं हिराः सहस्रं धमनीरुत । (७,३५.२ ) तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥ (७,३५.३ ) परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः । (७,३५.३ ) अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥ (७,३६.१ ) अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् । (७,३६.१ ) अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥१॥ (७,३७.१ ) अभि त्वा मनुजातेन दधामि मम वाससा । (७,३७.१ ) याथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥१॥ (७,३८.१ ) इदं खनामि भेषजं मांपश्यमभिरोरुदम् । (७,३८.१ ) परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥ (७,३८.२ ) येना निचक्र आसुरीन्द्रं देवेभ्यस्परि । (७,३८.२ ) तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥ (७,३८.३ ) प्रतीची सोममसि प्रतीची उत सूर्यम् । (७,३८.३ ) प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥ (७,३८.४ ) अहं वदामि नेत्त्वं सभायामह त्वं वद । (७,३८.४ ) ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥ (७,३८.५ ) यदि वासि तिरोजनं यदि वा नद्यस्तिरःि । (७,३८.५ ) इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥ (७,३९.१ ) दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् । (७,३९.१ ) अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥ (७,४०.१ ) यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः । (७,४०.१ ) यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥ (७,४०.२ ) आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् । (७,४०.२ ) रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥ (७,४१.१ ) अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः । (७,४१.१ ) तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥ (७,४१.२ ) श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः । (७,४१.२ ) स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥ (७,४२.१ ) सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । (७,४२.१ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥१॥ (७,४२.२ ) सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम् । (७,४२.२ ) अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्॥२॥ (७,४३.१ ) शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः । (७,४३.१ ) तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम् ॥१॥ (७,४४.१ ) उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः । (७,४४.१ ) इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥१॥ (७,४५.१ ) जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् । (७,४५.१ ) दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥ (७,४५.२ ) अग्नेरिवास्य दहतो दावस्य दहतः पृथक्। (७,४५.२ ) एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥ (७,४६.१ ) सिनीवालि पृथुष्टुके या देवानामसि स्वसा । (७,४६.१ ) जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥ (७,४६.२ ) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । (७,४६.२ ) तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥ (७,४६.३ ) या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी । (७,४६.३ ) विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥ (७,४७.१ ) कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि । (७,४७.१ ) सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥ (७,४७.२ ) कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत । (७,४७.२ ) शृनोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥ (७,४८.१ ) राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । (७,४८.१ ) सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥ (७,४८.२ ) यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । (७,४८.२ ) ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥ (७,४९.१ ) देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । (७,४९.१ ) याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥१॥ (७,४९.२ ) उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्। (७,४९.२ ) आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥ (७,५०.१ ) यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति । (७,५०.१ ) एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥ (७,५०.२ ) तुराणामतुराणां विशामवर्जुषीणाम् । (७,५०.२ ) समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥ (७,५०.३ ) ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः । (७,५०.३ ) रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥ (७,५०.४ ) वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे । (७,५०.४ ) अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥ (७,५०.५ ) अजैषं त्वा संलिखितमजैषमुत संरुधम् । (७,५०.५ ) अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥ (७,५०.६ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले । (७,५०.६ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥ (७,५०.७ ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे । (७,५०.७ ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥ (७,५०.८ ) कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः । (७,५०.८ ) गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥ (७,५०.९ ) अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव । (७,५०.९ ) सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥ (७,५१.१ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः । (७,५१.१ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥ (७,५२.१ ) संज्ञानं नः स्वेभिः संज्ञानमरणेभिः । (७,५२.१ ) संज्ञानमश्विना युवमिहास्मासु नि यछतम् ॥१॥ (७,५२.२ ) सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन । (७,५२.२ ) मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥ (७,५३.१ ) अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः । (७,५३.१ ) प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥ (७,५३.२ ) सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् । (७,५३.२ ) शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥ (७,५३.३ ) आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् । (७,५३.३ ) अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥ (७,५३.४ ) मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्। (७,५३.४ ) सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥ (७,५३.५ ) प्र विषतं प्राणापानावनड्वाहाविव व्रजम् । (७,५३.५ ) अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५॥ (७,५३.६ ) आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते । (७,५३.६ ) आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥ (७,५३.७ ) उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् । (७,५३.७ ) देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥ (७,५४.१ ) ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते । (७,५४.१ ) एते सदसि राजतो यज्ञं देवेषु यछतः ॥१॥ (७,५४.२ ) ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् । (७,५४.२ ) एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥ (७,५५.१ ) ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः । (७,५५.१ ) तेभिः सुम्नया धेहि नो वसो ॥२॥ (७,५६.१ ) तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् । (७,५६.१ ) तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥ (७,५६.२ ) इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः । (७,५६.२ ) सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥ (७,५६.३ ) यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि । (७,५६.३ ) अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥ (७,५६.४ ) अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि । (७,५६.४ ) तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥ (७,५६.५ ) अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः । (७,५६.५ ) विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥ (७,५६.६ ) न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः । (७,५६.६ ) अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥ (७,५६.७ ) अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः । (७,५६.७ ) सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥ (७,५६.८ ) य उभाभ्यां प्रहरसि पुछेन चास्येन च । (७,५६.८ ) आस्ये न ते विषं किमु ते पुछधावसत्॥८॥ (७,५७.१ ) यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु । (७,५७.१ ) यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥ (७,५७.२ ) सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि । (७,५७.२ ) उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥ (७,५८.१ ) इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ । (७,५८.१ ) युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥ (७,५८.२ ) इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । (७,५८.२ ) इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥ (७,५९.१ ) यो नः शपादशपतः शपतो यश्च नः शपात्। (७,५९.१ ) वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥१॥ (७,६०.१ ) ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण । (७,६०.१ ) गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥ (७,६०.२ ) इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः । (७,६०.२ ) पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥ (७,६०.३ ) येषामध्येति प्रवसन् येषु सौमनसो बहुः । (७,६०.३ ) गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥ (७,६०.४ ) उपहूता भूरिधनाः सखायः स्वादुसंमुदः । (७,६०.४ ) अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥ (७,६०.५ ) उपहूता इह गाव उपहूता अजावयः । (७,६०.५ ) अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥ (७,६०.६ ) सूनृतावन्तः सुभगा इरावन्तो हसामुदाः । (७,६०.६ ) अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥ (७,६०.७ ) इहैव स्त मानु गात विश्वा रूपाणि पुष्यत । (७,६०.७ ) ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥ (७,६१.१ ) यदग्ने तपसा तप उपतप्यामहे तपः । (७,६१.१ ) प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥ (७,६१.२ ) अग्ने तपस्तप्यामह उप तप्यामहे तपः । (७,६१.२ ) श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥ (७,६२.१ ) अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः । (७,६२.१ ) नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥१॥ (७,६३.१ ) पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्। (७,६३.१ ) स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥ (७,६४.१ ) इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्। (७,६४.१ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥ (७,६४.२ ) इदं यत्कृष्णः शकुनिरवामृक्षन् निरृते ते मुखेन । (७,६४.२ ) अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥ (७,६५.१ ) प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ । (७,६५.१ ) सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥ (७,६५.२ ) यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया । (७,६५.२ ) त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥ (७,६५.३ ) श्यावदता कुनखिना बण्डेन यत्सहासिम । (७,६५.३ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥ (७,६६.१ ) यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु । (७,६६.१ ) यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु ॥१॥ (७,६७.१ ) पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च । (७,६७.१ ) पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥१॥ (७,६८.१ ) सरस्वति व्रतेषु ते दिव्येषु देवि धामसु । (७,६८.१ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥ (७,६८.२ ) इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। (७,६८.२ ) इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥ (७,६८.३ ) शिवा नः शंतमा भव सुमृडीका सरस्वति । (७,६८.३ ) मा ते युयोम संदृशः ॥१॥ (७,६९.१ ) शं नो वातो वातु शं नस्तपतु सूर्यः । (७,६९.१ ) अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् । (७,६९.१ ) शमुषा नो व्युछतु ॥१॥ (७,७०.१ ) यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा । (७,७०.१ ) तन् मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥ (७,७०.२ ) यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् । (७,७०.२ ) इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥ (७,७०.३ ) अजिराधिराजौ श्येनौ संपातिनाविव । (७,७०.३ ) आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥ (७,७०.४ ) अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् । (७,७०.४ ) अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥ (७,७०.५ ) अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् । (७,७०.५ ) अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥ (७,७१.१ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (७,७१.१ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥१॥ (७,७२.१ ) उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । (७,७२.१ ) यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥ (७,७२.२ ) श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् । (७,७२.२ ) परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥ (७,७२.३ ) श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः । (७,७२.३ ) माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥ (७,७३.१ ) समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । (७,७३.१ ) वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥ (७,७३.२ ) समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् । (७,७३.२ ) दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥ (७,७३.३ ) इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः । (७,७३.३ ) तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥ (७,७३.४ ) यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् । (७,७३.४ ) माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥ (७,७३.५ ) तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् । (७,७३.५ ) मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥ (७,७३.६ ) उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः । (७,७३.६ ) वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥ (७,७३.७ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । (७,७३.७ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥ (७,७३.८ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन् । (७,७३.८ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥ (७,७३.९ ) जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । (७,७३.९ ) विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥ (७,७३.१० ) अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । (७,७३.१० ) सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥ (७,७३.११ ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम । (७,७३.११ ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥ (७,७४.१ ) अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम । (७,७४.१ ) मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥ (७,७४.२ ) विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् । (७,७४.२ ) इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥ (७,७४.३ ) त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् । (७,७४.३ ) अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥ (७,७४.४ ) व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह । (७,७४.४ ) तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥ (७,७५.१ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः । (७,७५.१ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥ (७,७५.२ ) पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः । (७,७५.२ ) उप मा देवीर्देवेभिरेत । (७,७५.२ ) इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥ (७,७६.१ ) आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः । (७,७६.१ ) सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥ (७,७६.२ ) या ग्रैव्या अपचितोऽथो या उपपक्ष्याः । (७,७६.२ ) विजाम्नि या अपचितः स्वयंस्रसः ॥२॥ (७,७६.३ ) यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति । (७,७६.३ ) निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥ (७,७६.४ ) पक्षी जायान्यः पतति स आ विशति पूरुषम् । (७,७६.४ ) तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥ (७,७६.५ ) विद्म वै ते जायान्य जानं यतो जायान्य जायसे । (७,७६.५ ) कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥ (७,७६.६ ) धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् । (७,७६.६ ) माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥ (७,७७.१ ) सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । (७,७७.१ ) अस्माकोती रिशादसः ॥१॥ (७,७७.२ ) यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति । (७,७७.२ ) द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥ (७,७७.३ ) सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः । (७,७७.३ ) ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥ (७,७८.१ ) वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् । (७,७८.१ ) इहैव त्वमजस्र एध्यग्ने ॥१॥ (७,७८.२ ) अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन । (७,७८.२ ) दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥ (७,७९.१ ) यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा । (७,७९.१ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥ (७,७९.२ ) अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे । (७,७९.२ ) मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगछन्त सर्वे ॥२॥ (७,७९.३ ) आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती । (७,७९.३ ) अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥ (७,७९.४ ) अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान । (७,७९.४ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥ (७,८०.१ ) पौर्णमासी जिगाय । (७,८०.१ ) तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥ (७,८०.२ ) वृषभं वाजिनं वयं पौर्णमासं यजामहे । (७,८०.२ ) स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥ (७,८०.३ ) प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान । (७,८०.३ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥ (७,८०.४ ) पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु । (७,८०.४ ) ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥ (७,८१.१ ) पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । (७,८१.१ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥ (७,८१.२ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । (७,८१.२ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥ (७,८१.३ ) सोमस्याम्शो युधां पतेऽनूनो नाम वा असि । (७,८१.३ ) अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥ (७,८१.४ ) दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः । (७,८१.४ ) समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥ (७,८१.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व । (७,८१.५ ) आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥ (७,८१.६ ) यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति । (७,८१.६ ) तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥ (७,८२.१ ) अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । (७,८२.१ ) इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥ (७,८२.२ ) मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन । (७,८२.२ ) मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥ (७,८२.३ ) इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः । (७,८२.३ ) क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥ (७,८२.४ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । (७,८२.४ ) अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥ (७,८२.५ ) प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः । (७,८२.५ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥ (७,८२.६ ) घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे । (७,८२.६ ) घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥ (७,८३.१ ) अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः । (७,८३.१ ) ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥ (७,८३.२ ) दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः । (७,८३.२ ) यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥ (७,८३.३ ) उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । (७,८३.३ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥ (७,८३.४ ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये । (७,८३.४ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥ (७,८४.१ ) अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह । (७,८४.१ ) विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥ (७,८४.२ ) इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । (७,८४.२ ) अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥ (७,८४.३ ) मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः । (७,८४.३ ) सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥ (७,८५.१ ) त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । (७,८५.१ ) अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥ (७,८६.१ ) त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । (७,८६.१ ) हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥ (७,८७.१ ) यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश । (७,८७.१ ) य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥ (७,८८.१ ) अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः । (७,८८.१ ) अहिमेवाभ्यपेहि तं जहि ॥१॥ (७,८९.१ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि । (७,८९.१ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥ (७,८९.२ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (७,८९.२ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥ (७,८९.३ ) इदमापः प्र वहतावद्यं च मलं च यत्। (७,८९.३ ) यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥ (७,८९.४ ) एधोऽस्येधिषीय समिदसि समेधिषीय । (७,८९.४ ) तेजोऽसि तेजो मयि धेहि ॥४॥ (७,९०.१ ) अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् । (७,९०.१ ) ओजो दासस्य दम्भय ॥१॥ (७,९०.२ ) वयं तदस्य सम्भृतं वस्विन्द्रेन वि भजामहै । (७,९०.२ ) म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥ (७,९०.३ ) यथा शेपो अपायातै स्त्रीषु चासदनावयाः । (७,९०.३ ) अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः । (७,९०.३ ) यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥ (७,९१.१ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः । (७,९१.१ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥ (७,९२.१ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु । (७,९२.१ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥ (७,९३.१ ) इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः । (७,९३.१ ) घ्नन्तो वृत्राण्यप्रति ॥१॥ (७,९४.१ ) ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । (७,९४.१ ) यथा न इन्द्रः केवलीर्विशः संमनसस्करत्॥१॥ (७,९५.१ ) उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः । (७,९५.१ ) उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥ (७,९५.२ ) अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव । (७,९५.२ ) कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥ (७,९५.३ ) आतोदिनौ नितोदिनावथो संतोदिनावुत । (७,९५.३ ) अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥ (७,९६.१ ) असदन् गावः सदनेऽपप्तद्वसतिं वयः । (७,९६.१ ) आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥१॥ (७,९७.१ ) यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह । (७,९७.१ ) ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥ (७,९७.२ ) समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या । (७,९७.२ ) सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥ (७,९७.३ ) यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे । (७,९७.३ ) जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥ (७,९७.४ ) सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः । (७,९७.४ ) वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥ (७,९७.५ ) यज्ञ यज्ञं गछ यज्ञपतिं गछ । (७,९७.५ ) स्वां योनिं गछ स्वाहा ॥५॥ (७,९७.६ ) एष ते यज्ञो यज्ञपते सहसूक्तवाकः । (७,९७.६ ) सुवीर्यः स्वाहा ॥६॥ (७,९७.७ ) वषड्धुतेभ्यो वषडहुतेभ्यः । (७,९७.७ ) देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥ (७,९७.८ ) मनसस्पत इमं नो दिवि देवेषु यज्ञम् । (७,९७.८ ) स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥ (७,९८.१ ) सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः । (७,९८.१ ) सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥१॥ (७,९९.१ ) परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् । (७,९९.१ ) होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥ (७,१००.१ ) पर्यावर्ते दुष्वप्न्यात्पापात्स्वप्न्यादभूत्याः । (७,१००.१ ) ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥१॥ (७,१०१.१ ) यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते । (७,१०१.१ ) सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥१॥ (७,१०२.१ ) नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे । (७,१०२.१ ) मेक्षाम्यूर्ध्वस्तिष्ठन् मा मा हिंसिषुरीश्वराः ॥१॥ (७,१०३.१ ) को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् । (७,१०३.१ ) को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥ (७,१०४.१ ) कः पृश्निं धेनुं वरुणेन दत्तामथर्वने सुदुघां नित्यवत्साम् । (७,१०४.१ ) बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥१॥ (७,१०५.१ ) अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः । (७,१०५.१ ) प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥१॥ (७,१०६.१ ) यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः । (७,१०६.१ ) ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥ (७,१०७.१ ) अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः । (७,१०७.१ ) आपः समुद्रिया धारास्तास्शल्यमसिस्रसन् ॥१॥ (७,१०८.१ ) यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने । (७,१०८.१ ) प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥ (७,१०८.२ ) यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः । (७,१०८.२ ) वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥ (७,१०९.१ ) इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी । (७,१०९.१ ) घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥ (७,१०९.२ ) घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च । (७,१०९.२ ) यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥ (७,१०९.३ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । (७,१०९.३ ) ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥ (७,१०९.४ ) आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर । (७,१०९.४ ) वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥ (७,१०९.५ ) यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च । (७,१०९.५ ) स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥ (७,१०९.६ ) संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः । (७,१०९.६ ) तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥ (७,१०९.७ ) देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम । (७,१०९.७ ) अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥ (७,११०.१ ) अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति । (७,११०.१ ) उभा हि वृत्रहन्तमा ॥१॥ (७,११०.२ ) याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा । (७,११०.२ ) प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥ (७,११०.३ ) उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः । (७,११०.३ ) इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥ (७,१११.१ ) इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् । (७,१११.१ ) इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥ (७,११२.१ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । (७,११२.१ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥ (७,११२.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । (७,११२.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥ (७,११३.१ ) तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके । (७,११३.१ ) यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥ (७,११३.२ ) तृष्टासि तृष्टिका विषा विषातक्यसि । (७,११३.२ ) परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥ (७,११४.१ ) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे । (७,११४.१ ) आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥ (७,११४.२ ) प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः । (७,११४.२ ) अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥ (७,११५.१ ) प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत । (७,११५.१ ) अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥ (७,११५.२ ) या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् । (७,११५.२ ) अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥ (७,११५.३ ) एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः । (७,११५.३ ) तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥३॥ (७,११५.४ ) एता एना व्याकरं खिले गा विष्ठिता इव । (७,११५.४ ) रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥ (७,११६.१ ) नमो रूराय च्यवनाय नोदनाय धृष्णवे । (७,११६.१ ) नमः शीताय पूर्वकामकृत्वने ॥१॥ (७,११६.२ ) यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् । (७,११६.२ ) अभ्येत्वव्रतः ॥२॥ (७,११७.१ ) आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । (७,११७.१ ) मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि ॥१॥ (७,११८.१ ) मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । (७,११८.१ ) उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥ (८,१.१ ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् । (८,१.१ ) इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥ (८,१.२ ) उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् । (८,१.२ ) उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥ (८,१.३ ) इह तेऽसुरिह प्राण इहायुरिह ते मनः । (८,१.३ ) उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥ (८,१.४ ) उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः । (८,१.४ ) मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥ (८,१.५ ) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः । (८,१.५ ) सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥ (८,१.६ ) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि । (८,१.६ ) आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥ (८,१.७ ) मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् । (८,१.७ ) विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥ (८,१.८ ) मा गतानामा दीधीथा ये नयन्ति परावतम् । (८,१.८ ) आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥ (८,१.९ ) श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ । (८,१.९ ) अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥ (८,१.१० ) मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि । (८,१.१० ) तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१} (८,१.११ ) रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते । (८,१.११ ) वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥ (८,१.१२ ) मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु । (८,१.१२ ) पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च । (८,१.१२ ) अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥ (८,१.१३ ) बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् । (८,१.१३ ) गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥ (८,१.१४ ) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥ (८,१.१५ ) जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः । (८,१.१५ ) मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥ (८,१.१६ ) मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः । (८,१.१६ ) उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥ (८,१.१७ ) उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्। (८,१.१७ ) उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥ (८,१.१८ ) अयं देवा इहैवास्त्वयं मामुत्र गादितः । (८,१.१८ ) इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥ (८,१.१९ ) उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः । (८,१.१९ ) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥ (८,१.२० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः । (८,१.२० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥ (८,१.२१ ) व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। (८,१.२१ ) अप त्वन् मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२} (८,२.१ ) आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते । (८,२.१ ) असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥ (८,२.२ ) जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय । (८,२.२ ) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥ (८,२.३ ) वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव । (८,२.३ ) यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥ (८,२.४ ) प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि । (८,२.४ ) नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥ (८,२.५ ) अयं जीवतु मा मृतेमं समीरयामसि । (८,२.५ ) कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥ (८,२.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् । (८,२.६ ) त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥ (८,२.७ ) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु । (८,२.७ ) भवाशर्वौ मृडतं शर्म यछतमपसिध्य दुरितं धत्तमायुः ॥७॥ (८,२.८ ) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु । (८,२.८ ) अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥ (८,२.९ ) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् । (८,२.९ ) आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥ (८,२.१० ) यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् । (८,२.१० ) पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३} (८,२.११ ) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति । (८,२.११ ) वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥ (८,२.१२ ) आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् । (८,२.१२ ) रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥ (८,२.१३ ) अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः । (८,२.१३ ) यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥ (८,२.१४ ) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ । (८,२.१४ ) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे । (८,२.१४ ) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥ (८,२.१५ ) शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि । (८,२.१५ ) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥ (८,२.१६ ) यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् । (८,२.१६ ) शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥ (८,२.१७ ) यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु । (८,२.१७ ) शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥ (८,२.१८ ) शिवौ ते स्तां व्रीहियवावबलासावदोमधौ । (८,२.१८ ) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥ (८,२.१९ ) यदश्नासि यत्पिबसि धान्यं कृष्याः पयः । (८,२.१९ ) यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥ (८,२.२० ) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि । (८,२.२० ) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४} (८,२.२१ ) शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः । (८,२.२१ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥ (८,२.२२ ) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि । (८,२.२२ ) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥ (८,२.२३ ) मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् । (८,२.२३ ) तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥ (८,२.२४ ) सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः । (८,२.२४ ) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥ (८,२.२५ ) सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः । (८,२.२५ ) यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥ (८,२.२६ ) परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः । (८,२.२६ ) अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥ (८,२.२७ ) ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः । (८,२.२७ ) मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥ (८,२.२८ ) अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा । (८,२.२८ ) अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५} (८,३.१ ) रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म । (८,३.१ ) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥ (८,३.२ ) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः । (८,३.२ ) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥ (८,३.३ ) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च । (८,३.३ ) उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥ (८,३.४ ) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । (८,३.४ ) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥ (८,३.५ ) यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । (८,३.५ ) उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥ (८,३.६ ) यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः । (८,३.६ ) ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥ (८,३.७ ) उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् । (८,३.७ ) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥ (८,३.८ ) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति । (८,३.८ ) तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥ (८,३.९ ) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । (८,३.९ ) हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥ (८,३.१० ) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा । (८,३.१० ) तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६} (८,३.११ ) त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति । (८,३.११ ) तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥ (८,३.१२ ) यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः । (८,३.१२ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥ (८,३.१३ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । (८,३.१३ ) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥ (८,३.१४ ) पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः । (८,३.१४ ) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥ (८,३.१५ ) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः । (८,३.१५ ) यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥ (८,३.१६ ) विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः । (८,३.१६ ) परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥ (८,३.१७ ) संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः । (८,३.१७ ) पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥ (८,३.१८ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः । (८,३.१८ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥ (८,३.१९ ) त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्। (८,३.१९ ) प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥ (८,३.२० ) पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने । (८,३.२० ) सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७} (८,३.२१ ) तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् । (८,३.२१ ) अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥ (८,३.२२ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि । (८,३.२२ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥ (८,३.२३ ) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि । (८,३.२३ ) अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥ (८,३.२४ ) वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । (८,३.२४ ) प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥ (८,३.२५ ) ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते । (८,३.२५ ) ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् । (८,३.२५ ) प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥ (८,३.२६ ) अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः । (८,३.२६ ) शुचिः पावक ईड्यः ॥२६॥ {८} (८,४.१ ) इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः । (८,४.१ ) परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥ (८,४.२ ) इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव । (८,४.२ ) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥ (८,४.३ ) इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् । (८,४.३ ) यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥ (८,४.४ ) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् । (८,४.४ ) उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥ (८,४.५ ) इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः । (८,४.५ ) तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥ (८,४.६ ) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना । (८,४.६ ) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥ (८,४.७ ) प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः । (८,४.७ ) इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥ (८,४.८ ) यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः । (८,४.८ ) आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥ (८,४.९ ) ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः । (८,४.९ ) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेरुपष्ठे ॥९॥ (८,४.१० ) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् । (८,४.१० ) रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९} (८,४.११ ) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः । (८,४.११ ) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥ (८,४.१२ ) सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते । (८,४.१२ ) तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यसत्॥१२॥ (८,४.१३ ) न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । (८,४.१३ ) हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥ (८,४.१४ ) यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने । (८,४.१४ ) किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥१४॥ (८,४.१५ ) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य । (८,४.१५ ) अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥ (८,४.१६ ) यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह । (८,४.१६ ) इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥ (८,४.१७ ) प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना । (८,४.१७ ) वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥ (८,४.१८ ) वि तिष्ठध्वं मरुतो विक्ष्विछत गृभायत रक्षसः सं पिनष्टन् । (८,४.१८ ) वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥ (८,४.१९ ) प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि । (८,४.१९ ) प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥ (८,४.२० ) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् । (८,४.२० ) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०} (८,४.२१ ) इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् । (८,४.२१ ) अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥ (८,४.२२ ) उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् । (८,४.२२ ) सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥ (८,४.२३ ) मा नो रक्षो अभि नड्यातुमावदपोछन्तु मिथुना ये किमीदिनः । (८,४.२३ ) पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥ (८,४.२४ ) इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् । (८,४.२४ ) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥ (८,४.२५ ) प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् । (८,४.२५ ) रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११} (८,५.१ ) अयं प्रतिसरो मणिर्वीरो वीराय बध्यते । (८,५.१ ) वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥ (८,५.२ ) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः । (८,५.२ ) प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥ (८,५.३ ) अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी । (८,५.३ ) अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥ (८,५.४ ) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । (८,५.४ ) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥ (८,५.५ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः । (८,५.५ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥ (८,५.६ ) अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् । (८,५.६ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥ (८,५.७ ) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते । (८,५.७ ) सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥ (८,५.८ ) स्राक्त्येन मणिना ऋषिणेव मनीषिणा । (८,५.८ ) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥ (८,५.९ ) याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः । (८,५.९ ) कृत्याः स्वयंकृता या उ चान्येभिराभृताः । (८,५.९ ) उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥ (८,५.१० ) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः । (८,५.१० ) प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२} (८,५.११ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव । (८,५.११ड्) यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥ (८,५.१२ ) स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा । (८,५.१२ ) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥ (८,५.१३ ) नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः । (८,५.१३ ) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥ (८,५.१४ ) कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्। (८,५.१४ ) अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्। (८,५.१४ ) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥ (८,५.१५ ) यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति । (८,५.१५ ) प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥ (८,५.१६ ) अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः । (८,५.१६ ) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥ (८,५.१७ ) असपत्नं नो अधरादसपत्नं न उत्तरात्। (८,५.१७ ) इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥ (८,५.१८ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । (८,५.१८ ) वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥ (८,५.१९ ) ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे । (८,५.१९ ) तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥ (८,५.२० ) आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये । (८,५.२० ) इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥ (८,५.२१ ) अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् । (८,५.२१ ) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥ (८,५.२२ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । (८,५.२२ ) इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः । (८,५.२२ ) सोमपा अभयङ्करो वृषा । (८,६.१ ) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ । (८,६.१ ) दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥ (८,६.२ ) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् । (८,६.२ ) आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥ (८,६.३ ) मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा । (८,६.३ ) कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥ (८,६.४ ) दुर्णामा च सुनामा चोभा सम्वृतमिछतः । (८,६.४ ) अरायान् अप हन्मः सुनामा स्त्रैणमिछताम् ॥४॥ (८,६.५ ) यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः । (८,६.५ ) अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥ (८,६.६ ) अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् । (८,६.६ ) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥ (८,६.७ ) यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च । (८,६.७ ) बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥ (८,६.८ ) यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् । (८,६.८ ) छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥ (८,६.९ ) यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् । (८,६.९ ) तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥ (८,६.१० ) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः । (८,६.१० ) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः । (८,६.१० ) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४} (८,६.११ ) ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति । (८,६.११ ) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥ (८,६.१२ ) ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः । (८,६.१२ ) अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥ (८,६.१३ ) य आत्मानमतिमात्रमंस आधाय बिभ्रति । (८,६.१३ ) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥ (८,६.१४ ) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः । (८,६.१४ ) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥ (८,६.१५ ) येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा । (८,६.१५ ) खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः । (८,६.१५ ) तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥ (८,६.१६ ) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः । (८,६.१६ ) अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥ (८,६.१७ ) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् । (८,६.१७ ) उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् । (८,६.१७ ) पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥ (८,६.१८ ) यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते । (८,६.१८ ) पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥ (८,६.१९ ) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते । (८,६.१९ ) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥ (८,६.२० ) परिसृष्टं धरयतु यद्धितं माव पादि तत्। (८,६.२० ) गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५} (८,६.२१ ) पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्। (८,६.२१ ) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥ (८,६.२२ ) द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः । (८,६.२२ ) वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥ (८,६.२३ ) य आमं मांसमदन्ति पौरुषेयं च ये क्रविः । (८,६.२३ ) गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥ (८,६.२४ ) ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि । (८,६.२४ ) बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥ (८,६.२५ ) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् । (८,६.२५ ) आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥ (८,६.२६ ) अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् । (८,६.२६ ) वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६} (८,७.१ ) या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः । (८,७.१ ) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥ (८,७.२ ) त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि । (८,७.२ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥ (८,७.३ ) आपो अग्रं दिव्या ओषधयः । (८,७.३ ) तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥ (८,७.४ ) प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि । (८,७.४ ) अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥ (८,७.५ ) यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् । (८,७.५ ) तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥ (८,७.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् । (८,७.६ ) अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥ (८,७.७ ) इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम । (८,७.७ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥ (८,७.८ ) अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः । (८,७.८ ) ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥ (८,७.९ ) अवकोल्बा उदकात्मान ओषधयः । (८,७.९ ) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥ (८,७.१० ) उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषनीः । (८,७.१० ) अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७} (८,७.११ ) अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः । (८,७.११ ) त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥ (८,७.१२ ) मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव । (८,७.१२ ) मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥ (८,७.१३ ) यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः । (८,७.१३ ) ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥ (८,७.१४ ) वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः । (८,७.१४ ) अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥ (८,७.१५ ) सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः । (८,७.१५ ) गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥ (८,७.१६ ) मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि । (८,७.१६ ) भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥ (८,७.१७ ) या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च । (८,७.१७ ) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥ (८,७.१८ ) याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा । (८,७.१८ ) अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥ (८,७.१९ ) सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम । (८,७.१९ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥ (८,७.२० ) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । (८,७.२० ) व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८} (८,७.२१ ) उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः । (८,७.२१ ) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥ (८,७.२२ ) तस्यामृतस्येमं बलं पुरुषं पययामसि । (८,७.२२ ) अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥ (८,७.२३ ) वराहो वेद वीरुधं नकुलो वेद भेषजीम् । (८,७.२३ ) सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥ (८,७.२४ ) याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः । (८,७.२४ ) वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः । (८,७.२४ ) मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥ (८,७.२५ ) यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः । (८,७.२५ ) तावतीस्तुभ्यमोषधीः शर्म यछन्त्वाभृताः ॥२५॥ (८,७.२६ ) यावतीषु मनुष्या भेषजं भिषजो विदुः । (८,७.२६ ) तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥ (८,७.२७ ) पुष्पवतीः प्रसूमतीः फलिनीरफला उत । (८,७.२७ ) संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥ (८,७.२८ ) उत्त्वाहार्षं पञ्चशलादथो दशशलादुत । (८,७.२८ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९} (८,८.१ ) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः । (८,८.१ ) यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥ (८,८.२ ) पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् । (८,८.२ ) धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥ (८,८.३ ) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् । (८,८.३ ) ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥ (८,८.४ ) परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः । (८,८.४ ) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥ (८,८.५ ) अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः । (८,८.५ ) तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥ (८,८.६ ) बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः । (८,८.६ ) तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥ (८,८.७ ) बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य । (८,८.७ ) तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥ (८,८.८ ) अयं लोको जालमासीच्छक्रस्य महतो महान् । (८,८.८ ) तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥ (८,८.९ ) सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना । (८,८.९ ) श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥ (८,८.१० ) मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः । (८,८.१० ) मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०} (८,८.११ ) नयतामून् मृत्युदूता यमदूता अपोम्भत । (८,८.११ ) परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥ (८,८.१२ ) साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा । (८,८.१२ ) रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥ (८,८.१३ ) विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा । (८,८.१३ ) मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥ (८,८.१४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः । (८,८.१४ ) द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥ (८,८.१५ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् । (८,८.१५ ) दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥ (८,८.१६ ) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे । (८,८.१६ ) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥ (८,८.१७ ) घर्मः समिद्धो अग्निनायं होमः सहस्रहः । (८,८.१७ ) भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥ (८,८.१८ ) मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् । (८,८.१८ ) इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥ (८,८.१९ ) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा । (८,८.१९ ) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥ (८,८.२० ) अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् । (८,८.२० ) अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥ (८,८.२१ ) सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः । (८,८.२१ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥ (८,८.२२ ) दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षमुद्धिः । (८,८.२२ ) द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥ (८,८.२३ ) संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् । (८,८.२३ ) इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥ (८,८.२४ ) इतो जयेतो वि जय सं जय जय स्वाहा । (८,८.२४ ) इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः । (८,८.२४ ) नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१} (८,९.१ ) कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः । (८,९.१ ) वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥ (८,९.२ ) यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः । (८,९.२ ) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥ (८,९.३ ) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् । (८,९.३ ) ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥ (८,९.४ ) बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता । (८,९.४ ) बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥ (८,९.५ ) बृहती परि मात्राया मातुर्मात्राधि निर्मिता । (८,९.५ ) माया ह जज्ञे मायाया मायाया मातली परि ॥५॥ (८,९.६ ) वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः । (८,९.६ ) ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥ (८,९.७ ) षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च । (८,९.७ ) विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥ (८,९.८ ) यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् । (८,९.८ ) यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥ (८,९.९ ) अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्। (८,९.९ ) विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥ (८,९.१० ) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः । (८,९.१० ) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२} (८,९.११ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा । (८,९.११ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥ (८,९.१२ ) छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे । (८,९.१२ ) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥ (८,९.१३ ) ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः । (८,९.१३ ) प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥ (८,९.१४ ) अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः । (८,९.१४ ) गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥ (८,९.१५ ) पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । (८,९.१५ ) पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥ (८,९.१६ ) षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति । (८,९.१६ ) षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥ (८,९.१७ ) षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः । (८,९.१७ ) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥ (८,९.१८ ) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त । (८,९.१८ ) सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥ (८,९.१९ ) सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि । (८,९.१९ ) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥ (८,९.२० ) कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते । (८,९.२० ) त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३} (८,९.२१ ) अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये । (८,९.२१ ) अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥ (८,९.२२ ) इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा । (८,९.२२ ) समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥ (८,९.२३ ) अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा । (८,९.२३ ) अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥ (८,९.२४ ) केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना । (८,९.२४ ) अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यामसुरान् उत ऋषीन् ॥२४॥ (८,९.२५ ) को नु गौः क एकऋषिः किमु धाम का आशिषः । (८,९.२५ ) यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥ (८,९.२६ ) एको गौरेक एकऋषिरेकं धामैकधाशिषः । (८,९.२६ ) यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४} (८,१०.१ ) विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥ (८,१०.२ ) सोदक्रामत्सा गार्हपत्ये न्यक्रामत्। (८,१०.२ ) गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥ (८,१०.३ ) सोदक्रामत्साहवनीये न्यक्रामत्। (८,१०.३ ) यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥ (८,१०.४ ) सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्। (८,१०.४ ) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥ (८,१०.५ ) सोदक्रामत्सा सभायां न्यक्रामत्। (८,१०.५ ) यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥ (८,१०.६ ) सोदक्रामत्सा समितौ न्यक्रामत्। (८,१०.६ ) यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥ (८,१०.७ ) सोदक्रामत्सामन्त्रणे न्यक्रामत्। (८,१०.७ ) यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५} (८,१०.८ ) सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥ (८,१०.९ ) तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥ (८,१०.१० ) तामुपाह्वयन्त ॥१०॥ (८,१०.११ ) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥ (८,१०.१२ ) तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥ (८,१०.१३ ) बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥ (८,१०.१४ ) ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥ (८,१०.१५ ) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥ (८,१०.१६ ) ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥ (८,१०.१७ ) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६} (८,१०.१८ ) सोदक्रामत्सा वनस्पतीन् आगछत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्। (८,१०.१८ ) तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥ (८,१०.१९ ) सोदक्रामत्सा पितॄन् आगछत्तां पितरोऽघ्नत सा मासि समभवत्। (८,१०.१९ ) तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥ (८,१०.२० ) सोदक्रामत्सा देवान् आगछत्तां देवा अघ्नत सार्धमासे समभवत्। (८,१०.२० ) तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥ (८,१०.२१ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या अघ्नत सा सद्यः समभवत्। (८,१०.२१ ) तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७} (८,१०.२२ ) सोदक्रामत्सासुरान् आगछत्तामसुरा उपाह्वयन्त माय एहीति । (८,१०.२२ ) तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् । (८,१०.२२ ) तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥ (८,१०.२२ ) तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥ (८,१०.२३ ) सोदक्रामत्सा पितॄन् आगछत्तां पितर उपाह्वयन्त स्वध एहीति । (८,१०.२३ ) तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् । (८,१०.२३ ) तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्। (८,१०.२३ ) तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥ (८,१०.२४ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या उपाह्वयन्तेरावत्येहीति । (८,१०.२४ ) तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् । (८,१०.२४ ) तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्। (८,१०.२४ ) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥ (८,१०.२५ ) सोदक्रामत्सा सप्तऋषीन् आगछत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति । (८,१०.२५ ) तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् । (८,१०.२५ ) तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्। (८,१०.२५ ) तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८} (८,१०.२६ ) सोदक्रामत्सा देवान् आगछत्तां देवा उपाह्वयन्तोर्ज एहीति । (८,१०.२६ ) तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् । (८,१०.२६ ) तां देवः सविताधोक्तामूर्जामेवाधोक्। (८,१०.२६ ) तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥ (८,१०.२७ ) सोदक्रामत्सा गन्धर्वाप्सरस आगछत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति । (८,१०.२७ ) तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् । (८,१०.२७ ) तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्। (८,१०.२७ ) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥ (८,१०.२८ ) सोदक्रामत्सेतरजनान् आगछत्तामितरजना उपाह्वयन्त तिरोध एहीति । (८,१०.२८ ) तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् । (८,१०.२८ ) तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्। (८,१०.२८ ) तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥ (८,१०.२९ ) सोदक्रामत्सा सर्पान् आगछत्तां सर्पा उपाह्वयन्त विषवत्येहीति । (८,१०.२९ ) तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् । (८,१०.२९ ) तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्। (८,१०.२९ ) तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९} (८,१०.३० ) तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥ (८,१०.३१ ) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥ (८,१०.३२ ) यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥ (८,१०.३३ ) विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०} (९,१.१ ) दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे । (९,१.१ ) तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥ (९,१.२ ) महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः । (९,१.२ ) यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥ (९,१.३ ) पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः । (९,१.३ ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥ (९,१.४ ) मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः । (९,१.४ ) हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥ (९,१.५ ) मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः । (९,१.५ ) तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥ (९,१.६ ) कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः । (९,१.६ ) ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥ (९,१.७ ) स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ । (९,१.७ ) ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥ (९,१.८ ) हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् । (९,१.८ ) त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥ (९,१.९ ) यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः । (९,१.९ ) ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥ (९,१.१० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि । (९,१.१० ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१} (९,१.११ ) यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः । (९,१.११ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥ (९,१.१२ ) यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः । (९,१.१२ ) एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥ (९,१.१३ ) यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः । (९,१.१३ ) एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥ (९,१.१४ ) मधु जनिषीय मधु वंसिषीय । (९,१.१४ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥ (९,१.१५ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (९,१.१५ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥ (९,१.१६ ) यथा मधु मधुकृतः संभरन्ति मधावधि । (९,१.१६ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥ (९,१.१७ ) यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि । (९,१.१७ ) एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥ (९,१.१८ ) यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु । (९,१.१८ ) सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥ (९,१.१९ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती । (९,१.१९ ) यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥ (९,१.२० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि । (९,१.२० ) तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥ (९,१.२१ ) पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥ (९,१.२२ ) यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति । (९,१.२२ ) ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥ (९,१.२३ ) मधुमान् भवति मधुमदस्याहार्यं भवति । (९,१.२३ ) मधुमतो लोकान् जयति य एवं वेद ॥२३॥ (९,१.२४ ) यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति । (९,१.२४ ) तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति । (९,१.२४ ) अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२} (९,२.१ ) सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन । (९,२.१ ) नीचैः सपत्नान् मम पदय त्वमभिष्टुतो महता वीर्येण ॥१॥ (९,२.२ ) यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति । (९,२.२ ) तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥ (९,२.३ ) दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् । (९,२.३ ) उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥ (९,२.४ ) नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः । (९,२.४ ) तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥ (९,२.५ ) सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् । (९,२.५ ) तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥ (९,२.६ ) कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन । (९,२.६ ) अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥ (९,२.७ ) अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव । (९,२.७ ) विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥ (९,२.८ ) इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् । (९,२.८ ) कृण्वन्तो मह्यमसपत्नमेव ॥८॥ (९,२.९ ) इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः । (९,२.९ ) तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥ (९,२.१० ) जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् । (९,२.१० ) निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३} (९,२.११ ) अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् । (९,२.११ ) मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥ (९,२.१२ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। (९,२.१२ ) न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥ (९,२.१३ ) अग्निर्यव इन्द्रो यवः सोमो यवः । (९,२.१३ ) यवयावानो देवा यवयन्त्वेनम् ॥१३॥ (९,२.१४ ) असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् । (९,२.१४ ) उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥ (९,२.१५ ) च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् । (९,२.१५ ) उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥ (९,२.१६ ) यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् । (९,२.१६ ) तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥ (९,२.१७ ) येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय । (९,२.१७ ) तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥ (९,२.१८ ) यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे । (९,२.१८ ) तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥ (९,२.१९ ) कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः । (९,२.१९ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥ (९,२.२० ) यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः । (९,२.२० ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४} (९,२.२१ ) यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः । (९,२.२१ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥ (९,२.२२ ) यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः । (९,२.२२ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥ (९,२.२३ ) ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो । (९,२.२३ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥ (९,२.२४ ) न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः । (९,२.२४ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥ (९,२.२५ ) यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे । (९,२.२५ ) ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५} (९,३.१ ) उपमितां प्रतिमितामथो परिमितामुत । (९,३.१ ) शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥ (९,३.२ ) यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः । (९,३.२ ) बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥ (९,३.३ ) आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् । (९,३.३ ) परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥ (९,३.४ ) वंशानां ते नहनानां प्राणाहस्य तृणस्य च । (९,३.४ ) पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥ (९,३.५ ) संदंशानां पलदानां परिष्वञ्जल्यस्य च । (९,३.५ ) इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥ (९,३.६ ) यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् । (९,३.६ ) प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥ (९,३.७ ) हविर्धानमग्निशालं पत्नीनां सदनं सदः । (९,३.७ ) सदो देवानामसि देवि शाले ॥७॥ (९,३.८ ) अक्षुमोपशं विततं सहस्राक्षं विषूवति । (९,३.८ ) अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥ (९,३.९ ) यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् । (९,३.९ ) उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥ (९,३.१० ) अमुत्रैनमा गछताद्दृढा नद्धा परिष्कृता । (९,३.१० ) यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६} (९,३.११ ) यस्त्वा शाले निमिमाय संजभार वनस्पतीन् । (९,३.११ ) प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥ (९,३.१२ ) नमस्तस्मै नमो दात्रे शालापतये च कृण्मः । (९,३.१२ ) नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥ (९,३.१३ ) गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते । (९,३.१३ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥ (९,३.१४ ) अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह । (९,३.१४ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥ (९,३.१५ ) अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् । (९,३.१५ ) यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः । (९,३.१५ ) तेन शालां प्रति गृह्णामि तस्मै ॥१५॥ (९,३.१६ ) ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता । (९,३.१६ ) विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥ (९,३.१७ ) तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी । (९,३.१७ ) मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥ (९,३.१८ ) इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् । (९,३.१८ ) वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥ (९,३.१९ ) ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् । (९,३.१९ ) इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥ (९,३.२० ) कुलायेऽधि कुलायं कोशे कोशः समुब्जितः । (९,३.२० ) तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७} (९,३.२१ ) या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते । (९,३.२१ ) अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥ (९,३.२२ ) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् । (९,३.२२ ) अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥ (९,३.२३ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः । (९,३.२३ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥ (९,३.२४ ) मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव । (९,३.२४ ) वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥ (९,३.२५ ) प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥ (९,३.२६ ) दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥ (९,३.२७ ) प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥ (९,३.२८ ) उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥ (९,३.२९ ) ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥ (९,३.३० ) ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥ (९,३.३१ ) दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८} (९,४.१ ) साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्। (९,४.१ ) भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥ (९,४.२ ) अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । (९,४.२ ) पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥ (९,४.३ ) पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति । (९,४.३ ) तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥ (९,४.४ ) पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् । (९,४.४ ) वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥ (९,४.५ ) देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य । (९,४.५ ) सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥ (९,४.६ ) सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् । (९,४.६ ) शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यछ या अमूः ॥६॥ (९,४.७ ) आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः । (९,४.७ ) इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥ (९,४.८ ) इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। (९,४.८ ) बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥ (९,४.९ ) दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः । (९,४.९ ) सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥ (९,४.१० ) बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः । (९,४.१० ) अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९} (९,४.११ ) य इन्द्र इव देवेषु गोष्वेति विवावदत्। (९,४.११ ) तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥ (९,४.१२ ) पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ । (९,४.१२ ) अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥ (९,४.१३ ) भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः । (९,४.१३ ) पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥ (९,४.१४ ) गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् । (९,४.१४ ) उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥ (९,४.१५ ) क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः । (९,४.१५ ) देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥ (९,४.१६ ) ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् । (९,४.१६ ) ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥ (९,४.१७ ) शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा । (९,४.१७ ) शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥ (९,४.१८ ) शतयाजं स यजते नैनं दुन्वन्त्यग्नयः । (९,४.१८ ) जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥ (९,४.१९ ) ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः । (९,४.१९ ) पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥ (९,४.२० ) गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् । (९,४.२० ) तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥ (९,४.२१ ) अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् । (९,४.२१ ) अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥ (९,४.२२ ) पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् । (९,४.२२ ) आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥ (९,४.२३ ) उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः । (९,४.२३ ) उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥ (९,४.२४ ) एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु । (९,४.२४ ) मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०} (९,५.१ ) आ नयैतमा रभस्व सुकृतां लोकमपि गछतु प्रजानन् । (९,५.१ ) तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥ (९,५.२ ) इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् । (९,५.२ ) ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥ (९,५.३ ) प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् । (९,५.३ ) तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥ (९,५.४ ) अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः । (९,५.४ ) माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥ (९,५.५ ) ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् । (९,५.५ ) पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥५॥ (९,५.६ ) उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् । (९,५.६ ) अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥ (९,५.७ ) अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः । (९,५.७ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥ (९,५.८ ) पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि । (९,५.८ ) ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥ (९,५.९ ) अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः । (९,५.९ ) पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥ (९,५.१० ) अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति । (९,५.१० ) पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११} (९,५.११ ) एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति । (९,५.११ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥ (९,५.१२ ) ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति । (९,५.१२ ) स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥ (९,५.१३ ) अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्। (९,५.१३ ) इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥ (९,५.१४ ) अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् । (९,५.१४ ) तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥ (९,५.१५ ) एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः । (९,५.१५ ) स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥ (९,५.१६ ) अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् । (९,५.१६ ) तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥ (९,५.१७ ) येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । (९,५.१७ ) तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥ (९,५.१८ ) अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः । (९,५.१८ ) तेन लोकान्त्सूर्यवतो जयेम ॥१८॥ (९,५.१९ ) यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य । (९,५.१९ ) सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥ (९,५.२० ) अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् । (९,५.२० ) अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२} (९,५.२१ ) सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः । (९,५.२१ ) एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥ (९,५.२२ ) अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे । (९,५.२२ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥ (९,५.२३ ) नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्। (९,५.२३ ) सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥ (९,५.२४ ) इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति । (९,५.२४ ) इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥ (९,५.२५ ) पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति । (९,५.२५ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥ (९,५.२६ ) पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति । (९,५.२६ ) स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥ (९,५.२७ ) या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् । (९,५.२७ ) पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥ (९,५.२८ ) समानलोको भवति पुनर्भुवापरः पतिः । (९,५.२८ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥ (९,५.२९ ) अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् । (९,५.२९ ) वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥ (९,५.३० ) आत्मानं पितरं पुत्रं पौत्रं पितामहम् । (९,५.३० ) जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३} (९,५.३१ ) यो वै नैदाघं नाम र्तुं वेद । (९,५.३१ ) एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः । (९,५.३१ ) निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना । (९,५.३२ ) यो वै कुर्वन्तं नाम र्तुं वेद । (९,५.३२ ) कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३२ ) एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३३ ) यो वै संयन्तं नाम र्तुं वेद । (९,५.३३ ) संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३३ ) एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३४ ) यो वै पिन्वन्तं नाम र्तुं वेद । (९,५.३४ ) पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३४ ) एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३५ ) यो वा उद्यन्तं नाम र्तुं वेद । (९,५.३५ ) उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३५ ) एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः । (९,५.३६ ) यो वा अभिभुवं नाम र्तुं वेद । (९,५.३६ ) अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते । (९,५.३६ ) एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः । (९,५.३७ ) अजं च पचत पञ्च चौदनान् । (९,५.३७ ) सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥ (९,५.३८ ) तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४} (९,६.१ ) यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥ (९,६.२ ) सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥ (९,६.३ ) यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥ (९,६.४ ) यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥ (९,६.५ ) या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥ (९,६.६ ) यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥ (९,६.७ ) यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥ (९,६.८ ) यदुपस्तृणन्ति बर्हिरेव तत्॥८॥ (९,६.९ ) यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥ (९,६.१० ) यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥ (९,६.११ ) यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥ (९,६.१२ ) यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोदाशावेव तौ ॥१२॥ (९,६.१३ ) यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥ (९,६.१४ ) ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥ (९,६.१५ ) यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥ (९,६.१६ ) शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥ (९,६.१७ ) स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥ {१५} (९,६.१८ ) यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥ (९,६.१९ ) यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥ (९,६.२० ) उप हरति हवींष्या सादयति ॥२०॥ (९,६.२१ ) तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥ (९,६.२२ ) स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥ (९,६.२३ ) एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥ (९,६.२४ ) स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥ (९,६.२५ ) सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥ (९,६.२६ ) सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥ (९,६.२७ ) सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥ (९,६.२८ ) प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥ (९,६.२९ ) प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥ (९,६.३० ) योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६} (९,६.३१ ) इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥ (९,६.३२ ) पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥ (९,६.३३ ) ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥ (९,६.३४ ) प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥ (९,६.३५ ) कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥ (९,६.३६ ) श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥ (९,६.३७ ) एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥ (९,६.३८ ) अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥३८॥ (९,६.३९ ) एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७} (९,६.४० ) स य एवं विद्वान् क्षीरमुपसिच्योपहरति । (९,६.४० ) यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥ (९,६.४१ ) स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति । (९,६.४१ ) यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥ (९,६.४२ ) स य एवं विद्वान् मधूपसिच्योपहरति । (९,६.४२ ) यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥ (९,६.४३ ) स य एवं विद्वान् मांसमुपसिच्योपहरति । (९,६.४३ ) यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥ (९,६.४४ ) स य एवं विद्वान् उदकमुपसिच्योपहरति । (९,६.४४ ) प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८} (९,६.४५ ) तस्मा उषा हिङ्कृणोति सविता प्र स्तौति । (९,६.४५ ) बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥ (९,६.४५ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥ (९,६.४६ ) तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति । (९,६.४६ ) मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् । (९,६.४६ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥ (९,६.४७ ) तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति । (९,६.४७ ) विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् । (९,६.४७ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥ (९,६.४८ ) अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति । (९,६.४८ ) उप हरति प्रति हरत्युच्छिष्टं निधनम् । (९,६.४८ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९} (९,६.४८ ) यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥४९॥ (९,६.५० ) यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥५०॥ (९,६.५१ ) यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥ (९,६.५२ ) तेषां न कश्चनाहोता ॥५२॥ (९,६.५३ ) यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५३॥ (९,६.५४ ) यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥५४॥ (९,६.५५ ) स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥५५॥ (९,६.५६ ) स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५६॥ (९,६.५७ ) स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५७॥ (९,६.५८ ) स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५८॥ (९,६.५९ ) स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५९॥ (९,६.६० ) स उपहूत उपहूतः ॥६०॥ (९,६.६१ ) आप्नोतीमं लोकमाप्नोत्यमुम् ॥६१॥ (९,६.६२ ) ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ {२०} (९,७.१ ) प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥ (९,७.२ ) सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥ (९,७.३ ) विद्युज्जिह्वा मरुतो दन्ता रेवतिर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥ (९,७.४ ) विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥ (९,७.५ ) श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥ (९,७.६ ) देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥ (९,७.७ ) मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥ (९,७.८ ) इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥ (९,७.९ ) ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥ (९,७.१० ) धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥ (९,७.११ ) चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥ (९,७.१२ ) क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥ (९,७.१३ ) क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥ (९,७.१४ ) नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥ (९,७.१५ ) विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥ (९,७.१६ ) देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥ (९,७.१७ ) रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥ (९,७.१८ ) अभ्रं पीबो मज्जा निधनम् ॥१८॥ (९,७.१९ ) अग्निरासीन उत्थितोऽश्विना ॥१९॥ (९,७.२० ) इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥ (९,७.२१ ) प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥ (९,७.२२ ) तृणानि प्राप्तः सोमो राजा ॥२२॥ (९,७.२३ ) मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥ (९,७.२४ ) युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥ (९,७.२५ ) एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥ (९,७.२६ ) उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१} (९,८.१ ) शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् । (९,८.१ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥ (९,८.२ ) कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् । (९,८.२ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥ (९,८.३ ) यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः । (९,८.३ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥ (९,८.४ ) यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् । (९,८.४ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥ (९,८.५ ) अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् । (९,८.५ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥ (९,८.६ ) यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् । (९,८.६ ) तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥ (९,८.७ ) य ऊरू अनुसर्पत्यथो एति गवीनिके । (९,८.७ ) यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥ (९,८.८ ) यदि कामादपकामाद्धृदयाज्जायते परि । (९,८.८ ) हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥ (९,८.९ ) हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्। (९,८.९ ) यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥ (९,८.१० ) आसो बलासो भवतु मूत्रं भवत्वामयत्। (९,८.१० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२} (९,८.११ ) बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। (९,८.११ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥ (९,८.१२ ) उदरात्ते क्लोम्नो नाभ्या हृदयादधि । (९,८.१२ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥ (९,८.१३ ) याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः । (९,८.१३ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥ (९,८.१४ ) या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः । (९,८.१४ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥ (९,८.१५ ) याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः । (९,८.१५ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥ (९,८.१६ ) यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते । (९,८.१६ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥ (९,८.१७ ) या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च । (९,८.१७ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥ (९,८.१८ ) या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च । (९,८.१८ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥ (९,८.१९ ) ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव । (९,८.१९ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥ (९,८.२० ) विसल्पस्य विद्रधस्य वातीकारस्य वालजेः । (९,८.२० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥ (९,८.२१ ) पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः । (९,८.२१ ) अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥ (९,८.२२ ) सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः । (९,८.२२ ) उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३} (९,९.१ ) अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । (९,९.१ ) तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥ (९,९.२ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । (९,९.२ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥ (९,९.३ ) इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः । (९,९.३ ) सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥ (९,९.४ ) को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति । (९,९.४ ) भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥ (९,९.५ ) इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः । (९,९.५ ) शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥ (९,९.६ ) पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि । (९,९.६ ) वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥ (९,९.७ ) अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् । (९,९.७ ) वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥ (९,९.८ ) माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे । (९,९.८ ) सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥ (९,९.९ ) युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः । (९,९.९ ) अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥ (९,९.१० ) तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त । (९,९.१० ) मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४} (९,९.११ ) पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा । (९,९.११ ) तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥ (९,९.१२ ) पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । (९,९.१२ ) अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥ (९,९.१३ ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । (९,९.१३ ) आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥ (९,९.१४ ) सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति । (९,९.१४ ) सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥ (९,९.१५ ) स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः । (९,९.१५ ) कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥ (९,९.१६ ) साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति । (९,९.१६ ) तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥ (९,९.१७ ) अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्। (९,९.१७ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥ (९,९.१८ ) अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण । (९,९.१८ ) कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥ (९,९.१९ ) ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः । (९,९.१९ ) इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥ (९,९.२० ) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । (९,९.२० ) तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥ (९,९.२१ ) यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । (९,९.२१ ) तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥ (९,९.२२ ) यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति । (९,९.२२ ) एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५} (९,१०.१ ) यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत । (९,१०.१ ) यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥ (९,१०.२ ) गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । (९,१०.२ ) वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥ (९,१०.३ ) जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्। (९,१०.३ ) गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥ (९,१०.४ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । (९,१०.४ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥ (९,१०.५ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात्। (९,१०.५ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥ (९,१०.६ ) गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ । (९,१०.६ ) सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥ (९,१०.७ ) अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता । (९,१०.७ ) सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥ (९,१०.८ ) अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् । (९,१०.८ ) जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥ (९,१०.९ ) विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार । (९,१०.९ ) देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥ (९,१०.१० ) य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्। (९,१०.१० ) स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिरा विवेश ॥१०॥ {२६} (९,१०.११ ) अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । (९,१०.११ ) स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥ (९,१०.१२ ) द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् । (९,१०.१२ ) उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥ (९,१०.१३ ) पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः । (९,१०.१३ ) पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥ (९,१०.१४ ) इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः । (९,१०.१४ ) अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥ (९,१०.१५ ) न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि । (९,१०.१५ ) यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥ (९,१०.१६ ) अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । (९,१०.१६ ) ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥ (९,१०.१७ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । (९,१०.१७ ) ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥ (९,१०.१८ ) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । (९,१०.१८ ) यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥ (९,१०.१९ ) ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्। (९,१०.१९ ) त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥ (९,१०.२० ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम । (९,१०.२० ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥ {२७} (९,१०.२१ ) गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी । (९,१०.२१ ) अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥ (९,१०.२२ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति । (९,१०.२२ ) तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥ (९,१०.२३ ) अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत । (९,१०.२३ ) गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥ (९,१०.२४ ) विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः । (९,१०.२४ ) विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥ (९,१०.२५ ) शकमयं धूममारादपश्यं विषूवता पर एनावरेण । (९,१०.२५ ) उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥ (९,१०.२६ ) त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । (९,१०.२६ ) विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥ (९,१०.२७ ) चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । (९,१०.२७ ) गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥ (९,१०.२८ ) इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । (९,१०.२८ ) एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥ {२८} (१०,१.१ ) यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः । (१०,१.१ ) सारादेत्वप नुदाम एनाम् ॥१॥ (१०,१.२ ) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा । (१०,१.२ ) सारादेत्वप नुदाम एनाम् ॥२॥ (१०,१.३ ) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता । (१०,१.३ ) जाया पत्या नुत्तेव कर्तारं बन्ध्वृछतु ॥३॥ (१०,१.४ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् । (१०,१.४ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥ (१०,१.५ ) अघमस्त्वघकृते शपथः शपथीयते । (१०,१.५ ) प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥ (१०,१.६ ) प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः । (१०,१.६ ) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥ (१०,१.७ ) यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् । (१०,१.७ ) तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥ (१०,१.८ ) यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया । (१०,१.८ ) तं गछ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥ (१०,१.९ ) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः । (१०,१.९ ) शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥ (१०,१.१० ) यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम । (१०,१.१० ) अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१} (१०,१.११ ) यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः । (१०,१.११ ) संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥ (१०,१.१२ ) देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्। (१०,१.१२ ) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥ (१०,१.१३ ) यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् । (१०,१.१३ ) एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥ (१०,१.१४ ) अप क्राम नानदती विनद्धा गर्दभीव । (१०,१.१४ ) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥ (१०,१.१५ ) अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः । (१०,१.१५ ) तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥ (१०,१.१६ ) पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व । (१०,१.१६ ) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥ (१०,१.१७ ) वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् । (१०,१.१७ ) कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥ (१०,१.१८ ) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः । (१०,१.१८ ) अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥ (१०,१.१९ ) उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् । (१०,१.१९ ) तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥ (१०,१.२० ) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि । (१०,१.२० ) उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेछसि ॥२०॥ {२} (१०,१.२१ ) ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव । (१०,१.२१ ) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥ (१०,१.२२ ) सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥ (१०,१.२३ ) भवाशर्वावस्यतां पापकृते कृत्याकृते । (१०,१.२३ ) दुष्कृते विद्युतं देवहेतिम् ॥२३॥ (१०,१.२४ ) यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा । (१०,१.२४ ) सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥ (१०,१.२५ ) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि । (१०,१.२५ ) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥ (१०,१.२६ ) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय । (१०,१.२६ ) मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥ (१०,१.२७ ) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा । (१०,१.२७ ) उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥ (१०,१.२८ ) एतद्धि शृणु मे वचोऽथेहि यत एयथ । (१०,१.२८ ) यस्त्वा चकार तं प्रति ॥२८॥ (१०,१.२९ ) अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः । (१०,१.२९ ) यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥ (१०,१.३० ) यदि स्थ तमसावृता जालेनभिहिता इव । (१०,१.३० ) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥ (१०,१.३१ ) कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् । (१०,१.३१ ) मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥ (१०,१.३२ ) यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् । (१०,१.३२ ) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३} (१०,२.१ ) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ । (१०,२.१ ) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥ (१०,२.२ ) कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पुरुषस्य । (१०,२.२ ) जङ्घे निरृत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥ (१०,२.३ ) चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् । (१०,२.३ ) श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥ (१०,२.४ ) कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य । (१०,२.४ ) कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥ (१०,२.५ ) को अस्य बाहू समभरद्वीर्यां करवादिति । (१०,२.५ ) अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥ (१०,२.६ ) कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् । (१०,२.६ ) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥ (१०,२.७ ) हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् । (१०,२.७ ) स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥ (१०,२.८ ) मस्तिष्कमस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् । (१०,२.८ ) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥ (१०,२.९ ) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः । (१०,२.९ ) आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥ (१०,२.१० ) आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः । (१०,२.१० ) राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४} (१०,२.११ ) को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः । (१०,२.११ ) तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥ (१०,२.१२ ) को अस्मिन् रूपमदधात्को मह्मानं च नाम च । (१०,२.१२ ) गातुं को अस्मिन् कः केतुं कश्चरित्रानि पुरुषे ॥१२॥ (१०,२.१३ ) को अस्मिन् प्राणमवयत्को अपानं व्यानमु । (१०,२.१३ ) समानमस्मिन् को देवोऽधि शिश्राय पुरुषे ॥१३॥ (१०,२.१४ ) को अस्मिन् यज्ञमदधादेको देवोऽधि पुरुषे । (१०,२.१४ ) को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥ (१०,२.१५ ) को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। (१०,२.१५ ) बलं को अस्मै प्रायछत्को अस्याकल्पयज्जवम् ॥१५॥ (१०,२.१६ ) केनापो अन्वतनुत केनाहरकरोद्रुचे । (१०,२.१६ ) उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥ (१०,२.१७ ) को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति । (१०,२.१७ ) मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥ (१०,२.१८ ) केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् । (१०,२.१८ ) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥ (१०,२.१९ ) केन पर्जन्यमन्वेति केन सोमं विचक्षणम् । (१०,२.१९ ) केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥ (१०,२.२० ) केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् । (१०,२.२० ) केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५} (१०,२.२१ ) ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् । (१०,२.२१ ) ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥ (१०,२.२२ ) केन देवामनु क्षियति केन दैवजनीर्विशः । (१०,२.२२ ) केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥ (१०,२.२३ ) ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः । (१०,२.२३ ) ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥ (१०,२.२४ ) केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता । (१०,२.२४ ) केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥ (१०,२.२५ ) ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता । (१०,२.२५ ) ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥ (१०,२.२६ ) मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। (१०,२.२६ ) मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥ (१०,२.२७ ) तद्वा अथर्वणः शिरो देवकोशः समुब्जितः । (१०,२.२७ ) तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥ (१०,२.२८ ) ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ । (१०,२.२८ ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥ (१०,२.२९ ) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् । (१०,२.२९ ) तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥ (१०,२.३० ) न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा । (१०,२.३० ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥ (१०,२.३१ ) अष्टाचक्रा नवद्वारा देवानां पूरयोध्या । (१०,२.३१ ) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥ (१०,२.३२ ) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते । (१०,२.३२ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥ (१०,२.३३ ) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् । (१०,२.३३ ) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६} (१०,३.१ ) अयं मे वरणो मणिः सपत्नक्षयणो वृषा । (१०,३.१ ) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥ (१०,३.२ ) प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्। (१०,३.२ ) अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥ (१०,३.३ ) अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः । (१०,३.३ ) स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥ (१०,३.४ ) अयं ते कृत्यां विततां पौरुषेयादयं भयात्। (१०,३.४ ) अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥ (१०,३.५ ) वरणो वारयाता अयं देवो वनस्पतिः । (१०,३.५ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥ (१०,३.६ ) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् । (१०,३.६ ) परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥ (१०,३.७ ) अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। (१०,३.७ ) मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥ (१०,३.८ ) यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् । (१०,३.८ ) ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥ (१०,३.९ ) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः । (१०,३.९ ) असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥ (१०,३.१० ) अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः । (१०,३.१० ) तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७} (१०,३.११ ) अयं मे वरण उरसि राजा देवो वनस्पतिः । (१०,३.११ ) स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥ (१०,३.१२ ) इमं बिभर्मि वरणमायुष्मान् छतशारदः । (१०,३.१२ ) स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥ (१०,३.१३ ) यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा । (१०,३.१३ ) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥ (१०,३.१४ ) यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् । (१०,३.१४ ) एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥ (१०,३.१५ ) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः । (१०,३.१५ ) एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय । (१०,३.१५ ) पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥ (१०,३.१६ ) तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः । (१०,३.१६ ) य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥ (१०,३.१७ ) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् । (१०,३.१७ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१७ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥ (१०,३.१८ ) यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि । (१०,३.१८ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१८ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥ (१०,३.१९ ) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि । (१०,३.१९ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.१९ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥ (१०,३.२० ) यथा यशः कन्यायां यथास्मिन्त्संभृते रथे । (१०,३.२० ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२० ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८} (१०,३.२१ ) यथा यशः सोमपीथे मधुपर्के यथा यशः । (१०,३.२१ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२१ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥ (१०,३.२२ ) यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः । (१०,३.२२ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२२ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥ (१०,३.२३ ) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् । (१०,३.२३ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२३ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥ (१०,३.२४ ) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि । (१०,३.२४ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२४ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥ (१०,३.२५ ) यथा देवेष्वमृतं यथैषु सत्यमाहितम् । (१०,३.२५ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु । (१०,३.२५ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९} (१०,४.१ ) इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्। (१०,४.१ ) अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥ (१०,४.२ ) दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः । (१०,४.२ ) रथस्य बन्धुरम् ॥२॥ (१०,४.३ ) अव श्वेत पदा जहि पूर्वेण चापरेण च । (१०,४.३ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥ (१०,४.४ ) अरंघुषो निमज्योन्मज पुनरब्रवीत्। (१०,४.४ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥ (१०,४.५ ) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् । (१०,४.५ ) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥ (१०,४.६ ) पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि । (१०,४.६ ) अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥ (१०,४.७ ) इदं पैद्वो अजायतेदमस्य परायणम् । (१०,४.७ ) इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥ (१०,४.८ ) संयतं न वि ष्परद्व्यात्तं न सं यमत्। (१०,४.८ ) अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥ (१०,४.९ ) अरसास इहाहयो ये अन्ति ये च दूरके । (१०,४.९ ) घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥ (१०,४.१० ) अघाश्वस्येदं भेषजमुभयो स्वजस्य च । (१०,४.१० ) इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०} (१०,४.११ ) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः । (१०,४.११ ) इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥ (१०,४.१२ ) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा । (१०,४.१२ ) जघानेन्द्रो जघ्निमा वयम् ॥१२॥ (१०,४.१३ ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः । (१०,४.१३ ) दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥ (१०,४.१४ ) कैरातिका कुमारिका सका खनति भेषजम् । (१०,४.१४ ) हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥ (१०,४.१५ ) आयमगन् युवा भिषक्पृश्निहापराजितः । (१०,४.१५ ) स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥ (१०,४.१६ ) इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च । (१०,४.१६ ) वातापर्जन्योभा ॥१६॥ (१०,४.१७ ) इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् । (१०,४.१७ ) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥ (१०,४.१८ ) इन्द्रो जघान प्रथमं जनितारमहे तव । (१०,४.१८ ) तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥ (१०,४.१९ ) सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् । (१०,४.१९ ) सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥ (१०,४.२० ) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः । (१०,४.२० ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११} (१०,४.२१ ) ओषधीनामहं वृण उर्वरीरिव साधुया । (१०,४.२१ ) नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥ (१०,४.२२ ) यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्। (१०,४.२२ ) कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥ (१०,४.२३ ) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः । (१०,४.२३ ) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥ (१०,४.२४ ) तौदी नामासि कन्या घृताची नाम वा असि । (१०,४.२४ ) अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥ (१०,४.२५ ) अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय । (१०,४.२५ ) अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥ (१०,४.२६ ) आरे अभूद्विषमरौद्विषे विषमप्रागपि । (१०,४.२६ ) अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। (१०,४.२६ ) दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२} (१०,५.१ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.१ ) जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१॥ (१०,५.२ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.२ ) जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥२॥ (१०,५.३ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.३ ) जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥३॥ (१०,५.४ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.४ ) जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥४॥ (१०,५.५ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.५ ) जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥५॥ (१०,५.६ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । (१०,५.६ ) जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥६॥ (१०,५.७ ) अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.७ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥७॥ (१०,५.८ ) इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.८ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥८॥ (१०,५.९ ) सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.९ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥९॥ (१०,५.१० ) वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१० ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०॥ {१३} (१०,५.११ ) मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.११ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥११॥ (१०,५.१२ ) यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१२ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१२॥ (१०,५.१३ ) पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१३ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१३॥ (१०,५.१४ ) देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त । (१०,५.१४ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१४॥ (१०,५.१५ ) यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१५ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१५ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १५ ॥ (१०,५.१६ ) यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१६ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१६ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१६ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १६ ॥ (१०,५.१७ ) यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१७ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१७ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१७ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १७ ॥ (१०,५.१८ ) यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ (१०,५.१८ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१८ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ (१०,५.१८ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १८ ॥ (१०,५.१९ ) यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.१९ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.१९ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.१९ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १९ ॥ (१०,५.२० ) यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.२० ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.२० ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२० ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २० ॥ (१०,५.२१ ) यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः । (१०,५.२१ ) इदं तमति सृजामि तं माभ्यवनिक्षि । (१०,५.२१ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२१ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २१ ॥ (१०,५.२२ ) यदर्वाचीनं त्रैहायणादनृतं किं चोदिम । (१०,५.२२ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥२२॥ (१०,५.२३ ) समुद्रं वः प्र हिणोमि स्वां योनिमपीतन । (१०,५.२३ ) अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥२३॥ (१०,५.२४ ) अरिप्रा आपो अप रिप्रमस्मत्। (१०,५.२४ ) प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥२४॥ (१०,५.२५ ) विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः । (१०,५.२५ ) पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२५ ) स मा जीवीत्तं प्रानो जहातु ॥२५॥ (१०,५.२६ ) विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः । (१०,५.२६ ) अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२६ ) स मा जीवीत्तं प्रानो जहातु ॥२६॥ (१०,५.२७ ) विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः । (१०,५.२७ ) दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२७ ) स मा जिवीत्तं प्रानो जहातु ॥२७॥ (१०,५.२८ ) विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः । (१०,५.२८ ) दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२८ ) स मा जीवीत्तं प्रानो जहातु ॥२८॥ (१०,५.२९ ) विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः । (१०,५.२९ ) आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.२९ ) स मा जीवीत्तं प्रानो जहातु ॥२९॥ (१०,५.३० ) विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः । (१०,५.३० ) ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३० ) स मा जीवीत्तं प्रानो जहातु ॥३०॥ {१५} (१०,५.३१ ) विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः । (१०,५.३१ ) यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३१ ) स मा जीवीत्तं प्रानो जहातु ॥३१॥ (१०,५.३२ ) विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः । (१०,५.३२ ) ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३२ ) स मा जीवीत्तं प्रानो जहातु ॥३२॥ (१०,५.३३ ) विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः । (१०,५.३३ ) अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३३ ) स मा जीवीत्तं प्रानो जहातु ॥३३॥ (१०,५.३४ ) विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः । (१०,५.३४ ) कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३४ ) स मा जीवीत्तं प्रानो जहातु ॥३४॥ (१०,५.३५ ) विस्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः । (१०,५.३५ ) प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः । (१०,५.३५ ) स मा जीवीत्तं प्रानो जहातु ॥३५॥ (१०,५.३६ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः । (१०,५.३६ ) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३६॥ (१०,५.३७ ) सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् । (१०,५.३७ ) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥३७॥ (१०,५.३८ ) दिशो ज्योतिष्मतीरभ्यावर्ते । (१०,५.३८ ) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥३८॥ (१०,५.३९ ) सप्तऋषीन् अभ्यावर्ते । (१०,५.३९ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥३९॥ (१०,५.४० ) ब्रह्माभ्यावर्ते । (१०,५.४० ) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥४०॥ {१६} (१०,५.४१ ) ब्राह्मणामभ्यावर्ते । (१०,५.४१ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥४१॥ (१०,५.४२ ) यं वयं मृगयामहे तं वधै स्तृणवामहै । (१०,५.४२ ) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥४२॥ (१०,५.४३ ) वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि । (१०,५.४३ ) इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥४३॥ (१०,५.४४ ) राज्ञो वरुणस्य बन्धोऽसि । (१०,५.४४ ) सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥४४॥ (१०,५.४५ ) यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु । (१०,५.४५ ) तस्य नस्त्वं भुवस्पते संप्रयछ प्रजापते ॥४५॥ (१०,५.४६ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि । (१०,५.४६ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥४६॥ (१०,५.४७ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा । (१०,५.४७ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥४७॥ (१०,५.४८ ) यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः । (१०,५.४८ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥४८॥ (१०,५.४९ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि । (१०,५.४९ ) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥४९॥ (१०,५.५० ) अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् । (१०,५.५० ) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥५०॥ {१७} (१०,६.१ ) अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः । (१०,६.१ ) अपि वृश्चाम्योजसा ॥१॥ (१०,६.२ ) वर्म मह्यमयं मणिः फालाज्जातः करिष्यति । (१०,६.२ ) पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥ (१०,६.३ ) यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या । (१०,६.३ ) आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥ (१०,६.४ ) हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्। (१०,६.४ ) गृहे वसतु नोऽतिथिः ॥४॥ (१०,६.५ ) तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे । (१०,६.५ ) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥ (१०,६.६ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.६ ) तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥ (१०,६.७ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.७ ) तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् । (१०,६.७ ) सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥ (१०,६.८ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे । (१०,६.८ ) तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे । (१०,६.८ ) सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥ (१०,६.९ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । (१०,६.९ ) तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः । (१०,६.९ ) सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥ (१०,६.१० ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे । (१०,६.१० ) तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः । (१०,६.१० ) सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८} (१०,६.११ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.११ ) सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥ (१०,६.१२ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१२ ) तेनेमां मणिना कृषिमश्विनावभि रक्षतः । (१०,६.१२ ) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥ (१०,६.१३ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१३ ) तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः । (१०,६.१३ ) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥ (१०,६.१४ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१४ ) तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः । (१०,६.१४ ) स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥ (१०,६.१५ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१५ ) तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् । (१०,६.१५ ) सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥ (१०,६.१६ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१६ ) तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् । (१०,६.१६ ) स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥ (१०,६.१७ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे । (१०,६.१७ ) तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् । (१०,६.१७ ) स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥ (१०,६.१८ ) ऋतवस्तमबध्नतार्तवास्तमबध्नत । (१०,६.१८ ) संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥ (१०,६.१९ ) अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत । (१०,६.१९ ) प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥ (१०,६.२० ) अथर्वाणो अबध्नताथर्वणा अबध्नत । (१०,६.२० ) तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९} (१०,६.२१ ) तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्। (१०,६.२१ ) तेन त्वं द्विषतो जहि ॥२१॥ (१०,६.२२ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२२ ) स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥ (१०,६.२३ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२३ ) स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥ (१०,६.२४ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२४ ) स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥ (१०,६.२५ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२५ ) स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥ (१०,६.२६ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२६ ) स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥ (१०,६.२७ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२७ ) स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥ (१०,६.२८ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् । (१०,६.२८ ) स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥ (१०,६.२९ ) तमिमं देवता मणिं मह्यं ददतु पुष्टये । (१०,६.२९ ) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥ (१०,६.३० ) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् । (१०,६.३० ) असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०} (१०,६.३१ ) उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः । (१०,६.३१ ) यस्य लोका इमे त्रयः पयो दुग्धमुपासते । (१०,६.३१ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥ (१०,६.३२ ) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा । (१०,६.३२ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥ (१०,६.३३ ) यथा बीजमुर्वरायां कृष्टे फालेन रोहति । (१०,६.३३ ) एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥ (१०,६.३४ ) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् । (१०,६.३४ ) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥ (१०,६.३५ ) एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः । (१०,६.३५ ) तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१} (१०,७.१ ) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् । (१०,७.१ ) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥ (१०,७.२ ) कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व । (१०,७.२ ) कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥ (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् । (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥ (१०,७.४ ) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा । (१०,७.४ ) यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥ (१०,७.५ ) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । (१०,७.५ ) यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥ (१०,७.६ ) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने । (१०,७.६ ) यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥ (१०,७.७ ) यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्। (१०,७.७ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥ (१०,७.८ ) यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् । (१०,७.८ ) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥ (१०,७.९ ) कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य । (१०,७.९ ) एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥ (१०,७.१० ) यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः । (१०,७.१० ) असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२} (१०,७.११ ) यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् । (१०,७.११ ) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥ (१०,७.१२ ) यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता । (१०,७.१२ ) यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥ (१०,७.१३ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः । (१०,७.१३ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥ (१०,७.१४ ) यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही । (१०,७.१४ ) एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥ (१०,७.१५ ) यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते । (१०,७.१५ ) समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥ (१०,७.१६ ) यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः । (१०,७.१६ ) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥ (१०,७.१७ ) ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् । (१०,७.१७ ) यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् । (१०,७.१७ ) ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥ (१०,७.१८ ) यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् । (१०,७.१८ ) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥ (१०,७.१९ ) यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत । (१०,७.१९ ) विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥ (१०,७.२० ) यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् । (१०,७.२० ) सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३} (१०,७.२१ ) असच्चाखां प्रतिष्ठन्तीं परममिव जना विदुः । (१०,७.२१ ) उतो सन् मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥ (१०,७.२२ ) यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः । (१०,७.२२ ) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥ (१०,७.२३ ) यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा । (१०,७.२३ ) निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥ (१०,७.२४ ) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते । (१०,७.२४ ) यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥ (१०,७.२५ ) बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे । (१०,७.२५ ) एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥ (१०,७.२६ ) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्। (१०,७.२६ ) एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥ (१०,७.२७ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे । (१०,७.२७ ) तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहम्विदो विदुः ॥२७॥ (१०,७.२८ ) हिरण्यगर्भं परममनत्युद्यं जना विदुः । (१०,७.२८ ) स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥ (१०,७.२९ ) स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् । (१०,७.२९ ) स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥ (१०,७.३० ) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । (१०,७.३० ) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४} (१०,७.३१ ) नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः । (१०,७.३१ ) यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥ (१०,७.३२ ) यस्य भूमिः प्रमान्तरिक्षमुतोदरम् । (१०,७.३२ ) दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥ (१०,७.३३ ) यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः । (१०,७.३३ ) अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥ (१०,७.३४ ) यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् । (१०,७.३४ ) दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥ (१०,७.३५ ) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् । (१०,७.३५ ) स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥ (१०,७.३६ ) यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे । (१०,७.३६ ) सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥ (१०,७.३७ ) कथं वातो नेलयति कथं न रमते मनः । (१०,७.३७ ) किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥ (१०,७.३८ ) महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे । (१०,७.३८ ) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥ (१०,७.३९ ) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा । (१०,७.३९ ) यस्मै देवाः सदा बलिं प्रयछन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥ (१०,७.४० ) अप तस्य हतं तमो व्यावृत्तः स पाप्मना । (१०,७.४० ) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥ (१०,७.४१ ) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद । (१०,७.४१ ) स वै गुह्यः प्रजापतिः ॥४१॥ (१०,७.४२ ) तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् । (१०,७.४२ ) प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥ (१०,७.४३ ) तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्। (१०,७.४३ ) पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥ (१०,७.४४ ) इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५} (१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । (१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥ (१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । (१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥ (१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त । (१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥ (१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । (१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥ (१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः । (१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥ (१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् । (१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥ (१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा । (१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥ (१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति । (१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥ (१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । (१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥ (१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः । (१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६} (१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्। (१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥ (१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते । (१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥ (१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते । (१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥ (१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् । (१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥ (१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते । (१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥ (१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति । (१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥ (१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति । (१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥ (१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । (१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥ (१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति । (१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥ (१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु । (१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७} (१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्। (१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥ (१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु । (१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥ (१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः । (१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥ (१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् । (१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥ (१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते । (१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥ (१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे । (१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥ (१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥ (१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥ (१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः । (१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥ (१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते । (१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥ (१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव । (१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८} (१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता । (१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥ (१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति । (१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥ (१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् । (१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥ (१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः । (१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥ (१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः । (१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥ (१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव । (१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥ (१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥ (१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः । (१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥ (१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः । (१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥ (१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥ (१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥ (१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे । (१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥ (१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा । (१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥ (१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् । (१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥ (१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः । (१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९} (१०,९.१ ) अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् । (१०,९.१ ) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥ (१०,९.२ ) वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते । (१०,९.२ ) एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥ (१०,९.३ ) बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये । (१०,९.३ ) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥ (१०,९.४ ) यः शतौदनां पचति कामप्रेण स कल्पते । (१०,९.४ ) प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥ (१०,९.५ ) स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः । (१०,९.५ ) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥ (१०,९.६ ) स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः । (१०,९.६ ) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥ (१०,९.७ ) ये ते देवि शमितारः पक्तारो ये च ते जनाः । (१०,९.७ ) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥ (१०,९.८ ) वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा । (१०,९.८ ) आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥ (१०,९.९ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये । (१०,९.९ ) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥ (१०,९.१० ) अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः । (१०,९.१० ) लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०} (१०,९.११ ) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति । (१०,९.११ ) पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥ (१०,९.१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि । (१०,९.१२ ) तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥ (१०,९.१३ ) यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू । (१०,९.१३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥ (१०,९.१४ ) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी । (१०,९.१४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥ (१०,९.१५ ) यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका । (१०,९.१५ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥ (१०,९.१६ ) यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः । (१०,९.१६ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥ (१०,९.१७ ) यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते । (१०,९.१७ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥ (१०,९.१८ ) यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् । (१०,९.१८ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥ (१०,९.१९ ) यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्। (१०,९.१९ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥ (१०,९.२० ) यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः । (१०,९.२० ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१} (१०,९.२१ ) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्। (१०,९.२१ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥ (१०,९.२२ ) यत्ते पुछं ये ते बाला यदूधो ये च ते स्तनाः । (१०,९.२२ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥ (१०,९.२३ ) यास्ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः । (१०,९.२३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥ (१०,९.२४ ) यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये । (१०,९.२४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥ (१०,९.२५ ) क्रोडौ ते स्तां पुरोदाशावाज्येनाभिघारितौ । (१०,९.२५ ) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥ (१०,९.२६ ) उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः । (१०,९.२६ ) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥ (१०,९.२७ ) अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि । (१०,९.२७ ) यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२} (१०,१०.१ ) नमस्ते जायमानायै जाताया उत ते नमः । (१०,१०.१ ) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥ (१०,१०.२ ) यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः । (१०,१०.२ ) शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥ (१०,१०.३ ) वेदाहं सप्त प्रवतः सप्त वेद परावतः । (१०,१०.३ ) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥ (१०,१०.४ ) यया द्यौर्यया पृथिवी ययापो गुपिता इमाः । (१०,१०.४ ) वशां सहस्रधारां ब्रह्मणाछावदामसि ॥४॥ (१०,१०.५ ) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः । (१०,१०.५ ) ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥ (१०,१०.६ ) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका । (१०,१०.६ ) वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा ॥६॥ (१०,१०.७ ) अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा । (१०,१०.७ ) ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥ (१०,१०.८ ) अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे । (१०,१०.८ ) तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥ (१०,१०.९ ) यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि । (१०,१०.९ ) इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥ (१०,१०.१० ) यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्। (१०,१०.१० ) तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३} (१०,१०.११ ) यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे । (१०,१०.११ ) इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥ (१०,१०.१२ ) त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा । (१०,१०.१२ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥ (१०,१०.१३ ) सं हि सोमेनागत समु सर्वेण पद्वता । (१०,१०.१३ ) वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥ (१०,१०.१४ ) सं हि वातेनागत समु सर्वैः पतत्रिभिः । (१०,१०.१४ ) वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥ (१०,१०.१५ ) सं हि सूर्येणागत समु सर्वेण चक्षुषा । (१०,१०.१५ ) वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥ (१०,१०.१६ ) अभीवृता हिरण्येन यदतिष्ठ ऋतावरि । (१०,१०.१६ ) अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥ (१०,१०.१७ ) तद्भद्राः समगछन्त वशा देष्ट्र्यथो स्वधा । (१०,१०.१७ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥ (१०,१०.१८ ) वशा माता राजन्यस्य वशा माता स्वधे तव । (१०,१०.१८ ) वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥ (१०,१०.१९ ) ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि । (१०,१०.१९ ) ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥ (१०,१०.२० ) आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे । (१०,१०.२० ) पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४} (१०,१०.२१ ) ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव । (१०,१०.२१ ) आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥ (१०,१०.२२ ) यदुदरं वरुणस्यानुप्राविशथा वशे । (१०,१०.२२ ) ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥ (१०,१०.२३ ) सर्वे गर्भादवेपन्त जायमानादसूस्वः । (१०,१०.२३ ) ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥ (१०,१०.२४ ) युध एकः सं सृजति यो अस्या एक इद्वशी । (१०,१०.२४ ) तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥ (१०,१०.२५ ) वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। (१०,१०.२५ ) वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥ (१०,१०.२६ ) वशामेवामृतमाहुर्वशां मृत्युमुपासते । (१०,१०.२६ ) वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥ (१०,१०.२७ ) य एवं विद्यात्स वशां प्रति गृह्णीयात्। (१०,१०.२७ ) तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥ (१०,१०.२८ ) तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि । (१०,१०.२८ ) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥ (१०,१०.२९ ) चतुर्धा रेतो अभवद्वशायाः । (१०,१०.२९ ) आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥ (१०,१०.३० ) वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः । (१०,१०.३० ) वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥ (१०,१०.३१ ) वशाया दुग्धं पीत्वा साध्या वसवश्च ये । (१०,१०.३१ ) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥ (१०,१०.३२ ) सोममेनामेके दुह्रे घृतमेक उपासते । (१०,१०.३२ ) य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥ (१०,१०.३३ ) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते । (१०,१०.३३ ) ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥ (१०,१०.३४ ) वशां देवा उप जीवन्ति वशां मनुष्या उत । (१०,१०.३४ ) वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}

Search

Search here.