ब्रह्मणस्पतिसूक्त होमविधि:

यज्ञ - शान्ति  > पूजन कर्म विधी Posted at 2018-12-06 13:02:13
ब्रह्मणस्पतिसूक्तहोमविधि: तत्र महागणपतिपूजनं स्वस्तिपुण्याहवाचन नान्दीश्राद्धं मातृकापूजनं, तथाचार्यादिऋत्विग्वरणं करिप्ये । आचार्यादीन्‌ यथाविधि वृणुयात्‌ । वृत: आचार्य: स्थण्डिलपूर्वभागे गणपतिभद्रे वा सर्वतोभद्रे वा केवले स्वस्तिके बह्मादिमण्डलदेवता: संस्थाप्य पूजयेत्‌ । तदुपरि धान्यपूरितमध्यभागे कलशं संस्थाप्य तस्योपरि पूर्णपात्रं निधाय यथाशक्ति निर्मितां सुवर्णमर्यी यथोक्तलक्षणां श्रीगणेशप्रतिमां संस्थापर्यत्‌ । सा प्रतिमा पूर्णपात्रोपरि लिखिते अष्टदले “गणानां त्वा” इति मन्त्रेण संस्थाप्या । अनन्तरं यथामिलितषोडशोपचारै: यथाविधि पूजां कुर्यात्‌ । पंचखाद्यं वा मोदकान्‌ नैवेद्ये समर्पणं कृत्वा यथाशक्ति रत्नालङ्कारै: पूजयेत्‌ । ततश्च स्थण्डिलान्तिके संस्कारपूर्वकं स्वगृह्योक्तविधिना अग्निं प्रतिष्ठाप्य स्थापितदेवताया: उत्तरभागे आदित्यादिनवग्रहादीनां आवाहयेत्संपूजयेच्च । ततश्चान्वाधानं कुर्यात्‌ । तत्र च संकल्प: । मया क्रियमाणे ग्रहमखपूर्वकब्रह्मणस्पतिसुक्तहवनकर्मणि देवतापरिग्रहार्थमन्वाधानं करिष्ये । ततश्च अन्वाहिताग्नौ प्रधानदेवतां गणपर्ति द्विषष्टि-क्रमात्मकब्रह्मणस्पतिसूक्तेन प्रत्यर्चं जुहुुयात्‌ । यथा काम: तथा द्रव्यमिति न्यायेन द्‌र्घाङ्कुरद्रव्यम्‌, मोदकद्रव्यम्‌, लाजाद्रव्यम्‌, साज्यसमिमद्‌द्रव्यं च गृह्णीयात्‌ । एते मन्त्रा: हवनकाले ॐ कारयुक्ता: स्वाहान्ताश्च वक्तव्या: । (१) ॐ सोमानं स्वरणं. औशिज: स्वाहा । (२) ॐ यो रीवान्यो. तुर: स्वाहा । (३) ॐ मा न: शंसो. ब्रह्मणस्पते स्वाहा । (४) ॐ स घा वीरो. मर्त्यं स्वाहा । (५) ॐ त्वं तं ब्रह्मण. त्वंहस: स्वाहा । (‍६) ॐ उत्तिष्ठ. भवासचा स्वाहा । (७) ॐ त्यामिद्धि. आचके स्वाहा । (८) ॐ प्रैतु ब्रह्मण. नयंतु न: स्वाहा । (९) ॐ यो वाघते. मनेहसं स्वाहा । (१०) ॐ प्रनूनं. चक्रिरे स्वाहा । (११) ॐ तमिद्वोचे. अश्नवत्स्वाहा । (१२) ॐ को देव. क्षयं दघे स्वाहा । (१३) ॐ उप क्षत्रं. वज्रिण: स्वाहा । (१४) ॐ गणानां त्वा. सादनं स्वाहा । (१५) ॐ देवाश्चित्ते. ब्रह्मणामसि स्वाहा । (१६) ॐ आ विबाध्या. स्वर्विदं स्वाहा । (१७) ॐ सुनीति. महित्वनं स्वाहा । (१८) ॐ न तमंहो. ब्रह्मणस्पते स्वाहा । (१९) ॐ त्वं नो. हरस्वती स्वाहा । (२०) ॐ उत वा यो. कृधि स्वाहा । (२१) ॐ त्रातारं. मुन्नशन्‌ स्वाहा । (२२) ॐ त्वया वयं. अनप्नस: स्वाहा । (२३) ॐ त्वया व यमु. तारिषी महि स्वाहा । (२४) ॐ अनानुदो. हर्षिण: स्वाहा । (२५) ॐ अदेवे. शर्धत: स्वाहा । (२६) ॐ भरेषु. रथाँ इव स्वाहा । (२७) ॐ तेजिष्ठया. अर्दय स्वाहा । (२८) ॐ बृहस्पते. धेहि चित्रं स्वाहा । (२९) ॐ मा. न:. साम्नोविदु: स्वाहा । (३०) ॐ विश्वेभ्यो. धर्मरि स्वाहा । (३१) ॐ तव श्रिये. अर्णवं स्वाहा । (३२) ॐ ब्रह्मणस्पते. सुवीरा: स्वाहा । (३३) ॐ सेमा. नो मर्ति स्वाहा । (३४) ॐ यो नं त्वा. पर्वतं स्वाहा । (३५) ॐ तद्देवानां. व्यचक्षय स्वाहा । (३६) ॐ अश्मास्य. समुद्रिणं स्वाहा । (३७) ॐ सना ता. ब्रह्मणस्पति: स्वाहा । (३८) ॐ अमिनक्ष. युरा विशं स्वाहा । (३९) ॐ ऋतावान:. जहुर्हि तं स्वाहा । (४०) ॐ ऋतज्येन. कर्णयोनय: स्वाहा । (४१) ॐ स संनय. वृथा स्वाहा । (४२) ॐ विभु प्रभु. विश: स्वाहा । (४३) ॐ जोऽवरे. ब्रह्मणस्पति: स्वाहा । (४४) ॐ विश्वं सत्यं. जिगातं स्वाहा । (४५) ॐ उताशिष्ठा. ब्रह्मणस्पति: स्वाहा । (४६) ॐ ब्रह्मणस्पते पृथक्‌ स्वाहा । (४७) ॐ ब्रह्मणस्पते. वेषे मे हवं स्वाहा । (४८) ॐ ब्रह्मणस्पते त्वम. सुवीरा: स्वाहा । (४९) ॐ इन्धानो. ब्रह्मणस्पति: स्वाहा । (५०) ॐ वीरेभि. ब्रह्मणस्पति: स्वाहा । (५१) ॐ सिन्हु. ब्रह्मणस्पति: स्वाहा । (५२) ॐ तस्मा. ब्रह्मणस्पति: स्वाहा । (५३) ॐ तस्मा इ. ब्रह्मणस्पति: स्वाहा । (५४) ॐ ऋजुरि. भोजनं स्वाहा । (५५) ॐ यजस्व. वृणीमहे स्वाहा । (५६) ॐ स इज्ज. ब्रह्मणस्पर्ति स्वाहा । (५७) ॐ योऽअस्मै. रद्‌भुत: स्वाहा । (५८) ॐ तमु ज्येष्ठं. राजा स्वाहा । (५९) ॐ इयं वा. मराती: स्वाहा । (६०) ॐ चत्तो इत. द्दषन्निहि स्वाहा । (६१) ॐ अदो य. परस्तरं स्वाहा । (६२) ॐ अग्निर्येन. समिदं कुरु स्वाहा । (६३) ॐ यत्र बाणा:. शर्म यच्छतु स्वाहा । (६४) ॐ यदिन्द्र ब्रह्मणस्पते. पात्वंहस: स्वाहा । एवं ब्रह्मणस्पतिसूक्तमन्त्राणां हवनं कृत्वा १३०२ आहुतिभि: ब्रह्मादिमण्डलदेवता: प्रत्येकं तिलैर्वा घृतेन-एकैकयाहुत्यादशदश वा यष्टव्या: । (द्रव्यका: दूर्वाङ्‌कुरद्रव्यम्‌ कीर्तिकाम: लाजाद्रव्यम्‌, इष्टमनोरथार्थसिद्धयर्थं मोदकद्रव्यम्‌, गृह्लीयात्‌ । शेषेण स्विपृकृत्‌ । अन्वाधानोक्तरीत्या होमं संपाद्य पूर्णाहुतिं दत्वा संस्रवादि कृत्वा होमशेषं समापयेत्‌ । ततश्च प्रार्थयेत्‌ । देहेन वाचामनसा कृतान्मे सांसर्गिकान्‌ जागृतस्वप्नजातान्‌ । सौषुप्ततौर्यान्‌ सकलापराधान्‌ क्षमस्व. हेरम्ब दयानिधे त्वम्‌ ॥१॥ ततश्चाभिषेक: । आचार्य: सदारं यजमानमभिर्षिचेत्‌ । तथा च रजामान: अग्निपूजनं कृत्वा विमूतिधारणं कुर्यात्‌ । कर्मण: साङ्गतासिद्धयर्थं यथाशक्ति गोप्रदानादिचदक्षिणां आचार्यादिभ्य: दत्वा ब्राह्मणभोजनसंकल्पं कुर्यात्‌ । तथा च स्थापितदेवतादीनां विसर्जनं कृत्वा तत्सर्वं आचार्याय दत्व पीठदानादिकं कुर्यात्‌ । प्रतिमाविसर्जनमन्त्र: । गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर ॥ कर्मणानेन मे नित्यं यथोक्तफलदो भव ॥ प्रतिमादानमन्त्रा: । गणेशप्रतिमां श्रेष्ठां वस्त्रयुग्मसंमन्विताम्‌ ॥ तुभ्यं संप्रददे विप्र प्रीयतां मे गजानन: ॥१॥ गणेश: प्रतिगृह्लाति गणेशो वे ददाति च ॥ गणेशस्तारको हात्र गणेशाय नमो नम: ॥२॥ विनायक गणेशान सर्वदेवनमस्कृत ॥ पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥३॥ भूयसीदक्षिणादानं कृत्वा एतत्कर्म गणपतिप्रीत्यर्थं प्ररमेश्वरार्पणं कुर्यात्‌ । ब्राह्मणेभ्य: कर्मसम्पूर्णतां वाचयित्वा तेभ्य: आशिष: गृहीत्वा सर्वै: आचार्यादिभि: साकं भुञ्जीयात्‌ । भोजनोत्तरं ताम्बूलदक्षिणां दत्वा आशिष: गृह्लीयात्‌ । ॥ ब्रह्मणस्पतिसूक्तहोमविधि: सुसंपुर्णं॥

Search

Search here.