बृहस्पति स्तोत्र

स्तोत्र - मंत्र  > नवग्रह स्तोत्र Posted at 2018-10-13 09:34:44
बृहस्पति स्तोत्र वक्रतुंड महाकाय सूर्यकोटी समप्रभ निर्विघ्नम् कुरु मे देवं सर्व कार्येषु सर्वदा ।। अस्य श्री बृहस्पातिस्तोत्रमंत्रस्य गृत्समदऋषिः । अनुष्टुप् छंदः । ब्रृहस्पतिर्देवता । बृहस्पतिप्रीत्यर्थे जपे /अभिषेके विनियोगः ।। गुरुबृहस्पतिर्जीवः सुराचार्यो विंदावरः । वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ।।१।। सुधादृष्टिर्गहाधीशो ग्रहपीडापहारकः । दयाकरः सौम्यमूर्ति । सुरार्च्यः कुंभलद्युतिः ॥२॥ लोकपूज्यो लोकगुरूनीतिज्ञो नीतिकारकः । तारापतिश्चंगिसो वेदवैद्य पितामहः ।।३।। भक्त्या बृहस्पति स्मृत्वा नामान्येतानि यः पठेत । अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥ जीवेद्वर्षशतं मर्त्यो पापं नह्याति नह्याति । यः पूजयेद्गुरूदिने पीतगन्धाक्षताम्बरैः ॥५॥ पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् । ब्राह्मणान्भोजयित्वा च पीडाशान्तिर्भवेद् गुरोः ॥६॥ इति श्री स्कंद पुराणे बृहस्पतिस्तोत्रं संपूर्णम् ...

Search

Search here.