दत्तगीता द्वितीयोध्यायः

ग्रंथ - पोथी  > दत्तगीता Posted at 2019-02-15 16:22:18
श्रीदत्तगीता - द्वितीयोध्यायः श्रीगणेशाय नमः ॥ सगुणगुणविभागं वर्तते नैव किंचित्समरसमविभागं सर्वथा नैव किंचित् ‍ ॥ इति विरतिविहीतं निर्मलं निष्प्रपंचं कथमिह खलु वंदे व्योमरूपं शिवं वै ॥१॥ श्वेतादिवर्णरहितास्तव यं शिवश्व कार्यं च कारणमिदं हि वयं शिवश्व ॥ एवं विकल्परहितास्तव यं च ह्यात्मा आत्मानमात्मनि च मित्र कथं वदामि ॥२॥ निर्मूल मूलरहितो हि सदोदितोहं निर्धूमधूमरहितो हि सदोदितोऽहं ॥ संदीप्त्यदीप्तिरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ‍ ॥३॥ निष्कारकाममिह नाम कथं वदामि निःसंगसंगमिह नाम कथं वदामि ॥ अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥४॥ अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि ॥ अनित्य - नित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥५॥ स्थूलं हि नो न च कृशं नगतागतं हि चाद्यं च मध्यरहितो नपरापरं हि ॥ सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञाना० ॥६॥ संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्व नभोनभश्व ॥ संवित्धि चैकममलं नहि बत्धमुक्तिः ज्ञानामृ० ॥७॥ दुर्बोधबोधगहनो नभवामि तात दुर्लक्ष्यलक्ष्यगहनो नभवामि तात ॥ आसन्नादुर्गगहनो नभवामि तात ज्ञाना० ॥८॥ निष्कर्मकर्मगहनोज्वलनो भवामि निर्दुःखदुःखदहनोज्वलनो भवामि ॥ निर्देहदेहदहनोज्वलनो भावामि ज्ञाना० ॥९॥ निष्पापपापदहने हि हुताशनोहं निर्धर्मधर्मदहने हि हुताशनोहम ‍ ॥ निर्बंधबंधदहने हि हुताशनोहं ज्ञा० ॥१०॥ निःशून्यशून्यगगने हि हुताशनोहं आत्मस्वरूपगगने हि हुताशनोहम् ‍ ॥ एवं हुताशनगुणस्य हुताशनोहं ज्ञाना० ॥११॥ निर्भावभावरहितो नभवामि वत्स निश्वित्तचित्तरहितो नभवामि वत्स ॥ निर्योगयोगरहितो नभवामि वत्स ज्ञाना० ॥१२॥ निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः ॥ निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृ० ॥१३॥ संसारसंततिलता न च मे कदाचित्तापस्य शांतिमसुखं न च मे कदाचित् ‍ ॥ अज्ञानबंधनमिदं न च मे कदाचिज्ञ्ज्ञानामृतं० ॥१४॥ संसारसंसृतिरजो न च मे विकारः संसारसंततितमो न च मे विकारः ॥ सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं स० ॥१५॥ संसारदुःखजनकं न च मे कदाचित्संतापमोहजनिता नच मे कदाचित् ‍ ॥ यस्मादहंकृतिपरं नच मे कदाचिज्ञ्ज्ञानामृतं स० ॥१६॥ निष्कंपकंपनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधनं नदिवं न नक्तम् ‍ ॥ निःसारसारनिधनं नचराचरं हि ज्ञानामृतं समर० ॥१७॥ नो वेद्यवेदकमिदं नच हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः ॥ एवं कथं हि भवतां कथयामि तत्त्वम् ‍ ज्ञानामृतं० ॥१८॥ निर्भिन्नभिन्नरहितं परमैकतत्त्वं अंतादिमध्यरहितं परमैकतत्त्वम् ‍ ॥ एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं स० ॥१९॥ यद्वा समग्रसहजं स्वयमेव सर्वमंतर्बहिः किल कथं परमार्थतत्त्वम् ‍ ॥ यस्मादहो परतरं न हि वस्तु किंचिज्ञ्ज्ञानामृ० ॥२०॥ रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् ‍ ॥ देहादिदुः खरहितं त्वहमेव तत्त्वं ज्ञानामृतं० ॥२१॥ स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्व ॥ शांतं परं यदि ध्रुवं परमार्थतत्त्वं ज्ञानामृतं० ॥२२॥ दिर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुळमितीह मनोविभागम् ‍ ॥ विस्तारसंघटमितीह मनोविभागो ज्ञानामृतं० ॥२३॥ माता पिता च तनयादि न मे कदाचिद्नर्भं च मृत्यु - मनसो न च मे कदाचित् ‍ ॥ निर्व्याकुलस्थिरपरं परमार्थतत्त्वं ज्ञानामृतं ॥२४॥ निःशुद्धसर्वमविचारमनंतरूपं निर्लेपलेपनविचारमतर्करूपम् ‍ ॥ निर्नादनादमविचारमगाधरूपं ज्ञानामृतं० ॥२५॥ उच्चारमात्रमपि ते नहि नाममात्र्म निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् ‍ ॥ निर्लज्ज मानस करोषि कथं विलापं ज्ञानामृतं० ॥२६॥ ब्रह्मादयः सुरगणाः कथमत्र संति स्वर्गादयो वसतयः कथमत्र संति ॥ यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं स० ॥२७॥ निष्कर्मकर्मसततं तु कथं करोमि निःसंगसंगरहितं परमं विनोदम् ‍ ॥ निःसत्यसत्यरहितं सततं बलोहं ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥२८॥ मायाप्रपंचरचना न च मे विकाराः कौटिल्य - दंभवचना न च मे विकारः ॥ सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं समरसं० ॥२९॥ वितर्क - तर्कमिह तात न मे विभाति वीतर्क - तर्क्यमिह तात न मे विभाति ॥ शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं स० ॥३०॥ आलंबहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम ‍ ॥ संसिद्धि - शांतिमचलं ननु पूर्ण - पूर्णं ज्ञानामृतं० ॥३१॥ सत्यं वदामि विरजावचनैकजातं सत्यं वदामि सरजावचनैकजातम् ‍ ॥ सत्यं कथं हि सततं च सितासितौ नो ज्ञाना०॥३२॥ संध्यादिकालरहितं नवियोगयोगं ज्ञानं प्रबोधरहितं नबधीर - मूकम् ‍ ॥ एवं विकल्परहितं निजभावशुद्धं ज्ञानामृतं० ॥३३॥ धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि ॥ एवं निरंजनसमं हि निरंतरं हि ज्ञानामृतं० ॥३४॥ निर्नाथनाथविगतं हि निराकुलं वै निश्वित्तचित्तविगतं हि निराकुलं वै ॥ निर्भावभावरहितं हि निराकुलं वै ज्ञानामृतं० ॥३५॥ किं काननं ग्रहमिदं हि कथं वदंति संविद्धि संशयममू हि कथं वदंति ॥ एवं निरंतरसमं हि निरंजनं वै ज्ञानामृतं० ॥३६॥ निर्जीव - जीवरहितं सततं विभाति सज्जीव - जीवरहितं सततं विभाति ॥ निर्बीज - बीजरहितं सततं विभाति ज्ञानामृ० ॥३७॥ संभूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति ॥ संसारवर्जितमिदं सततं विभाति ज्ञानामृतं० ॥३८॥ किन्नामरोदसि सखे नशुभाशुभानि किन्नाम रोदसि सखे न च जन्म - मृत्युः ॥ किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृतं स० ॥३९॥ किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेंद्रियाणि ॥ किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं ॥४०॥ किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोदसि सखे न च ते प्रकोपः ॥ किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं० ॥४१॥ ऐश्वर्यमिच्छसि कथं न च ते धमानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः ॥ ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं० ॥४२॥ देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च ॥ निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं० ॥४३॥ नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् ‍ ॥ नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं० ॥४४॥ ध्याता न तेषु त्द्ददये च न ते समाधिर्ध्येयं न तेषु त्द्ददये च न ते हि देशः ॥ ध्यानं न तेषु त्द्ददये च न तेऽस्ति लोको ज्ञानामृतं० ॥ ४५॥ कांतारध्वांतवदिमं हि कथं वंदति संचिंत्य संशयमिदं हि कथं वदंति ॥ एइं निरंतरसमं हि निरंजनं हि ज्ञामामृतं० ॥४६॥ यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः ॥ स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं० ॥४७॥ कथमिह परमार्थतत्त्वमानंदरूपं कथमिह परमार्थतत्त्वमक्षस्वरूपम् ‍ ॥ कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं० ॥४८॥ दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहिनम् ‍ ज्ञानविज्ञानमेकम् ‍ ॥ सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं० ॥४९॥ निश्विंतरूपं नविशून्यरूपं नशुद्धरूपं नविशुत्धरूपम् ‍ ॥ रू पं विरूपं नभवामि किंचित्स्वच्छैकरूपं परमार्थतत्त्वम् ‍ ॥५०॥ मुंच मुंचनिसन्नानि त्यागं मुंच शिवं वद ॥ त्यागात्यागविषं मुंच अमृतत्त्वं विषायते ॥५१॥ द्दश्याद्दश्यपरं द्दश्यमृतामृतपरं श्रृणु ॥ शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥५२॥ विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥५३॥ ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां द त्ता - गोरक्षकसंवादे द्वैताद्वैतनिरूपणंनाम द्वितीयोध्यायः ॥२॥ श्रीदत्तात्रेयार्पणमस्तु ॥

Search

Search here.