दत्तगीता तृतीयोध्यायः

ग्रंथ - पोथी  > दत्तगीता Posted at 2019-02-15 16:15:12
श्रीदत्तगीता - तृतीयोध्यायः श्रीगणेशाय नमः ॥ श्रीदत्त उवाच - आवाहनं नैव विसर्जनं च पुषाणि पत्राणि कथं भवंति ॥ ज्ञानानि दानावि कथं भवंति समासमं चैव शिवार्चनं च ॥१॥ नकेवलं बधं - विबंध - मुक्तो नकेवलं शुद्ध - विशुत्ध - मुक्तः ॥ नकेवलं योग - वियोग - मुक्तो सर्वैर्विमुक्तो गगनोपमोहम ‍ ॥२॥ संजायते सर्वमिदं वितथ्यं नजायते सर्वमिदं वितथ्यम् ‍ ॥ एवं विकल्पो मम नैव जातः संवित्धि निर्वाणमनोमयोहम् ‍ ॥३॥ नचाननं वापि निरंजनं वा नचांतरं वापि निरंजनं वा ॥ अंतर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमनोमयोगम् ‍ ॥४॥ अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् ‍ ॥ अबोध - बोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोहम् ‍ ॥५॥ नधर्मंयुक्तो नच पापयुक्तो नबत्धमुक्तो न च मोक्षयुक्त : ॥ युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाण . ॥६॥ परस्परं वा न म मे कदाचित् ‍ मध्यस्थभावो हि न चारिमित्रः ॥ हिताहितं चापि कथं वदामि स्वरूपनिर्वाण० ॥७॥ नौपासको नैवमुपास्यरूपं नचौपदेशो न च मे क्रिया च ॥ सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनि ) ॥८॥ नव्यापकं व्याप्यमिहास्ति किंचिन्नवाऽलयं वापि निरालयं वा ॥ अशून्यशून्यं च कथं वदामि स्वरूप० ॥९॥ नग्राह्यकं ग्राहकमेव किचिन्नकारणं वा मम नैव कार्यम् ‍ ॥ अचिंत्यं - चिंत्यं च कथं वदामि स्वरू० ॥१०॥ नकेवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः ॥ अनागतं मित्र कथं वदामि स्वरूप० ॥११॥ नचास्ति देहो न च मे विदेहो नबुद्धिर्मनो मे न हि चेंद्रियाणि ॥ रागो विरागश्व कथं वदामि स्वरूप० ॥१२॥ उल्लेखमात्रं न हि नम्रमुच्चैरुल्लेखमात्रं न तिरोहितं च ॥ समासमं मित्र कथं वदामि स्वरूप० ॥१३॥ जितेंद्रियोहं त्यजितेंद्रियो वा नसंयमो मे नियमो हि जातः ॥ जयोऽजयो वाऽपि कथं वदामि स्वरूप० ॥१४॥ अमूर्तिमूर्तिर्न च मे कदाचिदाद्यंत - मध्यो न च मे कदाचित् ‍ ॥ चलाचलं चित्त कथं वदामि स्वरूप० ॥१५॥ मृतामृतं चापि न मे विषं च संजायते तात न कदाचिंत् ‍ ॥ अशुद्धशुद्धं च कथं वदामि स्वरूप० ॥१६॥ स्वप्न - प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे काचचित् ‍ ॥ अतूर्य - तूर्यं च कथं वदामि स्वरूपनि० ॥१७॥ संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि ॥ माया - विमाया च कथं वदामि स्वरूप० ॥१८॥ संविद्धि मां ध्यानसमाधियुक्तं संविद्धि मां लक्ष - सलक्षयुक्तम् ‍ ॥ योगं - वियोगं च कथं वदामि स्वरूप० ॥१९॥ मूर्खोपि नाह न च पंडितोहं समौ न वार्ता न च मे कदाचित् ‍ ॥ स्त्रेहं विमोहं च कथं वदामि स्वरूपनि० ॥२०॥ पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् ‍ ॥ स्त्रेहं विमोहं च कथं वदामि स्वरूप० ॥२१॥ अस्तोदये नैव सदोदितोहं दिवा च नक्तं न च मे कथंचित् ‍ ॥ तेजो - वितेजश्व कथं वदामि स्वरूप० ॥२२॥ असंशयं विद्धि निरंतरं मां असंशयं विद्धि निरंजनं माम् ‍ ॥ असंशयं विद्धि निराकुलं मां स्वरूप० ॥२३॥ धर्माणि सर्वाणि परित्यजंति शुभाशुभं कर्म परित्यजंति ॥ ज्ञानामृतं चारु पिबंति धीराः स्वरूपनि० ॥२४॥ गोरक्ष उवाच - विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥२५॥ इति श्रीदत्तात्रेयगीतासूपनिषत्सारमाथेतार्थेषु निरंजनविद्यायां श्रीदत्त - गोरक्षकसंवादे निर्वाणयोगो नाम तृतीयोध्यायः ॥३॥

Search

Search here.