श्री गणनायकाष्टकं

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2019-02-17 06:31:55
श्री गणनायकाष्टकं एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥ मौञ्जी कृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुशकलं मौलौ वन्देऽहं गणनायकम् ॥ २ ॥ चित्ररत्नविचित्राङ्गचित्रमालाविभूषितम् । कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ३ ॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥ मूषकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ५ ॥ यक्षकिन्नरगन्धर्वसिद्धविद्याधरैस्सदा । स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ६ ॥ अम्बिकाहृदयानन्दं मातृभिःपरिवेष्टितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ७ ॥ सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥ गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥

Search

Search here.