श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्र

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2016-02-14 14:12:49
श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रम्‌ । तच्छिष्यकृतया टिप्पण्या समेतम्‌ । योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम्‌ । आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दन्तावलस्यात्मना ॥ १ ॥ दन्तावलो गजस्तस्येवास्यं मुखं यस्य स गजाननस्तदात्मना तद्रूपेण परिणतं तं भूमानं परं ब्रह्मोपास्महे । कीदृशं तम्‌ । आनन्दो ब्रह्मानन्दस्तेन प्लवमानः । लक्षणया पूर्णानन्दाभिन्न इत्यर्थः । ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुक्तम्‌ । तद्विवर्तरूपः प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम्‌ । पुनः कीदृशम्‌ । योगविदां योगम्‌ । कीदृशां योगविदाम्‌ । विधूतो विविधो व्यासङ्गो यैरत एव शुद्धो य आशयस्तस्मिन्प्रादुर्भूतः सुधारसः शान्तिसुखं येषां ते च ते प्रसृमरं प्रसारि ध्यानं यस्मिन्नीदृशं यदास्पदं कंदरादि तदध्यासिनश्च तेषाम्‌ ॥ तारश्रीपरशक्तिकामवसुधारूपानुगां यं विदु- स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते । आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥ महागणपतिमन्त्रमुद्धरति - तारः प्रणवः, श्रीर्लक्ष्मीबीजम्‌, परशक्तिर्मायाबीजम्‌, कामः कामबीजम्‌, वसुधा भूमिबीजम्‌, इति पञ्चरूपाणां बीजानामनु गमित्यक्षरमेतादृशं यं साधका विदुस्तस्मै गणाधिपतये प्रणतिः स्तादिति योजना । यः सततं स्वाहास्वधादिभिः शक्तिभिः पूजितः । आर्तेन रागिणा प्रथमं वरेति ततो वरदेत्यामन्त्र्याभ्यर्थ्यते । अभ्यर्थनामेवाह - सर्वं जनं स्वामिन्मे वशमानयेति । स्वाहादिभिरित्यनेन स्वाहान्तो मन्त्रः । अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम्‌ । मन्त्रे तु गणपतये तथा सर्वजनमित्येकमेव पदम्‌ । स्वामिन्निति च मन्त्राद्बहिर्भूतम्‌ ॥ कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे षट्कोणाकलितत्रिकोणरचनसत्कर्णिकेऽमुं भजे ॥ ३ ॥ कल्लोलानां महोर्मीणामञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनैतादृश इक्षुरससमुद्रे सुरद्रुमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे । रत्नमयं द्वीपं वारिमध्यस्थलं तद्गतस्य कल्पतरोर्मूले महामणिमयं पीठं तत्र षट्कोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्त्रप्रसिद्धे मातृकाकमलेऽमुं महागणपतिं भजे ॥ चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज- व्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम्‌ । आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥ चक्रं प्रसिद्धम्‌, प्रासस्त्रिशूलः, रसालकार्मुकमिक्षुधनुः, गदा प्रसिद्धा, बीजपूरो मातुलिङ्गम्‌, द्विजः स्वकीयो दन्तः, व्रीह्यग्रं शालिमञ्जरी, उत्पलं प्रसिद्धम्‌, पाशपङ्कजे च प्रसिद्धे, एवं दशायुधानि करेषु यस्य । शुण्डाग्रे पुष्करे जाग्रत्स्थितो घटो रत्नपूर्णो हेमकुम्भो यस्य । कमलहस्तया प्रियया दक्षिणहस्तेनालिङ्गितं माणिक्यप्रतिमं शोणच्छविं सर्वेश्वरं महागणपतिमाशास्महे ॥ दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ- त्सिन्दूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम्‌ । त्रैलोक्येष्टाविधानवर्णसुभगं यः पद्मरागोपमं धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५ ॥ दानाम्भसा मदाम्बुना परिमेदुरं व्याप्तं प्रसृमरान्व्यालम्बिनो रोलम्बान्भ्रमरान्बिभर्तीति प्रसृमरव्यालम्बिरोलम्बभृत्‌ । सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशद्वयं तस्य मिषात्त्रैलोक्येष्टविधान्वर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम्‌ । पद्मरागोपमं पद्मरागो लोहितकस्तदुपमं प्रशस्तिद्वयं यो धत्ते स गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके रक्तचूर्णं दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले भ्रमरा इत्युक्तं भवति ॥ भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा- सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वंकृषाः । दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥ हेरम्बदन्तत्विषो मनः श्रयन्ताम्‌ । किंभूताः । भ्राम्यतो मन्दरस्य घूर्णनावृत्तयस्तदायत्तस्य क्षीराब्धेर्वीचयो लहर्यस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः । चलचामरव्यतिकरश्रीगर्वसर्वंककृषाः । व्यतिकरो व्यतिषङ्गः । दिक्कान्तेत्यादिरूपकम्‌ । घनसारः कर्पूरः । तथा स्वच्छन्दप्रसरप्रलिप्तवियतोऽनल्पसंचाराकीर्णाकाशाः । एतेन  त्विषां बहुत्वं व्यज्यते ॥ मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा- कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः । ज्योत्स्नापूरतरङ्गमन्थरतरत्संध्यावयस्याश्चिरं हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७ ॥ मौक्तिकसमूहमिश्रितप्रदीप्तमाणिक्यसमूहच्छटावत्कान्ता मनोहराः । शङ्खसमूहसंगतविस्तीर्णविद्रुमसमाः । ज्योत्स्नापूरतरङ्गे मन्थरं तरन्ती चासौ संध्या च तस्या वयस्याः साम्यात्सख्यः । एतादृशा हेरम्बस्य दन्तकिरणैर्व्याप्ताः शरीरत्विषश्चिरं जयन्ति ॥ शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर- न्नानारत्नचयेन साधकजनान्संभावयन्कोटिशः । दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भव- त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८ ॥ शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता बहुत्वाद्बहिरपि निर्गच्छता मुक्तामाणिक्यादिरत्नसमूहेन कोटिशः साधकजनान्संभावयन्नसंख्यातानुपासकान्संपदा वर्धयन्‌ । दानेत्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुच्चाटनं तदर्थमाविर्भवत्कर्णान्दोलनक्रीडः । गणानामीश्वरो देवो विजयते ॥ हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन्‌ । न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां शुभम्‌ ॥ ९ ॥ शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽग्रभागे पद्मे बिभ्रत्या श्रिया समं ते प्रसिद्धे शङ्खचक्रे वहन्मधुरिपुर्विष्णुरस्ति । तथा यस्य दक्षिणे न्यग्रोधस्य तले वटवृक्षाधः पाशाङ्कुशाभ्यामितया सहितयाद्रिसुतया पार्वत्या सह परशुं त्रिशूलं च बिभ्राणः शंभुः शिवोऽस्ति ॥ पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च । वामे चक्रगदाधरः स  भगवान्क्रोडः प्रियंगोस्तले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥ देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले बिभ्रत्या रत्या सममैक्षवं धनुः पञ्च पौष्पानिषूंश्च वहन्‌ रतिपतिः कामदेवोऽस्ति । अस्य च वामे प्रियंगुवृक्षाधो हस्तोद्यच्छुकशालिमञ्जरिकयैकस्मिन्करे कीरमन्यत्र कलमकणिशं बिभ्रत्या धरण्या सह स प्रसिद्धो भगवान्क्रोडो वराहोऽस्ति तं हेरम्बं प्रणमामीति पूर्वेणान्वयः ॥ षट्कोणाश्रिषु षट्सु षड्‌ गजमुखाः पाशाङ्कुशाभीवरा- न्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात्पार्श्वगतोऽस्य विघ्न इति यो विघ्नकर्तेति च ॥ ११ ॥ षट्कोणस्य पीठस्य षट्स्वश्रिषु पालीषु षड्‌ गजमुखा ध्येयाः । कीदृशास्ते । पाशाङ्कुशाभयवरान्हस्तेषु बिभ्राणाः । प्रमदानां सखाय इति प्रमदासखाः । भार्यासहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां पद्मरागाणां पुञ्जस्तद्वत्त्विट्‌ कान्तिर्येषां ते । यदि 'पृथुमहाः' इति विसर्गान्तः पाठस्तदा भिन्नं पदम्‌ । पृथुर्महो येषां ते । अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह - पुरतोऽग्रकोण आमोदः । तं चामोदमभितः प्रमोदसुमुखौ । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे प्रमोदः, एवमीशानकोणे सुमुख इत्यर्थः । पश्चात्पश्चिमकोणे दुर्मुखः । अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पार्श्वे विघ्नकर्तेति यस्य नाम स द्वितीयपार्श्वेऽस्ति । अर्थादेको नैरृत्यकोणे, अपरो वायव्ये वर्तते ॥ आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः । कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥ कान्तस्य स्वस्वभर्तुरालिङ्गनरसं जानन्त्यत एव मन्थरा रागिणी दृग्यासां ताः । आमोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यास्तेषां समीपे स्थिता ध्येयाः । तासां नामानि च - सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा, द्राविणी चेति ॥ आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी । अङ्गान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया- स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३ ॥ वसुधया वसुमत्या च क्रमेणालिङ्गितौ शुक्लरक्तवर्णौ धनं वर्षन्तौ तौ शङ्खपद्मसंज्ञौ प्रसिद्धौ निधी षट्कोणपार्श्वयोर्विलसतः । तयोर्ध्यानं कुर्यादित्यर्थह । अनु निधिध्यानानन्तरं हृदयानि षडङ्गानि ध्यायेत्‌ । परितो ब्राह्म्याद्या अष्ट मातरो ध्येयाः । षट्कोणाद्बहिःस्थितेऽष्टदलकमल इन्द्रादयो दिक्पालास्तद्बाह्ये तेषां समीप एव परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो वज्राद्या ध्येयाः ॥ इथं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं- काराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे । आनन्दैकरसावबोधलहरीविध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४ ॥ 'हेरम्बं प्रणमामि' (९।१०) इति श्लोकाभ्यां विष्णुशिवादिस्वरूपैस्तनुर्मूर्तिर्यस्य स तस्मै । आदिपदात्स्मरक्रोडौ । हुंकारमात्रेण निरस्तसमस्तासुरसैन्यसमूहाय दीप्तकान्तये । आनन्देति । निरतिशयसुखस्फुरणतरङ्गैर्दूरीकृतसंपूर्णोर्मये । ऊर्मयः षड्भावविकाराः । ते च - जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति च । आनन्दैकरसावयोधलहरीभिर्विध्वस्ताः सर्वेषां साधकानामूर्मयः षडिन्द्रियजन्या वृत्तयो यस्मादित्येके । ऊर्मिशब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः क्लेशाः । सर्वत्र प्रथमानं मुग्धं सुन्दरं महो यस्य तस्मै परस्मै जगतोऽन्यस्मै नमः ॥ सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी- कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम्‌ । राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमानः श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५ ॥ सेवायां हेवाकोऽभिलाषो येषाम्‌ । अहमग्रेऽहमग्रे भवामीतीच्छा । अहंपूर्विकेति यावत्‌ । ते च ते देवासुरनराणां समूहास्तेषां देदीप्यमानमुकुटाग्राणां या कोटिः संख्याविशेषस्तत्र व्याटीकमानाः सुसंगताः सूर्यतुल्यरत्नपङ्क्तिकान्तिप्रवाहास्तेषाम्‌ । राजन्ती नीराजनश्रीरारात्रिकशोभा तस्याः सखायस्ते च ते चरणनखाश्च तेषां द्योतेन प्रकाशेन विद्योतमानः स प्रसिद्धः सिन्धुरास्यो गजमुखः । हे विमलदृशः पण्डिताः । मम बन्धुरं रम्यं स्थेयः स्थिरतरं श्रेयः कल्याणं देयात्‌ । ममेत्यस्य वा विमलदृश इति विशेषणम्‌ । 'विमलदृशा' इति पाठे तु सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः ॥ एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥ १६ ॥ स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरः मुहुर्मुहुः । अन्यत्स्पष्टम्‌ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समाप्तम्‌ । Posted from WordPress for Android

Search

Search here.