श्री गणेश अष्टोतर नाम
नामावली > गणेश नामावली Posted at 2018-01-20 15:13:40श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ऊँ श्री गणेशाय नमः विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १ ॥ अग्निगर्वच्छिद इन्द्रश्रीप्रदः । वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः ॥ २ ॥ सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः । शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः ॥ ३ ॥ द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः ॥ ४ ॥ लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः । कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥ पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः । अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः ॥ ६ ॥ बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः । द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥ श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः । कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥ चन्द्रचूडामणिः कान्तः पापहारी समाहितः । अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ ९ ॥ शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः । ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥१० ॥ प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः । रामार्चितोविधिर्नागराजयज्ञोपवीतकः ॥ ११ ॥ स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः । स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः ॥ १२॥ दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् । शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥ स्वलावण्यसुधासारो जितमन्मथविग्रहः । समस्तजगदाधारो मायी मूषकवाहनः ॥ १४ ॥ हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः । अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५ ॥ तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः । यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥ दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः । सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ श्री गणेशाची दुर्वा बिल्वपत्र सहित विशेष पूजन करून हे गणेश एकशे आठ नावे रोज पठण - श्रवण केल्याने सर्व अरिष्ट संकटांचा नाश होतो..
Search
Search here.