ऋणमुक्ति गणेश स्तोत्र
स्तोत्र - मंत्र > गणेश स्तोत्र Posted at 2016-02-06 21:37:00
ऋणमुक्ति गणेश स्तोत्र
अथ श्रीऋणविमोचन महागणपतीस्तोत्रमंत्रस्य शुक्राचार्य ऋषी: , ऋणवोमोचनमहागणपतिर्देवता, अनुष्टुप् छन्दः, ऋणविमोचनमहागणपतिप्रीत्यर्थं जपे विनियोगः !!
ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् !
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये !! १ !!
महागणपतिं वन्दे महासेतुं महाबलम् !
एकमेवाद्वितीयं तु नमामि ऋणमुक्तये !! २ !!
एकाक्षरं त्वेकदन्तमेकं ब्रह्म सनातनम् !
महाविघ्नहरंदेवं नमामि ऋणमुक्तये !! ३ !!
शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् !
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये !! ४ !!
रक्तम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् !
रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ५ !!
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् !
कृष्णयज्ञोपवीतंच नमामि ऋणमुक्तये !! ६ !!
पीताम्बरं पीतवर्ण पीतगन्धानुलेपनम् !
पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ७ !!
सर्वात्मकं सर्ववर्णं सर्वगन्धानुलेपनम् !
सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये !! ८ !!
एतद् ऋणहरं स्तोत्रं त्रिसन्धं यः पठेन्नरः !
षणमासाभ्यन्तरे तस्य ऋणच्छेदो न संशयः !! ९ !!
सहस्त्रदशकं कृत्वा ऋणमुक्तो धनी भवेत् !
इति रुद्रयामले ऋणमुक्तिगणेशस्तोत्रं सम्पूर्णम् !! १० !!
श्री श्याम जोशी गुरुजी
टिटवाळा
Search
Search here.