श्री गायत्री स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2019-02-17 06:37:07
श्री गायत्री स्तोत्र नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ १ ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ते ॥ २ ॥ अनन्तकोटिब्रह्माण्डव्यापिनी ब्रह्मचारिणी । नित्यानन्दे महामाये परेशानी नमोऽस्तु ते ॥ ३ ॥ त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता । मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ ४ ॥ पूषाऽर्यमा मरुत्वांश्च ऋषयोपि मुनीश्वराः । पितरो नागयक्षांश्च गन्धर्वाऽप्सरसां गणाः ॥ ५ ॥ रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरी । ऋग्यजुस्सामविद्याश्च ह्यथर्वाङ्गिरसानि च ॥ ६ ॥ त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः । पुराणानि च तन्त्राणि महागममतानि च ॥ ७ ॥ त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरी । ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरी ॥ ८ ॥ तत्सद्ब्रह्मस्वरूपा त्वं किञ्चित्सदसदात्मिका । परात्परेशी गायत्री नमस्ते मातरम्बिके ॥ ९ ॥ चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे । स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरी ॥ १० ॥ नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम् । सरस्वती नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ॥ ११ ॥ अपराध सहस्राणि त्वसत्कर्मशतानि च । मत्तो जातानि देवेशी त्वं क्षमस्व दिने दिने ॥ १२ ॥

Search

Search here.