ईशावास्योपनिषत्

ग्रंथालय  > उपनिषद Posted at 2016-03-11 11:01:05
॥ ॐ तत्सत् ॥ ईशावास्योपनिषत् ॥ १ ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ईशा वास्यमिदँ सर्वं यत्किंच जगत्यां जगत् ॥ तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्घनम् ॥१ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः ॥ एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२ ॥ असूर्या नाम ते लोका अन्धेन तमसावृताः ॥ ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनः ॥३ ॥ अनेजदेकं मन्सो जवीयो नैनद्देवा आप्नुवन्प्रुर्वमर्षत् ॥ तद्धावतोऽन्यान्त्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४ ॥ तदेजति तन्नैजति तद्दूरे तद्वन्तिके॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य याह्यतः ॥५ ॥ यस्तु सर्वानि भूतान्यात्मन्ये- बानुपश्यति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥ यस्मिन्सर्वानि स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँशुद्धमपापविद्धम् ॥ कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥ अन्धन्तमः प्रवि- शन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९ ॥ अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ विद्यां चाविद्यां च यस्तद्वेदोभयँ स ह ॥ अविद्द्यया मृत्युं तीर्त्वा विद्य- यामृतमश्नुते ॥ ११॥ अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥ १२ ॥ अन्यदेवाहुः संभवादन्यदाहुरसंभ- वात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ॥ तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥ वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् ॥ ॐ क्रमो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ १७ ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयु- नानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भुयिष्ठां ते नमौक्तिं विधेम ॥१८ ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शन्तिः शान्तिः शान्तिः ॥ इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा

Search

Search here.