कालभैरव माहात्म्य संपुर्ण ४ अध्याय

ग्रंथ - पोथी  > इतर ग्रंथ पोथी Posted at 2018-12-06 16:35:06
कालभैरव माहात्म्य संपुर्ण ४ अध्याय  श्री कालभैरवाय नमः ॥ अथ ध्यानम ॥ ॐ वाराणस्यां भैरवो देवः । संसारभयनाशनः । अनेक जन्मकृतं पापम् । स्मरणेन विनश्यति ॥ श्री गणेशाय नमः । ॐ नमः । शिव महा पुराणाच्या आधारे असे संगतात कि, भगवान विष्णु आणि ब्रह्मा याच्यात संवाद चालला असता ब्रह्मा म्हणाले के, मीच या सृष्टीचा कर्ता असून सर्व देवांनी माझीच स्तुती करावी. हे ऐकून भगवान शिवांना क्रोध आला, आणि त्यांनी काळभैरवाची, ब्रह्माला शासन करण्यासाठी, उत्पत्ती केली. ब्रह्माच्या पाच मस्तकांपैकी एक मस्तक काळभैरवाने उडवले. आणि तेव्हापासून ब्रह्माला चारच डोकी आहेत. परंतु ते कापलेले मस्तक भैरवाचेच मस्तक आहे असे दिसू लागले, आणि त्याला ब्रह्माच्या शिरच्छेदाबद्दल अपराधी भावना वाटू लागली. आणि त्यामुळे कित्येक युगांपर्यंत, तो पर्यंत पापमुक्त होत नाही, तो पर्यंत काळभैरव ते मस्तक वाहत होते. दुसरी एक कथा अशी सांगतात के, देवांचा राजा दक्षची कन्या सतीने मनोमन भगवान शिवालाच आपला वर मानले होते, आणि विवाह केला, परंतु हे दक्षाला मान्य नव्हते, कारण शिव स्मशानात राहतो, अंगाला प्रेतभस्म लावतो, ध्यान विचित्र आहे, आणि सोबत भुते असतात. नंतर जेव्हा दक्षाने मोठा यज्ञ केला तेव्हा त्याने शिव सतील बोलावले नाही. परंतु सती न बोलावताहि यज्ञाला आली, परंतु दक्ष शिवाला दुषणे देउन, अर्वाच्य भाषेत शिव्याशाप देऊ लागला, हे सहन न होऊन सतीने तिथ्व्च प्राणत्याग केला. हे पाहून शिवाला अतिशय दुःख झाले, आणि त्याने रागाने यज्ञाचा विध्वंस केला आणि दक्षाचा वध केला. दुःख अनावर झाल्याने, शिव सतीचे प्रेत खांद्यावर घेऊन त्रिलोकात फिरु लागला. आणि यामुळे सृष्टीचा नाश होऊ लागला. ते पाहुन भगवन विष्णुने आपल्या सुदर्शन चक्राने सतीचे तुकडे केले, तेव्हा हे तुकडे ज्या ज्या ठिकाणी पृथ्वीवर पडले त्या त्या ठिकाणी शक्तिपीठ निर्माण झाले. या शक्तिपीठांच्या रक्षणासाठी शिवाने काळभैरवाची उत्पत्ती केली, म्हणुन त्या त्या ठिकाणी काळभैरवाचे मंदिर असतेच. ------------------------------------------------ कालभैरव माहात्म्य - अध्याय पहिला प्रथमाध्यायः ॐ श्री कालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥१॥ तत्कुण्डनिकटे रम्यं लिंगं कालेश्वराभिधमा । भैरवस्थापितं तिष्टत्येकं पापौघनाशकम् ॥२॥ तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवस्य च ॥३॥ प्रदक्षिणा नमस्काराः कार्याश्चाष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥४॥ शुचिभिस्तैलपक्‌वान्नैः शैवा ब्राह्मणपुंगवाः । भोजनीयाः प्रयत्‍नेन भैरवप्रीतिकामुकैः ॥५॥ पार्वत्युवाच- का वा कालाष्टमी शंभो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तुष्याति भैरवः ॥६॥ शिव उवाच- 'कालाष्टमी' ति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्यं तथा जागरणं निशि ॥७॥ पुरा रयंतरे कल्पे वासिष्टाद्या मुनीश्वराः । देवाश्चेन्द्रादयः सर्वे काश्यां संपूज्य मां विभुम् ॥८॥ नित्ययात्रादिकं कृत्वा मध्यान्हे संस्थिते रवौ । कृत्तिवासेश्वरं प्रापुर्बिंल्वपत्रादि साधनाः ॥९॥ कृत्तिवासेश्वरं सम्यक् पूजवित्वा ततः परं । शंकर नित्यं उपविष्टध्यायंतः स्थिरासनाः ॥१०॥ तदानीं आगतो ब्रह्मा कृतिवासेश्वरालयम् । रिक्तपाणिरनभ्यर्च्यं शिवं मां स तु संस्थितः ॥११॥ तदानीं विस्मिताः सर्वे वसिष्ठाद्या मुनीश्वराः । तमूजुर्भ्रान्तमनसः स्मयाविषृमुदङ्‌मुखम् ॥१२॥ ऋषय ऊचुः किं ब्रह्मन् देवदेवेशं शंकरं साम्बं अव्ययम् । अभ्यर्च्यं तमनभ्यर्च्य रिक्तपाणिकरुपस्थितः ॥१३॥ बिल्ववृक्षाः करप्राप्याः संति काश्यां तु भूरिशः । तथापि बिल्वपत्राणि नानीतानि कथं त्वया ॥१४॥ बिल्वकंटकभीत्या किं पत्रं तत् नार्जितं त्वया । किमेवं रक्षितेनाथ शरीरेण तवाधुना ॥१५॥ बिल्वकंटक सविद्ध करा बिल्वार्जनप्रियाः । भुक्त्‌वाभोगन् च विपुलान शिवलोकं प्रयांति हि ॥१६॥ धर्मसिद्धिर्विना क्लेशं धर्मस्तु क्लेशसाधितः। क्लेशाधिक्यात् फलाधिक्यं इति न ज्ञायते त्वया ॥१७॥ हंसतीर्थमिदं पुण्यं कृत्तिवासेशसंन्निधौ । ततो जलं वा नानीतं किं देवार्थं त्वयाऽधुना ॥१८॥ अपामार्गस्य पत्राणि सुलभानि बहूनि च । संत्यत्र तानि वा ब्रह्मन् नानीतानि कथं त्वया ॥१९॥ रिक्तहस्तो महादेव यो याति स महानपि । विनश्यति न संदेहो नरकं चाधिगच्छति ॥२०॥ पूज्यस्य देवदेवस्य शंकरस्य महात्मनः । न करोतिचयः पूजां स याति नरकं ध्‍रुवम ॥२१॥ प्रमादेनाभिमानेन तथा गर्वेण वा भ्रमात् । प्राप्य शंभुं रिक्तहस्तो नष्टधर्मो भविष्यति ॥२२॥ नष्टधर्मस्ततो याति यावत् चंद्र तारकं । नरकं तस्य नरकान्निर्गमो नास्ति सर्वथा ॥२३॥ प्रणामाश्च त्वया ब्रह्मन् न कृताः पापनाशकाः । महादेवस्य, तैरीशः प्रीणाति भगवान् शिवः ॥२४॥ शुभं नं दृश्यते ब्रह्मन् तवाद्यात्र न संशयः । अनर्चित महेशस्य व्क शुभंत्वशुभंध्‍रुवम् ॥२५॥ इत्युक्त्वा संस्थितान्, देवि ब्रह्मा तान् ऋषि सत्तमान् । उवाचातीव संक्‍रुद्धः पापाश्नय इवनिशम् ॥२६॥ ब्रह्मा उवाच- अहमेवाखिलैः पूज्यः पूज्यो मम सर्वथा । किं शूली मम संपूज्यः पूज्योऽहं शूलिनो ध्‍रुवम् ॥२७॥ वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वदा ॥२८॥ भ्रान्ता यूयं न संदेहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥२९॥ प्रलपन्नेवमेवान्यदपि भ्रान्तस्तथा विधिः । तस्थौ, ततो महाविष्णु रर्ध्यपाणिरुपागतः ॥३०॥ ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥३१॥ धूपं दीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा, पुनर्ददौ दीपान् पुनः पुष्पांजलिं ददौ ॥३२॥ प्रदक्षिणनमस्कारांश्चकार तदनंतरम् । ततः पंत्र्चाक्षरं शैव जजाप स जनार्दनः ॥३३॥ ततस्तं ध्याननिरतं विधिर्दृष्ट्‍वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादयन् हरेः ॥३४॥ ब्रह्मा उवाच असंपूज्यैव पूजार्हं मां अयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥३५॥ इत्युदिरितमाकर्ण्य वचनं तद् विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥३६॥ विष्णुः उवाच- हा! हा! दुर्भग दुर्बुद्धे किमेवं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥३७॥ सर्वदेवोत्तमः सांबः शंकरो भक्तवत्सलः । सर्वेषामपि संपूज्यः तस्य पूज्यो न दृश्यते ॥३८॥ तस्यैव पूजा विहिता सर्ववेदेषु सर्वदा । तत्पूजयैव संप्राप्यौ मोक्षो मोक्षपदः शिवः ॥३९॥ शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । शिवपूजाप्रभावेण पालयाम्यखिलं जगत् ॥४०॥ इत्युक्तवंतं तं विष्णुंय भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो नहि संपूज्यः पूज्योऽहं नात्रं संशय ॥४१॥ भ्रांन्ताः सर्वे कथं जाताः, पूज्यं मां सर्वेसाधनैः । न पूजयन्ति दुर्वृत्ता मां इत्येवं वदन् स्थितः ॥४२॥ तदा क्लेशान्वितो विष्णुः शंकरं लोकशंकरम् । तुष्ट्‌वा विविधैस्तोत्रैरुवाचेदं वचस्तदा ॥४३॥ शंभो प्रसीद देवेश क्लेशं दूरी कुरुष्व मे । अशैव संहरष्वैनं अधर्मस्य प्रवर्तकम् ॥४४॥ अधर्मवृद्धया सर्वेपि यास्यंति नरकं ध्‍रूवम् । कृपालुरसि देवेश विधिं एनं विनाशय ॥४५॥ अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अस्यैव शिक्षा कर्तव्या देवेशस्य पुरांतक ॥४६॥ नो चेत् अधर्मवृद्धिस्तु भविष्यति न संशयः अधर्म वृद्धया देवानां दुःखवृद्धिर्भविष्याति ॥४७॥ इत्युक्त्वा प्रणतो विष्णुः सऋषिः ससुरस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन् मुहुः ॥४८॥ तदोग्ररूपादनधान्मतः श्रीकाल-भैरवः । अविरासीत्तदा लोकान् भीषयन् अखिलानपि ॥४९॥ व्याप्यायं सप्तपातालान् अनंतचरणैः स्वयं । भूर्भुवः सुवरदींश्च शिरोभिर्व्याप्य संस्थितः ॥५०॥ दिशो दश व्याप्य हस्तैरनतैर्विवृताननः । अनंतसूर्यप्रतिमः कालानलसमप्रभः ॥५१॥ नानाशस्त्रावृतकरो नानागंधानुलेपनः । नानामाल्यावृतो नानारत्‍नाभरणसंवृतः ॥५२॥ अनंतरोमकूपेषु वहन्नग्निगणान् बहून् । निःश्वासपवनैरग्रीन् विसृजन रक्तलोचनः ॥५३॥ अकाण्डप्रलयाग्नीनां समूह इव संस्थितः । दृष्ट्‌वा तं विस्मिताः सर्वे देवाः सऋषिपुंगवाः ॥५४॥ चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकंपे सकलैः फणिभिश्च समावृतः ॥५५॥ तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्काराऽऽघातमात्रेण पेतुरूर्व्यां च तारकाः ॥५६॥ पपात मूर्च्छितो विष्णुस्तं दृष्ट्‌वा भीमविग्रहम् । पेतुर्मुनिवराः सर्वे देवाश्चेन्द्रपुरोगमाः ॥५७॥ क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदाः उद्वेलाश्च बभूवुस्ते महाकल्लोलसंहताः ॥५८॥ ततःस भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥५९॥ श्रीभैरव उवाच- शंभो कि करवाण्यद्य कार्यं किं समुपस्थितम् । शोषणीयाः समुद्राः किं क्षणेनैवावद्य लीलया ॥६०॥ किंवा कुलाचलाः सर्वे पेषणीयास्त्वदाज्ञया । भस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥६१॥ किं भस्मतामुपैत्वीश सशैलवनकानना । पृथिवी सनदी सर्वा मामाज्ञापय शंकर ॥६२॥ मा विलंबं कुरुप्वेश किं विलंबेन शंकर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥६३॥ मयोग्रतररूपेण तूर्ष्णी स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभो ॥६४॥ एवम् उक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । ततो ब्रह्मशिरश्छेदं कुरूष्वेत्युक्तवानहम् ॥६५॥ ततो विधिं भैरवस्तं दृष्ट्‌वा प्रस्फुरिताधरः । नरवाग्रेणैव चिच्छेद शिरांसि स पपात च ॥६६॥ ततस्तस्य विधेच्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन् सत्वरं शिवे ॥६७॥ तदा तस्य शिरो दृष्टवा ब्रह्मणः फणिराट् तदा । विस्मितोऽभूत् किमेतस्य शिरश्र्छेदस्य कारणम् ॥६८॥ फणिराट् उवाच- इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥६९॥ प्रायशो देवदेवस्य महादेवस्य पूजनं । न कृतं ब्रह्मणा तस्मात् शिवेन निहतो विधिः ॥७०॥ प्रायशो ब्रह्मणा शंभोर्धिक्कारो वा कृतो ध्‍रुवं । नंदिकेशस्य वाऽन्यस्य शिवभक्तस्य वा पुनः ॥७१॥ शिवं वा शिवभक्तं वा नंदिकेशं शिवप्रियं । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥७२॥ अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालस्तु ब्रह्मविष्णवादिनाशकः ॥७३॥ समयः प्रलयस्यास्तु माऽस्तु वाऽयं तथाप्यहं । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥७४॥ महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयात् भयम् ॥७५॥ दग्धः भवतु ब्रह्मा द्या, लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥७६॥ इत्युक्त्या फणिराट् शीघ्रं काशीं प्रतिसमाययौ । पाहि पाहि महादेव प्रलयात् इति संवदन् ॥७७॥ संप्राप्य काशीं पूतात्मा प्रह्रष्टह्रदयः फणी । अमन्यत तदाऽऽत्मानं कृतार्थं भाग्यसंश्रयं ॥७८॥ दृष्ट्‌वा काशीपुरीं शैवीं शिवमोक्षप्रदायनीमः । साक्षात् शिवस्वरूपेयं देवानामपि दुर्लभा ॥७९॥ कृपा मयि महेशस्य संपूर्णा तिष्ठति ध्‍रुवम् यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥८०॥ अतःपरं भयं नास्ति, मृत्योरपि मम ध्‍रुवं । यतःप्राप्ता मया काशी, मां मृत्युर्नावपश्यति ॥८१॥ ततः सरत्‍नपुष्पाध्यैः विश्वेशं मां सनातनं । संपूज्य नित्ययात्रादि सर्वं कर्म चकार सः ॥८२॥ आदिभैरवमभ्यर्च्य धूपदीपादिभिः ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥८३॥ तत्र श्रीभैरवं दृष्ट्‌वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥८४॥ ततश्चोत्थापितो विष्णुर्मया पूर्वं स मूर्च्छितः । इंद्रादयः सऋषयः मयैवोत्थापिताः शिवे ॥८५॥ विष्णुरिन्द्रः फणिपतिर्देवाश्चन्ये मुनीश्वराः । ददृशुच्छिन्नशिरसं विधिं तं पतितं भुवि ॥८६॥ ततो विष्णुः सदेवेन्द्रः सऋषिः सफणिस्तदा । स्तोत्रैनेकैः तुष्टाव भीमं श्रीकालभैरवम् ॥८७॥ देवा ऊचुः नमस्ते कालनाथाय नमस्ते कालरूपिणे । नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥८८॥ नमस्ते कालकालाय नमस्ते कालभक्षक । नमो दिगंबरानन्त ममः परमपुरुष ॥८९॥ नमो विश्वात्मक श्रीमन्‌ नमो विश्वैकजीवन । नमस्तेऽस्तु सहस्राक्ष सहस्रक्रर ते नमः ॥९०॥ सहस्रचरणामेय नमस्ते भैरव प्रबो । नमस्ते रुद्र रुद्रात्मन् नमस्ते रुद्रसंभव ॥९१॥ नमस्ते शाश्वतानंद नमस्ते भूतभावन । नमस्ते सर्वलोकेश सर्वाधारामरार्वित ॥९२॥ नमस्ते दिक् स्वरूपाय नमस्ते भूस्वरूपिणे । नमस्ते सूर्यरूपाय चंद्ररूपाय ते नमः ॥९३॥ नमस्ते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायामितात्मने ॥९४॥ नमः परमवीराय नमः परशुधारिणे । नमो डमरुहस्ताय नमः खट्‌वांगधारिणे ॥९५॥ नमोऽनंगुतणाधार नमोऽनन्त स्वरूपिणे । नमोविभूतिकवच व्योमकेश नमोस्तुते ॥९६॥ नमस्त्रिशूलखर नमस्ते मुण्डमालिने । नमः प्रेतासनासीन जपावर्ण नमोस्तुते ॥९७॥ नमोब्रह्मण्यरूपाय विधिनाशक ते नमः । अशैवशैलव्रजेश शिवद्रोहिविनाशक ॥९८॥ शिवभक्तप्रिय श्रीमन् नमः श्रीकालभैरव । शरण्यमूर्ते सर्वात्मन् नमस्ते भक्तवत्सल ॥९९॥ शिवनेत्रानल श्रीमन् नमस्ते शिवपूजक । नमो रक्तांबर श्रीमन् नमस्ते रक्तचंदन ॥१००॥ नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे । नमस्ते रक्तभालाय नमो रक्तनरवाय ते ॥१०१॥ निर्विकार निरीहेश निरंजन निराश्रय । निरूपफ्लव निर्द्वन्द्व निरवद्य निरामय ॥१०२॥ व्यालोपवीतिन् उग्रात्मन् महाप्रलयकारण । अनेकसोमसूर्याग्निगणाकार नमोऽस्तुते ॥१०३॥ दृष्ट्‌वा तवेदमत्युग्रं रूपं भीता दिवौकसः । भीतोऽस्म्यहम् कृपासिंधो भीताश्च ऋषिपुंगवाः ॥ द्रष्टुं न शक्यते घोरं तवेदं रूपं ईदृशम् । सौम्यं रूपं वहस्वेश प्रसीद करुणाकर ॥१०५॥ दुष्टस्यस्येयं मता शिक्षा शिवद्रोहरतात्मनः । शिक्षेयं एवं सर्वेषां अशैवानां दुरात्मना ॥१०६॥ उत्साहोऽद्य महानासीत् मम श्रीकालभैरव दुरात्माऽयं शिवद्रोही निहतोऽद्य यतस्त्वया ॥१०७॥ यदा मह्यं महेशेन विष्णुत्वं दत्त आदरात् । तदाऽपि भैरव श्रीमन् सन्तोषो नेदृशो ध्‍रुवम् ॥१०८॥ अशैवे निहते दुष्टे धर्मोऽपि स्थिरतां गतः । अन्यथा धर्मलेशस्याप्यवस्थानं तु दुर्लभं ॥१०९॥ परंत भैरव श्रीमन् शिक्षाऽस्य हितकारिणी । जाता, मरणमात्रेण मुक्तिरत्र भविष्यति ॥११०॥ ततोऽस्य मरणं येन न भविष्यति भैरव । तथा शिरांसि ग्रीवासु योजयामि त्वदाज्ञया ॥१११॥ एकं गतं शिरोऽस्यैव पातालं प्रति सत्वरं । दुःखमेवमशैवानां भात्यारब्यापनाय तत् ॥११२॥ तेनोनः शिरसा ब्रह्मा दुःखितस्तिष्ठति प्रभो । मरणे त्वस्य दुःखानि नेदुशानीति मन्महे ॥११३॥ स्मरन् स्वकृतकर्माणि दुःखहेतून्ययं विधिः । तिष्ठत्वाकल्पमत्यंतं दुःखितःप्रलपन् सदा ॥११४॥ अपराधिनमालोक्य नृपाश्च क्‍रुरशासनाः । कुर्वंति पादहस्तान्यतरलूनं दुरीसदा ॥११५॥ एनमालोक्य शिरसा हीनमन्ये नराःसुरा । शिवद्रोहं दुःखहेतुं न करिष्यन्ति सर्वथा ॥११६॥ ब्रह्मणोऽपीदृशं दुःखं शिवद्रोहहरतात्मनः । किमुतास्माकमित्यन्ये भीताः स्थास्यांति भैरव ॥११७॥ शिक्षेयं महती नूनं ब्रह्मणोऽमिततेजसः । शिक्षेवमेव कर्तव्या शिवद्रोहरतात्मनां ॥११८॥ अशैवा नरके घोरे पातनीयाः प्रयत्‍नतः । यथा तेषां दुखःवृद्धिस्तोषवृद्धिस्तथा मम ॥११९॥ प्राणैः संयोजयाम्येनंसत्वरं दुःखित स्त्वयं । दुःखं प्राणिवियोगस्य कथं भवति भैरव ॥१२०॥ किं चास्य तृणकरूपस्य वधार्थं रूपमीदृशम् । किमर्थं घृतं ईशान कल्पक्षयकरं परं ॥१२१॥ महाकल्पस्य नाशेऽपि न धृतं रूपमीदृशम् । प्रायशो भैरव श्रीमन् प्रलयांतकर प्रभो ॥१२२॥ कुटिलेनाक्षिपातेन लोकान् सर्वांन् अपि क्षणात् । भस्मीकर्तुं समर्थोऽसि भैरवात्र न संशयः ॥१२३॥ प्रसंगेनापि देवेश तव रूपं सनातनं । दृष्टमद्य कृतार्थोऽस्मि क्वैतद्‌रूपस्य दर्शनम् ॥१२४॥ कैतद्‌रूपस्य दर्शनम् ॥१२४॥ आद्यं तद्‌ दृष्टं एतन्न रूपं भैरव सर्वथा । इदं किंचिदपि द्रष्टुं न शक्यं सत्यं उच्यते ॥१२५॥ इत्युक्त्वा सऋषिर्विष्णुभैरवं भीमशासनं । मुहुर्महः प्रणम्यास्य पादमूले पपात सः ॥१२६॥ सौम्यरूपधरः श्रीमान् ततः श्रीकालभैरवः । उत्थाप्य विष्णुं वचनं जगादैनं तथास्तिवति ॥१२७॥ ततःपरं भैरवस्य भीमरूपस्य केशवः । आज्ञां मूध्नो समादाय ह्रष्टचित्तोऽभवच्छिवे ॥१२८॥ ततो विधिकबंधेन तच्छिरांस्यवनीतलात् । गृहीत्वा योजयामास यथास्थानं यथाक्रमम् ॥१२९॥ ततः स भैरवस्यैव प्रसादात् प्राणवानभूत् । ततश्च दुखं संप्राप्य गतोऽन्यत्र स लज्जया ॥१३०॥ ततो ववुः सुखा वाताः पुष्पवृष्टिर्बभूव च । प्रसन्नाश्च दिशः सर्वाबभूवुर्भूसुराः पुनः ॥१३१॥ सिंधवोऽपि यथास्थानं तस्थुः शैलाश्च पार्वति । पृथिवी च जहौ कंपं शेषः स्वस्थानमाययौ ॥१३२॥ एतस्मिन्नंतरे देवाः सूर्येऽप्यस्तं गते शिवे । ततः संध्यादिकं कृत्वा शिवपूजापरा बभूवुः ॥१३३॥ ततः काशीपालनार्थं भैरवः स्थापितो मयाः । कुत्तिवाश्चसेरस्यैव दक्षिणादिशि सादरम् ॥१३४॥ ततः सायं विष्णुमुखाः कृत्वा पूजां मम प्रिये । भैरवाभ्यर्चनार्थं ते जग्मुर्भैरवन्निधौ ॥१३५॥ ततस्ते भैरवं देवं उपचारैश्च षोडशैः । संपूज्यार्घ्यंप्रदानानि चक्रुर्भक्तिसमन्विताः ॥१३६॥ उपोषणस्यांगभूतं अर्घ्यदानमिह स्मृतम् । तथा जागरणं रात्रौ पूजा यामचतुष्टये ॥१३७॥ भैरवायोग्ररुपाय यस्त्वर्ध्यं न प्रयच्छति । तस्योपवासजनितं न फलं जागरार्जित ॥१३८॥ पात्रे पुष्पाणि सजलान्यादायार्ध्यं मनुं त्वमुं । जपन्तो ददुरर्ध्याणि भैरवायामितात्मने ॥१३९॥ (अर्घ्यमंत्र १४० ते १४२) भैरवार्घ्यं गृहाणेश भीमरूपाव्ययानघ । अनेनार्घ्यप्रदानेन तुष्टो भव शिवप्रिय ॥१४०॥ सहस्राक्षिशिरोबाहो सहस्रचरणाजर । गृहाणार्घ्यं भैरवेदं सपुष्पं परमेश्वर ॥ १४१॥ पुष्पांजलिं गृहाणेश वरदो भव भैरव । पुनरर्घ्यं गृहाणेदं सपुष्पं यातनापह ॥१४२॥ इति कृत्वाऽर्घ्यदानानि निशि विष्णुपुरोगमाः । चक्‍रुर्जागरणं रूपंशंसन्तो भैरवस्य तो ॥१४३॥ भैरवस्य तु कर्तव्या पूजा यामचतुष्टये । कार्यं शिवकथाऽऽलापैर्निशि जागरणं सदा ॥१४४॥ जागरं चोपवासं च कृत्वा कालाष्टमीदिने । प्रयतः पापनिर्मुक्तः शैवो भवति शोभने ॥१४५॥ यो देवि भैरवाष्टम्यां उपवासं प्रयत्‍नतः । न करिष्यति मोहेन स यात्येव हियातनाम् ॥१४६॥ तस्मात् पूजा भैरवस्य कर्तव्या सततं बुधैः । यातनाभीरूमर्त्यैर्मुनिभिश्चमरैरपि ॥१४७॥ यथाऽहमन्वहं पूज्यः तथा प्रत्यहमादरात् । पूजनीयः प्रयत्‍नेन भैरवो भीमशासनः ॥१४८॥ ॥इति श्रीकालभैरवमाहात्म्ये प्रथमोऽध्यायः समाप्तः॥ ---------------------------------------------------------- कालभैरव माहात्म्य - अध्याय दुसरा अथ द्वितीयोऽध्यायः । पुराविष्णुरनेनैव भैरवेण हि भक्षितः । निष्कासितश्च तेनैव पुनः संस्थापितो हरिः ॥१४९॥ पुरा क्षीराब्धिमध्यस्थो विष्णुर्लक्ष्मीसमन्वितः । सायंकालेऽपि संश्र्लिष्य लक्ष्मीं तस्यौ प्रहर्षितः ॥१५०॥ तदा विलोक्य तं लक्ष्मीर्विष्णुं प्रोवाच सादरम् । रविरस्तंगतो मुज शय्यां मां च रतिं मयि ॥१५१॥ लक्ष्मीः उवाच सायंकाले शयानस्य लक्ष्मीर्नष्टा भविष्यति । विशेषतः स्त्रीरतस्य त्यक्तसंध्यादिकर्मणः ॥१५२॥ सायंकाले महादेवः पूजनीयोऽखिलैरपि । कुरु भस्माद्धूलनादि सर्वपापविनाशकम् ॥१५३॥ बिल्वपत्रादि संपाद्य यज देवोत्तमं शिवं । प्रणामानि कुरु प्रीत्या शरणं व्रज शंकरम् ॥१५४॥ सर्वेष्वपि प्रदोषेषु पूजनीयः सदाशिवः । इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते ॥१५५॥ यः सप्तमीप्रदोषेषु शंकरं पूजयिष्यति । न तस्य नरकावासो दारिद्रां च न सर्वथा ॥१५६॥ प्रदोषकाले भगवान् महादेवः सुराधिपः । करोति तांडवं देमुपविवेश्य शुभासने ॥१५७॥ तांडवाभिरतं देवं ग्रहनक्षत्रमालिनं । ह्रदि ध्यात्वा महादेवं पूजयस्व सुरोत्तमम् ॥१५८॥ अभिषंच्य महादेवं लिंगरूपिणमव्ययं । क्षीरेणानेन शुद्धैश्चा जलैनीहारसंन्निभैः ॥१५९॥ गृहीत्वा चंदनं रम्यं शिवलिंगं समर्चय । एतैर्नवै र्बिल्वपत्रैरभ्यर्चय महेश्वरं ॥१६०॥ धूपदीपादिकं दत्वा नैवेद्यं च समर्पय । प्रणायामानि कुरु प्रीत्या शैवं पश्चाक्षरं जप ॥१६१॥ कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः । प्रीणयस्व महादेवं शरणं याहि शंकरं ॥१६२॥ शिवपूजार्थमालस्यं यः करिष्यति मूढधीः । स विहाय क्षीरमुष्णं मूत्रं पिबति सर्वथा ॥१६३॥ यदि त्यक्ष्यसि सायाह्नि महादेवस्य पूजनं । तदा त्वया मयाऽप्यद्य दुःखं प्राप्यं न संशयः ॥१६४॥ पत्रैर्जलैर्वा मंत्रैर्वा पूजितः परमेश्वरः । तुष्टो भवति गौरीशः त्वमेवार्चय शंकरम् ॥१६५॥ धत्तूरकुसुमेनापि पूजितः शंकरः स्वयम् । ददाति परमं स्थानं योगिनामपि दुर्लभम् ॥१६६॥ तस्मादुत्थाय यत्‍नेन पूजयस्व सदाशिवम् । संपूज्य सायं विश्वेशं निष्पापो भव सत्वरम् ॥१६७॥ सायंकाले महादेवं यो नार्चयति शंकरम् । स एव सर्वपापानां आश्रयो भवति ध्‍रुवं ॥१६८॥ सायं त्यक्त्वा शंकरस्य देवदेवस्य पूजनं । यस्तिष्ठयापदां प्राप्त्यै स तिष्ठति न संशयः ॥१६९॥ ऐश्वर्यं तु त्वया प्राप्तं शंकरस्यैव पूजया । तादृशेन कथं त्याज्यं त्वया शंकरपूजनं ॥१७०॥ महापातकयुक्तो वा युक्तो वा सर्वपातकैः । मुच्यते पातकैः सर्वेः प्रदोष शिवपूजया ॥१७१॥ हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा । अविलंबेन यत्‍नेन पूजयस्व महेश्वरं ॥१७२॥ इत्युक्त्वा संस्थितां लक्ष्मीं भ्रांतचित्तो हरिस्तदा । उवाच वचनं लक्ष्मीं कंपयन् कुपिताननः ॥१७३॥ विष्णुः उवाच को वा ममास्ति संपूज्यः पूज्योऽहं सर्वदेहिभिः । क्क शंकरः क्क वा तस्य पूजेन मुक्तिहेतुता ॥१७४॥ लक्ष्मीः उवाच इत्युक्तं तद्वचः श्रुत्वा लक्ष्मीर्विष्णुमुवाच सा । हा हा विष्णो भ्रांतचित्तः कथं जातोऽसि तद्वद ॥१७५॥ तवाशुभस्य कालोऽयं सत्वरं समुपस्थितः । नो चेन्महादेवनिंदा कथं कार्या त्वया हरे ॥१७६॥ दुश्यन्ते दुष्टचिन्हानि शुभचिन्हं न किंचन । भ्रष्टं च मम धम्मिल्लं उत्तरीयं अधोगतम् ॥१७७॥ त्रुटिता कंठमाला च भ्रूव्यथाऽपि समुत्थिता । क्षणार्धेनैव संप्राप्यं अशुभं नात्र संशयः ॥१७८॥ महादेवस्य यो निंदां करिष्यति सुरोऽपि वा । स चंडालइति ज्ञेयो भवत्यग्रेऽपि सोऽन्त्यजः ॥१७९॥ एवमुक्त्वा स्थिता लक्ष्मीः तदानीं त्वेव भैरवः । क्षीराब्धिप्रमुखान् अब्धीन् पपौ सप्तापि लीलया ॥१८०॥ पंचाशद्दुगपर्यंतं समुद्रास्तस्य तूदरे । स्थितो विष्णुर्महालक्ष्म्या सहितः संकटं वहन् ॥१८१॥ ततश्चिक्षेप सकलान् अब्धीन् अमितविक्रमः । तदा दुःखमभूद्विष्णोर्नक्राणां अपि शोभने ॥१८२॥ ततः पपात गहने विष्णुर्जलविवर्जिते । पपातान्यत्र लक्ष्मीः सा दुःखिता भयविव्हला ॥१८३॥ पतिता शोकसंविष्टा स्मरंती शंकरं तदा । क्कासि शंभो महादेव पाहि पाहीति चावदत् ॥१८४॥ एतस्मिन्नन्तरे काले विष्णुर्लक्ष्मी उपाययौ । विष्णुंदुखितमालोक्य लक्ष्मीर्दुःखपरा ह्यभूत ॥१८५॥ लक्ष्मीं उवाच विष्णुस्तां मया तव वचः पुरा । न श्रुतं तत्फलं जातं आशु दुःखं उपागतं ॥१८६॥ शंकराभ्यर्चनं त्यक्त्वा सायं स्थितं अतो मया । प्राप्तं तु दुःसहं दुःखं मत्संबंधात्त्वयाऽपि तत् ॥१८७॥ आपदामाश्रया भ्रांता भ्रांतोऽहमपि दुःखभाक्‌ । मया भ्रांतेन न कृतं सायं शंकरपूजनं ॥१८८॥ विध्युक्तकर्मैरतैर्दुःख न प्राप्यते बुधैः । तदन्यैः सर्वथा प्राप्यं दुःखं नूनं क्षणे क्षणे ॥१८९॥ सायं शिवार्चनं कार्यम् अप्रमादेन पावनैः । तस्मादप्रमदो भूयात् इति वेदोऽपि वर्तते ॥१९०॥ अतःपरं पूजायामि शंकरं लोकशंकरं । अतियत्‍नेन कमले गतो मोहो ममाघुना ॥१९१॥ आयाहि यावो निलयं वैष्णवं दुःखनाशकं । यच्छंकरार्चनाल्लब्धं पदं सर्वार्थदायकं ॥१९२॥ सदाशिव उवाच इत्युक्तं तद्वचः श्रुत्वा विष्णुं लक्ष्मीरुवाच तं । लक्ष्मीः उवाच व्क वैष्णवपदं विष्णो किमद्याप्यस्ति तत्पदं ॥१९३॥ तत्पदं रिटिन प्राप्तं दत्तं तन्नंदिना पुरा । तस्मै तेन कथं देयं तत्पदं तव सौख्यद ॥१९४॥ अतःपरं कदा नंदी प्रसन्नस्ते भविष्यति । तुष्टिस्तु नंदिकेशस्य भूयसा तपसाऽपि नो ॥१९५॥ यद्यत् पदं तु देवानां धिक्कारेण महेशितुः । च्युतं तु तत्पदं सर्वं नंदिकेशन गृह्यते ॥१९६॥ शिवः कदाचित् तपसा प्रीतोऽल्पेन भविष्यति । नंदिस्तु न भवत्येव सहसा प्रीतमानसः ॥१९७॥ शिवधिक्कारनिरतं नंदिकेशो बलान्वितः । शस्त्रैःसंताडयत्याशु दुःखाब्धौ पातयत्यपि ॥१९८॥ अनेकेषु विचित्रेषु बहुदुःख प्रदेष्वयं । अशैवान् पातयत्येव तेषां दुःखप्रदो मुहुः ॥१९९॥ यस्य कस्यापि वा विष्णो महादेवस्य शासनं । न लंघनीयं सर्वेषां शास्ता यस्मान्महेश्वरः ॥२००॥ सर्वेषामपि देवानां यतःशास्ता महेश्वरः । ततस्तदाज्ञाकारित्वं देवाना मुचितेतं हरे ॥२०१॥ ॥ इति श्रीकालभैरव माहात्म्ये विष्णु गर्व परिहारो नाम द्वितोयोऽध्यायः --------------------------------------------------------- कालभैरव माहात्म्य - अध्याय तिसरा अथ तृतीयोऽध्यायः इंद्रः पुरा स्वर्गलोके स्थितः शच्या समन्वितः । प्रदोषे नार्चयामास भ्रान्तो देवोत्तमं शिवम् ॥२०२॥ तमुवाच शची देवी पूय्जयस्वेति शंकरम् । तदाऽवगणना तेन कृता तद्ववचनस्य तु ॥२०३॥ इंद्र उवाच स्वर्गलोकस्य नाथोऽहं पूज्योऽहमखिलैः सुरैः । मम पूज्यतमो लोके कःतिष्ठति वद प्रिये ॥२०४॥ इत्युक्त्वा भोगनिरतः शचीमालिंग्य सादरं । तस्थाविन्द्रः कल्पपुष्पशय्यायां मदनातुरः ॥२०५॥ तदानीं नन्दिकेशस्य भृत्यः कश्चित् समागतः । शिवावगणनावाक्यं शुश्रावेंद्रमुखोद्भवम् ॥२०६॥ ततः सोऽप्यतिरुष्टः सन् शूलं जग्राह पाणिना । इंद्रं ततःस शूलाग्रे प्रोथयामास सत्वरं ॥२०७॥ ततश्च भ्रामयामास शूलाग्रे संन्निवेश्य तम् । पंचाशद्युगपर्यंत चक्रवत् गगनांतरे ॥२०८॥ ततस्तं पातयामास तसा स दूरपर्वते । पतित्वा तत्र देवेन्द्रः तिष्ठ्त्यद्यापि दुःखितः ॥२०९॥ नंदिकेशस्य भृत्येन स्वर्गलोकः समावृतः । इंद्रोऽपि स तपश्चर्यापरोभूत्वाऽधितिष्ठति ॥२१०॥ शंकरस्यावगणना ततः स्वप्नेऽपि सर्वथा । सर्वदेवादिदेवस्य न कर्तव्या जनार्दन ॥२११॥ शिवं त्वनन्यसदृशं येऽन्यदेवसमं विदुः । न ते पतिव्रताजाता जारजास्ते न संशयः ॥२१२॥ अन्यदेवसमं मत्वा शिवं देवोत्तमं प्रभुं । आचन्द्रार्कं अघोरेषु नरकेषु पतिष्यति ॥२१३॥ स मद्यपः स चांडालः स महापातकाश्रयः । मनुते योऽन्यसदृशं देवदेवोत्तमं शिवम् ॥२१४॥ प्राप्तं शिवप्रसादेन विष्णुत्वं च त्वया पुरा । ततस्त्वं सर्वभावेन शंकरं शरणं व्रज ॥२१५॥ नान्यदेवसमः शंभुः शिवो देवोत्तमः प्रभुः । तस्वावगणना विष्णो सर्वनाशाय जायते ॥२१६॥ तस्मात् शंभुं प्रीणयस्व तपसोग्रेण सादरम् । प्रसन्नः पार्वतीनाथः तुभ्यं इष्टं प्रदास्यति ॥२१७॥ शिव उवाच इत्युक्तः स तया लक्ष्मया तत्रैवोग्रं तपस्तदा । तप्तुं समारभे देवि पंच प्रज्वाल्य पावकान् ॥२१८॥ त्रिकोटियुगपर्यंत तपस्तप्तं च विष्णुना । जिताहारेण तेनैव प्राणान् सम्यक् निरुध्य च ॥२१९॥ प्रसन्नोऽस्मि ततो विष्णोस्तदुग्रतपसा शिवे । प्रसन्ने सति मां विष्णुस्तुष्टाव बहुधा स्तवैः ॥२२०॥ ततः पदं दापितं च विष्णवे रिटितो मया । तत्रोवास महाविष्णुस्त्यक्त्वा दुःखानि सर्वथा ॥२२१॥ तदाप्रभृति विष्णुर्मां अप्रमादेन सादरं । पूजयत्यतियत्‍नेन सर्वकालेष्वतंद्रित ॥२२२॥ ॥इति श्रीकालभैरवमाहात्म्ये विष्णु गर्व परिहारो नाम तृतियोऽध्यायः --------------------------------------------------------------- कालभैरव माहात्म्य - अध्याय चवथा अथ चतुर्थोऽध्यायः इतिस्त्रिंशत्सहस्रान्तकल्पे विष्णुः प्रतापवान् । नारसिंहं परं रूपं उग्रं संधारयिष्यति ॥२२३॥ योजनानां शतं व्याप्य भानुमंडलसन्निभः । कृत्वा स देवकार्याणि देवैः संपूजितः स्तुतः ॥२२४॥ न मत्तोऽभ्यधिको लोके न मया सदृशोपि वा । नास्तीति सुखर्गेषु पश्यत्सु स वदिष्यति ॥२२५॥ तदा तु शरभं रूपं धृत्वा तं संहाराम्यहं । नरवाग्रे प्रोथयित्वा तं भ्रामयामि न संशयः ॥२२६॥ हरिं हरन्तं ईशानं विश्वस्य सकलस्य च । अनुयास्यंति मां देवा मतीनां ऋषभं प्रभुम् ॥२२७॥ ततो विदार्य तेद्वरं घोरं रूपं वहाम्यहम् । भीतास्तदानीं मां देवाः स्तोष्यंति बहुधा स्तवैः ॥२२८॥ विदारितं नृसिंहं तं विलोक्यायं तु भैरवः । पेषयिष्यति पाषाणैः पुनर्जीवनशंकया ॥२२९॥ तदा प्रभृति देवा मां नरसिंहनिपातनं । पूजयिष्यंति तन्नाम्ना सर्वपापभयापहम् ॥२३०॥ अशैवं भैरवो वीक्ष्य दावानलसमप्रभः । दहिष्यति न संदेहस्तं अशैवं दुरासदं ॥२३१॥ अशैवनाशनार्थाय काश्यां श्रीकालभैरवः । स्थापितोऽस्ति मया देवि सुरगंधर्वपूजितः ॥२३२॥ दृश्यते भैरवः काश्यां अशैवप्रलयानलः । चतुर्दशेषु भुवनेष्वेतत्तुल्यो न शासकः ॥२३३॥ हन्त्ययं ब्रह्मविष्णदीन् क्रोधसंकुलितेक्षणः । महाकालानलप्रख्यो दुराधर्षो मयाऽप्ययम् ॥२३४॥ यातनास्तंभनिकटे यदा शूलधरःस्थित । तदा मयापि सुभगे दुर्निरीक्ष्यो हि भैरवः ॥२३५॥ एकोऽप्यनेकधा भूत्वा विश्वरूपोऽतिभीषणः । संचरत्यस्रहस्तोऽयं यातनास्तं भवीथिषु ॥२३६॥ विग्रहाः कालनाथस्य प्रज्वलद्भूधरा इव । यातनास्तंभपार्श्वेषु दृश्यंते विविधाः शिवे ॥२३७॥ अवापुर्भैरवं क्‍रुद्धं पुरा विष्णुपुरोगमाः । ते तत्क्रोधानलहता निपेतुर्सुवि मूर्च्छिताः ॥२३८॥ ततस्ते युगपर्यंतं पतिताः पुनरुत्थिताः । शान्ते क्रोधानले नो चेत् यास्यन्त्वेव हि भस्मतां ॥२३९॥ प्रत्याश्रमं प्रतिगृहं प्रविश्यायं तु भैरवः । अशैवान् पश्यति प्राज्ञः शिवार्चनपराङ्‌मुखान् ॥२४०॥ भस्मोद्धूलनरूद्राक्षधारणदिपराङ्‌मुखान् । लिंगपूजाविहीनांश्च दृष्ट्‌वा क्‍रुद्धो भवत्ययम् ॥२४१॥ क्रोधोऽस्य विफलो नैव भविष्यति कदाचन । यस्मिन् क्रोधोऽस्य तं घोरे पातयत्यस्त्रमंडले ॥२४२॥ देवानामपि सर्वेषां शास्ता श्रीकालभैरवः । तदन्यास्तृणभूतास्तु गंधर्वा मुनयो नराः ॥२४३॥ भैरवो भीमवेषोऽयं दुर्निरीक्ष्यः सुरैरपि । यदा क्रोधसमाक्रांतः तदा द्रष्टुं न शक्यते ॥२४४॥ अशैवशासकं क्‍रूरं प्राप्य श्रीकालभैरवं । सुखेन संवस्याम्यत्र काश्यां नित्यं वरानने ॥२४५॥ यदा तु शैवधर्माणां संक्षयः संभविष्यति । तदाऽयं शांभवं धर्मं स्थापयिष्यति भैरवः ॥२४६॥ शैवधर्मक्षयं यस्तु कर्तुमिच्छति पार्वति । समित्रं तं भैरवोऽयं नरके पातयिष्यति ॥२४७॥ अशैवानां तु दुष्टानां दुःखदो भैरवोऽपरः । अशैवानां तदन्यस्तु शासको न भविष्यति ॥२४८॥ उपसंहारः माहात्म्यं भैरवस्येदं समाख्यातं मया शिवे । सर्वपापक्षयकरं पठतां श्रृण्वतामपि ॥२४९॥ येनेदं पठ्यते प्रातर्माहात्म्यं भैरवस्य तु । न तस्य सर्वदा दुःखं स्वप्नेऽपि कमलानने ॥२५०॥ इदं माहात्म्यं अमलं आदित्याभिमुखो यदि । पठति प्रीतह्रदयो न समाप्नोति यातनाम् ॥२५१॥ बालग्रहादिरोगेषु रक्षाकरमनुत्तमं । कुष्ठापस्माररोगादि विनाशकमपि प्रिये ॥२५२॥ भूर्जपत्रे लिखित्वेदं माहात्म्यं प्रत्यहं शिवे । यः पूजयिष्यति प्राज्ञः स दुःखानि न पश्यति ॥२५३॥ एतन्माहात्म्यमंत्रैस्तु प्रत्यहं भैरवार्चकैः । प्रीणनीयो भीमरूपो भैरवो भीमविक्रमः ॥२५४॥ कालाष्टम्यां विशेषण कालभैरवसन्निधौ । तत्प्रादुर्भावमाहात्म्यं पठनीयं प्रयत्‍नतः ॥२५५॥ श्रृण्वन् श्रीभैरवस्येमां प्रादुर्भावकथां नरः । भैरवार्चारतः शैवो यातनां नैव पश्यति ॥२५६॥ नित्यं भैरवमाहात्म्यमंत्रावर्तनपूर्वकं । प्रदक्षिणादिकं कार्यं भैरवे यातनापहम् ॥२५७॥ श्रीकालभैरवे भक्तिः सदा कार्या प्रयत्‍नतः । पूजनीयोऽन्वहं पूज्यो देवानां अपि शासकः ॥२५८॥ देवाश्च सर्वदा भीताः शासकं कालभैरवं । पूजयंत्यतियत्‍नेन प्रत्यहं भीमविक्रमं ॥२५९॥ भैरवानर्चकं दृष्टवा भैरवाप्रेषितान्यपि । तन्नाशकानि शस्त्राणि स्वत एव प्रयांति हि ॥२६०॥ भैरवो ब्रह्मविष्णादीनपि संतर्जयत्यरम् । तदन्यगणना तेन कथं कार्या वद प्रिये ॥२६१॥ न भैरवादुग्ररूपात् अन्यः काश्यां प्रशासकः । अशैवात् परः काश्यां शास्योऽपि न वरानने ॥२६२॥ अशैवं मृतमालोक्य काश्यां भैरवकिंकराः । दीर्घतप्तायसास्त्राग्रैस्ताडयंत्युरुविक्रमाः ॥२६३॥ प्रल्यानलसंकाशो ज्वालामालासमावृतः । कालभैरवकोपाग्निरशैववनदाहकः ॥२६४॥ ततः काश्यां विशेषेण शिवैकपरदेवतैः । शैवैः स्थातव्यं अनिशं अशैवैर्न कदाचन ॥२६५॥ कपाली कुण्डली भीमो भैरवो भीमविक्रमः । व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥२६६॥ एतानि दश नामानि पठन् यः प्रणमेत् सदाः । शैवः शिवार्चकः तस्य नास्ति भैरवयातना ॥२६७॥ ॥इति शिवरहस्ये सप्तमांशे शिवगौरीसंवादे काशीमाहात्म्ये एकादशोऽध्याये श्रीकालभैरवमाहात्म्ये संपूर्णम् ॥ ॥श्रीकालभैरवार्पणमस्तु॥

Search

Search here.