कुलानन्द तन्त्रम्

ग्रंथालय  > सुत्र व तंत्र ग्रंथ Posted at 2016-05-25 07:27:12
॥ कुलानन्द तन्त्रम् ॥

ॐ नमो भैरवाय ।
कैलासशिखरासीनं देवदेव जगद्गुरुम् ।
परिपृच्छत्युमादेवी एकान्ते ज्ञानमुत्तमम् ॥ १॥

भेदनिमुत्तमभेदं यथा देहव्यवस्थितम् ।
कथयस्व पुराभेदं कुलानन्देषु चूत्तमम् ॥ २॥

स्थानान्तरविशेषण विज्ञानं कथयस्व मे ।
सद्यः प्रत्यकारकं यथा देहे व्यवस्थितम् ॥ ३॥

पाशस्तोभञ्च बेधनञ्च धूननं कम्पनं तथ ।
खेचरं समरसञ्चैव बलीपलितनाशनम् ॥

सर्वं तत्तु सुरेश्वर कथयस्व मम प्रभो ॥ ४॥

भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि पुरभेदं समुत्तमम् ।
एतत् कौलिकं ज्ञानं कुलानन्दे चाष्टोत्तमः ॥ ५॥

ब्रह्मस्थाने यत् कमलं चतुःषष्ठिदलान्वितम् ।
तत्रैव मनसा रोध्य लक्षयेद्दीपशिखान् व्रती ॥ ६॥

पश्यति सर्वदेहे तु दिव्यदृष्टिर्वरानने ।
तेन लक्षितमात्रेण जायते सिद्धिरुत्तमा ॥ ७॥

तस्योपरि नाभिम्नदवदा [?] विचक्षणे ।
तथा चोपरितिष्ठति देवो भैरवो जगत्प्रभुः ॥ ८॥

तस्याग्रे मनसारोप्य दृढभूतविचक्षणाः ।
जायते ध्वनिभिर्जातिं तत्र मरुद्विशेषतः ॥ ९॥

एतद् विज्ञानमात्रेण आवेषं जुरुते ध्रुवम् ।
जायते परमं स्थानं नात्र कार्य्यविचारणात् ॥ १०॥

अथान्यं परमं देवि सद्यः प्रत्याकारकम् ।
तं प्रवक्ष्यामि हे देवि शृणुष्वायतलोचने ॥ ११॥

अङ्गुल्यद्वितियं देवि यत् पूर्व्वं कथितं मया ।
तत्रैव स्थापयेद्वित्तं कथितं जायते ध्रुवम् ॥ १२॥

अतीतानागतञ्चैव वर्त्तमानं तथैव च ।
तत्रैवोत्पादयेत् सृष्टिं तिव्रज्योतिःसमकृतिः ॥ १३॥

हृदिसंस्थकमलं हित्वा मूर्ध्नि यान् प्रपूरयेत् ।
पाशस्तोभं करोत्येवं यदि विश्रमते मनः ॥ १४॥

अथान्यं परं देवि दिव्यदृष्टि प्रवर्त्तते ।
ज्वलज्वालनमध्यस्थं द्विजग्रन्थि निरीक्षयेत् ॥ १५॥

तत्रैव मनसा रोध्य चूलिकाग्रन्तु मानयेत् पुनः ।
सृष्टिं प्रवर्त्तन्ते देवि नात्र कार्य्यविचारणात् ॥ १६॥

देव्युवाच ।
तद्बेधञ्च शुद्धसारञ्च हितं मया न प्रकाशितम् ।
कथय्स्व विशेषण यथा जानामि तत्क्षणात् ॥ १७॥

भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि बेधसारं यथाक्रमम् ।
ब्रह्मस्थाने...पद्मं चतुःषष्टिदलान्वितम् ॥ १८॥

तत्रैवोत्पादयेत् सृष्टिः दण्डाकाराग्नितेजसा ।
भेदयित्वा महाग्रन्थिं द्विचक्रञ्च तथैव च ॥ १९॥

मूर्ध्निं कमलसंस्थानं ज्वलनाकारं विचिन्तयेत् ।
चलन्तं भ्रामयेत्तेन नियतं तु महितले ॥ २०॥

बेधये गिरिवृक्षाणि किं पुनः क्षुद्रजन्तवः ।
अथान्यं परमं देवि विज्ञानं भद्रकं शृणु ॥ २१॥

भ्रुवोश्चक्षुर्मध्यस्थं च कालावुना [?] .... विचिन्तयेत् ।
यावद्विश्रमते नित्यं भ्रमते चक्रवत् शिरः ॥ २२॥

दुराश्रवणविज्ञानं भूतदेतस्य [?] चिन्तयेत् ।
वामस्त्रोतं तु यावत् तिव्रतेजसमप्रभम् ॥ २३॥

देव्युवाच ।
बलीपलितक्षयं देव त्वया ख्यातं ममाग्रतः ।
एतन्मे संशयो देव कथयस्व मम प्रभो ॥ २४॥

भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि यत् सुराणामपि दुर्ल्लभम् ।
द्वात्रिंशतिदलं पद्मं तिष्ठति तन्मूर्ध्नि मध्यतः ॥ २५॥

तत्रैव भावयेदमृतं कलाषोडशसमन्वितम् ।
हृच्चक्रं पातयेद्वारं [?] यावदाअनाब्जिमण्डलम् ॥ २६॥

चिन्तयेत् कृष्णवर्णञ्च भेदं तु सकलं पुरः ।
पलितास्तम्भयेद्देवि मासमेकेन सुव्रते ॥ २७॥

अथान्यं परमं देवि गुह्यसंशयस्थितिकारकम् ।
यत्र चतुष्पथस्थानं तत्र सर्वासुरालयम् ॥ २८॥

तत्रैव स्थापयेच्चितं दिव्यबालप्रवर्त्तत [?] ।
अश्रुतां वदते बालां....दिव्य वरानने ॥ २९॥

विषप्रहारं कुरुते ज्वरव्याधिं विनाशयेत् ।
ततः परतरं स्थानं तत्र सर्वे प्रवर्त्तते ॥ ३०॥

अथान्यं परमं देवि दुराबेधं वदाम्यहम् ।
ज्वलज्ज्वलनसंध्यस्थं तत्रैव लक्षयेद्देवि ॥ ३१॥

तं त्रितकोटिसमप्रभा ऊर्ध्वं शक्ति निपातान्यतः [?] ।
बेधयेद्विचक्षणः बेधयित्वा तु तं लक्षयेत् ॥ ३२॥

ज्वलनाकाष्ठप्रभां उर्ध्वशक्तिं चक्रयित्व
अचलं भ्रामयेत् पुनः [?]
बेधयेत् सा मनःसहस्राणि समकानि तु का कथा ॥ ३३॥

एवं ज्ञात्वा वीरारोहे विचरेत यथासुखम् ।
देवासुर्मनुजानां दुर्लभो भवति साधकः ॥ ३४॥

देव्युवाच ।
धूननं कम्पनं देव यथाख्यातं ममाग्रतः ।
ततश्चापि संशयो देव कथयस्व मम प्रभो ॥ ३५॥

भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि धूननं कम्पनं स्थितम् ।
या सा महावहा नाडी कुचेल्याकारसंस्थिता ॥ ३६॥

तत्रैवोत्पादयेत् दृष्टिर्द्दण्डाकारसुतेजसा ।
हृच्चक्र... ... ... तिव्रशक्ति सुविग्रहा ॥ ३७॥

धूननं कम्पनं चैव नात्र कार्य्यविचारणात् ।
अथान्यं परमं देवि खेचरत्वं शृणु प्रिये ॥ ३८॥

या सा महावहा ना[डी] कुण्डल्याकारसंस्थिता ।
पदद्वन्द्वगता सा तु मूर्ध्निस्थं कमलं पुनः ॥ ३९॥

या वीरतये तज्ज्वलनाअकारं सुभावयेद् बुधः ।
सर्वशक्तितो मध्यत खेचरत्व भवेद्वेः
नवाहमभृतं ददैतः [?] ॥ ४०॥

अथान्यं सम्प्रवक्ष्यामि महाव्याप्तिं वरानने ।
यावद्...स्थानेषु ख्याता तस्य मयाग्रतः ॥ ४१॥

तथैव मनसारोप्यं नासाग्रे पवनमानेन ।
मनसं तत्त्व बेधयित्वा निष्कलं योजयेद् बुधः ॥ ४२॥

महाव्याप्तिर्भवेद्देवि तवाहमनृतं वदेत् ।
अथान्य सम्प्रवक्ष्यामि येन सिद्धिर्भवेत् ध्रुवम् ॥ ४३॥

वर्गातीतस्य द्वितीयमनुलोम न सुव्रते ।
ज्वलनारूढं कृत्वा चतुर्थं स्वरसंयुतः ॥ ४४॥

बिन्दुमस्तकसम्भिन्नमादौ योजयेद् बुधः ।
वर्गातीतं पुनर्देवि षष्तस्वरविभूषितः ॥ ४५॥

स शिखे खरबिन्दुसंयुक्तं योगयेद्देवि तत् पुनः ।
यकारस्य पञ्चमं गृह्यं तं तृतीयस्वरसमन्वितम् ॥ ४६॥

स्वरं द्वितीयसंयुक्तं कारयेत् पुनः प्रियः ।
वर्गस्य प्रथमं बीजं सृष्टराद्यतो योजयेत् ॥ ४७॥

एतद्देवि समाख्यातं कुलविद्यासमन्वितम् ।
नित्यं तु योजयेद्देवि एकचित्तस्तु पण्डितः ॥ ४८॥

तस्य सर्वा भवेत् सिद्धिः सर्वज्ञनेषु सुन्दरि ।
न खेदयामि कस्य चित्तं शिष्येऽप्युक्त्वा वरानने ॥ ४९॥

अथान्यं परमं देवि कामेन विह्वलारकम् ।
भस्य मध्यस्थ भगमधो हुताशनम् ॥ ५०॥

प्रेरितः पवनः शक्त्या ज्वलनाकारतेजसा ।
विसन्तु चिन्तयेद्देवि सृष्टिकमलन्तु यावत् ॥ ५१॥

श्रवणं चिन्तयेदमृतं तेजोमार्गेण योगिनि ।
भवन्ति विह्वला नार्य्यः क्षनमेकेन सुव्रते ॥ ५२॥

अथान्यं परमं देवि फलपुष्Pआकथनं च ।
शृणुयात् पर्मादेवि अघोरविक्रमा ॥ ५३॥

आकर्षयेद् बुघो वायुं पिण्डस्थं रूपणमुच्यते ।
चक्षुषा योजयेद्देवि फलपुष्पन्तु चिन्तयेत् ।
तेजसार्कर्षयेत् तु...चित्तं सुसर्य्यतः ॥ ५४॥

देव्युवाच ।
सर्वत्र तु मया ज्ञानं भाषितं देव तत् पुरा ।
अद्यापि संशयो देवि कथयस्व मम प्रभो ।
संगमान्मोक्षहेतुकं  *** ***  ॥ ५५॥

भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि तत् सुरैरपि दुर्लभम् ।
आसनं तु स्थितं कृत्वा...विश्व अनिवृत्तः ॥ ५६॥

अभावं भावयेद्देवि सर्वभावविवर्जितम् ।
चित्तं तत्र स्थितं कृत्वा खमध्ये विनियोजयेत् ॥ ५७॥

भावयेत् समरसं देवि प्रभुभृत्यं विचक्षणः ।
एतद्विज्ञानमात्रेण गियते तत्र मध्यतः ॥ ५८॥

दूराश्रवणविज्ञानं बेधस्तोभं मध्यतः ।
आवेषं दर्शनं दूरात् कम्पस्तोभं तथैव च ॥ ५९॥

परकायप्रवेशेन सम्प्रवर्त्तेत योगिनः ।
... ... ...तदभ्यासेन सुव्रते ॥ ६०॥

इति मत्स्येन्द्र-पादावतारितं कुलानन्दं समाप्तमिति ॥

Search

Search here.