श्री ललिता त्रिशती स्तोत्र

नामावली  > देवी नामावली Posted at 2019-02-17 06:58:39
श्री ललिता त्रिशती स्तोत्र अस्य श्रीललितात्रिशतीस्तोत्रमहामन्त्र स्य , भगवान् हयग्रीवऋषिः , अनुष्टुप् छन्दः , श्रीललितामहात्रिपुरसुन्दरी देवता , ऐं बीजं , सौः शक्तिः , क्लीं कीलकं , मम चतुर्विध पुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः । ध्यानम्- अतिमधुरचापहस्ताम् अपरिमितामोदबाणसौभाग्याम् । अरुणामतिशयकरुणाम् अभिनवकुलसुन्दरीं वन्दे || श्री हयग्रीव उवाच- ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥ कमलाक्षी कल्मषघ्नी करुणामृतसागरा । कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥ कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा । कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥ कलिदोषहरा कञ्जलोचना कम्रविग्रहा । कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥ एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥ एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्रचित्तनिर्ध्याता चैषणारहिताद्दृता ॥ ६ ॥ एलासुगन्धिचिकुरा चैनःकूटविनाशिनी । एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥ एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता । एधमानप्रभा चैजदनेजज्जगदीश्वरी ॥ ८ ॥ एकवीरदिसंसेव्या चैकप्राभवशालिनी । ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥ ईद्दृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥ ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥ ११ ॥ ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी । ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥ ईहाविराहिता चेशशक्तिरीषत्स्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥ लाकिनी ललनारूपा लसद्दाडिमपाटला । ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४ ॥ लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥ ललामराजदलिका लम्बमुक्तालताञ्चिता । लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६ ॥ ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रीम्पदप्रिया । ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा ॥ १७ ॥ ह्रीङ्कारजपसुप्रीता ह्रींमती ह्रींविभूषणा । ह्रींशीला ह्रीम्पदाराध्या ह्रीङ्गर्भा ह्रीम्पदाभिधा ॥ १८ ॥ ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका । ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९ ॥ हकाररूपा हलधृत्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ २० ॥ हयारूढासेविताङ्घ्रिः हयमेधसमर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१ ॥ हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२ ॥ हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता । हरिकेशसखी हादिविद्या हालामदालसा ॥ २३ ॥ सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला । सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातनी ॥ २४ ॥ सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ २५ ॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वाभूषणभूषिता ॥ २६ ॥ ककारार्था कालहन्त्री कामेशी कामितार्थदा । कामसञ्जीविनी कल्या कठिनस्तनमण्डला ॥ २७ ॥ करभोरुः कलानाथमुखी कचजिताम्बुदा । कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८ ॥ कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः । कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ २९ ॥ कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता । हकारार्था हंसगतिः हाटकाभरणोज्ज्वला ॥ ३० ॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१ ॥ हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा । हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥ ३२ ॥ हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३ ॥ हय्यङ्गवीनहृदया हरिकोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४ ॥ लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता । लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५ ॥ लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ ३६ ॥ लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ॥ ३७ ॥ लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः । ह्रीङ्कारिणी ह्रीङ्कारादि-र्ह्रींमध्या ह्रींशिखामणिः ॥ ३८ ॥ ह्रीङ्कारकुण्डाग्निशिखा ह्रीङ्कारशशिचन्द्रिका । ह्रीङ्कारभास्कररुचिः ह्रीङ्काराम्भोदचञ्चला ॥ ३९ ॥ ह्रीङ्कारकन्दाङ्कुरिका ह्रीङ्कारैकपरायणा । ह्रीङ्कारदीर्घिकाहंसी ह्रीङ्कारोद्यानकेकिनी ॥ ४० ॥ ह्रीङ्कारारण्यहरिणी ह्रीङ्कारावालवल्लरी । ह्रीङ्कारपञ्जरशुकी ह्रीङ्काराङ्गणदीपिका ॥ ४१ ॥ ह्रीङ्कारकन्दरासिंही ह्रीङ्काराम्भोजभृङ्गिका । ह्रीङ्कारसुमनोमाध्वी ह्रीङ्कारतरुमञ्जरी ॥ ४२ ॥ सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥ ४३ ॥ सकला सच्चिदानन्दा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४ ॥ सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपञ्चनिर्मात्री समनाधिकवर्जिता ॥ ४५ ॥ सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ ४६ ॥ कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी । कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ ४७ ॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपस्सिद्धिः कामेश्वरमनःप्रिया ॥ ४८ ॥ कामेश्वरप्राणनाथा कामेश्वरविमोहिनी । कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ ४९ ॥ कामेश्वराह्लादकरी कामेश्वरमहेश्वरी । कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ ५० ॥ लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्चिता । लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा ॥ ५१ ॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धबुद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ ५२ ॥ लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा । लब्धरागा लब्धगतिर्लब्धनानागमस्थितिः ॥ ५३ ॥ लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता । ह्रीङ्कारमूर्ति-र्ह्रीङ्कारसौधशृङ्गकपोतिका ॥ ५४ ॥ ह्रीङ्कारदुग्धाब्धिसुधा ह्रीङ्कारकमलेन्दिरा । ह्रीङ्कारमणिदीपार्चिः ह्रीङ्कारतरुशारिका ॥ ५५ ॥ ह्रीङ्कारपेटकमणिः ह्रीङ्कारादर्शबिम्बिका । ह्रीङ्कारकोशासिलता ह्रीङ्कारास्थाननर्तकी ॥ ५६ ॥ ह्रीङ्कारशुक्तिकामुक्तामणि-र्ह्रीङ्कारबोधिता । ह्रीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ५७ ॥ ह्रीङ्कारवेदोपनिषद् ह्रीङ्काराध्वरदक्षिणा । ह्रीङ्कारनन्दनारामनवकल्पकवल्लरी ॥ ५८ ॥ ह्रीङ्कारहिमवद्गङ्गा ह्रीङ्कारार्णवकौस्तुभा । ह्रीङ्कारमन्त्रसर्वस्वा ह्रीङ्कारपरसौख्यदा ॥ ५९ ॥ ॥ इति श्रीललितात्रिशतीस्तोत्रं सम्पूर्णम् ॥

Search

Search here.