श्रीललिता चतुःषष्ट्युपचार संग्रह

यज्ञ - शान्ति  > पूजन कर्म विधी Posted at 2019-02-11 17:46:11
॥ श्रीललिता चतुःषष्ट्युपचारसंग्रहः ॥ ॐ हृन्मध्यनिलये देवि ललिते परदेवते । चतुष्षष्ट्युपचारांस्ते भक्त्या मातः समर्पये ॥ १॥ कामेशोत्सङ्गनिलये पाद्यं गृह्णीष्व सादरम् । भूषणानि समुत्तार्य गन्धतैलं च तेऽर्पये ॥ २॥ स्नानशालां प्रविश्याऽथ तत्रस्थ मणिपीठके । उपविश्य सुखेन त्वं देहोद्वर्तनमाचर ॥ ३॥ उष्णोदकेन ललिते स्नापयाम्यथ भक्तितः । अभिषिञ्चामि पश्चात्त्वां सौवर्णकलशोदकैः ॥ ४॥ धौतवस्त्रप्रोच्छनं चारक्तक्षौमाम्बरं तथा । कुचोत्तरीयमरुणमर्पयामि महेश्वरि ॥ ५॥ ततः प्रविश्य चालेपमण्टपं परमेश्वरि । उपविश्य च सौवर्णपीठे गन्धान्विलेपय ॥ ६॥ कालगरुजधूपैश्च धूपये केशपाशकम् । अर्पयामि च माल्यादि सर्वर्तुकुसुमस्रजः ॥ ७॥ भूषामण्टपमाविश्य स्थित्वा सौवर्णपीठके । माणिक्यमुकुटं मूर्ध्नि दयया स्थापयाम्बिके ॥ ८॥ शरत्पार्वणचन्द्रस्य शकलं तत्र शोभताम् । सिन्दूरेण च सीमन्तमलङ्कुरु दयानिधे ॥ ९॥ भाले च तिलकं न्यस्य नेत्रयोरञ्जनं शिवे । वालीयुगळमप्यम्ब भक्त्या ते विनिवेदये ॥ १०॥ मणिकुण्डलमप्यम्ब नासाभरणमेव च । ताटङ्कयुगळं देवि यावकञ्चाधरेऽर्पये ॥ ११॥ आद्यभूषणसौवर्णचिन्ताकपदकानि च । महापदकमुक्तावल्येकावल्यादिभूषणम् ॥ १२॥ छन्नवीरं गृहाणाम्ब केयूरयुगलं तथा । वलयावलिमङ्गुल्याभरणं ललिताम्बिके ॥ १३॥ ओड्याणमथ कट्यन्ते कटिसूत्रञ्च सुन्दरि । सौभाग्याभरणं पादकटकं नूपुरद्वयम् ॥ १४॥ अर्पयामि जगन्मातः पादयोश्चाङ्गुलीयकम् । पाशं वामोर्ध्वहस्ते ते दक्षहस्ते तथाङ्कुशम् ॥ १५॥ अन्यस्मिन्वामहस्ते च तथा पुंड्रेक्षुचापकम् । पुष्पबाणांश्च दक्षाधः पाणौ धारय सुन्दरि ॥ १६॥ अर्पयामि च माणिक्यपादुके पादयोः शिवे । आरोहावृतिदेवीभिः चक्रं परशिवे मुदा ॥ १७॥ समानवेषभूषाभिः साकं त्रिपुरसुन्दरि । तत्र कामेशवामाङ्कपर्यङ्कोपनिवेशिनीम् ॥ १८॥ अमृतासवपानेन मुदितां त्वां सदा भजे । शुद्धेन गाङ्गतोयेन पुनराचमनं कुरु ॥ १९॥ कर्पूरवीटिकामास्ये ततोऽम्ब विनिवेशय । आनन्दोल्लासहासेन विलसन्मुखपङ्कजाम् ॥ २०॥ भक्तिमत्कल्पलितिकां कृतीस्यां त्वां स्मरन् कदा । मङ्गलारार्तिकं छत्रं चामरं दर्पणं तथा । ताळवृंतं गन्धपुष्पधूपदीपांश्च तेऽर्पये ॥ २१॥ श्रीकामेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतम् दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदैर्युतम् । दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रार्पितम् माषापूपकपूरिकादिसहितं नैवेद्यमम्बाऽर्पये ॥ २२॥ साग्रविंशतिपद्योक्तचतुष्षष्ट्युपचारतः । हृन्मध्यनिलया माता ललिता परितुष्यतु ॥ २३॥ श्रीमुखाख्यस्य वर्षस्य तुलायां शुक्लपक्षके । चतुर्थ्यामपराह्णे च ललितार्पितमानसः ॥ २४॥ साग्रविंशतिपद्यैस्तु चतुष्षष्ट्युपचारकान् । समग्रहीत्पराम्बायाः प्रीत्यै नारायणो मुदा ॥ २५॥ नारायणः श्रीपुरुषोत्तमात्मजोऽलिखन्महीषूरपुरे वसन्कृती । देवीसपर्यामखिलाभिलाषदां कामेशवामाङ्कगता प्रसीदतु ॥ ॥ इति शिवम् ॥

Search

Search here.