नर्मदाष्टक स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-10-27 14:37:34
नर्मदाष्टकं सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकादिवारिसंयुतम् । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥ त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥ महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥ गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥ अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥ सनत्कुमारनाचिकेतकश्यपात्रिषत्पदैः धृतं स्वकीयमानसेषु नारदादिषतपदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥ अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥ अहो धृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥ इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यन्ति दुर्गतिं कदा । सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं सम्पूर्णम् ॥

Search

Search here.