लक्ष्मीनृसिंह सहस्रनामस्तोत्र

नामावली  > विष्णु नामावली Posted at 2018-12-09 14:06:54
॥ लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ स्तोत्रस्य पूर्वपीठिका ॥ ॐ मार्कण्डेय उवाच - एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह । नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १॥ दैत्यकोटिहतास्तत्र केचिद्भीताः पलायिताः । तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २॥ भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः । ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३॥ द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् । दैत्येन्द्रसाहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४॥ श्रेयः कस्य भवेदत्र इति चिन्तापराभवन् । तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५॥ विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् । रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६॥ आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् । भार्गवादिबहून्यस्त्राण्यभक्षयत कोपनः ॥ ७॥ सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्यभैरवः । ततः खट्गधरं दैत्यं जग्राह नरकेसरी ॥ ८॥ हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः । उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९॥ मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत । हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १०॥ देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् । नरसिंह मतीवोग्रं विकीर्णवदनं भृशम् ॥ ११॥ लेलिहानं च गर्जन्तं कालानलसमप्रभम् । अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२॥ महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् । सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३॥ आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः । गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४॥ ॥ अथ श्रीनृसिंहसहस्रनामस्तोत्रम् ॥ ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः श्रीलक्ष्मीनृसिंहोदेवता । अनुष्टुप्छन्दः श्रीनृसिंहःपरमात्मा बीजं लक्ष्मीर्मायाशक्तिः जीवोबीजं बुद्धिः शक्तिः उदानवायुः बीजं सरस्वती शक्तिः व्यञ्जनानि बीजानि स्वराः शक्तयः ॐ क्ष्रौं ह्रीं इति बीजानि ॐ श्रीं अं आं इति शक्तयः विकीर्णनखदंष्ट्रायुधायेति कीलकं अकारादिति बोधकं श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रमन्त्रजपे विनियोगः - ब्रह्मोवाच - ॐ श्रीलक्ष्मीनृसिंहाय नमः । अङ्गुष्ठाभ्यां नमः ॐ वज्रनखाय नमः । तर्जनीभ्यां नमः ॐ महारुद्राय नमः । मध्यमाभ्यां नमः ॐ सर्वतोमुखाय नमः । अनामिकाभ्यां नमः ॐ विकटास्याय नमः । कनिष्ठिकाभ्यां नमः ॐ वीराय नमः । करतलकरपृष्ठाभ्यां नमः एवं हृदयादिन्यासः - इति दिग्बन्धः ॐ ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ नैऋतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । ॐ अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा । अथ ध्यानम् - सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् । त्र्यक्षं चक्रपिनाकस्नाभयकरान्बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥ उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् । भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २॥ ब्रह्मोवाच - ॐ ह्रीं श्रीं ऐं क्ष्रौं ब्रह्मोवाच - ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे । वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १॥ वासुदेवाय वन्द्याय वरदाय वरात्मने । वरदाभयहस्ताय वराय वररूपिणे ॥ २॥ वरेण्याय वरिष्ठाय श्रीवराय नमो नमः । प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३॥ परात्परपरेशाय पवित्राय पिनाकिने । पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४॥ पुरुष्टुताय पुण्याय पुरुहूताय ते नमः । तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५॥ पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः । पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६॥ सिंहाय सिंहराजाय जगद्वश्याय ते नमः । अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७॥ भूतावासाय भासाय श्रीनिवासाय खड्गिने । खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८॥ नमो मूलाधिवासाय धर्मवासाय धन्विने । धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९॥ शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च । निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १०॥ निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च । निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११॥ निमेषाय निबन्धाय निमेषगमनाय च । निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२॥ निर्मलाय निबन्धाय निर्मोहाय निराकृते । नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३॥ सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने । हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४॥ सुकेशायोर्ध्वकेशाय केशिसंहारकाय च । जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५॥ कुशेशयाय कूलाय केशवाय नमो नमः । सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६॥ दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने । प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७॥ प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च । प्रकाशाय प्रतापाय प्रज्वलायोज्वलाय च ॥ १८॥ ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने । महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९॥ कालान्तकाय कल्पाय कलनाय कृते नमः । कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २०॥ अक्रूराय कृतान्ताय विक्रमाय क्रमाय च । कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१॥ सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च । अरूपाय स्वरूपाय हरये परमात्मने ॥ २२॥ अजयायादिदेवाय अक्षयाय क्षयाय च । अघोराय सुघोराय घोराघोरतराय च ॥ २३॥ नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः । घोराध्यक्षाय दक्षाय दक्षिणार्याय शम्भवे ॥ २४॥ अमोघाय गुणौघाय अनघायाघहारिणे । मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५॥ मेघवाहनरूपाय मेघश्यामाय मालिने । व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६॥ व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च । विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७॥ विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च । विश्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८॥ विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे । वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९॥ विधानाय विधेयाय विजयाय जयाय च । विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३०॥ वीतरागाय विप्राय विटङ्कनयनाय च । विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१॥ चिदम्बराय वित्ताय विश्रुताय वियोनये । विह्वलाय विकल्पाय कल्पातीताय शिल्पिने ॥ ३२॥ कल्पनाय स्वरूपाय फणितल्पाय वै नमः । तडित्प्रभाय तार्याय तरुणाय तरस्विने ॥ ३३॥ तपनाय तरक्षाय तापत्रयहराय च । तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३४॥ तक्षकाय तनुत्राय तटिने तरलाय च । शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३५॥ शतपत्राय तार्क्ष्याय स्थितये शतमूर्तये । शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३६॥ नमः सहस्रशिरसे सहस्रवदनाय च । सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३७॥ नमः सहस्रजिह्वाय महाजिह्वाय ते नमः । सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३८॥ सहस्रबाहवे तुभ्यं सहस्रचरणाय च । सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ३९॥ नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः । सुक्षुण्याय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४०॥ धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः । प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४१॥ कलाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः । अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४२॥ शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च । रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४३॥ भूतपालाय भूताय भूतवासाय भूतिने । भूतबेतालघाताय भूताधिपतये नमः ॥ ४४॥ भूतग्रहविनाशाय भूतसंयमते नमः । महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४५॥ सर्वारिष्टविनाशाय सर्वसम्पत्कराय च । सर्वाधाराय सर्वाय सर्वार्तिहरये नमः ॥ ४६॥ सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने । सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४७॥ सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने । सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४८॥ सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने । पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ४९॥ बहुशृङ्गाय लिङ्गाय महाशृङ्गाय ते नमः । माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५०॥ महादेवाय देवाय मातुलिङ्गधराय च । महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५१॥ अनन्तानन्तरूपाय मायिने जलशायिने । महोदराय मन्दाय मददाय मदाय च ॥ ५२॥ मधुकैटभहन्त्रे च माधवाय मुरारये । महावीर्याय धैर्याय चित्रवार्याय ते नमः ॥ ५३॥ चित्रकूर्माय चित्राय नमस्ते चित्रभानवे । मायातीताय मायाय महावीराय ते नमः ॥ ५४॥ महातेजाय बीजाय तेजोधाम्ने च बीजिने । तेजोमय नृसिंहाय नमस्ते चित्रभानवे ॥ ५५॥ महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च । शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५६॥ विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने । नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५७॥ अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च । वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५८॥ कण्ठीरवाय लुण्ठाय निःशठाय हठाय च । सत्त्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ५९॥ ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे । त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६०॥ त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने । नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६१॥ अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे । अमृताय अनन्ताय अमितायामितौजसे ॥ ६२॥ अपमृत्युविनाशाय अपस्मारविघातिने । अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६३॥ नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे । सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६४॥ अध्वातीताय सत्त्वाय वागतीताय वाग्मिने । वागीश्वराय गोपाय गोहिताय गवाम्पते ॥ ६५॥ गन्धर्वाय गभीराय गर्जितायोर्जिताय च । पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६६॥ पद्माभाय सुनाभाय पद्मनाभाय मानिने । पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६७॥ पद्मोदराय पूताय पद्मकल्पोद्भवाय च । नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ ६८॥ शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च । ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ ६९॥ ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः । सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ ७०॥ परब्रह्मस्वरूपाय पञ्चब्रह्मात्मने नमः । नमस्ते ब्रह्मशिरसे तदाऽश्वशिरसे नमः ॥ ७१॥ अथर्वशिरसे नित्यमशनिप्रमिताय च । नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ ७२॥ लावण्याय लवित्राय नमस्ते भासकाय च । लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ ७३॥ लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे । वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ ७४॥ पश्यामि त्वां महासिंहं हारिणं वनमालिनम् । किरीटिनं कुण्डलिनं सर्वाङ्गं सर्वतोमुखम् ॥ ७५॥ सर्वतः पाणिपादोरं सर्वतोऽक्षि शिरोमुखम् । सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ ७६॥ बहुयोजनविस्तीर्णं बहुयोजनमायतम् । बहुयोजनहस्ताङ्घ्रिं बहुयोजननासिकम् ॥ ७७॥ महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् । महानादं महारौद्रं महाकायं महाबलम् ॥ ७८॥ आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा । आशीर्षाद्रन्ध्रमीशानं तदग्रे सर्वतः शिवम् ॥ ७९॥ नमोऽस्तु नारायण नारसिंह नमोऽस्तु नारायण वीरसिंह । नमोऽस्तु नारायण क्रूरसिंह नमोऽस्तु नारायण दिव्यसिंह ॥ ८०॥ नमोऽस्तु नारायण व्याघ्रसिंह नमोऽस्तु नारायण पुच्छसिंह । नमोऽस्तु नारायण पूर्णसिंह नमोऽस्तु नारायण रौद्रसिंह ॥ ८१॥ नमो नमो भीषणभद्रसिंह नमो नमो विह्वलनेत्रसिंह । नमो नमो बृंहितभूतसिंह नमो नमो निर्मलचित्रसिंह ॥ ८२॥ नमो नमो निर्जितकालसिंह नमो नमः कल्पितकल्पसिंह । नमो नमो कामदकामसिंह नमो नमस्ते भुवनैकसिंह ॥ ८३॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ८४॥ अमी हित्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा मुनयः सिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ८५॥ रुद्रादित्यावसवो ये च साध्या विश्वेदेवा मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे ॥ ८६॥ लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ८७॥ भविष्णुस्त्वं सहिष्णुस्त्वं भ्रजिष्णुर्जिष्णुरेव च । पृथिवीमन्तरीक्षं त्वं पर्वतारण्यमेव च ॥ ८८॥ कलाकाष्ठा विलिप्तस्त्वं मुहूर्तप्रहरादिकम् । अहोरात्रं त्रिसन्ध्या च पक्षमासर्तुवत्सराः ॥ ८९॥ युगादिर्युगभेदस्त्वं संयुगो युगसन्धयः । नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ ९०॥ करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः । सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानन्दविग्रहः ॥ ९१॥ प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् । सुज्योतिस्त्वं परञ्ज्योतिरात्मज्योतिः सनातनः ॥ ९२॥ ज्योतिर्लोकस्वरूपस्त्वं त्वं ज्योतिर्ज्योतिषां पतिः । स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ ९३॥ हन्तकारो निराकारो वेगकारश्च शङ्करः । अकारादिहकारान्त ओङ्कारो लोककारकः ॥ ९४॥ एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः । चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ ९५॥ लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः । लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ ९६॥ लोकाधारो बृहल्लोको लोकालोकमयो विभुः । लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ ९७॥ अनादिस्त्वमनन्तस्त्वमभूतोभूतविग्रहः । स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ ९८॥ त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा । सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ ९९॥ नमस्ते मन्त्ररूपाय अस्त्ररूपाय ते नमः । बहुरूपाय रूपाय पञ्चरूपधराय च ॥ १००॥ भद्ररूपाय रूढाय योगरूपाय योगिने । समरूपाय योगाय योगपीठस्थिताय च ॥ १०१॥ योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने । ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ १०२॥ धराधराय धर्माय धारणाभिरताय च । नमो धात्रे च सन्धात्रे विधात्रे च धराय च ॥ १०३॥ दामोदराय दान्ताय दानवान्तकराय च । नमः संसारवैद्याय भेषजाय नमो नमः ॥ १०४॥ सीरध्वजाय शीताय वातायाप्रमिताय च । सारस्वताय संसारनाशनायाक्ष मालिने ॥ १०५॥ असिधर्मधरायैव षट्कर्मनिरताय च । विकर्माय सुकर्माय परकर्मविधायिने ॥ १०६॥ सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे । करिचर्मवसानाय करालवदनाय च ॥ १०७॥ कवये पद्मगर्भाय भूतगर्भघृणानिधे । ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ १०८॥ नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये । नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ १०९॥ हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने । हिरण्यकशिपोर्हन्त्रे हिरण्यनयनाय च ॥ ११०॥ हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च । नमो हिरण्यशृङ्गाय निःशृङ्गाय शृङ्गिणे ॥ १११॥ भैरवाय सुकेशाय भीषणायान्त्रिमालिने । चण्डाय रुण्डमालाय नमो दण्डधराय च ॥ ११२॥ अखण्डतत्त्वरूपाय कमण्डलुधराय च । नमस्ते खण्डसिंहाय सत्यसिंहाय ते नमः ॥ ११३॥ नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः । नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ ११४॥ नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः । मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ ११५॥ पातालस्थितसिंहाय नमः पर्वतवासिने । नमो जलस्थसिंहाय अन्तरिक्षस्थिताय च ॥ ११६॥ कालाग्निरुद्रसिंहाय चण्डसिंहाय ते नमः । अनन्तसिंहसिंहाय अनन्तगतये नमः ॥ ११७॥ नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे । अभयङ्करसिंहाय नरसिंहाय ते नमः ॥ ११८॥ नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः । सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ ११९॥ सप्तलोकान्तरस्थाय सप्तस्वरमयाय च । सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ १२०॥ सप्तवायुस्वरूपाय सप्तच्छन्दोमयाय च । स्वच्छाय स्वच्छरूपाय स्वच्छन्दाय च ते नमः ॥ १२१॥ श्रीवत्साय सुवेधाय श्रुतये श्रुतिमूर्तये । शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ १२२॥ शुभ्राय सुरनाथाय सुप्रभाय शुभाय च । सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ १२३॥ सुप्रभाय स्वभावाय भवाय विभवाय च । सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ १२४॥ सुनखाय सुदंष्ट्राय सुरथाय सुधाय च । साङ्ख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ १२५॥ नमः खट्वाङ्गहस्ताय खेटमुद्गरपाणये । खगेन्द्राय मृगेन्द्राय नागेन्द्राय दृढाय च ॥ १२६॥ नागकेयूरहाराय नागेन्द्रायाघमर्दिने । नदीवासाय नग्नाय नानारूपधराय च ॥ १२७॥ नागेश्वराय नागाय नमिताय नराय च । नागान्तकरथायैव नरनारायणाय च ॥ १२८॥ नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः । नमो यज्ञवराहाय नरसिंहाय नमो नमः ॥ १२९॥ विक्रमाक्रान्तलोकाय वामनाय महौजसे । नमो भार्गवरामाय रावणान्तकराय च ॥ १३०॥ नमस्ते बलरामाय कंसप्रध्वंसकारिणे । बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ १३१॥ आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च । क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ १३२॥ गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे । स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ १३३॥ शालग्रामनिवासाय क्षीराब्धिशयनाय च । श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ १३४॥ योगिहृत्पद्मवासाय महाहासाय ते नमः । गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ १३५॥ नमो मूलाधिवासाय नीलवस्त्रधराय च । पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ १३६॥ रक्तमालाविभूषाय रक्तगन्धानुलेपिने । धुरन्धराय धूर्ताय दुर्धराय धराय च ॥ १३७॥ दुर्मदाय दुरन्ताय दुर्धराय नमो नमः । दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ १३८॥ दुर्भेदाय दुराशाय दुर्लभाय नमो नमः । दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ १३९॥ उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः । रसज्ञाय रसेशाय अरक्तरसनाय च ॥ १४०॥ पथ्याय परितोषाय रथ्याय रसिकाय च । ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ १४१॥ ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे । परप्रध्वंसकायैव शङ्खचक्रधराय च ॥ १४२॥ गदापद्मधरायैव पञ्चबाणधराय च । कामेश्वराय कामाय कामपालाय कामिने ॥ १४३॥ नमः कामविहाराय कामरूपधराय च । सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ १४४॥ नमः सोमाय वामाय वामदेवाय ते नमः । सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ १४५॥ कूष्माण्डगणनाथाय सर्वश्रेयस्कराय च । भीष्माय भीषदायैव भीमविक्रमणाय च ॥ १४६॥ मृगग्रीवाय जीवाय जितायाजितकारिणे । जटिने जामदग्नाय नमस्ते जातवेदसे ॥ १४७॥ जपाकुसुमवर्णाय जप्याय जपिताय च । जरायुजायाण्डजाय स्वेदजायोद्भिजाय च ॥ १४८॥ जनार्दनाय रामाय जाह्नवीजनकाय च । जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ १४९॥ जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः । चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ १५०॥ इन्द्रियायेन्द्रियज्ञाय नमोऽस्त्विन्द्रानुजाय च । अतीन्द्रियाय साराय इन्दिरापतये नमः ॥ १५१॥ ईशानाय च ईड्याय ईशिताय इनाय च । व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ १५२॥ व्योमाधाराय च व्योमवक्त्रायासुरघातिने । नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ १५३॥ सुकुमाराय रामाय शिशुचाराय ते नमः । विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ १५४॥ ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने । एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ १५५॥ चतुर्विंशतिरूपाय पञ्चविंशतिमूर्तये । षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ १५६॥ धर्मार्थकाममोक्षाय विरक्ताय नमो नमः । भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ १५७॥ प्रबोधाय सुबोधाय नमो बुधिप्रियाय च । स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ १५८॥ प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च । गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ १५९॥ श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः । उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ १६०॥ उग्रनेत्राय व्यग्राय समग्रगुणशालिने । बालग्रहविनाशाय पिशाचग्रहघातिने ॥ १६१॥ दुष्टग्रहनिहन्त्रे च निग्रहानुग्रहाय च । वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ १६२॥ उग्रश्रवाय शान्ताय नमः श्रुतिधराय च । नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ १६३॥ नमस्ते पुण्डरीकाक्ष नमस्ते दुरितक्षय । नमस्ते करुणासिन्धो नमस्ते समितिञ्जय ॥ १६४॥ नमस्ते नरसिंहाय नमस्ते गरुडध्वज । यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ १६५॥ अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय । महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ १६६॥ धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर । पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ १६७॥ नमो नमस्ते दयासिंहरूप नमो नमस्ते नरसिंहरूप । नमो नमस्ते रणसिंहरूप नमो नमस्ते नरसिंहरूप ॥ १६८॥ उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् । देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ १६९॥ अतिरुद्रमिदं रूपं दुस्सहं दुरतिक्रमम् । दृष्ट्वा तु शङ्किताः सर्वादेवतास्त्वामुपागताः ॥ १७०॥ एतान्पश्य महेशानं व्रह्माणं मां शचीपतिम् । दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ १७१॥ सर्वान् ऋषिगणान्सप्तमातृगौरीं सरस्वतीम् । लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगाणान्यपि ॥ १७२॥ प्रसीद त्वं महासिंह उग्रभावमिमं त्यज । प्रकृतिस्थो भव त्वं हि शान्तिभावं च धारय ॥ १७३॥ इत्युक्त्वा दण्डवद्भूमौ पपात स पितामहः । प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ १७४॥ मार्कण्डेय उवाच- दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् । स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ १७५॥ अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान्सुरोत्तमान् । संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ १७६॥ श्रीनृसिंह उवाच- भो भो देववराः सर्वे पितामहपुरोगमाः । शृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ १७७॥ यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् । एवं नामसहस्रं मे त्रिसन्ध्यं यः पठेत् शुचिः ॥ १७८॥ शृणोति वा श्रावयति पूजां ते भक्तिसंयुतः । सर्वान्कामानवाप्नोति जीवेच्च शरदां शतम् ॥ १७९॥ यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम । सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम ॥ १८०॥। सर्व पूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् । जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ १८१॥ सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् । मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ १८२॥ भूतभेतालकूष्माण्ड पिशाचव्रह्मराक्षसाः । शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ १८३॥ दुष्टग्रहाश्च नश्यन्ति यक्षराक्षसपन्नगाः । ये च सन्ध्याग्रहाः सर्वे चाण्डालग्रहसंज्ञिकाः ॥ १८४॥ निशाचरग्रहाः सर्वे प्रणश्यन्ति च दूरतः । कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ १८५॥ ऐकाहिकं द्व्याहिकं चातुर्धिकमधज्वरम् । आधये व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ १८६॥ शीघ्रं नश्यन्ति ते सर्वे नृसिंहस्मरणात्सुराः । राजानो दासतां यान्ति शत्रवो यान्ति मित्रताम् ॥ १८७॥ जलानि स्थलतां यान्ति वह्नयो यान्ति शीतताम् । विषा अप्यमृता यान्ति नृसिंहस्मरणात्सुराः ॥ १८८॥ राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् । विद्याकामो लभेद्विद्यां बद्धो मुच्येत बन्धनात् ॥ १८९॥ व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा । अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ १९०॥ सुपुत्रं धनधान्यं च भवन्ति विगतज्वराः । एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ १९१॥ जलसन्तरणे चैव पर्वतारण्यमेव च । वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ १९२॥ कलिप्रवेशने चापि नारसिंहं न विस्मरेत् । ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ १९३॥ मुच्यते सर्वपापेभ्यः कृतघ्न स्त्रीविघातकः । वेदानां दूषकश्चापि मातापितृ विनिन्दकः ॥ १९४॥ असत्यस्तु तेथा यज्ञ निन्दको लोकनिन्दकः । स्मृत्वा सकृन्नृसिंह तु मुच्यते सर्वकिल्बषैः ॥ १९५॥ बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः । यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ १९६॥ गच्छन् तिष्ठन् श्वपन्भुञ्जन् जाग्रन्नपि हसन्नपि । नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ १९७॥ पुमान्नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति । नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ १९८॥ भर्तुः प्रियत्वं लभते न वैधव्यं च विन्दति । न सपत्नीं च जन्मान्ते सम्यक् ज्ञानी भवेद्विजः ॥ १९९॥ भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् । तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ २००॥ मार्कण्डेय उवाच - इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्ग्ग्य लीलया । प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ २०१॥ श्रीशैलस्य प्रदासे तु लोकानां च हिताय वै । स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ २०२॥ ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् । दैवतैः सह सुप्रीतो ह्यात्मलोलं ययौ स्वयम् ॥ २०३॥ हिरण्यकशिपोर्भीत्या प्रपलाय शचीपतिः । स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिः ॥ २०४॥ नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः । दिक्पालश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ २०५॥ धर्मे मतिः समस्तानां प्रजानामभवत्तदा । एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ २०६॥ पुत्रानध्यापयामास सनकादीन्महामतिः । ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ २०७॥ देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः । गन्धर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ २०८॥ यस्य स्तोत्रस्य पाठा द्विशुद्ध मनसोभवन् । सनत्कुमारः सम्प्राप्तौ भारद्वाजा महामतिः ॥ २०९॥ तस्मादाङ्गिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः । जैगीषव्याय सप्राह सोऽब्रवीच्छ्यवनाय च ॥ २१०॥ तस्मा उवाच शाण्डिल्यो गर्गाय प्राह वै मुनिः । क्रतुञ्जयाय स प्राह जतुकर्ण्याय संयमी ॥ २११॥ विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च । क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ॥ २१२॥ सिंह तेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः । उपदिष्टोस्मि तेनाहमिदं नामसहस्रकम् ॥ २१३॥ तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि । मया च कथितं नारसिंहस्तोत्रमिदं तव ॥ २१४॥ त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् । सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ॥ २१५॥ पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः । प्राप्यसे महतीं सिद्धिं सर्वान्कामान्वरोत्तमान् ॥ २१६॥ अयमेव परोधर्मस्त्विदमेव परं तपः । इदमेव परं ज्ञानमिदमेव महद्व्रतम् ॥ २१७॥ अयमेव सदाचारस्त्वयमेव सदा मखः । इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ॥ २१८॥ नृसिंहमन्त्रादन्यच्च वैदिकं तु न विद्यते । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ २१९॥ कथितं ते नृसिंहस्य चरितं पापनाशनम् । सर्वमन्त्रमयं तापत्रयोपशमनं परम् ॥ २२०॥ सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २२१॥ इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे सर्वार्थ साधनं दिव्यं श्रीमद्दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Search

Search here.