नवग्रह स्तोत्र

स्तोत्र - मंत्र  > नवग्रह स्तोत्र Posted at 2016-02-09 12:10:41
नवग्रह स्तोत्र सूर्य जपाकुसुम सङ्काशं काश्यपॆयं महाद्युतिम् । तमॊरिं सर्वपापघ्नं प्रणतॊऽस्मि दिवाकरम् ॥ सॊम दधिशंख तुषाराभं क्षीरॊदार्णव सम्भवम् । नमामि शशिनं सॊमं शम्भॊर्मुकुटभुषणम् ॥ मङ्गल धरणीगर्भ सम्भूतं विद्युत्कान्ति समप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ बुध प्रियङ्गु कलिका श्यामं रूपॆणा प्रतिमं बुधम् । सौम्यं सौम्यगुणॊपॆतं तं बुधं प्रणमाम्यहम् ॥ गुरु दॆवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् । बुद्धिभूतं त्रिलॊकॆशं तं नमामि बृहस्पतिम् ॥ शुक्र हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ शनि नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् । छायामार्तंड सम्भूतं तं नमामि शनैचरम् ॥ राहु अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् । सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥ केतु पलाशपुष्प संकाशं तारकाग्रह मस्तकं । रौद्रं रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ॥

Search

Search here.