श्रीविठ्ठलस्तोत्र

स्तोत्र - मंत्र  > विठ्ठल स्तोत्र Posted at 2018-12-05 06:04:24
श्रीविठ्ठलस्तोत्रं वन्दे श्रीरुक्मिणीकान्तं विठ्ठलं भक्तवत्सलम् । पुण्डलीकं सुवरदं तममुं सततं भजे ॥२॥ नागभीट् प्राणदाता च पाण्डवानामभीष्टकृत् । तन्नामकं सुकमलं सर:कृद्विठ्ठलं नुम: ॥३॥ देवप्रीत्यै देवसरो निर्मितं सर्वपापहृत् । तममुं देवदेवेशं नागेशं विठ्ठलं नुम: ॥४॥ स स्वात्मज ब्रम्हसुहृत् तमो ग्रन्थिविभेदकृत् । विदा ज्ञानेन ठानज्ञान् लाति गृण्हाति तं नुम: ॥५॥ नागा: सर्पा: पर्वताश्च तेषां भीर्गरुडेन्द्रत: । तत्स्वामी भगवान् विष्णुं विठ्ठलस्तं नमाम्यहम् ॥६॥ नागा निरपराधाश्च तद्भीहृत् ज्ञानदेश्वर: । तं नागभीड्वासुदेवं विठ्ठलं सततं नुम: ॥७॥ नाग: शेष: पर्वतश्च गोवर्धनगिरि: प्रियौ । अतस्तौ भीषदौ यस्मात् विठ्ठलं तं नमाम्याहम् ॥८॥ इति श्रीविठ्ठलस्तोत्रं संपूर्णम्

Search

Search here.