राहु अष्टोत्तरशतनाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 09:34:01
॥ राहु अष्टोत्तरशतनामस्तोत्र ॥ राहु बीज मन्त्र -- ॥ ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥ शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः । सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥ फणिर्गार्ग्यायनस्तथा सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः । सुरारिर्नील खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥ शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् । वर्णो पताकवान् दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३॥ दंष्ट्राकरालकः शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः । माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥ काश्यप उल्कापातयिताशुली निधिपः कृष्णसर्पराट् । उल्कापातजनिः शूली विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥ शात्रवप्रदः रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः । द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥ क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः । किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥ चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा । शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥ उपरागकरस्सूर्यहिमांषुच्छविहारकः । नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥ कबन्धमात्रदेहश्च यातुधानकुलोद्भवः । गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥ क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः । मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११॥ सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः । चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२॥ जन्मसिंहे राज्यदाता महाकायस्तथैव च । जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥ जन्मकन्याराज्यदाता जन्महानिद एव च । नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥ द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः । षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥ नवमे पापदाता च दशमे शोकदायकः । आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६॥ कालात्मा गोचराचारो धने चास्य ककुत्प्रदः । पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥ महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः । सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥ पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः । दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९॥ भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः । एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥ श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् । सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥ ॥ इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Search

Search here.