रेवा खंड स्कंद पुराण 01 to 30
अध्याय १
मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम् ।
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ॥ १.१ ॥
सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम् ।
पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम् ॥ १.२ ॥
मार्कण्डेय उवाच -
हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते ।
यक्षविद्याधराकीर्णे नानागणसमन्विते ॥ १.३ ॥
ब्रह्मविष्णुसुराः सर्वे स्कन्दनन्दिगणेश्वराः ।
चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम् ॥ १.४ ॥
वायुश्च वरुणश्चैव कुबेरोऽथ यमस्तथा ।
इन्द्राद्या देवतास्सर्वे गन्धर्वगण एव च ॥ १.५ ॥
ब्राह्म्याद्या मातरश्च ऋषयश्च तपोधनाः ।
मूर्तिमन्तश्च तीर्थानि चण्डभृङ्गिमहाबलाः ॥ १.६ ॥
दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः ।
सूर्यकोटिसमप्रख्यं मणिमाणिक्यशोभितम् ॥ १.७ ॥
रत्नवैदूर्यसोपानवापीकूपसहस्रकम् ।
पद्मनीलोत्पलोपेतं नानावृक्षसमन्वितम् ॥ १.८ ॥
काम्यकामफलैर्वृक्षैः पुष्पितैः फलितैर्युतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम् ॥ १.९ ॥
कोककोकिलसंघुष्टं नानापक्षिसमाकुलम् ।
स्थानं सर्वे हरस्यापुः सिद्धैश्च परिसेवितम् ॥ १.१० ॥
तत्रासीनं महादेवं शङ्करं लोकशङ्करम् ।
स्तुवन्तः केऽपि देवेशं केचिन्नृत्यन्ति चाग्रतः ॥ १.११ ॥
दिव्यसिंहासनासीनमुमया सहितं हरम् ।
तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ॥ १.१२ ॥
कृताञ्जलिपुटो भूत्वा साष्टाङ्गं प्रणिपत्य च ।
सृष्टिसंहारकर्त्तारं सुरासुरनमस्कृतम् ॥ १.१३ ॥
ब्रह्मविष्ण्विन्द्रवरदं भक्तानां भक्तवत्सलम् ।
त्र्यम्बकसितकण्ठाय ज्ञाताज्ञातस्वरूपिणे ॥ १.१४ ॥
ईश्वरायाविनाशाय गजचर्मावगुण्ठिने ।
कपालमालाभरणद्वीपिचर्मधराय च ॥ १.१५ ॥
भस्मोद्धूलितदेहाय नमस्तेऽस्तु पिनाकिने ।
अनन्तानन्तरूपाय कालाय परमेष्ठिने ॥ १.१६ ॥
सद्यो वामस्तथा घोरस्तत्पुरुषाय ते नमः ।
ईशानाय परेशाय सदाशिव नमोऽस्तु ते ॥ १.१७ ॥
ऋग्यजुः सामरूपाय अथर्वाय नमोऽस्तु ते ।
नमः कालाग्निरूपाय सर्वलोकनिवासिने ॥ १.१८ ॥
नमः कान्तार्द्धदेहाय वर्षिष्ठाय च ते नमः ।
ओं नमः शिवाय रूपाय भीमाय भवरूपिणे ॥ १.१९ ॥
शिवाय भवरूपाय भीमरूपकपर्दिने ।
त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ १.२० ॥
जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ।
क्षमस्व मम ईशान अज्ञानाञ्ज्ञानतोऽपि वा ॥ १.२१ ॥
ईश्वर उवाच -
वरं वृणीष्व भद्रं ते स्तवेनानेन सुव्रत ।
ददामि ते न सन्देहो वरं मनसि काङ्क्षितम् ॥ १.२२ ॥
स्कन्द उवाच -
यदि तुष्टोऽसि मे देव वरं दातुममेच्छसि ।
उत्तरे तु दिशाभागे हर्म्या हेममयाः शुभाः ॥ १.२३ ॥
सप्तभौमास्तु विस्तीर्णहेमप्राकारतोरणाः ।
नानामणिसमुक्ताद्या वज्रवैदूर्यमण्डिताः ॥ १.२४ ॥
तत्रैव मधुरा वाणी वेणुवीणाः सहस्रशः ।
प्रेक्षणीयैर्नृत्यगीतैर्दिव्यकान्तिमनोहरैः ॥ १.२५ ॥
कस्यैतानि गृहाणीति मेरोरुत्तरतः शिव ।
त्वत्प्रसादात्तु पृच्छामि परं कौतूहलं हि मे ॥ १.२६ ॥
ईश्वर उवाच -
शृणु स्कन्द सुरश्रेष्ठ कथ्यमानं निबोध मे ।
भृगुस्थाने पुरे ये वै राहुसूर्व्यसमागमे ॥ १.२७ ॥
कुरुक्षेत्रे प्रभासे च मोक्षे रुद्रपदे तथा ।
केदारक्षेत्रके स्थाने रुद्रे कनखले तथा ॥ १.२८ ॥
भैरवे ललिताक्षेत्रे शिव ध्यात्वा च पुत्रक ।
ये पृताः शिवनद्यां तु शिवध्यानपरायणा ॥ १.२९ ॥
तेषां गृहाणि रम्याणि स्वयं कर्मफलार्जितैः ।
सप्तभौमैर्गृहैर्दिव्यैर्वस्त्रभोगाश्च पुष्कलाः ॥ १.३० ॥
दत्तानि च मयैतेषां हर्म्यभोगसुखानि च ।
स्कन्द उवाच -
सहस्रशतभौमाश्च वैदूर्यमाणमण्डिताः ॥ १.३१ ॥
कूटैः कपाटकैर्नद्धसिद्धद्वाराण्यनेकशः ।
नित्योत्सवैर्नृत्यगीतैः काम्यैर्दिव्यैर्मनोहरैः ॥ १.३२ ॥
असंख्याता गृहा रम्याः सूर्यकोटिसमप्रभाः ।
कस्यैतानीह हर्म्याणि पूर्वभागे महेश्वर ॥ १.३३ ॥
दक्षिणे पश्चिमे चैव नानाभोगाः सहस्रशः ।
सुरेन्द्रभवने भोगाः कलां नार्हन्ति षोडशीम् ॥ १.३४ ॥
केन कर्म्मविपाकेन शूभेनाप्यशुभेन वा ।
कूष्माण्डवासिनश्चक्रे घोरे मज्जन्ति तामसे ॥ १.३५ ॥
पूयशोणितकूपेषु कृमिकीटपतङ्गिनः ।
तिर्यग्योनिगताः पापैः पीड्यमानास्तु मानुषाः ॥ १.३६ ॥
दारिद्र्यदुःखिता दीनाः पच्यमाना बुभुक्षिताः ।
केन कर्म्मविपाकेन शूभाशुभगति प्रभो ॥ १.३७ ॥
एतत्सर्वं यथान्यायं कथयस्व प्रसादतः ।
ईश्वर उवाच -
ये मृता नर्मदातीरे सङ्गमे तिग्मदार्शिते ॥ १.३८ ॥
तेषां गृहाणि रम्याणि पूर्वभागे च षण्मुख ।
ओंकारदक्षिणे भागे पूर्वतोऽमरकण्टके ॥ १.३९ ॥
नर्मदाकोटितीर्थे च ये मृताः स्कन्दमानुषाः ।
हर्म्ये मनोरमे रम्ये ते वसन्ति नरोत्तमाः ॥ १.४० ॥
भृगावग्नौ जले वापि रेवाकपिलसङ्गमे ।
दानं दत्तं तपस्तप्तं ते वसन्ति गृहैरिमैः ॥ १.४१ ॥
गोदावर्य्यां पयस्विन्यां तपत्यां चैव सङ्गमे ।
त्र्यम्बके धौतपापे च हिमाद्रौ विन्ध्यपर्वते ॥ १.४२ ॥
महेश्वरमये सह्ये गोकर्णे च महाबले ।
हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तके ॥ १.४३ ॥
कृष्णायां ससमुद्रायामेकादश्यां महानदे ।
कार्तिके योनिकुण्डे च ये म्रियन्ते च पुत्रक ॥ १.४४ ॥
याम्ये हर्म्ये हेममये तेषां श्रेष्ठास्स्वयम्भुवः ।
नाना भोगांश्च भुञ्जन्ति यथा शक्रस्त्रिविष्टपे ॥ १.४५ ॥
सरस्वत्यां त्यजेत्प्राणान् प्रभासे शशिभूषणे ।
पारियात्रे महाकाले प्रयागे च महापथे ॥ १.४६ ॥
तेषां गृहाणि रम्याणि नानाभोगाश्च पुष्कलाः ।
मणिमाणिक्यदीप्ताभाः सौम्ये कोटित्रयोदश ॥ १.४७ ॥
एवं तथैकाविंशत्या भूर्वे चैवोपवेशिताः ।
दक्षिणे नवकोट्यस्तु भृता हर्म्या हिरण्मयाः ॥ १.४८ ॥
गृहा मौक्तिकसंकाशाः कोट्यः षोडश वारुणे ।
तीर्थयात्राविशेषेण दानधर्मविशेषतः ॥ १.४९ ॥
भुञ्जन्ति विविधान् भोगान्मया तुष्टेन पुत्रक ।
मेरोरुत्तरतो भागे दक्षिणे वारुणे तथा ॥ १.५० ॥
क्रीडन्ति च मनोहारिमन्दिरे देवनिर्मिते ।
देवानां वार्द्धकिस्तत्र कर्ता विश्वस्य कर्मणः ॥ १.५१ ॥
सर्वरत्नमयं हर्म्यं भुवनोपरि पश्यसि ।
पूर्वभागे महासेन नार्मदः फलमश्नुते ॥ १.५२ ॥
एतत्ते कथितं स्कन्द परिपृष्टं त्वया च यत् ।
देवानां च हितार्थाय तुभ्यं सर्वं मयानघ ॥ १.५३ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे प्रथमोऽध्यायः ॥
अध्याय २
स्कन्द उवाच -
श्रोतुकामा इमे सर्वे ब्रह्मविष्णुसुरोत्तमाः ।
प्रभावमीदृशं यस्य तीर्थस्याऽस्य महत्फलम् ॥ २.१ ॥
नर्मदायास्तथोत्पत्तिं सङ्गमं लिङ्गपूजनम् ।
पर्वकाले च देवानां पर्वतेऽमरकण्टके ॥ २.२ ॥
आख्यानसहितं देव कथयस्व यथार्थतः ।
तीर्थयात्राफलं सम्यग्वंशो मन्वन्तराणि च ॥ २.३ ॥
भक्त्या युक्तं च यत्किंचित्कथयस्व प्रसादतः ।
सूत उवाच -
श्रुत्वाऽख्यानमिदं पुण्य पुराणं स्कन्दकीर्तितम् ॥ २.४ ॥
भविष्यभूततत्त्वज्ञः सप्तकल्पानुवर्तकः ।
आजगामाऽथमार्कण्डऋषिभिः सहितस्तदा ॥ २.५ ॥
सर्वकामसमृद्धात्मा श्रेयान् त्वेनैव पूजितः ।
सपादलक्षमधिकमृषीणां चोग्रतेजसाम् ॥ २.६ ॥
ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे ।
एतैः परिवृतः श्रीमान्मध्येऽरण्याश्रमं प्रति ॥ २.७ ॥
तीर्थयात्राफलं प्राप्य नर्मदातटमाश्रितः ।
श्रुत्वा महान्तं मार्कण्डप्रभावं लोमहर्षणः ॥ २.८ ॥
आजगाम ततो द्रष्टुमृषिं कल्मषनाशनम् ।
नर्मदाप्रवाहे पुण्ये सिद्धगन्धर्वसेविते ॥ २.९ ॥
यक्षविद्याधराकीर्णे किन्नरैरुपशोभिते ।
नानादेवगणाकीर्णे नानागणनिषेविते ॥ २.१० ॥
रेवावतरणं श्रुत्वा प्रभावं पुण्यसङ्गतम् ।
ननृतुर्देवतास्तत्र सिद्धविद्याधरा नराः ॥ २.११ ॥
कह्लारैः शतपत्रैश्च पुन्नागैर्नागचम्पकैः ।
आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा ॥ २.१२ ॥
निम्बजम्बीरनारङ्गैः कदलीषण्डमण्डितैः ।
कुमुदैर्नागवल्ल्याद्यैः शालेयैश्च तमालकैः ॥ २.१३ ॥
बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः ।
बिल्वचन्दनपील्वाद्यैः कदम्बकुटजैस्तथा ॥ २.१४ ॥
सर्वकामफलैर्वृक्षैः फलितं पुष्पितं भृशम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ २.१५ ॥
कोकिलाबर्हिणशुकैर्नानापक्षिविनादितम् ।
जातिस्मरा पक्षिणश्च व्याजह्रुर्मानुषीङ्गिरम् ॥ २.१६ ॥
गन्धर्वकिन्नरयुतैर्यक्षविद्याधरोरगैः ।
क्रीडते मिथुनं दिव्यं शनैर्गिरिवरोत्तमे ॥ २.१७ ॥
दिव्यगन्धर्वनृत्यैश्च वेणुवीणासहस्रशः ।
दिव्योद्भवैः प्रेक्षणीयैः शोभितैर्गिरिगह्वरे ॥ २.१८ ॥
गीतध्वनिनिनादेन दिवं भूमिं व्यनादयन् ।
ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे ॥ २.१९ ॥
वेदध्वनितयज्ञानामग्निहोत्रप्रकाशतः ।
ऋग्यजुःसामाथर्वाणि चातुर्वर्ण्या द्विजोत्तमाः ॥ २.२० ॥
पुलस्त्यश्च वसिष्ठश्च पुलहश्च क्रतुस्तथा ।
भृगुरत्रिर्मरीचिश्च भारद्वाजोऽथ काश्यपः ॥ २.२१ ॥
मनुर्यमोऽङ्गिराश्चैव शातातपपराशरौ ।
आपस्तम्बोऽथ शम्बश्च काव्यः कात्यायनो मुनिः ॥ २.२२ ॥
गौतमः शङ्खलिखितौ दक्षः कात्यायनिस्तथा ।
जामदग्न्यो याज्ञवल्क्य ऋष्यशृङ्गो विभाण्डकः ॥ २.२३ ॥
गर्गशौनकदाल्भ्या व्यास उद्दालकः शुकः ।
नारदः पर्वतश्चैव दुर्वासाश्चोग्रतापसः ॥ २.२४ ॥
शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा ।
विश्वामित्रः कौशिकश्च ऋषयो देवसम्मताः ॥ २.२५ ॥
तथा धर्मशतानन्दवैशम्पायनवैष्णवाः ।
शाकलायनवार्द्धक्यौ जुहुतिश्चावसुस्तथा ॥ २.२६ ॥
बालखिल्या महात्मानो भूमिमण्डलवासिनः ।
ब्रह्मदण्डं समारुहा देवलोकं व्रजन्ति ये ॥ २.२७ ॥
एते चान्येऽव्रजंस्तत्र ऋषयो धार्मिकाः परे ।
ज्वलन्तस्तेजसा सर्वे निर्धूमा इव पावकाः ॥ २.२८ ॥
मासोपवासिन केचित्केचित्पक्षोपवासिनः ।
त्रिरात्रकाः सान्तपना निराहारास्तथा परे ॥ २.२९ ॥
केचित्पुष्पफलाहाराः शान्ता वाताशनिस्तथा ।
केचिद्गोमयभक्ष्याश्च जलाहारास्तथापरे ॥ २.३० ॥
साग्निहोत्राश्च विद्वांसो मोक्षवेदार्थचिन्तकाः ।
इतिहासपुराणादि श्रुतिस्मृतिविशारदाः ॥ २.३१ ॥
एते चान्ये च बहवो मार्कण्डेयं प्रियया तपस्विनः ।
एतैश्च संतिष्ठनृक्षैरिव निशाकरः ॥ २.३२ ॥
तीर्थयात्राफलं श्रुत्वा धर्मपुत्रो युधिष्ठिरः ।
अभिज्ञैर्ब्राह्मणैः सार्धं द्रौपद्या प्रियया सह ॥ २.३३ ॥
विद्वद्भिर्वेदविद्भिश्च ब्रह्मिष्ठैर्ब्रह्मचिन्तकैः ।
नर्मदातीरमायाते मार्कण्डेयाश्रमं प्रति ॥ २.३४ ॥
प्रदक्षिणत्रिः प्रणम्य साष्टाङ्गं च पुनः पुनः ।
उपविष्टस्तदा तत्र भ्रातृभिस्सह धर्मजः ॥ २.३५ ॥
उपविष्टं नृपं दृष्ट्वा मार्कण्डेयो महामुनिः ।
उवाच वचनं देवं धर्मपुत्रं युधिष्ठिरम् ॥ २.३६ ॥
कुशलं नृपशार्दूल भ्रातृभिर्ब्राह्मणैः सह ।
प्रहस्य सोऽब्रवीद्वाक्यं मार्कण्डं मुनिसत्तमम् ॥ २.३७ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
कृतकृत्योऽभवं त्वद्य त्वत्पादाम्बुजदर्शनात् ॥ २.३८ ॥
अद्य मेऽन्तर्मलं नष्टं पापोच्छेदननिर्म्मलम् ।
दृष्ट्वा तपोवनं सर्वं ज्वलन्तं सूर्यवर्चसम् ॥ २.३९ ॥
निर्मुक्तः किल्बिषादस्मात्सप्तजन्मान्तराद्विभो ।
रन्त्वा चोत्तरदिग्भागे देवभूमिं मनोहराम् ॥ २.४० ॥
गङ्गां त्रिपथगां देवीं यमुनां च सरस्वतीम् ।
गङ्गाद्वारं हिमस्थानं कुब्जाग्रं ब्रह्मयोनिकम् ॥ २.४१ ॥
उग्रं कनखलञ्चैव केदारं भैरवं तथा ।
नैमिषं च गयातीर्थं कुरुक्षेत्रं च पुष्करम् ॥ २.४२ ॥
वाराणसीं प्रयागं च गङ्गासागरसङ्गमम् ।
कालञ्जरं चाप्यतीर्थं प्रभासं शशिभूषणम् ॥ २.४३ ॥
पुण्यान्येतानि चान्यानि त्यक्त्वा क्षेत्राणि सुव्रत ।
सेव्यते केन कार्व्येण नर्मदैव महानदी ॥ २.४४ ॥
भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदिक ।
श्रोतुकामा इमे सर्वे कथयस्व प्रसादतः ॥ २.४५ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाबाहो ब्राह्मणैर्भ्रातृभिः सह ।
तत्तेऽहं कथयिष्यामि पुराणं स्कन्दकीर्तितम् ॥ २.४६ ॥
स्वायम्भुवेऽथ मुनय आदिकल्पे कृते युगे ।
देवानां सङ्गमे तत्र कैलासे च शिवालये ॥ २.४७ ॥
कार्तिक्यां देवदेवेशं हरं द्रष्टुं समाययुः ।
प्राक्पृष्टं कार्त्तिकेयेन धर्माधर्मनिदर्शनम् ॥ २.४८ ॥
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
विष्णुब्रह्मादिदेवानां शृण्वतां यक्षरक्षसाम् ॥ २.४९ ॥
अष्टलक्षाणि सार्द्धानि शिवलोके च गीयते ।
तदर्द्धं वैष्णवे लोके चार्द्धार्द्धं ब्रह्मणः पुरे ॥ २.५० ॥
चतुरशीतिसहस्राणि मर्त्यलोके च गीयते ।
आराधितः शिवः पूर्वं ब्रह्माद्यैश्च सुरासुरैः ॥ २.५१ ॥
ततस्तुष्टः सुरेशानो वरं दातुं यथेप्सितम् ।
देवा ऊचुः॒
यदि तुष्टोऽसि देवेश देवानां वरदो भव ॥ २.५२ ॥
सप्तद्वीपा वसुमती वसुधा कर्म्मभागिनी ।
नवमद्वीपपर्य्यन्तं जम्बूद्वीपं प्रचक्षते ॥ २.५३ ॥
वापी कूपसहस्राणि नवार्णः सरितो नहि ।
न सृताश्चापगाः शर्वपितृघोरावतारिणीः ॥ २.५४ ॥
तिलोदकप्रदानेन पितॄन् पातुं हि साम्प्रतम् ।
तारिणी सर्वलोकानामवतारय नर्मदाम् ॥ २.५५ ॥
ईश्वर उवाच -
दुष्प्राप्यं त्रिदशैः सर्वैरयाच्यं याच्यते सुराः ।
वेगं शक्नोति कः सोढुं तत्तोयभ्रमणस्य च ॥ २.५६ ॥
तोयं भूतं जगत्सर्वं निपतिष्यज्जवेन तु ।
याचध्वमन्यां सरितं सुखसाध्यान्तरङ्गिणीम् ॥ २.५७ ॥
देवा ऊचुः॒
काऽन्या तारयितुं शक्ता पुण्या सोढुं सरिद्वरा ।
मुक्त्वा त्रिनयनेशानीं नर्मदां शोकतारिणीम् ॥ २.५८ ॥
देवानां वचनं श्रुत्वा समाहूता सरिद्वरा ।
आगता च ततो देवी सर्वाभरणभूषिता ॥ २.५९ ॥
प्रत्यक्षा मकरारूढा देवदेवस्य चाज्ञया ।
देव मे देहि वक्तव्यं कर्तव्या तु कृपा मयि ॥ २.६० ॥
निशम्य तद्वचसौम्यं नर्मदायास्त्रिलोचनः ।
उवाच वचनं श्लक्ष्णं मर्त्यलोकेऽद्य गम्यताम् ॥ २.६१ ॥
लोकानां च हितार्थाय मर्त्यानां च विशेषतः ।
नर्मदोवाच -
तवाज्ञां च करिष्येऽहं निराधारा कथं विभो ॥ २.६२ ॥
को मां धर्तुं च शक्नोति मही यास्यति विप्लवम् ।
आदिदेश ततः सर्वान् पर्वतान् परमेश्वरः ॥ २.६३ ॥
आदिश्यैतांश्च तान् सर्वांस्ततो देवः स्वयं शिवः ।
पर्वता ऊचुः॒
न शक्नुमो वयं सर्वे धर्तुं वेगं च नार्मदम् ॥ २.६४ ॥
भेदमाप्नोति वै पृथ्वी शतधा यान्ति भूभृतः ।
ऋक्षवानब्रवीद्देवं देह्याज्ञा त्रिदशेश्वर ॥ २.६५ ॥
धारयामि च सत्येन त्वत्प्रसादादुमापते ।
ततोऽवतारिता देवी जम्बूद्वीपे नराधिप ॥ २.६६ ॥
दारयित्वा महीं सर्वां सशैलवनकाननाम् ।
ततो देवगणैरुक्ता मर्यादां वह सुव्रते ॥ २.६७ ॥
एकविंशत्सहस्राणि योजनानां प्रमाणतः ।
सभित्त्वा सप्तपातालान् रसातलतलं ययौ ॥ २.६८ ॥
देवलोकं जगामाऽथ प्रलये समुपस्थिते ।
प्रथमा कथिता राजन्नवतारस्य कल्पना ॥ २.६९ ॥
स्वारोचिषे द्वितीये तु आदिकल्पे युगेऽनघ ।
न सागरा न सरितो न तीर्थानि न सङ्गमः ॥ २.७० ॥
त्रेतायुगेऽवतीर्णा तु पुरा भागीरथी सरित् ।
जह्नुना चुलुकेनैव हृदि मध्ये व्यवस्थिता ॥ २.७१ ॥
सा कथं सेव्यते राजस्त्यक्त्वा चैव तु कल्पगाम् ।
अज्ञानतमसाछन्ना विष्णुमायाविमोहिताः ॥ २.७२ ॥
त्यक्त्वा वै नर्मदां राजन् सेवन्तेऽन्यां नदीं सुराः ।
यावृशं सूर्यदेवानां मणिरत्नप्रभासु च ॥ २.७३ ॥
अन्तरं तादृशं राजन्नर्मदाऽन्यापगासु च ।
श्रुत्वाख्यानमिदं पुण्यं शङ्करस्य प्रभावतः ॥ २.७४ ॥
सेव्यते सप्तगा तत्र पुराणं स्कन्दकीर्तितम् ।
एतत्ते कथितं राजन् यथादृष्टं यथा श्रुतम् ॥ २.७५ ॥
कृतकृत्यः सर्वकामान् ब्राह्मणैर्वेदपारगैः ।
प्राप्नोषि परमं स्थानं वंशक्षयविवर्जितम् ॥ २.७६ ॥
श्रुत्वाख्यानमिदं पुण्यं पवित्रमघनाशनम् ।
ये शृण्वन्ति सदा नित्यं गोहत्या च प्रणश्यति ॥ २.७७ ॥
इति श्रीरेवाखण्डे आदिकल्पकथनं द्वितीयोऽध्यायः ॥
अध्याय ३
युधिष्ठिर उवाच -
रेवाऽवतरणं पुण्यं सङ्गमं लिङ्गमर्चितम् ।
तीर्थयात्राप्रमाणश्च युगमन्वन्ताराणि च ॥ ३.१ ॥
पर्वतस्यतु माहात्म्यं तत्र नद्यां यथोचितम् ।
पर्वकालस्तु देवानां तीर्थे तीर्थे विशेषतः ॥ ३.२ ॥
पत्तनस्य तु माहात्म्यं तत्र वासं यथोचितम् ।
भृगोस्तु कीर्तनं पुण्यं ब्रह्महत्याविमोचनम् ॥ ३.३ ॥
केनाऽवतीर्य कार्येण जम्बूद्वीपे सरिद्वरा ।
शिवलोकं गता सा तु तन्मे वद महामुने ॥ ३.४ ॥
उक्तानुक्ताश्च यत्किंचित्कथयस्व प्रसादतः ।
मार्कण्डेय उवाच -
श्रूयतां राजराजेन्द्र कथ्यमानं निबोध मे ॥ ३.५ ॥
हिरण्यकशिपुश्चासीद्युगे चाद्ये महाऽसुरः ।
शिवप्रसादसम्पन्नो ह्यलं मातृबलोत्कटः ॥ ३.६ ॥
निर्जिता देवतास्तेन पलायनपरायणाः ।
जग्मुः शरणमुद्विग्ना भयार्ता भयविह्वलः ॥ ३.७ ॥
शङ्खचक्रधरं देवं ससारार्णवतारणम् ।
शरणश्च प्रपन्नाः स्मो माधवं मधुसूदन ॥ ३.८ ॥
अग्निहोत्राश्च वेदाश्च न देवानां च याजनम् ।
न स्वाध्यायो न यज्ञाश्च न हुतं पितृतर्पणम् ॥ ३.९ ॥
व्यावितं दानवैर्दुष्टैर्धर्मकर्म च नाशितम् ।
एतस्मिन्नन्तरे राजन् विष्णुना प्रभविष्णुना ॥ ३.१० ॥
दैत्याश्च निहतास्सर्वे नृसिंहवपुषा तु ते ।
पुनःप्रवर्तते धर्मो देवब्राह्मणयाजनम् ॥ ३.११ ॥
क्षयिता दानवास्सर्वे पापकर्म्मरताऽधमाः ।
गता तेनैव कार्येण नर्मदा लोकधारिणी ॥ ३.१२ ॥
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अवतारं पुनर्मर्त्ये देवी त्रिदशपूजिता ॥ ३.१३ ॥
करिष्यति नरश्रेष्ठलोकानां हितकाम्यया ।
धर्मकर्मरतं ज्ञात्वा मर्त्यं सुरगणार्चितः ॥ ३.१४ ॥
मार्कण्डेय उवाच -
आसीत्पुरा चक्रवर्ती सोमवंशे पुरूरवाः ।
शशास पृथिवीं सर्वां यथाशक्रस्त्रिविष्टपम् ॥ ३.१५ ॥
एकदा स नृपश्रेष्ठः सभामध्ये पुरूरवाः ।
पप्रच्छ ब्राह्मणान् वृद्धान् वृद्धसेवी धृतव्रतः ॥ ३.१६ ॥
यज्ञादिभिर्विना केन मानवाः पापमोहिताः ।
स्वर्गं प्रापुरुपायेन तन्मे वद यथातथम् ॥ ३.१७ ॥
ब्राह्मणा ऊचुः॒
आस्ते स्वर्गे महाराज नर्मदा लोकपावनी ।
अवतारयतां स्वर्गाल्लोकानां पापहारिणीम् ॥ ३.१८ ॥
तेषां तद्वचनं श्रुत्वा द्विजानां विधृतामनाम् ।
आराधयामास देवमयुतं साग्रमेव च ॥ ३.१९ ॥
कन्दमूलफलैः शाकैर्जलाहारैस्तथापि सः ।
शिवभक्तिपरो नित्यं विशुद्धेनान्तरात्मना ॥ ३.२० ॥
ततस्तुष्टो महादेवो वरं वरय पुत्रक ।
ददामि ते न सन्देहो यथेष्टं मनसेप्सितम् ॥ ३.२१ ॥
पुरूरवा उवाच -
यदि तुष्टो महादेव वरं दातुं ममेच्छसि ।
हिताय सर्वलोकानामवतारय नर्मदाम् ॥ ३.२२ ॥
नवखण्डास्सप्तद्वीपास्त्वापगास्सरितः तथा ।
निमग्नं नरके घोरे जगत्सर्वं मया श्रुतम् ॥ ३.२३ ॥
लक्षयोजनपर्य्यन्तं जम्बूद्वीपं निराश्रयम् ।
न देवास्तृप्तिमायान्ति न मातृपितृमानुषाः ॥ ३.२४ ॥
एतच्छ्रुत्वा महादेवो नरदेवस्य भाषितम् ।
हर उवाच -
उवाच दुर्लभं देवैरयाच्यं याच्यते नृप ॥ ३.२५ ॥
वरमन्यं प्रयच्छामि वर्जयित्वा तु नर्मदाम् ।
पुरूरवा उवाच -
नान्यं वरं महादेव प्राणत्यागेऽपि प्रार्थये ॥ ३.२६ ॥
ज्ञात्वा तु निश्चयं राज्ञस्तपसोग्रेण साधनम् ।
आज्ञापिता मेकला साऽवतर त्वं सुरेश्वरि ॥ ३.२७ ॥
पुरूरवाविपाकेन मर्त्यलोकहितं कुरु ।
आज्ञापितागता सा च शिवस्याग्रे व्यवस्थिता ॥ ३.२८ ॥
कृताञ्जलिपुटा भूत्वा ममादेशोऽद्य दीयताम् ।
हर उवाच -
स्वर्गात्प्रयाहि रेवे त्वं मर्त्यलोकं ममाज्ञया ॥ ३.२९ ॥
पुरूरवस्तपः सत्यं कुरु कल्याणि साम्प्रतम् ।
नर्मदोवाच -
कथमीश निराधारा स्वर्गाद्यास्याम्यहं धराम् ॥ ३.३० ॥
ततस्तद्वचनं श्रुत्वा देवदेव उमापतिः ।
आवाहयामास सर्वानष्टौ कुलनगोत्तमान् ॥ ३.३१ ॥
उवाच पर्वतान् देवः कः सरिद्धारणे क्षमः ।
पर्वता ऊचुः॒
शतधा भेदमायान्ति जलाघातान्महाद्रयः ॥ ३.३२ ॥
अभाषत ततो विन्ध्यो धर्तुमुत्सहते नदीम् ।
मम पुत्रः सुरेशाग्र्य त्वत्प्रसादान्न संशयः ॥ ३.३३ ॥
पर्यङ्क इति विख्यातः कन्दर्पदृढविक्रमः ।
ज्येष्ठः सर्वगणैर्युक्तो मान्यः सर्वमहीभृताम् ॥ ३.३४ ॥
देवैरपि च दुर्ज्ञेयः शिवायाश्चर्चने रतः ।
सन्त्येव पर्वतास्सर्वे यद्यपीह महेश्वर ॥ ३.३५ ॥
तथापि धारणे शक्तः स एवेह न संशयः ।
अशक्ता विकला वृद्धास्सर्व एव महीधराः ॥ ३.३६ ॥
अनुज्ञां देहि पर्यङ्कः क्षमस्तां धर्तुमापगाम् ।
अनुज्ञातश्च देवेन पर्यङ्कः स नगोत्तमः ॥ ३.३७ ॥
उवाच धारयिष्येऽहं त्वत्प्रसादान्महेश्वर ।
ततः प्रचलिता देवी मूर्ध्नि पर्यङ्कभूभृत ॥ ३.३८ ॥
जलौघवेगभ्रमणात्सशैलवनकानना ।
प्लाविता वसुधा सर्वा अकालकलितं जगत् ॥ ३.३९ ॥
स्तुता देवगणैः सर्वैस्तदा मेकलकन्यका ।
मर्यादां वह कल्याणि लोकानां हितकारिणी ॥ ३.४० ॥
त्वया व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ।
ततः संवृतरूपेण शिवाज्ञातश्च मेकला ॥ ३.४१ ॥
प्रमाणतो योजनानां सहस्राण्येकविंशति ।
रसातलं सा विविशे तर्पयित्वा पितामहान् ॥ ३.४२ ॥
स्पृश मां त्वं स्वहस्तेन इत्युक्तः स पुरूरवाः ।
पीत्वा च सलिलं दत्ते पितृभ्यश्च तिलोदकम् ॥ ३.४३ ॥
अगमन् परमं स्थानं यत्सुरैरपि दुर्लभम् ।
पवित्रं परितस्सर्वं त्रैलोक्यं सचराचरम् ॥ ३.४४ ॥
सेव्यते तेन कार्य्येण नर्मदा सप्तकल्पगा ।
एतत्ते कथितं राजन्नाख्यानं च शिवोदितम् ॥ ३.४५ ॥
वैवस्वतमिदानीं तु द्वापरान्ते समुद्यते ।
त्वं राजा भ्रातृभिः सार्द्धं सत्यसंधो दृढव्रतः ॥ ३.४६ ॥
त्रेतायाः प्रथमे पादे गङ्गा भागीरथी स्मृता ।
अदहत्कपिलश्चास्य पितॄणामयुतानि षट् ॥ ३.४७ ॥
मोहितामायया विष्णोर्गता सप्तरसातलम् ।
एव मन्दाकिनी नाम त्वन्या गङ्गा सरिद्वरा ॥ ३.४८ ॥
मेकलातोयसम्पूर्णास्सागरास्सप्तयन्त्रिताः ।
तृतीये च तथा पादे अवतीर्णा सरस्वती ॥ ३.४९ ॥
स्थानेश्वरगता सा तु पुनर्गङ्गा समागमे ।
गङ्गाकनखले पुण्या गङ्गासागरसङ्गमे ॥ ३.५० ॥
ऊर्ध्वतीर्थे प्रयागे च वाराणस्यां विशेषतः ।
प्राची सरस्वती यत्र कुरुक्षेत्रे च पुण्यदा ॥ ३.५१ ॥
प्रणष्टे द्वावशादित्ये प्रलये समुपस्थिते ।
सप्तकल्पक्षये वृत्ते न मृता तेन नर्मदा ॥ ३.५२ ॥
सरितश्च क्षयं यान्ति गङ्गाद्याश्च सहस्रशः ।
नर्मदा तिष्ठते देवी सप्तकल्पानुगामिनी ॥ ३.५३ ॥
ब्राह्मी सरस्वती मूर्तिवैष्णवी त्रिपथा स्मृता ।
नर्मदा शाङ्करी मूर्तिर्नद्यस्तिस्रस्त्रिदेवताः ॥ ३.५४ ॥
गङ्गा च यमुना चैव सरयूश्च सरस्वती ।
शतभागा चन्द्रभागा रम्या सिन्धुर्महानदी ॥ ३.५५ ॥
इरावती च कपिला नर्मदा सवितस्तिका ।
दण्डकी गण्डकी चैव घर्घरा च महानदी ॥ ३.५६ ॥
शोणो महानदश्चैव वेदिका च तरङ्गिणी ।
ब्रह्मवाहा विष्णुवाहा सारङ्गा गौतमी तथा ॥ ३.५७ ॥
विश्ववाहा धेनुमती अपारा अपरा तथा ।
वेत्रवती च कुमुदा महातापी पयोष्णिका ॥ ३.५८ ॥
वेणा च दुग्धिका शिप्राऽजहासाऽभ्रमती तथा ।
कृष्णा भीमरथी चैव तुङ्गभद्रा महानदी ॥ ३.५९ ॥
गोदावरीति विख्याता गङ्गा सा दक्षिणा स्मृता ।
नद्यश्चैव तथा चान्यास्सर्वतीर्थानि सागराः ॥ ३.६० ॥
सर्वास्ताः प्रलयं यान्ति वर्जयित्वा तु कल्पगाम् ।
गङ्गा किं वर्ण्यते देवी हरेण शिरसा धृता ॥ ३.६१ ॥
गौरी वार्द्धशरीरस्था शिवस्य परमेष्ठिनः ।
नर्मदा वर्ण्यते देवी सप्तकल्पानुगामिनी ॥ ३.६२ ॥
ते देशाः पर्वताः पुण्यास्ते ग्रामास्तेऽपि चाश्रमाः ।
यत्र याता सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा ॥ ३.६३ ॥
त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नर्मदा ॥ ३.६४ ॥
रेवातटेषु ये वृक्षाः पतिताः कालपर्यये ।
नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति पराङ्गतिम् ॥ ३.६५ ॥
रेवाया यत्र कुत्रापि सङ्गमे भरतर्षभ ।
स्नानं दानं जपो होमः स्वाध्यायः पितृपूजनम् ॥ ३.६६ ॥
देवताराधनं दीक्षा न्यासो देहविसर्जनम् ।
यत्किंचित्क्रियते मर्त्यैस्तदनन्तफलं स्मृतम् ॥ ३.६७ ॥
गोसहस्रशतं धेनु महादानानि कृत्स्नशः ।
वैशाख्यामथवा माध्यां कार्त्तिक्यां ग्रहणायने ॥ ३.६८ ॥
विषुवे संक्रमे भानोर्व्यतीपाते च वैधृतौ ।
दर्शे दिनक्षये वृद्धौ मन्वादिषु युगादिषु ॥ ३.६९ ॥
कल्पादौ च युगादौ च मातापित्रोः क्षयेऽहनि ।
ओंकारे वा भृगौ क्षेत्रे विशेषादुपसङ्गमे ॥ ३.७० ॥
रेवायां स्नानदानानि जपहोमार्चनादिकम् ।
यः कुर्यान्मनुजश्रेष्ठः सोऽश्वमेधफलं लभेत् ॥ ३.७१ ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नाऽत्र संशय ।
कुलानां शतमागामि समतीतं तथा शतम् ॥ ३.७२ ॥
उद्धरेदात्मना सार्द्धं रेवातीर्थावगाहनात् ।
ग्रामार्द्धं ग्राममेकं वा यो दद्यान्नर्मदातटे ॥ ३.७३ ॥
स लभेद्विपुलां लक्ष्मीमत्यन्तफलमश्नुते ।
नर्मदातीरसम्भूतां मृदं मूर्ध्नि बिभर्ति यः ॥ ३.७४ ॥
बिभर्ति मूर्तिमर्कस्यतमोनाशाय केवलम् ।
यत्र यत्र नरः स्नायात्नर्मदाया युधिष्ठिर ॥ ३.७५ ॥
प्राप्नुयादश्वमेधस्य फलमेतच्छिवोदितम् ।
नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च ॥ ३.७६ ॥
अपि चान्द्रायणशत तुल्यं भवति वा न वा ।
नर्मदा कीर्तयेद्यस्तु प्रातरुत्थाय मानवः ॥ ३.७७ ॥
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।
सङ्गमेन समायुक्ता नर्मदालिङ्गसङ्गता ।
हयमेधफलं तत्र स्नात्वा शिवपुरं व्रजेत् ॥ ३.७८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाद्वितीयाऽवतारकथनं नाम तृतीयोऽध्यायः ॥
अध्याय ४
युधिष्ठिर उवाच -
हिरण्यतेजसा पूर्व राज्ञा वै नर्मदा कथं ।
मर्त्येऽवतारिता देवी तत्सर्वं वक्तुमर्हसि ॥ ४.१ ॥
मार्कण्डेय उवाच -
हिरण्यतेजा राजर्षिः सोमवंशे महीपते ।
सर्वधर्मभृतां श्रेष्ठः प्रजापतिसमोऽभवत् ॥ ४.२ ॥
एकछत्रां शशासोर्वीं सशैलवनकाननाम् ।
ख्याता चन्द्रपुरी तस्य शक्रस्येवामरावती ॥ ४.३ ॥
निराबाधाः प्रजास्तत्र भयदारिद्र्यवर्जिताः ।
चिरायुषो नरास्तत्र समालक्षं तु जीविनः ॥ ४.४ ॥
स्वयं कामदुघा धेनुर्धरणी सस्यशालिनी ।
कौशेयपट्टवस्त्राश्च वृक्षे वृक्षे समुद्भवा ॥ ४.५ ॥
एतस्मिन्नन्तरे प्राप्ते ह्यमावास्यां रविग्रहे ।
सत्कारोऽत्रास्ति देवानां पितॄणां च विशेषतः ॥ ४.६ ॥
वापीकूपसरो दिव्यं जम्बूद्वीपः प्रकीर्तितः ।
स्रवन्ती निम्नगा काचित्तस्मिन् द्वीपे न विद्यते ॥ ४.७ ॥
गवां शतसहस्राणि हेमरत्नं मणींस्तथा ।
कोशं हयानसंख्यातान्मत्तांश्च वरदन्तिनः ॥ ४.८ ॥
ग्रस्ते च राहुणा सूर्ये ब्राह्मणान् प्रददौ नृपः ।
पुरो धर्मसहस्राणि हेमरत्नमणींस्तथा ॥ ४.९ ॥
अतर्पयत्पितॄंश्चापि हव्यकव्येन भारत ।
कश्मलं जलपानं चापश्यत्पितृजुगुप्सितम् ॥ ४.१० ॥
क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलांश्च मृदम्भसा ।
नग्नान्मलिनवस्त्रांश्च शतशोऽथ सहस्रशः ॥ ४.११ ॥
हिरण्यतेजा राजर्षिः पश्यति स्म तदा पितॄन् ।
हिरण्यतेजा उवाच -
के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः ॥ ४.१२ ॥
मज्जन्ते नरके घोरे रौरवे लोमहर्षणे ।
कथयध्वं यथान्यायं कर्म्मणा केन पाविताः ॥ ४.१३ ॥
पितर ऊचुः॒
शृणु राजन्महाभाग कथ्यमानं निबोध च ।
सरिद्धीनमिदं द्वीपं धर्मकर्मविनाशितम् ॥ ४.१४ ॥
न देवास्तृप्तिमायान्ति पितरो वा कथञ्चन ।
पितॄन्मोचयितुं शक्ता दुराराध्या सुरैरपि ॥ ४.१५ ॥
आगमिष्यति द्वीपेऽस्मिन् रेवा मुक्तिर्भविष्यति ।
एतत्ते कथित राजन् यथेष्टं कर्तुमर्हसि ॥ ४.१६ ॥
हिरण्यतेजा उवाच -
पितॄणां मोक्षणं कार्यं यथा यान्ति पराङ्गतिम् ।
मया राज्येन किं कार्यं जीवितश्च निरर्थकम् ॥ ४.१७ ॥
एवमुक्त्वा ययौ राजा ह्युदयं सिद्धिपर्वतम् ।
कन्दमूलफलाहारः शिवध्यानपरायणः ॥ ४.१८ ॥
दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थित ।
राज्ञस्तु परमां भक्तिं ज्ञात्वा वै तत्र त्र्यम्बकः ॥ ४.१९ ॥
वृषारूढस्त्रिनेत्रश्च देवदेवो महेश्वर ।
प्रत्यक्ष तस्य राज्ञश्च तदात्मानमदर्शयत् ॥ ४.२० ॥
स दृष्ट्वा तादृशं रूपं देवदेवस्य भारत ।
त्रिः प्रदक्षिणमावृत्य साष्टाङ्गं प्रणिपत्य च ॥ ४.२१ ॥
स्तोत्रं चकार देवस्य शम्भोरमिततेजसः ।
नमस्तेऽस्तु सुरेशान शूलपाणे नमोऽस्तु ते ॥ ४.२२ ॥
पृथिव्यापश्च तेजश्च वायुराकाशमेव च ।
शब्दं स्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः ॥ ४.२३ ॥
बुद्धिर्मनस्त्वहङ्कारः प्रकृतिश्च गणास्त्रयः ।
सर्वाक्षः सर्वगो देवसकलो निष्कलोऽव्यय ॥ ४.२४ ॥
जिह्वाचापल्यभावेन क्लेशितोऽसि मया प्रभो ।
ब्रह्मविष्ण्वादि देवैश्च तवाद्यन्त न लभ्यते ॥ ४.२५ ॥
कथं तु मानुषा पापाः स्तोतुं शक्ता उमाधवम् ।
हिरण्यतेजसः स्तोत्रं श्रुत्वा देवो जगत्पतिः ॥ ४.२६ ॥
वरं वृणु महाभाग यत्ते मनसि रोचते ।
उवाच वचनं राजा शूलपाणिं महेश्वरम् ॥ ४.२७ ॥
यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि ।
सप्तकल्पवहां देवीं नर्मदामवतारय ॥ ४.२८ ॥
पितॄणां मज्जतां घोरे नरके दारुणे भृशम् ।
मुच्यन्ते ते यथा प्रेतास्तृप्ता यान्ति पराङ्गातिम् ॥ ४.२९ ॥
एवं वरमहं मन्ये त्वत्प्रसादादुमापते ।
ईश्वर उवाच -
अयाच्यं याचितं तात ब्रह्मविष्णुसुरासुरैः ॥ ४.३० ॥
नावतारयितुं शक्या तथान्यैरल्पजीविभिः ।
अन्यं याचस्व भद्रं ते वरं दास्येऽधुना तव ॥ ४.३१ ॥
राजोवाच -
ततो राजा महाभागः प्रोवाच शशिभूषणम् ।
त्वयि तुष्टे महादेवे लोकनाथे जगद्गुरौ ॥ ४.३२ ॥
साध्यासाध्यं न वक्तव्यं त्रिषु लोकेषु किंचन ।
जन्मान्तरसहस्रेण वर नान्य वृणोम्यहम् ॥ ४.३३ ॥
त्यक्त्वा चैव सरिच्छ्रेष्ठां नर्मदां सप्तकल्पगाम् ।
दीयतां मम देवेश भृत्यभृत्योऽस्मि शाधि माम् ॥ ४.३४ ॥
हिरण्यतेजसो ज्ञात्वा निश्चयं मानसं तदा ।
आहूता च ततो देवी नर्मदा लोकपावनी ॥ ४.३५ ॥
मकरासनमारूढा दिव्याभरणभूषिता ।
श्यामवर्णा महातेजा शिवस्याग्रे व्यवस्थिता ॥ ४.३६ ॥
उमामहेश्वरौ नत्वा पादग्रहणपूर्वकम् ।
उवाच वचनं देवीं किमर्थं देव संस्मृता ॥ ४.३७ ॥
आदेशं देव मे देहि त्वदादेशे स्थिता ह्यहम् ।
ईश्वर उवाच -
हिरण्यतेजा नृपतिस्त्यक्त्वा राज्य च नर्मदे ॥ ४.३८ ॥
चतुर्दशं तपस्तेपे घोररूपं सुदारुणम् ।
दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थितः ॥ ४.३९ ॥
कन्दमूलफलाहारः शिवध्यानपरायणः ।
जम्बूद्वीपेऽवतारं त्वं कुरुष्व धरणीतले ॥ ४.४० ॥
क्षिप्रं याहि वरारोहे संसारार्णवतारिणि ।
प्रेतरूपान् पितॄन् सर्वान्नरकस्थान् समुद्धर ॥ ४.४१ ॥
मुच्यन्ते येन चाघौघाद्धूतपापा यथेप्सितम् ।
नर्मदोवाचा॒
महेश्वरं शूलपाणिमेवमस्त्विति चाब्रवीत् ॥ ४.४२ ॥
निराधारा कथं देव जम्बूद्वीपे समाश्रये ।
आहूतास्ते ततस्तत्र पर्वताश्च कुलाकुलाः ॥ ४.४३ ॥
क्षणमात्रं तु तिष्ठध्वं येन याति सरिद्वरा ।
ऊचुश्च पर्वतास्तं च अशक्ता धारणे वयम् ॥ ४.४४ ॥
नर्मदोवाचा॒
अशक्तान् धारणे चैनान् प्रपश्यामि जगत्पते ।
मम तोयौघपातेन कल्लोलप्रवणावृताः ॥ ४.४५ ॥
शतधा भेदमायान्ति गिरयो वज्रदारिताः ।
तेषां मध्ये समुत्थाय प्राब्रवीदुदयाचलः ॥ ४.४६ ॥
शिवप्रसादसम्पन्नो ह्यहं धारयितुं क्षमः ।
ततः प्रचलिता देवी दत्त्वा पादं नगोपरि ॥ ४.४७ ॥
गगनात्प्रच्युता देवी पपात धरणीतले ।
वायुवेगा पुनर्भूत्वा वारुणीं दिशमाश्रिता ॥ ४.४८ ॥
अकालपीडिते लोके जम्बूद्वीपे चराचरे ।
हाहाकारो महानासीत्त्रिषु लोकेषु भारत ॥ ४.४९ ॥
श्रुत्वा च कल्कलाशब्दं भीषणं लोमहर्षणम् ।
पातालादुत्थितं लिङ्गं ज्वलितं दीप्ततेजसम् ॥ ४.५० ॥
हुङ्कारेणैव तद्भद्रे नर्मदामब्रवीद्वच ।
सर्वपापहरे देवि मर्यादां वह सुव्रते ॥ ४.५१ ॥
त्वद्धारणार्थमीशेन निसृष्टाः पर्वतास्त्रयः ।
विन्ध्यश्चतुर्थकस्तत्र श्रेष्ठः सर्वमहीभृताम् ॥ ४.५२ ॥
मेरुश्च हिमवांस्तत्र कैलासश्च तृतीयकः ।
तदा भित्त्वा त्रिशूलेन कीलिता वसुधातले ॥ ४.५३ ॥
द्वात्रिंशत्तु सहस्राणि प्रवाह पूर्वपश्चिमे ।
सहस्रार्द्धश्च विस्तारं दक्षिणोत्तरमानतः ॥ ४.५४ ॥
नृत्यन्ति देवतास्सर्वाः शङ्खवादित्रनिस्वनैः ।
सिद्धा विद्याधरा यक्षा गन्धर्वा किन्नरा नराः ॥ ४.५५ ॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
स्तुवन्ति परया भक्त्या नर्मदां सप्तकल्पगाम् ॥ ४.५६ ॥
हिरण्यतेजा राजर्षिर्नर्मदां चेदमब्रवीत् ।
अनुग्रहः कृतो देवि पितॄणां तारणाय मे ॥ ४.५७ ॥
उवाच कल्पगा राजंस्त्वत्तोऽन्यः को नु वै भुवि ।
प्रभाव ईदृशो यस्य राज्ञश्चामिततेजसः ॥ ४.५८ ॥
तपस्तप्त्वा महेशस्य ममार्थं त्वं यतोऽनघ ।
मातृकाः पैतृका ये ये सान्तः पुरपरिग्रहाः ॥ ४.५९ ॥
मम प्रभावात्नृपते उमामाहेश्वरं पुरम् ।
नमस्कृत्य सुरश्रेष्ठां पुत्रोऽहं ते वरानने ॥ ४.६० ॥
स्नानं कृत्वा च विधिवत्पितॄन्देवांश्च तर्पयन् ।
श्राद्धं पिण्डप्रदानं च तत्र सर्वमकल्पयत् ॥ ४.६१ ॥
नरकादुद्धृतास्सर्वे देवयानपथे स्थिताः ।
कृमिकीटपतङ्गाश्च पक्षिणश्चाण्डजाश्च ये ॥ ४.६२ ॥
भूतग्रामः समग्रश्च रेजे विद्याधरे पुरे ।
एतत्ते कथितं राजन्नादिसर्गावकल्पनम् ॥ ४.६३ ॥
कीर्तितानि मया रेवावताराणि विशाम्पते ।
आगता येन मार्गेण लोकानुग्रहकाम्यया ॥ ४.६४ ॥
एषोऽवतारः प्रथम आदिकल्पे कृते युगे ।
द्वितीयस्तु तथा स्कन्ददक्षसावर्णिकेऽन्तरे ॥ ४.६५ ॥
तृतीयः पुरूरवसा तथा वैष्णवकेऽन्तरे ।
एतत्ते कथितं राजन् यथा दृष्टं पुरातनम् ॥ ४.६६ ॥
स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ।
अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ॥ ४.६७ ॥
युधिष्ठिर उवाच -
कैलासो हिमवान्मेरुः केन कार्य्येण सुव्रत ।
नर्मदातीरमासाद्य निक्षिप्ताः पर्वतास्त्रयः ॥ ४.६८ ॥
मार्कण्डेय उवाच -
उन्मार्गगामिनीं रेवां विन्ध्यो वै धर्तुमक्षमः ।
आपगा तोयपूरेण प्लावितं जगतीतलम् ॥ ४.६९ ॥
कृत्वा व्रजन्तीं दृष्ट्वा वै शङ्करो लोकशङ्करः ।
भित्त्वा भूमि त्रिशूलेन कीलिताः पर्वतास्त्रयः ॥ ४.७० ॥
अत्रान्तरे च वैदूर्य्यगिरौ वै पर्यकल्पत ।
एतत्सर्वं समासेन शंसितं च मयानघ ॥ ४.७१ ॥
कथयिष्ये तथैवान्यद्यद्यदिच्छसि भारत ॥ ४.७२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे चतुर्थोऽध्यायः ॥
अध्याय ५
युधिष्ठिर उवाच -
राज्ञाऽवतारिता रेवा कथं वै पुरुकुत्सुना ।
तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ५.१ ॥
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यां पुरा स्कन्दस्य कीर्तिताम् ।
तत्तेऽहं कथयिष्यामि शिवेनोक्तं श्रुतं मया ॥ ५.२ ॥
क्षत्रियस्य कुलोत्पन्नः पुरुकुत्सुर्महायशाः ।
तेन वर्षसहस्रं वै पूर्वमाराधितो हरः ॥ ५.३ ॥
तपसा च भवेनोक्तं कस्त्वया प्रार्थितो वरः ।
ददामि ते वरं ह्येतद्येन त्वं सुखमेधसे ॥ ५.४ ॥
एवमुक्तस्तदा राजा प्रार्थयेऽहं तवाज्ञया ।
यदि तुष्टोऽसि मे देव कार्यं तत्कथयाम्यहम् ॥ ५.५ ॥
आस्ते नदी महाभागा नर्मदा नाम विश्रुता ।
अवतारयतां शम्भो कुमारीं दिव्यरूपिणीम् ॥ ५.६ ॥
तस्य तद्वचनं श्रुत्वा शम्भुर्विस्मयमागतः ।
सुचिरं क्लिश्यमानेन क्षत्रियेण महात्मना ॥ ५.७ ॥
अप्रार्थ्यं प्रार्थितं स्कन्द दुःसाध्यं त्रिदशैरपि ।
उक्ताशयः स राजर्षिः साध्यं किंचिन्निषेवय ॥ ५.८ ॥
मम वाक्यं तु तच्छ्रुत्वा क्षत्रियस्तु स विह्वलः ।
अपतत्स महाभागो मूर्छितो धरणीतले ॥ ५.९ ॥
आश्वासितो मया तत्र स्वस्थो भव विशाम्पते ।
मर्त्यलोके सरिच्छ्रेष्ठां नर्मदामवतारये ॥ ५.१० ॥
तस्यास्त्वागमनं श्रुत्वा त्रस्ता देवाः सवासवाः ।
कः शक्नुयादिमं भारं सोढुं वेगश्च नार्मदम् ॥ ५.११ ॥
धरणी भारभूता च नष्टा भ्रष्टाश्च पर्वताः ।
अशक्तास्तोयवर्षस्य धारणे सरितस्तथा ॥ ५.१२ ॥
अस्ति सिद्धो महापुण्यः पर्यङ्को नाम पर्वतः ।
स सहेत महाभारं वोढुं वेगश्च नार्मदम् ॥ ५.१३ ॥
सर्वे देवाऽगतास्तत्र प्रार्थितुं तं नगोत्तमम् ।
पृष्टास्तु पर्वतेन्द्रेण केन कार्य्येण चागता ॥ ५.१४ ॥
देवा ऊचुः॒
इक्ष्वाकुवंशसम्भूतः पुरुकुत्सुर्नराधिपः ।
तेनावतारिता पुण्या नदी नामा तु नर्मदा ॥ ५.१५ ॥
तेजः शब्दं च भारं च तस्याः पातं रयं तथा ।
असमर्था नगा वोढुं त्वामृते गिरिसत्तम ॥ ५.१६ ॥
पर्यङ्क उवाच -
आगच्छतु महादेवी धारयामि न संशयः ।
आगच्छन्तीं महापुण्यां धारयामि च साम्प्रतम् ॥ ५.१७ ॥
चलिता नर्मदा शीघ्रं वेगेन समुपस्थिता ।
कृत्वा तस्योत्तमाङ्गेषु पर्यङ्कस्यैव भूभृतः ॥ ५.१८ ॥
राज्ञा तु सहिता देवी त्रिदशैरपि संयुता ।
वैन्येन तु पुरा चेष्टमश्वमेधेन भूभुजा ॥ ५.१९ ॥
मखस्थाने च वैन्यस्य वेणस्तम्बो महानभूत् ।
यं दृष्ट्वा विस्मयं प्राप्तास्सर्वे देवास्सवासवाः ॥ ५.२० ॥
वेणोस्तस्यैव मूलात्तु निर्गता सा महानदी ।
कृताञ्जलिपुटा देवास्थिताः सर्वेऽत्र संस्थिताः ॥ ५.२१ ॥
जय शब्दं प्रकुर्वन्तस्त्रिदशा ब्रह्मवादिनः ।
गणगन्धर्वयक्षाश्च मरुतश्च तथाऽश्विनौ ॥ ५.२२ ॥
पिशाचा राक्षसा नागा ऋषयश्च तपोधनाः ।
सर्वे पाद्येन चार्ध्येण भीतास्ते किङ्करा इव ॥ ५.२३ ॥
पाद्योपसंग्रहं कृत्वा नर्मदां शरणं गताः ।
अद्यः नः सफलं जन्म तपोऽद्य सफलश्च नः ॥ ५.२४ ॥
कृतार्था देवताः सर्वा देवि त्वद्दर्शनादिह ।
तमेव पुरुषं मन्ये येनैषा ह्यवतारिता ॥ ५.२५ ॥
वदन्ति देवतास्सर्वा मर्त्यलोकः परं गतः ।
ऋषिभिर्दैवतैः प्रोक्ता स्पृश हस्तेन देवताः ॥ ५.२६ ॥
येन पूतत्वमायान्ति नर्मदे नष्टकिल्विषाः ।
नर्मदा तु वदत्येवं न स्पृशामि सुरान् गणान् ॥ ५.२७ ॥
कुमारी ह्यहमद्याऽपि मम भर्ता न विद्यते ।
अहो कष्टं तु देवाश्च चिन्तया विह्वलीकृताः ॥ ५.२८ ॥
त्वतुल्यो रूपसम्पन्नः कुतः प्राप्यो वरोत्तमः ।
येन त्वं दर्शिता लोके स ते भर्ता भविष्यति ॥ ५.२९ ॥
ब्रह्मणस्तु पुरा शापात्समुद्रः पुरुकुत्सुकः ।
गतो मर्त्ये महाबाहुरिक्ष्वाकुकुलनन्दनः ॥ ५.३० ॥
पुरुकुत्सुर्वरस्तेऽस्तु क्षत्रियो देवसन्निभः ।
उद्वाहिता तदा तेन क्षत्रियेण तु नर्मदा ॥ ५.३१ ॥
उवाच वचनं देवान्नर्मदा सप्तकल्पगा ।
देवत्वमीदृश यस्य प्रजा धर्मे व्यवस्थिताः ॥ ५.३२ ॥
किमन्यत्तस्य वाच्यं स्यात्पुरुकुत्सोर्महात्मनः ।
स्वयम्भुवो यथा पुत्रो मानसः परिकीर्तितः ॥ ५.३३ ॥
पुरुकुत्सुस्तथा चाऽयं सर्वधर्मपरायणः ।
उवाच वचनं राजा पुरुकुत्सुश्च नर्मदाम् ॥ ५.३४ ॥
नर्मदे देवकन्या त्वं प्रसादः क्रियतां मयि ।
यान्तु मे पितरः स्वर्गं मम चाऽस्तु महद्यशः ॥ ५.३५ ॥
नर्मदोवाच -
एव भवतु राजेन्द्र मत्तस्त्वं यद्यदिच्छसि ।
तत्सर्वं भवतश्चाद्य मत्प्रसादाद्भविष्यति ॥ ५.३६ ॥
एवमुक्त्वा ययौ देवी वारुणीं च दिशां तदा ।
निष्क्रान्ता पर्वतात्तस्मात्पर्यङ्कात्सरितां वरा ॥ ५.३७ ॥
याति वेगात्तथा देवी धनुर्मुक्तः शरो यथा ।
विदार्य मेदिनीं सर्वा पर्वतां छिखराणि च ॥ ५.३८ ॥
चूर्णयित्वा च तान् सर्वान् वज्राशनिहतानिव ।
यत्र यत्र गता विन्ध्ये तत्र तत्रावगाह्यते ॥ ५.३९ ॥
तत्र गङ्गासहस्रस्य फल स्यात्तीर्थवर्जिते ।
तदा स्तुता महादेवी नर्मदा लोकपावनी ॥ ५.४० ॥
ऋषिभिर्वैदिकैः सर्वैः सुखसन्तानकारिका ।
वेदा धर्मस्य मूलानि स्मृतिपुष्पफलानि च ॥ ५.४१ ॥
भक्षयन्ति द्विजाः पुण्या अग्निहोत्रपरायणाः ।
सेवन्ते नर्मदा तेऽपि स्वर्गसोपानपद्धतिम् ॥ ५.४२ ॥
यत्र यत्र गता स्कन्द तत्र तत्रैव दुर्लभा ।
दर्शने नर्मदायास्तु अग्निष्टोमफल लभेत् ॥ ५.४३ ॥
ये तु संस्नान्ति सेवन्ते नर्मदामप्यकामतः ।
फलं बहु सुवर्णस्य तेऽपि प्राप्स्यन्ति मानवाः ॥ ५.४४ ॥
यत्र यत्र गता पुण्या शिवस्यायतने शुभे ।
गङ्गास्नानस्य लक्षेण तत्र स्नाने सम भवेत् ॥ ५.४५ ॥
अग्निहोत्रेण यत्पुण्य पितृश्राद्धेन यत्फलम् ।
सर्वं सम्पद्यते तस्य नर्मदाया जलेन तु ॥ ५.४६ ॥
यत्किंचिद्वैदिकं कर्म्म ब्राह्मणाः कुर्वते सदा ।
नर्मदायास्तटे शूद्धिर्नात्र कार्य्या विचारणा ॥ ५.४७ ॥
नर्मदासङ्गमो यत्र शिवक्षेत्रं विनिर्दिशेत् ।
गङ्गाया लक्षमात्रेण तत्स्थानन् तु विशिष्यते ॥ ५.४८ ॥
कीर्तनं नर्मदायास्तु दानं तीर्थस्य सङ्गमे ।
न तेन सदृशं राजन् सत्यमेतद्ब्रवीम्यहम् ॥ ५.४९ ॥
नर्मदां प्रातरुत्थाय ये स्मरन्ति विचक्षणाः ।
पूर्वजन्मकृतं पापमैहिकश्च विनश्यति ॥ ५.५० ॥
नर्मदां मानवः कश्चित्तत्र यत्रावगाहते ।
शतजन्मार्जितं पापं तत्क्षणात्नश्यति ध्रुवम् ॥ ५.५१ ॥
नर्मदायास्तटे चैव प्राणांस्त्यजति मानवः ।
कल्पकोटिसहस्राणि स्वर्गलोके महीयते ॥ ५.५२ ॥
येऽप्यधर्मपराधीना नर्मदायां कथञ्चन ।
तेऽपि रुद्रत्वमायान्ति सत्यमेतद्ब्रवीम्यहम् ॥ ५.५३ ॥
प्रायश्चित्तानि दीयन्ते यत्र रेवा न विद्यते ।
रेवातोये तु संप्राप्ते प्रायश्चित्तं न विद्यते ॥ ५.५४ ॥
नर्मदां च महापुण्यां सप्तकल्पाधिवासिनीम् ।
सततं यः स्मरेद्भक्त्या स शिवः परिकीर्तितः ॥ ५.५५ ॥
तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम् ।
स्वर्गदं मोक्षदं विद्धिलोकानां पापनाशनम् ॥ ५.५६ ॥
विन्ध्यस्यैव तथा चाष्टौ मानसाः परिकीर्तिताः ।
पर्यङ्कः प्रथमो ज्ञेयः श्रेष्ठः सर्वमहीभृताम् ॥ ५.५७ ॥
असिताङ्गो वराङ्गश्च तथाऽन्ये चापि पर्वताः ।
पावको जातवेदाश्च कदम्बः सुरनायकः ॥ ५.५८ ॥
अर्चितास्तैर्महाभागैर्धर्मकर्मपरायणैः ।
उद्गमात्निर्गमं यावद्वारुणीं दिशमास्थिताः ॥ ५.५९ ॥
सार्द्धमेकशतं तस्याः प्रवाहाः परिकीर्तिताः ।
क्रोशार्द्धस्य त्रिभागश्च विस्तारः परिकीर्तितः ॥ ५.६० ॥
शिवस्य वर्तते चात्र ब्रह्मविष्णुं विडौजसाम् ।
कोटिभिस्त्रिदशानान्तुकाऽन्या धर्तुं प्रशक्यते ॥ ५.६१ ॥
आत्मानमात्मना सा तु बभार परमेश्वरी ।
त्रिदशानां हितार्थाय मानवानां च भारत ॥ ५.६२ ॥
लक्षयोजनपर्य्यन्तं जम्बूद्वीपं प्रचक्षते ।
द्विगुणः परिवेषस्तु लवणोदस्तु भारत ॥ ५.६३ ॥
सहस्रयोजनं विद्धिकन्याद्वीपञ्च भारत ।
तस्याः पञ्चशती गम्या त्वगम्या च तथाऽपरा ॥ ५.६४ ॥
शुभाशुभफलं चात्र पुण्यपापविभागयोः ।
प्रथमं मानुषो भूत्वा देवत्वमुपपद्यते ॥ ५.६५ ॥
क्षीणे पुण्ये पुनर्याति मानुषत्वं पृथक्पृथक् ।
कर्म्मभूमिमिमां विद्धि विदितं तव भारत ॥ ५.६६ ॥
धर्मेण कर्म्मणा स्वर्गः स्यादेव सुकृते कृते ।
नद्याः प्रवाहे भूभागे कल्पगाया व्यवस्थितिः ॥ ५.६७ ॥
लोकानां तारणार्थाय अवतीर्णा सरिद्वरा ।
अत्र स्वर्गश्च मोक्षश्च नर्मदातीरमाश्रितौ ॥ ५.६८ ॥
एतत्ते कथितं राजन् यथा वृष्टं सुरोत्तमैः ॥ ५.६९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदायाश्चतुर्थावतारे पञ्चमोऽध्यायः ॥
अध्याय ६
युधिष्ठिर उवाच -
मुने मेकलकन्याया अवतारः श्रुतो मया ।
इदानीं श्रोतुमिच्छामि तीर्थानि च यथाक्रमम् ॥ ६.१ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध मे ।
वत्सगुल्मात्समारभ्य यावद्वै भृगुकच्छकः ॥ ६.२ ॥
अत्रान्तरेऽपि तीर्थानां संख्या केन तु शक्यते ।
तथापि ते प्रवक्ष्यामि यथा वृष्टं विशाम्पते ॥ ६.३ ॥
नर्मदा सौम्यभागे तु अनन्तपुरमव्ययम् ।
अनन्तसिद्धिलिङ्गं च सर्वपापहरं परम् ॥ ६.४ ॥
तीर्थं वैश्रवणं नाम कौबेरं धनदं तथा ।
मणिभद्रं तथा यज्ञं तत्तीर्थस्य प्रभावतः ॥ ६.५ ॥
मोक्षदं कामदं पुण्यं सर्वलोकव्यवस्थितम् ।
ऋषीणामाश्रमं पुण्यं सर्वदेवमयं शुभम् ॥ ६.६ ॥
सावर्णिः कौशिकश्चैव मुनिश्चैवाघमर्षणः ।
शाकल्यश्च कुशाकर्णिः शरभङ्गोऽग्निर्भगः ॥ ६.७ ॥
एते चान्ये च बहवो मुनयः शंसितव्रताः ।
अस्य तीर्थस्य माहात्म्यात्तपस्तप्त्वा दिवङ्गताः ॥ ६.८ ॥
वाल्मीकिरृषिवर्यो वै नैषादीं योनिमाश्रितः ।
प्रभावात्तस्य तीर्थस्य ब्रह्मतेजो वपुर्धरः ॥ ६.९ ॥
इक्ष्वाकुः कुवलयाश्वो दिलीपो नहुषस्तथा ।
वेणुर्ययाती राजा च अजपालस्म हैहयः ॥ ६.१० ॥
एते चान्ये च राजानो ह्यनन्तपुरवासिनः ।
अत्रान्तरे महेशानं मेकलातीरमाश्रितम् ॥ ६.११ ॥
तमभ्यर्च्य विधानेन सर्वे ते त्रिदिवङ्गताः ।
अखिलैरन्यतीर्थैश्च चिरकालफलप्रदैः ॥ ६.१२ ॥
अत्रास्ते स्वर्गदः श्रीमान् स्वयं देवो महेश्वरः ।
तीर्थं सप्तऋषिर्नाम सप्तसारस्वतं नृप ॥ ६.१३ ॥
अमर्त्यसम्भवं लिङ्गं तथैवारण्यकेश्वरम् ।
अघौघनाशनं तीर्थं तथान्यत्कल्मषापहम् ॥ ६.१४ ॥
पञ्चब्रह्ममयं तीर्थं सहस्रशिरसं हरम् ।
वाराहं वामनं तीर्थं यमतीर्थं महोत्कटम् ॥ ६.१५ ॥
सौरभङ्गं सहस्रं तु अश्वमेधं महामखम् ।
हिरण्यगर्भं सावित्र्यां चातुर्वेदं च पावनम् ॥ ६.१६ ॥
एतत्सर्व विजानीहि लोकानां पावनं परम् ।
तथाऽनन्तपुरं यावत्पर्यङ्कात्पश्चिमे शुभम् ॥ ६.१७ ॥
अत्रान्तरे मृता ये च दानधर्मविवर्जिताः ।
तेऽपि स्वर्गे महीयन्ते यावदिन्द्राश्चतुर्दश ॥ ६.१८ ॥
ततो द्वीपेश्वरं नाम व्यासतीर्थमनुत्तमम् ।
तत्र स्नात्वा तु लभते हयमेधफलं नरः ॥ ६.१९ ॥
कामिकं तत्परं तीर्थं न भूतं न भविष्यति ।
प्रदक्षिणां च यः कुर्याद्व्यासतीर्थस्य भारत ॥ ६.२० ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।
नरो वा यदि वा नारी शिवलोके महीयते ॥ ६.२१ ॥
द्वीपेश्वरे ततस्स्नात्वा वृषभं यः प्रयच्छति ।
काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ६.२२ ॥
कार्तिकस्य चतुर्दश्यां कृष्णपक्षे जितेन्द्रियः ।
स्नापयेद्यः शिवं तत्र ह्युपवासपरायणः ॥ ६.२३ ॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
व्यासतीर्थं तु वै गत्वा सर्वे ब्रह्मादयः सुराः ॥ ६.२४ ॥
स्तुवन्ति भावितात्मानं ऋषयश्च तपोधनाः ।
ये चान्ये सिद्धगन्धर्वकिन्नरोरगराक्षसाः ॥ ६.२५ ॥
नर्मदातटमाश्रित्य मोदन्ते गतकल्मषाः ।
स्तुवन्ति विविधैः स्तोत्रैर्माङ्गल्यस्तुति संस्कृतैः ॥ ६.२६ ॥
यस्यास्ति शक्तिरसशक्तिरिह प्रवीरः प्रोर्ध्वी करोतु यदि वाऽवनतिं करोतु ।
यः पूजितः सुरवरः शशिशेखरेण नाऽराधितः सपदि भूतपति सुरैर्वा ॥ ६.२७ ॥
किं वा न वृष्टं हि पितामहेन न वा सुरैर्वा मधुसूदनेन ।
क्षीरोदमन्थोद्भवकालकूटं कण्ठे वृतं केन हरं विहाय ॥ ६.२८ ॥
एकेन दग्धं त्रिपुरं शरेण कामो ललाटाक्षिनिरीक्षणेन ।
भिन्नोऽन्धकः शूलवरेण येन कस्तेन सार्द्धं कुरुते विरोधम् ॥ ६.२९ ॥
जलौघकल्लोलतरङ्गभङ्गा गङ्गा धृता येन जटाग्रभागे
पादाम्बुजाङ्गुष्ठनिपीडनेन पपात लङ्काधिपतिर्विसंज्ञः ॥ ६.३० ॥
सुरासुराणामिह यत्समक्षं विध्वंसितो दक्षमखः क्षणेन
प्रणम्य दक्षः क्षयकारकस्य लेभे वरं तारकमारकस्य ॥ ६.३१ ॥
सर्वस्य पूज्यं हि वरोत्तमाङ्गं सम्पूज्यते लिङ्गवरं हरस्य
अनेन पर्याप्तमतीव मूढः प्राप्तुं पदं यच्छति यत्करोति ॥ ६.३२ ॥
ब्रह्मात्र वृद्धो हरिरत्र लिङ्गं सुराऽसुराश्चैव समर्चयन्ति
तथापि नूनं सुविचारयान्ति को वाऽधिको वाऽस्ति समो हरेण ॥ ६.३३ ॥
तेनैव चक्राङ्कसरोरुहाङ्कौ लिङ्गाङ्कितं यस्य जगद्भगाङ्कम्
हस्ते प्रबद्धे नवकङ्कणे वै पश्यन्ति मूढाः खलु दर्पणेन ॥ ६.३४ ॥
पुण्यं पवित्रं स्तवनं व्यासेनोक्तं महात्मना ।
कृतं देवाधिनाथस्य सर्वकल्मषनाशनम् ॥ ६.३५ ॥
प्रतिपूज्य यथा न्यायमर्घपाद्यैरनुक्रमात् ।
उवाच मधुरं वाक्यं प्रसादः क्रियतां मयि ॥ ६.३६ ॥
देयं तस्य फलं देव यः पुमान् छ्रद्धयाऽर्चति ।
इति स्तुत्वा महेशानं ऋषयः शंसितव्रताः ॥ ६.३७ ॥
नर्मदादक्षिणे कूले प्रयातास्ते यथातथम् ।
अन्ये च ऋषयो देवा द्वैपायनमथाब्रुवन् ॥ ६.३८ ॥
आश्रमस्ते महाभाग वायसैराकुलीकृतः ।
यथा न वायसाः केऽपि प्रविशन्ति तपोवनम् ॥ ६.३९ ॥
म्रियन्ते ते सदा सर्वे मूर्धा तेषां विशीर्यते ।
व्यासेन शप्तास्ते सर्वे वायसा महतो भयात् ॥ ६.४० ॥
तस्मिंस्तीर्थे महाराज प्रविशन्ति न कर्हिचित् ।
ऋषयो वचनं श्रुत्वा व्यासस्य तु महात्मनः ॥ ६.४१ ॥
नर्मदा दक्षिणे कूले सर्वमेव कृतं क्षणात् ।
तिष्ठन्ति मुनयः सर्वे देवस्याराधने रताः ॥ ६.४२ ॥
आराध्य विधिना देवमस्तुवन् परमेश्वरम् ।
यस्यास्ति शक्तिरित्यादि व्यासस्तुतिपरायणाः ॥ ६.४३ ॥
स्तोत्रं तदेतत्त्रिदशेश्वरस्य व्यासेन भक्त्या कृतमीश्वरस्य ।
प्रातः पठेद्यः स्मरति प्रयत्नात्काले स जातोऽनुचरो हरस्य ॥ ६.४४ ॥
व्यासाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
व्यासस्तस्य भवेत्प्रीतो नर्मदा च प्रसीदति ॥ ६.४५ ॥
एवं स्तुतो महादेवो व्यासेन तु महात्मना ।
शिवो व्यासस्य सन्तुष्ट इदं वचनमब्रवीत् ॥ ६.४६ ॥
किं करोमि स्थितो विप्र वरं ब्रूहि यथेप्सितम् ।
वरं ददामि ते प्रीतो येन त्वं सुखमेधसे ॥ ६.४७ ॥
व्यास उवाच -
नर्मदादक्षिणे कूले तिष्ठ त्वं चोत्तरे शिव ।
आश्रमास्ते भविष्यन्ति सर्वे पुण्यतमाः स्मृताः ॥ ६.४८ ॥
एवमुक्त्वा ततो व्यासं तत्रैवान्तर धीयत ।
व्यासोऽपि चात्र वत्स्यामि दक्षिणं नर्मदे व्रज ॥ ६.४९ ॥
ततश्च दण्डकाष्ठेन चालयामास नर्मदाम् ।
नर्मदा चाब्रवीद्वाक्यं पूर्वमार्गेण सा गता ॥ ६.५० ॥
ततो व्यासस्तु संक्रुद्धो युगान्ताग्निरिवाभवत् ।
व्यासस्तु कुपितो राजन् सन्तीर्णो द्विजसत्तमः ॥ ६.५१ ॥
हुंकारिता च सा देवी नागता तत्र नर्मदा ।
नाहं कोपवत विप्र प्रलयं यामि कर्हिचित् ॥ ६.५२ ॥
सप्तकल्पक्षये वृत्ते न मृताऽस्मीति नर्मदा ।
ततो द्विजस्तु संजातो दक्षिणेन ततो गता ॥ ६.५३ ॥
न वारिता च साऽनेन व्यासभीता महानदी ।
उत्तरे मुनयः सर्वे कूले तिष्ठन्त्यनेकशः ॥ ६.५४ ॥
ततस्ते हृष्टमनसो मुनयः शंसितव्रताः ।
व्यासेन चार्जितं श्राद्धं तथाऽन्यैर्मुनिपुङ्गवैः ॥ ६.५५ ॥
पितरो द्वादशाब्दानि तार्पितास्ते नराधिप ॥ ६.५६ ॥
इति रेवाखण्डे नर्मदामाहात्ये षष्ठोऽध्यायः ॥
अध्याय ७
मार्कण्डेय उवाच -
अन्यत्तीर्थं महापुण्यं सर्वपापप्रणाशनम् ।
अश्वमेधसमुद्भूता नदी यत्र वराङ्गना ॥ ७.१ ॥
स्नात्वा च सङ्गमे यत्र हयमेधफलं लभेत् ।
व्याधिभिर्मुच्यते यत्र नारी वा यदि वानरः ॥ ७.२ ॥
श्राद्धं तत्र प्रकुर्वन्तः पितॄणां प्रीतिवर्धनम् ।
त्रिपुर्यां पूर्वभागे तु दिशि याम्यां शिवः स्थितः ॥ ७.३ ॥
अनुग्रहार्थं लोकानां शैवक्षेत्रं विदुर्बुधाः ।
पञ्चाशीतिः कुरुक्षेत्रे पश्चाशीतिरिवात्र तु ॥ ७.४ ॥
राहुसूर्यसमायोगे समानं कीर्तितं सुरैः ।
श्राद्धे त्रीणि च लक्षाणि पुराणे कीर्तितानि वै ॥ ७.५ ॥
तीर्थानां तानि अत्रैव तिष्ठन्ति नृपसत्तम ।
यत्र तिष्ठति देवेशो माधवो मधुसूदनः ॥ ७.६ ॥
उत्पलावर्तनामा च सहस्रमस्तको हरिः ।
हरश्च द्विविधावे तौ तृतीया चैव नर्मदा ॥ ७.७ ॥
तस्याः किं वर्ण्यते राजन् देवैरपि सवासवैः ।
तत्र स्नात्वा महाराज सम्भवो न पुनर्भवेत् ॥ ७.८ ॥
पापयोनिं च न विशेद्यमलोकं न पश्यति ।
अर्चनाद्देवदेवस्य गाणपत्यमवाप्यते ॥ ७.९ ॥
उत्पन्नो हि हरिर्यत्र शङ्खचक्रगदाधरः ।
उपास्यते सुरैः सर्वैर्ब्रह्मशक्रपुरोगमैः ॥ ७.१० ॥
क्रोशमात्रं हरिक्षेत्रं कथं शोचन्ति मानवाः ।
अत्रान्तरे मृता ये च कृमिकीटपतङ्गमाः ॥ ७.११ ॥
तेऽपि यान्ति हरेर्लोकं किं पुनर्वैष्णवा नृप ।
अवशः स्ववशोऽपि स्यात्प्राणत्यागं करोति यः ॥ ७.१२ ॥
दशवर्षसहस्राणि राजा वैद्याधरे पुरे ।
तिलोदकप्रदानेन पिण्डदानेन भारत ॥ ७.१३ ॥
पितरस्तस्य तृप्यन्ति तृप्ता यान्ति परा गतिम् ।
एकादश्यां निराहारो गन्धपुष्पैः समर्चयेत् ॥ ७.१४ ॥
रात्रौ जागरणं कृत्वा दीपमालां प्रबोधयेत् ।
द्वादश्यां पञ्चगव्यं तु हविष्यान्नेन पारणम् ॥ ७.१५ ॥
भक्त्या तु भोजयेद्विप्रान् सहस्रं च सदक्षिणाम् ।
ओं नमो भगवते वासुदेवाय ॥
इमं मन्त्रं जपन् यस्तु शुचिर्भूत्वा समाहितः ॥ ७.१६ ॥
न तस्य पुनराधानं जन्म चैव युधिष्ठिर ।
अनेकभाविकं घोरं तूलराशिमिवानलः ॥ ७.१७ ॥
तत्क्षणाद्दहते कृत्स्नमेधांसीवहुताशनः ।
कल्पकल्पानुगौ देवौ नारायणमहेश्वरौ ॥ ७.१८ ॥
दक्षिणां दिशमास्थाय रेवातीरे व्यवस्थितौ ।
अर्चितौ च तौ देवेशौ सुरासुरगणैस्तथा ॥ ७.१९ ॥
सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः ।
स्थाणुः पुण्यजलावर्ते ह्यवतार पुराकृतः ॥ ७.२० ॥
अनुग्रहाय लोकानां देवानां हितकाम्यया ।
ननाद सुमहानादं घोररूपं भयानकम् ॥ ७.२१ ॥
पिनाकिना च शूलेन भित्त्वा चैव रसातलम् ।
समानीता च सावित्री स्वर्गसोपानपद्धतिः ॥ ७.२२ ॥
मानवाः क्षीणपापाश्च तथा यान्ति परां गतिम् ।
अज्ञानतम सा ध्वस्ता नावरोहान्ति ये जनाः ॥ ७.२३ ॥
आत्मानं नावमन्यन्ते पापोपहतचेतसः ।
कल्पगां ये न सेवन्ते तेषां जन्म निरर्थकम् ॥ ७.२४ ॥
अष्टाविंशतिरत्रैव लिङ्गानां तु स्वयम्भुवाम् ।
पूजने संस्थिता राजन् छिवस्य च महात्मनः ॥ ७.२५ ॥
स्थानेश्वरं महादेवं शूलपाणिं तथा परम् ।
सप्तेश्वरं च कल्पेशं हिरण्यं जातवेदसम् ॥ ७.२६ ॥
प्राजापत्यं सिद्धनाथं शशाङ्कनयनं तथा ।
अनुकेशं तथा स्कन्दमाश्विनं तैजसं तथा ॥ ७.२७ ॥
ब्रह्मेश्वरं चाग्निगर्भं श्रीकण्ठं च उमापतिम् ।
नीलकण्ठं च खट्वाङ्गं महाकालं घटेश्वरम् ॥ ७.२८ ॥
त्रिलोचनं त्र्यम्बकं च देवदेवं महेश्वरम् ।
एतान्यन्यानि चैवेह सिद्धलिङ्गानि भारत ॥ ७.२९ ॥
अनङ्गं कामदेवं च रतिप्रीतिसमन्वितम् ।
सिद्धमन्वन्तरं चैव यत्रानङ्गत्रयोदशी ॥ ७.३० ॥
रम्भातृतीय तत्रैव तथा कृष्णाष्टमी नृप ।
विद्याधरी च तत्रैव उर्वशी च तिलोत्तमा ॥ ७.३१ ॥
अहल्या मेनका चैव तथाऽन्याश्च वराङ्गनाः ।
दाक्षायणी चानुमती चम्पका संभरायणी ॥ ७.३२ ॥
एताश्चाऽन्याश्च तत्रैव बह्व्यः सिद्धा विशाम्पते ।
केशवस्य पुरी रम्या पुण्या पापहरा नृप ॥ ७.३३ ॥
सुरासुराणां सर्वेषां दानवानां च भारत ।
स्वर्गमार्गप्रदा देवी तथा हरिहरात्मिका ॥ ७.३४ ॥
एतत्ते कीर्तितं राजन् यथा वृष्टं पुरातनम् ।
स्नानावगाहनात्पानाच्छ्रवणात्कीर्तनादपि ॥ ७.३५ ॥
अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ।
ततस्तस्मिन्महाभाग कपिलातीर्थमुत्तमम् ॥ ७.३६ ॥
रेवाया उत्तरे कूले सर्वपापहरं परम् ।
तत्र स्नात्वा नरो राजन्नारी वापि जितेन्द्रिया ॥ ७.३७ ॥
तर्पयित्वा पितॄन् देवान्मुच्यते च ऋणत्रयात् ।
ब्राह्मणान् भोजयित्वा तु लभते परमाङ्गतिम् ॥ ७.३८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे व्यासतीर्थमहिमवर्णनो नाम सप्तमोऽध्यायः ॥
अध्याय ८
मार्कण्डेय उवाच -
अथान्यत्परमं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
त्रिपुरी नाम विख्यातं रेवाया उत्तरेतटे ॥ ८.१ ॥
सपादलक्षतीर्थानि यत्र तिष्ठन्ति भारत ।
शतमष्टोत्तरं तत्र लिङ्गानां तु स्वयम्भुवाम् ॥ ८.२ ॥
त्रिपुरः पातितो राजन् देवदेवेन शूलिना ।
स्तोतव्यं किं परं तत्र सुरासुरनिषेवितम् ॥ ८.३ ॥
लोकानुग्रहकं देवं स्वयं विद्धि महेश्वरम् ।
गोकर्णं नाम विख्यातं भोगदं मोक्षदायकम् ॥ ८.४ ॥
कीर्तनाद्देवदेवस्य स्नपनेनाऽर्चनेन च ।
तोयेन नर्मदायास्तु ब्रह्महत्या प्रणश्यति ॥ ८.५ ॥
गन्धधूपप्रदीपैश्च तथा विभवविस्तरैः ।
अपि वर्षसहस्रेण पुण्यसंख्या न ज्ञायते ॥ ८.६ ॥
यदा तदा शिवे दानं तस्य संख्या न विद्यते ।
धन्यास्ते मानवा राजन् स्नात्वा पश्यन्ति ये हरम् ॥ ८.७ ॥
कैलासे स वसेन्मर्त्यस्त्रिपुर्यां यो वसेन्नृप ।
अकामात्कामतो वाऽपि प्राणत्यागं करोति यः ॥ ८.८ ॥
हंसयुक्तविमानेन किङ्किणीरवशालिना ।
छत्रेण ध्रियमाणेन सौवर्णेन विराजता ॥ ८.९ ॥
झल्लरीतूर्यवाद्येन नृत्यगीतोत्सवेनच ।
सुरासुरैर्वीक्ष्यमाणः सर्वालङ्कारभूषितः ॥ ८.१० ॥
भुङ्क्ते तु विपुलान् भोगान् यावदिच्छन्महेश्वरे ।
एवमेवाऽपि चान्यानि यानि काम्यानि मानुषैः ॥ ८.११ ॥
त्रिपुरारिस्तु देवेशो यत्र तिष्ठति भारत ।
त्रयस्त्रिंशत्प्रसिद्धानां देवानां कोटिभिः शिवः ॥ ८.१२ ॥
त्रिपुर्यां निवसेद्यस्माच्छिवक्षेत्रमतः स्मृतम् ।
क्रोशद्वयप्रमाणं तु शिवक्षेत्र प्रकीर्तितम् ॥ ८.१३ ॥
अत्रान्तरे मृता ये च ते प्रयान्ति शुभां गतिम् ।
ब्रह्मणा तु पुरा चेष्टं ब्रह्मयज्ञं मखोत्तमम् ॥ ८.१४ ॥
शक्रेण देवराजेन कृतं क्रतुशतं पुरा ।
गोकर्णं च महादेवं सर्वसिद्धिप्रदायकम् ॥ ८.१५ ॥
वटेश्वरं तथा चान्यं सिद्धलिङ्गं सुरेश्वरम् ।
ईश्वरं चैव कामेशमश्विभ्यामर्चितं हरम् ॥ ८.१६ ॥
अनङ्गं वामदेवं च कपोतेश्वरमेव च ।
सर्वेश्वरं सोमनाथं ऋणमोचनमेव च ॥ ८.१७ ॥
कपालमोचनं देवं तथान्यमघनाशनम् ।
इन्द्रेश्वरं च ब्रह्मेशं शिवं नारायणं भवम् ॥ ८.१८ ॥
विश्वदेवं सिद्धनाथममरं चान्द्रमेव च ।
सिद्धं विद्याधरं यज्ञमतुलं वासवं तथा ॥ ८.१९ ॥
ईशानमग्निगर्भं च कुबेरमतुलं तथा ।
गायत्रं चैव सावित्रं रोहिणीतीर्थमेव च ॥ ८.२० ॥
दाक्षायणी चैव सती दक्षयज्ञहरा स्मृता ।
रत्नावली सूर्यपत्नी सूर्यभामा च वारुणी ॥ ८.२१ ॥
विष्णुर्मरीचिर्मैत्रेयऋष्यशृङ्गो विभाण्डजः ।
तपस्वी शौनको गर्गो दुर्वासा उग्रतापसः ॥ ८.२२ ॥
पञ्चायुतानि सिद्धानि त्रिपुर्यां नृपसत्तम ।
अपि वर्षसहस्राणि न स्तोतुं शक्यते पुरी ॥ ८.२३ ॥
त्रिपुरीक्षेत्रमाहात्म्यं शक्रेणापि नराधिप ।
अनेकानि सहस्राणि क्षत्रियाणां युधिष्ठिर ॥ ८.२४ ॥
दीक्षायज्ञविधानेन नाकपृष्ठमुपासते ।
इतिहासं प्रवक्ष्यामि आदिकल्पे कृते युगे ॥ ८.२५ ॥
स्वायम्भुवेऽन्तरे प्राप्ते कापिले कालसंज्ञके ।
मनुर्नाम पुरा राजा चक्रवर्ती महायशाः ॥ ८.२६ ॥
अयोध्यां स पुरीं लेभे सूर्यवंशो महीपतिः ।
समाराध्य महादेवं शङ्करं मधुसूदनम् ॥ ८.२७ ॥
अवध्या दानवैर्या तु निर्मिता विश्वकर्मणा ।
वापीकूपसहस्रेण परिखाऽट्टालकेन वा ॥ ८.२८ ॥
धनदस्य पुरी यद्वदलका नाम विश्रुता ।
अयोध्या शोभना राजन् छक्रस्येवामरावती ॥ ८.२९ ॥
धनधान्यसमाकीर्णा सर्वालङ्कारभूषिता ।
ब्रह्मघोषनिनादेन भूमिं दिवमिवाकरोत् ॥ ८.३० ॥
साग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः ।
चतुर्वर्णाश्च धर्मश्च प्राकृता इतरे जनाः ॥ ८.३१ ॥
सपादलक्षवर्षाणि प्रजा सर्वा च जीवति ।
न कार्मण्यजरारोगा दुर्भिक्षं न तु मृत्युभीः ॥ ८.३२ ॥
स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ।
अन्यायेन च भूतेषु दत्ता हर्ता न विद्यते ॥ ८.३३ ॥
नवखण्डां सप्तद्वीपां संशैलवनकाननाम् ।
शशास मेदिनीं सर्वां यथा शक्रस्त्रिविष्टपम् ॥ ८.३४ ॥
एकपत्नीगृहं यद्वद्गृहस्थस्य विराजते ।
यज्ञदानसहस्रेण तर्पितास्सर्वदेवताः ॥ ८.३५ ॥
यं यं प्रार्थयते कामं तं तमाप न संशयः ।
एको दोषः परं तत्र नदी नैवाऽत्र विद्यते ॥ ८.३६ ॥
राहुसोमसमायोगे देवखातं समाययौ ।
स्नानं कर्तुं समाधाय ब्राह्मणैर्वैदपारगैः ॥ ८.३७ ॥
विमानानां सहस्रेण गत्वा विशं नृपोत्तमः ।
शङ्खतूर्यनिनादेन वेणुवीणास्वनेन च ॥ ८.३८ ॥
सान्तः पुरपरीवारो वीक्ष्यमाणोऽङ्गनागणैः ।
निर्वर्त्य पर्वकाले तु दानहोमविधिक्रियाम् ॥ ८.३९ ॥
विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् ।
पौर्णमास्यां गते यामे स्वस्थे चैव नृपोत्तमे ॥ ८.४० ॥
श्रूयते किङ्किणीशब्द आकाशे व्योमचारिणाम् ।
गीतवादित्रयुक्तानां सहस्रं पङ्क्तिः वाजिनाम् ॥ ८.४१ ॥
मनोहराणां यानानां दृष्ट्वा चैव दिवौकसाम् ।
जगाम विस्मयं राजा भवनोपरि शोभितः ॥ ८.४२ ॥
कस्यैतानि विमानानि ममैव भवनोपरि ।
शयने शयने चैव कामभोगविवार्जितः ॥ ८.४३ ॥
शोकोपहतचित्तस्य चिन्तया व्याकुलीकृतः ।
किमिदं साहसं लोके विमानानां नभोपरि ॥ ८.४४ ॥
एवं चिन्तयतस्तस्य सा निष्क्रान्ता निशा नृप ।
उदिते च तथा सूर्ये धर्मकर्म समाप्य वै ॥ ८.४५ ॥
वशिष्ठं प्राह राजर्षिरभिवाद्य नमस्कृतम् ।
उपविष्टं यथा न्यायमासने देवनिर्मिते ॥ ८.४६ ॥
इतिहासपुराणादि श्रावयन् विधिपूर्वकम् ।
मनुना च पुरा पृष्टो वशिष्ठो मुनिपुङ्गवः ॥ ८.४७ ॥
कस्यैतानि विमानानि ममोपरि महामुने ।
केन कर्म्मविपाकेन दानेन नियमेन च ॥ ८.४८ ॥
संशयो मे महाभाग त्रिकालज्ञ निवेदय ।
कस्मिन् देशे कृतो यज्ञः स्वर्गकामफलप्रदः ॥ ८.४९ ॥
येन याम्य क्षयांल्लोकान्नित्यान्तक विवार्जितान् ।
क्षत्रवंशसमुत्पन्नो यस्तु वै शिक्षते क्षितिम् ॥ ८.५० ॥
मातृकं पैतृकं वंशं यज्ञमिष्ट्वा दिवं नयेत् ।
स जातो येन भूलोकः सर्वथावद्यवर्जितः ॥ ८.५१ ॥
अन्ये पुत्रत्वमापन्नास्ते तु क्लेशाय केवलम् ।
एवमुक्तो वशिष्ठस्तु मनुना ब्राह्मणैः सह ।
प्रसन्नस्त्वब्रवीत्तं तु वशिष्ठो मुनिसत्तमः ॥ ८.५२ ॥
शृणुष्व त्वं महाभाग कथ्यमानं निबोध मे ।
ब्रह्मणा गदितं पूर्वं कश्यपस्य महामुनेः ॥ ८.५३ ॥
दक्षस्यात्रेर्गुरोश्चैव प्रजापतिरकल्पयत् ।
वेदश्रुतपुराणोक्तं तत्र कृत्स्नं मया श्रुतम् ॥ ८.५४ ॥
हन्त ते कथयिष्यामि यथावदनुपूर्वशः ।
पुराणवेदबाह्यं तु कर्म्म यत्क्रियते नृप ॥ ८.५५ ॥
न तत्सन्तः प्रशंसन्ति धर्महानिश्च जायते ।
नर्मदातीरमाश्रित्य त्रिपुरी नाम विश्रुता ॥ ८.५६ ॥
यैरिष्टं तत्र यज्ञैस्तु दानहोमबलिक्रिया ।
तेषां राजन् विमानानि स्थितान्युपरि वेश्मनः ॥ ८.५७ ॥
न तां लङ्घयितुं शक्ताः सर्वे देवास्सवासवाः ।
अतिक्रामन्ति ते स्वर्गं शिवेन सह मोदन्ते ॥ ८.५८ ॥
विषादं त्यज राजेन्द्र गहना कर्म्मणां गतिः ।
अन्यक्षेत्रे सहस्रं तु दत्तं तप्तं हुतं तथा ॥ ८.५९ ॥
एकं तु कल्पगा तीरे तुल्यं भवति वा न वा ।
शिवेन श्रावितं चासीत्पुराणं स्कन्दकीर्तितम् ॥ ८.६० ॥
जम्बूद्वीपे महाराज एका देवी तु नर्मदा ।
पापकर्मदुराचारान्नयते स्म दिवौकसम् ॥ ८.६१ ॥
तेऽपि यान्ति न सन्देहः कल्पगातोयदर्शनात् ।
धर्मध्वजाश्च ये मर्त्यास्त्रिषु लोकेषु विश्रुताः ॥ ८.६२ ॥
संसारार्णवमग्नानां पापोपहतचेतसाम् ।
यानरूपावरारोहा त्रैलोक्ये सचराचरे ॥ ८.६३ ॥
एकवक्त्रस्तु तत्पुण्यं न गुणान् स्तोतुमर्हति ।
त्यक्त्वा चैव महाभाग ब्रह्मविष्णुमहेश्वरान् ॥ ८.६४ ॥
संख्यां कर्तुं न शक्नोति तपसो दानकर्म्मणाम् ।
न गङ्गायमुना चापि नदी चैव सरस्वती ॥ ८.६५ ॥
इरावती वितस्ता च विपाशा कपिला तथा ।
शोणश्च घर्घरश्चैव सारङ्गा बदरी तथा ॥ ८.६६ ॥
पुण्या महानदी तापी गण्डकी च पयोष्णिका ।
तुङ्गभद्रा महापुण्या भीमरथ्या महानदी ॥ ८.६७ ॥
तीर्थानि सागराणां हि जम्बूद्वीपे वसन्ति हि ।
देवखाततडागेषु गर्तेषु च सरित्सु च ॥ ८.६८ ॥
किं फलं लभते मर्त्य इष्ट्वा यज्ञैर्नृपोत्तम ।
अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ॥ ८.६९ ॥
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ।
अयं यथा तथा धर्मः समं भारत वर्तते ॥ ८.७० ॥
तस्मात्पापं न कुर्वीत चञ्चले जीविते सति ।
श्रुत्वाख्यानमिदं राजा नर्मदाकीर्तनं शुभम् ॥ ८.७१ ॥
आदिदेश ततोऽमात्यान् भृत्यांश्चैव सहस्रशः ।
राजोपस्करमादाय यूयं गच्छतमाचिरम् ॥ ८.७२ ॥
धेनूनां पञ्चलक्षाणि सवत्सानां च भारत ।
श्यामकर्णहयानां च लक्षमेकं शितत्विषाम् ॥ ८.७३ ॥
अयुतं च करीन्द्राणां घण्टाभरणसंयुजाम् ॥ ८.७४ ॥
हिरण्यकोटीः पञ्चाशत्सर्वासृङ्मणयस्तथा ।
सुमुहूर्ते सुनक्षत्रे चन्द्रे चैकादशे शुभे ॥ ८.७५ ॥
नानादेशनृपैः सार्द्धं गीतवादित्रमङ्गलैः ।
दिव्ययानसमारूढः स्तूयमानो मुहुर्मुहुः ॥ ८.७६ ॥
ब्राह्मणैर्वेदविद्भिश्च प्रायाच्च त्रिपुरीं नृपः ।
सप्तकल्पवहां पुण्यां सुरासुरनमस्कृताम् ॥ ८.७७ ॥
आजन्मरूढैस्तु पापैः सान्तः पुरपरिच्छदः ।
विमुक्तः पृथिवीपालः कल्पगा तोयदर्शनात् ॥ ८.७८ ॥
पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ।
मेकलातोयसंस्पर्शात्पवित्राणीह तान्यपि ॥ ८.७९ ॥
स्नानं कृत्वा यथा न्यायं पितॄन् देवांश्च तर्पयन् ।
अर्चयित्वा महेशानं गन्धपुष्पविलेपनैः ॥ ८.८० ॥
दशयोजनपर्य्यन्तं यज्ञरूपं च मण्डपम् ।
अकारयन्महाबाहुः सर्वधर्मपरायणः ॥ ८.८१ ॥
हेमरूप्यमयं सर्वं यच्चान्यद्भोज्यभाजनम् ।
अगस्त्यो गौतमो गर्गो विष्णुः शातातपस्तथा ॥ ८.८२ ॥
अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।
भृगुरग्निर्मरीचिश्च कश्यपोऽथ मनुस्तथा ॥ ८.८३ ॥
दुर्वासा याज्ञवल्क्यश्च भरद्वाजोऽथ भल्लुकः ।
विश्वामित्रो जमदग्नी ऋष्यशृङ्गो विभाण्डकः ॥ ८.८४ ॥
दक्षः पराशरो व्यासः काषायणबृहस्पती ।
एते चान्ये च बहव ऋषयः शंसितव्रताः ॥ ८.८५ ॥
चतुर्विद्यावेदविदो यज्ञकर्म्मविशारदाः ।
तीर्थं वै पुष्करं यद्वद्ब्रह्मविष्णुशिवात्मकम् ॥ ८.८६ ॥
तत्र प्रावर्तयद्यज्ञं हयमेधमनुत्तमम् ।
आहूता देवताः सर्वा देवेन्द्रः पाकशासनः ॥ ८.८७ ॥
तर्पिता अर्घपाद्यैश्च मधुपर्कैश्च विष्टरैः ।
ततो निवर्तितो यज्ञो यथोक्तो वेदकर्म्मणा ॥ ८.८८ ॥
तर्पिता ब्राह्मणास्सर्वे यथा विभवविस्तरैः ।
हारकेयूरकटकैः कण्ठाभरणभूषणैः ॥ ८.८९ ॥
केचित्कुङ्जरमारूढास्तथा च हयसंस्थिताः ।
दिव्ययानसमारूढा दिव्यमालावलम्बिनः ॥ ८.९० ॥
वयांसि पक्षिणो यत्र तथाऽन्ये वनचारिणः ।
यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः ॥ ८.९१ ॥
यं यं कामं प्रार्थयते तं तं प्राप्नोत्यसंशयम् ।
घोषणा क्रियतां राष्ट्रे दण्डहस्तैस्तु किङ्करैः ॥ ८.९२ ॥
पितृदेवमनुष्याश्च तृप्ता यान्ति परां गतिम् ।
ब्रह्मविष्णुमहेशाना वरं दत्त्वा दिवं ययुः ॥ ८.९३ ॥
अत्र यज्ञस्तपोदानं सर्वं भवति चाक्षयम् ।
एवं निवर्तितो यज्ञो राज्ञश्चामिततेजसः ॥ ८.९४ ॥
कृताञ्जलिपुटो भूत्वा मनुरित्याह कल्पगाम् ।
चान्द्रायणसहस्रस्य सोमयागशतस्य च ॥ ८.९५ ॥
त्वत्तोयपानमात्रेण समं भवति वा न वा ।
लोकानां तारणार्थाय अवतीर्णा महानदी ॥ ८.९६ ॥
त्वया व्याप्तं जगत्कृत्स्नं लोकाश्चैव चराचराः ।
स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ॥ ८.९७ ॥
अनेकभाविकं पापं तूलराशिमिवानलः ।
दहत्येवं हि तोयं ते नात्र कार्य्या विचारणा ॥ ८.९८ ॥
स्वर्गसोपानभूताऽसि पितॄणां हितकाम्यया ।
दिवं नय वरारोहे भूतग्रामं चतुर्विधम् ॥ ८.९९ ॥
याः काश्चित्सरितो लोके तीर्थानि विविधानि च ।
तेषां त्वं जननी देवि पितॄणां तारिणी परा ॥ ८.१०० ॥
त्वया विना तु यत्तीर्थं धर्मकर्मशुभोदयम् ।
सूर्येणैव विहीनं हि निरालोकं जगद्यथा ॥ ८.१०१ ॥
सूर्याचन्द्रमसोर्भावः सामान्यः सर्वजन्तुषु ।
समं वर्षति पर्जन्यः सस्येषु च तृणेषु च ॥ ८.१०२ ॥
तथा त्वं सर्वलोकानां माता चैव गरीयसी ।
अपि वर्षसहस्रेण गुणान् कीर्तयितुं शुभे ॥ ८.१०३ ॥
ब्रह्मा बृहस्पतिश्चैव न शक्तोऽपि वरानने ।
स्तोत्रं श्रुत्वा महाभागा मनोरमिततेजसः ॥ ८.१०४ ॥
प्रत्युवाच वरारोहा मकरासनसंस्थिता ।
सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना ॥ ८.१०५ ॥
वरं वृणु महाभाग तुष्टाऽस्मि मनसीप्सितम् ।
नमस्कृत्य महादेवीं राजा वचनमब्रवीत् ॥ ८.१०६ ॥
यदि तुष्टा वरारोहे वरं दातुं ममेच्छसि ।
तीर्थभूतं जगत्सर्वं कुरुष्व वरवर्णिनि ॥ ८.१०७ ॥
अयोध्याविषये देशे स्रवन्त्यः सम्भवन्त्विति ।
नानाविधास्तु सरितो गङ्गाद्यास्तु सुरालये ॥ ८.१०८ ॥
यथा च पतितास्सर्वास्तथा त्वं कल्पगे कुरु ॥ ८.१०९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे त्रिपुरीवर्णनो नामाष्टमोऽध्यायः ॥
अध्याय ९
नर्मदोवाच -
त्रेतायां प्रथमे पादे तव वंशे नृपोत्तम ।
भगीरथ इति ख्यातः स गङ्गा मानयिष्यति ॥ ९.१ ॥
सगराः षष्टिसाहस्रा अलाबुजसमुद्भवाः ।
कपिलस्य तु मार्गेण हये पातालगामिनि ॥ ९.२ ॥
पितुराज्ञाऽवसाने तु विदार्य धरणीं ततः ।
हयं तु वासुदेवेन सागरास्ते विदुर्बुधाः ॥ ९.३ ॥
प्रविष्टाः सागरास्ते तु रसातलतलं गताः ।
तानहं पूरयिष्यामि आत्मतोयेन सुव्रत ॥ ९.४ ॥
एवं वृतो वरस्तावच्छेषं वृणु नरेश्वर ।
पादे द्वितीये त्रेतायाः कालिन्दी च सरस्वती ॥ ९.५ ॥
सरयूर्गण्डकी नाम महाभागा विनिःसृताः ।
भगीरथ इति ख्यातस्तव वंशे भविष्यति ॥ ९.६ ॥
भागीरथी च विख्याता भविष्यति सरिद्वरा ।
गङ्गा च जाह्नवी चैव समभागा प्रकीर्तिता ॥ ९.७ ॥
ख्यातिं यास्यन्ति तास्सर्वाः कन्याद्वीपे न संशयः ।
आगच्छन्ती तु सा गङ्गा जह्नुना च महर्षिणा ॥ ९.८ ॥
हस्तेनाकृष्य सा पीता यथान्यत्प्राकृतं जलम् ।
दिव्यं वर्षसहस्रं तु उदरे च विसर्पिता ॥ ९.९ ॥
विषण्णवदनो राजा तदासीत्स भगीरथः ।
निष्कलं मे तपस्तप्तं शिवसेवा च निष्कला ॥ ९.१० ॥
मया तु सेवितं ह्येतज्जगत्सर्वं चराचरम् ।
किं करोमीति निश्चित्य महेशं शरणं गतः ॥ ९.११ ॥
शिवाज्ञा सयुतो भूत्वा लोकानां हितकामया ।
आगतश्च पुनर्मोहात्तां गङ्गां स महायशाः ॥ ९.१२ ॥
उवाच वचनं राजनृषिः क्रोधसमन्वितः ।
गङ्गाया मोक्षणं कर्तुं यो मामाराधयिष्यति ॥ ९.१३ ॥
गङ्गाया मोक्षणं तत्र कर्तव्य नाऽत्र संशयः ।
तस्य तद्वचनं श्रुत्वा जह्नोरमिततेजसः ॥ ९.१४ ॥
तमेवाराथयामास तपसोग्रेण भारत ।
ततस्तुष्टस्तु भगवान्मुमोचोत्तरवाहिनीम् ॥ ९.१५ ॥
ततः प्रभृति लोकेऽस्मिञ्जाह्नवीति प्रकीर्तिता ।
एतत्ते कथितं राजंस्त्रेतायां यद्भविष्यति ॥ ९.१६ ॥
तत्रैवाऽन्यं प्रवक्ष्यामि मर्कटीतीर्थमुत्तमम् ।
यत्र स्नात्वा महाराज कामतोऽकामतोऽपि वा ॥ ९.१७ ॥
चान्द्रायणशतस्योक्तं यत्पुण्यं तदवाप्नुयात् ।
युधिष्ठिर उवाच -
संक्षेपाच्छ्रुतमेतद्धि विस्तरेण तपोधन ॥ ९.१८ ॥
कथं तु मर्कटीतीर्थं तन्मे कथय सुव्रत ।
मार्कण्डेय उवाच -
आसीत्त्रेतायुगे राजा सत्यसेनो महातपाः ॥ ९.१९ ॥
राज्ञी तस्य प्रिया चासीन्नाम्ना शृङ्गारवल्लरी ।
जातिस्मरा तु सुभगा केवलं मर्कटानना ॥ ९.२० ॥
कदाचित्स महीपालो मृगया प्रियया सह ।
जगाम नर्मदातीरं नानाद्रुमलतायुतम् ॥ ९.२१ ॥
स्थापयित्वा तु तां देवीं वनान्तरमगात्ततः ।
क्रीडमाना च सा तत्र वंशगुल्मे स्वकं शिरः ॥ ९.२२ ॥
वृष्ट्वा विस्मयमापन्ना पार्श्वस्थं कंचिदब्रवीत् ।
गृहीत्वैतच्छिरः शीघ्रं नर्मदाया जले क्षिप ॥ ९.२३ ॥
निक्षिप्तमात्रे शिरसि राज्ञी चन्द्राननाऽभवत् ।
एतस्मिन्नन्तरे राजा प्राप्तस्तत्र प्रियाऽन्तिकम् ॥ ९.२४ ॥
स दृष्ट्वा तादृशं तस्या मुखं पूर्णशशिप्रभम् ।
पृच्छति स्म प्रियां राजा विस्मयाविष्टचेतनः ॥ ९.२५ ॥
कथयामास वृत्तान्तं पूर्वजन्मसमुद्भवम् ।
अत्राहं मर्कटीवासं तीरे वै नार्मदे शूभे ॥ ९.२६ ॥
कदाचित्क्रीडमानाऽहं वंशं भित्त्वा ह्यकामतः ।
ततः कालवशाज्जीर्णं शरीरं पतितं जले ॥ ९.२७ ॥
शिरस्तत्रैव संलग्नं कपिवक्त्राऽस्मि तेन वै ।
इदानीं नर्मदातोये निक्षिप्ते शिरसि प्रिय ॥ ९.२८ ॥
मुखं मे तीर्थमाहात्म्याच्चन्द्रबिम्बसमप्रभम् ।
श्रुत्वा स तीर्थमाहात्म्यं विस्मयोत्फुल्ललोचनः ॥ ९.२९ ॥
पुरोहितं समाहूय स्नातुं तत्र प्रचक्रमे ।
स्नात्वा तत्र विधानेन हेमकोटिशतं ददौ ॥ ९.३० ॥
तदा प्रभृति राजेन्द्र मर्कटीतीर्थमुच्यते ।
पूर्वभागस्थितं तस्य भृगुतीर्थमनुत्तमम् ॥ ९.३१ ॥
तत्र स्नात्वा तु कार्तिक्यां नर पापात्प्रमुच्यते ।
स्वर्गदो मोक्षदश्चैव देवस्तु नरकेश्वरः ॥ ९.३२ ॥
देवस्य चाग्रे वंशो वै सम्मुखो यत्र दृश्यते ।
पूर्वभागे स्थितं तत्र तस्मिन् वंशे तु निर्मले ॥ ९.३३ ॥
त्रिलोचन इति ख्यातं तथैव भ्रुकुटिस्थितम् ।
तृतीयं लोचनं दृष्ट्वा भृगुस्तु मुनिसत्तम ॥ ९.३४ ॥
प्रणम्य दण्डवद्भूमौ स्तोतुं समुपचक्रमे ।
भृगुरुवाच -
प्रणमामि जने संस्थं भूतेशं भूतिदं हरम् ॥ ९.३५ ॥
भाव्यं भर्गं पशुपतिं भुवनेश्वरमेव च ।
दोषमात्रविहीनं च नित्यविज्ञानविग्रहम् ॥ ९.३६ ॥
परद्रव्यापहरणात्परदारनिषेवणात् ।
पराभवात्पराभूतं रक्ष मां कल्मषात्प्रभो ॥ ९.३७ ॥
आत्माभिमानमुदितं क्षणभङ्गुरके तथा ।
कुपथाभिमुखं दीनं त्राहि मां परमेश्वर ॥ ९.३८ ॥
दीनद्विजवरस्यार्थे प्रज्ञाने परितो भव ।
वृष्ट्वा सदा शङ्करस्त्वं मूढं मां किं विलम्बसे ॥ ९.३९ ॥
तृष्णां हर हरात्यर्थं लक्ष्मीं मे देहि निश्चलाम् ॥ ९.४० ॥
नित्यं छिनत्ति मोहं पापं हन्ति तारणं विदधाति ।
तव तीर्थमात्रगमनं तदपि न संचितं महेशान ॥ ९.४१ ॥
भूतिमूलविभूढस्य विभागं तन्निरर्थकम् ।
करुणाहृदयं नाम स्तोत्रमेतद्भृगूदितम् ॥ ९.४२ ॥
यः पठेत्प्रातरुत्थाय स याति परमां गतिम् ।
स्तोत्रेणानेन सन्तुष्टः शिवः प्रोवाच तं भृगुम् ॥ ९.४३ ॥
सर्वं दास्यामि ते विप्रवरं यन्मनसीप्सितम् ।
सिद्धिं चैव पुनः श्लाघ्यां यत्सुरैरपि दुर्लभाम् ॥ ९.४४ ॥
भृगुरुवाच -
यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि ।
मम नाम्नाऽस्य तीर्थस्य ख्यातिर्भवति भूतले ॥ ९.४५ ॥
अवतारय चात्मानं भृगुक्षेत्रे महेश्वर ।
शङ्कर उवाच -
एवं भवतु विप्रेन्द्र तव नाम्ना भविष्यति ॥ ९.४६ ॥
क्षेत्रं पापहरं पुण्यं देवानामपि दुर्लभम् ।
पितृपुत्रविसंवादः क्रोधाज्जातः कथञ्चन ॥ ९.४७ ॥
अस्य तीर्थस्य माहात्म्यात्स तु शान्तिं गमिष्यति ।
ततः प्रभृति ये देवा ब्रह्माद्याः किन्नरा नराः ॥ ९.४८ ॥
उपासते भृगुक्षेत्रं यत्र तुष्टो महेश्वरः ।
दर्शनात्स्पर्शनात्तस्य मुच्यते ब्रह्महत्यया ॥ ९.४९ ॥
स्नानं यः कुरुते तत्र मुच्यते स ऋणत्रयात् ।
अवतारः कृतो राजन् युगे तत्र स्वयम्भुवा ॥ ९.५० ॥
तत्र क्षेत्रे नरश्रेष्ठ अष्टौ रुद्राः प्रकीर्तिताः ।
भृगुश्चैव तथा शूली वेदश्चन्द्रमुखस्तथा ॥ ९.५१ ॥
अट्टहासस्तथा कालः कराली चाष्टमस्तथा ।
अष्टौ रुद्रास्समुत्पन्नास्तस्मिन् क्षेत्रे युधिष्ठिर ॥ ९.५२ ॥
तेन रम्यं च धन्यं च भृगुक्षेत्रमुदाहृतम् ।
अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च ॥ ९.५३ ॥
व्यतीपाते दिनच्छेदे छायायां तु गजस्य च ।
स्नानं दानं तथा होमं तर्पणं देवतार्चनम् ॥ ९.५४ ॥
सर्वं तदक्षयं राजंस्तस्मिन् क्षेत्रे न संशयः ।
स्नातस्य च भृगुक्षेत्रे एकरात्रोषितस्य च ॥ ९.५५ ॥
यत्पुण्यं जायते पुंसो न तत्क्रतुशतैरपि ।
दर्शे भाद्रपदे मासे शुक्लपक्षे विशेषतः ॥ ९.५६ ॥
नरः प्रदक्षिणां कृत्वा भृगुतीर्थस्य संयतः ।
तत्क्षणाद्विरजो भूत्वा शिवलोके महीयते ॥ ९.५७ ॥
अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः ।
मर्कट्याः पश्चिमे भागे ह्यर्कतीर्थमुदाहृतम् ॥ ९.५८ ॥
तत्र नित्यं स्थितो भानुः सर्वदेवनमस्कृतः ।
नरः प्रदक्षिणां कृत्वा सर्वपापैः प्रमुच्यते ॥ ९.५९ ॥
माहात्म्यं तस्य देवस्य शृणु राजन् समासतः ।
पुरा गन्धर्वराजस्तु मोहनो नाम नामतः ॥ ९.६० ॥
ब्रह्मणस्तु सभां प्राप्तस्तदाराधनतत्परः ।
तत्र दुर्वाससं दृष्ट्वा रूपेणानेन गर्वितः ॥ ९.६१ ॥
अज्ञानेनाऽवमानेन स जहास मुनिं नृप ।
स्मेराननं समालोक्य तं शशाप मुनिस्तदा ॥ ९.६२ ॥
चित्रकुष्ठी दुराचारो भव त्वं रूपगर्वितः ।
स तु शापभयात्प्राह मुनिं गन्धर्वराट्ततः ॥ ९.६३ ॥
शापान्तं कुरु मे विप्र बालिशस्य प्रसादतः ।
दुर्वासा उवाच -
गच्छ गन्धर्वराज त्वं त्रिपुर्यां नर्मदातटम् ॥ ९.६४ ॥
यस्मिन्नास्ते स्वयं देवः समग्रभयनाशनः ।
भासते भास्करं नाम विख्यातं चोत्तरे तटे ॥ ९.६५ ॥
तत्र स्नानान्महाराज शापान्तस्ते भविष्यति ।
स जगाम पुनर्नत्वा ततो वै नर्मदातटम् ॥ ९.६६ ॥
तत्र स्नात्वा विधानेन पूजयामास भास्करम् ।
त्रिरात्र्याराधितो भानुः प्रातः प्रोवाच तं नृप ॥ ९.६७ ॥
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
गन्धर्व उवाच -
यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि ॥ ९.६८ ॥
चित्रकुष्ठं विनश्येत त्वत्प्रसादेन मे प्रभो ।
एवमस्त्विति तं प्राह गन्धर्वाधिपतिं तदा ॥ ९.६९ ॥
शापान्मुक्तो जगामाथ स्वपुरं प्रति भारत ।
एतत्ते कथितं राजन् छिवेन परिकीर्तितम् ॥ ९.७० ॥
सावित्र्याराधनं तत्र पुत्रार्थं किल भारत ।
तस्मिंस्तीर्थे नरः स्नात्वा समभ्यर्च्य च भास्करम् ॥ ९.७१ ॥
पुत्रवान् व्याधिमुक्तश्च जायते नाऽत्र संशयः ।
कोटीश्वरं तु तत्रैव विद्धिदक्षिणभागतः ॥ ९.७२ ॥
तमभ्यर्च्य विधानेन कोटिलिङ्गार्चनात्फलम् ।
नरः प्राप्नोति राजेन्द्र सत्यं सत्यं वदाम्यहम् ॥ ९.७३ ॥
कोटितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ।
तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपिवा ॥ ९.७४ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ९.७५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमाहात्म्ये नवमोऽध्यायः ॥
अध्याय १०
मार्कण्डेय उवाच -
दक्षिणे तस्य तीर्थस्य कल्पगातीरमाश्रितम् ।
सोमेनाराधितं तीर्थं भुक्तिमुक्तिफलप्रदम् ॥ १०.१ ॥
तत्र स्नात्वा दिवं यान्ति मृतास्ते न पुनर्भवाः ।
दक्षिणे तस्य देवस्य स्थितः शक्रेश्वरः शिवः ॥ १०.२ ॥
शक्रेणाराधितः पूर्वं सर्वकामसमृद्धये ।
अन्यत्तीर्थं प्रवक्ष्यामि ब्रह्मकुण्डमिति स्मृतम् ॥ १०.३ ॥
यत्रास्ते भगवान् विष्णू रेवा चोत्तरवाहिनी ।
तत्र स्नात्वा महाराज वैष्णवं लोकमाप्नुयात् ॥ १०.४ ॥
दर्शे चैव व्यतीपाते तिलतोयप्रदानतः ।
श्राद्धस्य करणात्तत्र पितॄणां तृप्तिरक्षया ॥ १०.५ ॥
उदीची नर्मदा यत्र प्रतीची यत्र जाह्नवी ।
क्षेत्रं गच्छ नृपश्रेष्ठ प्राची यत्र सरस्वती ॥ १०.६ ॥
ब्रह्मकुण्डोत्तरे भागे विद्धि देवं सनातनम् ।
अम्बरीषमिति ख्यातं माधवं मधुसूदनम् ॥ १०.७ ॥
एकादश्यां समभ्यर्च्य स्नात्वा यस्तु नराधिप ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १०.८ ॥
तस्यैव पश्चिमे भागे हंसतीर्थं नराधिप ।
तत्र स्नात्वा पुरा राजन् हंसा वै त्रिदिवङ्गताः ॥ १०.९ ॥
तत्रापि कुरुते श्राद्धं दानं चैव नराधिप ।
हंसतीर्थप्रभावेण तिर्यग्योनौ न जायते ॥ १०.१० ॥
पश्चिमे तस्य भागे तु लिङ्गं परमसिद्धिदम् ।
महाकालमिति ख्यातं यन्मयाराधितं पुरा ॥ १०.११ ॥
तमभ्यर्च्य विधानेन शिवलोकमवाप्नुयात् ।
अथान्यत्संप्रवक्ष्यामि तीर्थराजमनुत्तमम् ॥ १०.१२ ॥
मातृतीर्थमिति ख्यातं लिङ्गं च मातृकेश्वरम् ।
तत्र स्नातस्य राजेन्द्र हयमेधफलं भवेत् ॥ १०.१३ ॥
तत्प्रवाहमतिक्रम्य यद्वा रेवोत्तरं महत् ।
सप्तविंशोद्भवः शिवस्तत्र लोकेषु गीयते ॥ १०.१४ ॥
तत्र स्नात्वा पितृभ्यश्च तोयपिण्डप्रदानतः ।
सर्वकामसमृद्धात्मा शिवलोके महीयते ॥ १०.१५ ॥
तत्र यद्दीयते दानं किंचिद्वापि युधिष्ठिर ।
तस्य संख्या न विद्यते इत्याह भगवान् छिवः ॥ १०.१६ ॥
तत प्रतीच्यां लिङ्गन् तु ब्रह्मेश्वरमिति श्रुतम् ।
ब्रह्मणा साधितं सद्यः सर्वकामफलप्रदम् ॥ १०.१७ ॥
दर्शनात्तस्य देवस्य सर्वपापैः प्रमुच्यते ।
अङ्गारे वा चतुर्दश्यां तदभ्यर्च्य विधानतः ॥ १०.१८ ॥
शिवभक्तिपरो मर्त्यः शिवलोके महीयते ।
अन्यत्तीर्थं प्रवक्ष्यामि स्वर्गद्वारमनुत्तमम् ॥ १०.१९ ॥
तत्र स्नातो नरव्याघ्र स्वर्गलोके महीयते ।
तत्र पश्चिमभागे तु लिङ्गं सिद्धेश्वरं परम् ॥ १०.२० ॥
तत्र सिद्धेश्वरं चैव तीर्थं पापप्रणाशनम् ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १०.२१ ॥
पौषे मासि सिताष्टम्यां तमभ्यर्च्य विधानतः ।
दत्त्वा तु कपिलां धेनुं स्वर्गलोके महीयते ॥ १०.२२ ॥
तस्मादुत्तरतो विद्धि सङ्गमं लोकविश्रुतम् ।
गङ्गायमुनयोर्नित्यं रेवायाश्च नराधिप ॥ १०.२३ ॥
तत्र स्नातस्य राजेन्द्र अश्वमेधफलं भवेत् ।
श्राद्धं तत्र प्रकुर्वीत पितॄणां प्रीतिवर्द्धनम् ॥ १०.२४ ॥
राजोवाच -
गङ्गा च यमुना चात्र समायाते कथं मुने ।
एतद्विस्तरतः सर्वं प्रब्रूहि मुनिपुङ्गव ॥ १०.२५ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध मे ।
मतङ्गो नाम राजर्षिरासीद्धर्मपरायणः ॥ १०.२६ ॥
शिवभक्तो महायोगी त्रिपुर्यां वेदवित्तमः ।
षण्मासभोजी धर्मात्मा हत्वा करिवरं स्वयम् ॥ १०.२७ ॥
षष्ठे मासे तु संप्राप्ते यथावद्विधिपूर्वकम् ।
पितृयज्ञं तु निर्वर्त्य शेषं भुङ्क्ते नराधिप ॥ १०.२८ ॥
एवं तपसि तप्ते तु कालेन महता ततः ।
सप्तर्षयः समायातास्तेन मार्गेण भारत ॥ १०.२९ ॥
स तान् दृष्ट्वा नमस्कृत्य अर्घपाद्यैरपूजयत् ।
कुशासनोपविष्टांस्तु प्रोवाच मुनिसत्तमः ॥ १०.३० ॥
धन्योऽस्मि पितृमेधे यत्संप्राप्ता मे भवादृशाः ।
तत्तस्य वचनं श्रुत्वा मतङ्गस्य महामुने ॥ १०.३१ ॥
ऋषयश्चिन्तयामासुरन्योऽन्यं वै तदा नृप ।
मांसेन पितृमेधोऽस्य कथं त्याज्यो भवेदिति ॥ १०.३२ ॥
चिन्ताविष्टान्मुनीन् दृष्ट्वा वशिष्ठः प्राह तं मुनिम् ।
गङ्गायमुनयोर्योगे स्नानं कृत्वा महामुने ॥ १०.३३ ॥
भोक्षामहे वयं सर्वे नात्र कार्या विचारणा ।
तस्य तद्वचनं श्रुत्वा मतङ्गः प्राह तान् हसन् ॥ १०.३४ ॥
गङ्गायमुनयोर्योगे स्नानं चात्र भविष्यति ।
इत्युक्त्वा ध्यानमास्थाय स गङ्गां यमुनां तथा ॥ १०.३५ ॥
समाह्वयत्मुनिश्रेष्ठः समायाते तु तत्क्षणात् ।
स्नानं कुरुध्वं मुनयो गङ्गायमुनसङ्गमे ॥ १०.३६ ॥
ते दृष्ट्वा तादृशं कर्म्म मुनेस्तस्य महात्मनः ।
विस्मयाविष्टहृदयाः प्रशशंसुश्च तं मुनिम् ॥ १०.३७ ॥
ततस्तु मुनयः सर्वे स्नानं कृत्वा यथाविधि ।
पितृयज्ञं तु निर्वर्त्य मतङ्गस्य ययुर्दिवम् ॥ १०.३८ ॥
गङ्गा च यमुना चैव प्रविष्टे सप्त कल्पगां ।
इत्थं स सङ्गमो जातः सर्वपापहरः परः ॥ १०.३९ ॥
अमासोमसमायोगे स्नानं यः कुरुते नरः ।
सर्वधर्मसुसम्पन्नः शिवभक्तिपरायणः ॥ १०.४० ॥
उद्धृत्य पूर्वजान् सप्तचैवापरांस्तथा ।
दिव्यदेहसमापन्नो दिव्याभरणभूषितः ॥ १०.४१ ॥
दिव्ययान समारूढः स्तूयमानोऽप्सरोगणैः ।
तत्क्षणाद्विरजो भूत्वा स्वर्गलोके महीयते ॥ १०.४२ ॥
अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः ।
नैरन्तर्येण षण्मासाज्जितक्रोधो जितेन्द्रियः ॥ १०.४३ ॥
स्नानं यः कुरुते तत्र पूजयेच्च महेश्वरम् ।
पथिकः कारणाद्वापि म्लेच्छदेशेऽपि वा क्वचित् ॥ १०.४४ ॥
यत्र तत्र मृतः सोऽपि प्राप्नुयाच्छिवसन्निधिम् ।
स्नानं दान तपो होमः संयोगे चैव पर्वणि ॥ १०.४५ ॥
यदत्र क्रियते तस्य पुण्यसंख्या न विद्यते ।
एतत्ते मे कृतं राजंस्त्रिपुरीक्षेत्रवर्णनम् ॥ १०.४६ ॥
श्रवणं यस्य राजेन्द्र दैवतैरपि दुर्लभम् ।
एतच्छ्रुत्वा महाराज नर्मदाकीर्तनं शुभम् ॥ १०.४७ ॥
नमस्कृत्य वरारोहां कामिकं यानमास्थितः ।
विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् ॥ १०.४८ ॥
मुदा परमया युक्तो यथा पूर्वं तथैव सः ।
एतत्ते कीर्तितं राजन् यथावदनुपूर्वशः ॥ १०.४९ ॥
शिवेन कथितं पूर्वं स्कन्दस्य तु महात्मनः ।
श्रवणात्कीर्तनात्चैव शिवलोके महीयते ॥ १०.५० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाख्यानं नाम दशमोऽध्यायः ॥
अध्याय ११
अथान्यत्परमं तीर्थं सुरासुरनमस्कृतम् ।
योगतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ॥ ११.१ ॥
योगी स्नात्वा विधानेन योगान्ते त्रिदिवं गतः ।
तत्र स्नात्वा नरो राजंस्तिर्यग्योनौ न गच्छति ॥ ११.२ ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
अथान्यत्परमं तीर्थं ध्रुवो यत्र प्रकाशते ॥ ११.३ ॥
ध्रुवतीर्थे नरः स्नात्वा सर्वकामफलोदये ।
ध्रुवेश्वरं महादेवं भक्त्या यस्तु प्रपूजयेत् ॥ ११.४ ॥
दशायुतानि राजा वै पुरे वैद्याधरे शुभे ।
नाक्षत्रं नाम तीर्थं तु नर्मदातीरमाश्रितम् ॥ ११.५ ॥
यत्र ऋक्षेश्वरो देवः सर्वपापप्रणाशनः ।
सप्तविंशतिसंसिद्धिं नक्षत्राणि गतानि वै ॥ ११.६ ॥
तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यन्तिदेवताः ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ ११.७ ॥
अथान्यत्परमं तीर्थं वाराहं नाम विश्रुतम् ॥ ११.८ ॥
महाशूकररूपेण धात्री यत्र समुद्धृता ।
एकादश्यां नरः स्नात्वा कृत्वा चैव यथोदितम् ॥ ११.९ ॥
उपवासपरो भूत्वा द्वादश्यां तु युधिष्ठिर ।
वैष्णवस्तु शुचिर्भूत्वा वाराहं च समर्चयेत् ॥ ११.१० ॥
पुष्पोपहारधूपैश्च गन्धदीपविलेपनैः ।
वर्षलक्षं तु साग्रं वै लोके क्रीडति वैष्णवे ॥ ११.११ ॥
ब्रह्मचारी जितक्रोधो विष्णुधर्मपरायणः ।
भक्त्या भोजयते यस्तु विप्रान् वैष्णवकांस्तथा ॥ ११.१२ ॥
लेखयित्वा विष्णुधर्मान् वस्त्रालङ्कारभूषितान् ।
निवेदयेद्ब्राह्मणाय श्रोत्रियाय विशेषतः ॥ ११.१३ ॥
पुराणं नर्मदाख्यानं श्रावयेच्च समाहितः ।
वरदाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ ११.१४ ॥
भवन्ति तस्य सत्यं वै नाऽत्र कार्य्या विचारणा ।
यावदक्षरसंख्यानं यावत्पत्रसमुच्चयः ॥ ११.१५ ॥
तावद्युगसहस्राणि स्वर्गलोके महीयते ।
विद्यादानात्परं दानं नान्य लोकेषु गीयते ॥ ११.१६ ॥
अदीपा च यथा रात्रिरनादित्यं यथा नभः ।
विद्याहीनं तथा सर्वमन्धे तमसि मज्जति ॥ ११.१७ ॥
एतत्ते कथितं सर्वं विद्यादानस्य यत्फलम् ।
सर्वदानफलं तस्य विद्यादानप्रभावतः ॥ ११.१८ ॥
अथान्यत्परमं तीर्थं चान्द्रायणमिति स्मृतम् ।
शशाङ्के रोहिणीयुक्ते पौर्णमास्यां महोत्सवे ॥ ११.१९ ॥
शशाङ्कभूषणं देवं सर्वसिद्धिप्रदायकम् ।
अर्चयित्वा विधानेन स्वर्गलोके महीयते ॥ ११.२० ॥
पौर्णमास्यां तु कुरुते राहुसूर्यसमागमे ।
तिलोदकं पिण्डदानं पुत्रः परमधार्मिकः ॥ ११.२१ ॥
पितरस्तस्य तृप्यन्ति पापोपहतचेतसः ।
सर्वं पाखण्डयुक्तं च आवृतं कलिना तथा ॥ ११.२२ ॥
पुराणवेदधर्माश्च दानं यज्ञस्तपस्तथा ।
आच्छादितमिदं पुण्यं हेतुकैः पापकर्मभिः ॥ ११.२३ ॥
नग्नैर्मलिनदीनैश्च कलौ लोके दिगम्बरैः ।
तस्माद्धर्मपरैर्नित्यमुपास्या नर्मदा नदी ॥ ११.२४ ॥
सौम्ये तु द्वादशादित्यं तीर्थं पुण्यविवर्धनम् ।
तत्र स्नात्वा नरो राजन्नर्चयित्वा तु भास्करम् ॥ ११.२५ ॥
संक्रान्तौ विषुवे चैव सूर्यलोके महीयते ।
एकस्मिन् भोजिते विप्रे लक्षं भवति भोजितम् ॥ ११.२६ ॥
तिलान्नं च हिरण्यं च यथा शक्त्या ददाति यः ।
शुक्लपक्षस्य माघस्य शुभा षष्ठी च सप्तमी ॥ ११.२७ ॥
तस्यां दानप्रभावेण ह्युपवासपरायणः ।
दशवर्षसहस्राणि सूर्यलोके महीयते ॥ ११.२८ ॥
तीर्थमाप्सरसं नाम याम्यां दिशि समाश्रितम् ।
चम्पका सीमपा नामा केशिनी भामिनी तथा ॥ ११.२९ ॥
कौमुदी सुप्रभा चैव उत्पला च महोदया ।
निषादयोनिं संप्राप्ताः पूर्वजन्मनि भारत ॥ ११.३० ॥
एता आप्सरसं देवं गौरी चैव सुरेश्वरी ।
माघे मासि तृतीयायां निराहाराश्च निर्जलाः ॥ ११.३१ ॥
उदकैः स्नापयित्वा तु बिल्वपत्रैरपूजयन् ।
दशवर्षसहस्राणि सावधानास्तु नार्मदैः ॥ ११.३२ ॥
सर्वकामसमृद्धास्ता अप्सरोभिः सुपूजिताः ।
सर्वालङ्कारशोभाढ्या नानावसनभूषिताः ॥ ११.३३ ॥
तस्य तीर्थस्य माहात्म्यात्संसिद्धिं परमां गताः ।
अथान्यत्कथयिष्यामि पुण्यतीर्थमनुत्तमम् ॥ ११.३४ ॥
यत्र स्नातस्य विधिवत्कन्यादानफलं भवेत् ।
शङ्करं नाम लिङ्गं तु उत्तरस्यां दिशि स्मृतम् ॥ ११.३५ ॥
अर्चयित्वा तु तं देवं दर्शे चैव नराधिप ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ११.३६ ॥
अथातः संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् ।
दत्तात्रेया नदी यत्र सङ्गता सह रेवया ॥ ११.३७ ॥
सौम्यभागे वरारोहासुरासुरनमस्कृता ।
तत्र स्नात्वा च दत्त्वा च अर्चयित्वा तु केशवम् ॥ ११.३८ ॥
पापिष्ठा ये दुराचारा धर्मकर्मबहिष्कृताः ।
प्रभावात्तस्य तीर्थस्य तेऽपि यान्ति हरेः पुरम् ॥ ११.३९ ॥
मेधातिथिः करः स्कन्दः सावर्णिः कौशिको मनुः ।
काश्यपो गालवश्चैव मैत्रेयस्तपसां निधिः ॥ ११.४० ॥
एते चान्येऽपि बहवो ऋषयः संशितव्रताः ।
तीर्थस्याऽस्य प्रभावेण शंसिद्धिं परमां गताः ॥ ११.४१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थमहिमवर्णनो नामैकादशोऽध्यायः ॥
अध्याय १२
मार्कण्डेय उवाच -
अथ शृणुष्व राजेन्द्र दक्षिणां दिशमाश्रितम् ।
शैवं गाञ्जालभेदं च संगमं सुरपूजितम् ॥ १२.१ ॥
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
यः कुर्यात्पितृदेवानां तर्पणं पिण्डपातनम् ॥ १२.२ ॥
पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम् ।
महोत्सवे च कौमुद्यां कार्त्तिक्यां चैव पर्वणि ॥ १२.३ ॥
गाञ्जालेश्वरलिङ्गं च अर्चयेत्सिद्धिदायकम् ।
हरिकेशश्चक्रवर्ती कन्यापुरपतिः पुरा ॥ १२.४ ॥
तीर्थस्याऽस्य प्रभावेण मुक्तो भूद्वत्सगोवधात् ।
मार्कण्डेय उवाच -
ममास्ति संशयस्तात सुमहांल्लोमहर्षणः ॥ १२.५ ॥
कथं राजनि गोहत्या कथं मुक्तश्च गोवधात् ।
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यामितिहासं पुरातनम् ॥ १२.६ ॥
सोमवंशे नृपश्चासीत्सत्यधर्मव्रते स्थितः ।
देवानीक इति ख्यातो हरिकेशस्तदात्मजः ॥ १२.७ ॥
सर्वलक्षणसम्पूर्णश्चक्रवर्ती महाबलः ।
अनेकाश्च मखास्तेन राजन्निष्टा महात्मना ॥ १२.८ ॥
ख्यातं कन्यापुरं तस्य धनदस्यालका यथा ।
चिरायुषः प्रजाः सर्वा धनधान्यसमन्विताः ॥ १२.९ ॥
तुङ्गभद्रेति विख्याता श्रीशैले त्रिपुरान्तिके ।
उक्ता पातालगङ्गेति मल्लिकार्जुनदर्शनात् ॥ १२.१० ॥
पूर्वभागे ततस्तस्य श्रीधामं नाम खेटकम् ।
नाना मुनिसमाकीर्णं देवकोटिसमावृतम् ॥ १२.११ ॥
ललितोद्वाहिता तत्र शिवेन परमात्मना ।
पुरा त्वस्यायुषा नाम प्रजापतिरकल्पयत् ॥ १२.१२ ॥
सुप्रभा नाम तस्यास्तु विख्यातमभवत्तथा ।
देव्याः पूर्वावतारोऽयं कथितस्ते विशाम्पते ॥ १२.१३ ॥
द्वितीये हिमवत्पुत्री पार्वती च उमा तथा ।
तृतीये दक्षदुहिता नाम्ना गौरीति विश्रुता ॥ १२.१४ ॥
पुण्यतीर्थे च क्षेत्रेऽस्मिन् हरिकेशः प्रतापवान् ।
सुप्रभा निकटे नाम सुप्रभो राजसत्तम ॥ १२.१५ ॥
शशास मेदिनीं राजा सर्वधर्मपरायणः ।
लक्षमेकं तु दोग्ध्रीणां राहुसूर्यसमागमे ॥ १२.१६ ॥
निष्काणां तु सहस्रं वै प्रतिगङ्गामकल्पयत् ।
सर्वाभरणशोभाढ्यामेकां गां चोपवेशयत् ॥ १२.१७ ॥
ब्राह्मणांश्च समाहूय वेदविद्याबहुश्रुतान् ।
पञ्चभिर्दिवसैः पूर्वं राहुसूर्यसमागमे ॥ १२.१८ ॥
प्रयागे तत्र योगे वा इत्युक्तं वेदपारगैः ।
दैवोपकृतयोगेन पूर्वकर्म्मकृतेन च ॥ १२.१९ ॥
आग्नेयी हूयते चेष्टी राज्ञाऽनलसमागमे ।
अग्नावाहवनीयेऽत्र रौद्रैर्मन्त्रैः सुतेजसैः ॥ १२.२० ॥
पातालादुत्थितो वह्णिर्युगान्ताग्निसमप्रभः ।
दग्धं गोमण्डलं कृत्स्नमयुतं ब्रह्मचारिणाम् ॥ १२.२१ ॥
भस्मीभूतं च तत्सर्वं मण्डपं पुरमेव हि ।
हरिकेशो विषण्णात्मा प्रवेष्टुं वै हुताशनम् ॥ १२.२२ ॥
आसनादुत्थितो राजा सान्तः पुरपरिच्छदः ।
अमात्यैः संवृतस्तावत्समयज्ञैर्बलोत्तरैः ॥ १२.२३ ॥
हाहाकारो महानासीत्त्रिषु लोकेषु भारत ।
उवाच वचनं राजा ब्राह्मणान् वेदपारगान् ॥ १२.२४ ॥
ब्राह्मणस्यैव हत्याया गवां चैव विशेषतः ।
अपि वर्षसहस्रेण निष्कृतिर्न विधीयते ॥ १२.२५ ॥
धेनूनां चैव वत्सानां ब्राह्मणानां यथागतिः ।
सा गतिर्मे भवेन्नित्यं सत्यमेतद्ब्रवीम्यहम् ॥ १२.२६ ॥
ब्राह्मण उवाच -
गच्छ त्वं महाभाग कल्पग्रामं पुरोत्तमम् ।
अगस्तिर्भगवान् यत्र कश्यपो भृगुरेव च ॥ १२.२७ ॥
भारद्वाजोऽत्रिगर्गौ च गौतमो मनुरेव च ।
याज्ञवल्क्यो वशिष्ठश्च ऋषयः शंसितव्रताः ॥ १२.२८ ॥
तत्र गत्वा महाराज प्रायश्चित्तं प्रगृह्यताम् ।
महर्षीणां मतेनैव वेदशास्त्रार्थदर्शिनाम् ॥ १२.२९ ॥
एवमुक्तो ययौ राजा पादचारी द्विजैः सह ।
विवेश नगरीं पुण्यां ब्रह्मलोकसमां नृपः ॥ १२.३० ॥
महर्षींस्तत्र तान् दृष्ट्वा सोऽभिवाद्य प्रणम्य च ।
निश्चयं चिरकालं तु तेषामेवाग्रत स्थितः ॥ १२.३१ ॥
ऋषय ऊचुः॒
स्वागतं ते नृपश्रेष्ठ फलं कर्मसहस्रशः ।
किमागमनकार्यं च सत्यमेतद्वदस्व नः ॥ १२.३२ ॥
तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् ।
कृताञ्जलिपुटो भूत्वा वृत्तान्तं स्वं न्यवेदयत् ॥ १२.३३ ॥
दैवाद्विपद्यते कार्यं संसिद्धमपि भो द्विजाः ।
दशाऽयुतं गवां दग्धं द्विजानामयुतं तथा ॥ १२.३४ ॥
अनुग्रहं बहु मन्ये प्रायश्चित्तमथोदितम् ।
ब्राह्मणा ऊचुः॒
दशलक्षाणि गायत्र्यास्तीर्थे तीर्थे जपं कुरुं ॥ १२.३५ ॥
अयुतं तु गवां दत्त्वा सहिरण्यं नृपोत्तम ।
कोटिहोमं तु कुर्वीत सहस्रशतदक्षिणम् ॥ १२.३६ ॥
प्रयागं च महातीर्थं गच्छेद्वाराणसीं शुभाम् ।
केदारं च तथेशानं गङ्गासागरसङ्गमम् ॥ १२.३७ ॥
पितृतीर्थं गयां चैव नैमिषं पुष्करं तथा ।
मायापुरीं हरिक्षेत्रं गङ्गाद्वारं महाफलम् ॥ १२.३८ ॥
तीर्थेष्वेतेषु चान्येषु यावद्द्वादशवत्सरान् ॥ १२.३९ ॥
अनेन क्रमयोगेन शुद्धिस्ते नात्र संशय ।
मुक्तिस्ते भविता राजन् ब्राह्मणानां प्रभावतः ॥ १२.४० ॥
दत्तं ते श्रुतिवाक्येन प्रायश्चित्तं द्विजोत्तमैः ।
पादपूजा द्विजेन्द्राणां कर्तव्या च विधानतः ॥ १२.४१ ॥
कुरुक्षेत्रं जगामाथ कर्तुं सोमसवं नृपः ।
विचिन्त्यैवं स्वाघन्यासं सरस्वत्यां समाश्रयत् ॥ १२.४२ ॥
जपति स्म शिवस्तोत्रं हरं विष्णुं सरस्वतीम् ।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ॥ १२.४३ ॥
कुरुक्षेत्रस्य नाम्नाऽपि नरः पापात्प्रमुच्यते ।
अखिलशब्दमहौषधप्रक्षालितसकलाभूतकलङ्का ।
मुनिभिरुपासिततीर्था सरस्वतीह हरतु मे दुरितम् ॥ १२.४४ ॥
राज्ञस्तद्वचनं श्रुत्वा प्राह पापहरा नदी ।
विषादं त्यज राजेन्द्र शृणु मे वचनं परम् ॥ १२.४५ ॥
उपदेशं प्रदास्यामि स्थातुं तव नृपोत्तम ।
अनेकभाविकं घोरं स्मरणादेव नश्यति ॥ १२.४६ ॥
ब्रह्महत्या सहस्रं तु गोहत्यालक्षमेव च ।
न च मोचयितुं शक्ता गङ्गा चैव सरिद्वरा ॥ १२.४७ ॥
चराचरेऽस्य लोकेऽस्मिन् कर्त्री तिष्ठति कल्पगा ।
दीपादित्यादिभिर्वीक्ष्य यथान्धत्व प्रणश्यति ॥ १२.४८ ॥
तथा नाशयते पापं कल्पगा सरितां वरा ।
दानैर्दग्धा पुरा चाहं क्षत्रियाणामनेकधा ॥ १२.४९ ॥
ग्रस्ताऽहं तेन पापेन नृपदक्षिणया ततः ।
शुक्लतः कृष्णतां चाहं प्राप्ता भो पृथिवीपते ॥ १२.५० ॥
द्वादशाऽब्दे चतुर्विंशे स्नानं कर्तुं समागमम् ।
ग्रस्ते वै राहुणा सूर्ये कोटितीर्थे नराधिपः ॥ १२.५१ ॥
प्रत्यक्षं मे शरीरं त्वं पश्य तेजः समुज्ज्वलम् ।
स्नात्वा तु शिवमभ्यर्च्य बहु स्वर्णं मखोत्तमम् ॥ १२.५२ ॥
कुरु तत्र नृपश्रेष्ठ तेन ते निष्कृतिर्भवेत् ।
ये मृता ब्राह्मणा गावस्तेषामस्थिप्रवाहनम् ॥ १२.५३ ॥
नर्मदोदकसम्पर्काद्दिवि देवत्वमाप्यते ।
तिलोदकप्रदानेन तेषां मुक्तिः परा भवेत् ॥ १२.५४ ॥
श्रुत्वैतत्कथितं वाक्यं सरस्वत्या नृपश्च ताम् ।
नमस्कृत्य समुत्थाय कन्यापुरमगात्ततः ॥ १२.५५ ॥
सान्तः पुरपरीवारो मुदा परमया नृपः ।
तेनाज्ञप्तास्ततो भृत्याः सर्वसम्भारसभृताः ॥ १२.५६ ॥
यज्ञोपस्करमादाय मेकला यत्र गच्छत ।
अस्थि भस्म यथान्यायं नीतं कर्मकरैस्ततः ॥ १२.५७ ॥
प्रावाहयत्कल्पगायां मन्त्रयुक्तेन वारिणा ।
अस्थ्यादि पूजयित्वा च यथा विधमनुत्तमम् ॥ १२.५८ ॥
देवांश्च ब्राह्मणांस्तत्र तर्पयित्वा कृताञ्जलिः ।
प्रवाहो निर्गतस्तत्र नर्मदायां समाविशत् ॥ १२.५९ ॥
स गाञ्जालेति विख्यातो नर्मदा सङ्गमो नृप ।
गाञ्जालसिद्धलिङ्गं च सूर्यकोटिसमप्रभम् ॥ १२.६० ॥
दिव्ययानसमारूढा दग्धाः कालाग्निना तु ये ।
आशीर्वादपरास्सर्वे हरिकेशं प्रतुष्टुवुः ॥ १२.६१ ॥
त्वत्प्रसादान्महाभाग दिवि देवत्वमागताः ।
देवदुन्दुभिनिर्घोषैर्वेणुवीणारवैस्तथा ॥ १२.६२ ॥
दिव्ययानसमारूढा गतास्ते वैष्णवं पदम् ।
हरिकेशो नृपश्रेष्ठः परया च मुदायुतः ॥ १२.६३ ॥
सप्तकल्पवहां देवीं नर्मदा लोकपावनीम् ।
नमस्कृत्य सरिच्छ्रेष्ठां स्तुतिं चक्रे समाहितः ॥ १२.६४ ॥
नमस्तेऽस्तु सरिच्छ्रेष्ठे सप्तकल्पनिवासिनि ।
यत्र तत्र नरः स्नात्वा मुक्तो भवति कल्मषात् ॥ १२.६५ ॥
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ।
जन्मान्तरसहस्रेण न त्वां स्तम्भयते बली ॥ १२.६६ ॥
जह्नुना हि पुरा पीता करतोयेन जाह्नवी ।
त्वया च पूरितं सर्वं विश्वं चैव चराचरम् ॥ १२.६७ ॥
त्वत्प्रसादात्महादेवि मुक्तिश्चापि भवार्णवात् ।
प्रत्यक्षा कल्पगैतच्च स्तोत्रं श्रुत्वा नृपोदितम् ॥ १२.६८ ॥
नर्मदोवाच -
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
तस्यास्तद्वचनं श्रुत्वा हरिकेशोऽब्रवीदिदम् ॥ १२.६९ ॥
यदि मे वरदादेवि पूतं मां परिकल्पय ।
स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि ॥ १२.७० ॥
सप्तजन्मकृतं पापं सद्य एव प्रणश्यतु ।
रेवोवाच -
एवमस्तु नृपश्रेष्ठ मत्प्रसादाद्भविष्यति ॥ १२.७१ ॥
एवमुक्त्वा ततो देवी तत्रैवान्तर धीयत ।
हरिकेशश्चक्रवर्ती साष्टाङ्गं प्रणिपत्य च ॥ १२.७२ ॥
कामिकं यानमारुह्य सर्वालङ्कारभूषितः ।
विवेश नगरं पुण्यं यथाशक्रोऽमरावतीम् ॥ १२.७३ ॥
कालान्तरे ततः प्राप्ते राज्यं कृत्वा सुरालये ।
सान्तः पुरपरीवारो भोगान् भुङ्क्ते स्म पुष्कलान् ॥ १२.७४ ॥
एतत्ते कथितं राजन्महाभाग विशाम्पते ।
द्वापरं वंशमैक्ष्वाकं ब्राह्मं वैवस्वतं तथा ॥ १२.७५ ॥
कापिलं पुष्करं चेति सप्तकल्पान् विदुर्बुधाः ।
कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम् ॥ १२.७६ ॥
ब्राह्मं रौचं च सावित्रं बार्हस्पत्यं प्रभासकम् ।
महेन्द्रमग्निकल्पं वैजयन्तं मारुतं तथा ॥ १२.७७ ॥
वैष्णवं ब्रह्मरूपं च ज्योतिषं च चतुर्दशम् ।
एते कल्पास्तु संख्याता न मृता येषु नर्मदा ॥ १२.७८ ॥
एतत्ते कथितं राजन्नितिहासं पुरातनम् ।
धन्यं यशस्यमायुष्यं महतां कीर्तिवर्द्धनम् ॥ १२.७९ ॥
श्रवणात्कीर्तनाद्वापि मुच्यते सर्वकिल्विषात् ॥ १२.८० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये गाञ्जालतीर्थवर्णनो नाम द्वादशोऽध्यायः ॥
अध्याय १३
मार्कण्डेय उवाच -
अथान्यत्परमं तीर्थं सर्वपापविनाशनम् ।
दिशि याम्यां समाख्यातं नाम्ना वै बालुकेश्वरम् ॥ १३.१ ॥
पुण्यं प्रकीर्तितं तत्र लिङ्गं परमसिद्धिदम् ।
तत्र स्नात्वा यथान्यायं हेमभारफलं लभेत् ॥ १३.२ ॥
शङ्कुकर्ण इति ख्यातो यक्षः परमसिद्धिदः ।
उत्तरायणमासाद्य कन्या रेवासमागमे ॥ १३.३ ॥
संजगाम नृपश्रेष्ठ शिवसंसक्तमानसः ।
मणिमाणिक्यरत्नानि ब्राह्मणार्थमकल्पयत् ॥ १३.४ ॥
तावन्नृपस्तु तं स्थानात्स्थाणुं चैव महेश्वरम् ।
चालयामास यक्षस्तु ततः क्रुद्धो महेश्वरः ॥ १३.५ ॥
ददाह हस्तौ यक्षस्य विस्मयाविष्टचेतसः ।
आकाशवचसा प्रोक्तं विषादं त्यज पुत्रक ॥ १३.६ ॥
सुरसङ्घास्त्रयस्त्रिंशत्नैनं चालयितुं क्षमाः ।
सुरासुरगुरून् देवं स्थाणुभूतं स्वयम्भुवम् ॥ १३.७ ॥
किं पुनर्दानवा यक्षमानुषाश्चाल्पचेतसः ।
क्षमयित्वा तु देवेशं शङ्कुकर्णो महेश्वरम् ॥ १३.८ ॥
सूर्यकोटिसमप्रख्यं ज्वलन्तं दीप्ततेजसम् ।
अज्ञानात्कृतमेतत्तु क्षन्तव्यं मयि पुत्रके ॥ १३.९ ॥
उवाच वचनं देवं वरं देहि महेश्वर ।
प्रसाद्य चाब्रवीद्यक्षस्तव भृत्यं वशं गतम् ॥ १३.१० ॥
गणत्वं गणमध्ये तु देहि हे सुरसत्तम ।
यक्षतीर्थमिति ख्यातं लिङ्गं वै बालुकेश्वरम् ॥ १३.११ ॥
कर्तुमर्हसि देवेश तीर्थेऽस्मिन् सचराचरैः ।
अयने चोत्तरे ह्यत्र स्नानदानमनुत्तमम् ॥ १३.१२ ॥
इमं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर ।
शङ्कर उवाच -
सर्वकाभफलावाप्तिर्मत्प्रसादाद्भविष्यति ॥ १३.१३ ॥
एवमुक्त्वा महेशानस्तत्रैवान्तर धीयत ।
शङ्कुकर्णो महातेजास्तीर्थस्यास्य प्रभावतः ॥ १३.१४ ॥
दिव्ययानं समारुह्य ययौ माहेश्वरं पुरम् ।
अथान्यत्परमं तीर्थं सर्वपापप्रणाशनम् ॥ १३.१५ ॥
दिशि याम्यां समाख्यातं नाम्ना पूर्णमनोरथम् ।
पुण्यकीर्तनलिङ्गं तु ब्रह्महत्याप्रणाशनम् ॥ १३.१६ ॥
तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।
हरिवर्मा पुरा चासीद्विराट्नगराधिपः ॥ १३.१७ ॥
सर्वधर्मगुणोपेतो यज्ञयाजी महायशाः ।
इष्टस्तत्र महायज्ञो येन वै कल्पगातटे ॥ १३.१८ ॥
गोलक्षं तत्र दत्तं च हेमभारपरिष्कृतम् ।
देवाश्च तार्पितास्तत्र ब्रह्माविष्णुर्बृहस्पतिः ॥ १३.१९ ॥
ब्राह्मणाः पूजिता भक्त्या नानारत्नविभूषिताः ।
प्रशशंसुश्च नृपतिं सुराः पूर्णमनोरथाः ॥ १३.२० ॥
अथान्यत्कथयिष्यामि तीर्थात्तीर्थमनुत्तमम् ।
रेवामत्स्यासमायोगे सुरासुरनमस्कृतम् ॥ १३.२१ ॥
नाभागस्य च संवादमापस्तम्बस्य चानघ ।
मन्वन्तरे चाक्षुषे वै संप्राप्ते द्वापरे युगे ॥ १३.२२ ॥
नाम्ना मत्स्येश्वरं लिङ्गं जलमध्ये व्यवस्थितम् ।
पूज्यते नागकन्याभिर्न तं पश्यन्ति मानुषाः ॥ १३.२३ ॥
महातेजो मणिमयं चन्द्रबिम्बसमप्रभम् ।
स्मरणाद्यस्य देवस्य ब्रह्महत्या प्रणश्यति ॥ १३.२४ ॥
युधिष्ठिर उवाच -
साधुभिः सह संवासात्के गुणाः परिकीर्तिताः ।
काः कथाः कानि पुण्यानि सङ्गमे साप्तकल्पगे ॥ १३.२५ ॥
मार्कण्डेय उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
नाभागस्य च संवादमापस्तम्ब तपोनिधेः ॥ १३.२६ ॥
महर्षिश्चात्मवान् पूर्वमापस्तम्बो द्विजोत्तमः ।
उपवासकृतारम्भो बभूव भगवांस्तथा ॥ १३.२७ ॥
नित्यं क्रोधं च कामञ्च लोभं मोहं विसृज्य च ।
रेवामत्स्यासमायोगे विवेश सलिलाशये ॥ १३.२८ ॥
स मत्स्यैः सलिलावर्ते सरितश्चानुगैस्तदा ।
तत्रान्योत्पतितैर्जालैः समानीतो महायशाः ॥ १३.२९ ॥
तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनन्दनम् ।
तं दृष्ट्वा तपसा दीप्तं कैवर्ता भयविह्वलाः ॥ १३.३० ॥
शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन् ।
अज्ञानात्क्रियमाणानामस्माकं क्षन्तुमर्हसि ॥ १३.३१ ॥
किं वा किं च प्रियं तेऽद्य तदाज्ञापय सुव्रत ।
स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम् ॥ १३.३२ ॥
कृपया परयाविष्टो दाशान् प्रोवाच दुःखितः ।
दुःखितानीह भूतानि यो न भूतैः पृथग्विधैः ॥ १३.३३ ॥
केवलात्म सुखेच्छातोऽवेन्नृशंसतरोऽस्ति कः ।
अहोऽस्वस्थेष्वकारुण्यं स्वआर्थे चैव बलिर्वृथा ॥ १३.३४ ॥
ज्ञानिनामपि चेद्यस्तु केवलात्महिते रतः ।
ज्ञानिनो हि यथा स्वार्थमाश्रित्य ध्यानमाश्रिताः ॥ १३.३५ ॥
दुःखार्तानीह भूतानि प्रयान्ति शरणं ततः ।
योऽभिवाञ्छति भोक्तुं वै सुखान्येकान् ततो जनः ॥ १३.३६ ॥
पापात्परतरं तं हि प्रवदन्ति मुमुक्षवः ।
को नु मे स्यादुपायो हि येनाहं दुःखितात्मनाम् ॥ १३.३७ ॥
अन्तःप्रविश्य भूतानां भवेयं सर्वदुःखभुक् ।
यन्ममास्ति शुभं किंचित्तद्दीनानुपगच्छतु ॥ १३.३८ ॥
यत्कृतं दुष्कृतं तैश्च तदशेषमुपैतु माम् ।
दृष्ट्वा तान् कृपणान् व्यङ्गाननङ्गान् रोगिणस्तथा ॥ १३.३९ ॥
दया न जायते यस्य स रक्ष इति मे मतिः ।
प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान् ॥ १३.४० ॥
यो न रक्षति शस्तोऽपि स तत्पापं समश्नुते ।
आहूतानां नयार्तानां सुखं यदुपजायते ॥ १३.४१ ॥
तस्य स्वर्गापवर्गौ च कलां नार्हन्ति षोडशीम् ।
तस्माच्चैतानहं दीनां छक्तुं मीनान् सुदुःखितान् ॥ १३.४२ ॥
यादृङ्मात्रं न पश्यामि किं पुनस्त्रिदशालयम् ।
निशम्यैतन्मुनेर्वाक्यं दाशास्ते जातसंभ्रमाः ॥ १३.४३ ॥
यथार्थं तु तथा सर्वं नाभागाय न्यवेदयन् ।
नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ॥ १३.४४ ॥
त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः ।
स सम्यक्पूजयित्वा तु देवकल्पं नृपस्ततः ॥ १३.४५ ॥
प्रोवाच भगवन् विद्वन् किं करोमि तवाज्ञया ।
आपस्तम्ब उवाच -
श्रमेण महताविष्टाः कैवर्ता दुःखजीविनः ॥ १३.४६ ॥
मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप ।
नाभाग उवाच -
सहस्राणि शतं मूल्यं निषादेभ्यो ददाम्यहम् ॥ १३.४७ ॥
निष्क्रयार्थं हि भगवन्नीतं ते ब्रह्मनन्दन ।
आपस्तम्ब उवाच -
नाहं शतसहस्रेण नियम्यः पार्थिव त्वया ॥ १३.४८ ॥
सदृशं दीयतां मूल्यममात्यैः सह चिन्तय ।
नाभाग उवाच -
कोटिं प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ॥ १३.४९ ॥
यद्येतदपि योग्यं नो ततो भूयः प्रदीयताम् ।
आपस्तम्ब उवाच -
राजन्नार्हा वयं कोटिमधिकं चापि पार्थिव ॥ १३.५० ॥
सदृशं दीयतां मूल्यं ब्राह्मणैः सह संवद ।
राजोवाच -
अर्द्धं राज्यं समस्तं वा निषादेभ्यः प्रदीयते ॥ १३.५१ ॥
एतन्मूल्यमहं मन्ये किं वालं मन्यसे द्विज ।
आपस्तम्ब उवाच -
अर्द्धं राज्यं समस्तं वा नाहमर्हामि वै नृप ॥ १३.५२ ॥
सदृशं दीयतां मह्यं ऋषिभिः सह चिन्तय ।
महर्षेस्तद्वचः श्रुत्वा नाभागस्तु विवादयन् ॥ १३.५३ ॥
चिन्तयामास धर्मात्मा सामात्यः सपुरोहितः ।
ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ॥ १३.५४ ॥
नाभागमब्रवीत्माभैः तोषयिष्यामि तं मुनिम् ।
राजोवाच -
ब्रूहि मूल्यं महाभाग मे ज्ञातिकुलबान्धवान् ॥ १३.५५ ॥
निर्दग्धवानृषिः क्रुद्धस्त्रैलोक्यं सचराचरम् ।
किं पुनर्मानवं दीनमत्यल्पं विषयात्मकम् ॥ १३.५६ ॥
लोमश उवाच -
त्वं समर्थो महाराज जगत्पूज्या द्विजोत्तमाः ।
गावश्च दिव्यास्तस्माद्वै मूल्यमस्मै प्रदीयताम् ॥ १३.५७ ॥
ततः श्रुत्वा तु वचनं स सामात्यपुरोहितः ।
हर्षेण महताविष्टः प्रोवाचेदं वचो मुनिम् ॥ १३.५८ ॥
उत्तिष्ठोत्तिष्ठ भगवन् कृतमेव न संशयः ।
एतद्योग्यतं मूल्यं भवतो मुनिसत्तम ॥ १३.५९ ॥
आपस्तम्ब उवाच -
उत्तिष्ठाम्येव संप्रीत्या सम्यक्क्रीतोऽस्मि पार्थिव ।
गोभ्यो मूल्यं न पश्यामि पवित्रं पापनाशनम् ॥ १३.६० ॥
गावः प्रदक्षिणी कार्य्या वन्दनीया हि नित्यशः ।
मङ्गलायतन दिव्यास्सृष्टास्त्वेताः स्वयम्भुवा ॥ १३.६१ ॥
अप्यागाराणि विप्राणां देवतायतनानि च ।
यद्गोमयेन शुद्ध्यन्ति किं ब्रूमो ह्यधिकं ततः ॥ १३.६२ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ।
गवां पञ्च पवित्राणि पुनन्ति सकलं जगत् ॥ १३.६३ ॥
गावो मे चाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे हृदये चैव गवां मध्ये वसाम्यहम् ॥ १३.६४ ॥
एव यः पठते नित्यं त्रिसन्ध्यं नियतः शुचिः ।
मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १३.६५ ॥
अग्रे ग्रासपरो भावः कर्तव्यो भक्तितोऽन्वहम् ।
अकृत्वा स्वयमाहारं कुर्वन्नाप्नोति दुर्गतिम् ॥ १३.६६ ॥
तेनाग्नयो हुतास्सम्यक्पितरश्चापि तार्पिताः ।
देवाश्च पूजितास्तेन यो ददाति गवाह्निकम् ॥ १३.६७ ॥
मन्त्रः
सौरभेयी जगत्पूज्या नित्य विष्णुपदे स्थिता ।
सर्वदेवमयी ग्रासं मया दत्तं प्रतीक्षताम् ॥ १३.६८ ॥
रक्षणाद्ब्रह्मपुत्राणां गवां कण्डूयनात्तथा ।
क्षीणार्तरक्षणाच्चैव ततः स्वर्गे महीयते ॥ १३.६९ ॥
आदिर्हि गावो यज्ञस्य मध्यं चान्त्यं प्रकीर्तिताः ।
क्षरन्ति तास्तु सकलं क्षीराज्यममृतं तथा ॥ १३.७० ॥
तस्माद्गावः प्रदातव्याः पूजनीया हि नित्यशः ।
स्वर्गस्य सङ्गमायैतास्सोपानं हि विनिर्मिताः ॥ १३.७१ ॥
एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्तमम् ।
प्रणिपत्य महाभागमापस्तम्बमथाब्रुवन् ॥ १३.७२ ॥
निषादा ऊचुः॒
सम्भाषा दर्शनस्पर्शवर्णनं कीर्तनं तथा ।
पावनानि समस्तानि साधूनामिति नः श्रुतम् ॥ १३.७३ ॥
सम्भाषा दर्शनं चैवमिहास्माभिः कृतं द्विज ।
कुरुष्वानुग्रहं तस्मात्त्वां वयं शरणं गताः ॥ १३.७४ ॥
आपस्तम्ब उवाच -
एतां गां प्रतिगृह्णन्तु ततस्ते मुक्तकिल्बिषाः ।
निषादाश्च गताः स्वर्गं सह मत्स्यैर्जलोद्भवैः ॥ १३.७५ ॥
प्राणिनां प्रीतिमुत्पाद्य निन्दितेनाऽपि कर्मणा ।
नरकं यदि पश्यामि वत्स्यामि स्वर्गमेव वा ॥ १३.७६ ॥
यन्मया सुकृतं किंचिन्मनोवाक्कायकर्मभिः ।
कृत तेनापि दुःखार्ताः सर्वे यान्तु शुभां गतिम् ॥ १३.७७ ॥
ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः ।
निषादास्तेन वाक्येन सह मत्स्या दिवं गताः ॥ १३.७८ ॥
तान् दृष्ट्वा अथ गतान् स्वर्गं समत्स्यान्मत्स्यजीविनः ।
सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ १३.७९ ॥
सेव्याः श्रेयोऽर्थिभिः सन्तः तीर्थं पुण्यं जलोत्तमम् ।
क्षणोपासनमप्यत्र न तेषां निष्कलं भवेत् ॥ १३.८० ॥
सद्भिस्सह समासीत सद्भिः कुर्वीत सत्कथाम् ।
आपस्तम्बो मुनिस्तत्र लोमशश्च महातपा ॥ १३.८१ ॥
पदैस्तु विविधैरिष्टैर्बोधयामास तु नृपम् ।
ततः संधारयामास धर्मबुद्धिं सुदुर्लभाम् ॥ १३.८२ ॥
तथेति कृत्वा चोक्त्वा च नृपं तं प्रशशंसतुः ।
अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरामतिः ॥ १३.८३ ॥
धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ।
यदि राज्यमदाविष्टः स्वधर्मं न परित्यजेत् ॥ १३.८४ ॥
ततो जगति कस्तस्मात्पुनरभ्यधिको भवेत् ।
ध्रुवं धर्मश्च राज्यं वै मोहश्चैव सदा ध्रुवः ॥ १३.८५ ॥
महाध्रुवश्च नरको राज्यं निन्दन्ति ते बुधाः ।
राज्यं हि मन्यते मूढो नरो विषयलोलुपः ॥ १३.८६ ॥
मनीषिणस्तु पश्यन्ति सदैव नरकोपमम् ।
तस्माच्छोकश्च मोहश्च न कर्तव्यो मदस्त्वया ॥ १३.८७ ॥
यदीच्छसि महाराज शाश्वतीं गतिमात्मनः ।
मार्कण्डेय उवाच -
इत्युक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ॥ १३.८८ ॥
नाभागोऽपि वरं लब्ध्वा प्रहृष्टस्त्वविशत्पुरम् ।
एतत्ते कथितं राजन् ये गणाः सत्समागमे ॥ १३.८९ ॥
माहात्म्यं वै गवां तद्वत्किं भूयः श्रोतुमिच्छसि ।
रेवामत्स्यासमायोगे गवां माहात्म्यमुत्तमम् ॥ १३.९० ॥
तत्र स्नात्वा महाराज मत्स्येश्वरमथाऽर्चय ।
आपस्तम्बो महाभागो निषादा मत्स्यजीविनः ॥ १३.९१ ॥
मत्स्यैः सह गताः स्वर्गं तीर्थस्यास्य प्रभावतः ।
दिव्यकान्तिधराः सर्वे लोके क्रीडन्ति वैष्णवे ॥ १३.९२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मत्स्येश्वरतीर्थवर्णनोनाम त्रयोदशोऽध्यायः ॥
अध्याय १४
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि तीर्थं पापविमोक्षणम् ।
मत्स्यायाः शुभताप्याश्च सङ्गमे सुरसेवितम् ॥ १४.१ ॥
देवो मत्स्येश्वरो नाम नागकन्याभिरर्चितः ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १४.२ ॥
पञ्चवक्त्रास्त्रिनेत्राश्च मत्स्यतीर्थप्रभावतः ।
कलहंस इति ख्यातो देवर्षिर्ध्यानतत्परः ॥ १४.३ ॥
तस्याश्रमं परं रम्यं ब्रह्मर्षि विनिषेवितम् ।
शाकमूलफलाहारो जपध्यानपरायणः ॥ १४.४ ॥
सोऽतिष्ठदयुतं सार्द्धमेकपादेन भारत ।
शिवध्यानपरो भूत्वा सर्वभूतहिते रतः ॥ १४.५ ॥
ततस्तु ध्यानयोगेन तस्य देवः शतक्रतुः ।
चकम्पे तपसा चासौ देवराजो भविष्यति ॥ १४.६ ॥
हरिष्यति न सन्देहो पुरीं चैवामरावतीम् ।
ब्राह्मणश्च सुरेशानः कुब्जो वामनरूपधृक् ॥ १४.७ ॥
जगाम वृद्धरूपेण कलहंसाश्रमं प्रति ।
उवाच वचनं शक्रो ब्राह्मणं तपसि स्थितम् ॥ १४.८ ॥
किमर्थं तपसे शीघ्रं काममेतद्ब्रवीहि मे ।
आराधयसि कं देवं सत्यमेतत्तपोधन ॥ १४.९ ॥
संहृत्य तपसा योगं प्रहसन्नब्रवीद्वचः ।
जानामि त्वां महाभाग शक्रस्त्वं त्रिदशेश्वरः ॥ १४.१० ॥
न कामयेऽहमिन्द्रत्वं राज्यं कुरु यथेप्सितम् ।
आराधयाम्यहं देवं नान्यं देवं कथञ्चन ॥ १४.११ ॥
एतच्छ्रुत्वा वचस्तस्य महर्षेरब्रवीद्वृषः ।
वरं वृणु महाभाग यथा द्रक्ष्यसि शङ्करम् ॥ १४.१२ ॥
कलहंस उवाच -
विनाऽहं त्र्यम्बकं याचे नान्याद्देवादहो वरम् ।
विजयी भव शक्र त्वं नान्यं वृणे वरं त्वहम् ॥ १४.१३ ॥
एवमुक्तो ययौ शक्रः सर्वकामसमन्वितः ।
ज्ञात्वा तस्य परां भक्तिं देवदेवो महेश्वरः ॥ १४.१४ ॥
अदर्शयदथात्मानं नीलकण्ठं त्रिलोचनम् ।
दृष्ट्वा रूपं महेशस्य साष्टाङ्गं प्रणिपत्य च ॥ १४.१५ ॥
कलहंसो मुनिश्रेष्ठः स्तोतुं समुपचक्रमे ।
नमोऽस्तु ते महादेव नीलकण्ठत्रिलोचन ॥ १४.१६ ॥
नमः शिवाय शान्ताय शूलहस्त नमोऽस्तु ते ।
नमः शिवाय शम्भवायाऽनाथाय नमो नमः ॥ १४.१७ ॥
त्र्यम्बकाय महादेवेत्यादि नामादिभिःस्तुत ओं नमो देवाय शम्भवाय भूर्भुवः स्वः ।
सोमरुद्रध्वान्तसूर्याय नमो रुद्राग्नये नमः ॥ १४.१८ ॥
नमः शम्भो पञ्चवक्त्र महाशिव नमोऽस्तु ते ।
स्वयम्भूवन पाताल नीलकण्ठ नमोऽस्तु ते ॥ १४.१९ ॥
ब्रह्मशर्वसुरेशानहरिहराय नमो नमः ।
ज्ञानशक्तिक्रियाशक्तिचराचर नमोऽस्तु ते ॥ १४.२० ॥
हाटकाय नमस्तुभ्यमुमानाथ नमोऽस्तु ते ।
ब्रह्मविष्णुमहेशाय सर्वज्ञाय नमो नमः ॥ १४.२१ ॥
सद्योजातस्तथा घोरस्तत्पुरुषाय नमो नमः ।
त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ १४.२२ ॥
आदिमध्यान्तरूपाय कलिकाल नमोऽस्तु ते ।
उमाकान्तार्धदेहाय श्रीकण्ठोरगभूषण ॥ १४.२३ ॥
अनन्तगणरूपाय नागयज्ञोपवीतिने ।
शब्दः स्पर्शश्च गन्धश्च रसो रूपं च पञ्चमम् ॥ १४.२४ ॥
बुद्धिर्मनस्त्वहङ्कारो ह्यष्टमूर्ते नमोऽस्तु ते ।
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ॥ १४.२५ ॥
गभस्तिमांश्च त्वं कालो मृत्युर्धाता प्रकाशकः ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १४.२६ ॥
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ।
इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिर्जनेश्वरः ॥ १४.२७ ॥
कलास्ते विष्णुब्रह्माद्या वेदो वैश्रवणो यमः ।
कलाकाष्ठामुहूर्ताश्च पक्षमासर्तवस्तथा ॥ १४.२८ ॥
संवत्सरस्त्वमेवासि कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगो व्यक्ताव्यक्तः सनातनः ॥ १४.२९ ॥
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः शीतभारश्च जीमूतो जीवनोऽरिहा ॥ १४.३० ॥
भूतो यज्ञो भूतपतिर्लोकपालैर्निषेवितः ।
मनः सुपर्णो भूतादिः सदाशिव नमोऽस्तु ते ॥ १४.३१ ॥
जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ।
ब्रह्मविष्ण्वादिभिर्देवैर्यस्यान्तो नैव लभ्यते ॥ १४.३२ ॥
भवसागरमग्नानां कः स्तोतुं शक्तिमान् भवेत् ।
अज्ञानाञ्ज्ञानतो वाऽपि शूलपाणे क्षमस्व तत् ॥ १४.३३ ॥
मार्कण्डेय उवाच -
श्रुत्वा स्तोत्रमिदं देवः कलहंसस्य भारत ।
वरं वृणु महाप्राज्ञप्रीतः स्तोत्रेण तेऽनघ ॥ १४.३४ ॥
कलहंस उवाच -
यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि ।
कलहंसेश्वरं नाम तीर्थलिङ्गं सुरेश्वर ॥ १४.३५ ॥
अक्षया देवदेवाऽत्र होमदानबलिक्रियाः ।
अत्राक्षयं कृतं सर्वं त्वत्प्रसादात्महेश्वर ॥ १४.३६ ॥
शिवाज्ञा वर्तते तेऽत्र नरः स्वर्गमवाप्नुयात् ।
उत्क्रान्तिं कुरुते यस्तु अवशः स्ववशोऽपि वा ॥ १४.३७ ॥
स्तवेनानेन य स्तौतियस्त्वा स्तोष्यति शङ्कर ।
ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥ १४.३८ ॥
तीर्थस्यास्य प्रभावेण सर्वे यान्तु शिवालयम् ।
इदं वरमहं मन्ये सर्वकामसमृद्धये ॥ १४.३९ ॥
ईश्वर उवाच -
यं यं कामयते कामं त्रैलोक्ये सचराचरे ।
मत्प्रसादान्न सन्देह सर्वमेतद्भविष्यति ॥ १४.४० ॥
एवमुक्त्वा ययौ देवः कैलासनिलयं नृप ।
कलहंसोऽथ मुनिभिर्ब्रह्मिष्ठैः सजितेन्द्रियः ॥ १४.४१ ॥
वर्षायुतानि साग्राणि भुङ्क्ते भोगाञ्छिवालये ।
दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ १४.४२ ॥
वेणुवीणानिनादेन सर्वालङ्कारभूषितः ।
दश वर्षसहस्राणि तथैव शिवसन्निधौ ॥ १४.४३ ॥
दक्षिणोत्तरदिग्भागपञ्चक्रोशप्रमाणतः ।
स्नानात्तत्र दिवं याति म्रियते विबुधो भवेत् ॥ १४.४४ ॥
एतत्ते कथितं राजन् कलहंसस्य कीर्तनम् ।
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ १४.४५ ॥
कलहंसस्य चाख्यानान्न सीदन्ति कलौ जनाः ।
पुत्रदारावृतानाघ मायामोहसमन्विताः ।
आख्यानसहितं देवं कर्मणा मनसा गिरा ॥ १४.४६ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे शिवमहिमवर्णनो नाम चतुर्दशोऽध्यायः ॥
अध्याय १५
युधिष्ठिर उवाच -
भूयश्चेच्छाम्यहं श्रोतुं नर्मदाकीर्तनं शुभम् ।
आख्यानसहितं देव विदितं वद साम्प्रतम् ॥ १५.१ ॥
मार्कण्डेय उवाच -
शृणु राजेन्द्र तीर्थं वै शिवेन कथितं पुरा ।
कामदं मोक्षदं चैव यज्ञदानप्रभावतः ॥ १५.२ ॥
रेवाया उत्तरे कूले कपिलासंगमात्परम् ।
वैदूर्यात्पश्चिमे भागे विख्यातं नर्मदापुरम् ॥ १५.३ ॥
अर्धकोटिस्तु तीर्थानां महादेवेन भारत ।
शतमष्टोत्तर तत्र लिङ्गानां परिकीर्तितम् ॥ १५.४ ॥
यत्र वै वसुरुद्रैश्च ब्रह्माद्यैश्च सुरासुरैः ।
सिद्धगन्धर्वयक्षैश्च विद्याधरमहोरगैः ॥ १५.५ ॥
वेदध्वनि निनादेन व्याप्तमस्ति चराचरम् ।
यत्राग्निर्हुत होमेन त्रिदिवं पर्यपूरयत् ॥ १५.६ ॥
देवर्षयो महाराज तथा ब्रह्मर्षयः परे ।
आसन् राजर्षयस्तत्र तापसा व्यवसायिनः ॥ १५.७ ॥
ब्राह्मणाश्च वसन्ति स्म मनसा ब्रह्मचिन्तनाः ।
आश्रमं जमदग्नेश्च ऋषिकोटिसमावृतम् ॥ १५.८ ॥
कश्यपो गालवो गर्गो बादरायणशाकटौ ।
अत्रिश्चैव वशिष्ठश्च पुलस्त्य पुलहः क्रतुः ॥ १५.९ ॥
भृगुश्चैव मरीचिश्च भारद्वाजो महातपाः ।
शाकल्य ऋष्यशृङ्गश्च मनुर्विष्णुर्यमोऽङ्गिराः ॥ १५.१० ॥
वाशिष्ठदक्षौ संवर्तः शातातपपराशरौ ।
आपस्तम्बः शुको व्यासाः कात्यायनबृहस्पती ॥ १५.११ ॥
हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः ।
अगस्त्यः पावकाख्यश्च दुर्वासा उग्रतापसः ॥ १५.१२ ॥
शतानन्दस्तथा जह्नुर्वैशम्पायनजैमिनी ।
लोमशश्च विहङ्गश्च शौनको हरिरेव च ॥ १५.१३ ॥
एते चान्येऽपि मुनयो बहवः संशितव्रताः ।
ज्वलन्तस्तपसा तत्र सूर्यतेजः समप्रभाः ॥ १५.१४ ॥
चतुर्विद्यावेदविदः श्रुतिस्मृतिविशारदाः ।
संवत्सरकृताहारा अपाहारकरास्तथा ॥ १५.१५ ॥
मासोपवासिनश्चान्ये तथा पक्षोपवासिनः ।
शाकाहारानिराहाराः तथाऽन्ये मारुताशनाः ॥ १५.१६ ॥
कन्दमूलफलाहारा महात्मानस्तथा परे ।
इतिहासपुराणादि नानाशास्त्रविचिन्तकाः ॥ १५.१७ ॥
मोक्षोपायधृतात्मानो मौनिकाश्च न मौनिकाः ।
एकपादार्द्धपादाश्च भूमौ कारणभोजिनः ॥ १५.१८ ॥
आख्यानं कथयिष्यामि नर्मदापुरवासिनाम् ।
जमदग्निस्तु निवसन्मुनिः शिवपरायणः ॥ १५.१९ ॥
नर्मदासङ्गमे स्नात्वा तत्राभ्यर्च्यमहेश्वरम् ।
विविधैर्गन्धपुष्पैश्च तथाऽगुरुमनोहरैः ॥ १५.२० ॥
दक्षिणामूर्तिमाश्रित्य जपन्नासीत्तथा मुनेः ।
मासं च जपतस्तस्य देवदेवो महेश्वरः ॥ १५.२१ ॥
सिद्धेश्वरं नाम लिङ्गं सिद्धा यत्र सुरासुराः ।
उवाच वचनं देवो ब्राह्मणं प्रति भारत ॥ १५.२२ ॥
तुष्टोऽहं तव भक्त्या तु रुद्रजाप्येन तोषितः ।
जमदग्निरुवाच -
यदि तुष्टो महादेव वरं दातुं ममेच्छसि ॥ १५.२३ ॥
होमार्थं चैव धेनुं मे ददस्व परमेश्वर ।
धर्मकर्मशुभार्थेषु शिवपूजासु तर्पणे ॥ १५.२४ ॥
पितृकार्ये देवकार्ये गावः पुण्यतमाः स्मृताः ।
एतस्मात्कारणादीश होमधेनुं प्रयच्छ मे ॥ १५.२५ ॥
दत्ता चैव महाभाग सर्वकामसमृद्धये ।
एवमुक्त्वा ददौ राजंस्तत्रैवान्तरधीयत ॥ १५.२६ ॥
यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोत्यसौ ततः ।
ऋषीणां च सहस्राणि कामैर्भोजयते द्विजः ॥ १५.२७ ॥
हिरण्मयैः स्वर्णपात्रैर्नानाभक्ष्यैर्यथेच्छया ।
कीर्तिर्ब्रह्मर्षिभिर्मान्यैः सर्वैः सुरगणैस्तथा ॥ १५.२८ ॥
जमदग्नेर्मुनीन्द्रस्य आश्रमे चोपवृंहिता ।
एतावति गते काले कार्तवीर्यो नृपोत्तमः ॥ १५.२९ ॥
माहिष्मतीं परित्यज्य स्वर्गसोपानमुत्तमम् ।
एकस्मिन् दिवसे राजा मृगयां च समाश्रितः ॥ १५.३० ॥
विन्ध्यं गिरिमनुप्राप्तो रेवातीरं समाश्रितः ।
हत्वा पशुसहस्राणि जमदग्न्याश्रमं गतः ॥ १५.३१ ॥
देह्येतां मां निजायोग्यां गां जगाद मुनिं प्रति ।
कार्तवीर्यवचः श्रुत्वा जमदग्निर्भयाकुलः ।
चिन्तयामास सुचिरं किमेतदिति विस्मितः ॥ १५.३२ ॥
धर्मो ह्यधर्मरूपेण कर्मभिः पुण्यसंचितैः ।
अधर्मो धर्मफलदो गहना कर्मणो गतिः ॥ १५.३३ ॥
इति चिन्तयतस्तस्ये न किंचिद्ब्रुवतो मुनेः ।
अपहृत्य बलाद्धेनुं घातयित्वा च तं मुनिम् ॥ १५.३४ ॥
स्थानान्निरगमत्तस्मात्कार्तवीर्यो नृपाधमः ।
कशादिभिस्ताडिता तु होमधेनुर्मुहुर्मुहुः ॥ १५.३५ ॥
शापं दत्त्वा ततस्तस्य पुनर्धेनुर्दिवङ्गता ।
करिष्यते कुलान्तं च रैणुकेयो नृपाधम ॥ १५.३६ ॥
हाहाकारो महानासीलोकानां च युधिष्ठिर ।
दुराचारस्ततः कोऽयं ब्राह्मणानां च कोपकृत् ॥ १५.३७ ॥
अथ श्रुत्वा महादेवो भार्गवः पितृसूतकम् ।
सहसैवागतः कोपात्समिधोऽग्निरिव ज्वलन् ॥ १५.३८ ॥
निहतं पितरं दृष्ट्वा कोपाद्द्विगुणविक्रमः ।
जगाम सहसोत्थाय पुरीं माहिष्मतीं प्रति ॥ १५.३९ ॥
कार्तवीर्यार्जुनं दृष्ट्वा क्रुद्धः प्रोवाच भार्गवः ।
तिष्ठ तिष्ठ क्व गन्तासि निहत्य पितरं मम ॥ १५.४० ॥
इत्युक्त्वाऽदाय परशुं चिच्छेद च भुजावनम् ।
शिरसैव समं कोपात्क्षत्रियान्तकरो मुनिः ॥ १५.४१ ॥
हते तस्मिन्महावीर्ये कार्तवीर्ये दुरात्मनि ।
देवदुन्दुभयोनेदुः पुष्पवृष्टिः पपात च ॥ १५.४२ ॥
तत्कोपादकरोत्सर्वां निःक्षत्रां पृथिवीं तदा ।
प्रतिज्ञां सफलीकृत्य स जगाम तमाश्रमम् ॥ १५.४३ ॥
मातरं च नमस्कृत्य ततश्चान्यान्मुनीश्वरान् ।
देवं परशुरामेशं संस्थाप्य विधिपूर्वकम् ॥ १५.४४ ॥
विशोकैरण्डिका चैव तृतीया पावनी तथा ।
पितुश्चकार तत्रैव सहसैवोत्तरां क्रियाम् ॥ १५.४५ ॥
देवद्रोणीति विख्याता तत्रास्ते कपिला शिला ।
तत्र पिण्डप्रदानेन दिवं गच्छन्ति पूर्वजाः ॥ १५.४६ ॥
एतत्ते कथितं राजन्नर्मदापुरमुत्तमम् ।
श्रवणात्कीर्तनात्तस्य दिवि देवत्वमाप्यते ॥ १५.४७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कार्तवीर्याख्याने पञ्चदशोऽध्यायः ॥
अध्याय १६
मार्कण्डेय उवाच -
अथान्यं संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् ।
बृहत्या नर्मदायास्तु सुरासुरनिषेवितम् ॥ १६.१ ॥
नानाद्रुमलताकीर्णं विन्ध्यपर्वतसेवितम् ।
चम्पकैर्बकुलैर्युक्तमशोकैः स्तबकैरपि ॥ १६.२ ॥
पुन्नागैः किङ्किरातैश्च सुगन्धैर्नागकेशरैः ।
मल्लिकोत्पलजातीभिः पाटलैः पारिजातकैः ॥ १६.३ ॥
आम्रजम्बूकपित्थैश्च श्रीफलैः पनसैस्तथा ।
खर्जूरैर्बदरीभिश्च दाडिमैर्बीजपूरकैः ॥ १६.४ ॥
अरुष्करैः क्षीरवृक्षैर्नारङ्गैरुपशोभितैः ।
भरणायात्मवर्गस्य संविधाय वनेचरः ॥ १६.५ ॥
मुखगण्डूषसलिलं शिवाय स समाहरत् ।
अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ ॥ १६.६ ॥
वासरे वासरे चैव निषादो धर्मतत्परः ।
सौम्यायने च चक्षुर्वै दत्त्वा सौम्यं तथात्मनः ॥ १६.७ ॥
एवं सम्पूजयामास त्र्यम्बकं विधिपूर्वकम् ।
एतत्ते कथितं राजन् कल्पगा नेत्रसङ्गमम् ॥ १६.८ ॥
युधिष्ठिर उवाच -
भगवन् छ्रोतुमिच्छामि महाकौतूहलं हि मे ।
संजातो मुनिशार्दूल स कथं नेत्रसङ्गमः ॥ १६.९ ॥
मार्कण्डेय उवाच -
एकस्मिन् वासरे प्राप्ते व्यतीपाते च संक्रमे ।
स पुष्पभारमादाय प्रविवेश शिवालये ॥ १६.१० ॥
तृतीयमीक्षणं तत्र देवस्य च न पश्यति ।
तदा तु चिन्तयामास विस्मयाविष्ट चेतनः ॥ १६.११ ॥
केनापहृतमेतस्य नेत्रं देवस्य पाप्मना ।
इत्युक्त्वा च स्वकं नेत्रं तीक्ष्णबाणेन भारत ॥ १६.१२ ॥
ललाटे देवदेवस्य उत्कृत्य संन्यवेशयत् ।
न कम्पो न च कार्पण्यं नाऽन्यथा तस्य मानसम् ॥ १६.१३ ॥
ततस्तुष्टः सुरेशानो निषादं प्रति भारत ।
प्रहसन्न ब्रवीद्देवो वरं वृणु यथेप्सितम् ॥ १६.१४ ॥
शिवप्रसादसम्पन्ना बुद्धिरन्या प्रचक्रमे ।
मार्कण्डेय उवाच -
श्रुत्वा तु वचनं शम्भोः साष्टाङ्गं प्रणिपत्य सः ॥ १६.१५ ॥
यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि ।
निषादास्त इमे सर्वे मृगपक्षिगणैः सह ॥ १६.१६ ॥
सपुत्रदारपशवो ये चान्ये पापयोनयः ।
त्वत्प्रसादान्महेशान शिवलोकं प्रयान्तु ते ॥ १६.१७ ॥
एतद्वरमहं मन्ये भूतानां हितकाम्यया ।
एतच्छ्रुत्वा वचस्तस्य निषादाधिपतेः शिवः ॥ १६.१८ ॥
उवाच सर्वकामाप्तिं मत्प्रसादात्त्वमाप्स्यसि ।
एवमुक्त्वा शिवो राजंस्तत्रैवान्तरधीयत ॥ १६.१९ ॥
दिव्ययानसमारूढो निषादोऽनुचरैः सह ।
धृतस्वर्णातपत्रं तु वीज्यमानोऽप्सरोगणैः ॥ १६.२० ॥
दिव्याभरणशोभाढ्यः सर्वालङ्कारभूषितः ।
दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः ॥ १६.२१ ॥
सुरासुरैः स्तूयमानो वेणुवीणापुरस्सरः ।
प्रायाच्छिवपुरं क्षिप्रं तीर्थस्यास्य प्रभावतः ॥ १६.२२ ॥
एतत्ते कथितं राजन् छिवनेत्रह्रदाश्रितम् ।
अनेकशतसंख्याताः पापयोनिरता नराः ॥ १६.२३ ॥
नर्मदाशिवसंयोगे संसिद्धिं परमां गताः ।
अवश स्ववशो वाऽपि यस्तु प्राणान् परित्यजेत् ॥ १६.२४ ॥
वसेद्वर्षसहस्राणि उमामाहेश्वरे पुरे ।
श्रवणात्कीर्तनाच्चापि मुच्यते भवबन्धनात् ॥ १६.२५ ॥
धन्यास्ते पुरुषा राजन् ये म्रियन्ते शिवायने ।
न तेषां गर्भभूतिश्च जन्म चैव युधिष्ठिर ॥ १६.२६ ॥
पुत्रदारपरिग्रस्ता मोहजालसमावृताः ।
कल्पगां तु न पश्यन्ति पापोपहतचेतसः ॥ १६.२७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये ह्रदाख्यानं नाम षोडशोऽध्यायः ॥
अध्याय १७
मार्कण्डेय उवाच -
अथान्यत्परमं तीर्थं कथ्यमानं निबोध मे ।
सहस्रयज्ञं विख्यातं त्रिषु लोकेषु विश्रुतम् ॥ १७.१ ॥
तत्र स्नात्वा च जप्त्वा च पूजयित्वा महेश्वरम् ।
न तस्य पुनरावृत्तिर्घोरे संसारसागरे ॥ १७.२ ॥
कथयामि तवाख्यानमितिहासं पुरातनम् ।
ताराबलिर्नाम नागः कम्बलाश्वतरौ तथा ॥ १७.३ ॥
श्वेतोरगास्तथा चान्ये भुजङ्गाश्च तथाऽपरे ।
नागेश्वरं तेऽर्चयन्ति नानापुष्पविलेपनैः ॥ १७.४ ॥
नागपूगाः समासाद्य पूजयन्ति महेश्वरम् ।
गर्गोऽघमर्षणश्चैव च्यवनः शौनकोऽङ्गिराः ॥ १७.५ ॥
एते चान्येऽपि बहवो ब्रह्मविद्याङ्गपारगाः ।
नागानां चाश्रमं हर्तुं तत्र सर्वे ह्युपस्थिताः ॥ १७.६ ॥
ततस्तैः कुपितैर्नागैर्दष्टाश्चैव द्विजोत्तमाः ।
विषाघ्रातान्मुनीन् दृष्ट्वा कुपितश्चाघमर्षणः ॥ १७.७ ॥
वाहनं वासुदेवस्य पक्षिराजं समाह्वयत् ।
तत्क्षणादागतः पक्षी गरुडः क्रोधमूर्छितः ॥ १७.८ ॥
कृताञ्जलिपुटो भूत्वा ब्राह्मणं चेदमब्रवीत् ।
भुजङ्गान् भक्षयिष्यामि ब्राह्मणा निर्विषास्ततः ॥ १७.९ ॥
ब्रह्मशापभयार्तेन गरुडेन विषोल्बणाः ।
भक्षिताः पन्नगाः सर्वे मोचिता मुनयो विषात् ॥ १७.१० ॥
पक्षीन्द्रे च गते स्थाने भक्षयित्वा भुजङ्गमान् ।
अवशिष्टास्तु ये नागा विविशुस्ते रसातलम् ॥ १७.११ ॥
आप्लवे च सुसंप्राप्ते प्रवाहो नार्मदः क्षणात् ।
अस्थीनि स्रावयामास ततो नागा दिवं ययुः ॥ १७.१२ ॥
सर्पयोनिं परित्यज्य लोके क्रीडन्ति शाम्भवे ।
नागेश्वरस्य रेवायाः सम्पर्कात्पापमोक्षणम् ॥ १७.१३ ॥
तत्र नागह्रदश्चास्ते त्रिषु लोकेषु विश्रुतः ।
तत्र स्नातो दिवं याति यो नागेश्वरमर्चयेत् ॥ १७.१४ ॥
अयं ते कथितो राजन्नितिहासः पुरातनः ।
श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ १७.१५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नागेश्वराख्यानं नाम सप्तदशोऽध्यायः ॥
अध्याय १८
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि तीर्थं च जनकोत्तमम् ।
रेवाया उत्तरे कूले सर्वसिद्धिप्रदायकम् ॥ १८.१ ॥
अश्वमेधं तु तत्रैव शतमेधं तथापरम् ।
सहस्रमेधं विज्ञेयं सुरासुरनमस्कृतम् ॥ १८.२ ॥
लक्षमेधं तथा चान्यं शिवेन परिकीर्तितम् ।
जनको नाम राजर्षिर्यत्रेष्ट्वा त्रिदिवं ययौ ॥ १८.३ ॥
स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां च नराधिप ।
पुरोधसं याज्ञवल्क्यं ब्रह्मर्षिं ब्रह्मवित्तमम् ॥ १८.४ ॥
कश्यपस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् ।
सिद्धगन्धर्वगीताढ्यं वेदध्वनिनिनादितम् ॥ १८.५ ॥
युक्तं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभम् ।
धनदस्य पुरी यद्वदलका देवनिर्मिता ॥ १८.६ ॥
तद्वच्च शोभितं नानामुनि वृन्द निषेवितम् ।
कामधेनूस्तथा दिव्याः शतसंख्याः पयस्विनीः ॥ १८.७ ॥
याज्ञिकानृत्विजश्चैव क्रतुं कर्तुं यथाविधि ।
यज्ञोपस्करसंभारं सर्वमादाय गच्छति ॥ १८.८ ॥
आदिदेश ततो मर्त्यान् भृत्यांश्चैव सहस्रशः ।
भक्षभोज्यादि संभारसंख्यां कर्तुं न शक्यते ॥ १८.९ ॥
एवं प्रवर्तितस्तत्र लक्षमेधः क्रतूत्तमः ।
जगृहुर्यज्ञभागं च शक्राद्याः सुरसत्तमाः ॥ १८.१० ॥
निवर्तितस्ततो यज्ञो हरिर्ब्रह्मा शतक्रतुः ।
नानविधैस्तथा रत्नैर्वासोयुग्मैश्च तार्पिताः ॥ १८.११ ॥
स्वं स्वं यानं समारूढा जग्मुर्देवास्त्रिविष्टपम् ।
नर्मदावभृथं स्नात्वा पुत्रदारोपशोभितः ॥ १८.१२ ॥
हरं हरिं चाऽर्चयित्वा वरदानप्रभावतः ।
दिव्यं यानं समारूढो यथा शक्रोऽमरैः सह ॥ १८.१३ ॥
धृतस्वर्णातपत्रस्तु बीज्यमानोऽप्सरोगणैः ।
गीयमानोऽप्सरोभिश्च नानालङ्कारभूषितः ॥ १८.१४ ॥
दृष्टो जनकराजाऽतः धर्मराजः समुत्थितः ।
यानस्याऽग्रे पादचारी अर्घपाद्यादिसंयुतः ॥ १८.१५ ॥
कृताञ्जलिपुटो भूत्वा वचनं चेदमब्रवीत् ।
तपसा ध्यानयोगेन दानदेवार्चनैरपि ॥ १८.१६ ॥
शिवरेवाप्रसादेन जिता लोकास्त्वयाखिलाः ।
उवाच जनको राजा धर्मराजं यशस्विनम् ॥ १८.१७ ॥
तथैव तव मूर्तिश्च यथा भानुः प्रभाकरः ।
ब्रह्माविष्णुस्तथा शम्भुः साक्षी सकलकर्मणाम् ॥ १८.१८ ॥
एवं जनकसंवादे धर्माधर्मविचारणात् ।
एतस्मिन्नन्तरे प्राप्तः किङ्किणीजालमण्डितम् ॥ १८.१९ ॥
वेणुवीणानिनादाढ्यमप्सरोगणसेवितम् ।
विमानं दिव्यमारूढो देवराजः शतक्रतुः ॥ १८.२० ॥
नारदः पर्वतश्चैव तथान्ये मुनिसत्तमाः ।
धर्मराजपुरं प्राप्ताः श्रुत्वा जनकमागतम् ॥ १८.२१ ॥
अध्यासुस्तमक्रुध्यन्तमासनानि महान्ति च ।
प्रसमीक्ष्य यथार्हन्तु पूजिताश्च पृथक्पृथक् ॥ १८.२२ ॥
तेषां मध्ये महाराज नारदो धर्ममब्रवीत् ।
के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के ॥ १८.२३ ॥
कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः ।
न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः ॥ १८.२४ ॥
जानामि त्वां महाराज सूर्यपुत्रो ब्रवीहि मे ।
स्वरूपमद्य सर्वेषां यथा वदनुपूर्वशः ॥ १८.२५ ॥
धर्म उवाच -
श्रूयतां मुनिशार्दूलशिवलोके यथा श्रुतम् ।
कल्माषपादो विख्यातो मथुरायां नराधिपः ॥ १८.२६ ॥
नाभागो नाम राजर्षिरयोध्याधिपतिस्तथा ।
यानं चोपरि राजर्षेर्नाभागस्य महात्मनः ॥ १८.२७ ॥
अधः कल्माषपादस्य दृश्यते सर्वदैवतैः ।
शिवलोके विवादोऽभूत्तयोस्तत्र महात्मनोः ॥ १८.२८ ॥
कल्माषपाद उवाच -
पुष्करे दशयज्ञाश्च मया चेष्टा विधानतः ।
गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे ॥ १८.२९ ॥
गङ्गायमुनयोर्योगे वाराणस्यां तथैव च ।
इष्टं यज्ञशतं साग्रं मया तत्र महेश्वर ॥ १८.३० ॥
अधोभागे विमानो मे नाभागस्य ममोपरि ।
कल्पगां वर्जयित्वा तु तीर्थे तीर्थे मखोत्तमाः ॥ १८.३१ ॥
कृता मया महादेव विमानं मे तथाऽप्यधः ।
ईश्वर उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध मे ॥ १८.३२ ॥
लक्षमेधं नाम तीर्थं रेवाया उत्तरे तटे ।
लक्षमेधेश्वरं नाम्ना लिङ्गं तत्र परं स्मृतम् ॥ १८.३३ ॥
चकार तत्र नाभागो यज्ञमेकं यथोदितम् ।
तत्तीर्थयज्ञमाहात्म्याद्यानमस्योपरि स्थितम् ॥ १८.३४ ॥
असंख्येष्वपि तीर्थेषु त्वयेष्टं राजसत्तम ।
विहाय कल्पगां तेन तव यानमधः स्थितम् ॥ १८.३५ ॥
धर्म उवाच -
न शङ्करात्परो देवो न रेवायाः परा नदी ।
न सत्यात्परो धर्मो कारुण्यं सर्वजन्तुषु ॥ १८.३६ ॥
मया श्रुतं सूर्येलोके सूर्येणापि महेश्वरात् ।
एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम् ॥ १८.३७ ॥
वासीयो नर्मदातीरे शिवध्यानपरायणः ।
न तस्य वै यमः शास्ता यमलोकं न पश्यति ॥ १८.३८ ॥
ब्रह्मा विष्णुः शिवः शास्ता सत्यमेव यथोदितम् ।
धर्मराज्ञा समग्रं तु नारदाद्यामहर्षयः ॥ १८.३९ ॥
धर्माख्यानमिदं श्रुत्वा मुदापरमयायुताः ।
स्वं स्वं यानं समारुह्य शक्राद्यास्त्रिदिवं ययुः ॥ १८.४० ॥
धर्माख्यानमिदं पुण्यमितिहासं पुरातनम् ।
कथितं तव यत्नेन विदेहाद्या नराधिपाः ॥ १८.४१ ॥
दानयज्ञप्रभावेण त्रिदिवं वरमाययुः ॥ १८.४२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे जनकयज्ञो नामाष्टादशोऽध्यायः ॥
अध्याय १९
युधिष्ठिर उवाच -
सप्तसारस्वतं तीर्थ शंस मेऽत्र महामुने ।
उत्पत्तिं चास्य तीर्थस्य कथयस्व यथार्थतः ॥ १९.१ ॥
मार्कण्डेय उवाच -
सप्तसारस्वतो नाम गन्धर्वः शिवगायनः ।
वीणावेणुप्रेक्षणीय यन्त्रगीतविशारदः ॥ १९.२ ॥
मणिभद्रा सुभद्रा च हेमगर्भा तथा परा ।
आभिर्वराप्सरोभिश्च चिक्रीडे प्रतिवासरम् ॥ १९.३ ॥
मदिरा नष्टचैतन्यः कामार्तः काममोहितः ।
विहाय शाङ्करीं पूजां भक्ष्यभोज्यरतोऽभवत् ॥ १९.४ ॥
कियत्यपि गते काले ययौ द्रष्टुमुमापतिम् ।
गीतनृत्यैश्च तुष्टाव कैलासे तं नगोत्तमे ॥ १९.५ ॥
गन्धर्वं तं समालोक्य चिरकाले समागतम् ।
शशाप नन्दी कोपेन शिवभक्तिपराङ्मुखम् ॥ १९.६ ॥
चाण्डालयोनिं गच्छ त्वं पापस्यास्य प्रभावतः ।
क्षुत्क्षामस्त्वं निराहारो मर्त्यलोके चरिष्यसि ॥ १९.७ ॥
प्रसाद्य नन्दिनं सोऽथ गन्धर्वो वाक्यमब्रवीत् ।
शापस्यान्तं महाभाग दातुं मे त्वमिहार्हसि ॥ १९.८ ॥
नन्द्युवाच -
नर्मदायां व्यतीपाते स्नात्वाऽभ्यर्च्य महेश्वरम् ।
अन्तं शापस्य संप्राप्य पुनस्त्वं चागमिष्यसि ॥ १९.९ ॥
एवं तद्वचनं श्रुत्वा चाण्डालीं योनिमाश्रितः ।
जातिस्मरत्वं संप्राप्य सशैलवनकाननाम् ॥ १९.१० ॥
बभ्राम धरणीं सर्वां तीर्थयात्राप्रसङ्गतः ।
अथ चक्राङ्गयोगेन नर्मदा तीरमागतः ॥ १९.११ ॥
शङ्करस्थण्डिले यागं तत्र गत्वा चकार सः ।
पुष्पोपहारैर्विविधैर्वीणावाद्यैर्मनोहरैः ॥ १९.१२ ॥
गन्धर्वभक्तिं विज्ञाय प्रत्यक्षोऽभूत्महेश्वरः ।
स्थण्डिलादुत्थितं लिङ्गं महापावनमम्भसि ॥ १९.१३ ॥
उवाच तं महादेवो गीतवादित्रतोषितः ।
वरं वृणु महाभाग यत्ते मनसि वर्तते ॥ १९.१४ ॥
कल्पगातोयसंस्पर्शात्प्राप्नोषि परमां गतिम् ।
गन्धर्व उवाच -
यदि तुष्टो महेशान वरं दातुमिहेच्छसि ॥ १९.१५ ॥
सप्तसारस्वतं तीर्थं लिङ्गं सारस्वतं तथा ।
ख्यातिं यातु महादेव त्वत्प्रसादात्महीतले ॥ १९.१६ ॥
तिर्यग्योनिगताः पापाश्चाण्डालाश्च नराधमाः ।
सर्वे ते त्रिदिवं यान्तु तीर्थस्यास्य प्रभावतः ॥ १९.१७ ॥
एवमस्त्विति तं चोक्त्वा महेशोऽन्तरधीयत ।
दिव्ययान समारूढः सर्वालङ्कारभूषितः ॥ १९.१८ ॥
शिवलोकमवाप्यैवं यथापूर्वं तथैव सः ।
सप्तसारस्वते स्नात्वा अर्चयित्वा वृषध्वजम् ॥ १९.१९ ॥
कुलैकविंशमुद्धृत्य स्वर्गलोके महीयते ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ १९.२० ॥
शिवाज्ञा वर्तते राजंस्तत्र यस्त्रिदिवं जयेत् ।
युधिष्ठिर उवाच -
कः स्रष्टा चास्य जगतो हर्ता धर्ता च भो मुने ॥ १९.२१ ॥
यथार्थमेतदाचक्ष्व विस्तरेण तपोधन ।
त्वत्तोऽहं श्रोतुमिच्छामि सर्वमेतन्मुदायुतः ॥ १९.२२ ॥
मार्कण्डेय उवाच -
यथा श्रुतं मया पूर्वं पुराणं स्कन्दकीर्तितम् ।
तथा ते कथयिष्यामि शृणु राजन् यथार्थतः ॥ १९.२३ ॥
स्कन्देन तु पुरा पृष्टो हरः कल्पान्तकारकः ।
चराचरमिदं सर्वं कथं गच्छति संलयम् ॥ १९.२४ ॥
कुत्र गच्छन्त्यमी देवाः कथं चैषां स्थितिर्भवेत् ।
क्वच गच्छति वै ब्रह्मा कुत्र गच्छति केशवः ॥ १९.२५ ॥
वेदास्तु कुत्र गच्छन्ति सषडङ्गपदक्रमाः ।
अग्नयः पर्वताः सर्वे समुद्रद्वीपसंयुताः ॥ १९.२६ ॥
सिद्धाः सर्वे सनक्षत्राः सूर्याद्याश्च तथा ग्रहाः ।
पातालभुवनादीनि देवलोकाश्च शाश्वताः ॥ १९.२७ ॥
कल्पान्ते च सुरश्रेष्ठ क्व लीयन्ते च देवताः ।
हर उवाच -
कथयामि परं गुह्यं सृष्टिसंहारकारकम् ॥ १९.२८ ॥
प्रलये सर्वभूतानि स्थावराणि चराणि च ।
शिवलिङ्गे विलीयन्ते नष्टे जगति शाश्वते ॥ १९.२९ ॥
शून्यं चैतज्जगत्सर्वं त्रैलोक्यं सचराचरम् ।
आतिष्ठति यदा वह्णिर्विस्फुरन् सर्वतोमुखः ॥ १९.३० ॥
ततो बृहस्पतिर्गायन् वेदत्रयसमन्वितम् ।
तदैवातिबलो देवः कूर्मरूपो महाद्युतिः ॥ १९.३१ ॥
नरकांश्चादहत्सर्वास्ततः प्रज्वलितो महान् ।
सर्वं दग्धं तु पातालं नागानां भुवनानि च ॥ १९.३२ ॥
कालरूपेण दग्धानि भुवनानि चतुर्दश ।
ज्वालामालाकुलीभूते वाङ्मये सचराचरे ॥ १९.३३ ॥
नष्टे त्रिविष्टपे सर्वे सशैलवनकानने ।
मायामये तु सर्वेऽस्मिंस्त्रैगुण्ये प्रलयं गते ॥ १९.३४ ॥
विनश्यति ततो ब्रह्मा सहितः सर्वदैवतैः ।
नाशयित्वा च भूतानि ब्रह्माण्डैः सह दैवतैः ॥ १९.३५ ॥
स्थिता तु नर्मदा चैका सुतीर्था सुरपूजिता ।
नर्मदायाऽवतारोऽयं मर्त्यलोके व्यवस्थितः ॥ १९.३६ ॥
गतमिन्द्रसहस्रं तु यावद्वै दशपञ्च च ।
अतीतं ब्रह्मणः षट्कं सप्तमोऽयं प्रजापतिः ॥ १९.३७ ॥
तदेवमग्निमध्यस्थं तेन सर्वमचेतनम् ।
अव्यक्ते सर्वभूतानामीशे जागर्ति जाग्रति ॥ १९.३८ ॥
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलितम् ।
स विष्णुः सृष्टिकर्ता च हर्ता च जगतः प्रभुः ॥ १९.३९ ॥
एकीभूतेषु भूतेषु व्यपास्यन् सर्वतेजसाम् ।
पुनः सृष्टिं प्रकुरुते देवदेवः सदाशिवः ॥ १९.४० ॥
ब्रह्मा भूत्वाऽसृजल्लोकं विष्णुर्भूत्वा ह्यपालयत् ।
रुद्रः कालाग्निरूपेण हरत्यन्ते स एव हि ॥ १९.४१ ॥
तन्मया कथितं सर्वं किमन्यत्परिपृच्छसि ।
इडा नाम कला ह्येषा शम्भोर्वै सप्तकल्पगा ॥ १९.४२ ॥
अक्षया तेन लोके ।॰
अष्टौ युगसहस्राणि अहोरात्रं प्रजापतेः ॥ १९.४३ ॥
अनेनैव तु मानेन शतं ब्रह्मा स जीवति ।
पितामहशतेनैव विष्णोर्मानं विधीयते ॥ १९.४४ ॥
निमेषार्द्धं च शम्भोस्तु सहस्राणि चतुर्दश ।
एतावति विनश्यन्ति ह्यसंख्याताः पितामहाः ॥ १९.४५ ॥
तत्र द्वादशसाहस्रं दैवतं युगमुच्यते ।
तदेकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ १९.४६ ॥
एतच्चतुर्दशगुणं कल्पमाहुर्मनीषिणः ।
हरार्कचन्द्रमनवः शक्रस्यायुः प्रकीर्तितम् ॥ १९.४७ ॥
लोकपालादयो देवाः साध्याश्चैव मरुद्गणाः ।
अष्टाविंशतिपर्यन्त युगानां सन्ति तेऽपि च ॥ १९.४८ ॥
एतत्ते कल्पगा कालमानं निगदितं मया ।
ये मृताः कल्पगातीरे दानयज्ञतपः स्थिताः ॥ १९.४९ ॥
दुर्गमं यमलोकं च न पश्यन्ति कदाचन ।
तपसा ध्यानयोगेन ब्रह्मार्चनपरायणाः ॥ १९.५० ॥
नर्मदातीरमासाद्य येऽत्र प्रासादकारकाः ।
दारुणं नरकं घोरं नाश्रयन्ते यमालयम् ॥ १९.५१ ॥
नर्मदां तु निषेवन्ते वार्द्धक्ये तु सुबुद्धयः ।
एतदेव परं ध्यानं शेषमन्यन्निरर्थकम् ॥ १९.५२ ॥
नर्मदादक्षिणे तीरे अशोकवनिकासु च ।
अशोकजननं नाम तीर्थ तत्र व्यवस्थितम् ॥ १९.५३ ॥
अशोकेश्वरलिङ्गं तु सर्वपापप्रणाशनम् ।
तत्र गोलक्षदानेन यत्फलं तत्र गच्छतः ॥ १९.५४ ॥
सप्तसारस्वतं लिङ्गं तथा लिङ्गं सुरार्चितम् ।
साप्तर्षं नाम लिङ्गं च लिङ्गं योगेश्वरं तथा ॥ १९.५५ ॥
चन्द्रकान्तं तथा लिङ्गं वरुणेश्वरमेव च ।
अभ्यर्च्य परया भक्त्या यमलोकं न पश्यति ॥ १९.५६ ॥
तिलोदकप्रदानेन पिण्डपातेन भारत ।
पितॄन् समुद्धरत्याशुघोरात्पूर्वं परं शतम् ॥ १९.५७ ॥
तत्र दत्तं हुतं यच्च तस्य संख्या न विद्यते ।
पुरा देवगणाः सर्वे तीर्थस्यास्य प्रभावतः ॥ १९.५८ ॥
संसिद्धिं परमां प्राप्य दिवि देवत्वमाययुः ।
संसारसागरे राजन् सञ्चरन्ति न दारुणे ॥ १९.५९ ॥
युधिष्ठिर उवाच -
लिङ्गानि कीर्तितानीह तथा तीर्थानि यानि च ।
नानाख्यानसमेतानि प्रसादात्कथयस्व मे ॥ १९.६० ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग इतिहासं पुरातनम् ।
नागेश्वरं सिद्धलिङ्गं स्थितं नागह्रदे शुभे ॥ १९.६१ ॥
सिद्धिदं सर्वलोकानां नागकन्याभिरर्चितम् ।
ब्रह्मतेजोवपुः श्रीमान्नाम्ना चैवाघमर्षणः ॥ १९.६२ ॥
द्वादशादित्यसंकाशो दीप्यमान इवानलः ।
आपस्तम्बोऽथ मैत्रेयः संवर्तश्चात्रिरेव च ॥ १९.६३ ॥
एते चान्येऽपि बहव ऋषयः संशितव्रताः ।
अयुतानि मुनीन्द्राणामष्टौ तत्राश्रमे नृप ॥ १९.६४ ॥
कन्दमूलफलाहाराः शाकाहारास्तथाऽपरे ।
जलाहारास्तथैवाऽन्ये केचिद्गोमयभक्षिणः ॥ १९.६५ ॥
चान्द्रायणपराश्चाऽन्ये श्रुतिस्मृतिविशारदाः ।
मोक्षोपायं विचिन्वन्ति ब्रह्मिष्ठा ब्रह्मवित्तमा ॥ १९.६६ ॥
अघमर्षाऽश्रमपदं ब्रह्मलोकसमंनृप ।
धर्मस्तु वैश्यरूपेण जिज्ञासार्थं समागमत् ।
सप्तसारस्वते तीर्थे सोऽर्चित्वा वृषभध्वजम् ॥ १९.६७ ॥
गन्धपुष्पैस्तथा दीपैरुपहारैर्मनोरमैः ।
वर्तेरनृषयस्तत्र शतमष्टोत्तरं तथा ॥ १९.६८ ॥
भिक्षा च भिक्षवे दत्ता कौपीनं मृगचर्म च ।
साष्टाङ्गं च नमस्कृत्य तान् देवर्षिगणान्मुनीन् ॥ १९.६९ ॥
मासोपवासनिरतो नाशिकारण्यमागमत् ।
पुत्रदारस्नुषास्तस्य नित्यं तद्गातगमानसाः ॥ १९.७० ॥
मासे मासे त्वतिक्रान्ते रविसंक्रमणे नृप ।
ऋतवः षडतिक्रान्ता निराहारं तपस्यत ॥ १९.७१ ॥
न भोगो न च कार्पण्यं न मानो न च मत्सरः ।
न कामक्रोधलोभाश्च निर्जितास्तेन भारत ॥ १९.७२ ॥
वेदार्थे ब्राह्मणार्थे च मम वित्तस्य चार्जनम् ।
विष्णुधर्मपरो नित्यं विष्ण्वाराथन तत्परः ॥ १९.७३ ॥
उत्तरे चायने मासे सप्तसारस्वते तथा ।
स्नात्वा देवं समभ्यर्च्य लिङ्गरूपं जनार्दनम् ॥ १९.७४ ॥
यथा विभवयोगेन भिक्षां दत्त्वा यथा पुरा ।
हर उवाच -
वरं ब्रूहि महाभाग सिद्धस्त्वं धर्मतो यतः ॥ १९.७५ ॥
महाराज महाभाग यत्ते मनसि वर्तते ।
इदं विमानमारुह्य दिव्यभोगसुखं कुरु ॥ १९.७६ ॥
पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज ।
शार्ङ्ग उवाच -
यदि तुष्टोऽसि मे देव वरं दातुं यथेप्सितम् ॥ १९.७७ ॥
वरं दशसहस्राणि लोकं यान्तु द्विजोत्तमाः ।
इदं वरमहं मन्ये हरेर्नान्यं कदाचन ॥ १९.७८ ॥
ऋषय ऊचुः॒
वैश्यः पापो दुराचारो महतां लाघवं यतः ।
सर्वेषामेव वर्णानां ब्राह्मणो गुरुरुच्यते ॥ १९.७९ ॥
त्रीन् वर्णान् याजयित्वा च त्वं यदा दिवमानयेः ।
न दृष्टं न श्रुतं चासीदेवं श्रुतिपुराणयोः ॥ १९.८० ॥
ब्राह्मणस्यापमानेन धर्मो वै जायते क्वचित् ।
तपसा ध्यानधर्माभ्यां न यास्यसि दिवमुने ॥ १९.८१ ॥
अपि वर्षसहस्रेण दुर्गमस्ते सुरालयः ।
व्रज त्वं वैश्यधर्मेण स्वगृहं प्रति साम्प्रतम् ॥ १९.८२ ॥
स एवमुक्तो विप्रैस्तान् साष्टाङ्गं प्रणिपत्य च ।
उवाच वचनं वैश्यो विमुक्तं मुनिपुङ्गवम् ॥ १९.८३ ॥
अज्ञानाञ्ज्ञानतो वाऽपि कोपं कर्तुं न युज्यते ।
अज्ञातं त्वां न गृह्णीयाच्छ्रद्धाहीनं च देवता ॥ १९.८४ ॥
सक्रोधेन तपस्तप्तं सर्वं भवति निष्फलम् ।
दैवतैरपि दुर्ज्ञेया गहना कर्मणो गतिः ॥ १९.८५ ॥
सत्येन ध्रियते धर्मस्ततः स्वर्गः प्रजायते ।
स्वकर्मनिरतं चैवमुद्धरन्तं तथा द्विजम् ॥ १९.८६ ॥
वैश्यं ब्राह्मणमित्याहुर्ब्राह्मणं वैश्यमेव च ।
निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम् ॥ १९.८७ ॥
द्विजं वाचालरूपं तु दूरतः परिवर्जयेत् ।
ब्राह्मणा ऊचुः॒
को भवान् वैश्यरूपेण ब्रह्मा शक्रो जनार्दनः ॥ १९.८८ ॥
साङ्गोपाङ्गास्तथा वेदास्त्वयि धर्मः प्रतिष्ठितः ।
शार्ङ्ग उवाच -
धर्मोऽहं वैश्यरूपेण जिज्ञासाऽर्थमिहागतः ॥ १९.८९ ॥
इदं विमानमारुह्य गम्यतां वैष्णवं पदम् ।
एते विमानमारुह्य सम्प्राप्तास्त्रिदशालयम् ॥ १९.९० ॥
सप्तसारस्वतं नत्वा तीर्थं देवं हरं हरिम् ।
वैश्यः पुत्रादिभिर्युक्तो प्राप लोकं तु वैष्णवम् ॥ १९.९१ ॥
एतत्ते कथितं राजन्नर्मदातीर्थमुत्तमम् ॥ १९.९२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे सृष्टिसंहारसारस्वततीर्थकथनं नामैकोनविंशोऽध्यायः ॥
अध्याय २०
मार्कण्डेय उवाच -
शाण्डिल्याकल्पगायोगः सर्वपापहरः परः ।
शाण्डिल्येश्वरलिङ्गं च सर्वपापहरं परम् ॥ २०.१ ॥
स्नातमात्रो नरस्तस्मिन्नर्चयित्वा महेश्वरम् ।
कर्मभूमिं न लभते हरस्य वचनं यथा ॥ २०.२ ॥
तिलोदकप्रदानेन हविषा पिण्डपातनात् ।
तृप्यन्ति पितरस्तस्य यावदिन्द्राश्चतुर्दश ॥ २०.३ ॥
राहुसोमसमायोगे कुरुक्षेत्रे महाफलम् ।
तत्रैव जन्म राजर्षेः कार्तवीर्यनृपस्य च ॥ २०.४ ॥
स्नात्वाभ्यर्च्य महादेवं गन्धपुष्पाद्युपस्करैः ।
सूर्याचन्द्रमसौ यावदुमामाहेश्वरे पुरे ॥ २०.५ ॥
भुङ्क्ते स विविधान् भोगांस्तावद्वै शिवसन्निधौ ।
तत्र शाण्डिल्यकौण्डिन्यौ माण्डव्यो मुनिमत्तमः ॥ २०.६ ॥
कौशिकश्च महातेजाः कश्यपो भृगुरेव च ।
एते चान्येऽपि बहवो जपध्यानपरायणाः ॥ २०.७ ॥
मुनीनां षष्टिसाहस्रं तपस्युग्रे व्यवस्थितम् ।
तस्याश्रमपदं रम्यं शाण्डिल्याकल्पगायुजि ॥ २०.८ ॥
शाण्डिल्यपुरमित्येव ब्रह्मर्षि विनिषेवितम् ।
द्वादशादित्यतीर्थं च नर्मदादक्षिणे तटे ॥ २०.९ ॥
देवदारु तथा तीर्थमन्यद्देववनं तथा ।
दशलक्षाणि तीर्थानि तत्र तिष्ठन्ति संगमे ॥ २०.१० ॥
द्वादशार्कमिदं नाम तीर्थं पापप्रणाशनम् ।
अन्यानि यानि लिङ्गानि कथितानि तवाऽनघ ॥ २०.११ ॥
मूषकश्च तथा तीर्थे मार्जारेणैव भक्षितः ।
निशायां मूषकः कश्चिदटमान इतस्ततः ॥ २०.१२ ॥
मार्जरेण ततः सोऽपि भक्षितश्च धृतः पुरा ।
ततो मेघागमे काले प्रवाहस्तत्र निर्गतः ॥ २०.१३ ॥
अस्थिप्रवहणं तस्य निमग्नं तत्र सङ्गमे ।
तीर्थस्यास्य प्रभावेण यक्षराजोऽभवत्नृप ॥ २०.१४ ॥
बृहद्वृन्दः समाख्यातो यक्षायुतसमावृतः ।
हंसयुक्तविमानेन यक्षलोके महीयते ॥ २०.१५ ॥
अथान्यत्कथयिष्यामि शाण्डिल्यानर्मदाश्रितम् ।
नाम्ना चाप्सरसं लिङ्गं मुक्ताश्चाप्सरसो यतः ॥ २०.१६ ॥
ज्ञानरूपमयं देवं सिद्धलिङ्गं प्रकीर्तितम् ।
युधिष्ठिर उवाच -
कस्मादप्सरसः शप्ताः कथं याताश्च सङ्गमम् ॥ २०.१७ ॥
कथं च मोक्षणं शापाद्विदितं कुरु साम्प्रतम् ।
मार्कण्डेय उवाच -
शृणु राजन् यथा न्यायं कथयामि तवाऽनघ ॥ २०.१८ ॥
मधूत्सवं शिवस्याग्रे विहायेन्द्रोत्सवं गताः ।
उर्वशी च तथा रम्भा अहल्या च तिलोत्तमा ॥ २०.१९ ॥
घृताची मेनका चैव चित्ररेखा च शालिनी ।
एताश्चाप्सरसो बह्व्यः सर्वा वै देव निर्मिताः ॥ २०.२० ॥
वसन्ते ता विशन्ति स्म शक्रलोकं सुरैः सह ।
मदिरानन्दपानेन मोहिताः कामपीडिताः ॥ २०.२१ ॥
समतीते वसन्ते तु उमामाहेश्वरं पुरम् ।
कैलासनिलयं देवं समाराधयितुं गताः ॥ २०.२२ ॥
शापस्य भयभीतास्ता देवेदेवस्य सुव्रताः ।
साष्टाङ्गं प्रणिपत्याथ मन्त्रगीतेन तुष्टुवुः ॥ २०.२३ ॥
ताश्चैवाप्सरसो गौरी ज्ञात्वा तत्र पराङ्मुखी ।
गौर्याः परमचित्तज्ञाः सर्वाभरणभूषिताः ॥ २०.२४ ॥
अनङ्गकुसुमा चान्या रूपयौवनशालिनी ।
धनपाली तथा चान्या व्योमरेखा तथापरा ॥ २०.२५ ॥
चामरग्राहिणी चान्या गान्धर्वी च तथाऽपरा ।
हेमदण्डा प्रतीहारा ऊचुरप्सरसः प्रति ॥ २०.२६ ॥
उमामाहेश्वरं नाम भवत्यो न समागताः ।
अपराधोऽयमेवाद्य भवतीनां सुदुःसहः ॥ २०.२७ ॥
अनेनैवापराधेन अजा मर्त्ये भविष्यथ ।
दिव्यं वर्षशतं साग्रमेवं भवत दुःखिताः ॥ २०.२८ ॥
अप्सरस ऊचुः॒
शापान्तं नो वरारोहे दातुमर्हसि पार्वति ।
इति तासां वचः श्रुत्वा देवी वचनमब्रवीत् ॥ २०.२९ ॥
शाण्डिल्याकल्पगायोगे नर्मदादक्षिणे तटे ।
तत्र स्नात्वा दिवं यान्ति शाण्डिल्येश्वरपूजनात् ॥ २०.३० ॥
गौरीतीर्थं तु तत्रैव ज्ञातुं योग्यं हि कल्पगाम् ।
उत्तीर्णा तेन मार्गेण लग्ना स्कन्दस्य पृष्ठतः ॥ २०.३१ ॥
तत्र स्नात्वा शिवं नत्वा कैलासं चा गमिष्यथ ।
शापभ्रष्टास्तु तास्सर्वाः क्ष्मां गत्वा अतिदुःखिताः ॥ २०.३२ ॥
शापावसाने सम्प्राप्ते कल्पगातीरमाश्रिताः ।
तत्र स्नात्वा तु शाण्डिल्यं पूजयित्वा विधानत ॥ २०.३३ ॥
अजारूपधरास्सर्वास्तस्मिन्नप्सरसः क्षणात् ।
दिव्ययानसमारूढास्सर्वालंकारभूषिताः ॥ २०.३४ ॥
गौरीतीर्थं तथैवापुर्यथापूर्वं तथैव तु ।
अजातीर्थमिति ख्यातं देवश्चाजेश्वरस्तथा ॥ २०.३५ ॥
सर्वपापहरं चैव लिङ्गमाप्सरसं तथा ।
तत्र स्नात्वा व्यतीपाते नारी वा यदि वा नरः ॥ २०.३६ ॥
अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः ।
दशवर्षसहस्राणि राजा विद्याधरे पुरे ॥ २०.३७ ॥
कनकेश्वरमन्यत्तु कनकामोक्षदं शुभम् ।
ज्वरेश्वरं तत्र लिङ्गं ज्वरो यत्र न विद्यते ॥ २०.३८ ॥
ज्वरिता ऋषयो यत्र बभूवुर्ज्वरवर्जिताः ।
पञ्चब्रह्मेश्वरं नाम लिङ्गं पापविमोचनम् ॥ २०.३९ ॥
असुरो मलकेतुश्च शक्रस्यैव भयेन तु ।
पञ्चब्रह्मात्मकैर्मन्त्रैः स्थण्डिलस्थं तु शङ्करम् ॥ २०.४० ॥
नानाविधैः पुष्पधूपैः सम्पूज्य स्वपुरं ययौ ।
अपराह्णेऽथ संस्मार स पापो लिङ्गमैशकम् ॥ २०.४१ ॥
नमस्कृत्वाऽथ निर्माल्यं यावदुद्धर्तुमिच्छति ।
तावत्तत्स्थाणुभूतं वै लिङ्गं दृष्ट्वा महासुरः ॥ २०.४२ ॥
विषसादमहाबाहुः किमेतदिति विस्मितः ।
आकाशवाचाचोक्तं वै विषादं त्यजपुत्रक ॥ २०.४३ ॥
पञ्चब्रह्मेश्वरं नाम लिङ्गमेतत्महासुर ।
आकाशवचनं श्रुत्वा नमस्कृत्य दिवं ययौ ॥ २०.४४ ॥
पञ्चब्रह्मेश्वरं लिङ्गं लिङ्गं पुष्पेश्वरं तथा ।
तृतीयं तु तथा विद्धि लिङ्गं वै स्थण्डिलेश्वरम् ॥ २०.४५ ॥
नित्ये नैमित्तिके कार्ये ग्रहणे चन्द्रसूर्ययोः ।
श्रद्धया सङ्गमे स्नात्वा लिङ्गत्रितयपूजनात् ॥ २०.४६ ॥
गच्छन्ति पितरः स्वर्गं हविर्दानादिभिर्यथा ।
मन्वन्तरशतं यावन्मोदते ब्रह्मणः पुरे ॥ २०.४७ ॥
नर्मदायाप्यभागे तु गोप्यलिङ्गं व्यवस्थितम् ।
ब्रह्महत्यादिकं पापं सप्तरात्रेण नश्यति ॥ २०.४८ ॥
त्वष्टा पूषेति विख्यातौ बलिनौ ब्रह्मराक्षसौ ।
वज्रेण स्वेन शक्रेण हतौ तौ सिन्धुचारिणौ ॥ २०.४९ ॥
बुद्ध्वा ब्रह्मादिभिर्देवैर्ब्रह्महा त्वेष वासवः ।
इन्द्राण्या चैव संत्यक्तः सर्वैः सुरगणैस्तथा ॥ २०.५० ॥
ब्रह्महत्या समायुक्तः सम्प्राप्तो वै हिमालयम् ।
चन्द्रहीना यथा रात्रिरनादित्यं यथा नभः ॥ २०.५१ ॥
इयमाभाति वै तद्वच्छक्रहीनाऽमरावती ।
ततो देवगणैः सर्वैः प्रेषितो हव्यवाहनः ॥ २०.५२ ॥
शक्रस्यान्वेषणार्थाय कृशानो गम्यतां त्वया ।
जले दृष्ट्वा निवर्त्याऽथ देवतास्संन्यवेदयत् ॥ २०.५३ ॥
ततस्संप्रेषितो देवैः सर्वव्यापी प्रभञ्जनः ।
स तं प्रवेशयामास प्रोवाच त्रिदशेश्वरम् ॥ २०.५४ ॥
देवानां शासनादेव समागच्छं च त्वत्कृते ।
तमानीय पुरं दिव्यं ब्रह्मविष्णुपुरस्मराः ॥ २०.५५ ॥
ततो देवगणाः सर्वे शक्रेण सहिता गताः ।
ईशानो भगवान् यत्र कैलासे पर्वतोत्तमे ॥ २०.५६ ॥
नमस्कृत्य महादेवं सुरासुरनमस्कृतम् ।
प्रविष्टांस्तु यथान्यायं पप्रच्छ भगवान् हरः ॥ २०.५७ ॥
किमागमनकार्यं वः कुतो वो भयमागतम् ।
देवा ऊचुः॒
एष त्वां प्रति संप्रष्टुं देवराजः शतक्रतुः ॥ २०.५८ ॥
मोक्षणं ब्रह्महत्यायाः स्याद्यथा वै तथा कुरु ।
ईश्वर उवाच -
वाराणस्यां क्रतुं चेष्ट्वा हयमेधं यथा विधि ॥ २०.५९ ॥
तीर्थयात्राक्रमेणैव ब्रह्महत्या प्रणश्यति ।
नमस्कृत्य ततो देवं सुराः काशीपुरं ययुः ॥ २०.६० ॥
यज्ञोपस्करमादाय तत्र चेष्टो मखोत्तमः ।
पौष्करं नैमिषारण्यं कुरुक्षेत्रं तथा पुनः ॥ २०.६१ ॥
केदारं भैरवं तीर्थं गङ्गासागरसङ्गमम् ।
ओघतीर्थं प्रयागं च प्रभासं शशिभूषणम् ॥ २०.६२ ॥
बभ्रमुः सर्वतीर्थानि पृथिव्यां यानि कानि च ।
कृष्णमस्य शरीरार्द्धमर्द्धं गौरं निरीक्ष्य च ॥ २०.६३ ॥
विस्मयं परमं जग्मुः सर्वे देवगणास्तथा ।
वाराणसीं पुरीं गत्वा सुरा विज्ञापयन्ति तम् ॥ २०.६४ ॥
अन्तरिक्षे पुरी ख्याता वाराणस्यसमा तथा ।
पञ्चक्रोशान्तरे तस्या ब्रह्महत्या न सर्पति ॥ २०.६५ ॥
पुराणे श्रूयते देव देवराज शतक्रतो ।
यावत्तिष्ठति गङ्गायां वाराणस्यां समागमे ॥ २०.६६ ॥
न तावद्ब्रह्महत्या तु निर्गमे पुनराविशेत् ।
काश्युवाच -
नाहं समर्था हरणे मुक्त्वा काचित्तु कल्पगाम् ॥ २०.६७ ॥
ब्रह्महत्या यथा नश्येदुपदेशं ददामि ते ।
शाण्डिल्या नर्मदायोगे याम्ये भागे तु नार्मदे ॥ २०.६८ ॥
तत्र स्नात्वा महाराज त्रीणि लिङ्गानि चार्चयेत् ।
पञ्चब्रह्मेश्वरं देवं पुष्पेश्वरमथापरम् ॥ २०.६९ ॥
तृतीयं तु तथा शक्रलिङ्गं चैव स्थण्डिलेश्वरम् ।
शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ २०.७० ॥
काशीपुर्या वचः श्रुत्वा देवदेवः शतक्रतुः ।
तं देशं समनुप्राप्य सर्वं स्नानादिकं व्यधात् ॥ २०.७१ ॥
तत्क्षणाद्दिव्यदेहश्च सूर्यसंक्रमणं ययौ ।
शरीरात्तस्य निर्गत्य ब्रह्महत्या ह वासवम् ॥ २०.७२ ॥
अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का ।
ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा ॥ २०.७३ ॥
तीर्थेऽस्मिन्न विशेद्धत्या योजनानि चतुर्दश ।
एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा ॥ २०.७४ ॥
शिवमस्तु महाराज स्वगृहं याहि साम्प्रतम् ।
इति तस्या वचः श्रुत्वा नमस्कृत्य तु नर्मदाम् ॥ २०.७५ ॥
दिव्यं यानं समारूढो मुदा परमया युतः ।
अप्सरोगणसंकीर्णं सिद्धगन्धर्वसेवितम् ॥ २०.७६ ॥
तत्रारूढः सुरपतिर्यथापूर्वं तथैव च ।
धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः ॥ २०.७७ ॥
स्तूयमानः सुरगणैः प्रविवेशामरावतीम् ।
शिवेन कथितं ह्येतत्पार्वत्याः षण्मुखस्य च ॥ २०.७८ ॥
मया तु कथितं राजंस्तव ब्रह्मर्षिपूर्वकम् ॥ २०.७९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे ब्रह्महत्याछेदनो नाम विंशोऽध्यायः ॥
अध्याय २१
युधिष्ठिर उवाच -
भूयश्चेच्छाम्यहं श्रोतुं नर्मदातीर्थकीर्तनम् ।
तृप्तिं नैवाधिगच्छामि शृण्वन्नपि महामुने ॥ २१.१ ॥
इदानीं श्रोतुमिच्छामि रेवाकुब्जासमागमम् ।
आख्यानसहितं ब्रह्मन् कथयस्व प्रसादतः ॥ २१.२ ॥
कुब्जिका कर्मणा केन त्रिषु लोकेषु विश्रुता ।
एतन्नस्त्वं परं ब्रह्मन् संशयं छेत्तुमर्हसि ॥ २१.३ ॥
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ।
कथितामीश्वरेणैव पार्वत्याः षण्मुखस्य मे ॥ २१.४ ॥
ऋषीणां ब्रह्ममुख्यानां गणानां चानुचारिणाम् ।
नानाऋक्षाणि सूर्यस्य जगदुद्योतकारिणः ॥ २१.५ ॥
शशिसूर्योपगमने तारा भान्ति नभस्तले ।
नान्या पयस्विनी शक्ता संसारार्णवतारणे ॥ २१.६ ॥
पितृदेवमनुष्याणां मुक्त्वा चैव तु कल्पगाम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २१.७ ॥
चान्द्रायणसहस्रं च ब्रह्मकूर्चायुतं तथा ।
नर्मदातोयपानेन तुल्यं भवति वा न वा ॥ २१.८ ॥
तिलोदकप्रदानेन पितॄणां प्रीतिरक्षया ।
गायन्ति पितरो गाथा तथैव च पितामहाः ॥ २१.९ ॥
मातामहाद्याः सततं सर्व एव परस्परम् ।
अपि स्यात्स्वकुलेऽस्माकं पुत्रः परमधार्मिकः ॥ २१.१० ॥
हविस्तिलयुतं दद्याद्यो रेवासलिलार्चितम् ।
वर्षलक्षं तथा तेन तृप्ता यामः परां गतिम् ॥ २१.११ ॥
यज्ञक्रिया कृता तेन समग्रा भूरिदक्षिणा ।
एतत्ते कथितं राजं शिवेनोक्त यथा पुरा ॥ २१.१२ ॥
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
मा गयां गच्छ कौन्तेय मा गङ्गां मा सरस्वतीम् ॥ २१.१३ ॥
तत्र गच्छ नृपश्रेष्ठ यत्र कुब्जा सनर्मदा ।
वाराणसीं प्रयागं च गङ्गासागरसङ्गमम् ॥ २१.१४ ॥
केदारं कनखलं च प्रभासं शशिभूषणम् ।
हरिश्चन्द्रपुरं चान्द्रं श्रीशैलं त्रिपुरान्तकम् ॥ २१.१५ ॥
माहेन्द्र मलयं चैव गोकर्णं च महाबलम् ।
कालञ्जरं नीलकण्ठं त्र्यम्बकं धूतकिल्बिषम् ॥ २१.१६ ॥
रुद्रकोटिं हिमस्थानं भैरवं च महापथम् ।
तीर्थान्येतानि चान्यानि कलां नार्हन्ति षोडशीम् ॥ २१.१७ ॥
नानातीर्थसहस्राणि पुराणे कीर्तितानि च ।
ब्रह्मविष्णुशिवोक्तं हि तत्प्रमाणं हि सिद्धये ॥ २१.१८ ॥
सोमे प्रसिद्धाऽमावास्या रेवाकुब्जासमागमे ।
एरण्ड्यां चण्डवेगायां रेवया सह संगमे ॥ २१.१९ ॥
राजन् दर्शे यदा सोमः संविशेद्रविमण्डले ।
व्यतीपाते च संक्रान्तौ वैधृतौ विषुवे तथा ॥ २१.२० ॥
दक्षोत्तरायणे चैव षडशीतिमुखे तथा ।
दर्शे स्याद्विंशतिगुणं व्यतीपाते समां शतः ॥ २१.२१ ॥
संक्रमे वैधृतौ राजं छतार्धं परिकीर्तितम् ।
अमासोमसमायोगे राहुसोमसमागमे ॥ २१.२२ ॥
कुरुक्षेत्राच्छतगुणं पुण्यमाह शिवः स्वयम् ।
बिल्वाम्रकं सिद्धलिङ्गं ब्रह्महत्याव्यपोहनम् ॥ २१.२३ ॥
दर्शनात्स्पर्शनात्तस्य शिवलोके महीयते ।
कुब्जेश्वरं तथैवान्यत्न तत्पश्यन्ति मानवाः ॥ २१.२४ ॥
नर्मदाकुब्जिकामध्ये नागकन्याभिरर्च्यते ।
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ २१.२५ ॥
कालाग्निरुद्रसंकाशं भित्त्वा पातालसङ्गमम् ।
सूर्यकोटिसमप्रख्यं प्रदीप्तज्वलनप्रभम् ॥ २१.२६ ॥
उत्थितं कल्पगामध्ये देवाऽवाहनकाम्यया ।
ओंकारस्य यवैकेन हीनं लिङ्गं नृपोत्तम ॥ २१.२७ ॥
पृथिव्यां यानि तीर्थानि लोकेऽस्मिन् सचराचरे ।
हीनान् यस्माद्यवार्द्धेन सत्यमेतच्छिवोदितम् ॥ २१.२८ ॥
तत्र यस्त्यजति प्राणानमासोमसमागमे ।
दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ २१.२९ ॥
धृतदिव्यातपत्रस्तु सर्वालङ्कारभूषितः ।
त्रिंशच्छतसहस्राणि वसेच्छिवपुरे शुभे ॥ २१.३० ॥
त्यजेद्धि तत्र यः प्राणान्न वशः स्ववशोऽपि वा ।
दशवर्षसहस्राणि राजा विद्याधरे पुरे ॥ २१.३१ ॥
रन्तिदेवश्चक्रवर्ती शक्रतुल्यो महीपतिः ।
अयोध्याधिपतिः श्रीमान् सर्वधर्मभृतां वरः ॥ २१.३२ ॥
कण्वाश्रमपदे रम्ये सुरासुरनिषेविते ।
आख्यानसहितं राजं छृणु वेद यथाक्रमम् ॥ २१.३३ ॥
तीर्थसंख्याप्रमाणं च इतिहासं पुरातनम् ।
हरन्ति के च कार्त्तिक्यां कैलासे पर्वतोत्तमे ॥ २१.३४ ॥
ब्रह्मादयो गतास्तत्र विष्णुशक्रपुरोगमाः ।
उमया सहितो रुद्रो गणकोटिसमन्वितः ॥ २१.३५ ॥
नन्दिस्कन्दमहाकालसुरासुरनिषेवितः ।
सरितः सागराः शैलास्तीर्थानां कोटयस्तथा ॥ २१.३६ ॥
तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ।
कस्यैतानि विमानानि दीव्यन्ते दिवि शङ्कर ॥ २१.३७ ॥
साप्तभौमा गृहा रम्या हेमप्राकारतोरणाः ।
गीतनृत्यनिनादेन कामिनीनां मनोहराः ॥ २१.३८ ॥
ईश्वर उवाच -
शृणु स्कन्द महाभाग कथ्यमानं यथोदितम् ।
तीर्थदानप्रभावेण तीर्थज्येष्ठक्रमेण तु ॥ २१.३९ ॥
ये मृता नर्मदातीरे पर्वतेऽमरकण्टके ।
माहेश्वरादितीर्थेषु भृगुकच्छावसानतः ॥ २१.४० ॥
इमानि यानि तीर्थानि लिङ्गमूर्तिधराणि च ।
सरितश्चापि गङ्गाद्यास्तासु दानप्रभावतः ॥ २१.४१ ॥
एतत्ते कथितं स्कन्द हर्म्यास्सन्ति समुद्धृताः ।
मार्कण्डेय उवाच -
एवं पुरा महाराज कैलासे पर्वतोत्तमे ॥ २१.४२ ॥
ब्रह्मा पप्रच्छ तीर्थानां शङ्करं विधिपूर्वकम् ।
देवखातानि सर्वाणि सरितः सागरास्तथा ॥ २१.४३ ॥
नद्यः सर्वाश्च भूपृष्ठे गङ्गाद्या गिरिसम्भवाः ।
उत्तमाः कतिचिद्देव कथयस्व प्रसादतः ॥ २१.४४ ॥
हर उवाच -
कथयामि परं तीर्थं पवित्रं पापनाशनम् ।
कौतुकेन त्वया पृष्टा नदीनामुत्तमा नदी ॥ २१.४५ ॥
सर्वासां सरितां मध्य उत्तमा सप्तकल्पगा ।
सर्वेषां जननी चेह नदी त्रैलोक्यसुन्दरी ॥ २१.४६ ॥
ब्रह्मोवाच -
सुरसिन्धुं परित्यज्य नर्मदा वर्ण्यते कथम् ।
विरुद्धं सर्वलोकानां देवानां च विशेषतः ॥ २१.४७ ॥
ब्रह्मणस्तु वचः श्रुत्वा अगस्त्यो वाक्यमब्रवीत् ।
मध्ये पदे नियुक्तश्च वक्तुमेव न युज्यते ॥ २१.४८ ॥
धर्माः सर्वे वेदमूला ब्राह्मणा वेदसम्भवाः ।
वेदहीना न सिध्यन्ति यज्ञदानविधिक्रियाः ॥ २१.४९ ॥
स्वयम्भूर्भगवां छम्भुः शम्भुश्च भगवान् हरिः ।
वेदाश्च भगवां छम्भुः कल्पगा शम्भुसम्भवा ॥ २१.५० ॥
अव्यक्ताव्यक्तरूपेण जगतः कारणेच्छया ।
संहारसृष्टिरूपेण प्रलयोत्पत्तिकारिणी ॥ २१.५१ ॥
भगीरथनेमिनीता हरिणाऽत्रावतारिता ।
गङ्गा सा जह्नुना पीता मुनिना चुलुकेन च ॥ २१.५२ ॥
क्रुद्धः पीत्वा मुनिस्तां तु स्थितो ध्यानपरायणः ।
दिव्यं वर्षसहस्रं तु सा तु तस्योदरे स्थिता ॥ २१.५३ ॥
विस्मयो देवतानां हि समापेदे कुतूहलम् ।
ब्रह्माद्या देवताः सर्वा गत्वा तस्याश्रमं प्रति ॥ २१.५४ ॥
शापशङ्काकुलात्मानो मुनिं विज्ञापयन्ति ते ।
महानदीं मुने मुञ्च पवित्रां पापनाशिनीम् ॥ २१.५५ ॥
मर्त्ये वहतु सा नित्यं लोकसन्तापहारिणी ।
देवता ऋषिप्रोक्तेन मुक्ता तेन महानदी ॥ २१.५६ ॥
मुक्ता तु जह्नुना तत्र तेन सा जाह्नवी स्मृता ।
सा तु किं वर्ण्यते ब्रह्मन् पीताया जह्नुना पुरा ॥ २१.५७ ॥
मया चुलुकमात्रेण शोषिताः सप्तसागराः ।
हरिश्च भगवान् शम्भुश्शम्भुश्च भगवानिति ॥ २१.५८ ॥
विन्ध्यः सप्तशैलराजो नर्मदायाः प्रभावतः ।
तेनोद्धता देवमार्गा वर्तमानानि वारिताः ॥ २१.५९ ॥
यज्ञपर्वतपर्यङ्कावुभौ विन्ध्यस्तौ पुरा ।
मया निवारितौ बुद्ध्या देवमार्ग प्रवृत्तये ॥ २१.६० ॥
एवं विगर्हितो ब्रह्मा संवादेन परस्परम् ।
ततस्तुष्टाः सुराः सर्वे ह्यगस्त्यं प्रति भारत ॥ २१.६१ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
इति ते कथितो राजन्नितिहासः पुरातनः ॥ २१.६२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्य एकविंशोऽध्यायः ॥
अध्याय २२
युधिष्ठिर उवाच -
कथं निवर्तितो यज्ञो रन्तिदेवस्य धीमतः ।
कण्वाश्रमपदे रम्ये रेवाकुब्जासमागमे ॥ २२.१ ॥
निखिलं श्रोतुमिच्छामि कथयस्व शिवोदितम् ।
मार्कण्डेय उवाच -
शृण्वन्तु मुनयः सर्वे श्रोतुकामास्समागमम् ॥ २२.२ ॥
मया ख्यातमिदं पुण्यमितिहासं पुरातनम् ।
शण्डामर्कोऽथ राजर्षिर्मानसो ब्रह्मणः सुतः ॥ २२.३ ॥
सूर्यतेजः समप्रख्यस्तेजसा प्रज्वलन्निव ।
ब्रह्मिष्ठः सत्यवादी च वेदवेदाङ्गपारगः ॥ २२.४ ॥
ब्रह्मचारी जितक्रोधः सर्वभूतहिते रतः ।
षडशीतिसहस्राणि मुनीनां दीप्ततेजसाम् ॥ २२.५ ॥
तपस्तत्रैव तप्यन्ते मोक्षोपायविचिन्तकाः ।
कन्दमूलफलाहारा जलाहारास्तथा परे ॥ २२.६ ॥
मासोपवासिनश्चान्ये तथा पक्षोपवासिनः ।
चरन्ति के सान्तपनं प्राजापत्यं तथैव च ॥ २२.७ ॥
चान्द्रायणपराश्चान्ये ब्रह्मकूर्चास्तथापरे ।
शण्डामर्काश्रिताः सर्वे सर्वेषां गुरुरेव च ॥ २२.८ ॥
वेदध्वनितनिर्घोषैर्दिवं भूमिं व्यनादयन् ।
निर्धूमो ज्वलनस्तत्र हूयमानो हुताशनः ॥ २२.९ ॥
कामक्रोधविनिर्मुक्तैर्ब्रह्मचारिजितेन्द्रियैः ।
शण्डामर्काश्रमं दिव्यं युक्तं ब्रह्मसमद्विजैः ॥ २२.१० ॥
तथाकामफलैर्वृक्षैः पुष्पितैस्त्वतिशोभितम् ।
सर्वाश्रमगुरुश्चासीद्रन्तिदेवो महीपतिः ॥ २२.११ ॥
शासिता धरणी तेन सशैलवनकानना ।
न नराः शोकमात्सर्यरोगदारिद्र्यदुःखिताः ॥ २२.१२ ॥
चिरायुषः प्रजाः सर्वा धनधान्यसमाकुलाः ।
स्वयं कामदुघा गावः पृथिवी सस्यशालिनी ॥ २२.१३ ॥
कौशेयं पट्टसूत्रं च सर्वेषां विमलं चितम् ।
पर्जन्यः कामवर्षी च काले काले ऋतावृतौ ॥ २२.१४ ॥
नाना पुराणि रम्याणि हेमरत्नान्वितानि च ।
नाना चामरमाला च हेमरत्नावगण्ठिता ॥ २२.१५ ॥
किङ्किणीजालसंछन्ना मणिमालाविलम्बिता ।
बुद्बुदैरर्धचन्द्रैश्च पारिजातकदम्बकैः ॥ २२.१६ ॥
गोपुरैश्च महादिव्यैर्नानानकनिनादिता ।
नाट्यहर्म्यैश्च सङ्गीतैर्विचित्रकुसुमावृतैः ॥ २२.१७ ॥
भूमिर्हेममयी चैव चार्चिता यत्र संचितैः ।
प्रासादश्च महारत्नैर्देवदेवस्य शूलिनः ॥ २२.१८ ॥
मेरुमन्दरकैलासे यादृशश्च विराजते ।
नानारत्नशिलाभिश्च अनेकशिखरोत्करैः ॥ २२.१९ ॥
चन्द्रशालागवाक्षैश्च रत्नमालाविभूषितैः ।
शतार्धसाप्तभौमैश्च तथैवायुतभूमिकैः ॥ २२.२० ॥
चन्द्राननपताकाभिर्यज्ञैश्चापि विराजिता ।
एवं विधा नृपश्रेष्ठ सर्वशोभा समन्विता ॥ २२.२१ ॥
रन्तिदेवस्य राजर्षेरयोध्यानगरी शुभा ।
इत्थं शशास धरणीं यथा शक्रस्त्रिविष्टपम् ॥ २२.२२ ॥
नृपो यागसहस्रैश्च भूमिपृष्ठं ददाह सः ।
पुरोधसं वशिष्ठं च पप्रच्छ मुनिसत्तमम् ॥ २२.२३ ॥
कस्मिंस्तीर्थे तु निर्विघ्ना यज्ञसिद्धिर्महामुने ।
इति तस्य वचः श्रुत्वा राजर्षेर्मुनिसत्तमः ॥ २२.२४ ॥
उवाच रन्तिदेवं च वशिष्ठो ब्रह्मवित्तमः ।
दुर्वासाः कश्यपो गर्गो नारदः पर्वतः क्रतुः ॥ २२.२५ ॥
अग्निश्च शौनकश्चैव बृहस्पतिरथाङ्गिराः ।
भृगुरत्रिस्तथा वत्स्यः पुलस्त्यः पुलहस्तथा ॥ २२.२६ ॥
काश्यपो गालवश्चैव ऋष्यशृङ्गो विभाण्डकः ।
अहं च मुनयश्चैते मुनयो ब्रह्मवर्चसः ॥ २२.२७ ॥
सर्वेषां मतमेवं वै मम चैव नराधिप ।
अन्यतीर्थात्परं तीर्थं पुराणे परिकीर्तितम् ॥ २२.२८ ॥
कोटिकोटिगुणं पुण्यं कल्पगा यत्र वर्तते ।
एवमेवेति तं ब्रूयात्सत्यमेतत्त्वयोदितम् ॥ २२.२९ ॥
ततश्चाज्ञापयामास भृत्यामात्यपुरोधसः ।
यज्ञोपस्करसम्भारः शीघ्रमेव विधीयताम् ॥ २२.३० ॥
आदिदेश ततो दूतान्नानादेशेषु सत्वरान् ।
घोषणा क्रियतां राष्ट्रे समागच्छन्तु भूमिपाः ॥ २२.३१ ॥
आगतास्ते ततः सर्वे रन्तिदेवस्य शासनात् ।
यथा विभवशोभाढ्याः शक्रतुल्या महीभृतः ॥ २२.३२ ॥
गावश्च दशलक्षाणि सवत्साश्च पयस्विनीः ।
हेमभारैर्भूषिताश्च कामधेनुपयस्विनीः ॥ २२.३३ ॥
लक्षमेकं हयानां तु अयुतं दन्तिनां तथा ।
मणिमाणिक्यरत्नानां तत्र संख्या न विद्यते ॥ २२.३४ ॥
अनेकानि सहस्राणि करभानां च भारत ।
दिव्ययानं समारुह्य सान्तःपुरपरिच्छदः ॥ २२.३५ ॥
नानातूर्यैर्गीतवाद्यैर्मेकलातीरमागतः ।
तत्र मण्डपकुण्डानि यज्ञयूपा हिरण्मयाः ॥ २२.३६ ॥
नानाभक्षाणि भोज्यानि पक्वानि विविधानि च ।
नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥ २२.३७ ॥
यज्ञदीक्षां च जग्राह पत्न्या सह नराधिपः ।
ततः प्रवर्तितो यज्ञो रेवातीरे सुशोभने ॥ २२.३८ ॥
तत्र ज्वलति निर्धूमः प्रत्यक्षो हव्यवाहनः ।
ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः ॥ २२.३९ ॥
विश्वेदेवाश्च साध्याश्च वसवश्चन्द्रभास्करौ ।
सरितः सागराः शैलाः सर्वतीर्थानि चापगा ॥ २२.४० ॥
मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः ।
उमया सहितो रुद्रो विष्णुश्चैव सुरेश्वरः ॥ २२.४१ ॥
सर्वेषा यज्ञभागांश्च पृथक्पृथगकल्पयत् ।
एतस्मिन्नन्तरे राजन् वेदध्वनि निवेदितम् ॥ २२.४२ ॥
विस्मिता ह्यभवन् सर्वे श्रुत्वा स्मृतिभयानकम् ।
दानवा बलवन्तोऽद्य ते क्रौञ्चपुरवासिनः ॥ २२.४३ ॥
महाबाहुः सुबाहुश्च दैत्यकोटिसमावृताः ।
आगता नर्मदा तीरे सभृत्यबलवाहनाः ॥ २२.४४ ॥
दक्षिणां दिशमाश्रित्य यज्ञविघ्नं विचक्रिरे ।
ब्रह्माद्या मुनयः सर्वे भयत्रस्ताश्च कम्पिरे ॥ २२.४५ ॥
उवाच वचनं ब्रह्मा देवतुल्यं पुरोधसम् ।
मया विधिर्विस्मृतश्च मन्त्रादीनां महाभयात् ॥ २२.४६ ॥
उवाच रन्तिदेवं च यज्ञध्वंसं निवारय ।
ब्रह्मिष्ठस्तद्वचः श्रुत्वा रन्तिदेवो महीपतिः ॥ २२.४७ ॥
यदि मे विद्यते सत्यं शिवभक्तिपरा मतिः ।
दैत्यराक्षसदुष्टाश्च ये चान्ये विघ्नकारकाः ॥ २२.४८ ॥
सर्वे ते विलयं यान्ति तमः सूर्योदये यथा ।
पश्यन्तु मम सामर्थ्यं देवा विगतकल्मषाः ॥ २२.४९ ॥
एवमुक्त्वा ततो राजन् कुशाग्रेण तु नार्मदः ।
प्रवाहो दुष्टरक्षार्थं दक्षिणस्यां प्रकल्पितः ॥ २२.५० ॥
विष्णुश्चैव स्मृतस्तत्र शङ्खचक्रगदाधरः ।
उत्तरे देवयानस्य प्रवाहः परिकल्पितः ॥ २२.५१ ॥
एवं कृत्वा तु घोरेण देवमन्त्रेण सुव्रतः ।
जुहावाहवनीये तु कुण्डे बिल्वाम्रवेतसम् ॥ २२.५२ ॥
तस्मात्समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ।
नान्तो नादिर्न मध्यं च तस्य लिङ्गस्य भारत ॥ २२.५३ ॥
ततः सुरासुराः सर्वे चक्रुः स्तोत्रमिदं पुरः ।
ओं नमो भुवनेशाय आदिदेव नमोऽस्तु ते ॥ २२.५४ ॥
चराचरख्यापकाय सृष्टिसंहारकारिणे ।
स्तोत्रं श्रुत्वा महादेवः शान्तरूपो जगत्पतिः ॥ २२.५५ ॥
बभूव परमप्रीतश्चराचरगुरुस्तदा ।
तद्दृष्ट्वा तादृशं कर्म रन्तिदेवस्य धीमतः ॥ २२.५६ ॥
आगत्य दानवाधीशो रन्तिदेवमपूजयत् ।
आदेशो दीयतां मह्यं किं करोमीति चाब्रवीत् ॥ २२.५७ ॥
उवाच वचनं राजा प्रहसन्निव भारत ।
आतिथ्यकाले सम्प्राप्ते यज्ञभागं वदामि ते ॥ २२.५८ ॥
देवानां यज्ञभांगं च दानवानां च सर्वशः ।
परिकल्प्य यथान्यायं मुदा परमया युतः ॥ २२.५९ ॥
स्वं स्वं यानं समारुह्य दानवास्ते च सर्वशः ।
लिङ्गं बिल्वाम्रकं नाम जुष्टं दैवैर्जगत्पतेः ॥ २२.६० ॥
नमस्कृत्य महादेवं रन्तिदेवं प्रतुष्टुवुः ।
ततः प्रमुदिता देवा रन्तिदेवमपूजयन् ॥ २२.६१ ॥
उमया सह देवेशं गणकोटिसमन्वितम् ।
ब्रह्मा विष्णुश्च देवाश्च वरं दत्त्वा दिवं ययुः ॥ २२.६२ ॥
गतेषु तेषु देवेषु रन्तिदेवः पुरं ययौ ।
कदाचिद्वृत्रहा तत्र ब्रह्महत्यासमावृतः ॥ २२.६३ ॥
रेवाकुब्जासमायोगे सर्वं स्नानादिकं व्यधात् ।
तत्क्षणाद्दिव्यदेहस्तु सूर्यसंकाशतेजसः ॥ २२.६४ ॥
शरीरात्तस्य निर्गत्य ब्रह्महत्याह वासवम् ।
अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का ॥ २२.६५ ॥
ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा ।
तीर्थेऽस्मिन् विनशेद्यावद्योजनानि चतुर्दश ॥ २२.६६ ॥
एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा ।
शान्तिस्तेऽस्तु महाभाग यथेष्टं गच्छ साम्प्रतम् ॥ २२.६७ ॥
इति तस्या वचः श्रुत्वा तां नमस्कृत्य कल्पगाम् ।
दिव्ययानं समारुह्य मुदा परमया युतः ॥ २२.६८ ॥
अप्सरोगणसंयुक्तं दिव्यगन्धर्वनादितम् ।
तत्रारूढः सुरपतिर्यथा पूर्वं तथैव सः ॥ २२.६९ ॥
धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः ।
स्तूयमानः सुरगणैः प्रविवेशामरावतीम् ॥ २२.७० ॥
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
मया च कथितं राजंस्तव ब्रह्मर्षिपूर्वकम् ॥ २२.७१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे बिल्वाम्रकोत्पत्तिवर्णनो नाम द्वाविंशोऽध्यायः ॥
अध्याय २३
मार्कण्डेय उवाच -
हरिकेश इति ख्यातः शालग्रामे द्विजोत्तमः ।
शिलोञ्छवृत्तिर्धर्मात्मा सत्यव्रतपरायणः ॥ २३.१ ॥
ब्राह्मणी सुव्रता तस्य धर्मपत्नी यशस्विनी ।
पतिव्रता महाभागा पतिशुश्रूषणे रता ॥ २३.२ ॥
काले ऋतुमती सा तु ऋतुगामी च स द्विजः ।
तस्य पुत्रशतं जज्ञे कपिलापुरमाश्रितम् ॥ २३.३ ॥
शिलोञ्छवृत्तियोगेन प्रस्थमेकमुपार्जयत् ।
क्षुत्क्षामाः ते च शिशवो रुदन्ति करुणं ततः ॥ २३.४ ॥
शिशून् बुभुक्षितान् दृष्ट्वा माता शोकार्तिविह्वला ।
गर्हयन्ती सुदुःखार्ता ब्राह्मणी पतिमब्रवीत् ॥ २३.५ ॥
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
भरणीयाः प्रयत्नेन एष धर्मः सनातनः ॥ २३.६ ॥
भरणं पोष्यवर्गस्य पुत्राणां च विशेषतः ।
एतच्छ्रुत्वा तु वचनं ब्राह्मण्याः शोकविह्वलः ॥ २३.७ ॥
हरिकेशोऽब्रवीद्वाक्यं ब्राह्मणीं प्रति भारत ।
न मया संचितं धान्यं न वित्तं गृहमेधिना ॥ २३.८ ॥
ग्रामे ग्रामे भिक्षयित्वा सविभागं पृथक्पृथक् ।
ददामि परमं धान्यं नान्यां वृत्तिं तु कारये ॥ २३.९ ॥
ब्राह्मण्युवाच -
बालहत्यासमं पापं बाले वृद्धे क्षुधार्दिते ।
तस्मात्प्रतिग्रहं कृत्वा भर्तव्या मम पुत्रकाः ॥ २३.१० ॥
पुत्रेण लोकं जयति पुत्रेण सुखमेधते ।
पुत्रेण स्वर्गमाप्नोति पितॄणां परमा गतिः ॥ २३.११ ॥
अम्बरीषस्य नृपतेरयोध्याधिपतेः किल ।
वर्तमाने महायज्ञे कुरुक्षेत्रे द्विजोत्तमाः ॥ २३.१२ ॥
गताश्च ब्राह्मणास्तत्र प्रतिग्रहजिघृक्षया ।
गाः कांचनं धनं प्राप्य शालग्रामनिवासिनः ॥ २३.१३ ॥
नानाभरणशोभाढ्या आगताः समलंकृताः ।
याहि यत्र द्विजाः सर्वे शालग्रामनिवासिनः ॥ २३.१४ ॥
सुतार्थं हरिकेशोऽथ रक्षिते कुरुजाङ्गले ।
अम्बरीषस्य नृपतेर्वर्तमाने महामखे ॥ २३.१५ ॥
गृहीत्वा ब्राह्मणीं पुत्रान् कुरुक्षेत्रं जगाम ह ।
प्रविष्टश्चाध्वरे तस्मिन् यत्र ते सन्ति ऋत्विजः ॥ २३.१६ ॥
ब्रह्मघोषस्वरेणैव स दृष्ट्वा दिवि देवताः ।
यमोऽङ्गिरामुनिर्विष्णुर्वशिष्ठो दक्ष एव च ॥ २३.१७ ॥
बृहद्विष्णुः प्रसन्नात्मा शातातपपराशरौ ।
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥ २३.१८ ॥
हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः ।
दुर्वासाः काश्यपो गर्गो भारद्वाजोऽत्रिरेव च ॥ २३.१९ ॥
नारदः पर्वतश्चैव पुलस्त्यः पुलहः क्रतुः ।
विभाण्डको भृगुश्चैव शाकटो बादरायणः ॥ २३.२० ॥
बालखिल्या ब्रह्मपुत्रा ब्रह्मतेजो वपुर्धराः ।
अष्टाशीतिसहस्राणि ब्रह्मदण्डं समारुहन् ॥ २३.२१ ॥
अम्बरीषो महाराज दृष्ट्वा ब्राह्मणपुङ्गवम् ।
ब्रह्मर्षींस्तान्नमस्कृत्य अर्घपाद्यैरपूजयत् ॥ २३.२२ ॥
किमर्थमागतो विप्रसभार्यः सहपुत्रकैः ।
अनुग्रहमिमं मन्ये यन्मां वदसि सुव्रत ॥ २३.२३ ॥
आतिथ्यकाले सम्प्राप्तो याचयस्व यथोचितम् ।
ब्राह्मण उवाच -
वित्तं वर्षशतं यावदेकैकाय सुताय मे ॥ २३.२४ ॥
त्वं देहि जीवनायाश होमधेनुं तथोत्तमाम् ।
अयुतं तु गवां भूप हेमभारपरिष्कृतम् ॥ २३.२५ ॥
कोटिमेकां हिरण्यस्य वस्त्रभूषणमुत्तमम् ।
इति तस्य वचः श्रुत्वा द्विजस्य पृथिवीपतिः ॥ २३.२६ ॥
श्रद्धया परया युक्तः सर्वं दत्त्वा यथोदितम् ।
शालग्रामपदं यानैः शीघ्रं प्रावेशयत्ततः ॥ २३.२७ ॥
क्रतुमिष्ट्वा स राजर्षिर्मुमुदे देववच्चिरम् ।
नानाविधान् स भुक्त्वाऽथ भोगान् पत्नीसुतैः सह ॥ २३.२८ ॥
कालान्तरे ततः प्राप्ते ऋषिर्मृत्युवशं गतः ।
मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः ॥ २३.२९ ॥
राजप्रतिग्रहाद्दुष्टात्पुनर्जन्म न विद्यते ।
ब्राह्मण्यं यः परित्यज्य द्रव्यलोभेन मोहितः ॥ २३.३० ॥
विषयामिषलुब्धस्तु कुर्याद्राज प्रतिग्रहम् ।
नरके रौरवे घोरे तस्येह पतनं ध्रुवम् ॥ २३.३१ ॥
वृक्षादावाग्निना दग्धाः प्ररोहन्ति वनागमे ।
राजप्रतिग्रहाद्दग्धा न प्ररोहन्ति कर्हिचित् ॥ २३.३२ ॥
शोचन्ति पूर्व जन्मानि अन्यजन्मकृतानि च ।
भार्यापुत्रकृतेनैव गतोऽहं नरकार्णवम् ॥ २३.३३ ॥
एवमुक्त्वा कुरुक्षेत्रं पुत्रदारादिभिः सह ।
तत्र द्वादशवर्षाणि उषित्वा सुबुभुक्षितः ॥ २३.३४ ॥
उच्छिष्टं कश्मलं भुङ्क्ते राक्षसीं योनिमाश्रितः ।
वाराणसीं प्रयागं तु पुष्करं नैमिषं तथा ॥ २३.३५ ॥
गङ्गासागरसं भेदं क्षेत्रं कनखलं तथा ।
केदारं च महापुण्यं प्रभासं शशिभूषणम् ॥ २३.३६ ॥
अटित्वा सर्वतीर्थानि पापयोनिरतो नृप ।
चिन्तयामास देहं मे न निवृत्तं कथंचन ॥ २३.३७ ॥
तस्मात्पापविशद्ध्यर्थं प्रविशामि हुताशनम् ।
भार्या तस्य सपुत्रा वै भर्तारं सुव्रताऽब्रवीत् ॥ २३.३८ ॥
किंचिद्विज्ञापयामि त्वां यदि मां मन्यसे विभो ।
क्षणमात्रेण दुःखेन साधयामि सुखं बहु ॥ २३.३९ ॥
ब्राह्मणस्य हि धर्मोऽयं सर्वस्तद्वह्णिसाधनेन ।
तत्समाहृत्य दारूणि प्रदीप्य च हुताशनम् ॥ २३.४० ॥
अहं विशाम्यविधवा भर्तारं प्रथमं द्रुतम् ।
न पश्यामि पतन्तं वै ज्वलने दारुणे भृशम् ॥ २३.४१ ॥
उक्ता साऽकाशवाण्या च मा ते मृत्युभयं शुभे ।
श्रूयतां मम वाक्यं हि यथा धर्मो न हीयते ॥ २३.४२ ॥
कुब्जारेवासमायोगे ब्रह्मरक्षोविमोक्षणम् ।
तत्र स्नात्वा दिवं याति बिल्वाम्रकमर्चनात् ॥ २३.४३ ॥
लभते ब्रह्मलोकं च रक्षोयोनेश्च मोक्षणम् ।
ब्रह्मराक्षस उवाच -
काऽसि त्वं च वरारोहे कस्य चासि यशस्विनि ॥ २३.४४ ॥
अनुग्रहार्थं भूतानां पूर्वजन्म कृतैः शुभैः ।
आकाशवाण्युवाच -
धन्याऽहं सर्वभूतानामव्यक्ताव्यक्तरूपिणी ॥ २३.४५ ॥
एवमुस्त्वा तु सा देवी तत्रैवान्तरधीयत ।
पुत्रदारान्वितो नत्वा हरिकेशः सुरेश्वरम् ॥ २३.४६ ॥
सम्प्राप्त सुमुदायुक्तः कुब्जारेवासमागमम् ।
तत्र स्नात्वा यथान्यायमर्चयित्वा महेश्वरम् ॥ २३.४७ ॥
हुताशनं प्रविविशुः स्मृत्वा देवं हारिं हरम् ।
स्वीयं गृहमिवाक्लेशाः कामक्रोधविवर्जिताः ॥ २३.४८ ॥
तत्क्षणाद्दिव्यदेहास्तु ब्रह्मतेजोवपुर्धराः ।
दिव्ययानं समारुह्य ब्रह्मलोकमवाप्नुयुः ॥ २३.४९ ॥
पुत्रदारसमायुक्तो हरिकेशो नृपोत्तम ।
तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यति देववत् ॥ २३.५० ॥
शतमष्टोत्तरं तत्र लिङ्गानां पुण्यसङ्गमे ।
मार्कण्डेश्वरमित्येकं मधुरेश्वरमेव च ॥ २३.५१ ॥
शूलपाणिं तथैवान्यमगस्त्येश्वरमेव च ।
एतान्यन्यानि चैवेह सिद्धलिङ्गानि सन्ति वै ॥ २३.५२ ॥
एतत्सर्वं यथा न्यायं कथितं तव सुव्रत ।
कुब्जारेवासमायोगं सुरासुरनिषेवितम् ॥ २३.५३ ॥
प्रातर्यः कीर्तयेद्भक्त्या नर्मदां सप्तकल्पगाम् ।
सर्वपापविनिर्मुक्तः स शैवं लभते पुरम् ॥ २३.५४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रयोविंशोऽध्यायः ॥
अध्याय २४
युधिष्ठिर उवाच -
समुत्पत्तिं च कुब्जाया यस्यां विमलमानसाः ।
सर्वपापविनिर्मुक्ता गन्धर्वो रगराक्षसाः ॥ २४.१ ॥
एतद्वै श्रोतुमिच्छामि विस्तरेण महामुने ।
कथ्यतां मुनिशार्दूल समाख्यानं पुरातनम् ॥ २४.२ ॥
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ।
चित्राङ्गदः शक्रसुतो गन्धर्वः काममोहितः ॥ २४.३ ॥
समालम्ब्य कुमारीणां दशलक्षाणि भारत ।
रेमे यथेच्छया सोऽपि पश्चान्मुक्तश्च किल्विषात् ॥ २४.४ ॥
आख्यानं कथयिष्यामि यथावृत्त पुरातनम् ।
सुवर्णो नाम गन्धर्वस्तस्य भार्या यशस्विनी ॥ २४.५ ॥
हेमगर्भेति विख्याता शक्रस्यैव यथा शची ।
सुता तस्याः सुकामेति विदितानङ्गमोहिनी ॥ २४.६ ॥
रूपयौवनसम्पन्ना ऊढा वै धनदेन सा ।
गौर्याराधनयोगेन तस्याः पुत्रोऽप्यजायत ॥ २४.७ ॥
केतुमाल इति ख्यातो राजा वैद्याधरे पुरे ।
शशिरेखा प्रिया तस्य भार्व्या वै रूपशालिनी ॥ २४.८ ॥
द्वे कन्ये जनयामास रतिः प्रीतिर्मनोरमे ।
ददौ स कामदेवाय पाणिग्रहणपूर्वकम् ॥ २४.९ ॥
कन्यानां दशलक्षाणि भूषणैर्भूषितानि च ।
तास्तु यानसमारूढाः कामरूपा मनोरमाः ॥ २४.१० ॥
विचित्रवस्त्राभरणा गौर्याराधन तत्परा ।
तावन्न भुज्यते ताभिस्ताम्बूलं भोजनादिकम् ॥ २४.११ ॥
यावन्न कार्यमस्माभिरिति सङ्कल्पमादधुः ।
नित्यं तैर्यत्रिकं तास्तु चक्रुः सर्वा समाहिता ॥ २४.१२ ॥
वसन्ते समनुप्राप्ते द्रष्टुं प्रेक्षणकं पुरा ।
पुष्पकेण विमानेन जग्मुस्ता इन्द्रमन्दिरम् ॥ २४.१३ ॥
क्रीडयित्वा यथा न्यायं मदिरामदविह्वलाः ।
अदृष्ट्वैव भवानीं ताश्चक्रे ताम्बूलभक्षणम् ॥ २४.१४ ॥
चित्राङ्गदस्य चापारं रूपं दृष्ट्वा वराङ्गनाः ।
मोहिता नाऽभिजानन्ति मदिरोन्मत्तमानसाः ॥ २४.१५ ॥
तैश्चापि कामिताः सर्वा गन्धर्व्यो मुदिताननाः ।
नानाविधैस्तथा कार्यैश्चिक्रीडुर्मन्मथाद्दिवि ॥ २४.१६ ॥
अतीते वत्सरे तास्तु गन्धर्वपुरमागताः ।
गौरीं द्रष्टुं समाजग्मुरुमा माहेश्वरं पुरम् ॥ २४.१७ ॥
नमस्कृत्य ततो देवीमिदं वचनमब्रुवन् ।
रक्षस्वास्माकमीशानि च्युतानां नियमात्स्वकात् ॥ २४.१८ ॥
ततश्चुकोप देवी तान् पापकर्मरतान् प्रति ।
व्रतादिकं हता ये ये परदाराविदूषकाः ॥ २४.१९ ॥
अपत्रपा दुराचाराः सर्वलोकबहिष्कृताः ।
तदधर्मस्य पापस्यानिष्कृतिर्धरणीतले ॥ २४.२० ॥
कुमारीं कामयेद्यस्तु कामलोभेन मोहितः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २४.२१ ॥
एतस्मिन्नन्तरे राजंस्ततश्चैत्राङ्गदः स्तुवन् ।
प्रणम्य शिरसा देवीमिदं वचनमब्रवीत् ॥ २४.२२ ॥
शापस्य स भयाद्भूरि विललाप नराधिप ।
अकार्यं कृतमस्माभिर्गन्धर्वतनयान्वितैः ॥ २४.२३ ॥
प्रायश्चित्तं किमस्याद्य पापस्य गद निष्कृतिम् ।
उवाच वचनं देवी गन्धर्वं काममोहितम् ॥ २४.२४ ॥
धर्मक्रियाविलुप्तस्य स्वर्गलोकच्युतस्य च ।
कुमारीदूषणे पापं महतां लोमहर्षणम् ॥ २४.२५ ॥
कुमारीदूषणे पापे निष्कृतिर्न विधीयते ।
मम गन्धर्वकन्याश्च मधुपानैर्विडम्बिताः ॥ २४.२६ ॥
यूयं त्वनेन पापेन गन्धर्वाः काममोहिताः ।
कुब्जावामनहीनाङ्गा भविष्यथ सहस्रशः ॥ २४.२७ ॥
दिव्यवर्षसहस्रं तु मर्त्यलोके चरिष्यथ ।
कन्याविकृतदोषेण कुब्जामर्कटकाननाः ॥ २४.२८ ॥
स्वकर्मकृतदोषेण पापं भुञ्जन्तु भूतले ।
एव शप्तास्तु ते देव्या सर्वे मर्त्य समागमन् ॥ २४.२९ ॥
शोचन्तः स्वानि कर्माणि पूर्वजन्मकृतानि च ।
बभ्रमुः सर्वतीर्थानि लोके चैव चराचरे ॥ २४.३० ॥
विषण्णवदनास्सर्वे पापेनाऽनेन कार्षिताः ।
शापस्याऽन्तं न विन्दन्ति सर्वतीर्थान् भ्रमन्त्यपि ॥ २४.३१ ॥
एकविंशतिलक्षाणि गन्धर्वाणि तथाऽनघ ।
न देवा न च तीर्थानि पापस्याऽस्य विशुद्धये ॥ २४.३२ ॥
नान्यद्वा युज्यते कर्म मुक्त्वा चैव हुताशनम् ।
कर्मणां दोषदाहेन मुञ्चामः पापकर्मणः ॥ २४.३३ ॥
दत्तोऽस्माकं महाशापो पापमार्गनिवर्तकः ।
एतस्मिन्नन्तरे प्राप्तः सकुबेरः पुराधिपः ॥ २४.३४ ॥
सम्प्राप्तो नैमिषारण्ये यत्र चित्राङ्गदादयः ।
तान् दृष्ट्वा सोऽब्रवीद्देवः क्षणमात्रं प्रतीक्षत ॥ २४.३५ ॥
उमामाहेश्वरे यावद्वच्मि गत्वा यथोदितम् ।
एवमुक्त्वा ययौ देवः कैलासं पर्वतोत्तमम् ॥ २४.३६ ॥
साष्टाङ्गं च नमस्कृत्य उमया सहितं हरम् ।
जय देवि सुरेशानि संसारार्णवतारिणि ॥ २४.३७ ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।
व्यापिनी शक्तिरूपेण सर्वेषां प्राणिनामपि ॥ २४.३८ ॥
इत्येवमादिभिर्वाक्यैर्देवीं तुष्टाव वासवः ।
स्तोत्रैः स्तुता महादेवी शक्रं वचनमब्रवीत् ॥ २४.३९ ॥
आर्तिः का ते समुत्पन्ना यथार्थं कथयस्व मे ।
उवाच वचनं शक्रः पार्वतीं प्रति भारत ॥ २४.४० ॥
वरदा यदि मे देवि वरं दातुं त्वमिच्छसि ।
चित्राङ्गदादिपापस्य मोक्षणं क्रियतां शुभे ॥ २४.४१ ॥
देव्युवाच -
शिवाज्ञा वर्तते लोके पापस्यास्य विशुद्धये ।
तस्मात्पापविशुद्ध्यर्थं त्रिषु लोकेषु विश्रुतम् ॥ २४.४२ ॥
देवदेवं महादेवं याचस्व परमेश्वरम् ।
एवं देव्या वचः श्रुत्वा शक्रः प्रोवाच शङ्करम् ॥ २४.४३ ॥
निष्कृतिस्त्वस्य पापस्य क्रियतां वचनात्मम ।
शङ्कर उवाच -
यज्ञपाकाश्रमं गत्वा मेकलातीरमाश्रितम् ॥ २४.४४ ॥
यज्ञपर्वतमासाद्य विन्ध्यस्यैव सुतोत्तमम् ।
तत्र यज्ञेश्वरं देवं लिङ्गं परमसिद्धिदम् ॥ २४.४५ ॥
बिल्वाम्रकं तथा चान्यत्कल्पगा तीरमाश्रितम् ।
पुण्यस्थाने तु तत्रास्य शापस्यान्तो भविष्यति ॥ २४.४६ ॥
एकविंशतिलक्षाणि तत्र मुक्तानि सङ्गमे ।
गन्धर्वाणां महाराज कुब्जभावमुपेयुषाम् ॥ २४.४७ ॥
महानदी नृपश्रेष्ठ कुब्जा तेन प्रकीर्तिता ।
दिव्ययानसमारूढाः स्तूयमाना मरुद्गणैः ॥ २४.४८ ॥
मुदा परमया युक्ता गान्धर्वं लोकमाप्नुयुः ।
बिल्वाम्रकं पूजयित्वा गन्धर्वा गतकिल्बिषाः ॥ २४.४९ ॥
यथा पूर्वं तथेदानी तीर्थस्याऽस्य प्रभावतः ।
हर्षेण महता युक्तः शक्रोऽपि त्रिदिवालयम् ॥ २४.५० ॥
जगाम त्रिदशैः सार्धं परिपूर्णमनोरथः ।
षडस्य चोत्तरे भागे षडस्य दक्षिणे तथा ॥ २४.५१ ॥
एवं ते कथितो राजन् रेवाकुब्जासमागमः ।
अनेके यस्य माहात्म्यात्संसिद्धिं परमां गताः ॥ २४.५२ ॥
श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ २४.५३ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये चित्राङ्गदशापमोचनो नाम चतुर्विंशोऽध्यायः ॥
अध्याय २५
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि तीर्थानां तीर्थमुत्तमम् ।
सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम् ॥ २५.१ ॥
सपादकोटितीर्थानि पुरे माहेश्वरे नृप ।
रौद्रं वारुणमासाद्य क्रोशमात्रप्रमाणतः ॥ २५.२ ॥
अत्रान्तरे महाराज शिवक्षेत्रमुदाहृतम् ।
प्राणत्यागं च यः कुर्याच्छिवलोके च मोदते ॥ २५.३ ॥
तिर्यग्योनिगताः पापाः कीटपक्षिमृगादयः ।
तेऽपि यान्ति शिवस्थानं यत्र देवो महेश्वरः ॥ २५.४ ॥
तिलोदकप्रदानेन मातृकाः पितृकास्तथा ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ २५.५ ॥
तत्रेष्टा ब्रह्मणा पूर्वमसंख्येयां मखोत्तमाः ।
शक्रश्च देवराज्रत्वं तत्रेष्ट्वा समवाप्तवान् ॥ २५.६ ॥
कार्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा ।
अयोध्यायां पुरा राजन् यज्ञदानपरायणः ॥ २५.७ ॥
आदित्यस्य सुतश्चासीत्सूर्यवंशे महीपतिः ।
जित्वाऽसुरांस्तथा दैत्यान् रक्षोगणसमन्वितान् ॥ २५.८ ॥
मनुर्नाम्ना चक्रवर्ती शक्रादीशाद्गुणोत्तमः ।
पुरोत्तमे न सर्पन्ति मृत्युरोगजरास्तथा ॥ २५.९ ॥
शतार्द्धसाप्तभौमैश्च गृहैर्हेममयैः शुभैः ।
वापीकूपतडागानां दीर्घिकानां शतैर्युता ॥ २५.१० ॥
सुशोभिता प्रेक्षणीयैर्नानारूपैर्विलासिभिः ।
वेणुवीणाध्वनियुता नानावाद्यैः सहस्रशः ॥ २५.११ ॥
अलकेव कुबेरस्य शक्रस्येवामरावती ।
पुरी विराजते तद्वदयोध्या देवनिर्मिता ॥ २५.१२ ॥
लक्षाणि द्वे च सार्धाणि प्रजा जीवन्ति तत्र च ।
तत्रैव वंशे राजर्षीरभूत्परमधार्मिकः ॥ २५.१३ ॥
नानामखसहस्रैर्यो ददाह पृथिवीमिमाम् ।
न तद्देशो न तत्तीर्थं न तद्राष्टं न चाश्रमः ॥ २५.१४ ॥
नेष्टं यत्र महायज्ञैः सालङ्कायनभूभृता ।
सस्यमालाधृता पृथ्वी धनधान्यसमन्विता ॥ २५.१५ ॥
स्वयं कामदुघा गावः पट्टवस्त्रमहीरुहाः ।
यज्ञैः सर्वैर्विवाहैश्च वेदैर्माङ्गल्यमङ्गलैः ॥ २५.१६ ॥
एवं तु सततं धात्री कालेन महता ततः ।
अनावृष्टिरभूद्राष्ट्रे पुरा द्वादशवार्षिकी ॥ २५.१७ ॥
मृता जानपदाः सर्वे द्विपदाश्च चतुष्पदाः ।
तृणगुल्मलतावल्यो भूतग्रामं चतुर्विधम् ॥ २५.१८ ॥
हाहाकारोमहानासीद्देवासुरनृणां तथा ।
सालङ्कायनराजर्षिः चिन्तयामास भारत ॥ २५.१९ ॥
जन्मप्रभृति मे पापं किंचिदेव न विद्यते ।
पूजयामि हरिं देवं संसारार्णवतारणम् ॥ २५.२० ॥
ब्राह्मणांश्च मुनींश्चैव तर्पयामास चेच्छया ।
बृहस्पतिसमं बुद्ध्या वशिष्ठं ब्रह्मवादिनम् ॥ २५.२१ ॥
पप्रच्छ नृपतिर्भक्त्या साष्टाङ्गं प्रणिपत्य च ।
अनावृष्टिरभूद्विप्र कथं द्वादशवार्षिकी ॥ २५.२२ ॥
नाऽपराधो मया कश्चित्कृतो ब्राह्मणदेवयोः ।
संशयो मे महास्तत्र वेदानुग्रहतत्पर ॥ २५.२३ ॥
वशिष्ठ उवाच -
शृणु राजन्महाबाहो अनावृष्टेश्च कारणम् ।
पुरा सांवत्सरे यज्ञे वृद्धाश्च मुनयोऽवदन् ॥ २५.२४ ॥
तेषां च वचनं श्रुत्वा कर्तव्यं जनसंसदि ।
तावदेव मुनिश्चात्रिः पुलस्त्यः पुलहः क्रतुः ॥ २५.२५ ॥
भृगुरग्निर्मरीचिश्च कश्यपोऽथ विभाण्डकः ।
जमदग्निश्च माण्डव्यो यमो विष्णुस्तथाङ्गिराः ॥ २५.२६ ॥
बृहस्पतिस्तथा दक्षः शातातपपराशरौ ।
उशना गौतमश्चैव व्यासः कात्यायनस्तथा ॥ २५.२७ ॥
विश्वामित्रोऽथ शाण्डिल्यः कक्षः कात्यायनिस्तथा ।
हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गालवः ॥ २५.२८ ॥
आत्रेयः शौनको गर्गो जह्नुरुद्दालकस्तथा ।
कौशिको भार्गवोऽगस्त्यो दुर्वासाश्च्यवनस्तथा ॥ २५.२९ ॥
एते चान्येऽपि बहवो ऋषयः सूर्यवर्चसः ॥ २५.३० ॥
धर्माणामुपदेष्टारो वेदशास्त्रानुयायिनः ।
अनावृष्टिं तु वै ज्ञात्वा प्रत्ययोध्यां प्रतस्थिरे ॥ २५.३१ ॥
आगतान् स मुनीन् दृष्ट्वा राजा परमधार्मिकः ।
उदतिष्ठन्महाभाग दिवि शक्र इवऽपरः ॥ २५.३२ ॥
तानभ्यर्च्य यथा न्यायमर्घपाद्यादिभिः स्वयम् ।
उपविष्टान् यथा न्यायमासने शुभदर्शने ॥ २५.३३ ॥
स कारणमनावृष्टेः तान् पप्रच्छ महात्मनः ।
अब्रुवन्मुनयो वाक्यं सालङ्कायनभूपतिम् ॥ २५.३४ ॥
भविष्यभूततत्त्वज्ञं सप्तकल्पान्तवासिनम् ।
मार्कण्डेयं महात्मानं सर्वेषां गुरुमर्चय ॥ २५.३५ ॥
तस्याश्रमपदं गत्वा ब्राह्मणैः सह चिन्तय ।
यं यं धर्मं स वदति तं तं कर्तुमिहार्हसि ॥ २५.३६ ॥
एवमुक्तो द्विजैः सर्वैः सालङ्कायनभूपतिः ।
उवाच वचनं सर्वान्मुनीन्द्रां छंसितव्रतान् ॥ २५.३७ ॥
अनुग्रहमिमं मन्ये प्रसादं मुनिसत्तमाः ।
आदिदेश ततो राजा भ्रातरौ द्वारपालकौ ॥ २५.३८ ॥
सुधन्ववीरधन्वानौ प्रतीहारौ महाबलौ ।
रथे हयानि युज्यन्तां ब्राह्मणारोहणं प्रति ॥ २५.३९ ॥
ब्रह्मशर्मा देवशर्मा मन्त्रिणौ तत्त्वदर्शिनौ ।
पप्रच्छ गमनार्थाय कर्तव्यं च यथाऽदिशत् ॥ २५.४० ॥
मन्त्रिणावूचतुः॒
समयज्ञो महाबाहो त्वमेव विहितं कुरु ।
राजा तद्वचनं श्रुत्वा धर्मशास्त्रविशारदः ॥ २५.४१ ॥
उवाच श्लक्ष्णाया वाचा हर्षगद्गदमानसः ।
गन्तव्यं ब्राह्मणैः सार्द्धं यत्र कल्पान्तगो मुनिः ॥ २५.४२ ॥
एवमुक्त्वा ययौ राजा ब्राह्मणैः सह भारत ।
दिव्ययानसमारूढः सम्प्राप्तः कल्पगातटम् ॥ २५.४३ ॥
धर्मारण्यं समासाद्य मार्कण्डं मुनिभिः सह ।
स समीपे समासीनं प्रणम्य प्रणतिक्षमम् ॥ २५.४४ ॥
आपृष्टः कुशलं तेन तदा वै ब्रह्मवादिना ।
उवाच वचनं राजा मार्कण्डं ज्ञानचक्षुषम् ॥ २५.४५ ॥
अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् ।
किंतु मां बाधते नित्यं भविष्यं चैव तत्त्ववित् ॥ २५.४६ ॥
मार्कण्डेय उवाच -
अपमार्गेण प्रजानां देव ब्राह्मणहिंसया ।
वर्णाश्रमविलोपेन अधर्मो धर्मबाधकः ॥ २५.४७ ॥
शम्भुर्न पूज्यते यत्र रुद्रभागो न दीयते ।
देशे तस्मिननावृष्टिर्दुर्भिक्षं मरणं ध्रुवम् ॥ २५.४८ ॥
विनश्यन्ति प्रजा राष्ट्रे अल्पायुर्नृपतिर्भवेत् ।
अब्रह्मण्या ब्राह्मणाश्च शूद्रा वै ब्रह्मवादिनः ॥ २५.४९ ॥
शिवजपं यज्ञसूत्रं शूद्रो धारयते यदा ।
अलिङ्गिनो लिङ्गिनश्च अव्रता व्रतधारिणः ॥ २५.५० ॥
स्वपापं कृतवन्तश्च तान् स्वराष्ट्रे प्रवासिनः ।
सव्याङ्गे ब्रह्मसूत्रं च वह्णिसूत्रं च कारयेत् ॥ २५.५१ ॥
गर्दभारोहणं तस्य कारयेल्लोकगार्हितम् ।
एतत्ते कथितं राजन्ननावृष्टेश्च कारणम् ॥ २५.५२ ॥
अनावृष्ट्या सस्यहानिस्तत्क्षयान्म्रियते प्रजा ।
प्रजाक्षयाद्वेदहानिस्तद्धानौ यज्ञसंक्षयः ॥ २५.५३ ॥
तत्क्षयाद्धर्महानिश्च तद्धानौ वर्णसङ्करः ।
तत्सङ्करात्कर्मलोपः पतनं नरके ध्रुवम् ॥ २५.५४ ॥
गङ्गासागरसम्भेदे चाण्डालाः सप्तसाम्प्रतम् ।
कणधूमं पिबन्त्याशु ऊर्ध्वपादा ह्यधः शिराः ॥ २५.५५ ॥
चकम्पिरे सुराः सर्वे सिद्धगन्धर्वकिन्नराः ।
देवराजः सुरैः सार्धमासनाच्चलितो नृप ॥ २५.५६ ॥
तपसस्तु प्रभावोऽयमपि दृष्टो नराधिप ।
नैमिषे च महारण्ये सुरासुरनमस्कृते ॥ २५.५७ ॥
शतमष्टोत्तरं सर्वे तापसाः शूद्रजन्मनः ।
ब्रह्मकर्म समासाद्य स्थिता धर्मपरायणाः ॥ २५.५८ ॥
अधर्मचारिणां पुंसां राजा पापेन लिप्यते ।
अयज्ञयाजकस्थाने अनावृष्टिर्भवेत्सदा ॥ २५.५९ ॥
अपूजनात्तथा नित्यं देवेदेवस्य शूलिनः ।
न स्वर्गो नापवर्गश्च न भोगाश्चापि पुष्कलाः ॥ २५.६० ॥
ब्रह्मविष्णुसुरेन्द्राद्या अर्चयन्ति महेश्वरम् ।
किं पुनर्मानुषाः पापा राजानः पापजीविनः ॥ २५.६१ ॥
नार्चयन्ति महेशं ये ते नराः पापभागिनः ।
न च स्वर्गस्य मोक्षस्य फलं भोगमवाप्नुयुः ॥ २५.६२ ॥
तस्मान्नृप त्वं श्रेयांसि ब्राह्मणैः सह चिन्तय ।
नर्मदातीरमासाद्य रुद्रयज्ञं समारभ ॥ २५.६३ ॥
तेषां शिरांसि होमेऽस्मिन् पातय त्वं यथाविधि ।
समर्चय सुरेशानं ततः शान्तिर्भविष्यति ॥ २५.६४ ॥
कामवर्षी च पर्जन्यः पुनः सृष्टिः प्रवर्तते ।
मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि ॥ २५.६५ ॥
तवैतत्कथितं राजन् यथादृष्टं मयाऽनघ ।
तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः ॥ २५.६६ ॥
नमस्कृत्य मुनिश्रेष्ठमृषिभिः सह भारत ।
अनुग्रहमिमं मन्ये त्वत्प्रसादाद्यथोदितम् ॥ २५.६७ ॥
आदिदेश प्रतीहारान् यज्ञसम्भारसिद्धये ।
गत्वाऽयोध्यां पुरीं रम्यामादेशं मखसम्भवम् ॥ २५.६८ ॥
यज्ञोपस्करमादाय सर्वैरागम्य तामिति ।
राज्ञीनां च कुमाराणां सहस्रं साष्टकं तथा ॥ २५.६९ ॥
सर्वांश्चैव महीपालान्नानादेशसमुद्भवान् ।
सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते ॥ २५.७० ॥
नमस्कृत्य गतौ तौ तु प्रतीहारौ पुरं प्रति ।
कथयामासतुस्तत्र यथोद्दिष्टं नृपेण तु ॥ २५.७१ ॥
अष्टोत्तरसहस्रं तु राज्ञीनां दिव्यवाससाम् ।
कुमारा ये च राजानो ये चान्ये गृहकर्मिणः ॥ २५.७२ ॥
असूताक्षतयोनीनां लक्षमेकं तु योषिताम् ।
रम्भोर्वशीसमानानां रूपेणाप्रतिमत्विषाम् ॥ २५.७३ ॥
महोरस्कन्धगात्राणां वाहानामयुतानि षट् ।
सुवर्णारत्नपूर्णानां मुद्राणामयुतं तथा ॥ २५.७४ ॥
सवसानां च धेनूनां त्रिंशल्लक्षाणि यन्त्रितः ।
पाण्डुराणां हयानां तु अयुतानि दशैव तु ॥ २५.७५ ॥
घण्टाभरणशोभानां दन्तिनामयुतं तथा ।
यज्ञोपस्करमादाय सर्वसम्भारसम्भृतम् ॥ २५.७६ ॥
प्रस्थितौ नर्मदां राज्ञे सन्निवेशयतां पुरः ।
प्रणम्य चाब्रवीद्राजा सप्तकल्पान्तवासिनम् ॥ २५.७७ ॥
आदेशो दीयतां मह्यं मखं यत्र प्रवर्तते ।
मार्कण्डेय उवाच -
वैदूर्यस्य च वारुण्यां यज्ञयूपांश्च मण्डपान् ॥ २५.७८ ॥
अन्यांश्च यज्ञसम्भारान् सर्वांस्तत्रैव कारय ।
वशिष्ठं वामदेवं च भृगुमङ्गिरसं तथा ॥ २५.७९ ॥
पुलस्त्यं पुलहं चैव भारद्वाजं च कश्यपम् ।
याज्ञवल्क्यं मुनिं चैव मुनिं दुर्वाससं तथा ॥ २५.८० ॥
विभाण्डकं पर्वतं च विश्वामित्रं च नारदम् ।
शौनकं चैव गर्गं च संवर्तं च पराशरम् ॥ २५.८१ ॥
आपस्तम्बोशनो व्यासान् सकात्यायनगौतमम् ।
हारीतं शङ्खलिखितौ ऋष्यशृङ्गं च सोमपम् ॥ २५.८२ ॥
अष्टाशीतिसहस्राणि वालखिल्यान्मुनींस्तथा ।
सर्वदेवनमस्कार्यो यज्ञपर्वतसंज्ञितः ॥ २५.८३ ॥
हिरण्मया महास्तम्भा यादृशैरुपशोभिताः ।
बहुधा यत्र शोभन्ते तथोक्ते यज्ञमण्डपे ॥ २५.८४ ॥
कुण्डस्थलीः स्रुवास्सर्वाः कृत्वा हेममया नृपः ।
नानाविधैर्भक्ष्यभोज्यै रसैश्च विविधैस्तथा ॥ २५.८५ ॥
सरितः सागरां शैलांस्तीर्थराजं च सर्वशः ।
लोकपालान्महाबाहुरसुरान् दैत्यदानवान् ॥ २५.८६ ॥
चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम् ।
ब्रह्माद्यांश्च सुरांस्तत्र मरुतो देवतास्तथा ॥ २५.८७ ॥
विष्णुं चैव सुरेशानं यज्ञे तत्पुरुषं स्वयम् ।
आवाहयन्महादेवं गणकोटिसमन्वितम् ॥ २५.८८ ॥
आवाहितस्ततश्चाग्निर्ब्राह्मणैर्वेदपारगैः ।
निर्धूमः प्रज्वलंश्चैव सूर्यकोटिसमप्रभः ॥ २५.८९ ॥
वेदध्वनितनिर्घोषैर्दिवं भूमिं च नादयन् ।
कणधूमकृताहारांश्चाण्डालान् सप्तवानय ॥ २५.९० ॥
तानानय तथा शूद्रान्नैमिषारण्यवासिनः ।
वशिष्ठ उवाच -
अनुग्रहमिमं मन्ये यन्मां वदसि पार्थिव ॥ २५.९१ ॥
कुशाग्रेण ततो राजा तेषां मूर्ध्नो न्यपातयत् ।
तं दृष्ट्वा मानुषं होमं सामिषं प्रेतरूपिणम् ॥ २५.९२ ॥
प्रणष्टतोया रेवा तु विहाय त्रिदिवं गता ।
होमावसाने सम्प्राप्ते स्नानार्थं नर्मदां ययुः ॥ २५.९३ ॥
शुष्कतोयां ततोऽपश्यन्नर्मदां शंसितव्रताः ।
विस्मयं परमं प्राप्तः प्राह दुर्वाससं नृपः ॥ २५.९४ ॥
चुकोप राजा विप्रेषु पापकर्मा दुरासदः ।
पर्जन्यार्थं वृष्टिकामैः कृतो यज्ञो निरर्थकः ॥ २५.९५ ॥
पयः पुरातनं नष्टं न जातं वर्षणं क्वचित् ।
राज्ञस्तु वचनं श्रुत्वा दुर्वासाश्चाऽब्रवीत्नृपम् ॥ २५.९६ ॥
मुनींश्च सर्वांस्तत्रस्थान् धर्मतत्त्वविशारदान् ।
उदकं सर्वलोकानामीप्सितं च न संशयः ॥ २५.९७ ॥
ब्राह्मणानां तपो होमो वेदमन्त्रा वशे स्थिताः ।
दक्षिणा यज्ञरक्षा च यजमानवशे नृप ॥ २५.९८ ॥
यज्ञोपस्करणं किंचिद्यच्चान्यद्वेदसम्मितम् ।
तत्सर्वं यजमानेन वेदमूलं द्विजोत्तमाः ॥ २५.९९ ॥
वितोया नर्मदा जाता पर्जन्यो नैव वर्षति ।
तत्सर्वं कृतमेवं तु श्रुतिरेषा सनातनी ॥ २५.१०० ॥
या ययौ तां प्रतीक्षस्व नर्मदामापगोत्तमाम् ।
तस्य तद्वचनं श्रुत्वा क्षमस्वेत्यब्रवीत्नृपः ॥ २५.१०१ ॥
वशिष्ठो वामदेवश्च वदत्येवं युधिष्ठिर ।
काशीपुर्यां प्रयागे वा गङ्गायमुनसङ्गमे ॥ २५.१०२ ॥
तत्रैव वर्तते यज्ञः सत्यमेव तपोधनाः ।
केचिदाहुः कुरुक्षेत्रं स्थाने यत्र सरस्वती ॥ २५.१०३ ॥
समुद्दिष्टानि तीर्थानि मुनिभिस्तु पृथक्पृथक् ।
अब्रवीत्सहसा राजन् दुर्वासा रौद्रतापसः ॥ २५.१०४ ॥
नारदोऽपि मुनिश्रेष्ठः तापसो गतकिल्बिषः ।
सरस्वत्यां महाराज तत्र तोयं न विद्यते ॥ २५.१०५ ॥
तेषां तद्वचनं श्रुत्वा सालङ्कायनभूपतिः ।
अब्रवीच्च ततो वाक्यं सर्वानृषिगणान् प्रति ॥ २५.१०६ ॥
क्षणमेकं प्रतीक्षध्वं यावद्वहति कल्पगा ।
इत्युक्त्वा स नृपश्रेष्ठः ततस्तुष्टाव कल्पगाम् ॥ २५.१०७ ॥
नमस्तेऽस्तु सुरेशानि नमस्ते शङ्करात्मजे ।
इडा च पिङ्गला चैव उमा गङ्गा सरस्वती ॥ २५.१०८ ॥
गायत्री वेदमाता च सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी गौरी लोकमाता यशस्विनी ॥ २५.१०९ ॥
समुद्दिष्टानि तीर्थानि पृथिव्यां यानि कानि च ।
त्वयाऽवृतानि सर्वाणि जगच्च सचराचरम् ॥ २५.११० ॥
न तत्पश्यामि त्वद्वाराऽवृतं यन्न प्रदृश्यते ।
त्वत्तोयस्नानमात्रेण तृप्ता यान्ति परां गतिम् ॥ २५.१११ ॥
श्रुत्वा स्तोत्रमिदं देवी राज्ञश्चामिततेजसः ।
मकरासनमारूढा प्रत्यक्षा सप्तकल्पगा ॥ २५.११२ ॥
प्राह ब्रूहि वरं राजन् यत्ते मनसि वर्तते ।
राजोवाच -
पूर्वान् सप्त परान् सप्त प्रवाहानक्षयान् कुरु ॥ २५.११३ ॥
वरमेतमहं मन्ये सप्तकल्पान्तवासिनि ।
नर्मदोवाच -
दत्तो वरो मया ह्येष सत्यं तव नराधिप ॥ २५.११४ ॥
एवमुक्त्वा सरिच्छ्रेष्ठा जलौघेन परिप्लुता ।
प्रवाहैर्विस्तृतैस्तत्र वहन्ती सा व्यवस्थिता ॥ २५.११५ ॥
तं दृष्ट्वा तादृशं कर्म सालङ्कायनभूपतेः ।
तुष्टुवुर्मुनयः सर्वे सत्यधर्मपरायणाः ॥ २५.११६ ॥
स्नानावगाहनं पानं चक्रुस्ते पितृतर्पणम् ।
ततो निर्वतितो यज्ञो विप्रैः सर्वस्वदक्षिणैः ॥ २५.११७ ॥
यो यत्कामयते कामं तत्तस्मै प्रतिपादितम् ।
वस्त्रालङ्कारदानैश्च दिव्ययानैः सुशोभनैः ॥ २५.११८ ॥
ऋत्विजः पूजिताः सर्वे सालङ्कायनभूभृता ।
युगपत्पूजिताः सर्वे ब्रह्मविष्णुमहेश्वराः ॥ २५.११९ ॥
ततः शिवालयं गत्वा लिङ्गं त्रिदशपूजितम् ।
नाम्ना माहेश्वराख्यातं सर्वकामफलप्रदम् ॥ २५.१२० ॥
उमया सहितं शम्भुं भुक्तिमुक्तिप्रदायकम् ।
ओं महेश्वराय देवाय शम्भवाय नमो नमः ॥ २५.१२१ ॥
इत्यादिना तु मन्त्रेण समभ्यर्च्य विधानतः ।
कृताञ्जलिपुटो भूत्वा स्थितस्तत्रैव पार्थिवः ॥ २५.१२२ ॥
ततो विनिर्गता देवी पदमूलेन शूलिनः ।
प्रवाहो नर्मदा भेदे नार्मदः सुरपूजितः ॥ २५.१२३ ॥
ईश्वराद्यास्तथा देवाः सर्वे तुष्टास्तु भारत ।
वरं याचस्व भूपाल यथेष्टं मनसेप्सितम् ॥ २५.१२४ ॥
उवाच वचनं देवान् राजा परमधार्मिकः ।
यदि मे वरदा यूयं कामदाश्च प्रसादतः ॥ २५.१२५ ॥
इदं स्थानं तु न त्याज्यमीश्वराद्यैः सुरैरपि ।
यान्तु राष्ट्रे प्रजावृद्धिमनावृष्ट्या प्रपीडिताः ॥ २५.१२६ ॥
इदं वरमहं मन्ये पापा यान्तु त्रिविष्टपम् ।
अग्निश्चाहवनीयोऽत्र स्वयं तिष्ठति सर्वदा ॥ २५.१२७ ॥
देवा ऊचुः॒
यत्त्वया भाषितं राजंस्तत्सर्वं तु भवेदिति ।
एवमुक्त्वा ययुः सर्वे ह्यन्तर्धानं च खेचराः ॥ २५.१२८ ॥
पुनः प्रवर्धितं राष्ट्रं कामवर्षी च वासवः ।
यज्ञं निवर्तयित्वा तु दिव्यामात्यैः समावृतः ॥ २५.१२९ ॥
महीपालसहस्रैस्तु सान्तःपुरपरिच्छदः ।
विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम् ॥ २५.१३० ॥
एतत्ते कथितं राजन्नुमामाहेश्वरं प्रति ।
तिर्यग्योनिगताः पापा मृगपक्षिसरीसृपाः ॥ २५.१३१ ॥
अवशः स्ववशो वाऽपि शिवलोकमवाप्नुयात् ॥ २५.१३२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चविंशोऽध्यायः ॥
अध्याय २६
मार्कण्डेय उवाच -
अथान्यत्कथयिष्यामि मण्डपेश्वरमुत्तमम् ।
स्नातमात्रो नरस्तत्र न विशेद्योनिसङ्कटम् ॥ २६.१ ॥
दशलक्षाणि तीर्थानि तस्मिंस्तिष्ठन्ति भारत ।
मण्डपेश्वरतीर्थस्य कूर्मवृद्धिवदर्चनम् ॥ २६.२ ॥
सुरासुरगणैरिष्टं तस्मिंस्तीर्थे नराधिप ।
अनेकभाविकं पापं तत्क्षणादेव नश्यति ॥ २६.३ ॥
तिलोदकप्रदानेन पिण्डपातेन भारत ।
तृप्यन्ति पितरः सर्वे यावत्तिष्ठति कल्पगा ॥ २६.४ ॥
तत्र यस्त्यजति प्राणानवशस्ववशोऽपि वा ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ २६.५ ॥
मानसौ ब्रह्मणः पुत्रौ बादरायण शाकटौ ।
अगस्त्यस्याश्रमं पुण्यं महर्षिगणसेवितम् ॥ २६.६ ॥
कन्दमूलफलैः शाकैः शिवभक्तिपरायणैः ।
एकदाऽवसरे प्राप्ते अजापालो नृपात्मजः ॥ २६.७ ॥
अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः ।
अष्टोत्तरं शतं व्याघ्रानजाः कृत्वा ररक्ष च ॥ २६.८ ॥
सपादलक्षं जीवन्ति प्रजास्तस्मिन्महीपतौ ।
धनाढ्या धनदस्येव प्रशशास पुरीं तथा ॥ २६.९ ॥
स कदाचित्महाभागः ससैन्यो मृगयां गतः ।
महीपालसहस्रेण मुदा परमया युतः ॥ २६.१० ॥
सोऽपश्यत्पर्वतस्याग्रे मेरुतुल्ये महीपतिः ।
पुष्पारामसहस्राणि हर्म्याणि विविधानि च ॥ २६.११ ॥
तत्रैव शतसाहस्रं यतीनामूर्ध्वरेतसाम् ।
भक्त्याऽभ्यर्च्य विधानेन देवेशं च मुनींस्तथा ॥ २६.१२ ॥
प्रणम्योवाच मधुरं बादरायणशाकटौ ।
पितॄणां तारणार्थाय श्राद्धकालत्वसिद्धये ॥ २६.१३ ॥
महानयं भवद्भिश्च प्रसाद क्रियतां मयि ।
अभ्यर्च्य तान्मुनीन् सर्वान् प्रणिपत्य स्थितस्ततः ॥ २६.१४ ॥
तस्य तद्वचनं श्रुत्वा अजापालस्य भूभृतः ।
ऋषीणां तापसौ वृद्धौ बादरायणशाकटौ ॥ २६.१५ ॥
ऊचतुस्तौ तु वचनमजापालं नराधिपम् ।
न राजग्राहकाः सर्वे मुनयः शंसितव्रताः ॥ २६.१६ ॥
राजप्रतिग्रहो घोरो रौद्रः पापो भयावहः ।
नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत् ॥ २६.१७ ॥
स्वस्ति तेऽस्तु नृपश्रेष्ठ पन्थानः सन्तु ते शिवाः ।
एवमुक्त्वा तु चक्रुस्ते मुनयो वाक्यसंयमम् ॥ २६.१८ ॥
ब्रह्मशापभयाद्भीतो नृपस्तूष्णीं बभूव ह ।
गजानां दशसाहस्रं घण्टाभरणभूषितम् ॥ २६.१९ ॥
प्रादाद्विप्राय संकल्प्य मठं हेममयं शुभम् ।
कालञ्जरगिरिं राजा त्रिश्चकार प्रदक्षिणाम् ॥ २६.२० ॥
नमस्कृत्वा महेशानं भक्तियुक्तः सुहृद्वृतः ।
जगाम स्वपुरं राजा यथा शक्रोऽमरावतीम् ॥ २६.२१ ॥
गते तस्मिन्महीपाले ऋषयः काममोहिताः ।
केचिद्गजसमारूढा नानारत्नसमन्विताः ॥ २६.२२ ॥
केचिदश्वसमारूढा वीज्यमानाश्च चामरैः ।
लभन्ते विविधान् भोगांस्ते ब्रह्मर्षितपोधनाः ॥ २६.२३ ॥
देवस्वभक्षकाः सर्वे स्त्रीलोभवशवर्तिनः ।
सुखं च परमं प्राप्ता देवद्रव्येन राजसाः ॥ २६.२४ ॥
कालान्तरे ततः प्राप्ते सर्वे मृत्युवशं गताः ।
वर्जयित्वा तु विप्रौ द्वौ बादरायणशाकटौ ॥ २६.२५ ॥
श्वयोनिं समनुप्राप्ताः सर्वे ते मुनिपुङ्गवाः ।
अमेध्यभक्षकाः पापा देवनिर्माल्यभक्षणात् ॥ २६.२६ ॥
तेषां सम्पर्कभावेन श्ववक्त्रौ द्वावुपस्थितौ ।
शोचन्तः स्वानि कर्माणि व्याहरन्तः स्वकां गिरम् ॥ २६.२७ ॥
पप्रच्छतुः श्वयोनींस्तौ बादरायणशाकटौ ।
कर्मणा केन यूयं वै श्वयोनिं समुपागताः ॥ २६.२८ ॥
ऋषय ऊचुः॒
देवद्रव्ये गुरुद्रव्ये द्रव्ये चण्डीश्वरस्य च ।
त्रिविधं पातकं दृष्टं दानभक्षणलङ्घनात् ॥ २६.२९ ॥
तस्मात्सम्पर्कदोषेण सारमेयत्वमागताः ।
बभ्रमुः सर्वतीर्थानि दिव्यं वर्षशतं तथा ॥ २६.३० ॥
नैमिषारण्यमासाद्य यथा योगं व्यवस्थिताः ।
तेषां तद्वचनं श्रुत्वा बादरायणशाकटौ ॥ २६.३१ ॥
जग्मतुर्ब्रह्मलोकं तौ ब्रह्मपुत्रौ यशस्विनौ ।
अभिवाद्य यथान्यायं ब्रह्माणं जगतां पतिम् ॥ २६.३२ ॥
ऊचतुश्च स्ववृत्तान्तं पितरं तत्त्वदर्शिनम् ।
अत्यन्तौ मुनिशार्दूलौ दृष्ट्वा तौ विकृताननौ ॥ २६.३३ ॥
उवाच वचनं श्रीमान् ब्रह्मालोकपितामहः ।
देवद्रव्यापहारेण दुष्कृतं स्वर्गगर्हितम् ॥ २६.३४ ॥
सुरासुरगणैर्यत्तु लङ्घितुं नैव शक्यते ।
किं पुनर्मानुषैः क्षुद्रैर्देवद्रव्योपजीविकैः ॥ २६.३५ ॥
तेषां तु नियतं घोरे नरके पतनं स्मृतम् ।
निष्कृतिर्नर्मदा तेषां विहिता लोकपावनी ॥ २६.३६ ॥
स्नात्वा तु कल्पगा तोयेऽभ्यर्चयित्वा वृषध्वजम् ।
मुच्यते सर्वपापेभ्यः सत्यमेतत्मयोदितम् ॥ २६.३७ ॥
पितामहवचः श्रुत्वा बादरायणशाकटौ ।
ऋषिभिः सह तत्रैव नर्मदातीरमाश्रितौ ॥ २६.३८ ॥
सरिन्नान्याऽस्ति लोकेऽस्मिन्पापस्यास्य विशुद्धये ।
ततस्ते मुनयः सर्वे स्मरन्तः पूर्वदुष्कृतम् ॥ २६.३९ ॥
षण्मासाऽभ्यन्तरे राजन् छिवध्यानपरायणाः ।
निष्कल्मषाः बभूवुस्ते तीर्थस्यास्य प्रभावतः ॥ २६.४० ॥
बल्याद्या मुनयः सर्वे शतक्रतुपुरोगमाः ।
ददृशुस्ते क्रतुवरं शिवेनैव यथोदितम् ॥ २६.४१ ॥
गृहीत्वाऽथ मुनीन् सर्वे ब्रह्माद्याश्च सुरासुराः ।
सुप्रभास्तांस्तु देवत्वं मण्डपेश्वरदर्शनात् ॥ २६.४२ ॥
तेन लिङ्गं तु विख्यातं लोकेऽस्मिन्मण्डपेश्वरम् ।
स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां तु नृपोत्तम ॥ २६.४३ ॥
क्षत्रियाणां सहस्राणि तत्र सिद्धानि भारत ।
एतत्सर्वं समाख्यातं समासेन मयाऽनघ ॥ २६.४४ ॥
श्रवणात्कीर्तनाद्राजन् हयमेधफलं लभेत् ॥ २६.४५ ॥
युधिष्ठिर उवाच -
अमरेश्वरपूर्वेण पर्यङ्कात्पश्चिमे तथा ॥ २६.४६ ॥
तीर्थसंख्यां क्रमेणैव कथयस्व तपोधन ॥ २६.४७ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग पूर्वभागे व्यवस्थितम् ॥ २६.४८ ॥
श्वेतकिंशुकनामानं तीर्थं पापप्रणाशनम् ।
नराः सुखेन रूपेण यत्र स्नाता दिवं गताः ॥ २६.४९ ॥
श्वेतकिंशुकनामास्ति लिङ्गं परमसिद्धिदम् ।
ताटकेश्वरदेवश्च तत्र स्वर्गफलप्रदः ॥ २६.५० ॥
अन्यत्तु वर्णनामेति तीर्थं पापप्रणाशनम् ।
त्र्यम्बकस्तु महादेवो यत्रलोके वरप्रदः ॥ २६.५१ ॥
तस्य तीर्थस्य माहात्म्याद्गण्डेशस्त्रिदिवं गतः ।
गण्डकेश्वरलिङ्गं तु लिङ्गं शुक्लेश्वरं तथा ॥ २६.५२ ॥
नर्मदादन्तिवनिकासङ्गमो लोकविश्रुतः ।
तत्र लिङ्गेश्वरं लिङ्गं सर्वसिद्धिप्रदायकम् ॥ २६.५३ ॥
बालकेश्वरलिङ्गं तु तथाऽन्यत्पूर्णकेश्वरम् ।
रेवाया उत्तरे कूले नर्मदापुरमुत्तमम् ॥ २६.५४ ॥
तीर्थं कपिशिला नाम सर्वानर्थविदूषणम् ।
लिङ्गं सिद्धेश्वरं नाम तथाऽन्यन्नाडकेश्वरम् ॥ २६.५५ ॥
अत्रान्तरे नृपश्रेष्ठ दशलक्षाणि नामतः ।
तीर्थानि दशलक्षाणि कीर्तितानि यथाक्रमम् ॥ २६.५६ ॥
ततो गच्छेन्नृपश्रेष्ठ वैदूर्यात्पश्चिमां दिशम् ।
शशभीनर्मदायोगं सर्वपापप्रणाशनम् ॥ २६.५७ ॥
भुक्तिदं मुक्तिद चैव लिङ्गं वै शशभेश्वरम् ।
त्रिषु लोकेषु विख्यातं गर्दभीयोनिमोक्षणम् ॥ २६.५८ ॥
मण्डलेश्वरनामेह तीर्थं लिङ्गं नराधिप ।
यत्र माण्डलिकाः सिद्धा अजापालो मनुस्तथा ॥ २६.५९ ॥
तत्र चेष्ट्वा तु मनुजः सम्भवेन्न पुनर्भवे ।
तिलोदकप्रदानेन पिण्डपातेन भारत ॥ २६.६० ॥
पितरस्तस्य तृप्यन्ति यावच्चन्द्रदिवाकरौ ।
तत्र प्रदीयते दानं तस्य संख्या न विद्यते ॥ २६.६१ ॥
कान्तारकं ततो गच्छेत्सर्वतीर्थवरं शुभम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २६.६२ ॥
सपादलक्षमधिकं तीर्थानां मण्डलेश्वरे ।
कीर्तिते तव राजेन्द्र यथादृष्टं यथाश्रुतम् ॥ २६.६३ ॥
त्रेतायां रघुवंशे तु कुमारौ रामलक्षणौ ।
मैथिल्या सह राजेन्द्र उत्तीर्णो यत्र कल्पगाम् ॥ २६.६४ ॥
जग्मतुः पितुराज्ञां वै कुर्वन्तौ विष्णुरूपिणौ ।
स्नात्वा तीर्थवरे तत्र भक्त्याऽभ्यर्च्य महेश्वरम् ॥ २६.६५ ॥
राजतीर्थं तु तद्गोप्यं लिङ्गं वै लक्षणेश्वरम् ।
सीतेश्वरं तथा लिङ्गं सुरासुरनमस्कृतम् ॥ २६.६६ ॥
तत्र स्नात्वाऽर्चयित्वा तु शूलपाणिं महेश्वरम् ।
सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ॥ २६.६७ ॥
ततोगच्छेत्नृपश्रेष्ठ पुण्यतीर्थं शिवालयम् ।
माहिष्मतीं पुरीं रम्यां तां दृष्ट्वा न च्युतः क्वचित् ॥ २६.६८ ॥
यत्र कालाग्निरुद्रोऽस्ति प्रज्वलन्निव हेतुभिः ।
त्रयस्त्रिंशत्तु तिष्ठन्तु लिङ्गानां कोटयस्तथा ॥ २६.६९ ॥
ततः कोटीश्वरं लिङ्गं कोटितीर्थे नराधिप ।
यज्ञकोटिफलं तत्र तस्य लिङ्गस्य पूजनात् ॥ २६.७० ॥
तत्र दत्तस्य दानस्य कोटिसंख्या तु विद्यते ।
दशाश्वमेधतीर्थं तु भुक्तिमुक्तिफलप्रदम् ॥ २६.७१ ॥
तिलोदकप्रदानेन पितॄणां गतिरुत्तमा ।
स्नातमात्रो नरस्तत्र सूर्यतेज समप्रभः ॥ २६.७२ ॥
पुराणि पञ्चसामान्याच्छम्भुना कीर्तितानि वै ।
प्रभासश्च कुरुक्षेत्रं तथा मायापुरी शुभा ॥ २६.७३ ॥
अवन्ती च महाकालं तथा माहेश्वरं पुरम् ।
एतेषु च समग्रेषु विद्धि लिङ्गान्यनुक्रमात् ॥ २६.७४ ॥
अत्र दत्तं हुतं वेष्टमक्षयादपि चाक्षयम् ।
अवशः स्ववशो वाऽपि प्राणत्यागं करोति य ॥ २६.७५ ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ।
कीर्तयेत्प्रातरुत्थाय पुण्यान्येतानि यो नरः ॥ २६.७६ ॥
न स पापेन लिप्येत यमलोकं न पश्यति ।
तीर्थं पिपीलिका नाम गता यत्र पिपीलिकाः ॥ २६.७७ ॥
शिवलोकं महाभाग सर्वलोकोत्तमोत्तमम् ।
बन्ध्यारेवासमायोगं सुरासुरनमस्कृतम् ॥ २६.७८ ॥
सङ्गमे यत्र राजेन्द्र लिङ्गं वै मुनकेश्वरम् ।
योगिनस्तत्तु पश्यन्ति न तत्पश्यन्ति मानुषाः ॥ २६.७९ ॥
विख्यातं तत्तु नगरं नर्मदादक्षिणे तते ।
अयुत यत्र लिङ्गानां तीर्थानां च नराधिप ॥ २६.८० ॥
लिङ्गं चण्डीश्वरं नाम तथैवोडुगणेश्वरम् ।
वकेश्वरं तत्र विद्धि वका यत्र दिवं गताः ॥ २६.८१ ॥
तीर्थं गङ्गावहं नाम लिङ्गं वै सर्वसिद्धिदम् ।
अङ्गारेशमिति ज्ञेयं विमलं तत्र भारत ॥ २६.८२ ॥
सोमतीर्थमिति ज्ञेयं शुक्लतीर्थमतः परम् ।
तीर्थानां निरसं नाम ध्रुवतीर्थं नराधिप ॥ २६.८३ ॥
अनेकानि सहस्राणि तीर्थानां चैव भारत ।
तीर्थं पिपीलिका नाम भुक्तिमुक्तिप्रदायकम् ॥ २६.८४ ॥
क्रोशमात्रं तु विज्ञेयं पूर्वपश्चिमतस्तथा ।
तीर्थानामयुतं सार्द्धं ऋषिदेवनिषेवितम् ॥ २६.८५ ॥
तत्र दत्तं हुतं चैव तस्य संख्या न विद्यते ।
तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपि वा ॥ २६.८६ ॥
सर्वपापविनिर्मुक्त उमामाहेश्वरे पुरे ।
मोदते सर्वकामैस्तु यावदिन्द्राश्चतुर्दश ॥ २६.८७ ॥
यस्मादेव शिवं तस्मादर्चयेच्छान्तमानसः ।
मैत्रः कारुणिको नित्यं प्राप्नोति परमं पदम् ॥ २६.८८ ॥
क्षणमात्रेण यत्पुण्यं ततः कुर्यान्नराधिप ।
न तद्वर्षशतेनाऽपि न तु यज्ञशतैरपि ॥ २६.८९ ॥
शक्यं साधयितुं राजंस्तथा तीर्थशतैरपि ।
सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयन् ॥ २६.९० ॥
मैत्री च मुदिता राजन् पुण्यशीलेषु सर्वदा ।
पुण्यवत्सुखमापेक्ष्यं सर्वप्राणिषु यत्नतः ॥ २६.९१ ॥
अक्षेत्रे तु कृतं पुण्यं समं भवति भारत ।
नर्मदासङ्गमो यत्र तत्र संख्या न विद्यते ॥ २६.९२ ॥
अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ २६.९३ ॥
उत्तीर्णो नर्मदां यत्र कार्त्तिकेयो महाबलः ।
लिङ्गं तत्र च विज्ञेयं सिद्धिदं कार्त्तिकेश्वरम् ॥ २६.९४ ॥
चन्द्रेश्वरं तथा लिङ्गं लिङ्गं चैव शिखीश्वरम् ।
शक्तीश्वरं तथा चान्यत्सर्वपापप्रणाशनम् ॥ २६.९५ ॥
तेषाञ्चैव लिङ्गानामर्चनं भक्तिभावतः ।
ब्रह्महत्यादिकात्पापान्मुच्यते नात्र संशयः ॥ २६.९६ ॥
शिवलोकमवाप्नोति पितॄणां स्वर्गतिस्तथा ॥ २६.९७ ॥
युधिष्ठिर उवाच -
भगवान् छ्रोतुमिच्छामि माहिष्मत्यास्तु पश्चिमे ॥ २६.९८ ॥
सन्निधौ च तिलेशस्य सर्वपापप्रणाशनम् ।
रासभीनर्मदाभेदं सुरासुरनमस्कृतम् ॥ २६.९९ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग इतिहासं पुरातनम् ।
नर्मदागर्दभीभेदं तिर्यग्योनिविमोक्षणम् ॥ २६.१०० ॥
यस्मिंस्तीर्थे महाराज सतेजाहरिकेशयोः ।
अपाराद्रासभत्वाच्च मुक्तिः कल्मषनाशने ॥ २६.१०१ ॥
हविर्धानस्तु राजर्षिरासीत्कल्पो युधिष्ठिर ।
आत्रेयस्य सुतश्चासीद्ब्रह्मर्षिर्ब्रह्मवित्तमः ॥ २६.१०२ ॥
पावकस्य सुताया तु पाणिग्रहणधर्मतः ।
हविर्धानाय सा दत्ता सुतेजा नाम नामतः ॥ २६.१०३ ॥
कुशवल्कपरीधाना कन्दमूलफलाशिनी ।
रूपयौवनसम्पन्ना पार्वतीव मनोहरा ॥ २६.१०४ ॥
हविर्धानस्तु राजर्षिरृतुं बुद्ध्वा गतस्तु ताम् ।
आगतोऽसौ युवा तत्र सर्वशास्त्रविशारदः ॥ २६.१०५ ॥
महर्षिं त्वागतं ज्ञात्वा सुतेजा कामितुं गता ।
सहसाऽलंकृतां तां तु करं जग्राह स द्विजः ॥ २६.१०६ ॥
तेन सा धर्षिता तत्र यथेष्टं कामपीडिता ।
अग्निहोत्रस्य शालायां दाम्पत्यं कामसंयुतम् ॥ २६.१०७ ॥
ददृशे स महात्मा वै धर्माधर्मविशारदः ।
आसीद्विषण्णवदनो दृष्ट्वा तां पावकात्मजाम् ॥ २६.१०८ ॥
अवध्यो ब्राह्मणो दुष्टः पापात्मा पापकर्मकृत् ।
इयं च पत्नी दुष्टा मे न वध्या स्त्रीस्वभावतः ॥ २६.१०९ ॥
तमुवाच विचार्यैवं ब्राह्मणं दारकर्षकम् ।
मातरं गुरुपत्नीं च स्वसारं दुहितरं तथा ॥ २६.११० ॥
गत्वा तु प्रविशेदग्निं ततः शुद्ध्येत मानवः ।
गर्दभस्त्वं भवेद्विप्र गर्दभी च तथा विधिः ॥ २६.१११ ॥
दिव्यं वर्षसहस्रं तु अमेध्यं भक्षयिष्यथः ।
सुतेजाहरिकेशौ तु हविर्धानः शशाप तौ ॥ २६.११२ ॥
पीडितौ कर्मणा तेन गतौ द्वौ बद्रिकाश्रमम् ।
हिमस्थानं च केदारं भैरवं नैमिषं तथा ॥ २६.११३ ॥
सूर्याक्षं च गयातीर्थं गङ्गासागरसङ्गमम् ।
वाराणसीं प्रयागं च ओघतीर्थं च पुष्करम् ॥ २६.११४ ॥
योगीश्वरं रुद्रकोटिं महेन्द्रं ब्रह्मसम्भवम् ।
प्रभासं च कुरुक्षेत्रं तीर्थं सौम्येश्वरं तथा ॥ २६.११५ ॥
अनेकानि च तीर्थानि पृथिव्यां यानि कानि च ।
सार्द्धं तया तपस्विन्या हविर्धानस्य शापतः ॥ २६.११६ ॥
अनेकदुःखसम्पन्नो हरिकेशो भ्रमन्महीम् ।
खरयोनिनियुक्तस्तु परदाराभिकर्षकः ॥ २६.११७ ॥
कालेन भूयसा तत्र हरिकेशस्तया सह ।
तेनैव खररूपेण अगस्त्यं च महामुनिम् ॥ २६.११८ ॥
नमस्कृत्य मुनिं तत्र साष्टाङ्गं प्रणिपत्य च ।
गुरुतल्पगपापस्य परदाराभिगमिनः ॥ २६.११९ ॥
प्रायश्चित्तं विधानेन दीयतां मे द्विजोत्तम ।
मोचय त्वमिमां योनिं ब्रह्मलोकपदस्थितः ॥ २६.१२० ॥
हविर्धानान्तिकं याहि ततोऽगस्त्य उवाच तम् ।
तस्य तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् ।
हरिकेशोऽब्रवीद्वाक्यं सुतेजा सह सङ्गतः ॥ २६.१२१ ॥
अनुग्रहमिमं मन्ये ब्राह्मणानां न संशयः ।
ततो गतौ तु तं राजन् हविर्धानस्य चाश्रमम् ॥ २६.१२२ ॥
नमस्कृत्य मुनिश्रेष्ठं हरिकेशोऽब्रवीद्वचः ।
गुरुतल्पगपापोऽहं क्षमस्व मयि पुत्रके ॥ २६.१२३ ॥
शापान्तं च वरं मन्ये दातुमर्हसि सुव्रत ।
तस्य तद्वचनं श्रुत्वा हरिकेशस्य दुर्मतेः ॥ २६.१२४ ॥
उवाच वचनं विप्रस्तं वै गर्दभरूपिणम् ।
स्वकर्मणा तनुं त्वं हि गार्दभीं प्राप्तवानसि ॥ २६.१२५ ॥
जन्मान्तरकृतैश्चैव कर्मभिः कर्मकारिभिः ।
शुभं वाप्यशुभं वापि प्राप्यते नात्र संशयः ॥ २६.१२६ ॥
कर्मणां च विपाकोऽयमपि देवैः सवासवैः ।
ज्ञातुं न शक्यते विप्र गाहना कर्मणां गतिः ॥ २६.१२७ ॥
दोषो न विद्यते चैव तद्ब्राह्मण कथंचन ।
किंतु जन्मान्तरे येन कर्मणा तत्कृतं तव ॥ २६.१२८ ॥
तस्माद्विश हुताशं त्वमनया मेकलातटे ।
शङ्कराद्वरमासाद्य तावत्प्राप्स्यसि सद्गतिम् ॥ २६.१२९ ॥
एवमुक्तो ययौ राजन् हरिकेशस्तया सह ।
हरिकेशः सुतेजा च नर्मदातीरसन्निधौ ॥ २६.१३० ॥
दारूणि च समाहृत्य प्रविष्टौ च हुताशनम् ।
तत्क्षणाद्दिव्यदेहौ तु स्नात्वा स्पृष्ट्वा ह्युभावपि ॥ २६.१३१ ॥
कामिकं यानमारूढौ सर्वालङ्कारभूषितौ ।
अस्य तीर्थस्य माहात्म्याद्यथा लक्ष्मीजनार्दनौ ॥ २६.१३२ ॥
भुञ्जन्तौ विविधान् भोगान् गतौ माहेश्वरं पुरुम् ।
तेनाऽसौ सङ्गमः पुण्यस्तिर्यग्योनिविमोक्षणः ॥ २६.१३३ ॥
हरिकेशेश्वरं लिङ्गं सुतेजानिर्मितं तथा ।
हविर्धानेश्वरं नाम चतुर्थोऽगस्त्यनिर्मितम् ॥ २६.१३४ ॥
चत्वारि पुण्यलिङ्गानि काममोक्षप्रदानि तु ।
तिलोदकप्रदानेन तस्मिंस्तीर्थे नराधिप ॥ २६.१३५ ॥
मातृकं पैतृकं चैव नरकादुद्धरेत्पितॄन् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ २६.१३६ ॥
एतत्ते कथितं राजन्नाख्यानं च पुरातनम् ॥ २६.१३७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे गर्दभीतीर्थवर्णनो नाम षड्विंशोऽध्यायः ॥
अध्याय २७
मार्कण्डेय उवाच -
गौरीखण्डं ततो गच्छेत्सर्वदेवनमस्कृतम् ।
तत्र स्नानेन लभते सर्वतीर्थफलं नरः ॥ २७.१ ॥
तिलोदकप्रदानेन पितॄणां तृप्तिरक्षया ।
जायते च नृपश्रेष्ठ नात्र कार्या विचारणा ॥ २७.२ ॥
गौरीखण्डेश्वरं नाम लिङ्गं पापहरं परम् ।
तत्रज्ञेयं मणिमयं जलमध्ये व्यवस्थितम् ॥ २७.३ ॥
न तत्पश्यन्ति मनुजाः सर्वैर्देवैस्तु पूजितम् ।
युधिष्ठिर उवाच -
गौरीखण्डेश्वरं नाम तस्मिंस्तीर्थे कथं मुने ॥ २७.४ ॥
कथ्यतां च यथा न्यायं विदितं यत्तु साम्प्रतम् ।
मार्कण्डेय उवाच -
पुरादेवगणैः सर्वैः कुमारः शङ्करात्मज ॥ २७.५ ॥
सैनापत्ये नियुक्तश्च तारकस्य वधं प्रति ।
कामितास्तेन तत्रैव सर्वास्ताः सुरयोषितः ॥ २७.६ ॥
उपालब्धास्ततः सर्वा उमामाहेश्वरे पुरे ।
उपालब्धं तु तं श्रुत्वा विषण्णा चैव पार्वती ॥ २७.७ ॥
कामितं यत्र यत्रैव तत्र तत्रेश्वरेश्वरी ॥ २७.८ ॥
दृष्ट्वाऽथ लज्जितः सोऽपि पक्षिणाऽसौ समाययौ ।
देवैः परिवृतः श्रीमान्मयूरस्थो महाबलः ॥ २७.९ ॥
पृष्ठतोऽनुगता माता रुदतीव सुरेश्वरी ।
उत्तीर्णा कल्पगां देवी पूजयित्वा महेश्वरम् ॥ २७.१० ॥
गौरीखण्डं तु विख्यातं त्रिषु लोकेषु तेन तत् ।
लिङ्गं प्रतिष्ठितं तत्र कुमारेश्वरसंज्ञितम् ॥ २७.११ ॥
मयूरेश्वरलिङ्गं तु भुक्तिमुक्तिफलप्रदम् ।
यस्य देवस्य माहात्म्यात्मयूरास्त्रिदिवङ्गताः ॥ २७.१२ ॥
अर्चनात्तस्य देवस्य तिर्यग्योनिर्न जायते ।
ततो गच्छेत्महाराज करमर्दासमागमम् ॥ २७.१३ ॥
तत्र स्नातो महाराज स भवे न पुनर्भवेत् ।
करमर्देश्वरं लिङ्गं पूजयेत्तत्र भारत ॥ २७.१४ ॥
पितॄणां तर्पणात्तत्र स्वर्गं प्राप्नोति मानवः ।
युधिष्ठिर उवाच -
कथयस्व महाभाग करमर्दासमुद्भवम् ॥ २७.१५ ॥
भाविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् ।
मार्कण्डेय उवाच -
कथयामि यथादृष्टं शृणु चैकमना नृप ॥ २७.१६ ॥
मैत्रेयस्याश्रमं पुण्यं ऋषिभिस्तु निषेवितम् ।
मुनीनां तु सहस्राणि कन्दामूलफलाशिनाम् ॥ २७.१७ ॥
निवसन्ति यदा तत्र तपः कर्तुं निरन्तरम् ।
कस्मिंश्चिदन्यकाले तु तस्मिन्मुनिवराश्रमे ॥ २७.१८ ॥
राजा कुशध्वजो नाम एकच्छत्राधिपो नृप ।
आगमत्कलातीरं राहुसूर्यसमागमे ॥ २७.१९ ॥
अवतीर्णान्मुनीन्सर्वान् यथार्हं प्रणिपत्य च ।
पितॄणां श्राद्धकालोऽद्य प्रसादः क्रियतां मयि ॥ २७.२० ॥
ऋषय ऊचुः॒
गवां दशायुतान्येकप्रसूतानां पयोमुचाम् ।
सवत्सानां सुवर्णानां घण्टाभरणशोभिनाम् ॥ २७.२१ ॥
यदि शक्नोषि दातुं त्वं होमार्थे पितृदेवयोः ।
तत्र प्रवर्ततां श्राद्धं सत्यमेतत्तवोदितम् ॥ २७.२२ ॥
तेषां तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् ।
कुशध्वजोऽब्रवीद्वाक्यं ब्राह्मणांस्तान् यथार्थतः ॥ २७.२३ ॥
अनुग्रहमिमं मन्ये यथोक्तं ब्रह्मचारिभिः ।
ददाम्यहं न सन्देह इहैव मुनिपुङ्गवाः ॥ २७.२४ ॥
भोजयित्वा ततः श्राद्धे ब्राह्मणांस्तान्नृपोत्तमः ।
सकुशं जलमादाय तेभ्यो दत्ता तु गास्तदा ॥ २७.२५ ॥
दत्त्वा दान मुदायुक्तः स जगाम स्वकं पुरम् ।
स्थितास्तु ब्राह्मणास्तत्र होमकार्यार्थसिद्धये ॥ २७.२६ ॥
एकस्मिन् वासरे प्राप्ता राक्षसा घोररूपिणः ।
बुभुक्षिता महादंष्ट्रा विकृतास्या भयानकाः ॥ २७.२७ ॥
ब्राह्मणानां तदा गा वै भक्षितुं समुपागतान् ।
दृष्ट्वा तान् विकृताकारांस्तीव्रनादपरायणान् ॥ २७.२८ ॥
प्रणष्टास्तु ततः स्थानान्नर्मदाजलमाविशन् ।
तत्क्षणाद्दिव्यलोकस्थाः सर्वास्ताः कामधेनवः ॥ २७.२९ ॥
ततस्ते क्षुधितास्सर्वे ब्राह्मणान् भक्षितुं गताः ।
हरिं स्मरन्ति ते सर्वे ब्राह्मणाः शंसितव्रताः ॥ २७.३० ॥
रेवाजलं प्रविष्टा वै राक्षसैः परिपीडिताः ।
विष्णोः प्रस्वेदजस्तत्र प्रवाहो नर्मदां गतः ॥ २७.३१ ॥
गोपदं दृश्यते तत्र सर्वामरनमस्कृतम् ।
करमर्देश्वरं लिङ्गं विष्णुचक्राद्विनिःसृतम् ॥ २७.३२ ॥
प्रतिष्ठितं च तत्रैव विष्णुना प्रभविष्णुना ।
गावश्च ब्राह्मणाश्चैव सत्यमेतद्ब्रवीमि ते ॥ २७.३३ ॥
ब्रह्मलोकं गताः सर्वे तीर्थस्यास्य प्रभावतः ।
करमर्देश्वरं तीर्थं सर्वपापप्रणाशनम् ।
कीर्तितं कर्मणा तेन मह्याममिततेजसा ॥ २७.३४ ॥
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ २७.३५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे करमर्देश्वरीकीर्तनं नाम सप्तविंशोऽध्यायः ॥
अध्याय २८
युधिष्ठिर उवाच -
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥ २८.१ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग यन्मां त्वं परिपृच्छसि ।
इक्ष्वाकुवंशसम्भूतो युवनाश्वो महीपतिः ॥ २८.२ ॥
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः ।
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः ॥ २८.३ ॥
मन्त्रिष्वाधाय तद्राज्यं वननिष्ठो महीपतिः ।
शास्त्रदृष्टेन विधिना संयम्यात्मानमात्मना ॥ २८.४ ॥
फलमूलानुभक्षश्च स चचार महत्तपः ।
शुष्ककण्ठः पिपासार्तः पानीयार्थे भृशः नृपः ॥ २८.५ ॥
सम्प्रविश्याश्रमस्यान्तः पानीयं सोऽभ्ययाचत ।
तस्य शुष्केण कण्ठेन क्रोशतस्तु तदा भृशम् ॥ २८.६ ॥
नाऽश्रौषीद्वचनं तत्र चातकस्यैव वासवः ।
भगवांस्तु तदा कश्चिदृषिस्तस्य महीपतेः ॥ २८.७ ॥
पुत्रीयमग्रतः कृत्वा मन्त्रैश्चाप्यभिमन्त्रितम् ।
रात्रौ च कलशं तत्र जलपूर्णं पिपासितः ॥ २८.८ ॥
अभ्यद्रवत्स वेगेन पीत्वापस्तत्र चास्वपत् ।
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ॥ २८.९ ॥
अग्निर्निवर्तितस्तस्य सुखी चैवाऽभवत्तदा ।
ततस्तेऽचाप्यबुध्यन्त मुनयः शंसितव्रताः ॥ २८.१० ॥
कस्येदं कर्म कुपिताः पप्रच्छुस्तं नृपं तदा ।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यते ॥ २८.११ ॥
युवनाश्वमिदं प्राह भगवान् भार्गवस्तदा ।
सुतार्थं स्थापितं ह्येतत्तपसा चैव सम्भृतम् ॥ २८.१२ ॥
मया कर्म कृतं चैतत्तप आस्थाय दारुणम् ।
पुत्रार्थं तव राजेन्द्र येन ते बलवान् भवेत् ॥ २८.१३ ॥
महाबलो महावीर्यस्तपोबलसमन्वितः ।
सुतः शक्रसमोऽत्यर्थं सर्वधर्मपरायणः ॥ २८.१४ ॥
विधिना मन्त्रयुक्तेन मयैतदुपपादितम् ।
अभक्षणं त्वया राजन् युक्तं न कृतमत्र वै ॥ २८.१५ ॥
नूनं दैवकृतं त्वद्य यत्तत्त्वं कृतवानसि ।
पिपासुना च यत्पीतं विधिमन्त्रपुरस्कृतम् ॥ २८.१६ ॥
जलं त्वया महाराज तेन त्वं वीर्यवानसि ।
अन्वहं कर्म कृत्वाऽपि महान्तं सुखमाप्स्यसि ॥ २८.१७ ॥
विधास्यामो वयं चात्र पुत्रेष्टिं परमां तदा ।
वीर्येण शक्रतुल्यं त्वं पुत्रं वै जनयिष्यसि ॥ २८.१८ ॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।
वामपार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ २८.१९ ॥
निश्चक्राम महातेजा न च तं मृत्युराविशत् ।
युवनाश्वस्य नृपतेस्तदद्भुतमिवाभवत् ॥ २८.२० ॥
तं द्रष्टुं समुपागतः शक्रं पृच्छन्ति तं देवाः ।
सुतः किं धास्यतीत्ययम् .... .... ॥ २८.२१ ॥
एष मां धास्यतीत्येवं शक्रः प्रोवाच तान् सुरान् ।
प्रदेशिनीं च तस्यास्ये ततः शक्रः समादधौ ॥ २८.२२ ॥
स तां बालस्ततो हृष्टः पपौ तस्य प्रदेशिनीम् ।
मान्धातेति च नामास्य शक्रश्चक्रे यथार्थवत् ॥ २८.२३ ॥
अवाप्य स शिशुस्तत्र शक्रदत्तां प्रदेशिनीम् ।
अवर्धत्महीपालः किंतु षोडशिकाः समाः ॥ २८.२४ ॥
आयुर्वेदादिशास्त्राणि दिव्यशास्त्राणि सर्वशः ।
उपतस्थुर्महाराजं ध्यानमात्रेण तं तदा ॥ २८.२५ ॥
धनुराजगवं नाम शराश्शृङ्गोद्भवाश्च ये ।
अभेद्यं कवचं चैव सद्यस्तमुपतस्थिरे ॥ २८.२६ ॥
सोऽभिषिक्तो मघवता देवैः सार्द्धं च भारत ।
धर्मेण चाक्रमल्लोकान् सर्वान् विष्णुरिव क्रमैः ॥ २८.२७ ॥
तस्याऽप्रतिहतं चक्रं प्रचचार महात्मनः ।
शतानि चैव राजानः स्वयमेवोपतस्थिरे ॥ २८.२८ ॥
तस्यैवमभवत्पूर्वं वसुधा वसुधापते ।
तेनेष्टं विविधैर्यज्ञैर्बहुभिश्चाप्तदक्षिणैः ॥ २८.२९ ॥
हृष्टमना महातेजाः स्वधर्मं प्राप्य पुष्कलम् ।
शक्रस्यार्धासनं धीमान् लब्धवानमितद्युतिः ॥ २८.३० ॥
आपालिता च पृथिवी तेन धर्मेण धीमता ।
निर्जिता शासनादेव सरत्नाकरपत्तना ॥ २८.३१ ॥
तत्कृतानां महाराज क्रतूनां दक्षिणावताम् ।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ २८.३२ ॥
दशलक्षसहस्राणि राज्यं तस्य महात्मनः ।
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ॥ २८.३३ ॥
वृष्टिं च सस्यवृद्ध्यर्थं मिषता वज्रपाणिना ।
तेन सोमकुलोत्पन्नो गन्धर्वाधिपतिर्महान् ॥ २८.३४ ॥
गत्वा समानयन्मेघं प्रमथ्याभिहितः शरैः ।
प्रजाश्चतुर्विधास्तेन धृतास्तत्र महात्मना ॥ २८.३५ ॥
तेनाप्तास्तपसा लोकाः स्थापिताः स्वेन तेजसा ।
तस्यैव देववसतिस्थानमादित्यतेजसः ॥ २८.३६ ॥
यस्य पुण्यतमे देशे दृश्यतेऽमरकण्टकः ।
इष्ट्वा तत्र क्रतुशतमोङ्कारस्यैव चाग्रतः ॥ २८.३७ ॥
राज्ञा च पर्वते तस्मिन् स्तोत्रमेतदुदाहृतम् ।
नमस्ते कालमेघाय कालात्मक नमोऽस्तु ते ॥ २८.३८ ॥
कालाधिपं नमस्तेऽस्तु कालरूपः प्रवर्तसे ।
कालात्मा कालरूपेण विश्वात्मा विश्वरूपधृक् ॥ २८.३९ ॥
विश्वेश्वर नमस्तेऽस्तु कालत्यागे प्रवर्तकः ।
भवाय भवनाशाय भवोद्भव नमोऽस्तु ते ॥ २८.४० ॥
ओं नमो महादेवाय शम्भवाय भवाय च ।
अजपाय अजाताय अजायतनमीढुषे ॥ २८.४१ ॥
प्रभवाय शिवतराय अक्षमाय नमो नमः ।
त्र्यम्बकाय त्रिमूर्ताय त्रिलोकेशाय ते नमः ॥ २८.४२ ॥
अकालाय अजराय अमराय नमो नमः ।
ओंकारमादिदेवं च ये वै ध्यायन्ति नित्यशः ॥ २८.४३ ॥
न तेषां पुनरावृत्तिर्घोरे संसारसागरे ।
श्रुत्वा स्तोत्रमिदं देवः ओंकारः कालरूपधृक् ॥ २८.४४ ॥
प्रत्युवाच महीपालं देवदेव उमापतिः ।
वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रत ॥ २८.४५ ॥
तुष्टोऽस्मीति न सन्देहो यथेष्टं तद्ददाम्यहम् ।
मान्धातोवाच -
यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि ॥ २८.४६ ॥
वैदूर्यो नाम शैलेन्द्रो मान्धाताख्यानमर्हति ।
देवस्थानमिदं देव त्वत्प्रसादाद्भविष्यति ॥ २८.४७ ॥
अत्र दानं तपः पूजा तथा प्राणविसर्जनम् ।
ये कुर्वन्ति नरास्तेषां शिवलोके निवासिता ॥ २८.४८ ॥
तस्य तद्वचनं श्रुत्वा मान्धातुः परमेश्वरः ।
उवाच वचनं देवो मान्धातारं महीपतिम् ॥ २८.४९ ॥
सर्वमेतत्नृपश्रेष्ठ मत्प्रसादाद्भविष्यति ।
एवमस्त्विति तं चोक्त्वा वरं लब्ध्वा महीपति ॥ २८.५० ॥
जगाम स्वां पुरीं शीघ्रं यथा शक्रोऽमरावतीम् ।
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ॥ २८.५१ ॥
यो ममाग्रे महीपाल दृष्टोऽद्रिर्वै त्वयानघ ।
तदा प्रभृति मान्धाता वैदूर्यो गीयते गिरिः ॥ २८.५२ ॥
अस्य तीर्थस्य माहात्म्यात्मान्धातृप्रमुखा नृपाः ।
सर्वकामसमुद्युक्ता लोके क्रीडन्ति वैष्णवे ॥ २८.५३ ॥
श्रवणात्कीर्तनाद्वाऽपि हयमेधफलं लभेत् ॥ २८.५४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मान्धातुरुपाख्यानेऽष्टाविंशोऽध्याय
अध्याय २९
मार्कण्डेय उवाच -
कृते युगेऽथ सम्प्राप्ते बलिर्नाम महासुरः ।
तस्य पुत्रो महावीर्यः सहस्रभुजविश्रुतः ॥ २९.१ ॥
दिव्यं वर्षसहस्रं तु तेन चाराधितो हरः ।
तुष्टेन तेन सम्प्रोक्तः प्रार्थयस्व वरं वर ॥ २९.२ ॥
यत्किंचिद्वै वरं प्रोक्तं तद्दास्यामि न संशयः ।
बाणासुरो वदत्येवं यदि तुष्टोऽसि मे प्रभो ॥ २९.३ ॥
पुरं भवतु मे दिव्यमजेयं सर्वदैवतैः ।
त्वामेव वर्जयित्वा तु दुष्प्राप्यं सर्वदैवतैः ॥ २९.४ ॥
मयि तिष्ठति यत्तिष्ठेत्मयि गच्छति गच्छतु ।
कामिकं भवनं देव पुर भवतु मे तदा ॥ २९.५ ॥
उक्तो बाणासुरस्तेन बलिपुत्रो महायशाः ।
विष्णुनाभिहितश्चासौ किं त्वया प्रार्थितो हरः ॥ २९.६ ॥
बाण उवाच -
मह्यं दत्तं महेशेन पुरं पुरवरोत्तमम् ।
अजेयं सर्वदेवानामसुराणां च दुर्लभम् ॥ २९.७ ॥
यदि दत्तं महेशेन पुरं तुभ्यं यथेप्सितम् ।
मयाऽपि ते प्रदत्तं च द्वितीयं तादृशं पुरम् ॥ २९.८ ॥
विष्णुनाऽपि पुरं दत्तं द्वितीयं च मनोरमम् ।
एकीभूतौ तु तौ देवायूचतुस्तौ बलेः सुतम् ॥ २९.९ ॥
गच्छ बाणासुर क्षिप्रं यत्रास्ते कमलासनः ।
गतस्तत्र बलेः पुत्रो यत्रातिष्ठत्पितामहः ॥ २९.१० ॥
परिष्वज्य स्वहस्तेन पृष्टश्चैव स्वयम्भुवा ।
बहुवर्षसहस्रं तु तपो घोरं त्वया कृतम् ॥ २९.११ ॥
वरस्तु कस्त्वया प्राप्तस्तपसाराध्य शङ्करम् ।
ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच महासुरः ॥ २९.१२ ॥
मया तु प्रार्थितो रुद्रो दत्तस्तेन प्रसादतः ।
कामरूपं पुरं प्राप्तं मनोरम्यं मनोरमम् ॥ २९.१३ ॥
तादृशं तु पुरं दत्तं द्वितीयं विष्णुना पुनः ।
बाणासुरवचः श्रुत्वा प्रत्युवाच महासुरम् ॥ २९.१४ ॥
त्वया तु प्रार्थितो रुद्रो दत्तं तेन महात्मना ।
मयाऽपि ते पुरं दत्तं तेनासौ त्रिपुरः स्मृतः ।
एवं प्राप्तवरो राजन्महाबलपराक्रमः ॥ २९.१५ ॥
सहस्रभुजविस्तीर्णस्त्ववध्यः सर्वदैवतैः ।
पुराणि दानवानां तु अमराणां तु यानि च ॥ २९.१६ ॥
यक्षविद्याधराणां तु गन्धर्वाणां च रक्षसाम् ।
भग्नानि तानि सर्वाणि स्थण्डिलानि हृतानि च ॥ २९.१७ ॥
भग्नामरावती तेन पुरा शक्रस्य भारत ।
त्रिपुरं ह्यभवत्सर्वं कैलासः केवलं पृथक् ॥ २९.१८ ॥
उद्विग्नमानसा देवा हरपार्श्वमुपाययुः ।
वरो दत्तस्त्वया तस्मै ब्रह्मणा विष्णुनापि च ॥ २९.१९ ॥
तेन सार्धं तु संग्रामे शक्तिर्नास्तीति कस्यचित् ।
यस्तस्य पुरतस्तिष्ठेत्तमसौ भस्मतां नयेत् ॥ २९.२० ॥
एवं श्रुत्वा शिवो वाक्यं परं कौतूहलं ततः ।
संप्रेषितास्तदा देवा ब्रह्मविष्णुपुरोगमाः ॥ २९.२१ ॥
समेत्य गम्यतां देवास्त्रिंशत्कोट्यो महाबलाः ।
विनाशयत यत्नेन त्रिपुरं पुरसंस्थितम् ॥ २९.२२ ॥
ततो गताः सुराः सर्वे बद्धवैराः सहस्रशः ।
वाणासुरपुरं यत्र सुतीक्ष्णनिशितायुधाः ॥ २९.२३ ॥
सुयुद्धबलसम्पन्नाः सर्वे ते बलशालिनः ।
मार्गं पुरं च देशं च छादयन्तो घना इव ॥ २९.२४ ॥
संक्षिप्तेनैव कालेन मनसा चिन्तितेन च ।
सर्वे ते त्रिपुरं प्राप्ता धनुः क्षिप्ताः शरा इव ॥ २९.२५ ॥
द्रष्टुं दश दिशस्तेन प्रेषिता ये च किङ्कराः ।
ऊचुर्बाणासुरं ते तु निश्चिन्तस्त्वं कथं प्रभो ॥ २९.२६ ॥
उक्तं बाणासुरेणाऽपि वरोऽद्य सफलो मम ।
समीहितफलं प्राप्तं कुतो गच्छन्ति ते सुराः ॥ २९.२७ ॥
तेन ते क्षणमात्रेण सर्वे देवा जितास्तदा ।
हृतानि च ततोऽस्त्राणि पात्र भोजनं यथा ॥ २९.२८ ॥
इन्द्रस्यापि हृतं वज्रं चक्रं वै केशवस्य तु ।
जलं पितामहस्यापि पाशं च वरुणस्य च ॥ २९.२९ ॥
कुबरेस्य गदां चैव मरुतश्चाङ्कुशं तथा ।
यमस्यापहृतो दण्डः शक्तिर्वैश्वानरस्य च ॥ २९.३० ॥
कामरूपं पुरं तस्य हरदत्तं प्रसादतः ।
न शक्यते सुरैः सर्वैर्ब्रह्मविष्णुपुरोगमैः ॥ २९.३१ ॥
बाधितुं दैत्यराजस्य समन्तान्मिलितैरपि ।
सुरा बाणासुरेणैव ततो युद्धे पराजिताः ॥ २९.३२ ॥
भग्नास्तूत्साहरहिता हरपार्श्वमुपागताः ।
शिवेनोक्तास्तु ते सर्वे तत्र गत्वा तु किं कृतम् ॥ २९.३३ ॥
संग्रामः कीदृशस्तेन भवद्भिः सह निर्मितः ।
ततः किं कथ्यते देव न शक्तास्तस्य कर्मणि ॥ २९.३४ ॥
न तेन सह संग्रामे सम्मुखं केनचित्कृतम् ।
देवतावचनं श्रुत्वा क्रुद्धः प्रोवाच शङ्करः ॥ २९.३५ ॥
त्रिपुरं च महादुष्टामिमं व्यापादयाम्यहम् ।
अथवा चापमाकृष्य ह्यसुरं प्रदहाम्यहम् ॥ २९.३६ ॥
येन जीवन्नरो यस्तु सुराणां किङ्करो भवेत् ।
पतिव्रता प्रसादेना त्रिपुरं च सुरासुरैः ॥ २९.३७ ॥
न शक्यं धर्षितुं तस्मान्नारदं प्रेषयाम्यहम् ।
नारदः प्रेषितस्तत्र क्षोभय त्वं पतिव्रताः ॥ २९.३८ ॥
एवमुक्तस्तु देवर्षिर्बाणासुरपुरं ययौ ।
त्वरितं पुरमध्ये तु यत्र बाणासुरो नृपः ॥ २९.३९ ॥
तं तु देव ऋषिं दृष्ट्वा ह्यसुरो वाक्यमब्रवीत् ।
नमस्कृत्य च साष्टाङ्गमर्घपाद्यैः प्रपूज्य च ॥ २९.४० ॥
कुतोऽत्रागमनं तेऽद्य किं वा कार्यं महामुने ।
तस्य तद्वचनं श्रुत्वा मुनिः प्रोवाच तं तदा ॥ २९.४१ ॥
कुशलं ते बलेः पुत्रसादरं तु पुनः पुनः ।
बाणासुरोऽब्रवीद्वाक्यं कुशलं तव दर्शनात् ॥ २९.४२ ॥
देवर्षिरुपविष्टस्तु दिव्यासनसुशोभितः ।
राज्ञी चाभ्यर्चयत्तत्र स तस्यै नारदस्तदा ॥ २९.४३ ॥
पुराणवेदबाह्यानि वृत्तान्यादेशयन्मुनिः ।
नारीणां चलितं चित्तं कृत्वा देवमुनिस्तदा ॥ २९.४४ ॥
आगतो नारदः श्रीमान् कैलासं पर्वतोत्तमम् ।
नमस्कृत्य महादेवं वृत्तान्तं संन्यवेदयत् ॥ २९.४५ ॥
घातय त्रिपुरं देव सपुरं सुरकण्टकम् ।
निर्गतस्तु हरस्तस्मात्कैलासनिलयात्प्रभुः ॥ २९.४६ ॥
स्वकीयेनैव मार्गेण यत्रऽसौ त्रिपुरऽसुरः ।
देवी चण्डेश्वरो नन्दी महाकालो महेश्वरः ॥ २९.४७ ॥
वृषो भृङ्गिरिटिश्चैव विघ्नेशः स्कन्द एव च ।
पुष्पदन्तो महावीरो घण्टाकर्णो महोदरः ॥ २९.४८ ॥
गोमुखो हस्तिकर्णश्च स्थूलजङ्घो वृकोदरः ।
गणाः पञ्चदश त्वेते हरतुल्यपराक्रमाः ॥ २९.४९ ॥
अस्ति सिद्धो महाक्षेत्रं श्रीशैलो नामपर्वतः ।
तत्र स्थित्वा महादेवो हन्तव्यस्त्रिपुरः प्रिये ॥ २९.५० ॥
स्थानं माहेश्वरं चक्रे व्यापी तत्र पिनाकधृक् ।
एकपादेन ब्रह्माण्डं पातालं चापरेण च ॥ २९.५१ ॥
हिमवन्तं धनुः कृत्वा गुणं कृत्वा तु वासुकिम् ।
शरं वैश्वानरं कृत्वा तस्याऽग्रं कालमेव तु ॥ २९.५२ ॥
रथं भूमण्डलं कृत्वा वेदान् कृत्वा हयांस्तथा ।
रश्मींस्तक्षककर्कोटौ ब्रह्माणं सारथिं स्वयम् ॥ २९.५३ ॥
चक्ररक्षं वासुदेवमघोरं मन्त्रसप्तकम् ।
तथा पाशुपतं चैव मन्त्रराजं तथैव च ॥ २९.५४ ॥
दिव्यं वर्षसहस्रं तु स्थानं कृत्वा स्थितोऽभवत् ।
तिष्ठतो मम तत्रैव कालेन महता प्रिये ॥ २९.५५ ॥
लक्ष्यालक्ष्ये तनू कृत्वा गणेशो विघ्नमाचरत् ।
वामपादनखाग्रेण चलितः स्थानकादहम् ॥ २९.५६ ॥
ततो मया हतो नाऽसौ रक्षितुं त्रिपुरं कथम् ।
प्रवृत्तोऽसि गणाधीश जगद्विध्वंसकारकम् ॥ २९.५७ ॥
इति तस्य वचः श्रुत्वा विघ्नेशो वाक्यमब्रवीत् ।
अहं न विघ्नये त्वां चेत्कथमन्येऽर्चयन्ति माम् ॥ २९.५८ ॥
अपूजिते मयि विभो यः कार्यं कर्तुमिच्छति ।
तस्मै विघ्नं प्रदास्यामि सुरासुरगणेष्वपि ॥ २९.५९ ॥
एवमस्त्विति तं प्राह शङ्करः तदनन्तरम् ।
वध्यं चैव गतो लक्ष्यं संशक्तस्त्रिपुरं प्रति ॥ २९.६० ॥
तापसोऽयं दुराचारो दैत्यः परपुरं जयः ।
विनाशायाऽस्य दुष्टस्य कंचाहं प्रेषये शरम् ॥ २९.६१ ॥
त्रिपुरस्य वधार्थाय क्षिप्रं पाशुपतं महत् ।
अस्त्रमन्यद्विधास्यामीत्युक्त्वा देवो हरः पुरम् ॥ २९.६२ ॥
अघोरास्त्रेण तद्दग्धं त्रिखण्डं जर्जरीकृतम् ।
पातितं तु जले तत्र ततो मां शरणं गताः ॥ २९.६३ ॥
भवानि दानवैः सार्द्धं तेषां पत्न्यः सुतेक्षणाः ।
आपतन्ति रुदन्त्यस्ताः शतशोऽथ सहस्रशः ॥ २९.६४ ॥
सर्वासां निर्दयो वह्णिः स ददाह पतींस्तथा ।
श्रीशैले पतितं चैकमन्यच्चामरकण्टके ॥ २९.६५ ॥
गङ्गासागरसम्भेदे तृतीयं च तथा प्रिये ।
पुत्रपौत्रकलत्राणि मणिहेमपुराणि च ॥ २९.६६ ॥
विनाशं यान्ति तान् यत्र लिङ्गमेकं न नश्यति ।
लिङ्गानां नवकोटीनां यद्येकमपि दह्यते ॥ २९.६७ ॥
प्राणत्यागं करिष्यामि हुताशेऽस्मिंस्तदा ध्रुवम् ।
दग्धं तु त्रिपुरं कृत्स्नमघोरास्त्रेण दारुणम् ॥ २९.६८ ॥
पातितं नर्मदा मध्ये ज्वलत्कालानलप्रभम् ।
तद्भित्त्वा सप्तपातालं रसातलतलं ययौ ॥ २९.६९ ॥
तेन जालेश्वरं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
अर्चनात्तस्य देवस्य मुच्यते ब्रह्महत्यया ॥ २९.७० ॥
कल्पकोटिसहस्राणि वसेच्छिवपुरे सुखी ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ॥ २९.७१ ॥
तिलोदकप्रदानेन पिण्डपातेन भारत ।
पितरस्तस्य तृप्यन्ति शिवो यावच्च कल्पगा ॥ २९.७२ ॥
सार्द्धकोटिश्च लिङ्गानां गङ्गासागरसङ्गमे ।
सार्द्धकोटिश्च पतिता लिङ्गानां पुरवर्धने ॥ २९.७३ ॥
दशार्धकोटिः पतिता श्रीशैले त्रिपुरान्तिके ।
तिस्रः कोट्यार्धकोटी च पतितामरकण्टके ॥ २९.७४ ॥
एतानि बाणलिङ्गानि भुक्तिमुक्तिप्रदानि तु ।
त्रिपुरघ्नमघोरास्त्रं ज्वलत्कालाग्निरुद्रवत् ॥ २९.७५ ॥
कल्पगां वर्जयित्वा तु कान्या धारयितुं क्षमा ।
एतादृशं तु पतितं तदस्त्रं कल्पगाजले ॥ २९.७६ ॥
जालेश्वरं तु कथितं त्रिपुरघ्नमिदं तव ।
एतत्तीर्थं न जानन्ति लोकाश्च सचराचराः ॥ २९.७७ ॥
दहन्तं त्रिपुरं दृष्ट्वा देवा विस्मयमागताः ।
ब्रह्माद्या देवता येन संग्रामेषु पराजिताः ॥ २९.७८ ॥
शरेणैकेन तद्वीर्यं कृतं भस्मैकपुञ्जवत् ।
बाणासुरः पुरे दग्धे भीतः स्तोत्रमिदं जगौ ॥ २९.७९ ॥
ओं नमोऽनादिदेवेश विघ्नेश्वर महेश्वर ।
सर्वज्ञाज्ञानहृज्ज्ञानप्रदानैक नमोऽस्तु ते ॥ २९.८० ॥
अनन्तगुणरत्नाय परेशाय नमोऽस्तु ते ।
परात्पर परातीत उत्पत्तिस्थानकारक ॥ २९.८१ ॥
सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते ।
निरञ्जन निराधार स्वभाव निरुपद्रव ॥ २९.८२ ॥
प्रसन्नपरमेशान योगेश्वर नमोऽस्तु ते ।
असुरघ्न पिशाचघ्न भूतवेतालनाशन ॥ २९.८३ ॥
भूतनाथ जगन्नाथ सर्वाधार नमोऽस्तु ते ।
सृष्टिसंहार निर्वाणसप्तपातालसंश्रय ॥ २९.८४ ॥
श्रीकण्ठ नीलकण्ठेश महाकण्ठ नमोऽस्तु ते ।
त्र्यम्बकाय त्रिशूलाय त्रिलोकाय च ते नमः ॥ २९.८५ ॥
कपालिने कपालैश्च बद्धाङ्ग शशिशेखर ।
उमाकान्तार्धदेहाय सुरासुरनमस्कृत ॥ २९.८६ ॥
यत्र त्वं रूपसंस्थं चलमचलतनुं व्यापकं लक्ष्यहीनं तेजोऽभ्यन्तर्मरालं घनमघनमजं स्फाटिकं स्फाटिकाभम् ।
रक्तं नीलं च पीतं सितमसितमनेकाल्परूपं प्रयुक्तं मध्यान्तादिव्यपेतं स्फुटतनुरहितं लिङ्गरूपं नमामि ॥ २९.८७ ॥
मध्याह्ने लक्ष्ययोगेन हृदयकमले धारणीशे न हंसे नाकाशे वायुतत्त्वेऽनलधरणिजले विद्यते नैव शक्यम् ।
नो नादे नैव विन्दौ न करणनिलये नादिमध्यावसाने स्थानेष्वेषु प्रबुद्धो न च नियमयितुं यं सदाद्यं नमामि ॥ २९.८८ ॥
जिह्वाचापल्यभावेन वर्णितं मे महाप्रभो ।
क्षन्तव्यं तत्सुरेशान कस्त्वां वर्णयितुं क्षमः ॥ २९.८९ ॥
मार्कण्डेय उवाच -
श्रुत्वा स्तुतिं च बाणस्य तुष्टोऽसौ भगवान् हरः ।
उवाच वचनं शम्भुरसुरं प्रति भारत ॥ २९.९० ॥
सेवापराधजो ह्येष क्षान्तस्ते दैत्यनायक ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ २९.९१ ॥
शिवस्य वचनं श्रुत्वा बाणो दैत्यपतिस्तदा ।
प्रणम्य चाब्रवीद्वाक्यं सुरासुरनमस्कृतम् ॥ २९.९२ ॥
यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि ।
अनेनैव शरीरेण सान्तः पुरपरिच्छदः ॥ २९.९३ ॥
तव लोकं गमिष्यामि यत्र जन्म न विद्यते ।
अत्रोत्पत्तिविपत्तिभ्यां निर्विण्णोऽसुरयोनिषु ॥ २९.९४ ॥
त्रिभिर्देवैः पुरं दत्तं भिन्नं तत्पुरं त्वया ।
कथं तत्पतितं भूमौ गहना कर्मणां गतिः ॥ २९.९५ ॥
दाताबलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः ।
आसीत्फलं बन्धनमेव तस्य नमोऽस्तु तस्यै भवितव्यतायै ॥ २९.९६ ॥
स्वर्गो दुर्गः सुराः सैन्यं गजाश्चैरावतादयः ।
शस्त्रं वज्रमवाप्यास्ते यत्र देवो बृहस्पतिः ॥ २९.९७ ॥
निर्जितो मेघनादेन दशाननसुतेन च ।
सर्वमात्मवशं नीतं दैवं हि बलवत्तरम् ॥ २९.९८ ॥
बाणासुरवचः श्रुत्वा देवदेवो वरप्रदः ।
मम भक्तिप्रसादेन मदन्तिकमवाप्स्यसि ॥ २९.९९ ॥
ततो बाणासुरः श्रीमान् देवदेवप्रसादतः ।
दिव्ययानसमारूढः सुरासुरनमस्कृतः ॥ २९.१०० ॥
प्रायाच्छिवपुरं यत्र देवदेवो महेश्वरः ।
नर्मदा साऽब्रवीद्वाक्यं शम्भुं प्रति विशाम्पते ॥ २९.१०१ ॥
बिन्दुमात्रं न मे दग्धमघोरास्त्रेण शङ्कर ।
ददाह त्रिपुरं कृत्स्नं ज्वलत्कालानलप्रभम् ॥ २९.१०२ ॥
शान्तं च मम तोयेन रसातलतलं ययौ ।
ईश्वर उवाच -
पुरं तु निखिलं दग्धमघोरास्त्रं सुदुस्सहम् ॥ २९.१०३ ॥
सूर्यकोटिसमप्रख्यं मध्यदेशे तवाम्भसः ।
अगमत्सौम्यरूपत्वं प्रभावात्तव नर्मदे ॥ २९.१०४ ॥
सरितः सागराः शैला गङ्गाद्याश्च सहस्रशः ।
गोप्यं तत्क्षणमात्रेण भस्मपुञ्जो यथा जलम् ॥ २९.१०५ ॥
सोढुं काऽन्या सरिच्छ्रेष्ठा त्वां विना भुवि कल्पगे ।
एवमुक्त्वा ययौ देवः सुरासुरनमस्कृतः ॥ २९.१०६ ॥
एतत्ते कथितं भूप आख्यानं श्रुतिसम्मितम् ।
जालेश्वरस्य तीर्थस्य समासेन युधिष्ठिर ॥ २९.१०७ ॥
सेव्यते तेन कार्येण नर्मदा सप्तकल्पगा ।
श्रवणात्कीर्तनात्तस्य रुद्रस्यानुचरो भवेत् ॥ २९.१०८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डेऽमरेश्वरमाहात्ये एकोनत्रिंशोऽध्यायः ॥
अध्याय ३०
मार्कण्डेय उवाच -
ऋषीणामयुतं राजन्नैमिषारण्यवासिनाम् ।
गर्गश्च शौनको दक्षः सर्वेषां धर्मतः पिता ॥ ३०.१ ॥
तेषां निवसतां तत्र आश्चर्यमभवत्नृप ।
हिरण्या नाम नगरी दृष्टा वा यदि वा श्रुता ॥ ३०.२ ॥
हिरण्यवेगा नाम्नी तु नदीपुष्पफलद्रुमा ।
धनदस्य पुरी रम्या धनाढ्या च यथा स्थिता ॥ ३०.३ ॥
साप्तभौमैर्गृहैर्रम्यैर्हेमप्राकारतोरणैः ।
वेणुवीणानिनादौघैर्गन्धर्वैर्नादितायुतैः ॥ ३०.४ ॥
नागराः पूजिताः सर्वेऽत्राधिष्ठितधनान्विताः ।
अग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः ॥ ३०.५ ॥
एवं विधा पुरी रम्या सर्वोत्सवसमन्विता ।
अकाले म्रियते यस्तु स राज्ञा गृह्यते पुनः ॥ ३०.६ ॥
मुदा परमया युक्तो वित्तेशो धनदो यथा ।
प्रजापतिं संपप्रच्छ ब्रह्मणो मानसं सुतम् ॥ ३०.७ ॥
प्रणिपत्य नमस्कृत्य दक्षं तं मुनिपुङ्गवम् ।
अनेकानि सहस्राणि मुनीनां ब्रह्मवर्चसाम् ॥ ३०.८ ॥
सौत्रामणिः सोमसंस्था कस्मिन् देशे च सिद्ध्यति ।
आचक्ष्व मुनिशार्दूल यतः त्वं सर्वधर्मवित् ॥ ३०.९ ॥
हिरण्यबाहुं प्रोवाच दक्षो वैवस्वतं तदा ।
तीर्थं हि पुष्करं नाम त्रिषु लोकेषु विश्रुतम् ॥ ३०.१० ॥
तस्मिन्निष्टं हुतं राजन् सर्वं कोटिगुणं भवेत् ।
ब्राह्मणानां प्रसादेन नाऽत्र कार्या विचारणा ॥ ३०.११ ॥
तस्य तद्वचनं श्रुत्वा राजा प्रोवाच तं मुनिम् ।
निष्पाद्यतां च यज्ञो मे भगवन् पुष्करे शुभे ॥ ३०.१२ ॥
मानसं ब्रह्मणः पुत्रं सर्ववेदविशारदम् ।
त्वामृते दीक्षितुं कस्य शक्तिरस्मिन्महीतले ॥ ३०.१३ ॥
एवमस्त्विति तं प्राह दक्षो राजर्षिसत्तमम् ।
ततो जगाम राजर्षिः पुष्करं सर्वसम्भृतः ॥ ३०.१४ ॥
गवां च दशलक्षाणि सार्द्धं लक्षं तु वाजिनाम् ।
द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथायुतम् ॥ ३०.१५ ॥
मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च ।
तेषां संख्या न विद्येत कुबेरस्य धनं यथा ॥ ३०.१६ ॥
ततो भक्षाणि भोज्यानि पानानि विविधानि च ।
एवं प्रवर्तितो यज्ञः पवित्रे श्रेष्ठपुष्करे ॥ ३०.१७ ॥
आहूतश्च ततो ब्रह्मा शक्रश्चापि सुरेश्वरः ।
अन्यदेवैश्च किं कार्यं ताभ्यां सर्वं प्रपूजितम् ॥ ३०.१८ ॥
न रुद्रो यज्ञभागार्हो वासुदेवः त्वयाजकः ।
न चादित्यो न वरुणो न देवा न च चन्द्रमाः ॥ ३०.१९ ॥
वेदमूलो यतो यज्ञो राज्ञश्चामिततेजसः ।
वेदनिर्घोषशब्देन यज्ञधूमेन भारत ॥ ३०.२० ॥
रोदस्यनन्तरं राजन् सर्वमेव प्रपूरितम् ।
एतस्मिन्नन्तरे यज्ञच्छिद्रान्वेषणतत्पराः ॥ ३०.२१ ॥
सम्प्राप्ता राजशार्दूल बलेन बलवत्तराः ।
पराजयं च देवानामसुराणां जयं तथा ॥ ३०.२२ ॥
कर्तुं प्रस्थापिताः सर्वे ह्यसुरा देवकण्टकाः ।
तेभ्यो निकेतुना प्रोक्तं दैत्यानामीश्वरेण हि ॥ ३०.२३ ॥
न रुद्रोऽस्ति न विष्णुर्वा ब्रह्मास्ते स तु पूजकः ।
न कर्तव्यं भयं तेषां ब्राह्मणा ज्ञानदुर्बलाः ॥ ३०.२४ ॥
गच्छन्तु दानवा दैत्या भूतवेतालराक्षसाः ।
पिबन्तु सोमं यज्ञाङ्गं भक्षयन्तु तथा द्विजान् ॥ ३०.२५ ॥
विध्वंसितस्ततो यज्ञो ब्राह्मणाश्चैव भक्षिताः ।
अग्निर्विनाशितो यज्ञयूपश्च यज्ञमण्डपः ॥ ३०.२६ ॥
ऋषीणां धर्षिताः पत्न्यो नग्नरूपैस्तथा बलात् ।
कुमारा ऋषयश्चैव भयार्ताः प्राणपीडिताः ॥ ३०.२७ ॥
प्रणष्टश्च ततो ब्रह्मा शक्रो देवगणैः सह ।
एवं यज्ञे च विध्वस्ते चक्रवर्ती नृपोत्तमः ॥ ३०.२८ ॥
हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति भारत ।
पापिष्ठाश्च दुराचारा गतास्ते भिक्षुका द्विजाः ॥ ३०.२९ ॥
स्वस्थानं च गता दैत्या गृहीत्वा यज्ञसम्भृतिम् ।
एकाकी हयमारुह्य सह पत्न्या व्रजाम्यहम् ॥ ३०.३० ॥
न पौरुषस्य कालोऽयं कोपस्य च कथंचन ।
शम्भुर्न देवता यत्र शङ्खचक्रगदाधरः ॥ ३०.३१ ॥
कथं सिद्ध्यति यज्ञौऽसौ न सूर्यो नैव चन्द्रमाः ।
लोलुपा ब्राह्मणाः पापाः त्वशक्ता यज्ञरक्षणे ॥ ३०.३२ ॥
यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः ।
सकण्टके निरुदके प्रदेशे नष्टचेतनाः ॥ ३०.३३ ॥
दक्षाद्यैर्ब्राह्मणैः सर्वैः सोऽभिशप्तो महीपतिः ।
अरक्षिता त्वं यज्ञस्य क्षत्रियाणां तथाऽधमः ॥ ३०.३४ ॥
खरो द्वादशवर्षाणि भविष्यसि न संशयः ।
शापाद्बभूवुरन्योऽन्यं ते खरब्रह्मराक्षसाः ॥ ३०.३५ ॥
एतत्ते कथितं वृत्तं न हरो न हरिः प्रभुः ।
न यज्ञो न च तद्दानं न तपोऽध्ययनं न च ॥ ३०.३६ ॥
वेदोक्तं कर्म न ब्राह्म्यं न धर्मं न त्रिविष्टपम् ।
न व्रतं वषट्कारः सर्वपापप्रणाशनः ॥ ३०.३७ ॥
एतस्मिन्नन्तरे राजन् देवर्षिर्नारदस्तदा ।
आजगाम क्रतुं द्रष्टुं पुष्करं प्रति भारत ॥ ३०.३८ ॥
ततो विप्लाविते यज्ञे दैत्यैर्दुष्कृतिकारिभिः ।
हिरण्यबाहुश्च परं ब्राह्मणं ब्रह्मपारगम् ॥ ३०.३९ ॥
उवाच वचनं राजा देवर्षिर्नारदं तदा ।
नाशितो ब्राह्मणैर्यज्ञः क्षुद्रैर्मे मुनिपुङ्गव ॥ ३०.४० ॥
यज्ञधर्मविधौ शक्तो घातयाम्यध्वरान्तकम् ।
शक्तोऽस्मि त्रिजगज्जेतुं किं पुनर्दैत्य दानवान् ॥ ३०.४१ ॥
मया चापि कृतो यज्ञो हरिशङ्करवर्जनात् ।
ब्रह्मशापवशाद्भीतो गार्दभं योनिमाश्रितः ॥ ३०.४२ ॥
केनोपायेन देवर्षे त्रिकालज्ञ त्रिवेदवित् ।
स्वर्गलोकं गमिष्यामि ऋत्विग्भिर्ब्राह्मणैः सह ॥ ३०.४३ ॥
अनुग्रहमिमं मन्ये यन्मां प्राप्तोऽसि नारद ।
नारद उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध मे ॥ ३०.४४ ॥
रेवाचरुकसम्भेदं पञ्चलिङ्गानि भूमिप ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ३०.४५ ॥
तत्र गच्छ नरश्रेष्ठ ब्राह्मणैर्ब्रह्मराक्षसैः ।
न यज्ञो न तपोदानं शिवध्यानपरो भव ॥ ३०.४६ ॥
सद्यः प्रमुच्यते पापाद्ब्राह्मणैः शापदूषितैः ।
यत्रासुरस्तु निहतो भैरवं रूपमाश्रितः ॥ ३०.४७ ॥
पापप्रणाशनं लिङ्गं ऋणमोचनमेव च ।
चतुष्केश्वरमपरं तथा सिद्धेश्वरं परम् ॥ ३०.४८ ॥
पञ्चमं वारुणं लिङ्गं सिद्धं तत्र प्रतिष्ठितम् ।
एवं तु नारदः प्राह भगवन्तं नृपोत्तमम् ॥ ३०.४९ ॥
युधिष्ठिर उवाच -
भगवन् कीदृशं रूपं यदा नृत्यति भैरवः ।
एतदाचक्ष्व मे सर्वं प्रसादः क्रियतां प्रभो ॥ ३०.५० ॥
मार्कण्डेय उवाच -
गौर्यापृष्टः पुरा राजन् कौतुकेन सुरेश्वरः ।
नृत्यरूपं समाख्याहि किमन्यैः कथितैर्मम ॥ ३०.५१ ॥
शान्तरूपं ततस्त्यक्त्वा कृतं रूपं सुदारुणम् ।
स्थितश्चैकेन पादेन प्रपीड्य वसुधातलम् ॥ ३०.५२ ॥
द्वितीयेन च पादेन ब्रह्माण्डं सचराचरम् ।
ख्यातं दारुवनं नाम पञ्चलिङ्गसमन्वितम् ॥ ३०.५३ ॥
निहत्य चासुरं तत्र पुनर्नृत्यं मया प्रिये ।
तस्मिन् दारुवने चण्डि रुद्रं भुवनदारुणम् ॥ ३०.५४ ॥
एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम् ।
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ ३०.५५ ॥
गच्छ गच्छ नृप स्थानं नर्मदाचारुसङ्गमम् ।
तत्र ते स्नातमात्रस्य शापस्यान्तो भविष्यति ॥ ३०.५६ ॥
एवमुक्त्वा ययौ राजन् देवर्षिर्नारदस्तदा ।
हिरण्यबाहुर्नृपतिः सान्तः पुरपरिच्छदः ॥ ३०.५७ ॥
दक्षशौनकगर्गाद्यैः शापभ्रष्टैः समन्वितः ।
आजगाम ततः शीघ्रं नर्मदाचरुसङ्गमम् ॥ ३०.५८ ॥
तत्र स्नात्वा स राजर्षिर्दत्त्वा चैव तिलोदकम् ।
पञ्चलिङ्गानि चाभ्यर्च्य तस्मिन् दारुवने तदा ॥ ३०.५९ ॥
सिद्धेश्वरं चरुलिङ्गं ऋणमोचनमेव च ।
पापप्रणाशनं चान्यच्चण्डिकेश्वरमुत्तमम् ॥ ३०.६० ॥
पूजयित्वा यथा न्यायं भुक्तिमुक्तिफलप्रदम् ।
स्तोत्रैस्तुष्टाव विविधैः शिवभक्तिपरायणः ॥ ३०.६१ ॥
त्वया विना तपोदानं न यज्ञं न च याजनम् ।
न स्वर्गं न च मोक्षं च कामयेय महेश्वर ॥ ३०.६२ ॥
न हरो न हरिर्यत्र सर्व तन्निष्कलं भवेत् ।
ततस्तुष्टः सुरेशानो वरं वृण्वित्युवाच तम् ॥ ३०.६३ ॥
हिरण्यबाहू राजर्षिः प्रसाद्य शिवमब्रवीत् ।
यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि ॥ ३०.६४ ॥
तदास्याः खरयोनेर्मां महादेवविमोचय ।
त्यजन्ति चात्र ये प्राणान् पापा अपि नराधमाः ॥ ३०.६५ ॥
तेऽपि यान्ति तव स्थानं सत्यमेतद्वचो मम ।
निर्विघ्ना यज्ञसिद्धिश्च श्रेयो दानं तपस्तथा ॥ ३०.६६ ॥
एवमस्त्विति तं प्रोक्त्वा शिवस्त्वन्तरधीयत ।
शापान्मुक्तः स धर्मात्मा दिव्यकान्तिवपुर्धरः ॥ ३०.६७ ॥
कामिकं यानमारुह्य सान्तःपुरपरिच्छदः ।
ध्रियमाणातपत्रश्च स्तूयमानश्च मागधैः ॥ ३०.६८ ॥
मुदा परमया युक्तो हिरण्यपुरमाविशत् ।
अन्यं याजकमन्वेष्टुं यज्ञार्थं ब्रह्मवादिनम् ॥ ३०.६९ ॥
एतस्मिन्नन्तरे प्राप्ते नारदः पुरमभ्यगात् ॥ ३०.७० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाचरुसङ्गमवर्णनो नाम त्रिंशोऽध्यायः ॥
Search
Search here.