रेवा खंड स्कंद पुराण 31 to 60
अध्याय ३१
युधिष्ठिर उवाच -
हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः ।
दक्षादयः कथं मुक्तास्तस्माच्छापाच्च कथ्यताम् ॥ ३१.१ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाबाहो कथ्यमानं निबोध मे ।
हिरण्यबाहुना शप्ता यावन्मुक्ता द्विजोत्तमाः ॥ ३१.२ ॥
बभ्रमुः सर्वतीर्थानि आसमुद्रान्त गोचरे ।
तेषां ब्रह्मादयः शापं न निवर्तयितुं क्षमाः ॥ ३१.३ ॥
वाराणसीं महापुण्यां गङ्गासागरसङ्गमम् ।
हिमवन्तं च केदारमौर्वतीर्थं च भारत ॥ ३१.४ ॥
गङ्गा च नैमिषारण्यं भैरवं पुष्करं तथा ।
मायापुरीं तथा रम्यामुग्रं कनखलं तथा ॥ ३१.५ ॥
रौद्रं चैव तथेशानं सुरासुरनमस्कृतम् ।
गङ्गाद्वारं हिमस्थानं प्रभासं शशिभूषणम् ॥ ३१.६ ॥
रुद्रकोटिसमायोगं गङ्गाभेदं सरस्वतीम् ।
स्थानेश्वरं तथा पुण्यं कुरुक्षेत्रं तथैव च ॥ ३१.७ ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
कुरुक्षेत्रस्य नाम्नापि नरः पापैः प्रमुच्यते ॥ ३१.८ ॥
भ्रमेणैवं विषण्णास्ते शापस्यान्त न लेभिरे ।
निन्दितानि च तीर्थानि पापकर्मरतैस्ततः ॥ ३१.९ ॥
आकाशवचनं श्रुत्वा महातीर्थानि निन्दत ।
हरं हरिं च यो द्वेष्टि नाभिनन्दति यः सुरान् ॥ ३१.१० ॥
स याति यत्र यत्रैव दुःखं प्राप्नोत्यसंशयः ।
एतस्मिन्नन्तरे प्राप्तो नारदो देवपूजितः ॥ ३१.११ ॥
दक्षशौनकगर्गादीन् सर्वांस्तान्मुनिसत्तमान् ।
ब्रह्मरक्षस्तनून् दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ३१.१२ ॥
भवन्तः कर्मणा केन सञ्जाता ब्रह्मराक्षसाः ।
तस्याथ वचनं श्रुत्वा नारदस्य महामुनेः ॥ ३१.१३ ॥
सोऽभिवाद्य नमस्कृत्य दक्षो वचनमब्रवीत् ।
यथोत्सवं कृतं कर्म ब्रह्मलोकहिताय यत् ॥ ३१.१४ ॥
तद्विपर्यासमापन्नं गहना कर्मणो गतिः ।
कर्मोपदिश मे किंचिद्येन मुञ्चापि दुष्कृतम् ॥ ३१.१५ ॥
यत्र यत्र च गच्छामो जलमन्नं न विद्यते ।
अनावृष्टिरभूद्घोरा तत्र तत्रैव नारद ॥ ३१.१६ ॥
नारद उवाच -
प्रसाद्यतां मुनिश्रेष्ठाः शापस्यान्तं करिष्यति ।
हिरण्यबाहुर्धर्मात्मा हिरण्यपुरमास्थितः ॥ ३१.१७ ॥
यज्ञं कर्तुं समायातो रेवाचरुकसङ्गमे ।
पञ्चलिङ्गानि चाभ्यर्च्य शापान्तं च करिष्यति ॥ ३१.१८ ॥
एवमुक्त्वा स देवर्षिर्ब्राह्मणैः शापकर्षितैः ।
आजगाम ततो दिव्यां हिरण्यनगरीं शुभाम् ॥ ३१.१९ ॥
हिरण्यबाहुर्नृपतिर्वशिष्ठश्च महामुनिः ।
विलोक्य तान्मुनीन् सर्वान् स देवर्षिपुरोगमान् ॥ ३१.२० ॥
अभिवाद्य यथा न्यायमर्घपाद्यैरपूजयत् ।
नारदस्तु ततो वाक्यं राजानमिदमब्रवीत् ॥ ३१.२१ ॥
कुशलं ते नृपश्रेष्ठ सुखं तिष्ठसि सुव्रत ।
नारदस्य वचः श्रुत्वा सर्वधर्मपरायणः ॥ ३१.२२ ॥
उवाच वचनं राजा नारदं श्लक्ष्णया गिरा ।
अद्य मे कुशलं ब्रह्मंस्तवपादाब्जदर्शनात् ॥ ३१.२३ ॥
किं कर्तव्यं मया तेऽद्य ब्रह्मन्मेऽनुग्रहं कुरु ।
नारद उवाच -
कुरु ब्रह्ममुनीनां त्वं शापान्तं राजदर्शनात् ॥ ३१.२४ ॥
निपातय महादुष्टान् दैत्यान् दुष्कृतकारिणः ।
बन्धनस्था हि मोक्तव्या ब्राह्मणास्तु विशेषतः ॥ ३१.२५ ॥
राजोवाच -
वेदं पठन्ति येऽज्ञानाद्वदन्त्यर्थं न तस्य च ।
प्रमाणं भूतलोकस्य तद्वत्कर्म च कुर्वतः ॥ ३१.२६ ॥
ब्रह्मन् वेदेन विधिवत्ते तु स्वर्गं प्रयान्ति वै ।
अहंकरविमूढाश्च मिथ्यदानेन याजकाः ॥ ३१.२७ ॥
पतन्ति नरके विष्णुशङ्करद्वेषणे रताः ।
अगस्त्यं च वशिष्ठं च कृत्वा तौ याजकौ मुने ॥ ३१.२८ ॥
क्रतुमिष्ट्वा विधानेन रेवाचरुकसङ्गमे ।
मोचयिष्याम्यहं शापात्पञ्चलिङ्गार्चनाद्द्विज ॥ ३१.२९ ॥
वेदमन्त्रहुतं तत्र स्वयं विष्णुर्ग्रहीष्यति ।
रुद्रः कालाग्निरूपेण ग्राहकश्च भविष्यति ॥ ३१.३० ॥
एवं यज्ञे तु सम्पूर्णे तुष्टे नारायणे शिवे ।
द्विजानां मोक्षणं तत्र भविष्यति न संशयः ॥ ३१.३१ ॥
न मुने देवता यत्र शङ्खचक्रगदाधरः ।
इहलोके परे चैव गतिस्तस्य न विद्यते ॥ ३१.३२ ॥
एवमुक्त्वा ययौ राजा सर्वसंभारसंभृतः ।
यज्ञोपस्करमादाय ब्राह्मणैर्वेदपारगैः ॥ ३१.३३ ॥
रेवाचरुकसंभेदे यज्ञमिष्ट्वा विधानतः ।
विहाय पापं शप्तांस्तान्मोचयामास स द्विजान् ॥ ३१.३४ ॥
पञ्चलिङ्गसमायोगे तीर्थस्यास्य प्रभावतः ।
ब्रह्मयानसमारूढो वीज्यमानोऽप्सरोगणैः ॥ ३१.३५ ॥
ध्रियमाणातपत्रस्तु स्तूयमानश्च वन्दिभिः ।
प्रायाच्छिवपुरं दिव्यमुमामाहेश्वरं नृप ॥ ३१.३६ ॥
एतत्ते कथितं राजन् पुराणाख्यानमुत्तमम् ।
श्रुत्वाख्यानामिदं पुण्यं पञ्चलिङ्गसमागमम् ॥ ३१.३७ ॥
यमलोकं न पश्येद्वै पापयोनिं न गच्छति ।
हयमेधफलं प्राप्य शिवलोके महीयते ॥ ३१.३८ ॥
पापग्रस्तो विमूढात्मा विष्णुमायाविमोहितः ।
कथं प्रयाति तत्तीर्थं कालग्रहवशीकृतः ॥ ३१.३९ ॥
श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३१.४० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमाहात्म्ये एकत्रिंशोऽध्यायः ॥
अध्याय ३२
मार्कण्डेय उवाच -
गुह्यातिगुह्यरूपाणि पवित्राणि युधिष्ठिर ।
श्राद्धकार्यस्य सिद्धानि तीर्थानीह निबोध मे ॥ ३२.१ ॥
अतिगुह्यस्य पुण्यस्य सर्वतोऽमरकण्टके ।
तमारभ्य गिरिश्रेष्ठं सर्वं पुण्यतरं स्मृतम् ॥ ३२.२ ॥
यावत्सा नर्मदा मध्ये पुण्यस्रोता महानदी ।
नास्ति तस्मात्परं पुण्यं त्रिषु लोकेषु भारत ॥ ३२.३ ॥
तस्योत्तरविभागेऽस्ति नामतो यज्ञपर्वतः ।
कनिष्ठो विन्ध्यपुत्रस्तु भ्राता पर्यङ्कभूभृतः ॥ ३२.४ ॥
स्वयंभुवा पुरा तस्मिन्निष्टः सौत्रामणिर्मखः ।
तत्रैवेष्टं मघवता हयमेधेन भारत ॥ ३२.५ ॥
दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः ।
निश्क्रान्ता पर्वतात्तस्माच्चतुर्नामा महानदी ॥ ३२.६ ॥
पतिता नर्मदायां तु सङ्गमो लोकविश्रुतः ।
तस्यास्तीरे तु ये दर्भाः पीतवर्णाः क्षितिं गताः ॥ ३२.७ ॥
ते श्राद्धकरणे भूप पितॄणां मोक्षदायकाः ।
स यावत्सङ्गमो नद्याः स यावद्यज्ञपर्वतः ॥ ३२.८ ॥
एतस्मिन्नन्तरे राजन् श्राद्धं यः परिकल्पयेत् ।
पितरस्तस्य तृप्यन्ति स्नानं कुर्यात्प्रदक्षिणम् ॥ ३२.९ ॥
सिद्धेश्वरं नामलिङ्गं चतुष्केश्वरमेव च ।
संख्या न भूयो लोकेषु ख्यातमात्रं मयाऽनघ ॥ ३२.१० ॥
सङ्गमे विद्यते देवो न तं पश्यन्ति मानवाः ।
पूज्यते नागकन्याभिः सदेवासुरसत्तमैः ॥ ३२.११ ॥
कथयामि तवाख्यानमितिहासं पुरातनम् ।
ऋषिः सुपर्णो यत्रासीद्ब्रह्मयोनिर्जितेन्द्रियः ॥ ३२.१२ ॥
पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता ।
नैमिषारण्यवासस्य कन्दमूलफलाशिनः ॥ ३२.१३ ॥
कृष्णाजिनपरीधानवल्कलादिकवाससः ।
त्रिकालवह्णिहोतारो वेदाध्ययनतत्पराः ॥ ३२.१४ ॥
वेदस्मृतिपुराणोक्तमोक्षोपायविचिन्तकाः ।
ऋषयो दशलक्षाणि नैमिषारण्यवासिनः ॥ ३२.१५ ॥
बालखिल्याश्च तत्रैव ब्रह्मणो मानसाः सुताः ।
ब्रह्मदण्डं समारुह्य देवलोकं प्रयान्ति ते ॥ ३२.१६ ॥
मासोपवासिनस्तत्र जलाहारास्तथापरे ।
तिष्ठन्ति बहवः केचिदेकपादेन चापरे ॥ ३२.१७ ॥
तस्मिंस्तपोवने रम्ये सिद्धगन्धर्वसेविते ।
प्रसाद्य चाब्रवीद्वाक्यं पुरुहूता निजं पतिम् ॥ ३२.१८ ॥
ऋतुकाले तु पर्वणि मांभजस्व महामुने ।
जायते मे यथा पुत्रः सर्वसन्तानपावनः ॥ ३२.१९ ॥
पुत्रेण लोकान् जयते तृप्यन्ति पितृदेवताः ।
अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः ॥ ३२.२० ॥
ब्राह्मण उवाच -
अमावास्याद्य गोत्रेऽस्मिन्मैथुनं वर्जितं प्रिये ।
अकर्तव्यमिदं भद्रे पितॄणां वार्जितं ध्रुवम् ॥ ३२.२१ ॥
पितरस्तस्य तन्मांसं भुञ्जते ऋतुगामिनः ।
दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः ॥ ३२.२२ ॥
स्नात्वा तत्क्षणमात्रेण चाण्डालस्त्रिदिवङ्गतः ।
धिक्धिक्धिगीरितं सर्वं न वेदो न च याजनम् ॥ ३२.२३ ॥
प्रहस्य चाब्रवीद्वाक्यं निषादी तं मुनिं प्रति ।
विषादं त्यज विप्रर्षे सत्यमेतद्ब्रवीम्यहम् ॥ ३२.२४ ॥
अहंकारविमूढात्मा त्वत्समो नास्ति तापसः ।
न स्नानं न जपो होमो न स्वाध्यायः शिवार्चनम् ॥ ३२.२५ ॥
निष्कलं क्लेशमापन्नो वायुभक्षो निराश्रयः ।
त्वत्तपो ध्यानयोगश्च स्वर्गप्राप्तिश्च तत्कथम् ॥ ३२.२६ ॥
जाबालिरुवाच -
काऽसि त्वं च वरारोहे निषादी रूपमाश्रिता ।
उमा सरस्वती गङ्गा मां जिज्ञासितुमागता ॥ ३२.२७ ॥
अनुग्रहमिमं मन्ये धर्मं ब्रूहि शुचिस्मिते ।
निषादो नैमिषारण्ये ममासीत्मुनिपुंगव ॥ ३२.२८ ॥
कामार्तया मया दर्शे भर्ता पुत्राय याचितः ।
अकाले याचमानाऽहं तेन शप्ता महात्मना ॥ ३२.२९ ॥
स च भर्ता मया शप्तस्ततोऽन्योऽन्यं समागते ।
अस्य तीर्थस्य महात्म्यादावां मुक्तौ तु किल्बिषात् ॥ ३२.३० ॥
तस्मात्त्वं हि मुनिश्रेष्ठ शिवाराधनतत्परः ।
मदर्थं कुरु कर्माणि होमजाप्यादिकं मुहुः ॥ ३२.३१ ॥
यास्यसे त्वं समे देशे सत्यमेतद्ब्रवीम्यहम् ।
इत्युक्त्वा सा ययौ स्वर्गं निजभर्त्रा समन्विता ॥ ३२.३२ ॥
त्यक्त्वा स्वकल्पं जाबालिः शिवाराधनतत्परः ।
अचिरेणैव कालेन ब्रह्मलोकमुपागतः ॥ ३२.३३ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे ब्राह्मणस्य भार्यया सह स्वर्गारोहणं नाम द्वात्रिंशोऽध्यायः ॥
अध्याय ३३
मार्कण्डेय उवाच -
पश्चिमे नीलगङ्गाया नर्मदोत्तरकूलतः ।
व्यतीपातेश्वरं नाम लिङ्गं परमसिद्धिदम् ॥ ३३.१ ॥
सोमनाथं स्वयं विद्धि सोममूर्तिं जगत्पतिम् ।
सावित्र्या च तपस्तप्तं तत्र सप्तर्षिभिस्तथा ॥ ३३.२ ॥
सावित्रीकुण्डमित्येतद्विख्यातं नर्मदातटः ।
नरस्य स्नानमात्रस्य कन्यादानफलं भवेत् ॥ ३३.३ ॥
तिलोदकप्रदानेन चान्नदानेन भारत ।
पितरस्तस्य तृप्यन्ति सावित्रीलोकमाश्रिताः ॥ ३३.४ ॥
दक्षस्य दुहिता चासीत्कुमुदा नाम विश्रुता ।
सोमाय दत्त्वा तां दक्षो मुदा परमया युतः ॥ ३३.५ ॥
तस्या स जनयामास हिमांशुः पुत्रमद्भुतम् ।
ज्ञात्वाऽमृतमयं तं तु सुरा यज्ञफलार्थिनः ॥ ३३.६ ॥
हिमांशुं सोमपुत्रं च ते ययुश्च मुदान्विताः ।
अन्या सोमस्य परमा कला या षोडशी स्मृता ॥ ३३.७ ॥
अध्यास्ते सा चन्द्रमसं पितृणां तारणाय च ।
वनस्पतौ गते सोमे गवां क्षीरे हविःषु च ॥ ३३.८ ॥
सोमपाने महायज्ञे दर्शे दिविषदां तदा ।
पीतं श्रुत्वाऽसुराः सर्वे हिमांशुं पातुमुद्यताः ॥ ३३.९ ॥
असुराणां भयाद्विन्ध्यं हिमांशुर्गिरिमाश्रयत् ।
श्रुत्वा ते गिरिदुर्गस्थमसुराः स्वभयात्तदा ॥ ३३.१० ॥
ग्रस्ते ते राहुणा सूर्ये हिमांशुं प्रति भारत ।
कायातिकायप्रमुखाः सम्प्राप्ता दानवास्ततः ॥ ३३.११ ॥
राहोस्तु भ्रातरः सर्वे सैंहिकेया महाबलाः ।
समाहृत्य हिमांशुस्तैः सुधार्थे चिरजीविभिः ॥ ३३.१२ ॥
भूतले पातितः पापैः क्रन्दन्ति स्म सुरास्तदा ।
उवाच स पतन् भूमौ हिमांशुः सोमनन्दन ॥ ३३.१३ ॥
पातु मां देव ईशानो दानवानां भयंकरः ।
एतस्मिन्नन्तरे भूप हिमांशो रक्षणाय वै ॥ ३३.१४ ॥
पातालादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ।
तेन बाणेन रौद्रेण हुङ्कारेण महासुराः ॥ ३३.१५ ॥
भस्मीकृतास्तु तत्रैव देवदेवेन शूलिना ।
ततस्तमब्रवीद्देवो भयमासुरजं त्यज ॥ ३३.१६ ॥
शिवभक्तिपरो भूत्वा निर्भयस्तिष्ठ पुत्रक ।
अथ सोमः सुरैः सार्द्धं गत्वा ब्रह्मनिकेतनम् ॥ ३३.१७ ॥
वृत्तान्तं कथयामास ततस्तद्वचनात्तु ताः ।
ब्रह्माद्या देवताः सर्वा जग्मुः सोमपुरोगमाः ॥ ३३.१८ ॥
ओंकारः कल्पगातीरे यत्र तिष्ठति भारत ।
दृष्ट्वा तु त्र्यम्बकं देवं षष्टिसंहारकारकम् ॥ ३३.१९ ॥
उवाच वचनं देवो ब्रह्मा लोकपितामहः ।
श्रीमानमृतरूपोऽयं हिमांशुः सोमनन्दनः ॥ ३३.२० ॥
रक्षणीयस्त्वया नाथ देवदानवशङ्कया ।
सप्तविंशतियोगानां गतिः प्रोक्ता तु चन्द्रमाः ॥ ३३.२१ ॥
त्वं गतिः सर्वलोकानां तस्मात्त्वं त्रातुमर्हसि ।
तेषां तद्वचनं श्रुत्वा शिव ऊचे यथोचितम् ॥ ३३.२२ ॥
पूजयित्वा तु देवेशं सोमनाथं जगत्पतिम् ।
पातालेश्वरनामानं गताः सर्वे त्रिविष्टपम् ॥ ३३.२३ ॥
तदा प्रभृति तत्स्थानं त्रिषु लोकेषु विश्रुतम् ।
सावित्रीकुण्डतोयेन स्नानं कृत्वा तमर्चयेत् ॥ ३३.२४ ॥
न तस्य पुनरावृत्तिः सत्यमेतच्छिवोदितम् ।
प्रभासे यत्फलं राजन् दृष्टं च शशिभूषणे ॥ ३३.२५ ॥
तत्फलं नृपशार्दूल भवेदेव न संशयः ।
कालातिक्रमणं कुर्यात्तत्र यो भैक्षमाश्रितः ॥ ३३.२६ ॥
न तस्य पुनरावृत्तिः सत्यमेतद्ब्रवीम्यहम् ।
तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ३३.२७ ॥
पतितानुद्धरेज्जतून्नरकान्नात्र संशयः ।
श्रवणात्कीर्तनादस्य सोमलोके महीयते ॥ ३३.२८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पातालेश्वरमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥
अध्याय ३४
मार्कण्डेय उवाच -
कथयामि तवाख्यानमिन्द्रद्युम्नस्य भारत ।
अयोध्याधिपतिः श्रीमान् सूर्यवंशे महीपतिः ॥ ३४.१ ॥
बुभुजे स महीं सर्वां सशैलवनकाननाम् ।
चक्रवर्ती नृपश्रेष्ठः सत्यसंधो दृढव्रतः ॥ ३४.२ ॥
स शशास महीं सर्वां यथा शक्रोऽमरावतीम् ।
यज्ञहोमसहस्रैस्तु ददाह वसुधामिमाम् ॥ ३४.३ ॥
यज्ञोत्सवविवाहैस्तु वेदमङ्गलमङ्गलैः ।
चातुर्वर्ण्यं स्वधर्मस्थं प्राकृता इतरे जनाः ॥ ३४.४ ॥
कामं कामदुघा धेनुर्धरणी सस्यशालिनी ।
पप्रच्छ स तु राजर्षिर्वशिष्ठं ब्रह्मवित्तमम् ॥ ३४.५ ॥
शक्रश्चाङ्गिरसं यद्वदयोध्याधिपतिस्तथा ।
सोमसूर्यान्वयस्यैकं तारणं च पुरोधसम् ॥ ३४.६ ॥
हयमेधं महायज्ञं कस्मिंस्तीर्थे यजाम्यहम् ।
कथय त्वं प्रसादेन यथा दृष्टं यथा श्रुतम् ॥ ३४.७ ॥
वशिष्ठ उवाच -
ब्रह्मर्षयो वेदविदो यथा ते चाब्रुवन्नृप ।
यज्ञो निवर्तितव्यस्तु ऋत्विग्भिर्ब्राह्मणैस्तव ॥ ३४.८ ॥
मरीचिः कश्यपश्चापि अङ्गिरा गौतमस्तथा ।
दुर्वासाश्च्यवनो धूम्रः कण्वश्चैव महामुनिः ॥ ३४.९ ॥
एते चान्ये च नृपते मुनीन्द्राः शंसितव्रताः ।
पप्रच्छ तान्महाराज इन्द्रद्युम्नो महीपतिः ॥ ३४.१० ॥
कस्मिंस्तीर्थे कृतो यज्ञः कामभोगफलप्रदः ।
एतत्सर्वं यथार्थं मे वदन्तु मुनिपुंगवाः ॥ ३४.११ ॥
ऋषय ऊचुः॒
केचिद्वाराणसीं भूप प्रयागं च तथा परे ॥ ३४.१२ ॥
अन्ये वै नैमिषं तीर्थं पुष्करं च तथापरे ।
कुब्जाम्रकं तथा चान्ये गङ्गाद्वारमथापरे ॥ ३४.१३ ॥
मायापुरीं तथा चान्ये सर्वदेवनमस्कृताम् ।
वदन्त्यन्ये हिमस्थानं बिल्वकं नीलपर्वतम् ॥ ३४.१४ ॥
कुशावर्तं तथैवाऽन्ये तथा रुद्रमहालयम् ।
ईशानं चैव केदारं सर्वतीर्थमयं शुभम् ॥ ३४.१५ ॥
और्वतीर्थं वदन्त्यन्ये तथा बदरिकाश्रमम् ।
कालञ्जरं नीलकण्ठं देवदारुवनं तथा ॥ ३४.१६ ॥
हेमकूटं विरूपाक्षमन्ये चण्डीश्वरं तथा ।
भूतेश्वरं भस्मगात्रं प्रभासं शशिभूषणम् ॥ ३४.१७ ॥
तीर्थान्येतानि चान्यानि कथितानि तवानघ ।
मतान्तरं मुनीनां च विविधं परिकीर्तितम् ॥ ३४.१८ ॥
दुर्वासाश्चाब्रवीद्वाक्यं प्रहसन्निव तं नृपम् ।
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ॥ ३४.१९ ॥
वैश्यानां धान्यधनतः शूद्राणां चैव जन्मतः ।
मार्कण्डेये विद्यमाने सप्तकल्पानुवर्तिनि ॥ ३४.२० ॥
भविष्यभूततत्त्वज्ञे त्रिकालज्ञे त्रयीविदि ।
ब्रह्मविष्णुमहेशानप्रमाणज्ञे तपोधने ॥ ३४.२१ ॥
कस्यास्ति धर्मकथने सामर्थ्यं धर्मनिश्चये ।
धर्मारण्ये महाराज गम्यतां कल्पगातटे ॥ ३४.२२ ॥
मार्कण्डेयो वक्ष्यते यत्तत्र यज्ञः प्रवर्त्यताम् ।
इन्द्रद्युम्न उवाच -
यथा वदसि देवर्षे तथा कार्यं मयानघ ॥ ३४.२३ ॥
इत्युक्त्वा मुनिभिः सार्द्धं गन्तुं मार्कण्डमाश्रमम् ।
उवाच वचनं राजा प्रतीहारं सुवर्चसम् ॥ ३४.२४ ॥
मन्त्रिणं देवगर्भं च बृहस्पतिसमं नृप ।
यज्ञोपस्करसम्भारं सर्वमादाय सत्वरम् ॥ ३४.२५ ॥
आगच्छन्तु भवन्तोऽत्र ममादेशपरायणाः ।
साग्निभिर्ब्राह्मणैः सार्द्धं यास्यामः कल्पगातटम् ॥ ३४.२६ ॥
शीघ्रं सम्पाद्यतां सर्वं यथा यज्ञः प्रवर्त्यताम् ।
सर्वेषामेव विप्राणां यानमेषां पृथक्पृथक् ॥ ३४.२७ ॥
शतानि चाष्टौ राज्ञीनां यानमासां प्रकल्पय ।
नवखण्डक्षितीशानां समुद्रद्वीपवासिनाम् ॥ ३४.२८ ॥
नानानृपसहस्राणां घोषणा क्रियतां मुहुः ।
चन्द्रद्वीपं च सेतुं च ताम्रपात्रं शिलाष्टकम् ॥ ३४.२९ ॥
भोगद्वीपं च सौम्यं च गान्धर्ववारुणं तथा ।
कुमारिकाख्यं नवमं नवभेदं प्रवर्तितम् ॥ ३४.३० ॥
जम्बूशाककुशक्रौञ्चशाल्मलिप्लक्षपुष्कराः ।
सप्तद्वीपाः समाख्याताः समुद्राश्च निबोध मे ॥ ३४.३१ ॥
क्षारसर्पिर्दधिक्षीरमदिरेक्षुजलात्मकाः ।
समुद्राः परिखाकाराः पृथिवीमानकीर्तिताः ॥ ३४.३२ ॥
एतेषां घोषणां कार्यां ममादेशानुवर्तिनाम् ।
गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम् ॥ ३४.३३ ॥
अश्वानां श्यामकर्णानां सपादं लक्षमेव च ।
दन्तिनामयुतं चैव घण्टाभरणभूषितम् ॥ ३४.३४ ॥
सहस्राणि च चत्वारि यानानां कामचारिणाम् ।
लक्षं तु करभाणां वै मणिमाणिक्यमेव च ॥ ३४.३५ ॥
अग्निशौचानि वस्त्राणि ब्राह्मणार्थे तथैव च ।
नानाभक्षाणि भोज्यानि पानानि विविधानि च ॥ ३४.३६ ॥
लक्षं कर्मकराणां तु तिलदर्भादिकं तथा ।
देवगर्भं समादिश्य मन्त्रिणं वदतां वरः ॥ ३४.३७ ॥
तत्रस्थैर्ब्राह्मणैः सार्द्धं दिव्यं यानं समाश्रितः ।
मुदा परमया युक्तः सान्तः पुरपरिच्छदः ॥ ३४.३८ ॥
धर्मारण्यं ततः प्राप्तो यत्रास्ते सप्तकल्पगः ।
ओंकारं कल्पगां दृष्ट्वा वैदूर्यं पर्वतं तथा ॥ ३४.३९ ॥
मुक्तोऽस्मि किल्बिषादद्य सप्तजन्मकृतादपि ।
एवमुक्त्वोपविष्टोऽसौ साष्टाङ्गं प्रणिपत्य च ॥ ३४.४० ॥
यथार्थं पूजयामास तमृषिं स नृपोत्तमः ।
दृष्ट्वा तं नृपतिं प्राह मार्कण्डेयो महामुनिः ॥ ३४.४१ ॥
कुशलं नृपशार्दूल चिरं दृष्टोऽसि सुव्रत ।
किमागमनकार्यं ते ब्राह्मणैर्मुनिपुंगवैः ॥ ३४.४२ ॥
इन्द्रद्युम्न उवाच -
यज्ञं कर्तुं समायातः कस्मिंस्तीर्थे द्विजोत्तम ।
शिवेन कथितं यत्ते पुराणं स्कन्दकीर्तितम् ॥ ३४.४३ ॥
तदहं श्रोतुमिच्छामि यज्ञक्षेत्रफलं महत् ॥ ३४.४४ ॥
मार्कण्डेय उवाच -
पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ॥ ३४.४५ ॥
स्नानं कर्तुं समायान्ति नर्मदायां नराधिपा ।
उत्तरे यानि लिङ्गानि यानि तीर्थानि दक्षिणे ॥ ३४.४६ ॥
लीयन्ते कोटितीर्थेषु कोटितीर्थं ततः स्मृतम् ।
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ॥ ३४.४७ ॥
ब्रह्मविष्ण्वादिदेवानां शक्रस्यापि प्रकीर्तितम् ।
तन्मया कथितं राजन् यथोद्दिष्टं तु शम्भुना ॥ ३४.४८ ॥
ओंकारसन्निधौ रेवाकोटितीर्थं प्रकीर्तितम् ।
अत्र दत्तं हुतं चेष्टं तपस्तप्तं सुदुष्करम् ॥ ३४.४९ ॥
तस्यान्तो नैव विद्यते महेश्वरवचो यथा ।
राहुसोमसमायोगे कुरुक्षेत्रं प्रशस्यते ॥ ३४.५० ॥
सर्वदा सर्वकार्येषु नर्मदा पुण्यदायिनी ।
त्रयोदशगुणं विद्धि तीर्थमाहुर्मनीषिणः ॥ ३४.५१ ॥
शतकोटिगुणं तत्तु कोटितीर्थं प्रचक्षते ॥ ३४.५२ ॥
चन्द्रसूर्योपरागे तु विशेषेण नराधिप ।
यज त्वं कोटितीर्थेषु यदि स्वर्गमभीप्ससि ॥ ३४.५३ ॥
तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः ।
पादौ जग्राह तत्रैव मुनेरमिततेजसः ॥ ३४.५४ ॥
अनुग्रहमिमं मन्ये यत्त्वया कथितं मम ।
एतस्मिन्नन्तरे प्राप्ते यज्ञयूपानुपस्करान् ॥ ३४.५५ ॥
नानादेशान् क्षत्रियांश्च गाश्चाश्वांश्च गजांस्तथा ।
तत्क्षणाद्देवगर्भश्च प्रतीहारः समार्पयत् ॥ ३४.५६ ॥
त्रिंशद्योजनपर्यन्तं यज्ञयूपांश्च मण्डपम् ।
चकार स्वप्रमाणानि कुण्डानि विविधानि च ॥ ३४.५७ ॥
वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन् ।
निर्धूमश्चाभवद्वह्णिः सूर्यकोटिसमप्रभः ॥ ३४.५८ ॥
ब्रह्माणं च तथा विष्णुं रुद्रं चैव समाह्वयत् ।
रुद्रा एकादश तत्र तथादित्याश्च द्वादश ॥ ३४.५९ ॥
विश्वेदेवास्तथासाध्या मरुतश्च तथा वसुः ।
लोकपालास्तथा चाष्टौ समुद्राः सरितस्तथा ॥ ३४.६० ॥
वनस्पतयस्तथा शैलास्तीर्थानि विविधानि च ।
दिक्पाला भूतपालाश्च सिद्धगन्धर्वकिन्नराः ॥ ३४.६१ ॥
पितरः सोमपाः सर्वे भुक्तिमुक्तिफलप्रदाः ।
राक्षसा गुह्यका भूता उरगाश्च यथा तथा ॥ ३४.६२ ॥
सद्मवातास्तथाकाशवासिनश्च तथोत्सवे ।
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ॥ ३४.६३ ॥
बभूव नृपतेस्तस्य तस्मिन् यज्ञे महोत्सवे ।
भक्षभोज्यैश्च विविधैः काम्ययानदिभिस्तथा ॥ ३४.६४ ॥
तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम् ।
एवं निवर्तितो यज्ञो ब्राह्मणैर्भूरिदक्षिणैः ॥ ३४.६५ ॥
सुरासुरैस्तथा दिव्यैरिन्द्रद्युम्नः स्तुतस्तदा ।
यज्ञभागांश्च देवानां पृथक्पृथगकल्पयत् ॥ ३४.६६ ॥
तथा भागो हि रुद्राणां यथा सृष्टस्वयम्भुवा ।
युधिष्ठिर उवाच -
रुद्रादित्यवसूतां च विश्वेदेवहविर्भुजाम् ॥ ३४.६७ ॥
प्रमाणं नाम गोत्रांश्च कथयस्व महामुने ।
मार्कण्डेय उवाच -
अत्रिश्चाङ्गिरसः सर्पिर्मरुतश्च बृहस्पतिः ॥ ३४.६८ ॥
ध्रुवो धूम्रश्च केतुश्च धरो धाता हरस्तथा ।
एकादश स्मृता रुद्राः सर्वे कामफलप्रदाः ॥ ३४.६९ ॥
अर्यमा वरुणश्चेन्द्र पूषा चैव गभस्तिमान् ।
मित्रश्चैव समाख्यातो जघन्यो जलकृत्तथा ॥ ३४.७० ॥
विवस्वांश्चैव पर्जन्यो धाता वै द्वादश स्मृताः ।
कश्यपस्याश्रमे जातास्तेजोनिधय उत्थिता ॥ ३४.७१ ॥
मासावरप्रयोगेण संचरन्ति परेच्छया ।
अहोरात्रमिमे सर्वे स्वर्लोकं च समन्ततः ॥ ३४.७२ ॥
वसूनष्टौ महाराज कथ्यमानां शृणुष्व वै ।
ध्रुवो धरश्च सोमश्च सावित्रो ह्यनिलोऽनल ॥ ३४.७३ ॥
प्रत्यूषश्चैव कल्पश्च अष्टौ ते वसवः स्मृताः ।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ ३४.७४ ॥
क्रतुर्दक्षस्तथा सत्यः कालः कामो घ्ननिस्तथा ।
पुरूरवोमार्द्रवसौ रोचमानश्च ते दश ॥ ३४.७५ ॥
मुहूर्तायास्तथा पुत्राः साध्या देवाः प्रकीर्तिता ।
एकहीनास्तु पञ्चाशत्मरुतश्चैव कीर्तिताः ॥ ३४.७६ ॥
एषां नामानि सर्वेषां ख्यातान्येव युधिष्ठिर ।
एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ ॥ ३४.७७ ॥
ततो ध्रुवं विसृज्याथ मुनींश्च ब्रह्मनन्दनान् ।
ओंकारं च ततो ज्ञात्वा राजा पूजां चकार ह ॥ ३४.७८ ॥
मणिमाणिक्यरत्नैश्च लिङ्गस्याभरणं कृतम् ।
गन्धधूपैश्च विविधैः कर्पूरागरुचन्दनैः ॥ ३४.७९ ॥
ध्वजछत्रवितानैश्च व्यजनैर्दिव्यचामरैः ।
पूजयित्वा विधानेन स्तोत्रं मे तदुदाहृतम् ॥ ३४.८० ॥
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदो मोक्षदश्चैव ओंकाराय नमो नमः ॥ ३४.८१ ॥
ब्रह्मविष्ण्विन्द्रवरद सर्वदेव नमोऽस्तु ते ।
कद्रुदाय प्रचेतसे सहस्राक्षायमीढुषे ॥ ३४.८२ ॥
या ते रुद्र शिवा तनूरघोरा पापकाशिनी ।
सर्वाननशिरोग्रीव सर्वभूतशिवाय च ॥ ३४.८३ ॥
सर्वव्यापी च भगवांस्तस्मै सर्वगते नमः ।
सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ३४.८४ ॥
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ३४.८५ ॥
जिह्वाचापल्यभावेन खेदितोऽसि महेश्वर ।
कृतं स्तोत्रमिदं देवस्येन्द्रद्युम्नेन भारत ॥ ३४.८६ ॥
लिङ्गमध्ये परं लिङ्गं ज्वलत्कालानलप्रभम् ।
यद्दृष्टं तदुवाचैनं राजानं प्रति भारत ॥ ३४.८७ ॥
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ३४.८८ ॥
इन्द्रद्युम्न उवाच -
यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥ ३४.८९ ॥
अत्रत्वमुमया सार्धं देवद्रोण्यां समर्चितः ।
आवासं कुरु देवेश सर्वदा यज्ञपर्वते ॥ ३४.९० ॥
अवशः स्ववशो वापि प्राणत्यागं करोति यः ।
तीर्थेऽस्मिन् देवदेवेश शिवलोकं प्रयातु सः ॥ ३४.९१ ॥
सहस्रयाजी धर्मज्ञो दानयज्ञाधिपस्तथा ।
अन्धाश्च वामनाश्चैव तिर्यग्योनिगतानराः ॥ ३४.९२ ॥
मरणादुभयोः साम्यं भवेदत्र महेश्वर ।
पर्वतं वेष्टयेद्यस्तु सूत्रेणैकेन पर्वणि ॥ ३४.९३ ॥
पृथिवी वेष्टिता तेन सशैलवनकानना ।
सर्वतीर्थफलावाप्तिः शिवलोके प्रयात्यसौ ॥ ३४.९४ ॥
ओंकार उवाच -
सर्वमेतत्नृपश्रेष्ठ कामः सम्पद्यतां तव ॥ ३४.९५ ॥
एवमुक्त्वा ततो देवः तत्रैवान्तरधीयत ।
सुरासुरैरथादित्यैः साध्यैः सार्द्धं युधिष्ठिर ।
स्वकीयं यानमारुह्य कैलासनिलयं ययौ ॥ ३४.९६ ॥
राजाऽपि श्रावयामास भूतग्रामं चतुर्विधम् ।
मम यज्ञप्रभावेण सर्वे सन्तु निरामयाः ॥ ३४.९७ ॥
सर्वे तु तृप्तिमायान्तु मम यज्ञप्रभावतः ।
इन्द्रद्युम्नस्तु ब्रह्माणं ततस्तुष्टाव भारत ॥ ३४.९८ ॥
तुष्टः प्रोवाच धाता तं वरं वृणु विशाम्पते ।
राजोवाच -
तुष्टोऽसि यदि मे देव वरं दातुमिहेच्छसि ॥ ३४.९९ ॥
नर्मदादक्षिणे कूले लिङ्गमूर्तिधरो भव ।
इमं वरमहं मन्ये यदि तुष्टोऽसि मे प्रभो ॥ ३४.१०० ॥
प्राणत्यागे कृते तत्र ब्रह्मलोकं प्रयातु वै ।
एवं भवतु राजेन्द्र ब्रह्मा प्रोवाच सत्वरम् ॥ ३४.१०१ ॥
एवमुक्त्वा ययौ ब्रह्मा रुद्रलोकं सुरैः सह ।
विष्णुं चैव ततो राजा साष्टाङ्गं च युधिष्ठिर ॥ ३४.१०२ ॥
केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् ।
पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम् ॥ ३४.१०३ ॥
दामोदरं वासुदेवं हरिं च प्रणमाम्यहम् ।
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम् ॥ ३४.१०४ ॥
लोकनाथं जगन्नाथं श्रीनाथं सर्ववित्तमम् ।
श्रीकान्तं श्रीधरं श्रीशं श्रीनिवासं नमाम्यहम् ॥ ३४.१०५ ॥
अच्युतानन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते ।
ऋक्सामाथर्वरूपाय यज्ञरूपाय ते नमः ॥ ३४.१०६ ॥
नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः ।
तीर्थयानसमारूढ गरुडध्वज ते नमः ॥ ३४.१०७ ॥
सहस्रशिरसं देवं सकलं निष्कलं परम् ।
वेद्यं पुरुषमध्यक्षमाद्यं नारायणं प्रभुम् ॥ ३४.१०८ ॥
प्रणतोऽस्मि सदा देवं दैत्यान्तकरणं हरिम् ।
हिरण्यगर्भं भूगर्भं यज्ञगर्भामृतोद्भवम् ॥ ३४.१०९ ॥
श्रीगर्भज्ञानगर्भाय वासुदेव नमोऽस्तु ते ।
त्वया सृष्टं जगत्सर्वं चराचरमिदं प्रभो ॥ ३४.११० ॥
स्रष्टा पालयिता त्वं वै हर्ता त्वं च युगे युगे ।
विश्वतश्चक्षुरव्यक्तो विज्ञेयो विश्वतो मुखः ॥ ३४.१११ ॥
विश्वात्मा विश्वतो देवो वासुदेवो नमोऽस्तु ते ।
त्वमादित्यश्च वायुश्च त्वमग्निस्त्वं च चन्द्रमाः ॥ ३४.११२ ॥
त्वं धाता देवदेवेश त्वमिन्द्रस्त्वं प्रजापतिः ।
त्वत्प्रसादात्सुरश्रेष्ठ यज्ञसिद्धिर्ममाभवत् ॥ ३४.११३ ॥
श्रुत्वा स्तोत्रमिदं देवः शङ्खचक्रगदाधरः ॥ ३४.११४ ॥
उवाच वचनं सत्यं वरं वृणु विशाम्पते ।
ददामि ते न संदेहो यज्ञसिद्धिमवाप्स्यसि ॥ ३४.११५ ॥
राजोवाच -
ओंकारसौम्यभागे तु लिङ्गरूपी जनार्दनः ।
वैदूर्यशिखरस्याग्रे भव त्वं लोकपावनः ॥ ३४.११६ ॥
इमं वरमहं मन्ये यदि दातुमिहेच्छसि ।
यास्यन्ति वैष्णवं स्थानमिहाभ्यर्च्य विधानतः ॥ ३४.११७ ॥
तिर्यग्योनिं न गच्छन्ति यमलोकं तथा नराः ।
प्राणत्यागे कृते तत्र नरा गच्छन्ति ते पदम् ॥ ३४.११८ ॥
पितॄणामन्नदानेन पितरो वैष्णवं पदम् ।
प्रसादात्ते च गच्छन्तु सत्यं सत्यं वदाम्यहम् ॥ ३४.११९ ॥
तस्य तद्वचनं श्रुत्वा राज्ञश्चामिततेजसः ।
उवाच वचनं विष्णुरिन्द्रद्युम्नं विशाम्पते ॥ ३४.१२० ॥
अवतारं करिष्यामि इहैव नृपसत्तम ।
सर्वमेव नृपश्रेष्ठ मत्प्रसादाद्भविष्यति ॥ ३४.१२१ ॥
एवमुक्त्वा ययौ देवः शङ्खचक्रगदाधरः ।
सुरासुरैः स्तूयमानस्त्रिदिवं प्रति भारत ॥ ३४.१२२ ॥
एष ते कथितो राजन्निन्द्रद्युम्न महाध्वरः ।
तेनासौ पर्वतः पुण्यः सर्वलोकेषु विश्रुतः ॥ ३४.१२३ ॥
सिद्धेश्वरं च ब्रह्माणं विद्धि नारायणं हरिम् ।
श्रवणात्कीर्तनादस्य विष्णुलोके महीयते ॥ ३४.१२४ ॥
ततस्तुष्टाव तीर्थानि राजा सत्यव्रते स्थितः ।
पितृणां तारणार्थाय तीर्थेभ्यश्च नमो नमः ॥ ३४.१२५ ॥
तीर्थान्यूचुः॒
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
तीर्थानां वचनं श्रुत्वा इन्द्रद्युम्न उवाच ह ॥ ३४.१२६ ॥
ओंकारसन्निधौ तीर्थे स्थातव्यं मदनुग्रहात् ।
एवमस्त्विति राजानमुक्त्वा चक्रुः सरित्स्तुतिम् ॥ ३४.१२७ ॥
कल्पगां त्वां नमस्कुर्मो हरस्य परमां कलाम् ।
अतीव सर्वलोकानां भुवि ख्यातां सरिद्वराम् ॥ ३४.१२८ ॥
नास्मत्प्रभावतः पूता किंतु पूता स्वभावतः ।
यद्वत्सूर्यप्रभा पुण्या वह्णेश्चापि प्रभा यथा ॥ ३४.१२९ ॥
हिमांशोश्चैव राजेन्द्र तथैवेयं महानदी ।
इत्युक्त्वा तं च राजानं तीर्थान्यन्तर्दधुस्तदा ॥ ३४.१३० ॥
ततस्तुष्टाव गङ्गां वा अर्घं दत्त्वा नृपोत्तमः ।
गङ्गा भागीरथी देवी तथा भोगवती शुभा ॥ ३४.१३१ ॥
जाह्नवी मोक्षदा भद्रा तारिणी पापनाशिनी ।
स्वर्गे मन्दाकिनी चैव देवदेवनमस्कृता ॥ ३४.१३२ ॥
गायत्री वेदमाता त्वमुमा कात्यायनी तथा ।
किमन्यदपि ते देवि हरेण शिरसा धृता ॥ ३४.१३३ ॥
कस्यास्ति शक्तिः स्तोतुं त्वामृते चन्द्रार्धशेखरात् ।
गङ्गोवाच -
तुष्टाऽस्मि ते महाराज वरं याचस्व सुव्रत ॥ ३४.१३४ ॥
गङ्गाया वचनं श्रुत्वा राजा तां प्रत्युवाच ह ।
राजोवाच -
यदि तुष्टाऽसि देवेशि वरं दातुमिहेच्छसि ॥ ३४.१३५ ॥
इहैव क्रियतां वासो वर एष प्रदीयताम् ॥ ३४.१३६ ॥
गङ्गोवाच -
एवं भवतु राजेन्द्र भागेनैव वहाम्यहम् ॥ ३४.१३७ ॥
ततस्तुष्टाव गङ्गा तु कल्पगां सरितां वराम् ।
श्रेष्ठा त्वं कल्पगे देवि नमस्कार्ये चिरायुषि ॥ ३४.१३८ ॥
त्वत्तोयस्य प्रभावेण पावित्र्यमभवच्च मे ।
कल्पान्ते तु क्षयं यान्ति सरितः सागरादयः ॥ ३४.१३९ ॥
तीर्थानि चैव सर्वाणि त्वमेवात्रैव तिष्ठसि ।
पूज्या त्रिदशवन्द्या च सुभगे चिरगमिनी ॥ ३४.१४० ॥
गौरीसमा जटाग्रे वै हरमूर्तिर्भविष्यसि ।
एवमुक्त्वा ततो गङ्गा नमस्कृत्य च मेकलाम् ॥ ३४.१४१ ॥
दिव्ययानसमारूढा स्तूयमानाप्सरोगणैः ।
सरस्वत्युवाच -
दुहिताऽहं तव ह्येषा धर्मतः परिपालिता ॥ ३४.१४२ ॥
सप्तकल्पवहे धन्ये त्वच्छुश्रूषापरायणा ।
आगताहं महाभागे त्वत्पादाब्जदिदृक्षया ॥ ३४.१४३ ॥
स्नानं कर्तुं तथा देवि चतुर्विंशतिवत्सरैः ।
किं न वेत्सि महाभागे मां धरेश्वरि वाहिनि ॥ ३४.१४४ ॥
करिणीरूपमास्थाय कोटितीर्थे समागता ।
सपादकोटितीर्थानि चन्द्रसूर्ये समे ग्रहे ॥ ३४.१४५ ॥
स्नानार्थं कल्पगे देवि आदिष्टा विष्णुना स्वयम् ।
द्वापरस्य चतुर्थांशे कुरुपाण्डवसेनयोः ॥ ३४.१४६ ॥
युद्धार्थं समितौ पुञ्जं सर्वतीर्थमये शुभे ।
तत्र यद्दीयते दानं तप्यतेऽथ तपस्तथा ॥ ३४.१४७ ॥
सर्वं शतगुणं तद्धि त्वत्तोये कल्पगे पुनः ।
तदेव कोटिगुणितं राहुग्रस्ते दिवाकरे ॥ ३४.१४८ ॥
एवमुक्त्वा महाराज कल्पगां च सरस्वती ।
इन्द्रद्युम्नं च राजानं स्वस्थानं चाभ्यगात्पुनः ॥ ३४.१४९ ॥
इन्द्रद्युम्नस्ततो राजा स्वयं तुष्टाव भारत ।
त्वत्तोयस्य प्रभावेण पितृदेवाश्च तार्पिताः ॥ ३४.१५० ॥
पवित्रं च त्वया देवि त्रैलोक्यं सचराचरम् ।
त्वं माता सर्वभूतानां नृणां संसारतारिणी ॥ ३४.१५१ ॥
मेकलासि महादेवि कल्पगा नर्मदा तथा ।
जलपूर्णेति विख्याता विन्ध्यपर्वतभूषणम् ॥ ३४.१५२ ॥
अपि वर्षसहस्रेण कः स्तोतुं च क्षमः शुभे ।
श्रुत्वा स्तोत्रमिदं देवी नृपस्यास्य तदाऽब्रवीत् ॥ ३४.१५३ ॥
क्षत्रियाणां सहस्रैस्तु कृतो यज्ञोऽत्र पार्थिव ।
सदृशस्ते महाराज न भूतो न भविष्यति ॥ ३४.१५४ ॥
वरं ददामि ते राजन् येन सिद्धिमवाप्स्यसि ।
तस्यास्तद्वचनं श्रुत्वा कल्पगाया युधिष्ठिर ॥ ३४.१५५ ॥
प्रहसन्नब्रवीद्राजा ब्राह्मणैः सहितस्तदा ।
शिवभक्तिपरो नित्यं सप्तकल्पवहे शुभे ॥ ३४.१५६ ॥
यदि तुष्टाऽसि मे देवि वरं दातुं त्वमिच्छसि ।
प्रवाहान् कुरु सप्त त्वं दक्षिणोत्तरकूलयोः ॥ ३४.१५७ ॥
सर्वतः सर्वगे देवि यदि मां बहु मन्यसे ।
इमं वरमहं मन्ये यदि तुष्टाऽसि सुव्रते ॥ ३४.१५८ ॥
तस्य तद्वचनं श्रुत्वा इन्द्रद्युम्नस्य भारत ।
नर्मदा चाब्रवीद्वाक्यमिन्द्रद्युम्नं नराधिप ॥ ३४.१५९ ॥
सर्वमेतत्प्रभावेण मत्प्रसादाद्भविष्यति ।
अत्रान्तरे च यद्दानं दीयते नाऽत्र संशयः ॥ ३४.१६० ॥
तस्य संख्या न विद्यते सत्यमेतद्ब्रवीमि ते ।
न तेषां पुनरावृत्तिरित्याह भगवान्नृप ॥ ३४.१६१ ॥
अन्त्यजाः श्वपचा वापि मृगाश्चैव सरीसृपाः ।
सर्वे ते त्रिदिवं यान्ति नीलगङ्गासमागमे ॥ ३४.१६२ ॥
यज्ञमिष्ट्वा नृपश्रेष्ठ इन्द्रद्युम्नो विशाम्पते ।
नर्मदां च नमस्कृत्य ओंकारं चैव भारत ॥ ३४.१६३ ॥
स्वकीयं यानमारुह्य सत्यधर्मपरायणः ।
वृतो नृप सहस्रेण स्तूयमानोऽप्सरोगणैः ॥ ३४.१६४ ॥
विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम् ।
एतत्ते कथितं राजन्नितिहासं पुरातनम् ॥ ३४.१६५ ॥
ततः कालेन महता राज्यं कृत्वा महाबलः ।
अयुतं साग्रमेवेह स राजा त्रिदिवं गतः ॥ ३४.१६६ ॥
श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ।
यमलोकं न पश्येच्च पापयोनिं न गच्छति ॥ ३४.१६७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे इन्द्रद्युम्नयज्ञनीलगङ्गावतारो नाम चतुस्त्रिंशोऽध्यायः ॥
अध्याय ३५
युधिष्ठिर उवाच -
वैदूर्यपर्वतं रम्यं सुरसिद्धनिषेवितम् ।
मान्धाता केन कार्येण गतो वै सप्तकल्पगाम् ॥ ३५.१ ॥
तथा पाशुपतास्त्रेण हत्वा वै त्रिपुरं हरः ।
पातालं भेदयित्वा तु रसातलतलं ययौ ॥ ३५.२ ॥
जालेश्वरं तथा लिङ्गमुत्थितं केन हेतुना ।
नीलगङ्गा कथं तत्र कल्पगा भेदमागता ॥ ३५.३ ॥
बाणासुरः शिवे भक्तः शिवलब्धवरः शुचिः ।
लिङ्गानि तानि तेनेह पूजितानि महामुने ॥ ३५.४ ॥
संख्यया नवकोट्यस्तु तानि क्षिप्तानि तत्र वै ।
एतत्सर्वं समासेन कथयस्व महामुने ॥ ३५.५ ॥
यथाश्रुतं पुराकल्पे पुराणे स्कन्दकीर्तिते ।
ब्रह्मविष्ण्वादिदेवानां पार्वत्याः षण्मुखस्य च ॥ ३५.६ ॥
तथा तु कथ्यतां तात यथोद्दिष्टं शिवेन तु ।
मार्कण्डेय उवाच -
शृणु राजन्महाबाहो कथ्यमानं निबोध मे ॥ ३५.७ ॥
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
देवानां सङ्गमं यत्र कैलासे पर्वतोत्तमे ॥ ३५.८ ॥
कार्त्तिक्यां च सुराः सर्वे हरं द्रष्टुमुपागताः ।
तत्र देवगणान् सर्वान् स्कन्दो वचनमब्रवीत् ॥ ३५.९ ॥
मया श्रुतं च दृष्टं च शिवेन कथितं पुरा ।
अष्टलक्षाणि सार्धानि ग्रन्थेऽस्मिन् कीर्तितानि च ॥ ३५.१० ॥
शिवलोके शिवेनैव निबद्धानि यथा यथा ।
तदर्धं वैष्णवे लोके तदर्द्धं ब्रह्मणः पुरे ॥ ३५.११ ॥
सपादलक्षं सूर्यस्य लोके चैव व्यवस्थितम् ॥ ३५.१२ ॥
चतुर्भिरधिकाशीतिसहस्राणि तथा क्रमम् ।
ख्यातानि मर्त्यलोके च नात्र कार्या विचारणा ॥ ३५.१३ ॥
सूतः संग्रहकर्ता च संहितास्तत्र एव च ।
कल्पस्कन्दो महास्कन्दः पुराणं सप्तधा विदुः ॥ ३५.१४ ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥ ३५.१५ ॥
अशक्ता मानुषा लोके अल्पजीवेन जीविकाः ।
युद्धिहीना दुराचारा भविष्यन्ति कलौ युगे ॥ ३५.१६ ॥
न स्वाध्यायो वषट्कारो न तपो न च याजनम् ।
स्त्रीकामा लोलुपा विप्राः काम्यकृत्यास्तु याचकाः ॥ ३५.१७ ॥
प्रतिग्रहपरा नित्यं कुटुम्बभरणार्थिनः ।
आत्मानं नैव बुध्यन्ते स्त्रीणां स्नेहवशंगता ॥ ३५.१८ ॥
कुकर्माणि करिष्यन्ति धर्मिष्ठास्तापसास्तथा ।
कलौ युगे तथा प्राप्ते काले कौला दिगम्बराः ॥ ३५.१९ ॥
एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति ।
हीने युगे तथा प्राप्ते बौद्धस्थे चैव केशवे ॥ ३५.२० ॥
अल्पायुषश्चैव मर्त्या अल्पवीर्यपराक्रमाः ।
नानादेशोपद्रवाश्च भविष्यन्ति महामुने ॥ ३५.२१ ॥
वेदान् वै प्रार्पयिष्यन्ति द्विजाश्चाण्डालवंशिनः ।
वेदावेशं करिष्यन्ति वेदविक्रयणं तथा ॥ ३५.२२ ॥
राजद्वारे गमिष्यन्ति धनप्राप्तिसमीहया ।
विक्रयं चाग्निहोत्राणां कन्यानां विक्रयं तथा ॥ ३५.२३ ॥
करिष्यन्ति द्विजाः सर्वे श्रोत्रिया व्रतवर्जिताः ।
पूर्णे तु द्वादशे वर्षे नराः पलितयौवनाः ॥ ३५.२४ ॥
दश द्वादशवर्षा तु नारी गर्भधरा भवेत् ।
नारी न पुरुषं मन्येत्न मातापितरौ सुतः ॥ ३५.२५ ॥
नस्नुषा मन्यते श्वश्रूं दुहिता मातरं तथा ।
एतदुद्देशतः प्रोक्तं प्रकृतं शृणु भारत ॥ ३५.२६ ॥
यज्ञं कर्तुं महाराज मान्धाता नृपसत्तमः ।
वैदूर्यपर्वतं प्राप्तं पितॄणां तारणाय च ॥ ३५.२७ ॥
देवतानां हितार्थं वै जघान त्रिपुरं हरः ।
ज्वलत्पाशुपतास्त्रेण तद्दग्धमभवत्पुरा ॥ ३५.२८ ॥
पातालात्तेन चानीतं लिङ्गं जालेश्वरं तथा ।
कामदं मोक्षदं चैव सदादेवनमस्कृतम् ॥ ३५.२९ ॥
लोकानां तारणार्थाय नीलगङ्गा समागता ।
मेघराजसमुद्भूता सर्वपापहरा परा ॥ ३५.३० ॥
तस्यां श्राद्धं प्रकुर्वीत पितॄणामक्षयेच्छया ।
बाणासुरस्य लिङ्गानि कोटितीर्थे शिवालये ॥ ३५.३१ ॥
पतितानि जले चैव नर्मदाया नराधिप ।
पूजितानि पवित्राणि भुक्तिमुक्तिप्रदानि तु ॥ ३५.३२ ॥
बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये ।
न प्रतिष्ठा न संस्कारः तेषामावाहनादि च ॥ ३५.३३ ॥
एवमेव प्रपूज्यानि शिवरूपाणि भारत ।
एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ ॥ ३५.३४ ॥
शृणु राजन् कथां दिव्यामन्यां पापप्रणाशिनीम् ।
अघघ्नी या प्रतीता मे कीर्तयिष्यामि तेऽनघ ॥ ३५.३५ ॥
अस्तीह पर्वतः श्रीमान् वैदूर्यो नाम नामतः ।
तत्र पुण्यानि तीर्थानि तिष्ठन्त्यायतनानि च ॥ ३५.३६ ॥
कामं कामफलैर्वृक्षैः पुष्पितैः फलितैस्तथा ।
दिव्यपक्षिनिनादैश्च वानीरवनराजिभिः ॥ ३५.३७ ॥
शालैस्तालैश्च सरलैस्तमालैरुपशोभिता ।
नदी पापहरा पुण्या नर्मदा तत्र भारत ॥ ३५.३८ ॥
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरितः सागराः शैलादेवाश्च सपितामहाः ॥ ३५.३९ ॥
नर्मदायां नृपश्रेष्ठ सिद्धगन्धर्वचारणाः ।
स्नातुमायान्ति ते सर्वे सर्वसिद्धिस्तु भारत ॥ ३५.४० ॥
किं तत्र पर्वते राजन् यत्र विश्वावसुर्मुनिः ।
न यक्षाधिपतिर्यत्र कुबेरो नरवाहनः ॥ ३५.४१ ॥
वैदूर्यशिखरे पुण्ये तत्र साक्षाद्विवस्वतः ।
नित्यं पुष्पफला यत्र पादपा हरितच्छदाः ॥ ३५.४२ ॥
बह्वाश्चर्यं तथा तत्र दृश्यते पर्वतोत्तमे ।
पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥ ३५.४३ ॥
ह्लादिनी पुण्यतीर्थानां राजर्षे तत्र वै सरित् ।
वैवस्वतान्तरे प्राप्ते राजन्नादिकृते युगे ॥ ३५.४४ ॥
ओंकारस्यावतारेण सवैदूर्यमयो गिरिः ।
त्रेतायुगे मणिमयो द्वापरे हैमरूपकः ॥ ३५.४५ ॥
कलौ पापहरः प्रोक्तो यथा देवस्तथा गिरिः ।
एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम् ॥ ३५.४६ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे वैदूर्यपर्वतवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥
अध्याय ३६
मार्कण्डेय उवाच -
वसुदानस्तु राजर्षिश्चक्रवर्ती पुराऽभवत् ।
अयोध्याधिपतिः श्रीमान् छक्रतुल्यपराक्रमः ॥ ३६.१ ॥
बुभुजे पृथिवी सर्वां ग्राममेकमिवाथ सः ।
ईजे यागसहस्रेण हयमेधकृतेन च ॥ ३६.२ ॥
सपादलक्षमधिकं सर्वा जीवन्ति च प्रजाः ।
न तत्र दीनो दुःखी वा दरिद्रो वाऽपि कश्चन ॥ ३६.३ ॥
स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ।
एव पालयतस्तस्य पृथिवीं पृथिवीपते ॥ ३६.४ ॥
नर्मदादक्षिणे कूले दैत्यास्त्रिदशकण्टकाः ।
केतुमाली सुकेतुश्च सुमुखो दुन्दुभिस्तथा ॥ ३६.५ ॥
धर्मविघ्नं च कर्तारः समुद्भूताः सुरालये ।
केऽपि नो शक्नुवन्तीह यज्ञं कर्तुं भयात्तदा ॥ ३६.६ ॥
वसुदानोऽब्रवीद्वाक्यं वशिष्ठं ब्रह्मवित्तमम् ।
कस्मिंस्तीर्थे हि निर्विघ्नो हयमेधो विधीयते ॥ ३६.७ ॥
यज्ञविद्या विधानेन निर्दिश्य मम कथ्यताम् ।
तस्य तद्वचनं श्रुत्वा वसुदानस्य धीमतः ॥ ३६.८ ॥
वशिष्ठश्चाब्रवीद्वाक्यं राजानं प्रति भारत ।
न शक्यते मुखः कर्तुं हयमेधो विशेषतः ॥ ३६.९ ॥
अमरेश्वरस्य मूर्तिर्वै दक्षिणाशामुखे स्थिता ।
दानवैर्निर्जितास्तत्र सर्वे देवाः सवासवाः ॥ ३६.१० ॥
यज्ञभागं ग्रहीतुं न शक्नुवन्ति कदाचन ।
एतस्मात्कारणाद्राजन् सत्यमेतत्तवोदितम् ॥ ३६.११ ॥
तस्य तद्वचनं श्रुत्वा वशिष्ठस्य महात्मनः ।
चुकोप वसुदानश्च प्रत्याह च पुरोधसम् ॥ ३६.१२ ॥
हत्वैतान् राक्षसान् पापानद्य वै देवकण्टकान् ।
देवानां च प्रसादेन करिष्ये यागमुत्तमम् ॥ ३६.१३ ॥
एवमुक्त्वा ययौ राजा सर्वसम्भारसंवृतः ।
ब्राह्मणैः सहितो विद्वानृत्विग्भिर्वेदपारगैः ॥ ३६.१४ ॥
गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम् ।
सपादलक्षमश्वानां दन्तिनामयुतं तथा ॥ ३६.१५ ॥
मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च ।
विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस्तथा ॥ ३६.१६ ॥
मण्डपान् यज्ञयूपांश्च समादाय नृपोत्तमः ।
एवं प्रवर्तिते यज्ञे निर्विघ्नेन तु भारत ॥ ३६.१७ ॥
आवभृत्योदकैः क्लिन्ना वसुधा हेमनिर्मिता ।
बभूवुर्लुलिता ये तु कर्दमे मृगपक्षिणः ॥ ३६.१८ ॥
ते हेमवर्णकाः सर्वे बभूवुस्तत्र भारत ।
युगपत्पूजिता यत्र ब्रह्मविष्णुमहेश्वराः ॥ ३६.१९ ॥
होमाच्च पृथक्क्षीराज्यप्रवाहास्तत्र निर्गताः ।
गवां मूत्रप्रवाहश्च तत्राभूत्नृपसत्तम ॥ ३६.२० ॥
स्नानोदकं च देवानामृषिभिर्वेदपारगैः ।
यत्कृतं तत्प्रवाहश्च तत्रासीत्नृपसत्तम ॥ ३६.२१ ॥
प्रवाहेषु च सर्वेषु मिलितेषु तदा नृप ।
आपगा कपिला नाम दृष्टा ब्रह्मर्षिदैवतैः ॥ ३६.२२ ॥
नर्मदासङ्गमस्तत्र रुद्रावर्तः प्रकीर्तितः ।
ततस्तु ब्राह्मणाः सर्वे दक्षिणाभिः प्रपूजिताः ॥ ३६.२३ ॥
गजाश्वरथमारूढा नानाभरणभूषिताः ।
तुष्टा देवगणाः सर्वे ऊचुस्तं पार्थिवं तदा ॥ ३६.२४ ॥
वरं वृणु महाभाग यज्ञेनानेन सुव्रत ।
वसुदान उवाच -
रेवाकपिलसम्भेदे स्नात्वाऽभ्यर्च्य महेश्वरम् ॥ ३६.२५ ॥
विमानैस्त्रिदिवं यान्तु ये मृता न पुनर्भवाः ।
इमं वरमहं मन्ये दीयतां मदनुग्रहात् ॥ ३६.२६ ॥
देवा ऊचुः॒
कामं कामं फलिष्यन्ति चिन्तितास्ते मनोरथाः ।
वरं दत्त्वा च भो राजन् प्रीता वै देवतास्ततः ॥ ३६.२७ ॥
स्वं स्वं विमानमारुह्य मुदितास्त्रिदिवं ययुः ।
वसुदानोऽपि राजर्षिर्ब्राह्मणैर्वेदपारगैः ॥ ३६.२८ ॥
मुदा परमया युक्तो ह्ययोध्यामाययौ तदा ।
तीर्थस्यास्य प्रभावेण सान्तः पुरपरिच्छदः ॥ ३६.२९ ॥
भोगांश्च पुष्कलान् भुक्त्वा गतो माहेश्वरं पुरम् ।
एतत्ते कथितं सर्वं रेवाकपिलसङ्गमम् ॥ ३६.३० ॥
श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३६.३१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलावतारो नाम षट्त्रिंशोऽध्यायः ॥
अध्याय ३७
मार्कण्डेय उवाच -
स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अरुन्धतीप्रसूताया दाक्षायण्यास्सुतोऽभवत् ॥ ३७.१ ॥
विश्रवां नाम राजाऽभूच्छक्रतुल्यपराक्रमः ।
मथुराधिपतिः श्रीमांश्चक्रवर्ती महाबलः ॥ ३७.२ ॥
निर्जिताऽमरदैत्याश्च स राजा मघवा त्विव ।
सर्वकामसमृद्धाश्च ब्राह्मणाश्चेतरे जनाः ॥ ३७.३ ॥
एवं शासयतः पृथ्वीं धनधान्यसमाकुलाम् ।
न दुर्भिक्षं न दारिद्र्यं क्वचिदस्तिं महीतले ॥ ३७.४ ॥
एतस्मिन्नन्तरे प्राप्ते प्रस्थितोऽमरकण्टकम् ।
स्नात्वा च कोटितीर्थे वै समभ्यर्च्य महेश्वरम् ॥ ३७.५ ॥
दक्षिणां मूर्तिमाश्रित्य तस्य देवस्य भारत ।
समाधिस्थो भवेद्यावत्स राजा धर्मवत्सलः ॥ ३७.६ ॥
तावत्पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् ।
द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दाक्षिणां दिशम् ॥ ३७.७ ॥
द्वौ पातालं तथा चोर्द्ध्वं द्वौ सूर्यौ चण्डरूपिणौ ।
कालः संवर्तको वह्निः प्रजज्वाल तदा नृप ॥ ३७.८ ॥
रौद्राश्च दारुणा वाता ववुः प्रलयकारिणः ।
दिग्दाहो भूमिकम्पश्च उत्कापाताश्च दारुणाः ॥ ३७.९ ॥
पतितास्सिद्धगन्धर्वा देवलोकात्सकिन्नराः ।
विद्याधरास्तथा यक्षाः कर्मच्छेदादिव व्युताः ॥ ३७.१० ॥
विद्याधर्यो रुदन्त्यश्च तथैवाप्सरसस्तथा ।
प्रजज्वाल महावह्णिः सशैलवनकाननाम् ॥ ३७.११ ॥
भस्मीकृत्य धरां सर्वां रेवाकूलमिवागमत् ।
तृषार्तो दाहसन्तप्तस्तदाभूत्नृपसत्तमः ॥ ३७.१२ ॥
समुद्यतः पयः पातुं यावत्पश्यति मेकलाम् ।
तावत्तन्मध्यमार्गे तु वारि किंचिन्न विद्यते ॥ ३७.१३ ॥
प्रवाहो रेणुभूतश्च दृश्यते न तु नर्मदा ।
सरितः सागरान् छैलान् बभ्राम स सरांसि च ॥ ३७.१४ ॥
जलं पातुं न कुत्रापि लब्धवान् स नृपोत्तमः ।
अपश्यत्नर्मदां देवीं विन्ध्यं गिरिवरोत्तमम् ॥ ३७.१५ ॥
प्रविष्टो नर्मदामध्ये नृपश्चिन्ताकुलोऽभवत् ।
जलं विनाद्य मरणं नियतं मे न संशय ॥ ३७.१६ ॥
अन्तर्हितं जगत्कृत्स्नं न च किंचिज्जलं विना ।
चिन्तयित्वा नृपश्रेष्ठ ओंकारं च समाश्रयत् ॥ ३७.१७ ॥
पर्वतारोहणं यावत्तृषार्तः कर्तुमिच्छति ।
तावत्पश्यति राजासौ तत्र वै कल्पशाखिनम् ॥ ३७.१८ ॥
फलितं पुष्पितं रम्यं शाखाभिरुपशोभितम् ।
तं दृष्ट्वा शयितो राजा छायां प्राप्य सुशीतलाम् ॥ ३७.१९ ॥
शरीरममृतं भूतं जीविताशाभवत्तदा ।
अपश्यत्पुरुषं तत्र शयानं दीप्ततेजसम् ॥ ३७.२० ॥
तदुच्छ्वासेन लोका वै कम्पिताश्चोर्द्ध्वशस्तदा ।
पातालानि तथा सप्त निःश्वासेन युधिष्ठिर ॥ ३७.२१ ॥
कुम्भाः पार्श्वे च चत्वारस्तस्य तिष्ठन्ति सोदकाः ।
तान् दृष्ट्वा चिन्तयामास तृषार्तो नृपसत्तमः ॥ ३७.२२ ॥
बोधये सुखसुप्तं नो नादत्तं च पिबाम्यहम् ।
किं करोमीती संचिन्त्य तं प्रणम्य स्थितो नृपः ॥ ३७.२३ ॥
मानुषीं तनुमाश्रित्य स्थितोऽयं पुरुषोत्तमः ।
स्वयं प्रजापतिर्देवो हर्ता कर्ता जगत्प्रभुः ॥ ३७.२४ ॥
ततोऽपश्यद्द्वितीयं च पुरुषं दीप्ततेजसम् ।
वृषारूढं त्रिनेत्रं च शूलपाणिपिनाकिनम् ॥ ३७.२५ ॥
भस्मोज्ज्वलितगात्रं च जटामुकुटधारिणम् ।
कपालमालाभरणं तडिज्ज्योतिःसमप्रभम् ॥ ३७.२६ ॥
दंष्ट्राकरालं पुरुषं पिङ्गाक्षं शशिशेखरम् ।
तं दृष्ट्वा तादृशं रूपं सर्वेषां लोमहर्षणम् ॥ ३७.२७ ॥
राजा तुष्टाव देवेशं सर्वदेवनमस्कृतम् ।
जय देव महादेव आदिदेव नमोऽस्तु ते ॥ ३७.२८ ॥
तृषा मां बाधते देव शूलपाणे शृणुष्व तत् ।
प्रयच्छ शीतलं तोयं येन जीवामि शङ्कर ॥ ३७.२९ ॥
तस्य तद्वचनं श्रुत्वा प्रहसन्नब्रवीच्छिवः ।
जल्पतस्तस्य देवस्य चास्ये दृष्टाः समन्ततः ॥ ३७.३० ॥
सुरा ब्रह्मर्षयो लोकाः सप्त चैव चराचराः ।
पातालानि च भूतानि गन्धर्वोरगराक्षसाः ॥ ३७.३१ ॥
ततो ददर्श नारीं च समुद्विग्नां समागताम् ।
रजो गुण्ठित सर्वाङ्गीं रुधिरेण परिप्लुताम् ॥ ३७.३२ ॥
अनन्तदीप्ततेजस्कां मारुतोद्धूतमूर्धजाम् ।
बालं निधाय वामोरौ कन्यां चैव स्तनान्तरे ॥ ३७.३३ ॥
ब्रह्मसूत्रत्रिदण्डाभ्यां कुण्डलाभ्यां अलंकृताम् ।
दृष्ट्वा तां स ततो राजा प्रोवाच वचनं तदा ॥ ३७.३४ ॥
जय देवि महादेवि लोकानुग्रहकारिणि ।
तृषयाप्लुतदेहोऽहं जलं पायय मामिह ॥ ३७.३५ ॥
तस्य तद्वचनं श्रुत्वा तं प्राह परमेश्वरी ।
स्तन्यं पिब महीप त्वं यदि त्वां वाधते तृषा ॥ ३७.३६ ॥
तस्यास्तद्वचनं श्रुत्वा चिन्तयामास पार्थिवः ।
स्तनं पास्यामि देवेशि नारी वचनमब्रवीत् ॥ ३७.३७ ॥
प्रतिज्ञातं मया पूर्वं सुतेजस्ते नृपोत्तम ।
अग्रे न्यस्य स्तनं त्वां वै पश्चाद्दास्यामि बालकम् ॥ ३७.३८ ॥
तस्मात्पिब महाभाग स्तन्यं मे नास्ति पातकम् ।
तत प्रोवाच नृपतिस्तां नारीं कामरूपिणीम् ॥ ३७.३९ ॥
अकार्यमेतत्सर्वेषां मादृशानां कुतः कथा ।
अन्योऽन्यं जल्पतां तेषां सा तत्रान्तरधीयत ॥ ३७.४० ॥
क्व गताऽसि महादेवीत्युक्त्वा विस्मयमागतः ।
स्वप्नलब्धा यथा वार्ता निष्कला प्रतिभासते ॥ ३७.४१ ॥
इन्द्रजालमयं यद्वन्मृगतृष्णाजलं यथा ।
एवं चिन्तयतस्तस्य पुनरग्रे व्यवस्थिता ॥ ३७.४२ ॥
तां दृष्ट्वैव ततो राजा साष्टाङ्गं प्रणिपत्य च ।
कासि त्वं हि वरारोहे सत्यमेतद्ब्रवीहि मे ॥ ३७.४३ ॥
उमा कात्यायनी गङ्गा वेदमाता सरस्वती ।
ब्रह्माणी च महालक्ष्मीः कथयस्व प्रसादतः ॥ ३७.४४ ॥
समानः पुरुषः कोऽयं कुम्भाश्चत्वार एव के ।
वृषारूढस्त्रिनेत्रश्च कोऽयं शूलपिनाकधृक् ॥ ३७.४५ ॥
उत्सङ्गे निहितः कोऽयं बालकः का च कन्यका ।
मूर्खोऽहं नाभिजानामि जननं मरणं यथा ॥ ३७.४६ ॥
स्त्र्युवाच -
पृथिवीं विद्धि मां राजन् सप्तद्वीपैरलंकृताम् ।
सप्तपाताललोकैश्च सशैलवनकाननाम् ॥ ३७.४७ ॥
सरितः सागराः शैलाममोदरनिवासिनः ।
व्याप्तं मया जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ३७.४८ ॥
पर्यङ्कशायिनं देवं शङ्खचक्रगदाधरम् ।
जगद्योनिं हरिं विद्धि संसारार्णवतारणम् ॥ ३७.४९ ॥
त्रिनेत्रं शूलपाणिं च विद्धि देवं महेश्वरम् ।
वृषारूढं महादेवं लोकनाथं जगत्पतिम् ॥ ३७.५० ॥
उत्सङ्गस्थं शिशुं विद्धि ब्रह्माणं सृष्टिकारकम् ।
त्रिभिर्व्याप्तं जगत्सर्वं ब्रह्मविष्णुमहेश्वरैः ॥ ३७.५१ ॥
जगत्सृष्टिकरो ब्रह्मा स्वयं पालयिता हरिः ।
संहारकारको रुद्रस्त्रिभिर्व्याप्तं जगत्ततः ॥ ३७.५२ ॥
कलशांश्चतुरो विद्धि समुद्रान् पर्वतस्थितान् ।
स्तनमध्ये गतां कन्यां नर्मदां विद्धिपावनीम् ॥ ३७.५३ ॥
एतच्छ्रुत्वा वचो राजा विस्मयं परमं गतः ।
ततः कालेन महता पुनः सृष्टिः प्रवर्तते ॥ ३७.५४ ॥
सर्वलोकहितार्थाय ब्रह्मविष्णुमहेश्वराः ।
कल्पे कल्पे मया दृष्टमेतत्सर्वं युधिष्ठिर ॥ ३७.५५ ॥
न्यग्रोधः कल्पवृक्षश्च ओंकारः सप्तकल्पगा ।
अहं वैदूर्यशैलश्च परलिङ्गानि भारत ॥ ३७.५६ ॥
अक्षयं वाऽव्ययं चैतत्सर्वं जानीहि तत्त्वतः ।
एतत्ते कथितं राजन् यत्पृष्टोऽहं त्वयाऽनघ ॥ ३७.५७ ॥
भक्तस्त्वं श्रवणे श्रद्धा पुराणानां न संशयः ।
श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३७.५८ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कल्पान्तदर्शनं नाम सप्तत्रिंशोऽध्यायः ॥
अध्याय ३८
युधिष्ठिर उवाच -
ईदृशं यस्य माहात्म्यं तीर्थस्य च परंतप ।
तृप्तिं नैवाधिगच्छामि शृण्वन् वेदविदां वर ॥ ३८.१ ॥
समर्थैः सर्वकार्येषु ब्राह्मणैर्वेदपारगैः ।
भूयस्तीर्थस्य माहात्म्यं निवेदय महामते ॥ ३८.२ ॥
मार्कण्डेय उवाच -
अस्ति तीर्थं महाराज लिङ्गमन्यं यमेश्वरम् ।
दर्शनात्पूजनादस्य यमलोकं न पश्यति ॥ ३८.३ ॥
नर्मदादक्षिणे तीरे कपिलायाश्च पश्चिमे ।
विष्णोस्तत्र पुरी रम्या शक्रस्येवामरावती ॥ ३८.४ ॥
कल्पकोटियुगं चापि तस्यां तिष्ठति माधवः ।
पुरा देवासुरे युद्धे दानवैर्देवकण्टकैः ॥ ३८.५ ॥
निर्जिता देवताः सर्वास्तदासीच्च धरार्दिता ।
ब्रह्माद्या देवताः सर्वा क्षीरोदर्णवशायिनम् ॥ ३८.६ ॥
तुष्टुवुः प्रणिपत्यैनं स्तुत्यं चान्तःस्थमव्ययम् ।
जय देव जगन्नाथ दैत्यान्तक जनार्दन ॥ ३८.७ ॥
वाराहरूपमास्थाय प्रोद्धृता वसुधा त्वया ।
उद्धृता मत्स्यरूपेण वेदाः सागरमध्यतः ॥ ३८.८ ॥
कूर्मशेषादिरूपैश्च देवानामार्तिनाशनम् ।
बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा ॥ ३८.९ ॥
हिरण्यकशिपुर्दैत्यः सर्वलोकभयंकरः ।
त्वया नृसिंहरूपेण निहतो देवकण्टकः ॥ ३८.१० ॥
वेदमूल जगन्नाथ रक्ष नः शरणागतान् ।
श्रुत्वा स्तोत्रमिदं देवो ब्रह्माणं वाक्यमब्रवीत् ॥ ३८.११ ॥
किमर्थं च त्वया ब्रह्मन् क्षीरोदेऽहं प्रबोधित ॥ ३८.१२ ॥
ब्रह्मोवाच -
त्वया विना जगन्नाथ क्षोणी छन्ना सुरारिभिः ॥ ३८.१३ ॥
सूर्येण च विहीनं हि निरालोकं जगद्यथा ॥ ३८.१४ ॥
विष्णुरुवाच -
ब्रह्मन् भयं त्यजाशूत्वं दानवोऽयं दुरासदः ।
अचिरेणैव कालेन घातयामि च दानवम् ॥ ३८.१५ ॥
एवमुक्त्वा सुरैः सार्द्धमाजगाम जनार्दनः ।
सुदर्शनेन चक्रेण दानवानां शिरांसि च ॥ ३८.१६ ॥
चकर्त भगवान् विष्णुः सर्वलोकहिताय वै ।
भयार्ता दानवाः सर्वे पलायनपरायणाः ॥ ३८.१७ ॥
विष्णोस्त्रासात्तु ते सर्वे रसातलतलं ययुः ।
पुनः प्रवर्तितो यज्ञो द्विजदेवतपस्विनाम् ॥ ३८.१८ ॥
तस्यां पुर्यां महाभाग देवोऽभूद्दैत्यसूदनः ।
तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा ॥ ३८.१९ ॥
वैष्णवेन विमानेन विष्णुलोके महीयते ।
कपिला पश्चिमायां तु नीलगङ्गासमागता ॥ ३८.२० ॥
अष्टायुतानि तीर्थानि विष्णुना प्रेरितानि वै ।
चक्रतीर्थं वामनं च कोटितीर्थं युगंधरम् ॥ ३८.२१ ॥
तत्र स्नात्वा नरो राजन् कोटितीर्थफलं लभेत् ।
सुदर्शनं नाम तीर्थं दैत्यसूदनमेव च ॥ ३८.२२ ॥
विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च ।
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ३८.२३ ॥
विष्णोस्तु प्रीणनं कृत्वा अनन्तफलमश्नुते ।
क्रोशमात्रप्रमाणं हि विष्णुक्षेत्रं प्रकीर्तितम् ॥ ३८.२४ ॥
न विशेद्ब्रह्महत्या च सत्यमेतच्छिवोदितम् ।
मासोपवासं यः कुर्यादग्निहोत्रं तथैव च ॥ ३८.२५ ॥
पतिव्रता त्वं सत्यं च स्वाध्यायं यज्ञकर्म च ।
चान्द्रायणं पराकं च पितॄणां च तिलोदकम् ॥ ३८.२६ ॥
पितरस्तस्य तृप्यन्ति लोके क्रीडन्ति वैष्णवे ।
एकरात्रं त्रिरात्रं च कृच्छ्रं सान्तपनं तथा ॥ ३८.२७ ॥
अतिकृच्छ्रं पर्णकृच्छ्रं तथाऽन्यद्वैष्णवं व्रतम् ।
एकादश्यां न भुङ्क्ते यः पक्षयोरुभयोरपि ॥ ३८.२८ ॥
स गच्छति परं स्थानं यत्रास्ते भगवान् हरिः ।
अन्यक्षेत्रात्कोटिगुणं फलं वै केशवोऽब्रवीत् ॥ ३८.२९ ॥
तत्र जप्तं तपस्तप्तं सर्वं भवतु चाक्षयम् ।
श्रवणे द्वादशी पुण्या रोहिण्यामष्टमी शुभा ॥ ३८.३० ॥
तत्रोपोष्य महाराज विष्णुलोके महीयते ।
चाण्डालः श्वपचो वाऽपि तिर्यग्योनिगतोऽपि वा ॥ ३८.३१ ॥
अत्र यस्त्यजति प्राणान् विष्णुलोकं स गच्छति ।
कार्त्तिके चैव वैशाख उपवासं करोति यः ॥ ३८.३२ ॥
दशकोट्युपवासानां फलं प्राप्नोति मानवः ।
शङ्करेण पुरा गीतं पुराणे स्कन्दकीर्तिते ॥ ३८.३३ ॥
मासोपवासिनो दृष्ट्वा तत्रैव च पतिव्रताः ।
धर्मराजः स्वयं गत्वा अर्घं तेभ्यो निवेदयेत् ॥ ३८.३४ ॥
षष्टियानसहस्रैस्तु आगतो भगवान् प्रभुः ।
सहस्रयोजनं यावदायाति भगवान् यमः ॥ ३८.३५ ॥
शुक्लवस्त्रपरीधानो धर्मतेजो वपुर्धरः ।
स्थित्वा यानस्य चैवाग्रे भक्त्या पादौ च वन्दते ॥ ३८.३६ ॥
प्रदृश्य वैष्णवं लोकं ततो गत्वा निवर्तते ।
प्रत्यागतेषु यानेषु अपृच्छन् स्वेच्छया यमम् ॥ ३८.३७ ॥
ब्रह्मणो मानसाः पुत्राः सप्त चैव महर्षयः ।
कस्माच्च कारणाद्धर्म पादचारी गतः स्वयम् ॥ ३८.३८ ॥
कथयस्व महाभाग परं विस्मयमागताः ।
प्रहस्य चाब्रवीद्धर्मः शृण्वन्तु मुनिसत्तमाः ॥ ३८.३९ ॥
पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम् ।
अशक्ता द्रष्टुमेतासां विमानान् दूरतः स्थितान् ॥ ३८.४० ॥
ताभ्यः प्रत्यागताः सर्वे मम भृत्या भयंकराः ।
एतस्मात्कारणाद्विप्राः पादचारी गतो ह्यहम् ॥ ३८.४१ ॥
मार्कण्डेय उवाच -
माहात्म्याच्चामरावत्यां हरेरमिततेजसः ।
वासश्च यजनं तत्र कीर्तितं कलिनाशनम् ॥ ३८.४२ ॥
अथान्यः परमो देवो ब्रह्मेश इति विश्रुतः ।
रेवाया उत्तरे कूले संस्थितः पापनाशनः ॥ ३८.४३ ॥
अर्चनात्तस्य देवस्य नश्येतैनो युधिष्ठिर ।
पितरस्तृप्तिमायान्ति ब्रह्मलोकमवाप्नुयुः ॥ ३८.४४ ॥
लङ्केश्वराद्दक्षिणतः सिद्धलिङ्गं प्रकीर्तितम् ।
अर्चनात्स्पर्शनात्तस्य गाणपत्यमवाप्यते ॥ ३८.४५ ॥
विश्वेश्वरं महालिङ्गं सर्वदेवमयं शुभम् ।
शुक्लाष्टम्यां च वैशाखे लिङ्गायुतफलं लभेत् ॥ ३८.४६ ॥
अर्चनात्तस्य लिङ्गस्य शिवस्यानुचरो भवेत् ।
ततो गच्छेन्महाराज रेवाया उत्तरे तटे ॥ ३८.४७ ॥
पापप्रणाशनं चैव लिङ्गं परमसिद्धिदम् ।
अर्चनात्तर्पणात्स्नानाद्ब्रह्महत्यां व्यपोहति ॥ ३८.४८ ॥
ऋणानां मोचनं चैव लिङ्गं पापप्रणाशनम् ।
अनेकभाविकं चैव ऋणं तस्य प्रणश्यति ॥ ३८.४९ ॥
तिलोदकप्रदानेन ऋणमोचनदर्शनात् ।
पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम् ॥ ३८.५० ॥
अथान्यत्परमं लिङ्गं त्रिषु लोकेषु विश्रुतम् ।
दारुवने सिद्धलिङ्गं कथं पश्यन्ति कश्मलाः ॥ ३८.५१ ॥
नर्मदाचरुसम्भेदे स्नानं कृत्वा यथोदितम् ।
स्नापयित्वोदकेनेशं बिल्वपत्रैश्च पूजनात् ॥ ३८.५२ ॥
न तस्य पुनरावृत्तिरुमामाहेश्वरात्पुरात् ॥ ३८.५३ ॥
चतुष्केश्वरं सिद्धलिङ्गमामलक्याः प्रमाणतः ।
अर्चितं वै सुरैर्दैत्यैर्न तं पश्यन्ति मानवाः ॥ ३८.५४ ॥
करोत्यत्र तु यः श्राद्धं पुत्रः परमधार्मिकः ।
पितरस्तस्य तृप्यन्ति यावदाहूत संप्लवम् ॥ ३८.५५ ॥
शाकल्यस्याश्रमं पुण्यं योजनायुतविस्तरम् ।
यज्ञपर्वतमासाद्य निःसृता चरुका नदी ॥ ३८.५६ ॥
शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा ।
एतत्पुण्यतमं लोके गीयते सर्वदैवतैः ॥ ३८.५७ ॥
चन्द्रसूर्योपरागे तु यत्फलं कुरुजाङ्गले ।
रेवाचरुकसंयोगे तत्फलं शिवकीर्तितम् ॥ ३८.५८ ॥
तत्राख्यातं दारुवनं भुवि सर्वैर्निषेवितम् ।
मुनीनां षष्टिसाहस्रैस्त्रेतातपसि संस्थितैः ॥ ३८.५९ ॥
कन्दमूलफलाहारैरग्निहोत्रपरायणैः ।
एतत्तीर्थप्रभावेण गतास्ते ब्रह्मणः पुरीम् ॥ ३८.६० ॥
निहत्य चान्धकं तत्र ननर्त भगवाञ्छिव ।
गणानां नायकाः सर्वे नानावाद्यानवादयन् ॥ ३८.६१ ॥
तत्र नृत्यति देवेशः सर्वा नृत्यन्ति देवताः ।
तेन दारुवनं ख्यातं लिङ्गं पापप्रणाशनम् ॥ ३८.६२ ॥
अर्चनात्तस्य देवस्य गाणपत्यमवाप्नुयात् ।
विमलेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम् ॥ ३८.६३ ॥
स्नानात्तत्र दिवं यान्ति ये मृता न पुनर्भवाः ।
निर्मलीकृतदेहास्तु कृतास्तत्र सुरासुराः ॥ ३८.६४ ॥
पिनाकिना महाराज नीताः सर्वे त्रिविष्टपम् ।
तिलोदकैः पिण्डदानैः पितॄन् प्रीणाति यो नरः ॥ ३८.६५ ॥
स गच्छति परं स्थानं यत्र देवो महेश्वरः ।
चन्द्रसूर्यग्रहे प्राप्ते दानसंख्या न विद्यते ॥ ३८.६६ ॥
शिवमभ्यर्च्य तत्रैव गाणपत्यमवाप्नुयात् ।
विमलेश्वरं तत्र लिङ्गं स्वयं विद्धि महेश्वरम् ॥ ३८.६७ ॥
व्याघ्रेश्वरं यत्र लिङ्गं व्याघ्री यत्र दिवं गता ।
तिलोदकप्रदानेन हविषा पिण्डदानतः ॥ ३८.६८ ॥
पितॄनुद्धरते पुत्रः शतपूर्वांस्तथा परान् ।
वसेत्स वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ ३८.६९ ॥
अर्चनात्तस्य देवस्य कीर्तनाच्छ्रवणादपि ।
इन्द्रलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ३८.७० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रस्वामिवर्णनो नामाष्टत्रिंशत्तमोऽध्यायः ॥
अध्याय ३९
युधिष्ठिर उवाच -
लिङ्गं व्याघ्रेश्वरं नाम विघ्नकर्तृसमागमे ।
कथितं यन्महाभाग सर्वपापविमोक्षणम् ॥ ३९.१ ॥
प्रभावं वेदितुं तस्य पुनरिच्छाम्यहं मुने ।
मार्कण्डेय उवाच -
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ॥ ३९.२ ॥
बभ्रुर्नाम पुरा चासीद्राजा परमधार्मिकः ।
पुण्ड्रवर्द्धनवासी च सत्यधर्मपरायणः ॥ ३९.३ ॥
पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले सुसंयतः ।
नित्यं नैमित्तिकं कर्म पित्रर्थं स चकार ह ॥ ३९.४ ॥
यज्ञकाले निवृत्तेऽथ बुद्धिं प्राप्य तु भारत ।
चिन्तयामास राजासौ किंकरोमीती चाब्रवीत् ॥ ३९.५ ॥
ऋषयो निरपेक्षाशाः कन्दमूलफलाशिनः ।
विप्रातिथिं न पश्यामि कं भोजयितुमुत्सहे ॥ ३९.६ ॥
संचिन्त्य विप्रभोज्यार्थं पाकमप्सु व्यनिक्षिपत् ।
ऋग्वेदश्च ततो वाक्यं कोपात्प्राह ततस्तदा ॥ ३९.७ ॥
इदानीं द्वापरस्यान्ते वर्तते पापसंभवः ।
वैवस्वतेऽन्तरे प्राप्ते ब्राह्मणा लब्धकामुकाः ॥ ३९.८ ॥
ते भुञ्जन् कामुकाः सर्वे राजद्रव्यं सकिल्बिषम् ।
देशे कदाचित्पुण्याहे भारद्वाजाश्रमंगतः ॥ ३९.९ ॥
सोऽभिवाद्य नमस्कृत्य मुनिं तत्र व्यवस्थितः ।
भारद्वाजोऽब्रवीद्वाक्यं तस्मै दत्त्वासनं महत् ॥ ३९.१० ॥
स्वागतं ते महाराज कुशलं सह भार्यया ।
चिरं दृष्टोऽसि धर्मज्ञ एकाकी त्वं कथंचन ॥ ३९.११ ॥
राजोवाच -
अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् ।
महर्षे श्राद्धकालोऽयां पितॄणां मम वर्तते ॥ ३९.१२ ॥
भोजयेऽहं यथा विप्रं तथा त्वं कर्तुमर्हसि ।
तस्य तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीद्वचः ॥ ३९.१३ ॥
महर्षीणां सहस्राणि तुष्टानामूर्ध्वरेतसाम् ।
हंसलोमशमुख्यानां यदि भोजयितुं क्षमः ॥ ३९.१४ ॥
पश्चात्प्रवर्तते श्राद्धं सत्यमेतद्ब्रवीम्यहम् ।
दद्या हेममयं पीठं दद्या धान्यं तथा वसु ॥ ३९.१५ ॥
मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च ।
अग्निशौचस्य कौपीनं वस्त्रस्य तु विशाम्पते ॥ ३९.१६ ॥
तस्य तद्वचनं श्रुत्वा भारद्वाजस्य भूपतिः ।
एवमस्त्विति तं चोक्त्वा सर्वं पत्न्यै न्यवेदयत् ॥ ३९.१७ ॥
महोक्षं कल्पयित्वा पितृकार्यं निवर्तये ।
श्रौतस्मार्तादिकं कर्म आमिषं पितृतर्पणम् ॥ ३९.१८ ॥
इत्यादिस्मृतिवाक्यानि पर्यालोच्य पुनः पुनः ।
महोक्षं च ततो हत्वा तर्पयामास तान् पितॄन् ॥ ३९.१९ ॥
अनड्वाहं पशुं ज्ञात्वा भारद्वाजादयस्ततः ।
कुपिताः कर्मणा तेन राज्ञीं राजानमेव च ॥ ३९.२० ॥
कोपसंभारसंतप्ता गर्हयन्तोऽब्रुवंस्तदा ।
सुरामांसादिमाध्वीकं कृत्वा गोमांसभक्षणम् ॥ ३९.२१ ॥
तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीबन्धेन शूद्ध्यति ।
अभक्षभक्षणं कृत्वा करीषाग्नौ विशेद्द्विजः ॥ ३९.२२ ॥
घातितानि त्वया चाष्टौ सहस्राणि तपस्विनाम् ।
हव्यं देवा न गृह्णन्ति कथं च पितरः पुनः ॥ ३९.२३ ॥
त्वया वै क्रतवश्चेष्टास्ते गता वै श्वयोनिषु ।
व्यर्थमास तपस्तेऽद्य मूलनाशस्त्वया कृतः ॥ ३९.२४ ॥
बभ्रुरुवाच -
वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् ।
दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम् ॥ ३९.२५ ॥
वेदार्थनिन्दका ये वै ब्राह्मणा ज्ञानदुर्बलाः ।
इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ते ॥ ३९.२६ ॥
गोमेधो हयमेधश्च नरमेधस्तथाऽपरः ।
क्षत्रियास्त्वथ जीवन्ति पूज्यन्ते देवमानुषैः ॥ ३९.२७ ॥
राज्ञस्तद्वचनं श्रुत्वा भारद्वाजोऽशपत्नृपम् ।
यस्मान्महोक्षमांसेन तार्पिता ब्राह्मणास्त्वया ॥ ३९.२८ ॥
भवतु अनेन पापेन व्याघ्रो व्याघ्री तव प्रिया ।
दिव्यं वर्षसहस्रं तु वसुधां विचरिष्यथः ॥ ३९.२९ ॥
तस्य तद्वचनं श्रुत्वा मुनेरमिततेजसः ।
सुधर्मा चाब्रवीद्वाक्यं राजपत्नी यशस्विनी ॥ ३९.३० ॥
वेदोक्तकर्मकर्ता तु यतः शप्तः पतिर्मम ।
पतिव्रता च निर्दोषा धर्मिष्ठाऽहं तथैव च ॥ ३९.३१ ॥
दशवर्षसहस्राणि तेन पापेन दुःखिताः ।
भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः ॥ ३९.३२ ॥
निर्जले मरुदेशे च अपरे कण्टकावृते ।
क्षुधार्ताश्च तृषार्ताश्च काकगृध्रैरनुद्रुताः ॥ ३९.३३ ॥
भारद्वाजश्च राज्ञी च शप्त्वा तत्र परस्परम् ।
भारद्वाजश्च सार्द्धं तैः कृत्वा पुण्यं ततो नृप ॥ ३९.३४ ॥
ब्रह्मलोकं जगामाथ ब्राह्मणैः सह भारत ।
सोऽभिवाद्य यथा न्यायं ब्रह्माणं सुरसत्तमम् ॥ ३९.३५ ॥
सर्वं न्यवेदयत्तत्राभक्षभोज्यं च यत्कृतम् ।
ब्रह्मोवाच -
लोकापचरितं कर्म [] कार्यं देववर्जितम् ॥ ३९.३६ ॥ [ङपिन् Oरिगिनल्]
उक्तानि च निषिद्धानि धर्माधर्मविचारणे ।
लोकोक्तं विहितं कर्म त्रयी मार्गं विचारितम् ॥ ३९.३७ ॥
कर्तव्यं तु प्रयत्नेन स्वर्गमोक्षप्रदायकम् ।
बोधिता ब्राह्मणास्तेन ब्रह्मणा नृपतिस्तदा ॥ ३९.३८ ॥
शापान्तः कथितस्तेषां तेनैव परमेष्ठिना ।
शापस्यान्तो मया दृष्टो भवतां पापकर्मिणाम् ॥ ३९.३९ ॥
पुण्यक्षये च शप्तास्तु सम्प्राप्ते तु युगान्तरे ।
नर्मदातीरवासी यो मार्कण्डेयो महामुनिः ॥ ३९.४० ॥
स दास्यत्युपदेशं वो येन मोक्षमवाप्स्यथ ।
ततः कालेन महता मार्कण्डेयं मुनिं गताः ॥ ३९.४१ ॥
दैवयोगेन ते सर्वे कल्पगा तीरवासिनम् ।
अभिवाद्य यथा न्यायं तमृषिं प्रणिपत्य च ॥ ३९.४२ ॥
स्थिताः स्वकर्म तत्रैव व्याहरन्तः परस्परम् ।
दृष्ट्वा तांश्चिन्तयामास मार्कण्डेयो महामुनिः ॥ ३९.४३ ॥
मिथुनं व्याघ्ररूपेण व्याहरन्मानुषीं गिरम् ।
केन कर्मविपाकेन ब्राह्मणा ब्रह्मराक्षसाः ॥ ३९.४४ ॥
एवं संचिन्त्य मार्कण्डो भारद्वाजमथाब्रवीत् ।
दम्पती व्याघ्ररूपेण ब्राह्मणा ब्रह्मराक्षसाः ॥ ३९.४५ ॥
यूयं च विकृताकाराः कथयध्वं कथं च तत् ।
भारद्वाज उवाच -
शृणु ब्रह्मन् समासेन कथ्यमानं वचो मम ॥ ३९.४६ ॥
भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदवित् ।
बभ्रुर्नामा चक्रवर्ती पुण्ड्रवर्धनसंस्थितः ॥ ३९.४७ ॥
सुधर्मा नाम तस्यैव धर्मपत्नी पतिव्रता ।
एकदा श्राद्धकाले तु नातिथिं प्राप्तवान् द्विजम् ॥ ३९.४८ ॥
संचिन्त्याथ तदात्मानमागतो ह्याश्रमं मम ।
पादौ जग्राह शिरसा ततो वचनमब्रवीत् ॥ ३९.४९ ॥
पितॄणां श्राद्धकालो मे प्रसादः क्रियतां मयि ।
ततो मयोपदिष्टोऽसौ मुनींस्त्वं भोजयाधुना ॥ ३९.५० ॥
महोक्षं शातयित्वा तु भोजितास्ते तपोधनाः ।
शप्तो मया च शीघ्रं त्वं व्याघ्रयोनिं गमिष्यसि ॥ ३९.५१ ॥
निर्भर्त्स्य मां च तत्पत्नी शशाप ब्रह्मराक्षसाः ।
यूयं भवत वै सर्वे मरुदेशे क्षुधार्दिताः ॥ ३९.५२ ॥
ब्रह्माणं च ततः प्राप्ता विवादेन परस्परम् ।
ब्रह्मणा प्रेषितास्तेऽमी त्वत्सकाशमिहागताः ॥ ३९.५३ ॥
एतत्ते कथितं सर्वं कारणं विकृते महत् ।
नान्यत्स्थानं प्रपश्यामो यत्रास्माकं स्थितिर्भवेत् ॥ ३९.५४ ॥
न दिवा नैव रात्रिश्च न सूर्यो न च चन्द्रमाः ।
न ग्रहा नैव ऋक्षाणि ऋषयो यत्र मण्डलम् ॥ ३९.५५ ॥
सरितः सागराः शैला भूतग्रामं चतुर्विधम् ।
आसीदिदं तमो भूतमादि मध्यान्तवार्जितम् ॥ ३९.५६ ॥
मुग्धा वयं न जानीमो न चाज्ञायत किंचन ।
न्यग्रोधं नर्मदामध्ये मेघाभं कालरूपिणम् ॥ ३९.५७ ॥
त्वां वै सर्वद्विजश्रेष्ठं नान्य पश्यामि किंचन ।
त्वं पिता नो गुरुश्चैव हरिर्धाता स्वयं शिवः ॥ ३९.५८ ॥
अकामतः कृतं पापं स्वयमेतदुपार्जितम् ।
त्वत्प्रसादात्मुनिश्रेष्ठ मुञ्चामो घोरकिल्बिषात् ॥ ३९.५९ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशभम् ॥ ३९.६० ॥
मार्कण्डेय उवाच -
शाकल्यस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् ।
वैदूर्यात्पश्चिमे भागे यत्र देवो महेश्वरः ॥ ३९.६१ ॥
तत्र गत्वा च यूयं वै तपश्चोग्रं करिष्यथ ।
जपध्यानपरा नित्यं कन्दमूलफलाशिनः ॥ ३९.६२ ॥
एवं द्वादशवर्षाणि संतिष्ठध्वं द्विजोत्तमाः ।
यावद्वै वेदमानेन पुनः सृष्टिः प्रवर्तते ॥ ३९.६३ ॥
तमो भूतमिदं सर्वं न प्राज्ञायत किंचन ।
सर्वं चकार भगवान्महाकालवपुर्धरः ॥ ३९.६४ ॥
प्राणिनां कर्मणा ह्येतज्जगत्कालवशङ्गतम् ।
वायुरग्निर्जलं पृथ्वी भूतग्रामश्चतुर्विधः ॥ ३९.६५ ॥
कालस्य भोजनं सर्वं भस्मपुञ्जमिवाभवत् ।
नाश्चर्यमत्र कर्तव्यं पुनः सृष्टिर्भविष्यति ॥ ३९.६६ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते पापयोनयः ।
नमस्कृत्य मुनिश्रेष्ठं मार्कण्डं कल्पवासिनम् ॥ ३९.६७ ॥
राजा च राजपत्नी च ऋषयो विमलेश्वरम् ।
जग्मुः कालेन महता पुनःसृष्टिः प्रवर्तिता ॥ ३९.६८ ॥
स्वयं प्रजापतिर्ब्रह्मा ससर्ज विविधाः प्रजाः ।
कलाः काष्ठा मुहूर्ताश्च जगत्स्थावरजङ्गमम् ॥ ३९.६९ ॥
सरितः सागरान् गुल्मान् पर्वतां च लतास्तथा ।
आपोऽग्निं वै तथा वायुं भूतग्रामं चतुर्विधम् ॥ ३९.७० ॥
सूर्यं च दक्षिणे नेत्रे सोऽसृजत्प्राणिनस्तथा ।
वामनेत्रे हिमांशुं च स तथा पर्यकल्पयत् ॥ ३९.७१ ॥
एतदृक्षवरैः सार्द्धं पवित्रं ध्रुवमण्डलम् ।
विवस्वतः प्रभां चैव सर्वलोकप्रकाशिनीम् ॥ ३९.७२ ॥
सृष्टा चान्द्रमसी ज्योत्स्ना दिवा रात्री तथैव च ।
अपरेषु च द्वीपेषु न सूर्यो नैव चन्द्रमाः ॥ ३९.७३ ॥
रौद्री प्रभाऽस्ति तत्रैवं पुनः सृष्टिः प्रवर्तिता ।
पूर्णे तु द्वादशे वर्षे शापान्ते समुपस्थिते ॥ ३९.७४ ॥
अर्चयित्वा महेशानं रेवाव्याघ्रसमागमे ।
भारद्वाजादयः सर्वे ब्रह्मलोकमवाप्नुयुः ॥ ३९.७५ ॥
कामिकं यानमारुह्य राजा मुनियुतस्तदा ।
तीर्थस्यास्य प्रभावेण उमामाहेश्वरे पुरे ॥ ३९.७६ ॥
व्याघ्रेश्वरो व्याघ्रकर्तृसङ्गमे त्रिदशार्चितः ।
अन्यल्लिङ्गं न पश्यामि दिव्यं वै विमलेश्वरात् ॥ ३९.७७ ॥
अर्चनात्तस्य लिङ्गस्य दर्शनात्स्पर्शनात्तथा ।
ब्रह्महत्या प्रणश्येत पापेष्वन्येषु का कथा ॥ ३९.७८ ॥
तीर्थेषु श्राद्धकरणात्पितॄणामक्षया गतिः ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ३९.७९ ॥
तीर्थस्यास्य प्रभावेण लोके क्रीडन्ति वैष्णवे ।
एतत्ते कथितं सर्वं यथादृष्टं यथाश्रुतम् ॥ ३९.८० ॥
श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ३९.८१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे विमलेश्वरवर्णनो नामैकोनचत्वारिंशोऽध्यायः ॥
अध्याय ४०
युधिष्ठिर उवाच -
मनसा चिन्तितं यच्च तदेव समुपस्थितम् ।
लक्षणं सूत्रयागस्य पर्वतस्य तु वेष्टनम् ॥ ४०.१ ॥
कस्मिन् काले प्रकर्तव्यं विधानां विधिपूर्वकम् ।
त्वमेव वेत्सि सर्वं वै विदितं कुरु साम्प्रतम् ॥ ४०.२ ॥
येन देवाः सगन्धर्वा मानुषाः पापयोनयः ।
तत्र यागप्रभावेण दिवि देवत्वमागताः ॥ ४०.३ ॥
मार्कण्डेय उवाच -
श्रूयतां राजशार्दूल सूत्रयागस्य लक्षणम् ।
चन्द्रसूर्योपरागे तु षडशीतिमुखे तथा ॥ ४०.४ ॥
युगादौ विषुवे चैव व्यतीपाते च संक्रमे ।
कार्त्तिक्यां च तथा माघ्यां वैशाख्यां चैव भारत ॥ ४०.५ ॥
सूर्योपरागतुल्यायां षष्ठ्यां हि कपिलस्य तु ॥ ४०.६ ॥
वैशाखमासस्य तु या तृतीया नवम्यथोर्जस्य च शुक्लपक्षे ।
माघे त्वमा चैव नभस्यकृष्णा त्रयोदशी चेति युगादयस्तथा ॥ ४०.७ ॥
पर्वस्वेतेषु कौन्तेय सूत्रयागं तु कारयेत् ।
अनन्तफलसंयुक्तं शिवेन कथितं पुरा ॥ ४०.८ ॥
सूत्रेण वेष्टयेद्यस्तु पर्वतं शिवसन्निभम् ।
उमया सहितं देवं गणेशेन तथैव च ॥ ४०.९ ॥
तावद्युगसहस्राणि स्वर्गलोके महीयते ।
पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत् ॥ ४०.१० ॥
कौशेयं पट्टसूत्रं च कार्पासं च महीपते ।
नवतन्तुं च यः कुर्याद्दश द्वादशतन्तुकम् ॥ ४०.११ ॥
अष्टादश महाराज चतुर्विंशति वा क्रमात् ।
क्षालयेत्कोटितीर्थे तु गन्धधूपेन वासयेत् ॥ ४०.१२ ॥
बध्नीयात्पुष्पमालां च दीपमालां च बोधयेत् ।
रात्रौ जागरणं कृत्वा ओंकारे विधिपूर्वकम् ॥ ४०.१३ ॥
शिवध्यानपरो भूत्वा निराहारो निशां नयेत् ।
प्रभाते चोत्सवं कुर्यादोंकाराभ्यर्चनं तथा ॥ ४०.१४ ॥
न्यग्रोधे बन्धयेत्सूत्रं समाधिस्थो नरेश्वर ।
कोटितीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम् ॥ ४०.१५ ॥
ऋणमोक्षं पापनाशं नरकेश्वरमुत्तमम् ।
गन्धर्वेश्वरलिङ्गं तु गच्छेत्परमशोभनम् ॥ ४०.१६ ॥
अदृश्यं सर्वभूतानां नागकन्याभिरर्च्यते ।
तत्र स्नात्वा नरो राजन् गान्धर्वं लोकमाप्नुयात् ॥ ४०.१७ ॥
ततो गच्छेन्नृपश्रेष्ठ अङ्गारेश्वरमुत्तमम् ।
दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्यते ॥ ४०.१८ ॥
अङ्गारेण तपस्तप्तं दिव्यं वर्षशतं तथा ।
ग्रहत्वमगमत्सोऽपि तीर्थस्यऽस्य प्रभावतः ॥ ४०.१९ ॥
ब्रह्मावर्तं ततो गच्छेत्सर्वतीर्थमयं शुभम् ।
तत्र स्नात्वा नरो राजन् छिवलोकमवाप्नुयात् ॥ ४०.२० ॥
तिलोदकप्रदानेन पितॄणां परमा गतिः ।
दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम् ॥ ४०.२१ ॥
ब्रह्मा चैव पुराकल्पे लोकानुग्रहकारकः ।
लिङ्गं मध्येश्वरं नाम जलमध्ये व्यवस्थितम् ॥ ४०.२२ ॥
पूज्यते नागकन्याभिर्न तत्पश्यन्ति मानवाः ।
दारुकेश्वरलिङ्गं तु सर्वपापप्रणाशनम् ॥ ४०.२३ ॥
अर्चनात्तस्य देवस्य नरो विद्याधरो भवेत् ।
भृगुलिङ्गं ततो गच्छेद्भैरवो यत्र संस्थितः ॥ ४०.२४ ॥
भृगुं गत्वा नरश्रेष्ठ मुच्यते ब्रह्महत्यया ।
जालेश्वरं ततो गच्छेत्पर्वतीर्थोत्तमोत्तमम् ॥ ४०.२५ ॥
स्नानमात्रो नरस्तत्र स भवे न पुनर्भवेत् ।
तिलोदकप्रदानेन पितॄणामक्षया गतिः ॥ ४०.२६ ॥
भैरवं रूपमास्थाय बाणस्य च पुरत्रयम् ।
पातितं जलमध्ये तु नर्मदाया हरेण वै ॥ ४०.२७ ॥
ज्वलत्पाशुपतास्त्रेण तत्रैव तदनन्तरम् ।
तदस्त्रसङ्गमाच्छीघ्रं पातालाच्चोत्थितं ततः ॥ ४०.२८ ॥
लिङ्गं जालेश्वरं नाम ब्रह्महत्यां व्यपोहति ।
कोटितीर्थं ततो गच्छेत्स्नात्वा च विधिपूर्वकम् ॥ ४०.२९ ॥
वलक्षं बन्धयेत्सूत्रमोंकारस्य तु भारत ।
ओंकारं च समभ्यर्च्य दीपमालां च बोधयेत् ॥ ४०.३० ॥
सफलः सूत्रयागस्तु त्वत्प्रसादान्महेश्वर ।
यतींश्च भोजयेत्तत्र दद्याच्छक्त्या च दक्षिणाम् ॥ ४०.३१ ॥
सार्द्धं च बन्धुभृत्यैश्च पारणं क्रियते नृप ।
यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम् ॥ ४०.३२ ॥
पदे पदे यज्ञफल तस्य स्याच्छङ्करोऽब्रवीत् ।
पुरा देवगणैः सर्वैः सिद्धगन्धर्वकिन्नरैः ॥ ४०.३३ ॥
विद्याधरैस्तथा यक्षैरसुरैर्दैत्यदानवैः ।
चन्द्रादित्यग्रहैश्चैव नक्षत्रध्रुवमण्डलैः ॥ ४०.३४ ॥
विश्वेदेवैश्च साध्यैश्च मरुद्भिर्वसुभिस्तथा ।
देवराजेन चेन्द्राण्या सावित्र्या चैव भारत ॥ ४०.३५ ॥
अरुन्धत्या सरस्वत्या गायत्र्या स च पर्वतः ।
सूत्रेण वेष्टितो भक्त्या फलं प्राप्तं शिवोदितम् ॥ ४०.३६ ॥
अहल्या मेनका रम्भा घृताची चोर्वशी तथा ।
तिलोत्तमा तथा चान्या सरितः सागराश्च वै ॥ ४०.३७ ॥
वेष्टनात्पर्वतस्यास्य दिग्देवत्वमवाप्तवान् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ४०.३८ ॥
सूत्रयागप्रभावेण तावच्छिवपुरे वसेत् ।
एतत्ते कथितं राजन् सूत्रयागस्य यत्फलम् ॥ ४०.३९ ॥
श्रवणात्कीर्तनादस्य रुद्रस्यानुचरो भवेत् ॥ ४०.४० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे सूत्रयागवर्णनो नाम चत्वारिंशोऽध्यायः ॥
अध्याय ४१
युधिष्ठिर उवाच -
कीर्तनं कोटितीर्थस्य मानसंख्याप्रमाणतः ।
तीर्थानि चोत्तरे याम्ये प्राकारे संस्थितानि च ॥ ४१.१ ॥
कथयस्व प्रसादेन तानि मे मुनिसत्तम ।
तेषां तु दर्शनादेव पापं दुष्कृतकर्मिणाम् ॥ ४१.२ ॥
प्रणश्येत्तत्क्षणादेव तमः सूर्योदये यथा ।
मार्कण्डेय उवाच -
उत्तरे यानि तीर्थानि यानि तीर्थानि दक्षिणे ॥ ४१.३ ॥
लीयन्ते कोटितीर्थे तु साक्षाच्छिवपदे नृप ।
पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे ॥ ४१.४ ॥
तानि साक्षात्कोटितीर्थे लीयन्ते परमे पदे ।
कपिलाऽमरयोर्मध्ये नर्मदोंकारमध्यतः ॥ ४१.५ ॥
अत्रान्तरे नृपश्रेष्ठ कोटितीर्थं व्यवस्थितम् ।
दशायुतानि तीर्थानां पातालतलवासिनाम् ॥ ४१.६ ॥
कपिलानर्मदामध्ये शिवेन स्थापितानि च ।
अत्रान्तरे महाराज रुद्रावर्तजलेन तु ॥ ४१.७ ॥
स्नात्वा विधानतस्ते वै गच्छन्ति शिवमन्दिरम् ।
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४१.८ ॥
वसन्ति वामभागे वै ते लोकं यान्ति वैष्णवम् ।
ये पूर्वपश्चिमे भागे वसन्त्यमरकण्टके ॥ ४१.९ ॥
रुद्रस्य ब्रह्मणो लोकं ते प्रयान्ति च वैष्णवम् ।
जले चैकादशाग्नौ तु पतने षोडशैव तु ॥ ४१.१० ॥
सहस्राणि तथाशीतिर्मरणाद्गोगृहे तथा ।
अनशने ब्रह्मलोकः सार्द्धं लक्षमुदाहृतः ॥ ४१.११ ॥
कपिलानर्मदातोये जलाग्नी साधयन्ति ये ।
चतुर्युगसहस्राणि रुद्रलोके वसन्ति ते ॥ ४१.१२ ॥
अवशः स्ववशो वाऽपि मृगपक्षिसरीसृपाः ।
तिर्यग्योनिगताः पापा म्रियन्ते ये युधिष्ठिर ॥ ४१.१३ ॥
राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे ।
राहुसोमसमायोगे कोटितीर्थे नराधिप ॥ ४१.१४ ॥
पुण्यं यत्कीर्तितं पुंसां तस्य संख्या न विद्यते ।
गयायां च कुरुक्षेत्रे पुष्करेऽमरकण्टके ॥ ४१.१५ ॥
तुल्यं फलमवाप्नोति राहुग्रस्ते दिवाकरे ।
प्राची सरस्वती यत्र स्थाणुः सारस्वतं जलम् ॥ ४१.१६ ॥
सार्द्धं द्वादश लक्षं तु दत्तं तत्र प्रवर्तते ।
तत्तुल्यं तु भवेत्सर्वं कोटितीर्थे न संशयः ॥ ४१.१७ ॥
न्यायोपार्जितवित्तस्य राहुग्रस्ते दिवाकरे ।
नानाविधं तु पुण्यं च मतं वै परिकीर्तितम् ॥ ४१.१८ ॥
ब्रह्मविष्णुशिवोक्तं च प्रमाण सर्वसम्मतम् ।
अल्पसत्त्वा नरा राजन् काले मायाविमोहिताः ॥ ४१.१९ ॥
ओंकारं ये न पश्यन्ति तथा वै सप्तकल्पगाम् ।
गोछागयोर्महाराज हेमरूप्ये यदन्तरम् ॥ ४१.२० ॥
शूद्रब्राह्मणयोर्यद्वद्यथा वद्दधितक्रयोः ।
अमरेश्वरतीर्थं हि ज्ञेयं तीर्थान्तरैः सह ॥ ४१.२१ ॥
दीयते कोटितीर्थे यद्गुञ्जामात्रं हिरण्यकम् ।
तस्य संख्या न विद्यते यावदाहूत संप्लवम् ॥ ४१.२२ ॥
चतुर्हस्तप्रमाणं तु कोटितीर्थं न संशयः ।
हस्तमात्रं तथा चान्ये वितस्तिं च तथाऽपरे ॥ ४१.२३ ॥
चतुरङ्गुलमयं केऽपि केचिदङ्गुलमानतः ।
अर्द्धाङ्गुलं यवमात्रं ब्रह्मसूत्रप्रमाणतः ॥ ४१.२४ ॥
चतुर्विंशे द्वादशाब्दे कुरुक्षेत्रात्सरस्वती ।
कोटितीर्थे तथा स्नातुं राहुग्रस्ते दिवाकरे ॥ ४१.२५ ॥
करिणीरूपमास्थाय आयात्स्वपुण्यकक्षयात् ।
स्नानं कृत्वा पुनर्याति कुरुक्षेत्रं न संशयः ॥ ४१.२६ ॥
कावेरीसङ्गमं यावदारभ्यो दधिसङ्गमम् ।
अत्रान्तरे महाराज तीर्थकोट्यो दश स्मृताः ॥ ४१.२७ ॥
कोटितीर्थं समारभ्य नीलगङ्गावसानतः ।
अष्टलक्षाणि तीर्थानां ब्रह्मसूत्रप्रमाणतः ॥ ४१.२८ ॥
कावेर्याः पूर्वभागे च यावत्पर्यङ्कपर्वतः ।
दश लक्षाणि तीर्थानां संख्या च कथिता तव ॥ ४१.२९ ॥
नर्मदायां समासाद्य जमदग्नेर्महाश्रमम् ।
श्रीकण्ठं नीलकण्ठं च लिङ्गं पापप्रणाशनम् ॥ ४१.३० ॥
कन्यातीर्थं महापुण्यं कपिलेश्वरमुत्तमम् ।
कपिलावर्तसंज्ञं तु तीर्थं पापहरं परम् ॥ ४१.३१ ॥
तत्र पूषा च सूर्यस्तु शिवध्यानपरायणः ।
दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम् ॥ ४१.३२ ॥
ततस्तुष्टः सुरेशानस्तमुवाच तदा नृप ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ४१.३३ ॥
पूषोवाच -
यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि ।
सूर्यपिङ्गलसंज्ञं तु लिङ्गं परमसिद्धिदम् ॥ ४१.३४ ॥
आकाशे प्रतपद्रश्मिसहस्रांशु समप्रभम् ।
मासे मासेऽन्यमित्रस्तु संक्रमश्चान्यराशिषु ॥ ४१.३५ ॥
इमं वरमहं मन्ये जगद्द्योतनकारकम् ।
ईश्वर उवाच -
सर्वसम्पत्समृद्धिस्ते मत्प्रसादाद्भविष्यति ॥ ४१.३६ ॥
कृते युगे महाराज मयैतद्दृष्टमेव च ।
चतुर्दश्यां तथाऽष्टम्यां पिङ्गलेश्वरपूजनात् ॥ ४१.३७ ॥
कोटियज्ञफलं प्राप्य शिवलोके महीयते ।
रेवातीरेषु ये देवाः क्रोशमात्रं स्वयंभुवः ॥ ४१.३८ ॥
सर्वे ते सिद्धिदा ज्ञेयाः कामभोगफलप्रदाः ।
केचित्कूष्माण्डमात्रा वै केचिद्वै पुष्पमात्रकाः ॥ ४१.३९ ॥
एरण्डफलमात्राश्च वज्रमौक्तिकमानतः ।
कृते मणिमयाः प्रोक्तास्त्रेतायां तु हिरण्मयाः ॥ ४१.४० ॥
द्वापरे रौप्यताम्राश्च कलौ चाश्ममयाः स्मृताः ।
ब्राह्मं कृतयुगं प्राहुस्त्रेतां वै क्षत्रियं तथा ॥ ४१.४१ ॥
द्वापरं वैश्यमित्येवं कलिं शूद्रं तथैव च ।
नापुण्यालिङ्गमासाद्य म्रियतेऽमरकण्टके ॥ ४१.४२ ॥
को न मुच्येत कौन्तेय सप्तजन्मजकिल्बिषात् ।
यादृशोऽयं गिरिः पुण्यः सर्वतोऽमरकण्टकः ॥ ४१.४३ ॥
तादृशं नानुपश्यामि त्रिषु लोकेषु भारत ।
पर्वतस्य समन्तात्तु तीर्थकोटिर्व्यवस्थिता ॥ ४१.४४ ॥
स्वर्गसोपानमासाद्य प्रात्यक्षं शिवदर्शनम् ।
सुपुण्यं कोटितीर्थं वै तथा चामरकण्टकम् ॥ ४१.४५ ॥
स्वर्गदं मोक्षदं विद्धि सर्वसिद्धिप्रदायकम् ।
वैदूर्यपर्वते सिद्धो मान्धाता च कृते युगे ॥ ४१.४६ ॥
कथितो नृपशार्दूल तथान्यत्कथयामि ते ।
कावेरीसङ्गमः पुण्यः सर्वलोकेषु विश्रुतः ॥ ४१.४७ ॥
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
कावेर्यां भूतजाभौमे व्यतीपातो यदा भवेत् ॥ ४१.४८ ॥
सहस्रगुणितं पुण्यं भवेत्तस्यास्तु सङ्गमे ।
शस्त्रेण निहता ये वै तिलमिश्राम्बुदानतः ॥ ४१.४९ ॥
ते चैकोद्दिष्टश्राद्धेन स्वर्गलोकमवाप्नुयुः ।
चाण्डालाद्गुहकात्सर्पाद्विद्युतो ब्राह्मणादपि ॥ ४१.५० ॥
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ।
सर्वे ते नृपशार्दूल कावेरीसङ्गमे शुभे ॥ ४१.५१ ॥
श्राद्धस्य करणात्सत्यं तृप्ता यान्ति परां गतिम् ।
कुबेरेण तपस्तप्तं दिव्यं वर्षसहस्रकम् ॥ ४१.५२ ॥
आराधितः पूजितश्च लोकनाथ उमापतिः ।
शिवप्रसादसम्पन्नो लोकपालत्वमाप्तवान् ॥ ४१.५३ ॥
तत्र यस्त्यजति प्राणांस्तस्य पुण्यफलं शृणु ।
षष्टिवर्षसहस्राणि देवराज्यमवाप्नुयात् ॥ ४१.५४ ॥
अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे ॥ ४१.५५ ॥
रेवाकावेरिकैस्तोयैस्तिलैरारण्यकैस्तथा ।
पितरस्तर्पितास्तत्र तृप्ता यान्ति परां गतिम् ॥ ४१.५६ ॥
नानामुखसहस्रैस्तु कावेरी प्रथिता भुवि ।
चराचरं यथा व्याप्तं वायुना सूर्यरश्मिभिः ॥ ४१.५७ ॥
तथा तोयेन कावेर्या व्याप्तं च वसुधातलम् ।
नर्मदादक्षिणे कूले वाराहे विन्ध्यपर्वते ॥ ४१.५८ ॥
प्रत्यक्षा सर्वदेवानां पयोष्णी निर्गता यतः ।
सोमस्य दुहिता चासीथिमगर्भेन्दुशीतला ॥ ४१.५९ ॥
हरेणाराधिता पूर्वमुमामूर्तिः पयस्विनी ।
लोकानां तारणार्थाय सोमगङ्गेति गीयते ॥ ४१.६० ॥
विनिष्क्रान्ता शरीराच्च वाराहस्य यशस्विनः ।
तत्र स्नात्वा नरो राजन् भवे वै न पुनर्भवेत् ॥ ४१.६१ ॥
तिलोदकप्रदानेन पितरस्तस्य भारत ।
दशायुतसहस्राणि लोके क्रीडन्ति शाङ्करे ॥ ४१.६२ ॥
कार्त्तिक्यां यत्फलं तस्य वाराहे विन्ध्यपर्वते ।
संख्या न शक्यते स्नानादत्र वर्षशतैरपि ॥ ४१.६३ ॥
शिवेन कथितं पूर्वं पुराणे स्कन्दकीर्तिते ।
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ४१.६४ ॥
ये चार्चयन्ति वाराहं न ते प्राकृतमानुषाः ।
प्राणत्यागे कृते तत्र शिवलोकमवाप्नुयुः ॥ ४१.६५ ॥
राहुसोमसमायोगे वाराहे विन्ध्यपर्वते ।
कुरुक्षेत्रसमं पुण्यं पुरा वै शङ्करोऽब्रवीत् ॥ ४१.६६ ॥
गिरेरारभ्य वाराहात्पयोष्ण्याः सङ्गमावधि ।
अत्रान्तरे नृपश्रेष्ठ तीर्थकोटिरुदाहृता ॥ ४१.६७ ॥
पयोष्णीसङ्गमे तत्र सोमावर्तः स उच्यते ।
स देशः सर्वतः पुण्यः सत्यमेतत्तवोदितम् ॥ ४१.६८ ॥
पयोष्णीसङ्गमे पापहरे लिङ्गस्य दर्शनात् ।
तत्र स्नानस्य दानस्य संख्या कर्तुं न शक्यते ॥ ४१.६९ ॥
तापीपयोष्णीसंभेदश्चन्द्रसूर्यग्रहे नृप ।
कुरुक्षेत्राच्छतगुणः शिवेन परिकीर्तितः ॥ ४१.७० ॥
चतुर्भुजो हरिर्यत्र श्रीपतिः पुरुषोत्तमः ।
विष्णुक्षेत्रं तु विज्ञेयं क्रोशमात्रं तु तन्नृप ॥ ४१.७१ ॥
आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
अमावास्या सिनीवाली पर्वाण्येतान्यनुक्रमात् ॥ ४१.७२ ॥
चतुर्दश्यां चतुर्योगे पीयूषं वहते नृप ।
पितरस्तृप्तिमायान्ति दिने तस्मिन्न संशयः ॥ ४१.७३ ॥
सुर्यग्रहे कुरुक्षेत्रे यत्फलं परिकीर्तितम् ।
तापीपयोष्णीसम्पर्के तत्फलं परिकीर्तितम् ॥ ४१.७४ ॥
दीपोत्सर्गे तु कौमुद्यां फलं संख्या न विद्यते ।
पुरुषश्चक्रवर्ती स्याद्दीपं तत्र चकार यः ॥ ४१.७५ ॥
कार्त्तिक्यामाश्विने मासि पक्षयोरुभयोरपि ।
मासमेकं न भुञ्जीत तस्य पुण्यफलं शृणु ॥ ४१.७६ ॥
यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः ।
तावत्कालं वसेत्स्वर्गे विष्णुलोके च भारत ॥ ४१.७७ ॥
नर्मदादक्षिणे भित्त्वा पातालात्तु समुत्थितम् ।
कावेरी कुण्डमित्येवं त्रिषु लोकेषु विश्रुतम् ॥ ४१.७८ ॥
स्नातमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ।
कुण्डेश्वरं सिद्धलिङ्गं सुरसिद्धनिषेवितम् ॥ ४१.७९ ॥
प्रमादात्कुरुते यस्तु पूतलिङ्गस्य पूजनम् ।
न तत्पुण्यस्य संख्यास्ति यावच्चन्द्रार्कतारकम् ॥ ४१.८० ॥
तिलोदकप्रदानेन पिण्डपातेन भारत ।
असंख्यकालिका तृप्तिः पितॄणां नास्ति संशयः ॥ ४१.८१ ॥
कावेर्यास्तु प्रभावेण नर्मदासङ्गमात्पुनः ।
यज्ञावर्तोऽभवद्देशः सत्यमेतच्छिवोदितम् ॥ ४१.८२ ॥
स्वयम्भुवानि लिङ्गानि स्वर्गमोक्षप्रदानि तु ।
यत्र तत्र नरः स्नात्वा कावेर्या नृपसत्तम ॥ ४१.८३ ॥
अश्वमेधफलं प्राप्य विष्णुलोके महीयते ।
त्यक्त्वा प्राणांस्तु कौवेर्यां कौबेरं लोकमाप्नुयात् ॥ ४१.८४ ॥
कौबेरेश्वरलिङ्गं तु सर्वसिद्धिप्रदायकम् ।
कावेरीनर्मदामध्ये न तत्पश्यन्ति मानवाः ॥ ४१.८५ ॥
पूज्यते सुरदैत्यैस्तु नागकन्याभिरर्च्यते ।
अर्चनात्तस्य देवस्य द्वादशादित्यसन्निभः ॥ ४१.८६ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
कावेरीनर्मदाभेदे बाणलिङ्गं प्रतिष्ठितम् ॥ ४१.८७ ॥
कुबेरेण पुरा दृष्टं सङ्गमेश्वरनामतः ।
अर्चनात्तस्य देवस्य लोकपुरे वसेत् ॥ ४१.८८ ॥
गङ्गायमुनसंभेदे यत्फलं परिकीर्तितम् ।
भौमे तु भूतजायोगे व्यतीपाते च संक्रमे ॥ ४१.८९ ॥
राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम् ।
अशीतिश्च गुणाः प्रोक्ता गङ्गायमुनसङ्गमे ॥ ४१.९० ॥
कावेरीनर्मदायोगे बाणा अष्टगुणाः स्मृताः ।
गङ्गाषष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते ॥ ४१.९१ ॥
तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः ।
अमरेश्वरयाम्ये तु लिङ्गं चैव जलेश्वरम् ॥ ४१.९२ ॥
दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ।
लक्षैश्च रक्षिता देवैर्नर्मदा सप्तकल्पगा ॥ ४१.९३ ॥
धन्विभिः षष्टिपुरुषैः सहस्रैश्च युधिष्ठिर ।
ओंकारं शतसाहस्र्या पर्वतो लिङ्गमेव च ॥ ४१.९४ ॥
अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ॥ ४१.९५ ॥
क्षणमात्रेण दुःखेन अत्यन्तसुखमश्नुते ॥ ४१.९६ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कावेरीमाहात्म्यं नामैकचत्वारिंशोऽध्यायः ॥
अध्याय ४२
मार्कण्डेय उवाच -
रेवा भित्त्वा चण्डवेगा महाभागा विनिःसृता ।
तत्र स्नात्वा नरव्याघ्र ब्रह्महत्यां व्यपोहति ॥ ४२.१ ॥
तिलोदकं तत्र तीर्थे हविषा पिण्डदानतः ।
पितॄन् समुद्धरेद्घोरात्नरकान्नात्र संशयः ॥ ४२.२ ॥
पापमृत्युमृता ये तु चण्डकर्मकृतो नराः ।
मुच्यन्ते तेन पापेन चण्डवेगासमागमे ॥ ४२.३ ॥
चण्डेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम् ।
दर्शनात्पूजनादस्य पुष्पगन्धादिदानतः ॥ ४२.४ ॥
ब्रह्महत्या सहस्रैर्हि तत्क्षणादेव मुच्यते ।
चन्द्रसेनः पुरा चासीद्दुरात्मा पापकर्मकृत् ॥ ४२.५ ॥
परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः ।
रघुवंशी च पापात्मा ऋषिपत्नीं च ब्राह्मणीम् ॥ ४२.६ ॥
अन्याश्च या वै सुभगाः पतिं हत्वा समाहरत् ।
नैमिषारण्यवासी च शाण्डिल्यो ब्रह्मवित्तमः ॥ ४२.७ ॥
सौदामिनी तस्य भार्या धर्मपत्नी यशस्विनी ।
रूपयौवनसम्पन्ना चन्द्रकान्तिसमप्रभा ॥ ४२.८ ॥
कामिनी वल्कलधरा पीनोन्नतपयोधरा ।
आख्यानं कथयिष्यामि तस्यास्तस्य पुरातनम् ॥ ४२.९ ॥
हयारूढश्चन्द्रसेनो नैमिषारण्यवासिनः ।
शाण्डिल्यस्याश्रमं प्राप्तो वने स मृगयन्मृगान् ॥ ४२.१० ॥
दष्टा सौदामिनी तेन शाण्डिल्यस्य प्रिया तदा ।
उवाच वचनं तां वै त्वं मे राज्ञी भवेदिति ॥ ४२.११ ॥
वल्कलाजिनधारी च कुशकाशपवित्रकः ।
कन्दमूलफलाशी च ब्राह्मणश्च पतिस्तव ॥ ४२.१२ ॥
किं करिष्यसि तत्तेन मम भोगांश्च पुष्कलान् ।
सर्वदा मत्प्रसादेन भुङ्क्ष्व त्वं वरवर्णिनि ॥ ४२.१३ ॥
तस्य तद्वचनं श्रुत्वा नृपतेः पापकर्मणः ।
आह सौदामिनी वाक्यं चन्द्रसेनं नृपाधमम् ॥ ४२.१४ ॥
याचस्व मे पतिं राजंस्तस्याहं वशवार्तिनी ।
शाण्डिल्यमब्रवीद्राजा ततोऽमूं वरयामि ते ॥ ४२.१५ ॥
कन्यामिमां च पत्नी ते चेदद्य त्वं ददस्व मे ।
मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः ॥ ४२.१६ ॥
शाण्डिल्य उवाच -
सर्वाः स्त्रियः कैतवबद्धमूलास्तासां प्रियो नास्ति मनुष्यलोके ।
यथेष्टचेष्टो भव भूमिपाल किं मां द्विजं पृच्छसि दुर्बलं च ॥ ४२.१७ ॥
कामान्धस्तु ततो राजा करे जग्राह तां तदा ।
सा निरीक्ष्या हतं पापं ज्वलन्ती तीव्रकोपतः ।
रजस्वलाऽहं मां स्पृष्ट्वा चाण्डालस्त्वं भविष्यसि ॥ ४२.१८ ॥
तां दृष्ट्वा तादृशीं नग्नां भयार्तां प्राणवल्लभाम् ।
चाण्डालस्तत्क्षणाज्जातः सर्वभूतभयावहः ॥ ४२.१९ ॥
हाहाकारं ततश्चक्रुः सर्वे देवाः समानुषाः ।
अश्वमारुह्य राजाऽसावयोध्यामाविशत्पुरीम् ॥ ४२.२० ॥
दृष्ट्वा चाण्डालरूपं तं ब्राह्मणाः पुरवासिनः ।
राजपुत्रा महीपालस्यान्तःपुरनिवासिनः ॥ ४२.२१ ॥
बभूवुर्भयभीताश्च गर्हयन्तो महीपतिम् ।
वशिष्ठं शरणं प्राप्तः शोचित्वा चात्मनस्तनुम् ॥ ४२.२२ ॥
राजा विषण्णवदन उवाच स्वपुरोहितम् ।
जगामाहं समुद्देशं नैमिषारण्यवासिनम् ॥ ४२.२३ ॥
शाण्डिल्यं च नमस्कृत्य साष्टाङ्गं प्रणिपत्य च ।
अब्रवं देहि भार्यां स्वां वित्तेन बहुलेन मे ॥ ४२.२४ ॥
शाण्डिल्यस्य तु पत्न्या वै तया शप्तोऽहमन्तिके ।
श्रुत्वा तस्य चरित्रं च पापस्य भो नराधिप ॥ ४२.२५ ॥
वशिष्ठोऽप्यब्रवीद्वाक्यं चन्द्रसेनं नराधिपम् ।
शाण्डिल्यं गच्छ राजेन्द्र तापसं ऋतुगामिनम् ॥ ४२.२६ ॥
सौदामिनीमृषेर्भार्यां ज्वलन्तीमिव तेजसा ।
एवमस्त्विति चोक्त्वा तं नमस्कृत्य पुरोधसम् ॥ ४२.२७ ॥
स जगाम तमुद्देशं नैमिषारण्यवासिनम् ।
शाण्डिल्यं तु नमस्कृत्य साष्टाङ्गं च पुनः पुनः ॥ ४२.२८ ॥
अब्रवीत्तं मुनिश्रेष्ठं भयत्रस्तो नराधिपः ।
क्षमस्व मे मुनिश्रेष्ठ त्वद्भार्यां प्रति कामिनः ॥ ४२.२९ ॥
त्वं माता मे पिता चासि रघुवंशं समुद्धर ।
मया त्वपकृतं तेऽद्य तस्य प्राप्तं फलं हि वै ॥ ४२.३० ॥
उवाच ब्राह्मणः प्रीतो भार्या चैव पतिव्रता ।
मार्कण्डेयः पिता राजन् छिष्योऽहं तस्य धीमतः ॥ ४२.३१ ॥
भार्यार्थमिह संप्राप्तो नैमिषारण्यवासिनः ।
त्वं तु गच्छ नृपश्रेष्ठ चण्डवेगासमागमम् ॥ ४२.३२ ॥
चण्डेश्वरं तमभ्यर्च्य तत्र स्नात्वा नृपोत्तम ।
अवाप्स्यसि परं स्थानं मुक्तश्चास्माच्च किल्बिषात् ॥ ४२.३३ ॥
तस्य तद्वचनं श्रुत्वा शाण्डिल्यस्य महात्मनः ।
शाण्डिल्यं च नमस्कृत्य तथा सौदामिनीं नृपः ॥ ४२.३४ ॥
स्वस्ति वोऽस्तु गमिष्यामि चण्डवेगासमागमम् ।
एवमुक्त्वा गतस्तत्र समागत्य क्षमापतिः ॥ ४२.३५ ॥
चण्डेश्वरं समभ्यर्च्य तत्र स्नात्वा विधानतः ।
दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ ४२.३६ ॥
सर्वपापविनिर्मुक्तस्तीर्थस्यास्य प्रभावतः ।
क्षणाच्छिवपुरं प्राप्तश्चन्द्रसेनो महीपतिः ॥ ४२.३७ ॥
स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
भूतानां च सहस्राणि संसिद्धिं तत्र चान्वयुः ॥ ४२.३८ ॥
एतत्ते कथितं राजंश्चण्डवेगासमागमम् ।
श्रवणात्कीर्तनाद्वापि भ्रूणहत्या प्रणश्यति ॥ ४२.३९ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे चण्डवेगामाहात्म्यवर्णनो नाम द्विचत्वारिंशोऽध्याय
अध्याय ४३
मार्कण्डेय उवाच -
एरण्डीनर्मदायोगं ततो गच्छेद्युधिष्ठिर ।
तृतीया चण्डवेगा च स्वर्गसोपानपद्धतिः ॥ ४३.१ ॥
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ४३.२ ॥
अनेककालिका तृप्तिः पितॄणामुपजायते ।
अमासोमसमायोगे राहुग्रस्ते दिवाकरे ॥ ४३.३ ॥
एरण्डीसङ्गमस्थाने पुण्यसंख्या न विद्यते ।
एरण्डीश्वरलिङ्गं तु सर्वपापप्रणाशनम् ॥ ४३.४ ॥
कुङ्कुमेन समालिप्य गन्धधूपैः प्रपूजयेत् ।
दिव्यं वर्षसहस्रं तु मोदते शिवसन्निधौ ॥ ४३.५ ॥
दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ।
भद्ररुद्रेश्वरं नाम लिङ्गं परमसिद्धिदम् ॥ ४३.६ ॥
भद्ररुद्रौ पुराकल्पे गन्धर्वौ भ्रातरौ तथा ।
तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम् ॥ ४३.७ ॥
गायन्ति पितरो गाथां तथैव च पितामहाः ।
तिलोदकप्रदानेन पिण्डपातेन भारत ॥ ४३.८ ॥
वसेत्मन्वन्तराणीह रुद्रलोके चतुर्दश ।
अस्त्रेण तु हता ये वै दैवात्पापमृता नराः ॥ ४३.९ ॥
चतुर्दश्यां तु श्राद्धेन वृषोत्सर्गेण भारत ।
वीरलोकमवाप्यैव तत्र क्रीडन्ति मानवाः ॥ ४३.१० ॥
तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा ।
तीर्थस्यास्य प्रभावेण स भवे न पुनर्भवेत् ॥ ४३.११ ॥
चतुर्युगसहस्राणि राजा वैद्याधरे पुरे ।
आख्यानं कथयिष्यामि यथादृष्टं पुराऽनघ ॥ ४३.१२ ॥
चाक्षुषे चान्तरे प्राप्ते आदिकल्पे कृते युगे ।
निमिर्नाम पुरा राजा चक्रवर्ती विशाम्पते ॥ ४३.१३ ॥
पक्षियोनौ च संप्राप्तः कोपाद्वै ब्राह्मणस्य च ।
अस्य तीर्थस्य माहात्म्याद्दर्शसोमसमागमे ॥ ४३.१४ ॥
स्नात्वा संत्यज्य तां योनिं राज्यं कृत्वा दिवं गतः ।
युधिष्ठिर उवाच -
कथं स राजा संप्राप्तो मानुषीं च तनुं पुनः ॥ ४३.१५ ॥
एतदाश्चर्यभूतं मे कथयस्व महामते ।
मार्कण्डेय उवाच -
सुकन्यां नाम कन्यां वै ययाचे च्यवनो नृपम् ॥ ४३.१६ ॥
राज्ञी चन्द्रवती नाम निमेरासीत्पतिव्रता ।
सा पुत्रीं जनयामास प्राणेभ्योऽपि गरीयसीम् ॥ ४३.१७ ॥
एकदा तु नृपश्रेष्ठः सुखासीनो यदृच्छया ।
आगतं च्यवनं दृष्ट्वा अर्घपाद्यैरपूजयत् ॥ ४३.१८ ॥
अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ।
अनुग्रहमिमं मन्ये भोजनं कर्तुमर्हसि ॥ ४३.१९ ॥
तस्य तद्वचनं श्रुत्वा प्रोवाच च्यवनो मुनिः ।
कन्यां ददासि चेत्मह्यं भार्यार्थं धर्मतत्पराम् ॥ ४३.२० ॥
तदा भोक्ष्ये महीपाल नो चेत्पापमवाप्स्यसि ।
राजोवाच -
एका मे दुहिता ब्रह्मन् राज्ञीं याचस्व वर्णिनीम् ॥ ४३.२१ ॥
कन्यादाने न शक्तोऽहं सत्यमेतत्तवोदितम् ।
ततः श्रुत्वा वचो राज्ञीं मुनिर्वचनमब्रवीत् ॥ ४३.२२ ॥
कन्यां देहि च मे राज्ञि गृहिणः पुत्रकारणात् ।
प्रहस्य चाब्रवीद्राज्ञी न ते योग्या द्विजोत्तम ॥ ४३.२३ ॥
अन्यदाचक्ष्व ब्रह्मर्षे तद्ददामि न संशयः ।
ततः कोपाच्छशापैनां पक्षियोनिं तु गच्छसि ॥ ४३.२४ ॥
शापं श्रुत्वा ततो राज्ञी शशापाथ महामुनिम् ।
यदि मे विद्यते सत्यं भर्तृभक्तिश्च निश्चला ॥ ४३.२५ ॥
शप्ता निरपराधाहं नेत्रहीनो भविष्यसि ।
परस्परं च तौ शप्तौ नर्मदातीरमागतौ ॥ ४३.२६ ॥
चचार च्यवनश्चोग्रमेरण्डीसङ्गमे तपः ।
दिव्यं वर्षसहस्रं तु वल्मीकेन तु पूरितः ॥ ४३.२७ ॥
गिरेर्वै पूर्वभागे तु मध्यारण्यमिति स्मृतम् ।
कदम्बवृक्षमासाद्य वने तस्मिंश्च दम्पती ॥ ४३.२८ ॥
पुष्पिते फलिते रम्ये संजातौ पक्षिरूपिणौ ।
अन्येऽपि पक्षिणस्तत्र समुद्भूताः सहस्रशः ॥ ४३.२९ ॥
जातिस्मरा व्याहरन्तो मानुषीं गिरमुत्तमाम् ।
सारङ्गाः पक्षिणस्ते तु सर्वदा हृष्टमानसाः ॥ ४३.३० ॥
ज्येष्ठे मासे तु संप्राप्ते दावाग्निरदहद्वनम् ।
प्रणष्टाश्चाण्डजाः सर्वे ज्वालामालाकुलीकृताः ॥ ४३.३१ ॥
कोटरे तु समालम्ब्य पुत्रैः सह यथा सुखम् ।
एकदा गर्भिणी जाता पक्षिणी तत्र भारत ॥ ४३.३२ ॥
भर्तारं पक्षिणी प्राह किं त्वं तिष्ठसि निर्भयम् ।
गताश्च पक्षिणः सर्वे किं त्वं संहारयिष्यसि ॥ ४३.३३ ॥
तस्यास्तद्वचनं श्रुत्वा खेचरो वाक्यमब्रवीत् ।
भार्यां त्यक्त्वा सुतांश्चैव याम्येकाकी कथं प्रिये ॥ ४३.३४ ॥
इति लोके न वेदे च दृष्टं केनापि कुत्रचित् ।
पाणिग्रहेण या भार्या सुशीला धर्मचारिणी ॥ ४३.३५ ॥
त्यक्त्वा गच्छति तां मोहाद्भ्रूणघ्नः स तु कीर्तितः ।
पक्षिण्युवाच -
आत्मानं रक्ष जीवेश मूलभूतं कुलस्य तु ॥ ४३.३६ ॥
भूयोऽन्यास्ते भविष्यन्ति भार्याः शतसहस्रशः ।
जीवमाने तु या पत्यावन्यं कामयते वरम् ॥ ४३.३७ ॥
सा पापिष्ठा दुराचारा विष्ठायां जायते कृमिः ।
विधवा भर्तृहीना याऽनुगता न स्वकं पतिम् ॥ ४३.३८ ॥
जीवेद्वर्षशतं यावत्सा पापिष्ठा प्रकीर्तिता ।
पत्यौ जीवति या नारी म्रियते भर्तुरग्रतः ॥ ४३.३९ ॥
भर्तृदत्तोदकश्राद्धैः सा याति परमां गतिम् ।
प्रसादाद्यस्य लभ्येत पुत्रालङ्कारकीर्तयः ॥ ४३.४० ॥
कोऽन्यः प्रियतरस्तस्मादिह लोके परत्र च ।
स्वयं प्राप्तस्तु दावाग्निः शीघ्रं गच्छ कथं सुतान् ॥ ४३.४१ ॥
त्यक्त्वा गच्छामि जीवेश संहारो वर्ततेऽधुना ।
हस्तौ पादौ न विद्येते पावको नैव शाम्यति ॥ ४३.४२ ॥
अशक्ता नीयमाने तु पक्षिणश्चाण्डजीविनः ।
सुतांस्त्यक्त्वा तु या माता भयार्ता याति गर्हिता ॥ ४३.४३ ॥
सा सप्तजन्मपर्यन्तं सर्पिणी जायते ध्रुवम् ।
एवमुक्त्वा तु तत्रैव पुत्राणां च परस्परम् ॥ ४३.४४ ॥
सा संगृह्य प्रयत्नेन युग्मं युग्मं दम्पती ।
संस्थाप्यैरण्डिकायोगे भर्ता भार्यामुवाच ह ॥ ४३.४५ ॥
दंष्ट्रिभ्यश्च प्रयत्नेन रक्षणीयाः सुता मम ।
गच्छामि च सुतानन्यानानेतुं सांप्रतं प्रिये ॥ ४३.४६ ॥
एवमुक्त्वा गतः पक्षी कदम्बाश्रितमन्दिरम् ।
सोऽपश्यत्तदा तत्र मन्दिरं वह्निसंकुलम् ॥ ४३.४७ ॥
स्नेहात्प्रविष्टः पुत्रार्थी ज्वालामालावृतं गृहम् ।
तं ददाह तदा वह्णिः ससुतं स महीरुहम् ॥ ४३.४८ ॥
दग्धस्तु वह्णिना तेन वह्निपुञ्ज इवाभवत् ।
भस्मीभूते वने तस्मिन् प्रावट्कालः समागतः ॥ ४३.४९ ॥
एरण्ड्यन्तर्जले तत्र सर्वं तत्प्लावितं नृप ।
अमासोमसमायोगे पक्षिणस्तस्य चास्थि वै ॥ ४३.५० ॥
एरण्ड्याः सङ्गमे प्राप्तं दैवाद्वै नृपसत्तम ।
तत्क्षणाद्दिव्यदेहस्तु दिव्ययानं समाश्रितः ॥ ४३.५१ ॥
ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः ।
दिव्यवस्त्रपरीधानो दिव्यालङ्कारभूषितः ॥ ४३.५२ ॥
उपरिव्याहरन् भार्यां स जगामात्मनः पुरीम् ।
आगच्छ सुभगे शीघ्रं भार्या त्वं मे भविष्यसि ॥ ४३.५३ ॥
सिद्धविद्याधरैर्यक्षैः साधुवादेन पूजितः ।
पुष्पवृष्टिः पपातोच्चैर्देवराजोपकल्पिता ॥ ४३.५४ ॥
एतस्मिन्नन्तरे राजन् पत्नीं भूयोऽपि चाब्रवीत् ।
कन्यार्थं त्वं सुशप्तासि च्यवनेन महात्मना ॥ ४३.५५ ॥
मुञ्चात्मानमवाप्य त्वं भवनं धर्मचारिणाम् ।
स्मारिताकाशवचसा नृपेणैवं पुरं गता ॥ ४३.५६ ॥
सुतान् प्रगृह्य चागत्य भर्तारमिदमब्रवीत् ।
या गतिर्मम भर्तुः स्यात्सा मे नित्यं भविष्यति ॥ ४३.५७ ॥
उवाच वचनं भर्ता शीघ्रं विश हुताशनम् ।
अमासोमसमायोगे एरण्डीतीर्थसङ्गमे ॥ ४३.५८ ॥
तत्र यत्पतितं चास्थि पापात्त्वां तारयिष्यति ।
एवमस्त्विति तं चोक्त्वा पक्षिणी सत्वरं तदा ॥ ४३.५९ ॥
आहृत्य तृणकाष्ठानि सम्प्रदीप्य हुताशनम् ।
ततो यानं समारूढा भर्तुः सा च सुतैः सह ॥ ४३.६० ॥
उमामहेश्वरं यद्वच्छ्रीपतिं च यथा रमा ।
तद्वच्चावाप भर्तारं तीर्थस्यास्य प्रभावतः ॥ ४३.६१ ॥
एवं यानं समारुह्य सभार्यस्तु तदा नृपः ।
चन्द्रसेनो देवसेनो यज्ञसेनस्तथापरः ॥ ४३.६२ ॥
त्रिभिः पुत्रैः परिवृतो धर्मवृत्तिपरायणः ।
विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम् ॥ ४३.६३ ॥
मुदा परमया युक्तः सान्तः पुरपरिच्छदः ।
राज्यं कृत्वा वर्षलक्षं ततः प्राप्तः शिवालयम् ॥ ४३.६४ ॥
एरण्डीश्वरमभ्यर्च्य एरण्ड्याः सङ्गमे नृप ।
पञ्चाशीतिसहस्राणि क्षत्रियाणां महात्मनाम् ॥ ४३.६५ ॥
गतानि तत्र राजेन्द्र सत्यं वै शाम्भवं पुरम् ।
एतत्ते कथितं राजन्नाख्यानं वै पुरातनम् ॥ ४३.६६ ॥
श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ ४३.६७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीसङ्गममहिमानुवर्णनो नाम त्रिचत्वारिंशोऽध्यायः ॥
अध्याय ४४
युधिष्ठिरौवाच -
सुकन्यार्थे मुनिः शप्तश्चन्द्रवत्या महामुने ।
वल्मीकाच्च कथं मुक्तश्च्यवनः काममोहितः ॥ ४४.१ ॥
परलोकं कथं प्राप्तो ब्राह्मणो ब्रह्मवित्तमः ।
कथयस्व महाबाहो परं कौतूहलं हि मे ॥ ४४.२ ॥
मार्कण्डेय उवाच -
शृणु त्वं राजशार्दूल कथ्यमानं निबोध मे ।
निमिः पुत्रं च राज्ये वै सूर्यसेनं निवेश्य च ॥ ४४.३ ॥
आदिदेशाथ मतिमाञ्ज्येष्ठा वै भगिनी तथा ।
च्यवनाय प्रदातव्या ब्राह्मणाय न संशयः ॥ ४४.४ ॥
एरण्ड्याः सङ्गमे चेष्ट्वा हयमेधं मखोत्तमम् ।
सर्वयज्ञकृतं पुण्यं ब्राह्मणाय प्रदास्यसि ॥ ४४.५ ॥
उक्त्वैवं सूर्यसेनं तु स गतः शिवमन्दिरे ।
एवमस्त्विति तं चोक्त्वा सूर्यसेनः प्रतापवान् ॥ ४४.६ ॥
एवं संचिन्त्य मनसा सर्वसंभारसंवृतः ।
स जगाम सुरैः सार्द्धं कन्यामादाय भूपतिः ॥ ४४.७ ॥
मण्डपांश्चैव यूपांश्च पञ्चयोजनविस्तरान् ।
स चकार ततो राजा पितुराज्ञामनुस्मरन् ॥ ४४.८ ॥
यज्ञस्तेन समारब्धः समाप्तवरदक्षिणः ।
रममाणा सुकन्या च कन्याभिर्नृपतिस्वसा ॥ ४४.९ ॥
श्रुत्वा शब्दं च वल्मीके कर्तुं क्रीडां समाययौ ।
तत्रापश्यत्मानुषं सा चक्षुर्हीनमधोमुखम् ॥ ४४.१० ॥
दृष्ट्वा सा कण्टकेनैव विव्याध च गृहं गता ।
हाहाकारो महानासीत्किमेतदिति भारत ॥ ४४.११ ॥
दुर्मनाः सूर्यसेनस्तु ब्राह्मणैः सह सत्वरम् ।
आजुहाव ततो देवावश्विनौ पाकशासनम् ॥ ४४.१२ ॥
यज्ञं निवर्तयामास यथावद्विधिपूर्वकम् ।
निवर्त्य च ततो यज्ञं राजा परमधार्मिकः ॥ ४४.१३ ॥
देवानभ्यर्चयामास च्यवनाय महात्मने ।
दिव्यं चक्षुर्ददध्वं हि वपुः कान्तं नवं वयः ॥ ४४.१४ ॥
एवमभ्यर्थितैर्देवैर्दत्तं चक्षुर्युधिष्ठिर ।
रूपयौ वनसंपन्नं कामदेवसमं वपुः ॥ ४४.१५ ॥
ततः प्रसादयित्वाऽसौ च्यवनं वाक्यमब्रवीत् ।
तत्क्षमस्व महाभाग यत्कृतं ते सुकन्यया ॥ ४४.१६ ॥
गृहाण पाणिमस्यास्त्वं मुने कोपं परित्यज ।
एवमभ्यर्थितो राज्ञा मुनिरोमित्युवाच ह ॥ ४४.१७ ॥
ततश्चावभृथे युग्मं चण्डवेगासमागमे ।
संस्थाप्य विधिवद्राजा तस्मै दत्त्वा क्रतोः फलम् ॥ ४४.१८ ॥
चकार पाणिग्रहणं सुकन्याया मनोहरम् ।
दिव्यरूपधरौ तौ तु लक्ष्मीनारायणाविव ॥ ४४.१९ ॥
संजातौ दम्पती तत्र हर्षेणोत्फुल्ललोचनौ ।
दत्त्वा कन्यां मुनेस्तत्र सूर्यसेनः पुरं ययौ ॥ ४४.२० ॥
बुभुजे विविधान् भोगान् छक्रतुल्यपराक्रमः ।
सूर्यसेनं सुकन्यां च च्यवनं शक्रमश्विनौ ॥ ४४.२१ ॥
भोजनान्ते स्मरेद्यस्तु चक्षुस्तस्य न हीयते ।
एतत्ते कथितं राजंश्चण्डैरण्डकसङ्गमम् ॥ ४४.२२ ॥
तत्र स्नातो दिवं याति न पुनर्गर्भमाविशेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ४४.२३ ॥
आख्यानं कथयिष्यामि यथा दृष्टं यथाश्रुतम् ।
बभ्राम सर्वतीर्थानि दुर्वासाश्चोग्रतापसः ॥ ४४.२४ ॥
पितृतीर्थं समागम्य पितॄणां हितकाम्यया ।
तत्र स्नात्वार्चयित्वा च शूलपाणिं पितामहम् ॥ ४४.२५ ॥
जलाञ्जलिं कुशतिलां पितृपिण्डमवासृजत् ।
दत्त्वा पिण्डं मुनीन् प्राह परं विस्मयमागतः ॥ ४४.२६ ॥
करे गृह्णन्ति पितरः पिण्डानीह मया श्रुतम् ।
तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका ॥ ४४.२७ ॥
तमुग्रतापसं ज्ञात्वा प्रोचुस्ते मुनयस्तदा ।
करे गृह्णन्ति पितरः पिण्डं दर्शे प्रकल्पितम् ॥ ४४.२८ ॥
सत्यमेतन्मुनिश्रेष्ठ नान्यथा वेदभाषितम् ।
तद्दर्शं च प्रतीक्ष त्वं तीर्थान्तरदिदृक्षया ॥ ४४.२९ ॥
चुकोप वै तदा विप्र ऋषिश्चैवाब्रवीद्वचः ।
अत्र नो पातये पिण्डं स्नानं दानं करोमि न ॥ ४४.३० ॥
दुर्वासास्तु ततः प्राह एरण्डं मुनिपुङ्गवम् ।
करे कमण्डलुं कृत्वा जलपूर्णं महामुनिम् ॥ ४४.३१ ॥
शरीरं क्लिश्यसे कस्मात्तवात्र निष्फलं तपः ।
ओंकारं कल्पगां गच्छ गृहीत्वैकं कमण्डलुम् ॥ ४४.३२ ॥
एकः पितामहः पूज्यो गयायां प्रभुरव्ययः ।
उक्त्वैवमृषिभिः सार्द्धं गिरिं त्वमरकण्टकम् ॥ ४४.३३ ॥
आजगाम महातेजा गत्वा तत्र च भारत ।
ओंकारस्यार्चनं कृत्वा स्तोत्रमेतदुदाहरत् ॥ ४४.३४ ॥
नमः कालाय देवाय त्रिदेवाय त्रिमूर्तये ।
अव्यक्ताव्यक्तरूपाय अनन्तानन्तगामिने ॥ ४४.३५ ॥
ऋग्यजुः सामरूपाय सर्वज्ञाय नमोऽस्तु ते ।
भवोद्भव जगन्नाथ उमाकान्त नमोऽस्तु ते ॥ ४४.३६ ॥
असुरघ्नाय देवाय त्रिपुरघ्नाय ते नमः ।
सद्योजातस्तथा घोरः पुरुषेशाय ते नमः ॥ ४४.३७ ॥
जयकालाग्निरुद्राय संवर्ताय नमो नमः ।
हृषीकेश्वररुद्राय पुरुषेशाय ते नमः ॥ ४४.३८ ॥
नमः शम्भवाय मयोभवाय शङ्कराय नमोऽस्तु ते ।
ब्रह्मविष्ण्विन्द्रवरद त्रिनेत्राय नमोऽस्तु ते ॥ ४४.३९ ॥
श्रीकण्ठनीलकण्ठाय नमः सोमार्धधारिणे ।
कपालमालिने तुभ्यं नमः खट्वाङ्गधारिणे ॥ ४४.४० ॥
नमः त्रिशूलहस्ताय नागाभरणभूषिणे ।
नमः पिनाकिने तुभ्यं महानाथ नमोऽस्तु ते ॥ ४४.४१ ॥
शर्वाय सर्वरूपाय चराचर नमोऽस्तु ते ।
जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥ ४४.४२ ॥
क्षमस्व मे सुरेशान इह लोके परत्र च ।
त्वत्समो नास्ति देवेश कश्चिदन्य उमापते ॥ ४४.४३ ॥
श्रुत्वा स्तोत्रमिदं दिव्यं शिव ओंकाररूपधृक् ।
वरं वृणु महाभाग इति वाक्यमुवाच ह ॥ ४४.४४ ॥
दुर्वासा उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
पितृतीर्थसमं तीर्थमेतदस्त्विति देहि मे ॥ ४४.४५ ॥
ओंकार उवाच -
एतत्सर्वं भवत्वद्य मत्प्रसादात्तपोधन ।
असाध्यमपि साध्यं ते त्रैलोक्ये सचराचरे ॥ ४४.४६ ॥
एवं लब्ध्वा वरं विप्रो गिरेर्वै पूर्वभागतः ।
उवास मुनिभिः सार्द्धं दुर्वासा उग्र तापसः ॥ ४४.४७ ॥
अत्रान्तरे नृपश्रेष्ठ ब्रह्माणं प्राह नारदः ।
पितृतीर्थं गया नष्टा दुर्वाससः कोपतस्ततः ॥ ४४.४८ ॥
आस्ते स नर्मदातीरे ओंकारेऽमरकण्टके ।
नारदस्य वचः श्रुत्वा ब्रह्मा लोकानुकम्पया ॥ ४४.४९ ॥
हंसयानं समारूढो देवैः सह नृपोत्तम ।
आजगामाश्रमं तत्र दुर्वासा यत्र संस्थितः ॥ ४४.५० ॥
दृष्ट्वा पितामहं देवमेरण्डो मुनिपुंगवः ।
कमण्डलुं समादाय पादमूले तु ब्रह्मणः ॥ ४४.५१ ॥
विनिक्षिप्य यथा न्यायमर्घं दत्त्वा च तस्थिवान् ।
कमण्डलुजलोद्भूतः प्रवाहो नर्मदां गतः ॥ ४४.५२ ॥
ततः संपूज्य विधिवद्दुर्वासास्तं पितामहम् ।
ब्रह्मोवाच -
उद्भवेद्यदि ते तीर्थममासोमसमागमे ॥ ४४.५३ ॥
इदानीं पितृतीर्थं तु जनैर्नेहोपदृश्यते ।
अनिवर्त्यस्तु शापस्ते तत्पूर्णं कुरु सांप्रतम् ॥ ४४.५४ ॥
दुर्वासा उवाच -
मया निवर्तितः शापो वचनात्ते पितामह ।
पितॄणां दर्शनं तत्र गयापितृविसर्जिनी ॥ ४४.५५ ॥
भविष्यति प्रसादात्ते तस्मिंस्तीर्थे पितामह ।
एवमस्त्विति तं चोक्त्वा दिवं ब्रह्मा ययौ नृप ॥ ४४.५६ ॥
नमस्कृत्य महेशानं सुरासुरनमस्कृतम् ।
हर्षेण महताविष्टः पूज्यमानो द्विजोत्तमैः ॥ ४४.५७ ॥
दुर्वासास्तु मुनिश्रेष्ठस्तत्रैवान्तरधीयत ।
तेन पुण्यतमं लोके तत्रैरण्डी समागता ॥ ४४.५८ ॥
एरण्डीश्वरलिङ्गं तु सुरासुरनमस्कृतम् ।
पुण्यकर्मानुपश्येदमासोमसमागमे ॥ ४४.५९ ॥
दृष्ट्वा तत्परमं लिङ्गं यमलोकं न पश्यति ।
एतत्तु कथितं राजन्मया त्वां प्रति भारत ॥ ४४.६० ॥
श्रवणात्कीर्तनादस्य गच्छेत्माहेश्वरं पुरम् ॥ ४४.६१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे दुर्वासश्चरित्रे एरण्डीतीर्थवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः
अध्याय ४५
मार्कण्डेय उवाच -
ततो गच्छेत्महाभाग रेवाशल्याविशल्ययोः ।
तत्र स्नात्वा दिवं याति फलं यज्ञेश्वराज्ञया ॥ ४५.१ ॥
तत्र यज्ञेश्वरां लिङ्गं धूपेश्वरमनुत्तमम् ।
सिद्धिदं मोक्षदं विद्धि न ते पश्यन्ति मानवाः ॥ ४५.२ ॥
तिलोदकप्रदानेन चान्नदानेन भारत ।
पितरस्तृप्तिमायान्ति यावच्चन्द्रार्कतारकम् ॥ ४५.३ ॥
पौर्णमास्यां तु सोमे वै व्यतीपाते च संक्रमे ।
दानं यत्क्रियते तत्र तस्य पुण्यफलं शृणु ॥ ४५.४ ॥
भरतेन कृतस्तत्र हयमेधः पुरा यथा ।
तत्तेऽहं कथयिष्यामि शृणु कौन्तेय साम्प्रतम् ॥ ४५.५ ॥
भरतो नाम राजासीत्सूर्यवंशे विशाम्पते ।
प्रशशास महाराज कृत्स्नं वै स महीतलम् ॥ ४५.६ ॥
यावत्तृणं विजानीया यावत्कीर्तिश्च भास्करः ।
तावद्वै भरतक्षेत्रं सशैलवनकाननम् ॥ ४५.७ ॥
एकदा स नृपश्रेष्ठो यज्ञकर्मपरायणः ।
भृगोर्दक्षिणभागे तु कुण्डमण्डपमण्डिताम् ॥ ४५.८ ॥
दशयोजनविस्तीर्णां यज्ञभूमिं चकार ह ।
गवां हि दशलक्षाणि सवत्सानां पयोमुचाम् ॥ ४५.९ ॥
लक्षमेकं हयानां च दन्तिनामयुतं तथा ।
मणिमाणिक्यरत्नानि वासांसि विविधानि च ॥ ४५.१० ॥
यज्ञोपस्करमादाय सर्वसंभारसंवृतः ।
वेदध्वनिनिनादेन दिवं भूमिं च संस्पृशन् ॥ ४५.११ ॥
होमेन देवतास्तृप्ताः सप्तलोकनिवासिनः ।
एवं प्रवर्तिते यज्ञे राज्ञश्चामिततेजसः ॥ ४५.१२ ॥
यज्ञविध्वंसनार्थं तु राक्षसा रौद्ररूपिणः ।
माल्यवांश्च सुमाली च सुकेशी शङ्खदूषणौ ॥ ४५.१३ ॥
राक्षसाना सहस्राणि समायातास्तु सत्वरम् ।
भग्नानि यज्ञवस्तूनि त्रिषु लोकेषु दारुणैः ॥ ४५.१४ ॥
प्रणष्टा देवताः सर्वा ऋत्विजश्च निपातिताः ।
एवं विनाशिते यज्ञे रक्षोभिश्च ततोऽनघ ॥ ४५.१५ ॥
कोपाज्जज्वाल राजापि हुताशन इवाहुतः ।
जघान राक्षसान् सर्वान् गिरीन् वज्रधरो यथा ॥ ४५.१६ ॥
प्रणष्टान् भयमीतांश्च पतितान् धरणीतले ।
राक्षसैर्निहतान् दृष्ट्वा ब्राह्मणानृत्विजस्तथा ॥ ४५.१७ ॥
शोकाविष्टस्ततः प्राह भरतो देवमन्त्रिणम् ।
गुरुस्त्वं सर्वदेवानां त्रिकालज्ञस्त्रिवेदवित् ॥ ४५.१८ ॥
ब्रह्महत्यादिकं पापं ममार्थे देवकण्टकैः ।
प्रायश्चित्तं मया कार्यं किं त्वं ब्रूहि बृहस्पते ॥ ४५.१९ ॥
बृहस्पतिरुवाच -
विद्यां संजीवनीं तेऽहं ददामि नृपसत्तम ।
जीविता ब्राह्मणा देवाः शशंसुर्देवमन्त्रिणम् ॥ ४५.२० ॥
ततो निवर्तितो यज्ञः समग्रवरदक्षिणः ।
यूपमूलसमुद्भूता शल्या चैव विशल्यका ॥ ४५.२१ ॥
प्रविवेश महाराज नर्मदां लोकपावनीम् ।
ततो देवाः समारुह्य स्वं स्वं यानं दिवं ययुः ॥ ४५.२२ ॥
भरतोऽपि द्विजैः सार्द्धं प्रविवेश पुरीं ततः ।
तेन शल्या विशल्या च विख्याता भुवनत्रये ॥ ४५.२३ ॥
भरतेश्वरलिङ्गं च ब्रह्मयोन्यां समास्थितम् ।
एतत्ते कथितं राजन्यथादृष्टं यथाश्रुतम् ॥ ४५.२४ ॥
श्रवणात्कीर्तनादस्य न विशेद्योनिसङ्कटे ॥ ४५.२५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे शल्याविशल्यामाहात्म्यानुवर्णनो नाम पञ्चचत्वारिंशोऽध्यायः ॥
अध्याय ४६
भृगुं पतन्ति ये शूराः कां गतिं प्राप्नुवन्ति ते ।
श्रोतुमिच्छाम्यहं त्वे तत्कथयस्व महामुने ॥ ४६.१ ॥
मार्कण्डेय उवाच -
अनाशकेन भो राजन् भृगुगोग्रहसङ्गरैः ।
प्राणांस्त्यजन्ति ये शूरा गतिं तेषां निबोध मे ॥ ४६.२ ॥
पृथक्पृथङ्निवासांश्च तेषां कर्म्माणि भारत ।
चतुर्विंशतिकोट्यस्तु सप्तविंशतिरेव च ॥ ४६.३ ॥
उमया तु पुरा ज्ञप्ता मध्यमोत्तमकन्यकाः ।
अनेन विधिना ये तु प्राणांस्त्यक्ष्यन्ति मानवाः ॥ ४६.४ ॥
तांश्च भुङ्ग्ध्वं मया दत्ता युष्माकं सुप्रसादतः ।
अमरेशे प्रमृताश्च भ्रंशितुं ये पतन्ति ते ॥ ४६.५ ॥
भृगून् दृष्ट्वा नृपश्रेष्ठ मुच्यन्ते ब्रह्महत्यया ।
चतुरशीतिभृगवो जम्बूद्वीपे प्रकीर्तिताः ॥ ४६.६ ॥
तथाऽन्ये सप्तनिर्दिष्टाः स्वर्गसोपानमुत्तमम् ।
भैरवस्तु भृगुश्रेष्ठो ज्ञेयस्त्वमरकण्टके ॥ ४६.७ ॥
शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्चाधमास्तथा ।
एते त्यजन्ति प्राणान् वै वर्जयित्वा द्विजं नृप ॥ ४६.८ ॥
पतितो ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥ ४६.९ ॥
द्वाविंशतिसहस्राणि राहुसोमसमागमे ।
वर्षाणां जायते राजन् राजा वैद्याधरे पुरे ॥ ४६.१० ॥
ग्रस्ते तु राहुणा सूर्ये द्विगुणं फलमश्नुते ।
अवशः स्ववशो वाऽपि जलपूरानलाहतः ॥ ४६.११ ॥
म्रियते यो भृगुं प्राप्य स विद्याधरराड्भवेत् ।
भृगुर्भैरवरूपेण विन्ध्यकैलाससन्निभः ॥ ४६.१२ ॥
गर्हयन्ति भृगुं ये तु ते लिङ्गब्रह्मभेदिनः ।
भैरवः क्षमते तेषां नेति स्कन्देन कीर्तितम् ॥ ४६.१३ ॥
मन्यासाच्च च्युतो विप्रो मातृहा पितृहा तथा ।
स्वसृगः स्वस्नुषागश्च तथा स्वज्ञातिगस्तथा ॥ ४६.१४ ॥
एतेषां पतनं शस्तं करीषाग्नौ प्रसाधनम् ।
मुच्यते तेन पापेन शिवलोकं सगच्छति ॥ ४६.१५ ॥
हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तिके ।
त्रैयम्बके धौतपापे वाराहे विन्ध्यपर्वते ॥ ४६.१६ ॥
कावेर्यास्तु तथा कुण्डे पतनात्स्वर्गमाप्नुयात् ।
भृगोर्दक्षिणभागे तु लिङ्गं वै चपलेश्वरम् ॥ ४६.१७ ॥
क्षेत्रसंरक्षणायेह विख्यातं पापनाशनम् ।
धनुः षष्ट्यां ततः क्षेत्रं विज्ञेयं चापलेश्वरम् ॥ ४६.१८ ॥
आरोहति गिरिं यस्तु तमदृष्ट्वा तु मानवः ।
तस्य पुण्यफलं सर्वं स गृह्णाति न संशयः ॥ ४६.१९ ॥
आलेख्य च पटे सूर्यं पताकादण्डमण्डितम् ।
वलयं च करे कृत्वा वीज्यमानस्तु चामरैः ॥ ४६.२० ॥
वीरस्तु पतितुं गच्छेदारोहेद्भृगुपर्वतम् ।
पदे पदे यज्ञफलं तस्य स्याच्छङ्करोऽब्रवीत् ॥ ४६.२१ ॥
प्रतीक्षन्ते सर्वकालेऽप्सरसः काममोहिताः ।
दिव्यं यानं समारूढा दिव्या भरणभूषिताः ॥ ४६.२२ ॥
वीरस्तु पतितस्तत्र स्वं च त्यक्त्वा कलेवरम् ।
तत्क्षणाद्दिव्यदेहस्तु शक्रतुल्यपराक्रमः ॥ ४६.२३ ॥
कामदं यानमारुह्य विवादेन परस्परम् ।
गच्छेच्छिवपुरं सार्द्धमप्सरोभिः समन्वितः ॥ ४६.२४ ॥
क्लीबस्य सत्त्वहीनस्य उत्तीर्णस्य भृगोः पुनः ।
पदे पदे ब्रह्महत्या भवेत्तस्य न सशयः ॥ ४६.२५ ॥
न चिरायुर्भवेत्मर्त्यः कस्मात्मृत्योर्बिभेत्यसौ ।
न कोऽपि रक्षितुं शक्तः कालमृत्युवशं गतम् ॥ ४६.२६ ॥
स पापिष्ठो दुराचारश्चाण्डालो लोकगर्हितः ।
सन्यासादिकमारुह्य च्यवते यस्तु मानवः ॥ ४६.२७ ॥
सन्यासात्प्रच्युतं विप्रं दृष्ट्वा स्नानार्कवीक्षणम् ।
कुर्यात्सर्वप्रयतेन स्पर्शाच्चान्द्रायणं स्मृतम् ॥ ४६.२८ ॥
ऋतानृतं न वक्तव्यं तेन सार्द्धं कदाचन ।
स्थातव्यं चैव मौनेन नो चेत्पापमवाप्नुयात् ॥ ४६.२९ ॥
निश्चिते मरणे प्राप्ते कथं मृत्युरुपेक्षते ।
जरामृत्युश्च रोगाश्च संसारोदधि सम्प्लवे ॥ ४६.३० ॥
एवं ज्ञात्वा नृपश्रेष्ठ ह्यारोहेद्भृगुपर्वतम् ।
एतत्ते कथितं राजन् भृगोर्माहात्म्यमुत्तमम् ॥ ४६.३१ ॥
न ब्रूयाद्दुष्टबुद्धीनां कलौ पाखण्डकर्म्मणाम् ।
दिगम्बरश्वेतपटबौद्धादीनां विशेषतः ॥ ४६.३२ ॥
असंभाष्या दुराचाराः पुराणस्मृतिनिन्दकाः ।
न तैः सह प्रकर्तव्यः संवादो हि कदाचन ॥ ४६.३३ ॥
प्रत्येकं सर्वदेवानां स्वयमाह वृषध्वजः ।
न मन्यन्ते तु ये मूढास्तीर्थराजं मयोदितम् ॥ ४६.३४ ॥
प्रयान्ति नरकं घोरं भृगोर्येऽवतरन्ति ते ॥ ४६.३५ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे भृगुपर्वतमहिमाऽनुवर्णनो नाम षट्चत्वारिंशोऽध्यायः ॥
अध्याय ४७
युधिष्ठिर उवाच -
ओंकारकीर्तनं विप्रदानं यज्ञस्तपस्तथा ।
सम्भवं पञ्चवक्त्राणां लिङ्गानां संभवं तथा ॥ ४७.१ ॥
युगसंख्यां कलां चैव चरितं च महामुने ।
कथयस्व प्रसादेन यथोद्दिष्टं तु शंभुना ॥ ४७.२ ॥
मार्कण्डेय उवाच -
श्रूयतां राजराजेन्द्र पुराणं स्कन्दकीर्तितम् ।
द्वात्रिंशतिसहस्राणि लक्षाण्यष्टादशैव च ॥ ४७.३ ॥
एषा कृतयुगे संख्या सन्ध्यासन्ध्यांशमानतः ।
लक्ष्याण्यष्टौ तथा चाष्टौ सहस्राणि युधिष्ठिर ॥ ४७.४ ॥
द्वापरे भानमिच्छन्ति सन्ध्यासन्ध्यांशमानत ।
सहस्राणि च चत्वारि तथा लक्षचतुष्टयम् ॥ ४७.५ ॥
मानं कलियुगस्यैतत्सन्ध्यासन्ध्यांशमानतः ।
अल्पक्षीरप्रदा गावो ह्यल्पसस्या च मेदिनी ॥ ४७.६ ॥
अल्पोदकास्तथा मेघाः स्वल्पविद्यास्तथा द्विजाः ।
पूर्णे तु षोडशे वर्षे नराः पलितयौवनाः ॥ ४७.७ ॥
दशमे द्वादशे वर्षे नारी गर्भधरा भवेत् ।
शूद्रा धर्मपरा नित्यं कलौ काले दिगम्बराः ॥ ४७.८ ॥
एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति ।
कलौ युगे तथा प्राप्ते कलिरूपे च माधवे ॥ ४७.९ ॥
नाग्निहोत्रं न वेदाश्च न धर्मो न च याजनम् ।
न सत्यं न तपो दानं न सत्त्वं न च देवताः ॥ ४७.१० ॥
वेदविक्रयिणो विप्रा अन्त्यजानां गृहे गृहे ।
वेदादेशं करिष्यन्ति वेदविप्लवकारकाः ॥ ४७.११ ॥
कन्याविक्रयिणः पापास्तथा कन्योपजीविनः ।
सहस्रांशो न धर्मस्य कला चैका प्रवर्तिता ॥ ४७.१२ ॥
यत्र सिद्धस्तत्र तीर्थं जले स्नास्यन्ति मानवाः ।
शूद्रा पत्नी द्विजानां तु भविष्यति गृहे गृहे ॥ ४७.१३ ॥
अधरोत्तरभावेन भविष्यन्ति कलौ नराः ।
बौद्धाः क्षपणकाः पापा नग्ना मलिनकश्मलाः ॥ ४७.१४ ॥
विडम्बयन्ति बालानां मोहिताः पापकर्मणाम् ।
न गुरुं मन्यते शिष्यः पुत्रश्च पितरं तथा ॥ ४७.१५ ॥
स्ववंशद्रव्यहर्तारः प्रव्रज्यावेषधारिणः ।
लिङ्गोपजीविनः पापास्तथा भस्मोपजीविनः ॥ ४७.१६ ॥
वैवस्वतेऽन्तरे प्राप्ते कलौ सर्वं भविष्यति ।
एतत्ते कथितं राजन् कलौ यद्यद्भविष्यति ॥ ४७.१७ ॥
ओंकारस्यैव चोत्पत्तिं विधानं विधिपूर्वकम् ।
कथयामि समासेन यत्पृष्टोऽहं त्वयाऽनघ ॥ ४७.१८ ॥
कीर्तनादस्य देवस्य मुच्यते भवबन्धनात् ।
ओं मित्येकाक्षर राजन् व्याहरन् समनुस्मरन् ॥ ४७.१९ ॥
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।
वेदमाता च गायत्री ओंकारप्रभवा तथा ॥ ४७.२० ॥
ओंमित्येकाक्षरे तत्त्वे ब्रह्मविष्णुमहेश्वराः ।
ओंकारो वेदमूलं तु श्रुतिशाखः प्रतिष्ठितः ॥ ४७.२१ ॥
फलं चैव तु पुष्पं च पर्णानि स्मृतिरागमः ।
यथादौ सर्वविद्यानामोंकारः परिपठ्यते ॥ ४७.२२ ॥
तथादौ सर्वदेवानामादिदेवो महेश्वरः ।
सन्ध्यात्रयं त्रिकालादि ओंकारे परिकीर्तितम् ॥ ४७.२३ ॥
अग्नित्रयं त्रयो लोकास्त्रिवर्गश्च प्रतिष्ठितः ।
अष्टषष्टिं च तीर्थानां ब्रह्मणे शिवकीर्तितम् ॥ ४७.२४ ॥
एकेन च शतं पूर्णं रुद्राणां परिकीर्तितम् ।
केदारे शतमेकं ओंकारैकोत्तरं शतम् ॥ ४७.२५ ॥
पञ्चब्रह्म पञ्चवक्त्रमोंकारं लिङ्गमुत्तमम् ।
पृथिव्यां यानि लिङ्गानि आसमुद्रान्तगोचरे ॥ ४७.२६ ॥
न तेषां पञ्चवक्त्राणि त्यक्त्वोंकारं युधिष्ठिर ।
स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ॥ ४७.२७ ॥
दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः ।
अवद्रुताः कङ्कोलैस्तु कालिकेयैश्च कालकैः ॥ ४७.२८ ॥
ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः ।
बृहस्पतिस्ततः प्राह ब्रह्माणं प्रति भारत ॥ ४७.२९ ॥
इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम् ।
उवाच वचनं ब्रह्मा तदा तं देवमन्त्रिणम् ॥ ४७.३० ॥
ममैव विस्मृता मन्त्रा दानवानां भयेन च ।
एतस्मिन्नन्तरे भित्त्वा पातालानि च सप्त च ॥ ४७.३१ ॥
ओंकारपूर्वकं राजन् भूर्भुवःस्वश्च कीर्तयन् ।
पर्वतादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ॥ ४७.३२ ॥
सूर्यकोटिसमप्रख्यं ज्वालामालासमाश्रितम् ।
आदिमध्यान्तहीनं च न दृष्टं परमं क्वचित् ॥ ४७.३३ ॥
चतुर्वर्गैश्चतुर्वेदैर्वेदाङ्गनिगमैः स्वयम् ।
उवाच वचनं शम्भुर्ब्रह्माणं लोकभावनम् ॥ ४७.३४ ॥
सौम्यां चैव तु भो ब्रह्मंल्लोकानां शान्तिकारिणीम् ।
मया समार्पिता वेदा इष्टिं कुरु यथेप्सया ॥ ४७.३५ ॥
ततो ब्रह्मा चकारेष्टिं रौद्रीं दैत्यक्षयंकरीम् ।
इष्टिं चैव तत सौम्यां लोकानां शान्तिकारिणीम् ॥ ४७.३६ ॥
ततोऽसुरा महाराज दृष्ट्वा चेष्टिं भयंकरीम् ।
ब्रह्मशापभयोद्विग्ना गतास्ते तु दिशो दश ॥ ४७.३७ ॥
ओंकारस्य प्रभावेण सर्वे देवास्तु निर्भयाः ।
ततोऽभ्यर्च्य सुरेशानं देवास्ते त्रिदिवं ययुः ॥ ४७.३८ ॥
कल्पान्तगं महालिङ्गं सुरासुरनमस्कृतम् ।
कामदं मोक्षदं चैव ओंकारं विद्धि पार्थिव ॥ ४७.३९ ॥
तस्मिंल्लिङ्गे तु लीयन्ते कल्पान्ते सर्वदेवताः ।
अमरं ब्रह्म वेत्याहुर्हरिं सिद्धेश्वरं तथा ॥ ४७.४० ॥
पिङ्गलेश्वरमादित्यं सोमं पित्रीश्वरं तथा ।
यत्र सिद्धास्त्रयो वेदाः सषडङ्गपदक्रमाः ॥ ४७.४१ ॥
तेन सिद्धेश्वरं विद्धि सर्वसिद्धिप्रदायकम् ।
कथितं पर्वतस्याग्रे लिङ्गकोटिसमन्वितम् ॥ ४७.४२ ॥
अर्चनात्तस्य लिङ्गस्य विष्णुलोके महीयते ।
कल्पे कल्पे महाराज क्षीयन्ते सर्वदेवताः ॥ ४७.४३ ॥
मुक्त्वा तु पञ्चलिङ्गानि मार्कण्डं नार्मदं नृप ।
अविमुक्तं च केदारमोंकारममरेश्वरम् ॥ ४७.४४ ॥
तथैव च महाकालमेवं लिङ्गं तु भारत ।
पुण्यानि पञ्चलिङ्गानि प्रातरुत्थाय यः पठेत् ॥ ४७.४५ ॥
सर्वतीर्थफलं प्राप्य शिवलोके महीयते ।
एका काली महाकाले वसेद्वै व्यापिनी सदा ॥ ४७.४६ ॥
सपादकोटिस्तीर्थानां महाकाले वसेत्नृप ।
शिवलोकेन कावेरी शिवक्षेत्रे स्थिता नृप ॥ ४७.४७ ॥
चतुः क्रोशाभ्यन्तरतो ब्रह्महत्या न सर्पति ।
आग्नेयं सिद्धलिङ्गं च तस्यास्तीरे समाश्रितम् ॥ ४७.४८ ॥
शिवख्यातमिति ख्यातं तीर्थे तु कुरुनन्दन ।
स्नातमात्रो नरस्तत्र स भवे न पुनर्भवेत् ॥ ४७.४९ ॥
कीटपक्षिपतङ्गादि तिर्यग्योनिगता नराः ।
मुच्यन्ते तत्र पापेन शिवस्य वचनं यथा ॥ ४७.५० ॥
तत्र यः कुरुते श्राद्धं पितॄणां च तिलोदकम् ।
युगकोटिसहस्रं तु पितरस्ते न तर्पिताः ॥ ४७.५१ ॥
सर्वेषामेव लिङ्गानां दिव्यं वाऽत्र प्रकीर्तितम् ।
तत्र स्नातो दिवं याति न विशेद्योनिसङ्कटे ॥ ४७.५२ ॥
कोटियज्ञफलं प्राप्य शिवलोके महीयते ।
अष्टकोटिस्तु तीर्थानां केदारे कथिता नृप ॥ ४७.५३ ॥
दर्शनादर्चनात्तस्य स्पर्शात्मोक्षफलं नृणाम् ।
केदारस्योदके पीते पुनर्जन्म न विद्यते ॥ ४७.५४ ॥
अहोरात्रोषितो भूत्वा पयः पानं करोति यः ।
तस्योदरे भवेल्लिङ्गं षण्मासाद्ब्रह्मचारिणः ॥ ४७.५५ ॥
केदारदर्शनादेव शिवलोके महीयते ।
वाराणसी महापुण्या त्रिषु लोकेषु विश्रुता ॥ ४७.५६ ॥
अन्तरिक्षे पुरी सा तु मृत्युलोकस्य बाह्यतः ।
पञ्चक्रोशान्तरे यावद्ब्रह्महत्या न सर्पति ॥ ४७.५७ ॥
अष्टाविंशतिकोट्यस्तु लिङ्गानां तत्र भारत ।
गङ्गावरुणयोर्मध्ये स्नानं कृत्वा यथोदितम् ॥ ४७.५८ ॥
सर्वपापविनिर्मुक्तो देववन्मोदते दिवि ।
तत्र यस्त्यजति प्राणान् छिवं ध्यात्वा तु मानवः ॥ ४७.५९ ॥
सहस्रकुलमुद्धृत्य शिवलोकं स गच्छति ।
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥ ४७.६० ॥
तिलोदकप्रदानेन पितृणां प्रीतिरक्षया ।
तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा ॥ ४७.६१ ॥
त्रिनेत्रः शूलपाणिस्तु शिवस्यानुचरो भवेत् ।
अविमुक्तस्य लिङ्गस्य स्पर्शनात्मुक्तिराप्यते ॥ ४७.६२ ॥
कलात्रयं तु तत्रास्ते काशीपुर्यां न संशयः ।
गङ्गासागरसंभेदे चतस्रस्तु कलाः स्मृताः ॥ ४७.६३ ॥
गङ्गासहस्रवक्त्रेण प्रविष्टा यत्र सागरम् ।
स्नानावगाहनात्पानात्पिण्डदानाच्च तर्पणात् ॥ ४७.६४ ॥
गच्छेच्छिवपुरं तत्र पितृभिः सह मानवः ।
अपरं कालरुद्रं तु सप्तपातालवासिनम् ॥ ४७.६५ ॥
हाटकं विद्धि तं देवं न तु पश्यन्ति मानवाः ।
पूज्यते सुरदैत्यैश्च सुरसिद्धनिषेवितम् ॥ ४७.६६ ॥
गङ्गेश्वरद्वितीयं तु तृतीयं सागरेश्वरम् ।
चतुर्थं शूलपाणिं तु चतस्रश्च कला इति ॥ ४७.६७ ॥
कलापञ्चात्मकं रुद्रमासमुद्रान्तगोचरे ।
वर्जयित्वा महेशानमोंकारं कामरूपिणम् ॥ ४७.६८ ॥
पञ्चब्रह्मपञ्चवक्त्रं नवशक्तिसमन्वितम् ।
ओंकारं कल्पगातीरे शिवेन कथितं पुरा ॥ ४७.६९ ॥
तेन पुण्यात्मके लोके लोकत्रितयपूजितम् ।
शङ्खकुन्देन्दुसंकाशं सद्योवक्त्रं तु पश्चिमम् ॥ ४७.७० ॥
ऋग्वेदो निर्गतो यस्माद्ब्रह्मा तत्राधिदेवता ।
उत्तरं वामदेवं तु पीताभं सुमनोहरम् ॥ ४७.७१ ॥
यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राधिदेवता ।
अघोर मेघवर्णाभं याम्यां च दिशि चास्थितम् ॥ ४७.७२ ॥
सामवेदोद्भवं विद्धि सूर्यकालाग्निदैवतम् ।
पूर्वे तत्पुरुषं ज्ञेयं कुङ्कुमारुणसन्निभम् ॥ ४७.७३ ॥
अथर्वं निर्गतं तुर्यमापस्तत्राधिदेवताः ।
ईशानस्तव वक्त्रं तु पञ्चवर्णं महातनुम् ॥ ४७.७४ ॥
श्रुतिसिद्धान्तसङ्गीतं सोमं तत्राधिदेवता ।
षष्ठं सदाशिवं नाम निर्भागं च निरामयम् ॥ ४७.७५ ॥
निर्लक्षं लक्षहीनं तु ज्ञात्वा मोक्षे न संशयः ।
एतत्ते कथितं राजन्नोंकारस्य तु वर्णनम् ॥ ४७.७६ ॥
सहस्रास्यस्य नो शक्तिरेकवक्त्रस्य का कथा ।
स्नापयित्वोदकेनैव बिल्वपत्रेण पूजयेत् ॥ ४७.७७ ॥
चतुर्वर्षसहस्राणि रुद्रलोके महीयते ।
ओंकारदक्षिणामूर्तौ प्राणत्याग करोति यः ॥ ४७.७८ ॥
वर्षकोटिसहस्राणि वसेत्माहेश्वरे पुरे ।
प्रासादं च मठं चापि सुधयेष्टकसंयुतम् ॥ ४७.७९ ॥
चित्रमालेख्यमूले च पताकाध्वजशोभितम् ।
वितानां किङ्किणीयुक्तं नेत्रं वंशोद्भवं शुभम् ॥ ४७.८० ॥
पञ्चवर्णकशोभाढ्यमोंकारस्य तु कारयेत् ।
पञ्चामृतैः स्नापयित्वा चन्दनागुरुकुंकमैः ॥ ४७.८१ ॥
समावेष्ट्य परीधानैर्नानावस्त्रैः सुशोभनैः ।
हेममौक्तिकरत्नैश्च सघृतं गुग्गुलुं दहेत् ॥ ४७.८२ ॥
घण्टां च दीपकं चैव विधूमारार्तिकं च यत् ।
मृदङ्गान् पटहांश्चैव वेणुं वीणां च गीतकम् ॥ ४७.८३ ॥
काहली शङ्खवाद्यानि कांस्यतालाद्यमेव च ।
व्यजनं गेडुकं छत्रं चामरं ध्वजदण्डकम् ॥ ४७.८४ ॥
हेम चान्नधरादीनि गृहांश्च ग्रामपत्तनम् ।
यद्वा तद्वा नृपश्रेष्ठ ओंकाराय निवेदयेत् ॥ ४७.८५ ॥
तस्य दानफलस्येह संख्या कर्तुं न शक्यते ।
सिद्धेश्वरौंकारयोस्तु चन्द्रसूर्यग्रहग्रहे ॥ ४७.८६ ॥
ध्वजमालाकुलं कुर्यात्तस्य पुण्यफलं शृणु ।
यावती तं तु संख्याऽस्ति वायुनोद्धूयते पुनः ॥ ४७.८७ ॥
तावद्युगसहस्राणि शिवलोके वसेन्नृप ।
युगकोटिसहस्राणि युगकोटिशतानि च ॥ ४७.८८ ॥
सर्वकामसमृद्धात्मा ब्रह्मविष्णुशिवालये ।
एतत्ते कथितं राजनोंकारोत्पत्तिलक्षणम् ॥ ४७.८९ ॥
ब्रह्मणा तु कृतं तस्य स्तोत्रं त्वं शृणु साम्प्रतम् ॥ ४७.९० ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे ओंकारमहिमानुवर्णनो नाम सप्तचत्वारिंशोऽध्यायः ॥
अध्याय ४८
मार्कण्डेय उवाच -
ब्रह्मणे कथितो मन्त्र ओंकारेण ततोऽनघ ।
ब्रह्मापि तद्वचः श्रुत्वा स्तोत्रमेतदुदाहरत् ॥ ४८.१ ॥
ओं व्योमसंख्यायिते व्योमहराय सर्वव्यापिने ।
अनन्ताय अनाथाय अमृताय ध्रुवाय च ॥ ४८.२ ॥
शम्भवाय शाश्वताय योगपीठसंस्थिताय ।
नित्यं योगयोगिने व्योमहराय ॥ ४८.३ ॥
ओं नमः शिवाय सर्वप्रभवाय शिवाय ईशानाय ॥ ४८.४ ॥
मूर्धाय तत्पुरुषाय वक्त्राय अघोराय हृदयाय वासुदेवाय गुह्याय सद्योजाताय मूर्तये ओंकाराय नमो नमः ॥ ४८.५ ॥
कलातीतोऽव्ययो बुद्धो वज्रदेहोपमर्दनः ॥ ४८.६
अध्यक्षश्च विधुः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नी रुद्रो हुताशश्च पिङ्गलः पावनो हर ॥ ४८.७ ॥
ज्वलनो दहनो वस्तुर्भस्मान्तश्च क्षमान्तकः ।
अपमृत्युहरो धाता विधाता कर्तृसंज्ञकः ॥ ४८.८ ॥
कालो धर्मपतिः शास्ता वियोक्ता नवमः प्रियः ।
निर्मित्तो वारुणो हन्ता क्रूरदृष्टिर्भयावहः ॥ ४८.९ ॥
ऊर्ध्वदृष्टिर्विरूपाक्षो दंष्ट्रावान् धूम्रलोचनः ।
वालो ह्यतिबलश्चैव पाशहस्तो महाबलः ॥ ४८.१० ॥
श्वेतो विरूपो रुद्रश्च दीर्घबाहुर्जडान्तकः ।
शीघ्रो लघुर्वायुवेगो भीमश्च वडवामुखः ॥ ४८.११ ॥
पञ्चशीर्षा कपर्दी च सूक्ष्मस्तीक्ष्णः क्षपान्तकः ।
निधीशो रौद्रवान् धन्वी सौम्यदेहः प्रमर्दनः ॥ ४८.१२ ॥
अनन्तपालको धारः पातालेशो वृषध्वजः ।
सधूम्रः शाश्वतः शर्वः सर्वपिङ्गः करालवान् ॥ ४८.१३ ॥
विष्णुरीशो महात्मा च सुखो मृत्युविवार्जितः ।
शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षश्चैव दिवस्पतिः ॥ ४८.१४ ॥
संवादश्च विवादश्च प्रभविष्णुर्विवर्धनः ।
शतमेकोत्तरं यावद्रुद्राणां संख्यया स्मृतम् ॥ ४८.१५ ॥
शतमेकोत्तरं सर्वमोंकारे च प्रतिष्ठितम् ।
स्तोत्रं कृत्वा तथा ब्रह्मा देवदेवं महेश्वरम् ॥ ४८.१६ ॥
भूमौ प्रणम्य साष्टाङ्गं कृत्वा चैव प्रदक्षिणम् ।
मनसा संस्मरन् देवं तस्थौ लोकपितामहः ॥ ४८.१७ ॥
स्तोत्रं श्रुत्वा भगवतो ब्रह्मणो लोमहर्षणम् ।
देवदेवोऽब्रवीद्वाक्यं ब्रह्माणं प्रति भारत ॥ ४८.१८ ॥
स्तोत्रेणानेन दिव्येन तुष्टोऽहं ते वरं वृणु ।
ददामि ते न सन्देहो दुष्प्राप्यं त्रिदशैरपि ॥ ४८.१९ ॥
ब्रह्मोवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
पञ्चवक्त्रेषु यजनं ब्रह्म नाम भवत्विह ॥ ४८.२० ॥
हर उवाच -
एवं भवतु वै ब्रह्मन् सत्यमेतत्तवोदितम् ।
ब्रह्मणो धर्मपूजा वै तदा प्रभृति भारत ॥ ४८.२१ ॥
ब्रह्मोवाच -
पठिष्यन्ति स्तवं रौद्रमोंकारस्य तवाग्रतः ।
ब्राह्मणाः क्षत्रिया वैश्याः सदा तद्गतमानसाः ॥ ४८.२२ ॥
सर्वकाममवाप्स्यन्ति चेह लोके परत्र च ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः ॥ ४८.२३ ॥
शतमेकोत्तरं नित्यं पठित्वा च दिवं व्रजेत् ।
एवमुक्त्वा तदा ब्रह्मा नमस्कृत्य महेश्वरम् ॥ ४८.२४ ॥
दिव्ययानसमारूढो ब्रह्मलोकं मुदा ययौ ।
चतुर्युगसहस्रेण ब्रह्मणोऽहः प्रकीर्तितम् ॥ ४८.२५ ॥
अनेनैव तु मानेन शतं ब्रह्मा हि जीवति ।
पितामहशतं यावद्विष्णोर्मानं विधीयते ॥ ४८.२६ ॥
ओंकारनिमिषार्धेन सहस्राणि चतुर्दश ।
विनश्यन्ति परं विष्णोरसंख्याताः पितामहाः ॥ ४८.२७ ॥
एवं ब्रह्मगतिं ज्ञात्वा शिवमन्तः सदार्चयेत् ।
शिवाज्ञा वर्तते लिङ्गे तस्माल्लिङ्गं सदार्चयेत् ॥ ४८.२८ ॥
द्वेष्टि लिङ्गं तु यो मोहात्सर्वदेवनमस्कृतम् ।
स याति नरकं घोरं शिवस्य वचनं यथा ॥ ४८.२९ ॥
बौद्धक्षपणपाखण्डा मिथ्यातत्त्वविचक्षणाः ।
नष्टास्तु नाशिता ये वै शिवाराधनवार्जिताः ॥ ४८.३० ॥
जन्मजन्मान्तराभ्यासात्ते प्रयान्ति रसातलम् ।
पुराणेषु तथा युद्ध्वा शिवोक्तं धर्ममाचरेत् ॥ ४८.३१ ॥
सदुष्टः पापबुद्धिस्तु योऽन्यं धर्मं समाचरेत् ।
एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम् ॥ ४८.३२ ॥
श्रवणात्कीर्तनादस्य शिवलोके महीयते ॥ ४८.३३ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चब्रह्मात्मकस्तवो नामाष्टचत्वारिंशोऽध्यायः ॥
अध्याय ४९
मार्कण्डेय उवाच -
ततो गच्छेत्महाभाग रेवाकपिलसङ्गमम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ॥ ४९.१ ॥
तिलोदकप्रदानेन पितॄणां परमा गतिः ।
दिनानि नवसार्धानि राहुग्रस्ते निशाकरे ॥ ४९.२ ॥
वृद्धिं याति महाराज पुण्यवृद्ध्या न संशयः ।
ग्रस्ते तु राहुणा सूर्ये दिनानि च दशैव तु ॥ ४९.३ ॥
वर्धते कपिलाभेदस्तद्वदेव विशाम्पते ।
रेवायाः कपिलायोगे वाराणस्याः समागमे ॥ ४९.४ ॥
समानं फलां उद्दिष्टं तिलोदकेनापि विद्यते ।
वाराणसीसमा रेवा कपिलायाश्च सङ्गमे ॥ ४९.५ ॥
स्वायम्भुवेऽन्तरे प्राप्ते ब्रह्मलब्धवरोद्भवाः ।
रुद्रावर्तं ब्रह्मावर्तं सूर्यावर्तं तथाऽपरम् ॥ ४९.६ ॥
कपिलानर्मदायोगे ज्ञेयमेतत्त्रयं पुनः ।
नर्मदाभेदनं यत्र चतुर्हस्तप्रमाणतः ॥ ४९.७ ॥
रेवाकपिलयो राजंस्तत्रावर्तद्वयं स्मृतम् ।
पिप्पलावाहिनी तत्र सप्तपातालवासिनी ॥ ४९.८ ॥
तत्रैव कपिलावर्तं पिप्पलावर्तमेव च ।
कामयन्ति हि तीर्थं च पितरस्तृप्तिदायकम् ॥ ४९.९ ॥
तस्मात्पुत्रः प्रयत्नेन पितृभ्यश्च यथाविधि ।
जलाञ्जलिं तिलैर्मिश्रं दद्यात्पिण्डं च यत्नतः ॥ ४९.१० ॥
पितॄन् समुद्धरेद्घोराच्छ्राद्धं कृत्वा तु मानवः ।
रेवाकपिलयोर्योगे शुचिः स्नात्वा तु मानवः ॥ ४९.११ ॥
यः पश्येदमरं तत्र फलं तस्याश्वमेधिकम् ।
चन्द्रसूर्योपरागे तु पर्वकाले विशेषतः ॥ ४९.१२ ॥
गन्धं धूपं च नैवेद्यं दीपमालां च कारयेत् ।
तिलतण्डुलमिश्रैर्यः कुर्याल्लिङ्गस्य चार्चनम् ॥ ४९.१३ ॥
कुङ्कुमेन समालिप्य रक्तवस्त्रैः प्रवेष्टयेत् ।
पुष्पमालार्चनं कृत्वा हेमरत्नादिभिस्तथा ॥ ४९.१४ ॥
यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः ।
तावद्युगसहस्त्राणि रुद्रलोके महीयते ॥ ४९.१५ ॥
कौशेयं पट्टसूत्रं च कार्पासं रक्ततान्तवम् ।
वैजयन्तीवितानं च कलशोपरि वर्धयेत् ॥ ४९.१६ ॥
पञ्चरत्नसमायुक्तं किङ्किणीरवसंयुतम् ।
तत्तन्तुसंख्यया यावन्मुहूर्तमिह भारत ॥ ४९.१७ ॥
तावत्कालं वसेत्स्वर्ग उमामाहेश्वरे पुरे ।
ईशानमपरं चैव सामान्यात्कथितं पुरा ॥ ४९.१८ ॥
कपिलापूर्वभागे तु नातिदूरे व्यवस्थितम् ।
अर्चनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ॥ ४९.१९ ॥
शुक्लाष्टं यां कार्त्तिके तु फलं शतगणोत्तरम् ।
संक्रमे च व्यतीपाते तस्य संख्या न विद्यते ॥ ४९.२० ॥
उपहारप्रदानेन कपिलेश्वरपूजनात् ।
वर्षाणामयुतं सार्द्धं लोके क्रीडति भास्करे ॥ ४९.२१ ॥
मृतवत्सा तथा बन्ध्या गर्भस्रावा च या भवेत् ।
रक्तवस्त्रैः पञ्चरत्नैः स्नानं सा च समाचरेत् ॥ ४९.२२ ॥
चतुर्दश्यां तथाष्टम्यां कपिलायां युधिष्ठिर ।
सुभगा जीवपुत्रा च सत्यमेतच्छिवोदितम् ॥ ४९.२३ ॥
उमया च वरो दत्तो नारीभ्यश्च प्रसादतः ।
कपिला निर्गता यस्मात्नर्मदायां प्रसर्पति ॥ ४९.२४ ॥
तीर्थानामष्टसाहस्रं कामभोगफलप्रदम् ।
आस्ते तत्र महाराज शिवेन कथितं पुरा ॥ ४९.२५ ॥
कपिला च ततो देया सर्वाभरणभूषिता ।
ब्राह्मणान् भोजयेत्तत्र यथा विभवविस्तरैः ॥ ४९.२६ ॥
उपवासपरो नित्यं तार्पिताः पितृदेवताः ।
हेमजालेश्वरं नाम लिङ्गं तत्रैव सिद्धिदम् ॥ ४९.२७ ॥
अर्चनात्तस्य देवस्य यमलोकं न पश्यति ।
वसुदानो धुन्धुमारश्चक्रवर्ती पुराऽभवत् ॥ ४९.२८ ॥
अस्य तीर्थस्य माहात्म्याद्दिवि देवत्वमाप्तवान् ।
अनेकानि सहस्राणि संसिद्धिं परमां गताः ॥ ४९.२९ ॥
क्षत्रियाणां नृपश्रेष्ठ कोटितीर्थप्रभावतः ।
उलूकैः पातितान् यत्र कोटितीर्थे शिरांस्यथ ॥ ४९.३० ॥
काकानां जलमध्ये तु शतशोऽथ सहस्रशः ।
तत्क्षणाद्दिव्यदेहास्तु ते काका यानमाश्रिताः ॥ ४९.३१ ॥
विद्याधराणां राजानो मया दृष्टाः पुरानघ ।
वृन्दाश्च जम्बुकानां तु व्याघ्राणां च भयेन वै ॥ ४९.३२ ॥
तथा मेघावृते काले नर्मदाजलमाविशन् ।
यक्षलोकं तु ते प्राप्ताः सर्वकामफलोदयम् ॥ ४९.३३ ॥
जम्बुकेश्वरमित्येवं तिर्यग्योनिविमोक्षणम् ।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥ ४९.३४ ॥
वाराणसीप्रयागं च त्रैलोक्ये त्वमरेश्वरम् ।
त्रयस्त्रिंशत्कोटिभिस्तु सुरासुरनमस्कृतम् ॥ ४९.३५ ॥
तत्र स्नातश्च राजेन्द्र हयमेधफलं लभेत् ।
सिद्धा सरस्वती तत्र तीर्थस्यास्य प्रभावतः ॥ ४९.३६ ॥
यः कश्चित्कुरुते श्राद्धं पितॄणां प्रीतिवर्द्धनम् ।
स याति परमं स्थानं पितृभिः सह मानवः ॥ ४९.३७ ॥
लिङ्गं सारस्वतं नाम ब्रह्महत्याव्यापोहनम् ।
आख्यानं कथयिष्यामि इतिहासं पुरातनम् ॥ ४९.३८ ॥
स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अयोध्याधिपतिः श्रीमाञ्छक्रतुल्यपराक्रमः ॥ ४९.३९ ॥
धुन्धुमार इति ख्यातः सत्यवादी जितेन्द्रियः ।
यज्ञयाजी दानशीलो देवतातिथिपूजकः ॥ ४९.४० ॥
निरवद्याः प्रजास्तस्य भयदारिद्र्यवर्जिताः ।
सपादलक्षवर्षाणि प्रजा जीवन्ति भारत ॥ ४९.४१ ॥
यज्ञोत्सवविवाहैश्च वेदमङ्गलनिःस्वनैः ।
स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ॥ ४९.४२ ॥
चतुर्वर्षसहस्राणि प्राकृता इतरे जनाः ।
कौशेयपट्टं वृक्षेषु बद्धं सर्वत्र भारत ॥ ४९.४३ ॥
यज्ञहोमसहस्रैस्तु सदा दोहमयीं नृप ।
एवं शशास पृथिवीं यथा शक्रस्त्रिविष्टपम् ॥ ४९.४४ ॥
एकस्मिन् समये राजा प्रतीहारमुवाच ह ।
आदेशय नृपान् सर्वान्नानादेशसमुद्भवान् ॥ ४९.४५ ॥
प्रतीहारसमादिष्टाः समायातास्ततो नृपाः ।
मृगयां तु स तैः सर्वैः कर्तुं विन्ध्यं जगाम ह ॥ ४९.४६ ॥
वेदध्वनितनिर्घोषैर्द्विजानामग्निहोत्रिणाम् ।
नादिता त्रिषु लोकेषु विख्याता सप्तकल्पगा ॥ ४९.४७ ॥
तत्रोपशोभितं रम्यं विचित्रं वनमण्डलम् ।
हत्वा जीवसहस्राणि क्षत्रियैः सह भारत ॥ ४९.४८ ॥
विवेश च वनं सर्वं ततः परमदारुणम् ।
भीमरूपं महाघोरं दुष्प्रेक्ष्यं च सुदुःसहम् ॥ ४९.४९ ॥
मेघनादेन गर्जन्तं सुतरां लोमहर्षणम् ।
वाराहं श्वेतवर्णं च दंष्ट्रायुगलभीषणम् ॥ ४९.५० ॥
तं दृष्ट्वा तादृशं तत्र वाराहं नृपसत्तमः ।
उवाच क्षत्रियान् सर्वान्न दृष्टं न मया श्रुतम् ॥ ४९.५१ ॥
एतादृशं वराहस्य रूपं वै लोमहर्षणम् ।
इत्युक्त्वा पाशमादाय यावद्धन्तुं समुद्यतः ॥ ४९.५२ ॥
तावद्वायुवपुर्भूत्वा निर्यातः प्राणपीडितः ।
विवेश जलमध्ये च कोटितीर्थे नराधिप ॥ ४९.५३ ॥
पृष्ठतोऽनुजगामऽथ स राजा हयवाहनः ।
प्रविष्टमात्रः पयसि वराहस्तु विशाम्पते ॥ ४९.५४ ॥
तत्क्षणाद्दिव्यदेहस्तु कामिकं यानमास्थितः ।
किमिदं प्राह तं राजा वाराहं देवरूपणम् ॥ ४९.५५ ॥
हृदि विस्मयमापन्नो सत्यमेतच्च ब्रूहि मे ।
तस्य तद्वचनं श्रुत्वा वाराहो देवरूपधृक् ॥ ४९.५६ ॥
प्रहसन्नब्रवीद्वाक्यं शृणु राजन्महामते ।
अङ्गदं नाम तु गणं विद्धि मां शङ्करस्य तु ॥ ४९.५७ ॥
गणैश्च देवमुख्यैश्च उमया च महेश्वरः ।
क्रीडन्नास्ते कदाचित्तु तस्याग्रे नृपसत्तम ॥ ४९.५८ ॥
तत्र गीतं मया गीतं रम्यं दण्डकलक्षणम् ।
दृष्ट्वोर्वशीं तथा रम्भामभूवं काममोहितः ॥ ४९.५९ ॥
व्याहरं छूकरीं वाणीं विस्वरो विकृताननः ।
विह्वलेन मया तत्र ह्यप्सरोभिस्तु क्रीडितम् ॥ ४९.६० ॥
तादृशं मां तुदृष्ट्वावैकामक्रीडावशगतम् ।
शशाप नन्दी कोपात्मा शुकरोऽमेध्यभुग्भव ॥ ४९.६१ ॥
दशवर्षसहस्राणि भ्रमिष्यसि महीतले ।
ब्रह्मापि नैव शक्नोति शिवस्य तु प्रकीर्तितम् ॥ ४९.६२ ॥
त्वं तु गामटमानोऽपि किङ्करस्यापि किङ्करः ।
कुपितं नन्दिनं ज्ञात्वा भयभीतान्तरात्मना ॥ ४९.६३ ॥
प्रसादितो मया नन्दी शापान्तं वरमादिशत् ।
दर्शनाद्धुन्धुमारस्यकोटितीर्थप्रभावतः ॥ ४९.६४ ॥
त्यक्त्वा तु शूकरीं योनिं पुनः प्रत्यागमिष्यसि ।
एतत्ते कथितं राजन्वाराहीं योनिमाश्रितः ॥ ४९.६५ ॥
यथा हि किल्विषात्मुक्तस्तीर्थस्यास्य प्रभावतः ।
ओंकारदर्शनाद्राजन् रेवातोयपरिष्कृतः ॥ ४९.६६ ॥
प्राप्तो गन्धर्वयोनिं तु दर्शनात्तव सुव्रत ।
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ॥ ४९.६७ ॥
धर्मे बुद्धिं समाधाय सर्वभूतहितो भव ।
जन्मतो मरणं राजन्मरणाज्जन्मसम्भवः ॥ ४९.६८ ॥
ज्ञात्वा शुभाशुभं कर्म त्वमात्मानं समुद्धर ।
स्वयमेवार्जितं कर्म स्वयमेवोपभुज्यते ॥ ४९.६९ ॥
स्वयं कर्ता च भोक्ता च शुभस्याप्यशुभस्य च ।
स्वस्ति वोऽस्ति गमिष्यामि एवमुक्त्वा जगाम ह ॥ ४९.७० ॥
ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः ।
शिवध्यानपरो भूत्वा कैलासे न्यवसत्सुखम् ॥ ४९.७१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहस्वर्गारोहणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५०
मार्कण्डेय उवाच -
स तस्मिन्नृपति श्रेष्ठस्तृषितः श्रान्तवाहनः ।
हयं मुमोच राजा वै सर्वोपस्करमेव च ॥ ५०.१ ॥
स्मरनूर्ध्वगतिं तावदुपविष्टः शिलातले ।
रेणुध्वस्तस्ततोऽश्वो वै प्रविष्टः सप्तकल्पगाम् ॥ ५०.२ ॥
पानस्नानादिकं कृत्वा ह्यन्तरिक्षस्थितो हयः ।
ब्रह्मतेजः स्थितो भूत्वा ब्रह्मयानं समाश्रयत् ॥ ५०.३ ॥
अत्यद्भुतं तु तं दृष्ट्वा परं विस्मयमागत ।
उवाच वचनं राजा तुरङ्गं तं द्विजर्षभम् ॥ ५०.४ ॥
किमेतत्कारणं ब्रह्मञ्च्छंस मेऽद्ययथोचितम् ।
उवाच तद्वचः श्रुत्वा हयरूपो द्विजोत्तमः ॥ ५०.५ ॥
ब्रह्मर्षिर्गालवश्चाहं कुरुक्षेत्रे पुरा स्थितः ।
अश्वप्रतिग्रहाद्दग्धस्त्वश्वयोनिं समाश्रित ॥ ५०.६ ॥
दावाग्निना च यद्दग्धमुदकात्तत्प्ररोहति ।
दुष्टप्रतिग्रहाद्दग्धो न प्ररोहेत्कदाचन ॥ ५०.७ ॥
द्रुमसेनः पुरा चासीद्राजा परमधार्मिक ।
अयोध्याधिपतिश्चासौ चक्रवर्ती महाबलः ॥ ५०.८ ॥
राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह ।
गजानश्वान् समादाय हिरण्यं गास्तथैव च ॥ ५०.९ ॥
माणिक्यवज्रवैदूर्यवासांसि विविधानि च ।
ब्राह्मणार्थे नृपश्रेष्ठ मुदा परमया युतः ॥ ५०.१० ॥
गृहाणि साप्तभौमानि धूपितानि तु काञ्चनैः ।
सर्वकामसमृद्धानि ब्राह्मणेभ्यो यथाविधि ॥ ५०.११ ॥
दत्त्वा स याचयामास सक्तुप्रस्थव्रते स्थितम् ।
राजोत्तमकुलं विप्रमुञ्छवृत्तिं समाश्रितम् ॥ ५०.१२ ॥
श्राद्धकालः पितॄणां मे भोजनं क्रियतामिति ।
ऋषिरुवाच -
राज्ञो हि दर्शनं घोरं मेधामथनमक्षमम् ॥ ५०.१३ ॥
दृष्ट्वा चैव महीपालमादित्यं चावलोकयेत् ।
द्विजात्परतरो नास्ति प्रतिग्रहपराङ्मुखात् ॥ ५०.१४ ॥
असत्प्रतिग्रहं गृह्णन्नरकं याति वै ध्रुवम् ।
भार्याप्रतिग्रहग्राही याचस्वाऽन्यं द्विजोत्तमम् ॥ ५०.१५ ॥
ऋषे राजा वचः श्रुत्वा प्रतीहारं तथाब्रवीत् ।
घोषणा क्रियतां शीघ्रं स्थानेश्वरनिवासिनाम् ॥ ५०.१६ ॥
प्रतिग्रहाय यः कश्चित्स चायातु इह सत्वरम् ।
कृते तु घोषणे कश्चित्नासीत्नृपप्रतिग्रही ॥ ५०.१७ ॥
ततस्तु कुपितो राजा स्थानं तच्च निनिन्द च ।
अब्रह्मण्यमिदं स्थानं न वेदो न च याजनम् ॥ ५०.१८ ॥
जुगुप्सित्वा तु तान् सर्वांस्तूष्णीं चैव बभूव ह ।
तस्य वाक्यं तु तच्छ्रुत्वा राजानं चेदमब्रुवम् ॥ ५०.१९ ॥
गालवोऽहं द्विजश्रेष्ठश्चतुर्वेदी महातपाः ।
यज्ञयाजी तपस्वी च सर्वभूतहिते रतः ॥ ५०.२० ॥
अनुग्रहमिमं विद्धि उद्धरिष्ये भवार्णवात् ।
राजोवाच -
ददामि ते न सन्देहः त्वमेको मुनिसत्तमः ॥ ५०.२१ ॥
मुद्गलाद्यैर्द्विजैः सर्वैर्वार्यमाणोऽपि चानघ ।
गृहीतोऽश्वरथस्तत्र मयाभरणभूषितः ॥ ५०.२२ ॥
ततः स मां नमस्कृत्य द्रुमसेनो ययौ नृप ।
मयापि चाग्निहोत्रादिकर्म त्यक्त्वा यथासुखम् ॥ ५०.२३ ॥
नानाविधानि दिव्यानि स्त्रीभिः सार्द्धं सुखानि तु ।
क्रीडतोऽपि तदर्थं वै यावत्मे च क्षयं गतम् ॥ ५०.२४ ॥
एवमुक्त्वा ययौ विप्रो ब्रह्मलोकं सनातनम् ।
एकाकी च ततो राजा चिन्तयामास भारत ॥ ५०.२५ ॥
एकाकी यदि यास्यामि गताश्वश्चरणेन तु ।
राजानो मां हसिष्यन्ति वचनैः स्वैः परस्परम् ॥ ५०.२६ ॥
दस्युभिर्निहतश्चास्य हय इत्येवमादिभिः ।
अश्वोपस्करमादाय शिरसा च कथं मया ॥ ५०.२७ ॥
प्रवेष्टव्यं पुरं चैतत्महालज्जाकरं मम ।
अद्य यावत्मया तावद्ब्राह्मणारोहणं कृतम् ॥ ५०.२८ ॥
पापस्यास्य विशुद्ध्यर्थं प्रवेक्ष्यामि हुताशनम् ।
एवं विचिन्तयाभास राजा तत्रैव सत्वरम् ॥ ५०.२९ ॥
दक्षिणां दिशमाश्रित्य शुष्ककाष्ठानि चाहरत् ।
ततः प्रज्वाल्य काष्ठानि कृत्वा च त्रिःप्रदक्षिणम् ॥ ५०.३० ॥
नमस्कृत्य हुताशं च विवेश स्वगृहं यथा ।
निर्जित्य तेजसा तेजः पावकस्य तदा नृपः ॥ ५०.३१ ॥
चतुर्भुजा त्रिनेत्रा तु मुक्ताभरणभूषिता ।
तं गृहीत्वा करेणैव इदं वचनमब्रवीत् ॥ ५०.३२ ॥
अप्राप्तं मरणं राजन् कालो विहितस्तव ।
अकस्मात्साहसं देव युक्तं न प्रतिभाति मे ॥ ५०.३३ ॥
कालप्राप्तं पुमांसं तु न रक्षेदीश्वरः स्वयम् ।
राजोवाच -
काऽसि त्वं च वरारोहे ह्युमा गङ्गाऽथवा रमा ॥ ५०.३४ ॥
कथयस्व महाभागे मम त्वं भक्तिदायिनी ।
स्त्र्युवाच -
नाहं गङ्गा न वाणी वा कपिलां विद्धि मां नृप ॥ ५०.३५ ॥
एनां रुद्राद्विनिष्क्रान्तां नर्मदातलवाहिनीम् ।
वसुदानस्य यज्ञे तु रेवाकपिलसङ्गमः ॥ ५०.३६ ॥
उमा कात्यायनी गङ्गा यमुना गौतमी तथा ।
सरस्वती तथा शिप्रा वरणा च शुभापगा ॥ ५०.३७ ॥
शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा ।
वितस्ता चर्मणा देवी सोमावभृथमध्यतः ॥ ५०.३८ ॥
ब्रह्मविष्णुमहेशानां स्नानार्थं हृतवारिभिः ।
तिलोदकैर्मुनीनां तु प्रणीतः कलशोदकैः ॥ ५०.३९ ॥
तथा सोमरसैश्चैव घृतखण्डादिमिश्रितैः ।
बभूवातिप्रवाहो वै इज्याजन्यो महान् पुरा ॥ ५०.४० ॥
एतद्भूतं महत्पुण्यमुदयाचलमाश्रितम् ।
रुद्रावर्तपदं चात्र विद्यते नृपसत्तम ॥ ५०.४१ ॥
एवमुक्तो ययौ राजा देवी चान्तरधीयत ।
हृष्टस्तुष्टश्चक्रवर्ती मार्कण्डेयाश्रमं ययौ ॥ ५०.४२ ॥
गत्वा प्रणम्य तमृषिमुपविष्टस्तथाग्रतः ।
मार्कण्डेय उवाच -
कुशलं ते नृपश्रेष्ठ धर्माचारविदां वर ॥ ५०.४३ ॥
सन्त्यज्य च कथं सैन्यमेकाकी त्वमिहागतः ।
राजोवाच -
अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ॥ ५०.४४ ॥
धुन्धुमारस्तथा राजा कथयामास पूर्वकम् ।
मार्कण्डेयस्ततः श्रुत्वा वृत्तान्तं पृथिवीपतेः ॥ ५०.४५ ॥
रेवाकपिलयोर्योगे स्नात्वा स्तोत्रं चकार ह ।
तत्र स्नाता दिवं यान्ति रेवाकपिलसङ्गमे ॥ ५०.४६ ॥
उमा कात्यायनी गङ्गा यमुना गौतमी तथा ।
सरस्वती तथा शिप्रा वरणा च शुभापगा ॥ ५०.४७ ॥
शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा ।
वितस्ता चर्मणादेवी बाहुदा वारुणी तथा ॥ ५०.४८ ॥
सरयूर्गण्डकी चैव घर्घरा बदरी तथा ।
गोमती वेणुकी चैव पारा वेत्रवती शुभा ॥ ५०.४९ ॥
विपाशा च तथा वाहा शङ्खिनी च पयोष्णिका ।
गोदावरी च कावेरी भीमा कृष्णा तथा शुभा ॥ ५०.५० ॥
सुभद्रा च तथा भद्रा करतोयाथ मालिनी ।
एताः सर्वास्त्वमेवासि सर्वगे त्वां नमाम्यहम् ॥ ५०.५१ ॥
लोकत्रयं त्वया व्याप्तमपां रूपेण सुव्रते ।
प्रसीद त्वं महाभागे लोकत्रितयपावनी ॥ ५०.५२ ॥
श्रुत्वा स्तोत्रमिदं देवी मार्कण्डेयात्तपोधनात् ।
पुष्पकं यानमारुह्य सर्वाभरणभूषिता ॥ ५०.५३ ॥
चतुर्भुजा त्रिनेत्रा च चन्द्रबिम्बनिभानना ।
उवाच वचनं देवी मार्कण्डेयं महामुनिम् ॥ ५०.५४ ॥
स्तोत्रेणानेन तुष्टाहं वरं वृणु यथेप्सितम् ।
मार्कण्डेय उवाच -
परितुष्टासि देवेशि वरं दातुं त्वमिच्छसि ॥ ५०.५५ ॥
कलुषं हर कल्याणि लोकानां हरसंभवे ।
स्नानं कृत्वा स्तुवन् तोये लोकानापुः शिवाज्ञया ॥ ५०.५६ ॥
वरं ददस्व देवि त्वं धुन्धुमाराय सांप्रतम् ।
राज्यं कृत्वा दिवं यातु सान्तःपुरपरिच्छदः ॥ ५०.५७ ॥
यं यं चिन्तयते कामं तं तं प्राप्नोति सुव्रते ।
एवं भवतु विप्रेन्द्र मत्तो यद्वाञ्छितं त्वया ॥ ५०.५८ ॥
एवमुक्त्वा ययौ देवी कपिला लोकपावनी ।
मार्कण्डेयं मुनिं राजा मुनिभिः परिवारितम् ॥ ५०.५९ ॥
प्रणिपत्य यथा न्यायं गतश्च स्वपुरं तदा ।
ततः कालेन महताराजा धर्मपरायणः ॥ ५०.६० ॥
राज्यं कृत्वा क्रतूनिष्ट्वा धुन्धुमारो दिवं गतः ।
एतत्ते कथितं सर्वं मया दृष्टं पुरानघ ॥ ५०.६१ ॥
श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ५०.६२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलामाहात्म्ये धुन्धुमारस्वर्गारोहणं नाम पञ्चाशत्तमोऽध्यायः ॥
अध्याय ५१
युधिष्ठिर उवाच -
द्वीपसंख्या भुवो मानं सागराणां च कीर्तनम् ।
पाताललोकसंख्यानं सर्वतो विदितं कुरु ॥ ५१.१ ॥
नरकं स्वर्गमानं च यत्किंचिदन्यदीदृशम् ।
उक्तानुक्तं यत्किंचित्कर्माकर्मशुभावहम् ॥ ५१.२ ॥
एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना ।
कथितं तु पुराणं वै यथावृत्तं पुरातनम् ॥ ५१.३ ॥
भविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् ।
त्वमेव वेत्सि सर्वं च प्रसादाद्वक्तुमर्हसि ॥ ५१.४ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाभाग कथ्यमानं निबोध मे ।
अनेकानि सहस्राणि मया दृष्टानि भारत ॥ ५१.५ ॥
युगे युगे क्षत्रियाणां दानयज्ञक्रियाणि च ।
नान्यस्तु त्वादृशो राजा दृष्टस्तेषां तु मध्यतः ॥ ५१.६ ॥
एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना ।
कथितं तु पुराणं वै सर्वं ते कथयाम्यहम् ॥ ५१.७ ॥
चन्द्रद्वीपः प्रभासे तु ताम्रपर्णिर्गभस्तिमान् ।
नागद्वीपश्च सौम्यश्च गन्धर्वो वरुणस्तथा ॥ ५१.८ ॥
नवमः कुमारिकाख्यस्तु इति द्वीपाः प्रकीर्तिताः ।
नवखण्डवती चैषा कथिता ते समासतः ॥ ५१.९ ॥
खण्डेष्वेतेषु सर्वेषु प्रवाहो नार्मदः स्मृतः ।
जम्बूशाककुशक्रौञ्चशाल्मल्यश्च युधिष्ठिर ॥ ५१.१० ॥
प्लक्षश्च पुष्करश्चैव सप्तद्वीपाः प्रकीर्तिताः ।
क्षारं क्षीरं दधि सर्पिस्तथैवेक्षुरसोऽपि च ॥ ५१.११ ॥
सुरोदो मधुरोदश्च समुद्राः सप्तकीर्तिताः ।
भूर्लोकश्च भुवर्लोकः स्वर्लोकश्च महस्तथा ॥ ५१.१२ ॥
जनलोकस्तपोलोकः सत्यलोकस्तथा परः ।
भूर्लोकादित्ययोर्विद्धि त्वन्तरालं युधिष्ठिर ॥ ५१.१३ ॥
योजनानां चतुर्लक्ष पातालं यत्प्रमाणतः ।
रुद्राश्च वसवश्चाष्टौ निवसन्त्यत्र भारत ॥ ५१.१४ ॥
कथिताश्च मया लोकाः पातालानि निबोध मे ।
अतलं वितलं चैव शर्करं च गभस्तिकम् ॥ ५१.१५ ॥
महातलं च सुतलं रसातलमतः परम् ।
सौवर्णमष्टमं विद्धि सर्वकामसमन्वितम् ॥ ५१.१६ ॥
वह्नेर्दाहो ह्यपां शैत्यं मरुतां वहनं तथा ।
काठिन्यं च तथा धात्र्या गगने शुषिरं तथा ॥ ५१.१७ ॥
स्वभाव एव भूतानां स्वस्वभावानुसारतः ।
प्रकृतिं यान्ति भूतानि नात्र कार्या विचारणा ॥ ५१.१८ ॥
लक्षाणि चतुरशीतिर्योनीनां पापकर्मणाम् ।
नरकेषु च घोरेषु दारुणा यमयातनाः ॥ ५१.१९ ॥
निरुद्धाः प्राणिनः सर्वे नीतास्तु यमकिङ्करैः ।
यातना विविधा रौद्रास्तत्रस्थैरनुभूयते ॥ ५१.२० ॥
स्वकर्मफलयोगेन प्राप्नुवन्ति शुभाशूभम् ।
एतदर्थं तपो होमं दानं ध्यानं च पावनम् ॥ ५१.२१ ॥
कारुण्यं सर्वभूतेषु नर्मदाश्रयणं तथा ।
रेवायाः स्तवनं पूजा सूर्यस्य प्रभवो यथा ॥ ५१.२२ ॥
आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् ।
मुचुकुन्दस्य संवादो दानवेन्द्रस्य भारत ॥ ५१.२३ ॥
कुवलयाश्वोऽथ राजर्षिश्चक्रवर्ती महायशाः ।
आसीत्कृतयुगे राजनन्तरे चाक्षुषे किल ॥ ५१.२४ ॥
शक्रादष्टगुणं राज्यं राज्ञश्चामिततेजसः ।
अनेकानि सहस्राणि दानानि विविधानि च ॥ ५१.२५ ॥
दत्तानि तेन राज्ञा वै सर्वतीर्थेष्वनुत्तमम् ।
इष्टाश्च क्रतवश्चापि वर्जयित्वा तु कल्पगाम् ॥ ५१.२६ ॥
दानवो मुचुकुन्दश्च सर्वधर्मपरायणः ।
ब्रह्मण्यः शिवभक्तश्च विष्णुभक्तो जितेन्द्रियः ॥ ५१.२७ ॥
राहुसोमसमायोगे वैदूर्ये सिद्धपर्वते ।
ओंकारनाथसहिता यत्रास्ते कल्पगा सरित् ॥ ५१.२८ ॥
अन्यानि यानि लिङ्गानि लोके चैव चराचरे ।
कल्पान्ते तानि लीयन्त ओंकारे वै न संशयः ॥ ५१.२९ ॥
शिवेन कथितं ह्येतद्विष्णोश्चैव शतक्रतोः ।
पार्वत्याः षण्मुखस्यापि पुराणे स्कन्दकीर्तिते ॥ ५१.३० ॥
आगतः कल्पगां देवीं कोटितीर्थे नराधिपः ।
नर्मदाकपिलायोगे सर्वसम्भारसंवृतः ॥ ५१.३१ ॥
लक्षमेकं तु दोग्ध्रीणां समादाय गवां नृप ।
अयुतं च हयानां च सहस्रं दन्तिनां तथा ॥ ५१.३२ ॥
कामिकानां तु यानानां सहस्रं हेममालिनाम् ।
धनं धान्य च वासांसि रत्नानि विविधानि च ॥ ५१.३३ ॥
स्नानं कृत्वा यथान्यायं ब्राह्मणेभ्यो ददौ तदा ।
मूर्तौ तु दक्षिणां चापि ओंकारस्य नराधिप ॥ ५१.३४ ॥
यो यं कामयते कामं तं तस्मै स प्रयच्छति ।
राजा कुवलयाश्वस्तु धर्मकर्मपरायणः ॥ ५१.३५ ॥
राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल ।
सान्तःपुरपरीवारो ह्ययोध्याधिपतिः स्वयम् ॥ ५१.३६ ॥
राजपुत्रसहस्रैस्तु वृतः स्नानेप्सया किल ।
लक्षमेकं हयानान् च दन्तिनामयुतं तथा ॥ ५१.३७ ॥
हेममाणिक्यरत्नानि वासांसि विविधानि च ।
श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ नृप ॥ ५१.३८ ॥
शेषं निर्वापितं क्षेत्रे स्थाने वायनपूर्वकम् ।
कालान्तरे ततः प्राप्ते कुरुक्षेत्रप्रभावतः ॥ ५१.३९ ॥
नानायानसहस्रैस्तु सान्तः पुरपरिग्रहः ।
ध्रियमाणा तपत्रस्तु वीज्यमानोऽप्सरोगणैः ॥ ५१.४० ॥
शङ्खवादित्रघोषेण नानाभरणभूषितः ।
विचचार च तत्रस्थो विद्याधर इवापरः ॥ ५१.४१ ॥
मुचुकुन्दोऽपि दैत्येन्द्रः सर्वकामसमन्वितः ।
कामिकैश्च महायानैर्हेमरत्नविभूषणैः ॥ ५१.४२ ॥
श्रुत्वा वाद्यसहस्राणि धर्मराजो विशाम्पते ।
जगाम विस्मयं घोरं किमेतदिति चाब्रवीत् ॥ ५१.४३ ॥
ततः कुवलयाश्वोऽपि तस्मिनहनि तत्पुरम् ।
उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः ॥ ५१.४४ ॥
कुवलयाश्वोऽथ राजर्षिर्मुचुकुन्दो महाबलः ।
लोकान्तरमुभावेतौ विमानस्थौ समागतौ ॥ ५१.४५ ॥
तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि ।
योजनानां सहस्रेण ह्युपर्युपरि संस्थितम् ॥ ५१.४६ ॥
अयोध्याधिपतेर्यानमधोभागे व्यवस्थितम् ।
पप्रच्छ धर्मराजोऽपि चित्रगुप्तं तु लेखकम् ॥ ५१.४७ ॥
किं तु यानं समासाद्य अर्घपाद्येन पूजये ।
सप्तर्षीनृषिमुख्यांश्च धर्माधर्मविचारकान् ॥ ५१.४८ ॥
चित्रगुप्तोऽब्रवीद्वाक्यं तथा सप्तर्षयोऽब्रुवन् ।
मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय ॥ ५१.४९ ॥
दानेन कापिलेनेज्यो दानवेन्द्रो न चापरः ।
अधः कुवलयाश्वश्च मुचुकुन्दस्तथोपरि ॥ ५१.५० ॥
एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् ।
श्वेतवस्त्रपरीधानो ज्वलत्कुण्डलभूषणः ॥ ५१.५१ ॥
अञ्जलिं च ततो बद्ध्वा यानस्याग्रे व्यवस्थितः ।
कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मभृतां वर ॥ ५१.५२ ॥
निर्जितास्ते त्रयो लोका दानेनाऽनेन सुव्रत ।
ओंकारदक्षिणस्यान्ते मूर्तौ कापिलसङ्गमे ॥ ५१.५३ ॥
सप्तकल्पवहातीरे दानसंख्या न विद्यते ।
मुचुकुन्द उवाच -
धर्माधर्मे त्वमेवाद्य स्वर्गद्वारार्गलो यतः ॥ ५१.५४ ॥
एवमुक्तो यमस्तत्र दैत्येन्द्रेण महात्मना ।
पन्थानं दर्शयामास दैत्येन्द्रस्य युधिष्ठिर ॥ ५१.५५ ॥
ततस्तु प्रेषितस्तेन मुचुकुन्दो जगाम ह ।
मुदा परमया युक्त उमामाहेश्वरं पुरम् ॥ ५१.५६ ॥
संस्मारयित्वा विधिवद्दैत्येन्द्रं धर्मराट्ततः ।
आसाद्य कुवलयाश्वं धर्मराजोऽब्रवीदिदम् ॥ ५१.५७ ॥
स्वागतं ते महाराज कुशलं तव सर्वदा ।
कुवलयाश्व उवाच -
परस्परविरोधत्वं देवदानवयोः सदा ॥ ५१.५८ ॥
मां त्यक्त्वा दानवेन्द्रस्तु पाद्यार्घेण त्वयार्चितः ।
विपरीतं च तत्सर्वं धर्मराज कृतं कथम् ॥ ५१.५९ ॥
यम उवाच -
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ।
नाहं दाता च हर्ता च शुभाशुभफलस्य वै ॥ ५१.६० ॥
कर्मसाक्षी च सर्वेषां देवासुरनृणां नृप ।
सरस्वत्यां कुरुक्षेत्रे दानं दत्तं त्वयानघ ॥ ५१.६१ ॥
द्वापरान्ते तु दानं वै रेवादानं समं नहि ।
शिवेन कथितं चासीद्ब्रह्मविष्णुमरुद्गाणान् ॥ ५१.६२ ॥
कलां नार्हन्ति तीर्थानि सार्द्धं कल्पगया क्वचित् ।
अनृतं न मया चोक्तं पुराणं श्रुतिसम्मतम् ॥ ५१.६३ ॥
एतस्मिनन्तरे राजन् द्वयोः संवदतोस्तयोः ।
उक्तः कुवलयाश्वस्तु तदाकाशगिरा स्वयम् ॥ ५१.६४ ॥
धर्मश्चेत्थं महाराज मा कृथास्त्वं कथंचन ।
कल्पगा तोयसंस्पृष्टो दैत्यः शिवमवाप्तवान् ॥ ५१.६५ ॥
स राजा विस्मयापन्नः पुनर्व्यावृत्य चागतः ।
नर्मदां स्नातुकामोऽपि कपिलासङ्गमं प्रति ॥ ५१.६६ ॥
तत्र प्लुतस्ततो राजा शिवलोकं जगाम ह ॥ ५१.६७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मुचुकुन्दकुवलयाश्वस्वर्गारोहणं नामैकपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५२
युधिष्ठिर उवाच -
के व्रजन्ति यमं विप्र कीदृशा नरकास्तु ते ।
एतन्मे सर्वमाख्याहि देवलोकं व्रजन्ति के ॥ ५२.१ ॥
मार्कण्डेय उवाच -
यान्ति पुष्पकयानेन पुष्परागप्रदायिनः ।
देवायतनकर्तारः शिवलोकं व्रजन्ति ते ॥ ५२.२ ॥
अनाथमण्डपानां तु ते क्रीडन्ति गृहोत्तमैः ।
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ॥ ५२.३ ॥
पूज्यमाना नरा यान्ति कामिकैश्च यथा सुखम् ।
द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदानतः ॥ ५२.४ ॥
प्रतिश्रयप्रदानेन सुखं यान्ति यमालयम् ।
सर्वकामसमृद्धेन तथा गच्छति तोयदः ॥ ५२.५ ॥
अन्नं पानं प्रयच्छन्ति सुखं यान्ति निराकुलाः ।
दीपमालां हि यच्छन्ति गुरुशुश्रूषणे रताः ॥ ५२.६ ॥
पादाभ्यङ्गं च यः कुर्यात्सोऽश्वपृष्ठेन गच्छति ।
हेमरत्नप्रदानेन यान्ति रत्नविभूषिताः ॥ ५२.७ ॥
सर्वकामसमृद्धात्मा भूमिदानेन गच्छति ।
अन्नपानप्रदानेन पिबन् खादंश्च गच्छति ॥ ५२.८ ॥
इत्येवमादिभिर्दानैः सुखं यान्ति शिवालयम् ।
स्वर्गे च विपुलान् भोगान् प्राप्नोत्यन्नप्रदानतः ॥ ५२.९ ॥
सर्वेषामेव दानानामन्नदानपरं विदुः ।
सर्वप्रीतिकरं पुण्यं बलपुष्टिविवर्द्धनम् ॥ ५२.१० ॥
नान्नदानसमं दानं त्रिषु लोकेषु विश्रुतम् ।
अन्नादानसमं दानं त्रिषु लोकेषु विश्रुतम् ।
अन्नाद्भवन्ति भूतानि म्रियन्ते तदभावतः ॥ ५२.११ ॥
रक्तं मांसं मज्जशुक्रे क्रमादन्नात्प्रवर्तते ।
शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ ५२.१२ ॥
हेमरत्नाश्वनागेन्द्रनारीस्रक्चन्दनादिभिः ।
नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ ५२.१३ ॥
अत एव महापुण्यमन्नदानं च भारत ।
अन्नदः प्राणदः प्रोक्तस्तस्मादन्नप्रदो भवेत् ॥ ५२.१४ ॥
तस्मादन्नप्रदानेन दत्तान्यन्यानि सर्वशः ।
त्रैलोक्ये यानि दानानि भोगस्त्रीवाहनानि च ॥ ५२.१५ ॥
अन्नपानादि यत्किंचिदैश्वर्यं च युधिष्ठिर ।
अन्नदानस्य तत्सर्वमिहामुत्र फलं स्मृतम् ॥ ५२.१६ ॥
यस्मादन्नेन पुष्टाङ्गः कुरुते धर्मसंचयम् ।
पवित्रममृतं दिव्यं शुद्धं सत्त्वं रसायनम् ॥ ५२.१७ ॥
अन्नपानाश्वगोवत्सशय्याछत्राण्युपानहौ ।
प्रेतलोकप्रशस्तानि दानान्यष्टौ युधिष्ठिर ॥ ५२.१८ ॥
एवं दानविशेषेण धर्मराजपुरे नराः ।
सुखेनैव तु गच्छन्ति तस्माद्धर्मं समाचरेत् ॥ ५२.१९ ॥
अन्नदानं महाराज जलं चैव तु पुष्कलम् ।
पितृभ्यः प्रयतो दद्यात्तीर्थे चैवामरेश्वरे ॥ ५२.२० ॥
तीर्थानि पुण्यक्षेत्राणि यानि वै कीर्तितानि च ।
काममोक्षप्रदानीह सर्वसिद्धिकराणि च ॥ ५२.२१ ॥
सर्वेषामेव तेषां तु माता वै परिकीर्तिता ।
नर्मदा सरिता श्रेष्ठा सप्तकल्पवहा शुभा ॥ ५२.२२ ॥
तपसो यज्ञदानानां संख्या तीर्थेषु विद्यते ।
नर्मदायां न संख्यास्ति तेषामित्याह शङ्करः ॥ ५२.२३ ॥
यथा शिवस्तथा रेवा पूजनीया प्रयत्नतः ।
एषु ये तु कुकर्माणः पापा दानविवार्जिताः ॥ ५२.२४ ॥
पथा घोरेण ते यान्ति दक्षिणेन यमालयम् ।
षडशीतिसहस्राणि योजनानां समन्ततः ॥ ५२.२५ ॥
पुरं ज्ञेयं महारौद्रं नानारूपैरधिष्ठितम् ।
समीपस्थमिवाभाति नराणां क्रूरकर्मणाम् ॥ ५२.२६ ॥
पापिनामपि दूरस्थं पथा रौद्रेण यान्ति ते ।
तीव्रकण्टकयुक्तेन शर्कराभूषितेन च ॥ ५२.२७ ॥
क्षुरधारावृतैस्तीक्ष्णैः पाषाणैर्निर्मितेन च ।
केचित्त्वनेन महता दारुदारैश्च घातकैः ॥ ५२.२८ ॥
लोहसूचीभिरुग्राभिर्ग्रस्तेन च क्वचित्क्वचित् ।
लताप्रतानविषमैः पर्वतैर्वृक्षसंकुलैः ॥ ५२.२९ ॥
सुतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ।
क्वचिद्विषमगर्ताभिस्तप्तलोष्टेष्टकैरपि ॥ ५२.३० ॥
सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ।
अनेकभग्नशाखाभिरावृतेन क्वचित्क्वचित् ॥ ५२.३१ ॥
कष्टेन तमसा केचिद्गच्छन्ति हि यमालयम् ।
मार्गस्थाङ्गारकैस्तप्तैर्ग्रस्ता दावाग्निभिस्तथा ॥ ५२.३२ ॥
क्वचित्तप्तशिलाभिश्च पङ्केन कटिमानतः ।
क्वचिद्दुष्टाम्बुना व्याप्तं दुष्करीषाग्निना क्वचित् ॥ ५२.३३ ॥
क्वचिद्गृध्रैर्बकैर्व्याघ्रैर्दुष्टैः कीटैः सुदारुणैः ।
क्वचिन्महाकुलीराद्यैः क्वचित्त्वजगरैः पुनः ॥ ५२.३४ ॥
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः ।
मत्तमातङ्गयूथैश्च समन्ताच्च प्रमाथिभिः ॥ ५२.३५ ॥
पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाबलैः ।
सिंहैर्विषाणमहिषैर्रौद्रैर्मत्तैश्च श्वापदैः ॥ ५२.३६ ॥
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
व्याधिभिश्च महाघोरैः पावकैश्च दुरासदैः ॥ ५२.३७ ॥
महानलविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण भिद्यमाना निराश्रयाः ॥ ५२.३८ ॥
क्वचित्क्वचित्प्रतप्तेन दीप्यमाना व्रजन्ति हि ।
महता व बाणवर्षेण भिद्यमानाः समन्ततः ॥ ५२.३९ ॥
पतद्भिर्वज्रसङ्घातैरुल्कापातैश्च दारुणैः ।
प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति हि ॥ ५२.४० ॥
महाघोररवैर्घोरैर्वित्रस्यन्तो मुहुर्मुहुः ।
निशितायुधवर्षेण पूर्यमाणाश्च सर्वशः ॥ ५२.४१ ॥
महाक्षराम्बुधाराभिः सिच्यमाना मुहुर्मुहुः ।
महाशीतेन रौद्रेण क्षुरधारादिभिस्तथा ॥ ५२.४२ ॥
अन्यैर्बहुविधाकारैः शतशोऽथ सहस्रशः ।
इत्थं च तप्तरौद्रेण मार्गेण विषमेण च ॥ ५२.४३ ॥
अविश्रान्तेन महता ह्यविदूरेण भारत ।
अविदूरेण कष्टेन सर्वदुःखाश्रयेण च ॥ ५२.४४ ॥
नीयन्ते देहिनः सर्वे मूढाः पापपरायणाः ।
यमदूतैर्महाघोरैर्यमाज्ञाकारिभिर्बलात् ॥ ५२.४५ ॥
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।
शोचन्तः स्वानि कर्माणि दह्यन्ते च मुहुर्मुहुः ॥ ५२.४६ ॥
प्रेतभूतविमिश्राश्च शुष्ककण्ठोष्ठतालुकाः ।
कृशाङ्गा भीतभीताश्च दह्यमाना हुताग्निना ॥ ५२.४७ ॥
बद्धाः शृङ्खलया केचित्मज्जन्तः पापिनो भृशम् ।
कृष्यन्ते दह्यमानास्तु यमदूतैर्बलोत्कटैः ॥ ५२.४८ ॥
उरस्यधोमुखस्थाने तथैव खलु दुःखिताः ।
केशपाशे विबद्धाश्च कृष्यन्ते पापिनस्तथा ॥ ५२.४९ ॥
ललाटे चाशुगैर्बिद्ध्वा कृष्यन्ते देहिनः क्वचित् ।
उत्ताना दुष्टपन्थानं नीयन्ते पापकर्मणा ॥ ५२.५० ॥
पार्श्वबाहुविबद्धाश्च जठरे परिपीडिताः ।
ग्रीवापाशविकृष्याश्च केऽपि यान्ति सुदुःखिताः ॥ ५२.५१ ॥
जिह्वाशङ्कुप्रदानेन समानीयकृकाटिकाः ।
अर्द्धचन्द्रेण गृह्यन्ते क्षिप्यमाणा इतस्ततः ॥ ५२.५२ ॥
शिश्ने च वृषणे चैव रज्ज्वा बद्धास्तथा परो ।
विच्छिन्नहस्तपादाश्च छिन्नकर्णोष्ठनासिकाः ॥ ५२.५३ ॥
विच्छिन्नशिश्नवृषणाश्छिन्नशीर्षाङ्गसंचयाः ।
अङ्कुशैर्भिद्यमानास्तु खाद्यमानाः सरीसृपैः ॥ ५२.५४ ॥
इतश्चेतश्च धावन्ति क्रन्दमाना निराश्रयाः ।
मुद्गारैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ॥ ५२.५५ ॥
कशाभिर्विविधाभिश्च घोराभिश्च समन्ततः ।
भिन्दिपालैश्च तुद्यन्ते वमन्तः शोणितं मुहुः ॥ ५२.५६ ॥
पात्यमानाश्च सलिले छायां वै प्रार्थयन्ति च ।
दानहीनाः प्रयान्त्येवं प्रायश्चित्तकृतो नराः ॥ ५२.५७ ॥
गृहीत्वा चैव पाथेयं सुखं याति यमालयम् ।
एवं पथा निकृष्टेन प्राप्ता यमपुरं नराः ॥ ५२.५८ ॥
प्राज्ञापितैस्तथा दूतैः प्रवेश्यन्ते यमाग्रतः ।
तत्र ये शुभकर्माणस्तान् वै संस्मारयेद्यमः ॥ ५२.५९ ॥
स्वागतासनदानेन पाद्यार्घेण प्रियेण च ।
धन्या यूयं महात्मानात्मनो हितकारिणः ॥ ५२.६० ॥
यैस्तु दिव्यसुखार्थं हि भवद्भिः सुकृतं कृतम् ।
नर्मदातटमाश्रित्य पर्वतेऽमरकण्टके ॥ ५२.६१ ॥
दानं दत्तं तपस्तप्तं हुतं चेष्टं विधानतः ।
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ॥ ५२.६२ ॥
गयायां नैमिषारण्ये गङ्गासागरसङ्गमे ।
केदारे भरैवे चापि प्रभासे शशिभूषणे ॥ ५२.६३ ॥
महाकालवने रम्ये श्रीशैले त्रिपुरान्तके ।
त्रैयम्बके धौतपापे नीलकण्ठे तथैव च ॥ ५२.६४ ॥
गङ्गाद्वारे हिमद्वारे तथा कालञ्जरे गिरौ ।
एतेष्वन्येषु तीर्थेषु क्षेत्रेषु च यथाक्रमम् ॥ ५२.६५ ॥
लब्धं जन्मफलं चैव भवद्भिर्नात्र संशयः ।
इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ॥ ५२.६६ ॥
संगच्छध्वं शिवं स्वर्गं सर्वकामसमन्वितम् ।
तत्र भुक्त्वा महाभोगाननन्तान् पुण्यसंख्यया ॥ ५२.६७ ॥
यत्किंचिदन्यदशुभं स्वल्पं तदपि भोक्ष्यथ ।
आख्यातं तु मया तावत्कल्पगातीरवासिनः ॥ ५२.६८ ॥
आरोहन्ति विमानानि सर्वेषामुपरि स्थिताः ।
सर्वतीर्थेषु संख्यास्ति ह्युक्तं ब्रह्मादिभिः पुरा ॥ ५२.६९ ॥
तत्र यद्दीयते दानं तेन स्वर्गे महीयते ।
म्रियते तत्र यः कश्चिद्व्रतेनानशनेन च ॥ ५२.७० ॥
दिव्ययानं समाश्रित्य स प्रयाति शिवालयम् ।
एतत्ते कथितं राजन् कल्पगापुण्यमुत्तमम् ॥ ५२.७१ ॥
पश्यन्ति पुण्यकर्माणो यमं मित्रमिवात्मनः ।
ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् ॥ ५२.७२ ॥
दंष्ट्रा करालवदनं भ्रुकुटीकुटिलेक्षणम् ।
ऊर्द्ध्वकेशं महाश्मश्रुं स्फुरदोष्ठाधरोत्तरम् ॥ ५२.७३ ॥
अष्टादशभुजं क्रूरं नीलाञ्जनचयोपमम् ।
सर्वायुधोह्यतकरं गर्जन्तं दण्डपाणिनम् ॥ ५२.७४ ॥
महामहिषमारूढं तप्ताग्निसमलोचनम् ।
रक्तमाल्याम्बरधरं महामेरुमिवोत्थितम् ॥ ५२.७५ ॥
प्रलयाम्बुदनिर्घोषं पिबन्तमिव वारिधीन् ।
ग्रसन्तमिव त्रैलोक्यमुद्गिरतमिवानलम् ॥ ५२.७६ ॥
मृत्युस्तस्य समीपस्थः कालानलसमप्रभः ।
कालश्चाञ्जनसंकाशः कृतान्तश्च भयानकः ॥ ५२.७७ ॥
विविधा व्याधयस्तीक्ष्णा नानारूपा भयानकाः ।
शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः ॥ ५२.७८ ॥
वज्रदंष्ट्राधरा रौद्राः क्रूराश्चाञ्जनसन्निभाः ।
सर्वायुधोद्यतकरा यमदूताश्च घातकाः ॥ ५२.७९ ॥
एवं विधं यमं तत्र पश्यन्ति पापचारिणः ।
निर्भयो याति चात्यर्थं यमो वा पापकारिणम् ॥ ५२.८० ॥
चित्रगुप्तश्च भगवान् धर्मं तेषां प्रबोधयन् ।
भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः ॥ ५२.८१ ॥
गार्जिता रूपवीर्येण परदारोपमर्दकाः ।
यस्तु यत्कुरुते कर्म तेन तद्भुज्यते पुनः ॥ ५२.८२ ॥
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ।
किमर्थं परितप्यध्वं पीड्यमानाः स्वकर्मभिः ॥ ५२.८३ ॥
भुज्यन्ते स्वानि कर्माणि नास्ति दोषोऽत्र कस्यचित् ।
एते च पृथिवीपालाः संप्राप्ताश्च महीपते ॥ ५२.८४ ॥
स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञाबलगर्विताः ।
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः ॥ ५२.८५ ॥
स्वल्पकालस्य राज्यस्य किं वै तद्दुष्कृतं कृतम् ।
भवद्भी राज्यलोभेन मोहेनान्यायवृत्तिभिः ॥ ५२.८६ ॥
यद्गृहीतं फलं तस्य यूयं भुङ्ग्ध्वं यथातथम् ।
कुत्र राज्यं कलत्रं वा यदर्थमशुभं कृतम् ॥ ५२.८७ ॥
तत्सर्वस्वं परित्यज्य यूयमेकाकिनस्तथा ।
त्वद्बान्धवा न पश्यन्ति येन विध्वंसिताः प्रजाः ॥ ५२.८८ ॥
यमदूतैः पात्यमाना अधुना कीदृशं भवेत् ।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ॥ ५२.८९ ॥
शोचन्ति स्वानि कर्माणि तूष्णीं भूताश्च पार्थिव ।
इति वाक्यैः समादिश्य नृपांस्तान् धर्मराट्ततः ॥ ५२.९० ॥
तेषां पापविशुद्ध्यर्थं यमो दूतानथाब्रवीत् ।
भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ॥ ५२.९१ ॥
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निना ।
ततः शीघ्रं समास्थाय नृपान् संगृह्य पादयोः ॥ ५२.९२ ॥
भ्रामयित्वा तु वेगेन चिक्षिपुर्यमकिङ्कराः ।
सर्वे वेगेन महता सुप्रतप्ते महीतले ॥ ५२.९३ ॥
आस्फालयन्ति महति चाश्मसारमये द्रुमे ।
ततस्ते सर्व एवाशु प्रहारैर्जर्जरीकृताः ॥ ५२.९४ ॥
विसंज्ञाश्च तदा सन्ति निश्चेष्टाश्च युधिष्ठिर ।
ततस्ते वायुना स्पृष्टाः शनैस्तु जीविताः पुनः ॥ ५२.९५ ॥
तानानीय विशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ।
अष्टाविंशतिरेवाद्यास्तीव्रानरककोटयः ॥ ५२.९६ ॥
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।
अतिघोरा च रौद्रा च तथा घोरतमा स्थिता ॥ ५२.९७ ॥
अत्यन्तदुःखजननी घोररूपा च पञ्चमी ।
षष्ठी तरणताराख्या सप्तमी च भयानका ॥ ५२.९८ ॥
अष्टमी कालरात्रिश्च नवमी च घटोत्कटा ।
दशमी चैव चण्डा च महाचण्डा ततोऽप्यधः ॥ ५२.९९ ॥
चण्डकोलाहला चैव प्रचण्डा च पराग्निका ।
जघन्या ह्यवरा लोमा भीषणी चैव नायिका ॥ ५२.१०० ॥
कराला विकराला च वज्रविंशतिराश्रिता ।
अस्ता च पञ्चकोणा च सुदीर्घा परिवर्तुला ॥ ५२.१०१ ॥
सप्तभौमाष्टभौमा च दीर्घमायेतिहापरा ।
इति ता नामतः प्रोक्ता घोरा नरककोटयः ॥ ५२.१०२ ॥
अष्टाविंशतिरेतास्तु भूतानां मानतः स्मृताः ।
तासां क्रमेण विज्ञेयाः पञ्चपञ्चैव नायका ॥ ५२.१०३ ॥
प्रत्येकं सर्वकोटीनां नामतस्तु विशाम्पते ।
रौरवः प्रथमस्तेषां रुदन्ति यत्र देहिनः ॥ ५२.१०४ ॥
महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि ।
तमः शीतं तथा चोष्णं पञ्चैते नायकाः स्मृताः ॥ ५२.१०५ ॥
अघोरः प्रथमस्तीक्ष्णः पद्मः संजीवनः शठः ।
महामायो विलोमश्च कण्टकः कटकः स्मृतः ॥ ५२.१०६ ॥
तीव्रो वामः करालश्च किङ्करालः प्रकम्पनः ।
महाचक्रः सुपद्मश्च कालसूत्रः प्रगर्जनः ॥ ५२.१०७ ॥
सूचीमुखः सुनेमिश्च खादकः सुप्रपीडितः ।
कुम्भीपाकः सुपाकश्च क्रकचश्च सुदारुणः ॥ ५२.१०८ ॥
अङ्गाररात्रिः पचनः असृक्पूयभवस्तथा ।
सुतीक्ष्णाः शण्डशकुनी महासंवर्तकः क्रतुः ॥ ५२.१०९ ॥
तप्तजन्तुः पङ्कलेषः पूतिमान् च ह्रदस्त्रपुः ।
उच्छ्वासश्च निरुच्छ्वासः सुदीर्घः क्रूरशाल्मली ॥ ५२.११० ॥
उष्ट्रितस्तु महानादः प्रवाहः सुप्रवाहनः ।
वृषाश्रयो वृषाश्वश्च सिंहव्याघ्रगजाननाः ॥ ५२.१११ ॥
श्वशूकराजमहिषमेषमूषखराननाः ।
ग्राहकुम्भीरनक्रास्या महाघोरा भयानकाः ॥ ५२.११२ ॥
सर्वभक्षाः स्वभक्षाश्च सर्वकर्माऽश्ववायसाः ।
गृध्रोलूक उलूकश्च शार्दूलकपिकच्छुराः ॥ ५२.११३ ॥
गण्डकः पूतिवक्त्रश्च रक्तास्यः पूतिमूत्रिकः ।
कणधूम्रस्तुषाराग्निः कृमिमान्निरयस्तथा ॥ ५२.११४ ॥
आतोद्यश्च प्रतोद्यश्च रुधिरोद्यश्च भोजनम् ।
कालात्मगोऽनुभक्षश्च सर्वभक्षः सुदारुणः ॥ ५२.११५ ॥
कर्कटस्तु विशालश्च विकटः कटपूतनः ।
अम्बरीषः कटाहश्च कष्टा वैतरणी नदी ॥ ५२.११६ ॥
सुतप्तो लोहशङ्कुश्च एकपादोऽश्रुपूरणः ।
असिपत्रवनं घोरमस्थिलिङ्गं प्रतिष्ठितम् ॥ ५२.११७ ॥
तिलातसीक्षुयन्त्राणि कूटपापप्रमर्दनाः ।
महाचुल्ली विचुल्ली च तप्तलोहमयी शिला ॥ ५२.११८ ॥
पर्वतः क्षुरधाराख्यो मयो यमलपर्वतः ।
सूचीविष्ठान्धकूपाश्च पतनः पातनस्तथा ॥ ५२.११९ ॥
मुशली वृषली चैवाशिवा सङ्कटला तथा ।
तालपत्रासिगहनं महामोहक एव च ॥ ५२.१२० ॥
संमोहनोऽस्थिभङ्गश्च तप्ताचलमयोऽगुणः ।
बहुदुःखो महादुःखः कश्मलो यमलस्तथा ॥ ५२.१२१ ॥
हालाहलो विरूपश्च श्वरूपश्च्युतमानसः ।
एकपादस्त्रिपादश्च तीव्रश्च विदितस्ततः ॥ ५२.१२२ ॥
अष्टाविंशतिरित्येते क्रमशः पञ्चकाः स्मृताः ॥ ५२.१२३ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नरकवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५३
मार्कण्डेय उवाच -
कोटी नामनुरूपाश्च पञ्चपञ्चैव नायकाः ।
रौरवाद्यं मरीच्यन्तं नरकानां शतं स्मृतम् ॥ ५३.१ ॥
चत्वारिंशत्समधिकं महानरकमण्डलम् ।
एकक्रमात्प्रभुज्यन्ते नरैः कर्मानुरूपतः ॥ ५३.२ ॥
कामनाभिर्विरूपाभिरकर्मप्रचयाद्द्रुतम् ।
सुगूढया ततो ध्वान्ते तप्तशृङ्खलया नराः ॥ ५३.३ ॥
महावृक्षस्य शाखायां लम्ब्यन्ते यमकिङ्करैः ।
ततस्तान् सर्वतश्चैव दोलयन्ति हि किङ्कराः ॥ ५३.४ ॥
दोलिताश्चातिवेगेन निःसंज्ञां यान्ति पापिनः ।
अन्तरिक्षे स्थितानां च लोहभारशतं तदा ॥ ५३.५ ॥
पादयोर्बध्यते तेषां यमदूतैर्बलोत्कटैः ।
तेन भारेण महता भृशं सन्तापिता नराः ॥ ५३.६ ॥
ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ।
ततः क्रमादग्निवर्णैर्लोहदण्डैः सकण्टकैः ॥ ५३.७ ॥
निहन्यन्ते प्रयत्नेन यमदूतैश्च मस्तके ।
विष्ठापूर्णे ततः कूपे कृमीणां निलये ततः ॥ ५३.८ ॥
समन्तात्किङ्करैर्घोरैः पच्यन्ते पापकारिणः ।
ततः क्षारेण नीरेण वह्णावपि विशेषतः ॥ ५३.९ ॥
वार्ताकवत्प्रपच्यन्ते तप्ते लोहकटाहके ।
अमेध्यकूपे प्रक्षिप्य जलजन्तु समाकुले ॥ ५३.१० ॥
मेदोसृक्पूयपूर्णायां वाप्यां क्षिप्तास्तु ते ततः ।
भक्षन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ॥ ५३.११ ॥
पच्यन्ते मांसवच्चापि प्रदीप्ताङ्गारराशिषु ।
प्रोताः शूलेषु तीक्ष्णेषु नराः पापसमन्विताः ॥ ५३.१२ ॥
पच्यन्ते पापिनस्ते वै यमदूतैरनेकधा ।
तैलपूर्णकटाहेषु सुतप्तेषु ततः पुनः ॥ ५३.१३ ॥
तेषां चोत्पाट्यते जिह्वा असत्या प्रियवादिनाम् ।
सुदृढेन सुतप्तेन प्रपीड्योरसि पादतः ॥ ५३.१४ ॥
मिथ्यागमप्रयुक्तस्य द्विजस्यापि तथैवच ।
यज्ञार्थकोशविस्तीर्णं भल्लैस्तीक्ष्णैः प्रतोद्यते ॥ ५३.१५ ॥
निर्भत्सयन्ति ये मूढा मातरं पितरं तेषां ।
तेषां वक्त्रं बालुकाभिर्मुहुरापूर्य सिच्यते ॥ ५३.१६ ॥
ततः क्षारेण दीप्तेन पयसा तु पुनः पुनः ।
द्रुतं सम्पूर्यतेऽत्यर्थं तप्ततैलेन तन्मुखम् ॥ ५३.१७ ॥
विष्ठाभिः कृमिपूर्णाभिः श्वानवच्चरणैर्भटैः ।
परिपीड्य विषाणेन प्रविष्टा लोहशाल्मलीम् ॥ ५३.१८ ॥
हन्यन्ते पृष्ठदेहेषु पुनर्भीमैर्महाबलैः ।
दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा ॥ ५३.१९ ॥
शिरः प्रभृति पाट्यन्ते घोरैः कर्मभिरात्मजैः ।
खादयन्ति स्वमांसानि पाययन्ति स्वशोणितम् ॥ ५३.२० ॥
अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम् ।
इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः ॥ ५३.२१ ॥
असितालवने घोरे छिद्यन्ते खण्डखण्डशः ।
सूचीभिर्भिन्नसर्वाङ्गास्ततः शूले प्ररोपिताः ॥ ५३.२२ ॥
चाचल्यमानाः कृष्यन्ते न म्रियन्ते तथापि च ।
देहादुत्पाट्यते मांसं तेषामस्थीनि मुद्गरैः ॥ ५३.२३ ॥
बहुशः कृष्यते तूर्णं यमदूतैर्बलोत्कटैः ।
तेऽनुच्छ्वासेनानुछ्वासास्तिष्ठन्ति नरके चिरम् ॥ ५३.२४ ॥
उच्छ्वासे च सदोच्छ्वासा बालुकावदनावृताः ।
रौरवेषु तु दन्ते वै पीड्यन्ते विविधैश्चरैः ॥ ५३.२५ ॥
महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि ।
उपस्थास्ये गुदे पार्श्वे पादे चोरसि मस्तके ॥ ५३.२६ ॥
निहन्यन्ते भटैस्तीक्ष्णैः सुतप्तैर्लोहमुद्गरैः ।
निन्दन्ति ये स्वरूपेण परदारान् हसन्ति च ॥ ५३.२७ ॥
आलिङ्गन्ति पतीनन्यान्न विन्दन्ति स्वकान् स्त्रियः ।
किमु धावसि वेगेन न स्मरेरतिशाश्वतीम् ॥ ५३.२८ ॥
वञ्चितश्च त्वया भर्ता पापान्धश्च यथा सुखम् ।
लोहकुम्भे विनिक्षिप्ताः चिताश्च शनैः शनैः ॥ ५३.२९ ॥
समृद्धाग्नौ प्रपाच्यन्ते प्रवेश्यन्ते शिलासु च ।
क्षिप्यन्ते चान्धकूपेषु दश्यन्तेऽजगरैर्भृशम् ॥ ५३.३० ॥
ये निन्दन्ति महात्मानमाचार्यं धर्मर्दर्शिनम् ।
शिवभक्तं च विप्रं च शिवधर्मं च शाश्वतम् ॥ ५३.३१ ॥
तेषामुरसि कण्ठे च जिह्वायां देहसन्धिषु ।
कीलकैरोष्ठपुटके कील्यन्ते यमकिङ्करैः ॥ ५३.३२ ॥
एवमादिमहाघोरा यातनाः पापकर्मिणाम् ।
एकैक नरके ज्ञेयाः शतशोऽथ सहस्रशः ॥ ५३.३३ ॥
यातना गहना राजन् सर्वेषां पापकर्मिणाम् ।
इत्येव यातनानन्ताः सर्वेषु नरकेषु च ॥ ५३.३४ ॥
कस्ता वर्षशतेनापि वक्तुं शक्नोति मानवः ।
इत्येवं विविधैर्घोरैः पात्यमानाः स्वकर्मभिः ॥ ५३.३५ ॥
क्रमात्सर्वेषु पच्यन्ते नरकेषु न संशयः ।
महापातकिनश्चापि सर्वेषु नरकेषु च ॥ ५३.३६ ॥
आचन्द्रतारकं यावत्पीड्यन्ते विविधैश्चरैः ।
तथा पातकिनः सर्वे निरयेष्वेषु सर्वदा ॥ ५३.३७ ॥
चतुर्दिक्षु सुपच्यन्ते नरकेषु न संशयः ।
उपपातकिनश्चापि तदर्द्धं यान्ति मानवाः ॥ ५३.३८ ॥
मृत्युर्न ज्ञायते तात कदा कस्य भविष्यति ।
प्राप्ते चाकस्मिके मृत्यौ वर्षं विन्दति को नरः ॥ ५३.३९ ॥
परित्यज्य यतः सर्वमेकाकी यास्यसि ध्रुवम् ।
तस्मात्सर्वप्रयत्नेन सत्यधर्मपरो भव ॥ ५३.४० ॥
एतत्ते सर्वमाख्यातं नरकाणा तु लक्षणम् ॥ ५३.४१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नरकायातनानुवर्णनो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५४
युधिष्ठिर उवाच -
तीर्यते केन धर्मेण संसाराब्धिः सुदुस्तरः ।
मार्कण्डेय उवाच -
तेन निर्भर्त्सितैः पापैः कथ्यमानां कथां शृणु ॥ ५४.१ ॥
रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते ।
न चात्मानं विजानाति न परं न च दैवतम् ॥ ५४.२ ॥
न शृणोति परं श्रेयः सति चक्षुषि नेक्षते ।
समे पथि शनैर्गच्छन् प्लवते स्म पदे पदे ॥ ५४.३ ॥
एवमुक्तो धर्मराजः संक्षेपात्पापदेहिनाम् ।
विस्तरेण यदा चख्यौ तेषां तच्छृणु साम्प्रतम् ॥ ५४.४ ॥
यम उवाच -
मया मुक्तो न जानाति बोध्यमानो बुधैरपि ।
संसारे क्लिश्यते नाना रागलोभवशात्नरः ॥ ५४.५ ॥
गर्भपातेन भावेन शास्त्रमुक्तं न बुध्यते ।
नरैर्न श्रूयते कर्म स्वर्गमोक्षप्रसाधकम् ॥ ५४.६ ॥
सन्तप्यति शिवध्याने सर्वकामार्थसाधने ।
नरकादात्मनः श्रेयो यदत्र महदद्भुतम् ॥ ५४.७ ॥
प्रेतभूता नराः सर्वे यमलोकं समागताः ।
आख्यानं कथयिष्यामि यथोद्दिष्टं पुरातनम् ॥ ५४.८ ॥
सूर्येण कथितं त्वासीन्नर्मदाख्यानमुत्तमम् ।
देवतानां पितॄणां च मम पित्रानुकम्पया ॥ ५४.९ ॥
सपादलक्षमधिकं ब्रह्मणा कथितं रवेः ।
तत्र श्रुतं मया कृत्स्नं ब्रह्मणा तु शिवाच्छ्रुतम् ॥ ५४.१० ॥
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य तु ।
जम्बूद्वीपं समासाद्य मानुषीं योनिमाश्रितः ॥ ५४.११ ॥
नाश्रयेन्नर्मदां देवीं सप्तकल्पवहां तु यः ।
स्नानावगाहनात्पानात्तथा दानक्रियादिभिः ॥ ५४.१२ ॥
लोकेऽस्मिन् गतिदा कान्या पापोपहतचेतसाम् ।
ये ध्यायन्ति महादेवीं नर्मदां पापहारिणीम् ॥ ५४.१३ ॥
अघानि तेषां नश्यन्ति तमः सूर्योदये यथा ।
नर्मदां संस्मरेद्यस्तु कीर्तयेद्यस्तु वा गिरा ॥ ५४.१४ ॥
परलोकं समायातो यमदूतैर्न बाध्यते ।
नर्मदां कीर्तयेद्यस्तु पापकर्मा नराधमः ॥ ५४.१५ ॥
नरकान् समयोद्दिष्टान्न च क्रामति कर्हिचित् ।
गङ्गाद्याः सरितस्तत्र तीर्थकोटिरनेकधा ॥ ५४.१६ ॥
रेवातेजः प्रतापेन शुद्धिं गच्छन्ति तत्क्षणात् ।
नरकस्थः स्मरेद्यस्तु मेकलां तु हरं हरिम् ॥ ५४.१७ ॥
मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः ।
यदि तिष्ठति वैदूर्यपर्वतेऽमरकण्टके ॥ ५४.१८ ॥
ओंकारः परमेशानो भुक्तिमुक्तिफलप्रदः ।
किमर्थं त्विह शोचन्ति पापोपहतचेतसः ॥ ५४.१९ ॥
सिद्धेश्वरं सिद्धलिङ्गं लोकानुग्रहकारकम् ।
यज्ञेश्वरं च मध्ये तु तत्रैव शशिभूषणम् ॥ ५४.२० ॥
नर्मदा दक्षिणे भागे लिङ्गं चैव महेश्वरम् ।
चतुर्थं कपिलेशं च शिवक्षेत्रं विदुर्बुधाः ॥ ५४.२१ ॥
येऽर्चयन्ति सदा भक्त्या पुष्पधूपार्तितर्पणैः ।
शिवलोकं तु ते यान्ति नरकान्नात्र संशयः ॥ ५४.२२ ॥
एतत्ते सर्वमाख्यातं यथा पृष्टं त्वयानघ ।
पापिष्ठान्नॄनधर्मस्थान् कथयामास भारत (?) ॥ ५४.२३ ॥ [स्तेह्त्सो दोर्त्]
गोदानं हेमदानं च तिलदानं तथैव च ।
अन्नदानं पयोदानं सर्वोपस्करमेव च ॥ ५४.२४ ॥
प्रासादारामदानं च ये कुर्वन्ति नरोत्तमाः ।
यमलोकं न ते यान्ति नरकं घोररूपिणम् ॥ ५४.२५ ॥
मुच्यन्ते सर्वपापेभ्यः शिवस्य वचनं यथा ।
सन्मानं चापमानेन वियोगेनेष्टसङ्गमम् ॥ ५४.२६ ॥
यौवनं जरया ग्रस्तं कष्टात्सौख्यमुपद्रुतम् ।
वलिभिः पलितैश्चापि जर्जरीकृतविग्रहः ॥ ५४.२७ ॥
किं करोति नरः प्राज्ञो जरया जर्जरीकृतः ।
स्त्रीपुंसोर्यौवनं रूपं यदन्योऽन्यं प्रियंकरम् ॥ ५४.२८ ॥
तदेव जरया ग्रस्तमुभयोरपि न प्रियम् ।
अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम् ॥ ५४.२९ ॥
यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।
जराभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः ॥ ५४.३० ॥
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ।
धर्ममर्थं च कामं च मोक्षं न जरया युतः ॥ ५४.३१ ॥
शक्तः साधयितुं तस्मात्पुरा धर्मं समाचरेत् ।
वातपित्तकफादीनां वैषम्यं च युधिष्ठिर ॥ ५४.३२ ॥
वातादीनां समूहश्च देहजः परिकीर्तितः ।
तस्माद्व्याधिपरं ज्ञेयं शरीरमिदमात्मनः ॥ ५४.३३ ॥
वातोत्पत्त्यतिरेकेण बाधितो वै ज्वरेण च ।
रोगैर्नानाविधिभवैर्बहुदुःखान्यनेकधा ॥ ५४.३४ ॥
तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ।
एकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितम् ॥ ५४.३५ ॥
अत्रैकं कालरूपं च शेषास्त्वागन्तवः स्मृताः ।
ये त्विहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भैषजैः ॥ ५४.३६ ॥
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।
अपमृत्युश्च सर्वस्य विषमद्यादिसम्भवः ॥ ५४.३७ ॥
न चातिपुरुषस्तस्मादपमृत्योर्बभेति वै ।
विविधा व्याधयः कष्टाः सवैद्याः प्राणिनस्तथा ॥ ५४.३८ ॥
विषाणि त्वभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ।
पीडितं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम् ॥ ५४.३९ ॥
स्वस्थं कर्तुं न शक्नोति कालप्राप्तं हि देहिनम् ।
नैषधं न तपो दानं न मित्राणि न बान्धवाः ॥ ५४.४० ॥
परित्रातुं नो समर्थाः कालेन परिपीडितम् ।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः ॥ ५४.४१ ॥
नास्ति मृत्युसमः कालः सर्वेषामेव देहिनाम् ।
सद्भार्या पुत्रमित्राणि राज्यैश्वर्यसुखानि च ॥ ५४.४२ ॥
मृत्युश्छिनत्ति सर्वाणि विविधान्यपि भारत ।
इदं ते कथितं राजञ्ज्ञातिसंसारदुस्तरम् ॥ ५४.४३ ॥
परिणाम इति ज्ञात्वा सर्वङ्कालस्य भोजनम् ।
तस्मात्सर्वप्रयत्नेन संसेव्या सप्तकल्पगा ॥ ५४.४४ ॥
सर्वदुःखापहा नित्यं सर्वशोकविनाशिनी ।
यो यान् कामयते कामांस्तांस्तान् देवी प्रयच्छति ॥ ५४.४५ ॥
इदं ज्ञानमिदं ध्यानं पाण्डित्यं वेद वेदनम् ।
निवासः सर्वभूतानां सेव्यते सप्तकल्पगा ॥ ५४.४६ ॥
यज्ञो दानं तपः सत्यं स्वाध्यायः पितृतर्पणम् ।
सफलं लभते तेषां यो रेवाम्बु निषेवते ॥ ५४.४७ ॥
ब्रह्मकूर्चसहस्राणि सोमपानायुतं तथा ।
नर्मदातोयपानस्य कलां नार्हन्ति षोडशीम् ॥ ५४.४८ ॥
संयुक्तोऽपि महापापैर्नानाजन्मकृतैरपि ।
ओंकारदक्षिणे घोरं मुच्यते तत्क्षणाज्जपन् ॥ ५४.४९ ॥
गोदानान्न परं दानं त्रिषु लोकेषु विश्रुतम् ।
नर्मदापयसि स्नात्वा यो दद्याद्गां द्विजन्मने ॥ ५४.५० ॥
संख्यां कर्तुं यथावच्च न देवैरपि शक्यते ॥ ५४.५१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे कर्मगतियमवाक्यं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥
अध्याय ५५
युधिष्ठिर उवाच -
धेनुः कतिविधा प्रोक्ता कस्मिन् काले च दीयते ।
सर्वोपस्करसंयुक्ता त्वत्त इच्छामि वेदितुम् ॥ ५५.१ ॥
मार्कण्डेय उवाच -
शृणु राजन्महाबाहो कथ्यमानं निबोध मे ।
कथयामि तवाख्यानमादिकल्पे कृते युगे ॥ ५५.२ ॥
चक्रवर्ती शशाङ्कोऽभूत्सर्वधर्मभृतां वरः ।
न च वर्णयितुं शक्यः सत्यधर्मव्रते स्थितः ॥ ५५.३ ॥
बुभुजे स महीमेतामेकच्छत्रां समाहितः ।
नवखण्डां सप्तद्वीपा यथा शक्रोऽमरावतीम् ॥ ५५.४ ॥
हरिश्चन्द्रस्य तस्यापि संवादश्चक्रवर्तिनः ।
हरिश्चन्द्रः कुरुक्षेत्रे गवामयुतमुत्तमम् ॥ ५५.५ ॥
हेमभारमलङ्कारसर्वरत्नविभूषितम् ।
ब्रह्मर्षिर्मुद्गलो नाम स्वयं ब्रह्म प्रतिष्ठितः ॥ ५५.६ ॥
मुद्गलाश्च द्विजाः सर्वे सत्यधर्मपरायणाः ।
शतमष्टोत्तरं साग्रं ब्राह्मणा ब्रह्मवादिनः ॥ ५५.७ ॥
हरिश्चन्द्रो ददौ तेभ्यो राहुसूर्यसमागमे ।
द्विजान् सम्पूज्य विधिच्छ्रद्धया परया युतः ॥ ५५.८ ॥
अर्चयित्वा महेशानं स्थानं परमसिद्धिदम् ।
चक्रपाणिं हृषीकेशं मुदा परमया युतः ॥ ५५.९ ॥
सरस्वत्यां नृपश्रेष्ठ तिलदर्भान्वितस्य तु ।
दानस्यास्य प्रभावेण लोकास्तेनाखिला जिताः ॥ ५५.१० ॥
अन्तरिक्षे पुरी प्राप्ता सर्वलोकमनोहरा ।
हरिश्चन्द्रपुरी ख्याता साऽस्मिल्लोके चराचरे ॥ ५५.११ ॥
सत्यदानसर्वत्यागैरित्यादिभिरलंकृतः ।
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ॥ ५५.१२ ॥
एवं गाथा पुरा गीता शक्राद्यैः सुरसत्तमैः ।
शशाङ्कोऽप्यकरोत्सर्वं नर्मदातीरमाश्रितः ॥ ५५.१३ ॥
दानं यज्ञ तपः सत्यं पर्वतेऽमरकण्टके ।
ददौ चार्धप्रसूतां ब्राह्मणाय महात्मने ॥ ५५.१४ ॥
दानस्यास्य प्रभावेण हरिश्चन्द्राधिकोऽभवत् ।
अनेकभाविकं पापं दग्ध्वा तूलौघवच्छिखी ॥ ५५.१५ ॥
यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया सशैलवनकानना ॥ ५५.१६ ॥
स्वर्णशृङ्गी रौप्यखुरी सवत्सा कांस्यदोहना ।
नर्मदास्नानयुक्ता तु सकुशा तिलसंयुता ॥ ५५.१७ ॥
ओंकारामरयोर्मध्ये कोटितीर्थे नराधिपः ।
एताः सहस्रसख्याता ब्राह्मणेभ्यो न्यवेदयत् ॥ ५५.१८ ॥
एतस्मिन्नन्तरे नेदुर्देवदुन्दुभयो दिवि ।
तत्क्षणाद्यानमारूढो ज्वलन्मणिगणैरिव ॥ ५५.१९ ॥
स्तूयमानः समीपस्थैरसंख्यातैर्विमानिभिः ।
धृतस्वर्णातपत्रस्तु वीज्यमानस्तु चामरैः ॥ ५५.२० ॥
योजनानां सहस्रेण हरिश्चन्द्रोऽप्यधः स्थितः ।
तद्दृष्ट्वा तादृशं कर्म शशाङ्कस्य विशाम्पतेः ॥ ५५.२१ ॥
स विनिन्द्य कुरुक्षेत्रं विस्मयाविष्टचेतनः ।
महानद्यां शशाङ्केन राहुसोमसमागमे ॥ ५५.२२ ॥
दत्तं दानं न सामान्यं भवेदिति समासतः ।
विषण्णवदनो भूत्वा हरिश्चन्द्रो नृपोत्तमः ॥ ५५.२३ ॥
ब्रह्मलोकं गतः क्षिप्रं यत्र लोकेश्वरः प्रभुः ।
अभिवाद्य यथा न्यायं पप्रच्छ स पितामहम् ॥ ५५.२४ ॥
दानेन निर्जिता देवाः शशाङ्केन महात्मना ।
किं च पुण्यमिदं ब्रह्मन् कुरुक्षेत्राद्विशिष्यते ॥ ५५.२५ ॥
अमरेश्वरतीर्थं तु नाम रेवासमुद्भवम् ।
केनापि न समं भूतमुपर्युपरि दीप्यते ॥ ५५.२६ ॥
इति श्रुत्वा वचस्तस्य हरिश्चन्द्रस्य धीमतः ।
उवाच वचनं ब्रह्मा हरिश्चन्द्रं नृपोत्तमम् ॥ ५५.२७ ॥
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ।
शशाङ्कसदृशो राजा न दृष्टो न श्रुतो मया ॥ ५५.२८ ॥
एवं वक्तुं न योग्योऽहं न देवापि सवासवाः ।
अनेकानि सहस्राणि पुरा वै चक्रवर्तिना ॥ ५५.२९ ॥
इष्टानि च विधानेन पर्वतेऽमरकण्टके ।
राहुसूर्यसमायोगे तीर्थलक्षाणि भारत ॥ ५५.३० ॥
सरस्वतीं कुरुक्षेत्रं पुष्करं नैमिषं तथा ।
तीर्थान्येतानि चान्यानि स्नानं कर्तुं समाययुः ॥ ५५.३१ ॥
मेकलायां हरिश्चन्द्र कोटितीर्थे नराधिप ।
तीर्थानां त्यज राजेन्द्र साम्यं मेकलया सह ॥ ५५.३२ ॥
वाराणस्या कुरुक्षेत्रं तोलितं च मया पुरा ।
तीर्थानि न समं यान्ति तीर्थस्यास्य प्रभावतः ॥ ५५.३३ ॥
ख्यातमात्रं कुरुक्षेत्रं लोकयात्राप्रवर्तकम् ।
पुराणं न श्रुतं यैस्तु मिथ्याज्ञानसमन्वितैः ॥ ५५.३४ ॥
सेव्यतां कल्पगा देवी यदीच्छेत्परमं पदम् ।
नमस्कृत्य विधातारमयोध्याधिपतिस्तदा ॥ ५५.३५ ॥
मुदा परमया युक्तः स ययावमरेश्वरम् ।
एतत्सर्वं समाख्यातं यथावत्तव सुव्रत ॥ ५५.३६ ॥
यः शृणोति नरो राजन् गोसहस्रफलं लभेत् ॥ ५५.३७ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे गोदानमहिमानुवर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५६
मार्कण्डेय उवाच -
माहिष्मत्याः पश्चिमे वै तीर्थं पापहरं परम् ।
अशोकवनिका नाम सर्वशोकविनाशनम् ॥ ५६.१ ॥
स्नात्वा तत्रार्चयेद्गौरीं यथा विभवविस्तरैः ।
मातङ्गस्याश्रम तद्वत्सिद्धगन्धर्वसेवितम् ॥ ५६.२ ॥
शुक्लकृष्णातृतीयायां गन्धधूपविलेपनैः ।
उपहारैरनेकैश्च दीपमालाप्रबोधनैः ॥ ५६.३ ॥
तत्र या पूजयेन्नारी गौरीं भक्तिसमन्विता ।
रूपसौभाग्यसम्पन्नं लभते सत्पतिं तु सा ॥ ५६.४ ॥
कार्त्तिक्यां तु गतप्राणा मोदमाना तु संयता ।
अस्य तीर्थस्य माहात्म्यात्प्राप्ता माहेश्वरं पुरम् ॥ ५६.५ ॥
मातङ्गो नाम देवर्षिः पुराकल्पे युधिष्ठिर ।
नर्मदातीरमाश्रित्य तपस्तेपे सुदुष्करम् ॥ ५६.६ ॥
पुरा जन्मनिषादः स जातिं स्मरति पूर्विकाम् ।
अघमर्षणदेशस्थः सर्वधर्म बुबोध च ॥ ५६.७ ॥
महर्षीणां प्रसङ्गेन नर्मदादर्शनेन च ।
पापबुद्धिं परित्यज्य धर्मबुद्धिं चकार सः ॥ ५६.८ ॥
निर्विण्णोऽहं च भिक्षुश्चाधुना श्वपचयोनिषु ।
एवमुक्त्वा ततो राजन्नशोकवनिकां गतः ॥ ५६.९ ॥
जटावल्कलधारी च कन्दमूलफलाशनः ।
दिव्यं वर्षसहस्रं तु शिवाराधनतत्परः ॥ ५६.१० ॥
शिवध्यानपरः सोऽभूदुग्रे तपसि संस्थितः ।
दिव्यं वर्षसहस्रं हि तथा तस्य तपस्यतः ॥ ५६.११ ॥
एकाशीतिसहस्राणि जटाग्रेभ्यो विनिःस्मृताः ।
स्वयं पतन्ति विविधा नर्मदातोयमध्यतः ॥ ५६.१२ ॥
तत्क्षणाद्यक्षिणीरूपा अनन्ताश्चाप्रमाणिकाः ।
श्यामवर्णाः सुतेजः काः सर्वाभरणभूषिताः ॥ ५६.१३ ॥
यक्षलोकं व्रजन्त्याशु तीर्थस्यास्य प्रभावतः ।
मन्त्रयन्त्रविहीनोऽपि शिवभक्तिपरायणः ॥ ५६.१४ ॥
षडक्षरमिमं मन्त्रं हृदि चक्रे दिवानिशम् ।
ओंनमः शिवाय इति सर्वमन्त्रोत्तमोत्तमम् ॥ ५६.१५ ॥
तस्य भक्तिं परां ज्ञात्वा देवदेव उमापतिः ।
प्रत्यक्षरूपो भगवान् छूलपाणिः समागतः ॥ ५६.१६ ॥
उवाच वचनं देवो मातङ्गं प्रति भारत ।
वरं वृणीष्व भद्रं ते ध्यानेनानेन सुव्रत ॥ ५६.१७ ॥
मातङ्ग उवाच -
यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि ।
मातङ्गनाम्ना विख्यातिं तीर्थमेतत्प्रयातु वै ॥ ५६.१८ ॥
चाण्डालाः श्वपचाश्चैव पापयोनिगताऽपि ।
जपादि रहिताश्चापि मुच्यन्तेऽत्रापि किल्बिषात् ॥ ५६.१९ ॥
मातङ्गनामलिङ्गं तु नर्मदातीरमाश्रितम् ।
स्नात्वा योऽत्रार्चयेत्तस्य भवेद्बन्धविमोक्षणम् ॥ ५६.२० ॥
इदं वरमहं मन्ये त्वत्प्रसादात्महेश्वर ।
तस्य तद्वचनं श्रुत्वा प्रत्युवाच शिवापतिः ॥ ५६.२१ ॥
एवं भवतु तत्सर्वं मत्प्रसादान्न संशय ।
एवमुक्त्वा ययौ देव कैलासं पर्वतोत्तमम् ॥ ५६.२२ ॥
वरं सम्प्राप्य मातङ्ग उमामाहेश्वरं पुरम् ।
कामिकं यानमारूढः सर्वाभरणभूषित ॥ ५६.२३ ॥
जगामाशु चिरं भोक्तुं भोगान् स्नानप्रभावतः ।
या चैत्रमासेऽमावास्या कृष्णपक्षे चतुर्दशी ॥ ५६.२४ ॥
तस्यां तत्र हुतं दत्तमनन्तफलमश्नुते ।
तिलोदकप्रदानेन पापयोनिगताऽपि ॥ ५६.२५ ॥
सक्त्वाढ्यगुडपिण्डेन पितॄन्मोदयते तु यः ।
पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश ॥ ५६.२६ ॥
तिलतण्डुलमिश्रं यः कुर्याल्लिङ्गस्य पूजनम् ।
सोऽपि वर्षसहस्राणि शिवलोके महीयते ॥ ५६.२७ ॥
अशोकवनिका नाम मातङ्गं तीर्थमुच्यते ।
रेवाया उत्तरे कूले कथितं तव भारत ॥ ५६.२८ ॥
अथान्यत्कथयिष्यामि याम्यभागे व्यवस्थितम् ।
तीर्थं मृगवनं नाम सर्वपापप्रणाशनम् ॥ ५६.२९ ॥
तत्र स्नात्वाऽर्चयेद्विष्णुं शङ्खचक्रगदाधरम् ।
एकादश्यां महाराज निराहारो निशां नयेत् ॥ ५६.३० ॥
हरिं मृगवने तत्र गन्धपुष्पैश्च पूजयेत् ।
एकस्मिन् भोजिते विप्रे लक्षं भवतु भोजितम् ॥ ५६.३१ ॥
तिलोदकप्रदानेन पितॄणां वैष्णवं पदम् ।
तत्रैव सन्निविष्टं तु वाराहं तीर्थमुत्तमम् ॥ ५६.३२ ॥
यत्र वाराहरूपेण धरा चैव समुद्धृता ।
विश्वरूपं तथा चान्यद्धरिणामिततेजसा ॥ ५६.३३ ॥
पतिव्रता च नारी वै तथा मासोपवासिनी ।
तत्र स्नात्वा विधानेन लोकं प्राप्नोति वैष्णवम् ॥ ५६.३४ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाश्रमवर्णनो नाम षट्पञ्चाशत्तमोऽध्यायः ॥
अध्याय ५७
मार्कण्डेय उवाच -
आख्यानं कथयिष्यामि ख्यातं मृगवनं यथा ।
व्याध कश्चिद्दुराचारः सर्वभूतेषु निर्दयः ॥ ५७.१ ॥
पाशहस्तो धनुष्पाणिर्विचरन् गिरिकन्दरे ।
आजघान मृगान् सर्वान् कुटुम्बार्थे नृपोत्तम ॥ ५७.२ ॥
ज्येष्ठे मासि तु संप्राप्ते निदाघे ज्वलनप्रभे ।
भ्रमति स्म तृषार्तश्च वृक्षमूले समाश्रितः ॥ ५७.३ ॥
रात्रौ स्वपिति निश्चेष्टो दुःखार्तश्च क्षुधान्वितः ।
वनसंघर्षजो वह्निरुत्थितो गिरिकन्दरात् ॥ ५७.४ ॥
प्रदग्धं च वन तेन मृगव्याघ्रसमावृतम् ।
भस्मीभूतं च तत्सर्वं रेणुभूतं च कृत्स्नशः ॥ ५७.५ ॥
मेघागमोक्तकाले तु प्रवाहे नार्मदे शुभे ।
कन्याराशिगते भानौ द्वादश्यां श्रवणेन तु ॥ ५७.६ ॥
नर्मदातोय संसर्गाद्यक्षा जातास्तु पन्नगाः ।
तत्क्षणाद्दिव्यदेहास्तु वैष्णवं यानमास्थिताः ॥ ५७.७ ॥
स व्याधश्चाभवद्राजा तीर्थस्यास्य प्रभावतः ।
दशवर्षसहस्राणि भोगान् भुङ्क्ते मनोहरान् ॥ ५७.८ ॥
येऽपि दग्धा मृगास्तत्र तेऽपि गन्धर्वतां गताः ।
वैष्णवेनैव यानेन प्राप्तास्तु वैष्णवं पदम् ॥ ५७.९ ॥
अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् ।
दिव्यवर्षसहस्रं तु विष्णुलोके स मोदते ॥ ५७.१० ॥
तिलोदकप्रदानेन पितॄणां परमा गतिः ।
मनोरथं नाम तीर्थमन्यत्परमसिद्धिदम् ॥ ५७.११ ॥
त्रिषु लोकेषु विख्यातं रेवातीरसमुद्भवम् ।
यं यं प्रार्थयते कामं तं तं स्नात्वापि मानवः ॥ ५७.१२ ॥
सर्व च समवाप्नोति तीर्थस्यास्य प्रभावतः ।
अङ्गरावर्तसंभेदो गोसहस्रफलप्रदः ॥ ५७.१३ ॥
अङ्गारेश्वरदेवश्च तत्र तिष्ठति सङ्गमे ।
स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥ ५७.१४ ॥
अङ्गारश्च चतुर्थ्यां च यदा भवति भारत ।
हिरण्यपुरुषं कृत्वा रक्तवस्त्रेण वेष्टयेत् ॥ ५७.१५ ॥
घृतपूर्णं ताम्रपात्रं गुडेनापि प्रपूरितम् ।
तत्सर्वं विधिवद्दद्याच्छ्रोत्रियाय विशेषतः ॥ ५७.१६ ॥
दानतीर्थप्रभावेण शक्रार्द्धासनभाग्भवेत् ।
यस्मात्पापानि दुःखानि तीव्राण्यपि बहून्यपि ॥ ५७.१७ ॥
तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् ।
यस्मिन् काले च देशे च वयसा यादृशेन च ॥ ५७.१८ ॥
कृतं शुभाशूभं कर्म तत्तथा तेन भुज्यते ।
तस्मात्सदैव दातव्यमविच्छिन्न तयार्थिने ॥ ५७.१९ ॥
विच्छिद्यन्तेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा ।
संसेव्यते यथा देवी सप्तकल्पवहा शुभा ॥ ५७.२० ॥
संसारस्य समुच्छित्त्यै ज्ञानयोगं ब्रवीमि ते ।
शिवप्रकाशकं ज्ञानं योगस्तत्रैव चिन्तितः ॥ ५७.२१ ॥
दुर्विज्ञेय गतिर्योगो नर्मदाशिवसन्निधौ ।
शिवाज्ञा वर्तते तत्र स्नानपूजाविधिर्यथा ॥ ५७.२२ ॥
स सिद्धान्ताऽविरोधेन पुस्तकैर्न विरोधयेत् ।
धर्मज्ञानापवर्गार्थं सहितं विन्दते नरः ॥ ५७.२३ ॥
पूर्वोत्तरविरोधेन कुत्रार्थोऽभिमतो भवेत् ।
दृष्ट्वाद्यमूलतस्तर्कं श्रुत्या सह विवर्जयेत् ॥ ५७.२४ ॥
तस्मादागमयुक्तेन सदात्मार्थविचारणम् ।
कर्तव्यं नानुमानेन केवलेन विपश्चिता ॥ ५७.२५ ॥
हीनोत्तमाद्यस्य फलं बहुधा स्वं च तत्स्मृतम् ।
तस्मात्परीक्षां कुर्वीत पुण्यं साधु महत्फलम् ॥ ५७.२६ ॥
पाखण्डिनो विकर्मस्थान् वैडालव्रतिकां शठान् ।
वर्जयेद्दूरतो धीमान् हैतुक्यान् तीर्थनिन्दकान् ॥ ५७.२७ ॥
दिगम्बरान् श्वेतपटान् ये चान्ये हेतुवादिनः ।
एतैः सह न संवादं संसर्गं न कथंचन ॥ ५७.२८ ॥
विपरीतं कलौ धर्मं नग्ना मुण्डा मलाशिनः ।
तस्मात्तं च परित्यज्य त्रेताधर्मं समाचरेत् ॥ ५७.२९ ॥
प्रमाणं सर्वधर्मेषु ब्रह्मविष्णुशिवोदितम् ।
अन्यथा कुरुते यस्तु नरके पतति ध्रुवम् ॥ ५७.३० ॥
सर्वेषामेव शास्त्राणामेवं शास्त्रविनिश्चयः ।
सेव्यतां कल्पगा देवी शिवपूजारतैः सदा ॥ ५७.३१ ॥
पितॄणां तर्पणं कुर्याद्भिक्षां दद्याच्च भिक्षवे ।
कारुण्यं सर्वभूतेषु नर्मदाख्यानचिन्तनम् ॥ ५७.३२ ॥
इदं ज्ञानमशेषं च सर्वकर्मविशोधनम् ।
आदिमध्यान्तरहितः स्वभावविमलः प्रभुः ॥ ५७.३३ ॥
सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे ।
सर्वार्थसाधकं ज्ञानं तत्प्रणीतमसंशयम् ॥ ५७.३४ ॥
यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः ।
सर्वदोषविनिर्मुक्तः स ब्रूयात्कथमन्यथा ॥ ५७.३५ ॥
शिवाज्ञामन्तरेणापि जगत्सृष्टिः कथं भवेत् ।
अचैतन्यात्प्रधानेन अज्ञत्वात्पुरुषस्य च ॥ ५७.३६ ॥
प्रधानं परमाण्वादि यावत्किंचिदचेतनम् ।
तन्न कर्तृ स्वयं द्रष्टृ बुद्धिमत्करणं विना ॥ ५७.३७ ॥
न यथा घटमानेन मृत्पिण्डः स्वयमृच्छति ।
तथाज्ञाबुद्धिभावेन न तिष्ठेत्प्रकृतिः स्वयम् ॥ ५७.३८ ॥
धर्माधर्मोपदेशो न धर्माधर्मविचारणम् ।
सर्वज्ञेन विना जातु नादिसर्गे प्रसिद्ध्यति ॥ ५७.३९ ॥
यथानादि प्रवृत्तोऽयं घोरः संसारसागरः ।
शिवोऽपि हि तथानादिः संसारान्मोचकः स्मृतः ॥ ५७.४० ॥
व्याधीनां भैषजं यद्वत्प्रतिपक्षं स्वभावतः ।
तद्वत्संसारघोराणां प्रतिपक्षः शिवः स्मृतः ॥ ५७.४१ ॥
वैद्यं विना निराक्रन्दाः क्लिश्यन्ते रोगिणो यथा ।
शिवेन तु विना सर्वं निराक्रन्दं जगत्तथा ॥ ५७.४२ ॥
तस्मादनादिः सर्वज्ञः परिपूर्णः परः शिवः ।
अस्ति नातः परित्राता पुमान् संसारसागरे ॥ ५७.४३ ॥
येऽभ्यसन्ति शिवज्ञानं हृदये शिवभाविताः ।
यदि वेदाः प्रमाणं तु तेषां ज्ञानं प्रजायते ॥ ५७.४४ ॥
इयं च सर्वभूतानां शरणं भुवि नर्मदा ।
अपां रूपतया देवी लोकानुग्रहकारिणी ॥ ५७.४५ ॥
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ।
भगवत्युद्धरत्येषां पतन्तं नरके ध्रुवम् ॥ ५७.४६ ॥
एवंज्ञात्वा नरश्रेष्ठ शिवमन्वीक्ष्य कल्पगाम् ।
उच्चैर्गृहाणि दिव्यानि धनधान्यान्वितानि च ॥ ५७.४७ ॥
सर्वोपस्करदिव्यानि ब्राह्मणेभ्यो निवेदयेत् ।
अनाथायातिवृद्धाय विकलाय कुटुम्बिने ॥ ५७.४८ ॥
काष्ठमृन्मयगेहं च यो द्विजाय प्रयच्छति ।
एवं विधान् गृहान् रम्यान् सर्वतोऽमरकण्टके ॥ ५७.४९ ॥
कारयेद्यः पुमान् दिव्यांस्तस्य पुण्यफलं शृणु ।
किं तस्य बहुभिर्दत्तैर्दानैर्भवति भारत ॥ ५७.५० ॥
एतदेव परं दानं सर्वकामार्थसाधकम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५७.५१ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५८
युधिष्ठिर उवाच -
श्रुत्वैतत्परमं गुह्यं गवां देवसमुद्भवम् ।
ब्रह्मकूर्चस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ५८.१ ॥
आख्याहि भगवन् सर्वं गोलोकः कीदृशः स्मृतः ।
प्राप्यते कर्मणा केन के तस्मिन्ननिशं स्थिताः ॥ ५८.२ ॥
मार्कण्डेय उवाच -
श्रूयतामभिधास्यामि नमस्कृत्य महेश्वरम् ।
गोमातृलोकं परमं सर्वकामसमन्वितम् ॥ ५८.३ ॥
यथावत्सर्वलोकानामुपर्युपरि संस्थितम् ।
पातालानि ततः सप्त पातालं च ततस्तथा ॥ ५८.४ ॥
यावत्प्रमाणं परितः परिच्छिन्नं महीतलम् ।
तावत्प्रमाणं तस्याः समुद्रास्तानि चैव तु ॥ ५८.५ ॥
तेषां प्रत्येकमुत्सेधप्रमाणं परिकीर्तितम् ।
योजनानां सहस्राणि दशार्धानि ततस्ततः ॥ ५८.६ ॥
सहस्रयोजनोत्सेधस्तस्याभ्यन्तरतस्तथा ।
विवराणां समस्तानां सहस्राणि नव स्मृतम् ॥ ५८.७ ॥
तेषां रुचिरमाहात्म्यं नामतस्तु महीतले ।
दिव्यदिव्योपसम्पन्नः श्रीमच्चामीकरद्युतिः ॥ ५८.८ ॥
नागराजः सदैवास्ते तस्मिन् कृतनिकेतनः ।
अनन्तोऽनन्तधामा च मुकुन्दो नृपशैवलः ॥ ५८.९ ॥
ततो रसातलं नाम शिवसन्तोषभूमिकम् ।
वासुकेर्नागराजस्य तत्र चारु महापुरम् ॥ ५८.१० ॥
पुर च सुरलोम्नस्तु दानवाधिपतेर्महत् ।
सुपर्णस्य च दैत्यानामशेषाणां महात्मनाम् ॥ ५८.११ ॥
ततः सुतलनामास्ति शर्कराञ्चितभूमिकम् ।
नागादीनां स्वस्तिकानां तत्रैव वसतिः सदा ॥ ५८.१२ ॥
दानवाधिपतीनां च तत्रैव निलयः परः ।
वैरोचनहिरण्याख्यप्रभृतीनां महात्मनाम् ॥ ५८.१३ ॥
ततश्चातलमित्युक्तं पातालानां तस्य तु वै ।
तेषामूर्ध्ववस्तुसर्वेषां मृन्मयं च तलं क्षितेः ॥ ५८.१४ ॥
असुराधिपतेस्तावत्कालनेमेर्महापुरम् ।
चारुचामीकराभासं वैनतेयस्य चापरम् ॥ ५८.१५ ॥
ततश्च वितलं नाम पातालं रक्तभूतलम् ।
तस्मिन्महान्तको नाम दानवेन्द्रकृतालयः ॥ ५८.१६ ॥
तालकोऽग्निमुखस्तस्मिन्नलह्रादश्च दानवाः ।
निवसन्ति कृतागारास्तथा प्रह्लादवर्चसः ॥ ५८.१७ ॥
पातालं वितलं नाम शुक्लं क्षितितलं ततः ।
कम्बलाश्वतरौ नागौ सहितौ तत्र तिष्ठतः ॥ ५८.१८ ॥
महाजम्भहयग्रीवप्रभृतीनां महात्मनाम् ।
वाराणस्यसुरेन्द्राणां निवासस्तत्रकल्पितः ॥ ५८.१९ ॥
कृष्णं क्षितितलं तस्मात्पातालतलसंज्ञकम् ।
शङ्कुकर्णमहानादनमुचीनां निकेतनम् ॥ ५८.२० ॥
पातालात्सप्तमादूर्ध्वं सप्तद्वीपा मही स्थिता ।
समुद्रैः सप्तभिर्युक्ता पर्वतैः समलंकृता ॥ ५८.२१ ॥
जम्बूद्वीपश्च तन्मध्ये प्लक्षद्वीपस्ततः परः ॥ ५८.२२ ॥
क्रौञ्चद्वीपश्च परतः शाकद्वीपश्च तद्बहिः ।
परतः पुष्करद्वीपः सप्तमः परिकीर्तितः ॥ ५८.२३ ॥
क्षारोदकश्चेक्षुरसः सुरोदश्च घृतोदधिः ।
दधितोयः क्षीरपूर्णः स्वादूदः सप्तमः स्मृतः ॥ ५८.२४ ॥
सप्तद्वीपसमुद्राणां द्विगुणद्विगुणान्तरः ।
प्रमाणविस्तरो ज्ञेयो नियुतः प्रथमः स्मृतः ॥ ५८.२५ ॥
हिमवान् हेमकूटश्च निषधश्चेति दक्षिणे ।
नीलश्च श्वेतः शृङ्गश्च मेरोरुत्तरतः स्मृताः ॥ ५८.२६ ॥
मेरुरस्ति स्थितो मध्ये जम्बूद्वीपस्य भारत ।
माल्यवान् पूर्वतो ज्ञेयः पश्चिमे गन्धमादनः ॥ ५८.२७ ॥
एते पर्वतराजानो जम्बूद्वीपे नव स्मृताः ।
प्लक्षद्वीपादिषु ज्ञेयाः सप्तसप्तैव पर्वताः ॥ ५८.२८ ॥
पुष्करद्वीपमध्ये तु पर्वतो वलयाकृतिः ।
एकः स्मृतः समन्ताच्च नामतो मानसः स्मृतः ॥ ५८.२९ ॥
विन्ध्यो नाम महाभागो जम्बूद्वीपे व्यवस्थितः ।
यत्रैषा नर्मदादेवी प्लवन्ती लोकतारिणी ॥ ५८.३० ॥
विन्ध्यस्य चानुजो भ्राता सह्यो दक्षिणतः स्मृतः ।
उर्वी कूर्मतलाकारा काञ्चनी परिमण्डला ॥ ५८.३१ ॥
अणुरेव तथा सा तु निर्दिष्टातिविदः क्षितिः ।
तस्याः प्रमाणं निर्दिष्टं दशयोजनकोटयः ॥ ५८.३२ ॥
लोकालोक इति ख्यातस्तस्याः प्रान्ते समन्ततः ।
स्फीतो हेममयः श्रीमान् सरलः परिमण्डलः ॥ ५८.३३ ॥
योजनानां सहस्राणि चार्धमस्य व्यवस्थितम् ।
तावदेव च विस्तीर्णं तदर्धे भानुराहितः ॥ ५८.३४ ॥
प्रकाशयति स ज्योतिः परभागे निहन्यते ।
लोकालोक इति प्रोक्तस्ततोऽसावचलो महान् ॥ ५८.३५ ॥
लोकालोकावसानोऽयं भूर्लोकः परिकीर्तितः ।
गन्धर्वयक्षरक्षोभिः पिशाचैश्च निषेवितः ॥ ५८.३६ ॥
मानुषैः पशुभिश्चैव मृगपक्षिसरीसृपैः ।
स्थावरैर्विविधाकारैर्भूतैरेतैश्च षड्विधैः ॥ ५८.३७ ॥
भूर्लोकश्च भुवर्लोको यावदादित्यमण्डलम् ।
वसन्ति सततं रुद्रास्सततं वक्त्रभास्कराः ॥ ५८.३८ ॥
आदित्यमण्डलादूर्ध्वं स्मृता स्वर्लोकसंस्थितिः ।
विमानकोटयस्तस्मिन्नष्टाविंशतिराशयः ॥ ५८.३९ ॥
मेढीभूतो विमानानां सर्वेषामुपरि ध्रुवः ।
नियुता अनिलस्कन्धाः सप्तास्मिन्नन्तरे स्थिताः ॥ ५८.४० ॥
पृथिव्याः प्रथमः स्कन्धः स्थितश्चामेघमण्डलम् ।
आहवो नाम वै वातो व्यूहानां व्यूहकृत्तथा ॥ ५८.४१ ॥
द्वितीयः प्रवहो नाम निबद्धः सूर्यमण्डले ।
तृतीयः संवहो माम सुस्कन्धोऽसौ प्रतिष्ठितः ॥ ५८.४२ ॥
चतुर्थः सोद्वहः स्कन्धः स्थितो नक्षत्रमण्डले ।
ततो द्वयोर्विनिर्दिष्टा विमानोद्वहनक्रिया ॥ ५८.४३ ॥
योजनानां ध्रुवः कोटिर्महर्लोकः समुच्छ्रितः ।
स्कन्धः परिवहो नाम निबद्धः सप्तमो ध्रुवे ॥ ५८.४४ ॥
अन्नादीनि करोत्येष पर्वणामुपरि स्थितः ।
विनिर्वृत्तं विकाराणामधिवासो महात्मनाम् ॥ ५८.४५ ॥
तत्राधिकारिदेवानामष्टाविंशति कोटयः ।
जनात्स्वर्लोकमागत्य नियोगात्पद्मजन्मनः ॥ ५८.४६ ॥
स्थिता मन्वन्तरं तत्र स्वव्यापारावसायिनः ।
आरुह्य च महर्लोकमागच्छन्ति ततः पुनः ॥ ५८.४७ ॥
ब्रह्मणो दिवसैकेन देवाः स्वर्गे चतुर्दश ।
क्रमेण कृत्वा कर्माणि महर्लोके वसन्ति ते ॥ ५८.४८ ॥
कोटिद्वयं महर्लोकाज्जनलोकः समुच्छ्रितः ।
साध्यानामसुरास्तत्र वसन्ति सुखिनः सदा ॥ ५८.४९ ॥
योजनानां चतुःकोट्यः जनादप्युच्छ्रितं तपः ।
प्रजानां पतयस्तत्र स्थितास्तु ब्रह्मणः सुताः ॥ ५८.५० ॥
सत्यलोकस्तपोलोकात्कोटिषट्कं समुच्छ्रितम् ।
आस्ते परिवृतस्तत्र देवासुरगणैर्विराट् ॥ ५८.५१ ॥
ब्रह्मलोकाद्विष्णुलोको द्विगुणेन समुच्छ्रितः ।
विस्तरेण तदूर्ध्वे च दिव्यलोकः समन्वितः ॥ ५८.५२ ॥
विष्णुलोकाच्च परतः श्रीमच्छिवपुरं महत् ।
द्वाविंशत्कोटिविस्तीर्णं तदूर्ध्वे समुपस्थितम् ॥ ५८.५३ ॥
सूर्यायुतप्रतीकाशं सर्वकामसमन्वितम् ।
अनेकारण्यविन्यासं स्वर्गनद्युपशोभितम् ॥ ५८.५४ ॥
सर्वरत्नान्वितैर्दिव्यैस्तप्तजाम्बूनदप्रभैः ।
सहस्रखण्डभौमैश्च सर्वशोभासमन्वितैः ॥ ५८.५५ ॥
विमानैः सर्वतो व्याप्तं चन्द्रैरिवनभस्तलम् ।
अप्सरोगणसंकीर्णं सर्वविद्याधरान्वितम् ॥ ५८.५६ ॥
नृत्यगीतरवोपेतैरप्रमेयगुणान्वितैः ।
मनोजवैरसंख्यातैः परिवारसमन्वितैः ॥ ५८.५७ ॥
क्वचिद्दोलागृहैर्रम्यैः किङ्किणीरवकान्वितैः ।
उद्गतैरर्धचन्द्रैश्च घण्टाभरणभूषितैः ॥ ५८.५८ ॥
मणिमुक्तावितानैश्च मणिरत्नचयैः शुभैः ।
सर्वरत्नार्चितैर्द्रव्यैर्मुक्तादामसुशोभनैः ॥ ५८.५९ ॥
महासिंहासनैर्दिव्यैः सर्वरत्नविभूषितैः ।
क्वचित्पुण्यगृहैर्व्याप्तमसंख्यगुणान्वितैः ॥ ५८.६० ॥
सदा पुष्पफलैर्वृक्षैः क्वचिद्व्याप्तं मनोरमैः ।
पुष्पोद्यानैर्महारम्यैः शतशोऽथ सहस्रशः ॥ ५८.६१ ॥
सप्तकल्पवहा पुण्या तत्रैवास्ते सरिद्वरा ।
तत्कलायाः सहस्रांशो जम्बूद्वीपे प्रदृश्यते ॥ ५८.६२ ॥
अवतीर्णा महीपृष्ठे लोकानुग्रहकाम्यया ।
सर्वात्मनाऽवतारश्च गङ्गादिसरितामिह ॥ ५८.६३ ॥
अमृतस्यन्दिनीभिश्च नदीभिरुपशोभितम् ।
हेमरत्नाञ्चिता वाप्यः सोपानैः स्फाटिकैर्युताः ॥ ५८.६४ ॥
सितरक्तासितैः पीतैः सरोजैर्याः सुगन्धिभिः ।
पञ्चवर्णैश्च गुरुभिः शोभिताः काञ्चनाकुलैः ॥ ५८.६५ ॥
महाविकाशि संस्निग्धैः श्रीमद्भिः पञ्चहस्तकैः ।
दश द्वादशहस्तैश्च तथा विंशतिहस्तकैः ॥ ५८.६६ ॥
नालैर्मरकतप्रख्यैर्मनोहरदलान्वितैः ।
पूर्णनीलोत्पलैश्चान्यैर्दीर्घिकाश्च क्वचित्क्वचित् ॥ ५८.६७ ॥
सिंहव्याघ्रमुखैर्दिव्यैर्गजवाजिमृगाननैः ।
गोमुखैश्छागवदनैः कपिपक्षिमुखैस्तथा ॥ ५८.६८ ॥
एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः ।
एकपादैस्त्रिपादैश्च बहुपादैरपादकैः ॥ ५८.६९ ॥
वामनैर्जटिलैर्मुण्डैर्दीर्घग्रीवैर्महोदरैः ।
महाकायैर्महानासैर्महाकर्णैरकर्णकैः ॥ ५८.७० ॥
नानारूपाकृतिधरैर्नानाभरणभूषितैः ।
नानावेषधरैर्दिव्यैः कामरूपैर्महाबलैः ॥ ५८.७१ ॥
नानाप्रभावसंयुक्तैर्नानाशास्त्रविशारदैः ।
असंख्या जातयश्चान्या निवसन्ति तथा विधाः ॥ ५८.७२ ॥
कुब्जावामनकादीर्घा वरदेहा वराननाः ।
मुण्डाश्च विकटा नीचा ह्रस्वदीर्घश्च तादृशाः ॥ ५८.७३ ॥
लम्बोदरा ह्रस्वभुजा विनता ह्रस्वजानुकाः ।
मृगेन्द्रवदनाश्चान्या गजवाजिमुखास्तथा ॥ ५८.७४ ॥
ह्रस्वकुञ्चितकेशाश्च सुन्दरप्रियदर्शनाः ।
पञ्चाशत्कोटयस्तत्र शिवस्य परिचारिकाः ॥ ५८.७५ ॥
मणिमाणिक्यगेहेषु रमन्ते ता बहिः क्वचित् ।
तत्र गेहेषु यद्द्वारिसहस्रशतभूमिषु ॥ ५८.७६ ॥
विचित्रभूमयस्तत्र वज्रवैदूर्यभूषिताः ।
इति सर्वगुणोपेतैः स्त्रीसहस्रैर्वराननैः ॥ ५८.७७ ॥
असंख्यातैः पुरं व्याप्तमीश्वरस्य समन्ततः ।
तन्मध्ये सर्वतोभद्रं दिव्यमायतनं महत् ॥ ५८.७८ ॥
शुद्धस्फटिकसंकाशं स्थानमाद्यमुमापतेः ।
तत्रास्ते भगवान् सोमः पूज्यमानो गणेश्वरैः ॥ ५८.७९ ॥
सिद्धैः स्वस्थानसंप्राप्तैर्ब्रह्मविष्ण्वादिभिस्तथा ।
धर्मस्तत्र स्थितः श्रीमानीश्वरायतनेऽनघ ॥ ५८.८० ॥
यत्र वीरवृषः तत्र नित्यं गोमातरः स्थिताः ।
तत्र सा नर्मदादेवी पूज्यमाना सुरासुरैः ॥ ५८.८१ ॥
तेनोदकेन तृप्यन्ति गोवत्साः सर्वदेवताः ।
ब्रह्माविष्णुः सुरेशान उमया सहितोऽनघ ॥ ५८.८२ ॥
सुराश्च ऋषयो भूताः पितरो मातरस्तथा ।
स लोकः शिवलोकोऽत्र नर्मदालोक एव च ॥ ५८.८३ ॥
ये गुणा रुद्रलोकस्य गोलोकस्य तथैव च ।
नन्दा भद्रा सुभद्रा च सुशीला सुरभिस्तथा ॥ ५८.८४ ॥
इति गोमातरः पञ्च शिवलोकविनिर्गताः ।
षष्ठी तु नर्मदादेवी लोकानुग्रहकाम्यया ॥ ५८.८५ ॥
एताः सर्वा जगत्सर्वं सर्वलोकस्य मातरः ।
तर्पयन्ति महाराज नित्यमत्रात्मिकैर्गुणैः ॥ ५८.८६ ॥
कारणाच्च शिवस्थानादीश्वरेच्छावशाऽनुगा ।
ओंकारात्सर्वलोकानामिमं लोकं समाश्रिताः ॥ ५८.८७ ॥
तृणानि खादन्ति चरन्त्यरण्ये पिबन्ति तोयानि सुनिर्मलानि ।
दुग्धं प्रयच्छन्ति पुनन्ति देहं गावो यतो जीवति जीवलोकः ॥ ५८.८८ ॥
कुतस्तेषां हि पापानि येषां गृहमलंकृतम् ।
सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम् ॥ ५८.८९ ॥
ये स्मरन्ति सदोंकारं नर्मदां च शिवात्मना ।
न तेषां पुनरावृत्तिर्घोरे संसारसागरे ॥ ५८.९० ॥
ये कुर्वन्ति परां भक्तिं तृणतोयप्रदानतः ।
प्रसादात्तु गवां तासां शिवलोकं व्रजन्ति ते ॥ ५८.९१ ॥
एताः सदानुकूलेन मातरः सर्वकामदाः ।
ये रक्षन्ति शुभा गाश्च शिवलोकं व्रजन्ति ते ॥ ५८.९२ ॥
येऽर्चयन्ति शिवं भक्त्या सद्विधानैः समाहिताः ।
ते विन्दन्ति महाभोगान् पुरं यान्ति शिवस्य वै ॥ ५८.९३ ॥
ये शिवाश्रयतीर्थानि श्रद्धया यान्ति मानवाः ।
कल्पगां च विशेषेण शैलं चामरकण्टकम् ॥ ५८.९४ ॥
ते क्रीडन्ति महाभोगैर्ब्रह्मविष्णुशिवालये ।
पयोऽमृतं घृतं क्षीरं मधुदध्यादिकं तु यत् ॥ ५८.९५ ॥
न पश्यति महाभाग कल्पगायां विमोहितः ।
एतत्ते कथितं राजन् रेवावतरणं शुभम् ॥ ५८.९६ ॥
अस्याख्यानेन भगवान् ।॰
प्रीयतां मे शिवः स्वयम् ॥ ५८.९७ ॥॰
इति श्रीस्कन्दपुराणे रेवाखण्डे शिवलोकवर्णनो नामाष्टपञ्चाशत्तमोऽध्यायः ॥
अध्याय ५९
युधिष्ठिर उवाच -
दानधर्मविधानं च श्रोतुमिच्छामि कल्पग ।
दरिद्रा भिक्षवो वापि कथं यान्ति शिवालयम् ॥ ५९.१ ॥
विधिना केन दानेन मुच्यते दुष्कृतं तथा ।
लोकानां च हितार्थाय कथयस्व महामुने ॥ ५९.२ ॥
मार्कण्डेय उवाच -
शृणु राजन् यथा न्यायं कथयामि तवानघ ।
पुष्करं बिल्वपत्रं च कुशास्तोयं च नार्मदम् ॥ ५९.३ ॥
स्वयम्भूर्भगवानाह सामान्यं धर्मकारणम् ।
श्रद्धापूताः सर्वधर्माः पुराणं श्रुतयस्तथा ॥ ५९.४ ॥
तस्योपदेशधर्मेण नरा यान्ति त्रिविष्टपम् ।
यस्तूलपूर्णविस्तीर्णं रक्तवस्त्रं ससूत्रकम् ॥ ५९.५ ॥
व्याघ्रचर्मकृतं वापि नववस्त्रावगुण्ठितम् ।
कृष्णाजिनोपवीतं च पुण्यधूपाधिवासितम् ॥ ५९.६ ॥
शिवध्यानाभियुक्ताय श्रद्धया विनिवेदयेत् ।
तत्तूलवस्त्रतन्तूनां रोमसंख्यास्ति यावती ॥ ५९.७ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
मोदते सर्वलोकेषु भुक्त्वा भोगाननेकशः ॥ ५९.८ ॥
पुनश्च क्षितिमासाद्य सिंहासनपतिर्भवेत् ।
तृणवल्कलपर्णानि शय्या प्रावरणादिकम् ॥ ५९.९ ॥
दत्त्वा तदर्थिने भूमौ शिवलोके महीयते ।
शिवमुद्दिश्य नैवेद्यं यो दद्याच्छिवदर्शिने ॥ ५९.१० ॥
शाकं मूलं फलं वापि तस्य पुण्यफलं शृणु ।
यावत्स्यात्तण्डुलादीनां संख्याफलदलेषु च ॥ ५९.११ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
भिक्षां सव्यञ्जनां दत्त्वा शिवभक्ताय भक्तितः ॥ ५९.१२ ॥
वर्षलक्षं महाभाग शिवलोके महीयते ।
दधिभक्तं सुसम्पूर्णं भिक्षापात्रं सुशोभनम् ॥ ५९.१३ ॥
दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु ।
वर्षकोटिसमं दिव्यं महाभोगैः समन्वितम् ॥ ५९.१४ ॥
स्थित्वा शिवपुरे दिव्ये तस्यान्ते च महीपतिः ।
सुशीतलेन तोयेन शिवभक्तं सितायुजा ॥ ५९.१५ ॥
तर्पयित्वा शम्भुलोके वर्षलक्षं च मोदते ।
कलशं शर्करोपेतं वस्त्रपूताम्बुपूरितम् ॥ ५९.१६ ॥
दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु ।
शुद्धस्फटिकसंकाशं विमानं सर्वकामिकम् ॥ ५९.१७ ॥
संप्राप्य शिवलोके तु वर्षकोटिं स मोदते ।
पलाशपर्णैः पत्रैर्वा यः कुर्यात्पुटकानि तु ॥ ५९.१८ ॥
प्रदद्याच्छिवयोगिभ्यस्ताम्रपात्रप्रदो हि सः ।
यस्ताम्रपात्रं सुकृतं प्रदद्याच्छिवयोगिने ॥ ५९.१९ ॥
कोटिषट्कं स कल्पानां शिवलोके महीयते ।
शूलं वहति यः पाणौ शक्तिं पृष्ठे कमण्डलुम् ॥ ५९.२० ॥
तं भोजयित्वा यत्नेन शिवलोकमवाप्नुयात् ।
भोजयेच्च यथा शक्त्या यः शिवव्रतचारिणम् ॥ ५९.२१ ॥
भोगैः स क्रीडति श्रेष्ठैः शिवलोके व्यवस्थितः ।
यः शिवाश्रमधर्मं च गृहस्थं भोजयेद्बुधः ॥ ५९.२२ ॥
विपुलैः स महाभोगैः शिवलोके महीयते ।
शिवाश्रमव्रतस्थं यः कन्दाद्यैर्भोजयेत्नरः ॥ ५९.२३ ॥
स दिव्यानाप्नुयाद्भोगानीश्वरस्य पुरे स्थितः ।
एवं पाशुपतं भक्तं भोजयित्वा प्रणम्य च ॥ ५९.२४ ॥
नानाविधैर्महाभोगैः शिवलोके महीयते ।
महाव्रतधरायैव भिक्षां यः प्रतिपादयेत् ॥ ५९.२५ ॥
स दिव्यैः शोभनैर्भोगैः शिवलोके महीयते ।
सयमनियमाचारं शिवभक्तिपरं नरम् ॥ ५९.२६ ॥
भोजयित्वा यथाशक्त्या शिवलोके महीयते ।
ज्ञानयोगबहिःस्था ये लोकसामान्यधर्मिणः ॥ ५९.२७ ॥
पूजयन्ति शिवं भक्त्या शिवलोकं व्रजन्ति ते ।
अनाशिकेनापि करीषवह्णिना पयः प्रदानेन तपोभिरुग्रैः ॥ ५९.२८ ॥
प्रयान्ति यज्ञैश्च न तां गतिं नरा ।
नीचोऽपि यां याति हि रुद्रभक्तः ॥ ५९.२९ ॥
यथा रेवाजलस्पर्शाल्लभन्ते सद्गतिं नराः ।
न तथा यज्ञदानाद्यैरुपायैर्भरतर्षभ ॥ ५९.३० ॥
इत्येष शिवलोकस्तु प्रसङ्गात्समुदाहृतः ।
गोलोकः कल्पगालोकः शिवभक्तैः समन्वितः ॥ ५९.३१ ॥
ज्ञानयोगेन ये शान्ता जपन्ति परमं शिवम् ।
ते सर्वदुःखनिर्मुक्ता भवन्ति सुखिनः सदा ॥ ५९.३२ ॥
शिवलोकश्च विज्ञेयो मण्डलावरणात्मकः ।
पञ्चभूतान्यहंकारः सत्त्वं प्रकृतिरष्टमी ॥ ५९.३३ ॥
ईदृशानां तु नागानां कोट्यो ज्ञेयाः सहस्रशः ।
सर्वाङ्गत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थितम् ॥ ५९.३४ ॥
विष्णुलोकात्परं स्थानं कुमारस्य महात्मनः ।
स्वच्छमौक्तिकसंकाशं परमा श्रीसमन्वितम् ॥ ५९.३५ ॥
स्कन्दलोकात्परं स्थानमुमादेव्याः प्रकीर्तितम् ।
तप्तचामीकरप्रख्यमशेषगुणसंयुतम् ॥ ५९.३६ ॥
उमास्थानात्परं चैव हरस्थानं तदुत्तमम् ।
सूर्यकोटिप्रतीकाशं सर्वकामसमन्वितम् ॥ ५९.३७ ॥
गणैरध्युषितं सर्वैरसंख्यैर्योगतत्परैः ।
हिरण्यगर्भकूर्माद्यैर्वसुरुद्रदिवाकरैः ॥ ५९.३८ ॥
स्तूयते भगवान्नित्यं तस्यान्ति प्रतिकाङ्क्षिभिः ।
ज्ञानध्यानपरैः शान्तैर्भिक्षाहारैर्जितेन्द्रियैः ॥ ५९.३९ ॥
प्राप्यं तैश्च परं स्थानं सूर्यायुतसमप्रभम् ।
तत्सत्कर्मकरैर्नित्यं ब्राह्मणैर्दग्धकल्मषैः ॥ ५९.४० ॥
वसन्ति यदृतं सिद्धाशयास्तु क्लेशवर्जिताः ।
नर्मदा सेव्यमानाश्च लभन्ते तत्पदं नराः ॥ ५९.४१ ॥
एतत्ते कथितं पार्थ यथोद्दिष्टं तु शम्भुना ।
यन्मया कथितं दानं नर्मदातीरमाश्रितम् ॥ ५९.४२ ॥
गच्छन्ति येऽन्यत्तीर्थं तु सहस्रांशो विशिष्यते ।
सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति ते ॥ ५९.४३ ॥
शुद्धकर्मकरा ये तु परमैश्वर्यसंयुताः ।
सदेहाश्च विदेहाश्च भवन्ति स्वेच्छया पुनः ॥ ५९.४४ ॥
इति नित्यं विशुद्धं च स्थानमाद्यमुमापतेः ।
दिव्यं श्रीकण्ठनाथस्य जगद्भर्तुः समंस्थितम् ॥ ५९.४५ ॥
स्थानं नवकमित्येवं निर्गता यत्र कल्पगा ।
परमाष्टगुणैश्वर्यनित्यमक्षयमव्ययम् ॥ ५९.४६ ॥
शश्वद्गुरुप्रणीतेन ध्यानयोगेन ये नराः ।
ध्यायन्ति देवतां नित्यं ते सिद्धा यान्ति तत्पदम् ॥ ५९.४७ ॥
येऽभ्यसन्ति शिवज्ञानं नर्मदातीरमाश्रिताः ।
कामतृष्णाविनिर्मुक्तास्तेऽपि यान्ति च तत्पुरम् ॥ ५९.४८ ॥
अप्येकदिवसं यावच्छिवध्यानपरायणः ।
शिवधर्मपरस्तस्य धर्मस्यान्तो न विद्यते ॥ ५९.४९ ॥
योगधर्मसु सारत्वादभेद्यं पापमुद्गरैः ।
वज्रतण्डुलवज्ज्ञेयं तस्मात्तस्य फलं महत् ॥ ५९.५० ॥
देहान्तेनैव धर्मेण स्थानमाद्यं शिवालयम् ।
यत्रास्ते विपुलैर्भोगैः क्रीडन् कल्पायुतं नरः ॥ ५९.५१ ॥
ततः कल्पायुतस्यान्ते स्थानं कौमारमाप्नुयात् ।
तत्रार्धसम्मितं कालं स क्रीडन् ससुखं वसेत् ॥ ५९.५२ ॥
तदन्ते विष्णुलोकं च संप्राप्य वसते पुनः ।
ब्रह्मलोकं गतश्चान्ते तत्रापि वसते नरः ॥ ५९.५३ ॥
ब्रह्मलोकपरिभ्रष्टो वसेच्छिवपुरे सुखम् ।
तत्तस्माद्ब्रह्मविष्ण्वाद्यांल्लोकान् प्राप्नोत्यनुक्रमात् ॥ ५९.५४ ॥
इत्येवं सर्वलोकेषु रमित्वा क्रमशस्ततः ।
मनुष्यलोकमासाद्य शिवं रेवां समाश्रयेत् ॥ ५९.५५ ॥
मया ते कथिताऽन्यत्र यानि दानानि भारत ।
तानि सर्वे प्रशंसन्ति पर्वतेऽमरकण्टके ॥ ५९.५६ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये शिवमहिमानुवर्णनो नामैकोनषष्टितमोऽध्यायः ॥
अध्याय ६०
मार्कण्डेय उवाच -
वैष्णवं दानधर्मं च कथ्यमानं निबोध मे ।
विष्णुयोगं समभ्यस्य सर्वक्लेशापनुत्तये ॥ ६०.१ ॥
विष्णुं सम्पूज्य विधिना घृतस्नानादिभिः स्तवैः ।
द्वादश्यां विष्णुमुद्दिश्य दद्यादेकां पयस्विनीम् ॥ ६०.२ ॥
नर्मदातीरमासाद्य तस्य पुण्यफलं शृणु ।
पूज्यते धर्मराजेन यथा विष्णुस्तथैव सः ॥ ६०.३ ॥
शैवानां वैष्णवानां च सहस्रं भोजयेत्तु यः ।
गर्भिणी धेनुसंमिश्रं वृषभैर्दशभिर्युतम् ॥ ६०.४ ॥
अर्चितं गन्धपुष्पाद्यैर्हेमवस्त्रैरलंकृतम् ।
प्रदक्षिणमुपाक्रम्य मन्त्रराजं च भक्तितः ॥ ६०.५ ॥
ओं नमो भगवते वासुदेवयेति समुच्चरन् ।
वेदविद्भिः समाकीर्णं विष्णोराराधनैः शुभैः ॥ ६०.६ ॥
नर्मदातोयमासाद्य दीपमालां प्रबोधयेत् ।
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥ ६०.७ ॥
गावो मे हृदये वापि गवां मध्ये वसाम्यहम् ।
इमं मन्त्रं समुत्थाय जपेदासां पुरो गवाम् ॥ ६०.८ ॥
गन्धतो याक्षतैर्मिश्रैर्गृहीत्वा ताम्रभाजनम् ।
शृङ्गपुच्छ जलस्नातः शुक्लवस्त्रसमन्वितः ॥ ६०.९ ॥
नर्मदास्नानपानेन गवां पुच्छाम्भसा तथा ।
सर्वकल्मषनिर्मुक्तः सुसिद्धः सुचिरव्रतः ॥ ६०.१० ॥
स्नापयित्वा गतस्तत्र स विप्रो नर्मदातटे ।
पौर्णमास्यां पूर्णचन्द्रे राहुसोमसमागमे ॥ ६०.११ ॥
तैरेव सार्द्धं विप्रेन्द्रैः संप्रपूज्य हरिं स्मरेत् ।
भृत्यपुत्रकलत्राद्यैर्युक्तः स्वजनबान्धवैः ॥ ६०.१२ ॥
निवेदयेत्तु कृष्णाय मन्त्रेण श्रद्धयान्वितः ।
श्राद्धे दाने च होमे च विवाहे मङ्गले तथा ॥ ६०.१३ ॥
गोमातरः स्थिता नित्यं विष्णुलोके शिवात्मिकाः ।
शिवायैता मया दत्ता विष्णवे च महात्मने ॥ ६०.१४ ॥
एवं विप्राय यो दद्याद्यज्ञार्थं समलंकृताः ।
एवं निवेद्य पुरुषो गोसहस्रफलं लभेत् ॥ ६०.१५ ॥
कुलानि त्रिंशदुत्तार्य नरकाद्भृत्यबान्धवान् ।
स्थापयेद्वैष्णवे लोके शिवस्य च महात्मनः ॥ ६०.१६ ॥
सर्वज्ञः परिपूर्णश्च विशुद्धः सर्वगः प्रभुः ।
संसारसागरान्मुक्तो हरितुल्यः प्रजायते ॥ ६०.१७ ॥
अनेनैव विधानेन गृहस्थाः प्राप्नुयुर्दिवम् ।
विनापि ज्ञानयोगेन गोसहस्रप्रदानतः ॥ ६०.१८ ॥
ब्राह्मणः क्षत्रियो वापि शूद्रोऽथापि च भक्तितः ।
नर्मदाकपिलायोगे यथा विभवविस्तरैः ॥ ६०.१९ ॥
ब्राह्मणाय दरिद्राय दीक्षितायोपशोभिने ।
चन्द्रसूर्योपरागे तु व्यतीपाते च संक्रमे ॥ ६०.२० ॥
षडशीति मुखे दद्यादमासोमसमागमे ।
कार्त्तिक्या वा युगादौ वा पुण्ये वाहनि भारत ॥ ६०.२१ ॥
यद्धि गायन्ति पितरो गाथामेतां नराधिप ।
अपि स्यात्स कुलेऽस्माकं पुत्रः परमधार्मिकः ॥ ६०.२२ ॥
नर्मदाकपिलायोगे कोटितीर्थे च मुक्तिदे ।
नरकादुद्धरेदस्मान् दत्त्वा गा यस्तु संयुताः ॥ ६०.२३ ॥
दशवर्षसहस्राणि लोके क्रीडति वैष्णवे ।
तस्मात्त्वमपि राजेन्द्र गोसहस्रप्रदो भव ॥ ६०.२४ ॥
देववद्दिवि मोदन्ते येन ते पितरः सदा ।
कथयामि तवाथाहमितिहासं पुरातनम् ॥ ६०.२५ ॥
युवनाश्वः पुरा राजा चक्रवर्ती महायशाः ।
शक्राच्छतगणं पुण्यं प्रजापालनतत्परः ॥ ६०.२६ ॥
अयोध्यानगरी यस्य ब्रह्मलोकसमप्रभा ।
तस्या कृतयुगे चादौ सर्वधर्मपरायणः ॥ ६०.२७ ॥
बृहस्पतिब्रह्मसमं वशिष्ठं स्वपुरोहितम् ।
अभिवाद्य यथान्यायमुवाच मुनिसत्तमम् ॥ ६०.२८ ॥
कस्मिन् स्थाने यजेद्यज्ञं तीर्थे देशे सुरालये ।
वशिष्ठप्रमुखाः सर्वे मुनयश्चेदमब्रुवन् ॥ ६०.२९ ॥
पृथिव्यां नैमिषं तीर्थं सर्वतीर्थमयं शुभम् ।
सफलो हयमेधस्तु कोटिकोटिगणोत्तरः ॥ ६०.३० ॥
पुराणे कीर्तितं राजन्मत्स्यरूपेण विष्णुना ।
सूर्येण कीर्तितं राजन्मनुपुत्राय चात्मनः ॥ ६०.३१ ॥
सर्वेषां तु पुराणानां पुराणं मत्स्यकीर्तितम् ।
वेदाश्चैव पुरा नष्टा मत्स्यरूपेण चोद्धृताः ॥ ६०.३२ ॥
वेदहीनाश्च वर्तन्ते द्विजा वै यज्ञकर्मसु ।
एवं विधं तु तत्तीर्थं युवनाश्व तवोदितम् ॥ ६०.३३ ॥
एवं श्रुत्वा ततो वाक्यं वशिष्ठस्य पुरोधसः ।
आदिदेश ततोऽमात्यान् धर्मिष्ठान् सत्यवादिनः ॥ ६०.३४ ॥
यज्ञोपस्करमादाय समागच्छत सत्वरम् ।
घोषणा क्रियतां राष्ट्रे दण्डहस्तैश्च किङ्करैः ॥ ६०.३५ ॥
आहूतास्तु ततो देवा नृपतेर्यज्ञकर्मणि ।
ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा ॥ ६०.३६ ॥
शम्भुश्चैव विशेषेण सुरासुरनमस्कृतः ।
धेनूनां दशलक्षाणि हेमरत्नान्वितानि च ॥ ६०.३७ ॥
लक्षमेकं हयानां च दन्तिनामयुतत्रयम् ।
मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम् ॥ ६०.३८ ॥
नानाविधानि द्रव्याणि भक्ष्यभोज्यमलंकृतम् ।
यज्ञद्रव्यं च यच्चान्यत्तत्सर्वसहितो नृपः ॥ ६०.३९ ॥
नानासहस्रयानैस्तु नानादेशगतैर्नृपैः ।
नानावाद्यसहस्रैस्तु नानागीतैर्मनोहरैः ॥ ६०.४० ॥
वेदघोषेण महता दिवं भूमिं विनादयन् ।
विवेश नैमिषं तीर्थं यत्र देवो महेश्वरः ॥ ६०.४१ ॥
हरिं सद्यः प्रभुं दृष्ट्वा मुच्यते यत्र किल्बिषात् ।
स्वर्गसोपानमेतत्तु प्रत्यक्षं देवलोकवत् ॥ ६०.४२ ॥
तत्र स्नात्वाऽभ्यर्च्य हरिं हरं स्वर्गमवाप्नुयात् ।
कीर्तनान्नैमिषस्यास्य नरो दहति तत्क्षणात् ॥ ६०.४३ ॥
अनेकभाविकं घोरं तूलराशिमिवानलः ।
दीक्षिता ब्राह्मणा देवाः कुतश्चित्तु समागताः ॥ ६०.४४ ॥
आर्तानामयुतं तेभ्यो ददौ देवाय चानघ ।
सहस्रमेकं नृपतिर्भूषणानां च भारत ॥ ६०.४५ ॥
ओं नमः शङ्करायेति माधवायेति चोत्तमः ।
जलदर्भौ समादाय पात्रे राजा हिरण्मये ॥ ६०.४६ ॥
एवं संकल्प्य राजेन्द्र यज्ञवाटमकारयत् ।
दशयोजनपर्यन्तं यज्ञयूपाश्च हेमजान् ॥ ६०.४७ ॥
ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः ।
मुदिता देवताः सर्वा दिव्ययानसमाश्रिताः ॥ ६०.४८ ॥
जयशब्दं प्रचक्रुस्ता राजा नान्यो भवत्समः ।
नान्यो मम समः कश्चिदित्यहंकारवान्नृपः ॥ ६०.४९ ॥
यावद्यानं समारुह्य सान्तःपुरपरिच्छदः ।
निःसृतो नैमिषारण्यात्तावत्पश्यति वानरम् ॥ ६०.५० ॥
तिष्ठ तिष्ठेत्युवाचाथ शृणु राजन् वचो मम ।
किं ते यज्ञविधानेन देवतादानकर्मणि ॥ ६०.५१ ॥
अहंकारविमूढात्मा कर्ताहमिति मन्यसे ।
पुरामरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः ॥ ६०.५२ ॥
वर्जयित्वा मुखं मेऽभूत्कण्ठाधो हेमवर्णकम् ।
ये गताः शिशवस्तेषां सर्वाङ्गाश्च हिरण्मयाः ॥ ६०.५३ ॥
कपिला नर्मदायोगे यज्ञतोयप्रवाहतः ।
स्नानावगाहनात्पानाल्लोडनात्कर्दमे तथा ॥ ६०.५४ ॥
गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः ।
त्वदीये लुलितं यज्ञे नैमिषारण्यसम्भवे ॥ ६०.५५ ॥
पङ्केन लिप्तं गात्रं मे क्षालितं चाम्बुना तथा ।
न किंचित्फलमासीन्मे तव यज्ञो निरर्थकः ॥ ६०.५६ ॥
गवां त्वयायुते दत्तं धनं धान्यं तथा बहु ।
भूभुजा सत्यधर्मेण किंतु तावन्निरर्थकम् ॥ ६०.५७ ॥
दानेन तपसा वापि त्रयो लोकाः समर्जिताः ।
सर्वेषामेव तीर्थानां माता वै मेकला स्मृता ॥ ६०.५८ ॥
एतत्ते कथितं राजन् यथाभूदमरेश्वरे ।
स्वस्ति वोऽस्तु गमिष्यामि त्वं वायोध्या प्रति व्रज ॥ ६०.५९ ॥
अहमेव गमिष्यामि नर्मदां सप्तकल्पगाम् ।
श्रुत्वा त्वदीयं यज्ञं हि नैमिषारण्यमागतः ॥ ६०.६० ॥
निराशोऽहं गमिष्यामि नाभून्मे कांचनं मुखम् ।
वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीद्वचः ॥ ६०.६१ ॥
कस्त्वं वानररूपेण सत्यमेतद्ब्रवीषि मे ।
वानर उवाच -
अहं जाबालिनः पुत्रः कदम्बो नाम विश्रुतः ॥ ६०.६२ ॥
तिर्यग्योनौ प्रविष्टश्च प्राकृतैः कर्मभिः स्वकैः ।
भ्रान्तानि सर्वतीर्थानि वेषेणानेन सुव्रत ॥ ६०.६३ ॥
परित्राणं परं नाभूत्सत्यधर्ममखोत्तमे ।
वपुर्हिरण्मयं सर्वं मुखवर्जं ममाभवत् ॥ ६०.६४ ॥
वानरस्य वचं श्रुत्वा सन्निवृत्य नृपोत्तमः ।
आराध्य देवदेवेशं नैमिषे यज्ञपूरुषम् ॥ ६०.६५ ॥
उवाच वचनं श्लक्ष्णं प्रणिपत्य प्रसाद्य च ।
मदीययज्ञे दानेन तपसा नियमेन च ॥ ६०.६६ ॥
शमिच्छं छ्रावयामास एको वानररूपधृक् ।
हिरण्मयं मुखं चास्य यथा स्यात्त्वं तथा कुरु ॥ ६०.६७ ॥
उवाच वचनं देवो युवनाश्वं महीपतिम् ।
प्रत्यक्षं नैमिषं तीर्थं सूर्यकोटिसमप्रभम् ॥ ६०.६८ ॥
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।
त्रिषु लोकेषु विख्यातो गिरिश्चामरकण्टकः ॥ ६०.६९ ॥
न च श्रुतं त्वया तात पुराणं स्कन्दकीर्तितम् ।
माता सा यत्र सरितां तीर्थानां च सरिद्वरा ॥ ६०.७० ॥
नामसंकीर्तनादस्या मुच्यते भवबन्धनात् ।
विषादं त्यज तीर्थानां प्रधानोऽमरकण्टकः ॥ ६०.७१ ॥
सत्यधर्मः पुनस्तत्र करिष्यति मखोत्तमम् ।
रेवाकपिलयोर्योगे मुखं तत्र हिरण्मयम् ॥ ६०.७२ ॥
भविष्यति न सन्देहस्तव वानरसत्तम ।
नैमिषं स नमस्कृत्य आदिदेवं हरं हरिम् ॥ ६०.७३ ॥
स्थानं स्वं च जगामाथ मुदा परमया युतः ।
नैमिषस्य वचः श्रुत्वा अयोध्याधिपतिस्तथा ॥ ६०.७४ ॥
विवेश नगरीं पुण्यां यथा शक्रोऽमरावतीम् ।
वानरोऽपि गतस्तत्र सत्यधर्मो यतः स्वयम् ॥ ६०.७५ ॥
प्रणम्य सत्यधर्माख्यमिदं वचनमब्रवीत् ।
रेवाकपिलयोर्योगे त्वदीये च महामखे ॥ ६०.७६ ॥
अवभृथस्नानजनिते कर्दमे लुठनान्मम ।
शरीरं काञ्चनीभूतं मुखमेवावशिष्यते ॥ ६०.७७ ॥
यज्ञमिष्ट्वा पुनस्तत्र मुखं मे काञ्चनं कुरु ।
गन्धर्वाधिपतिर्भूयो मुक्तो वानरयोनितः ॥ ६०.७८ ॥
हेमीभूतवपुस्तत्र यदा वानरसत्तमः ।
देवन्दुन्दुभिनादेन नानालङ्कारभूषितः ॥ ६०.७९ ॥
हंसयुक्तेन यानेन वीज्यमानोऽप्सरोगणैः ।
जगाम शाङ्करं लोकं तीर्थस्यास्य प्रभावतः ॥ ६०.८० ॥
तत्र ये श्वापदास्सर्वे तेऽपि स्नात्वा दिवङ्गताः ।
एतत्ते कथितं पार्थ यथावृत्तं पुरातनम् ॥ ६०.८१ ॥
श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं लभेत् ॥ ६०.८२ ॥
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये षष्टितमोऽध्यायः ॥
Search
Search here.