वीरमित्रोदयस्य समयप्रकाशः
ग्रंथालय > प्राचीन हिंदू साहित्य Posted at 2016-03-13 12:02:15
अथ वीरमित्रोदयस्य समयप्रकाशः ।
{१}
श्रीगणेशाय नमः ।
कोपाटोपनटत्सटोद्भटमटद्भ्रूभीषणभ्रूकुटि
भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम् ।
नीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक-
ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ॥ १ ॥
सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवलन्-
महादैत्यारम्भम्फुरितगुरुसंरम्भरभसः ।
लिहन्नाशाचक्रं हुतवहशिखावद्रसनया
नृसिंहो रंहोभिर्दमयतु मदंहो मदकलम् ॥ २ ॥
संसारध्वंसिकंसप्रमुखसुररिपुप्रांशुवशावतसभ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी ।
यच्चूडारूढगूढास्मतमधुरमुखाम्भोजशोबां दिदृक्षुर्गुञ्जाभिः सानुरागालिकानकटनटच्चन्द्रकव्यक्तचक्षुः ॥ ३ ॥
लीलाभ्रान्तिविसर्पदम्वरतया व्यग्राद्धकान्तं पदन्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकूर्माधिपम् ।
फूत्कारस्फुरदुत्पतत्फणिकुलं रिङ्गज्जटाताडनध्मातव्योमगभरिदुन्दुभि नटन्नव्यात्स वो धूर्ज्जटिः ॥ ४ ॥
कुम्भोद्भ्रान्तमधुव्रतावलिवलट्झङ्कारकोलाहलैः शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः ।
मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥
समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं
त्रिभिर्न्नैत्रैर्द्देर्भिर्दशभिरपि पान्ती दश दिशः ।
दधाना पारीन्द्रोपरि चरणमेकं परपदा
हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥
वामान् भिन्दन्नवामान् भुवमनु सुखयन्पूरयन्नर्थिकामान्
श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ।
आसीदासीविषेन्द्रद्युतिधवलयशा भूपचक्रावतसः
सीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥ ७ ॥
{२}
सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम
क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण ।
सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन
प्रख्यातः क्षोणिचक्र समजनि नुपातिर्मेदिनीमल्लनामा ॥ ८ ॥
निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्ज्जुनाभैर्यशोभिः
सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्ज्जुनो दुर्ज्जनानाम् ।
साम्राज्योपार्ज्जर्नश्रीरगणितगुणभूरर्ज्जुनप्रांशुबाहुर्-
नाम्नाभूदर्ज्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९ ॥
बुद्धिः शुद्धिमती क्षमा निरुपमा विद्यानवद्या मनो
गाम्भीर्यैकनिकेतनं वितरणे दीनार्तिनिर्दारणम् ।
आसीदर्ज्जुनभूपतेर्विदधेतो विद्रावणे विद्विषां
भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्ज्जुनम् ॥ १० ॥
तस्मादाविरभूत्प्रभूतमहिमा भूमपितेरर्ज्जुना-
त्सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारांनिधिः ।
भिन्दन् दुर्जनमर्ज्जयन् बहुयशः प्रौढप्रतापोदयैर्-
दुर्जेयो मलखाननाम निखिलक्ष्मामण्डलाखण्डलः ॥ ११ ॥
यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत्पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः ।
श्येनः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः किं वान्यद्गहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम् ॥ १२ ॥
हिमविशदयशोऽभिशोभिताशो महिमतिरोहितवारिधिप्रभावः ।
समजनि मलखानतः प्रतापैस्त्रिजगति रुद्र इव प्रतापरुद्रः ॥ १३ ॥
शुचि धनमर्थिंनि सहसा यशसा सममानने गुणो जगतः ।
पुत्रे भूरभिदध्रे चेतो रुद्रे प्रतापरुद्रेण ॥ १४ ॥
जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम् ।
कृतरिपुकाननदाहो मधुकरसाहौ महीपतिः शुशुभे ॥ १५ ॥
पृथुः पुण्याभोगैर्विहितहितयोगैरनुदयत्खलायोगैर्योगैः कृतसुकतियोगैरपि गुरुः ।
भुजस्तम्भालम्बासशयितविश्वम्भरतया बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः ॥ १६ ॥
प्रजागणरुजापहो द्युतिमहोदयाविष्कृतः
सुधांशुरिव मांसलो रसभरैः सभारञ्जनः ।
{३}
प्रदीप्तकुमुदावलिर्द्विजपतिश्च नक्षत्रपो
नृपो जयति सत्कृपो मधुकरः कृतारित्रपः ॥ १७ ॥
विन्यस्य वीरसिंहे भूपतिसिंहे महीभारम् ।
ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे ॥ १८ ॥
अन्तर्गम्भीरतान्धूकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी ।
सन्मातङ्गी तुरङ्गी धरणिपतिरभूद्वीरसिंहो नृसिंहः ॥ १९ ॥
अमुष्य प्रस्थाने सति सपदि नानेभनिवहैरिहैकोऽपि द्वेषी न खलु रणशेषी समजनि ।
परं तस्थौ दुःस्थो गहनकुहरस्थोऽपि भयतः क्षिपन्नुच्चैर्दिक्षु भ्रमितचकितं चक्षुरभितः ॥ २० ॥
दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि प्रज्ञा शक्रपुरोहितोपरि महासारोऽपि मेरूपरि ।
दावाग्नेरुपरि प्रतापगरिमा कामोपरि श्रीरभृत्सिंहातिक्रमवीरसिंहनृपतेः किं किं न कस्योपरि ॥ २१ ॥
दानैरर्थिनमर्थनाविरहिणं प्रत्यर्थिनं च क्षणात्कुर्वाणे सति वीरसिंहनिखिलक्ष्मामण्डलाखण्डले ।
कामं चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं मोघीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः ॥ २२ ॥
भ्रामंभ्राममसम्भ्रमं त्रिजगतीवक्राणि चक्रे चिराच्चारं शीलितविष्णुपादपदवीब्रह्माण्डभाण्डोपरि ।
ब्रह्माण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना विश्वेषामपि यस्य भास्वरयशोहंसी वतंसीयति ॥ २३ ॥
जलकणिकामिव जलधिं कणमिव कनकाचलं मनुते ।
नृपसिंहवीरसिंहो वितरणरंहो यदा तनुते ॥ २४ ॥
यदा भवति कुण्डलीकृतमहाधनुर्मण्डलस्तदा नयनताण्डवत्रुजितखाण्डवः पाण्डवः ।
मनोवितरणोत्सुकं वहति वीरसिंहो यदा तदा पुनरुदारधीरयमवर्णि कर्णो जनैः ॥ २५ ॥
शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणानुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि ।
{४}
संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥ २६ ॥
नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः ।
राजन्नीतिनिरीतिरीति पितरीवोर्वीमिमां शासति श्रीद्धीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥
सङ्गरामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठैश्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोध्रावटैः ।
भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम् ॥ २८ ॥
तावद्वीरगभीरहुंकृतिरवस्तावद्गजाडम्बरस्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि ।
तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥
अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूधरोऽञ्चति हियं च कर्णोऽटति ।
दधीचिरपचीयते बलिरलीकरूपायते तदातिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥
प्रासादागतडागनागमणिभूदानादिनानातपःप्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली ।
प्राचण्ड्यन जिता मिता वसुमती कोदण्डदोर्हण्डयोर्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥
ब्रह्माभूच्चतुराननः स्मरहरः पञ्चानन षण्मुखः स्कन्दो भूपजुहारसिंहयशसो गानोत्सवेऽत्युत्सुकः ।
तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः सप्तद्वीपमयी मही च विधिना विज्ञेन निर्वाहिताः ॥ ३२ ॥
तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं
श्रीमद्वीरजुहारसिंहनृपतेर्द्दानं समानं जगुः ।
व्रीडादुर्वहभारनिर्भरनमद्ग्रीवे तु देवद्रुमे
श्लाघन्ते सुलभायमानकुसु प्रास्तं भूरि देवस्त्रियः ॥ ३३ ॥
भीमो यः सहदेव एव पृतनादुर्धर्षपार्स्वा लसन्
श्रीभूमनिकुलः सदाजुनमहाख्यातिः क्षमामण्डले ।
{५}
कर्णश्रीः कृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो
रोषादेष युधिस्थिरो यदि भवेत्कः स्यादमुष्याग्रतः ॥ ३४ ॥
सत्कीर्तिग्रामदामाभरणभृतजगद्विक्रमादित्यनामा
धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण ।
सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो
विश्वोदञ्चत्प्रशंसो गुणिगणहदयानन्दनो नन्दनोऽभूत् ॥ ३५ ॥
आशापूर्त्तिप्रकुर्वन् करवितरणतः पद्मिनीप्राणबन्धुः
प्रोद्यद्दिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदाध्वस्तदोषः ।
जम्भारातेरिहोच्चैरचलसमुदयात्सुप्रभातप्रकाशी
पुत्रो राज्ञः पवित्रो रचयति सुदिनं विक्रमादित्य एव ॥ ३६ ॥
सार्थाकुर्वन्निरर्थीकृतसुरविटपी चार्थिसार्थं निजार्थैर्
व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुबुद्धिः ।
मानैर्यानादिदानैर्बहुविधगुणिभिर्गीयते यः सभायां
भ्रातर्जातः स भूयः सुकविकुलमुदे विक्रमादित्य एव ॥ ३७ ॥
दानं दीनमनोरथावधि रणारम्भोऽरिनाशावधि
क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि ।
दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि
व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥
हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं कैलाशोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् ।
भोगीन्द्रं न दधे श्रुतौ बल जटागूढां च गङ्गां व्यधाल्लोकानामयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥ ३९ ॥
श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये
श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः ।
यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतुर्-
भोक्तारं रभसात्समानमुभयोः सान्नाढयमाढयं गुणैः ॥ ४० ॥
पटु दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम् ।
स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥ ४१ ॥
ततोऽनल इवारणेरतुलधामभूर्भूभुजां
शिरोमाणरुरोमणिर्धरणिनामवाभ्रुवः ।
रथी बहुगुणी धनी भुवि वनीपकश्रीखनी
रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥
{६}
येनागत्व पुरा पुरारिनगरे विद्यानवद्यार्जिता
श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् ।
शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा
तद्वंस्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥
आस्यारविन्दमनुपास्य गुरोरपास्य
लास्यं चतुर्मुखमुखेषु सहस्वतीह ।
सालङ्कृतिश्च सरसा च गुणान्विता च
यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥
अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्चनी
कस्तूरीमकरीव भालफलके धारेव मूर्ध्न्यालकी ।
ऊर्द्ध्वं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला
यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥
सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ।
अयं सुकृतगौरवात्परशुराममिश्राङ्गणैरनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ॥ ४६ ॥
धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं
स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ।
द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया
तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती ॥ ४७ ॥
हारीतगोभिलपराशरनारदादिमुन्युक्तमर्थमखिलं हृदयेऽवधार्य ।
श्रीवीरसिंहनृपदेशितमित्रमिश्रो विद्वन्मणिः प्रकुरुते समयप्रकाशम् ॥ ४८ ॥
तत्र कालप्रकाशे तु क्रमोऽयमभिधीयते ।
नित्यकालस्वरूपं प्राव्कालोपाधिरथोदितः ॥
सम्वत्सरायनर्तूनां क्रमेणाथ विनिर्णयः ।
मासपक्षतिथीनां च क्रमेणाथ निरूपणम् ॥
सामान्यतस्तिथीनां च ग्राह्याग्राह्यविवेचनम् ।
प्रतिपन्निर्णयात्पस्चात्द्वितीयाया विनिर्णयः ॥
तृतीयानिर्णयस्यान्ते चतुर्थीनिर्णयः स्मृतः ।
पञ्चमीनिर्णयात्पश्चात्षष्ठीनिर्णय ईरितः ॥
सप्तमीनिर्णयस्यान्तेऽष्टमीसामान्यनिर्णयः ।
कृष्णजस्माष्टमी पश्चाद्विस्तरेण निरूपिता ॥
नवमीनिर्णयो रामनवम्याश्चाथ निर्णयः ।
{७}
महानवम्यास्तदनु निर्णयः समुदीरितः ॥
दशमीनिर्णयः पश्चादेकादश्या विनिर्णयः ।
द्वादशीनिर्णयस्यान्ते त्रयोदश्या विनिस्चयः ॥
सामान्यतश्चतुर्दश्या निर्णयोऽथ प्रकीर्त्तितः ।
नरसिंहचतुर्दश्या निर्णयोऽत्र प्रकीर्त्तितः ॥
अथात्रैव प्रसङ्गेन जयन्तीनां विनिश्चयः ।
ज्येष्ठकार्तिकमाघेषु चतुर्दश्र्या विनिर्णयः ॥
शिवरात्रिः पारणा च तत्राथ परिकीर्तिता ।
अथ पञ्चदशीकृत्ये श्रावणीकृत्यनिर्णयः ।
उषाकर्म प्रसङ्गेन उत्सर्गसमयास्त्रिधा ॥
कार्त्तिके पञ्चदश्यास्तु निर्णयस्तदनन्तरम् ।
होलिकानिर्णयः पर्वनिर्णयस्तदनन्तरम् ॥
ग्रहणेचैकभक्ते च नक्ते कालस्य निर्णयः ।
नक्तैकभक्तथोः प्राप्तौ निर्णयस्तदनन्तरम् ॥
अयाचितस्य नक्षत्रोपवासस्याथ निश्चयः ।
सङ्क्रान्तिनिर्णयात्पश्चान्मलमासो निरूपितः ॥
मलमासेऽथ कृत्यानामकृत्यानां च निर्णयः ।
गुरुशुक्रादिबाल्यादौ कार्याकार्यविवेचनम् ॥
श्राद्धकालेष्वमावास्या अष्टकान्वष्टका तथा ।
अष्टकापूर्वदिवसो वृद्धिः पक्षोऽसितस्ततः ॥
आश्वयुक्कृष्णपक्षश्च तत्रैव भरणी तथा ।
त्रयोदशीचतुर्दश्यौ क्रमेणेह निरूपिते ॥
प्रकीर्णकश्राद्धकालाः काम्यश्राद्धदिनं ततः ।
युगाद्याश्च युगान्ताश्च ततो मन्वन्तरादयः ॥
कल्पाद्या व्यतिपातश्च वैधृतिश्चावमं दिनम् ।
नवान्नश्राद्धकालश्च नवश्राद्धदिनं ततः ।
प्रेतपिण्डस्य कालश्च तदन्ते परिकीर्त्तितः
पाथेयश्राद्धकालश्च प्रायणोत्तरमीरितः ॥
अस्थिसञ्चंयने कालो दाने प्रेतोदकस्य च
दशादमध्ये दर्शस्य पाते प्रेतक्रिया ततः ॥
षोडशश्राद्धकालाश्च तदनन्तरमीरिताः ।
तिथिद्वैये पार्वणादिश्राद्धनिर्णय ईरितः ॥
{८}
लक्षणं चापराह्णादेः कुतपस्य निरूपणम् ।
श्राद्धवेलापिण्डदाननिषिद्धसमयास्ततः ॥
प्रकीर्णकालाः प्रतिपदाद्या पुण्यतिथिस्ततः ।
नक्षत्रवारादिवशात्पुण्याश्च तिथयस्ततः ॥
अतः परं निशायां तु कृत्याकृत्यविवेचनम् ।
चतुष्पथस्य सेवाया निषेधस्तदनन्तरम् ॥
वर्ज्जनीयानि चोक्तानि तिथिकाल्विशेषयोः ।
पर्वकृत्यं युगधर्मा युगवर्ज्वानि चाप्यथ ॥
कलिधर्माः कलिवर्ज्यान्यथोक्तानि विशेषतः ।
दीक्षाकालस्ततस्तस्यापवादः परिकीर्त्तितः ॥
नामकी त्तनकालश्चाधानकालास्ततः परम् ।
पशोः कालस्ततः कालश्चातुर्मास्येष्टिसामयोः ॥
एवमत्र विशेषेण मित्रमिश्रेण सूरिणा ।
स्मृतीः सर्वाः समालोक्य समयोऽत्र निरूपितः ॥
तत्र तावत्कालसद्भावे प्रमाणानि श्रुत्यादीनि ।
तथाहि ।
तस्मात्काल एव दद्यात्काले न दद्यादिति ऋग्वेदश्रुतिः ।
अत्र काल इत्यत्र यथाक्रमं विहिते प्रतिषिद्धे इत्यध्याहारः ।
"तं काले काल आगते यजत"इति यजुः ।
तथा, "सम्वत्सरमासादिकाल आगतेऽविजायत"इति च ।
"अहमेव कालो नाहं कालस्य"इति च ।
"काच सन्ध्या कश्चसन्ध्यायाः काल"इति सामवेदः ।
"कालं काल विभक्तिं च"इति मनुस्मृतिः ।
"श्राद्धकालाः प्रकीर्त्तता"इति याज्ञवल्क्यः ।
तथा धारणाध्यानसमाधित्रयरूपात्संयमविशेषाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्र्यन्तीति योगशास्त्रे प्रत्यक्षमपि मानमुक्तम् ।
सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति सुप्तोत्थितस्मरणान्यथानु पपत्तिकल्पितं साक्षिप्रत्यक्षमपि प्रमाणमित्यौपनिषदाः ।
सर्वेन्द्रियवेद्य इति जैमिनीयाः ।
अनादिरेष भगवान् कालोऽनन्तोऽजरः परः ।
इति पुराणमपि मानम् ।
तस्मादस्ति कालः ।
स द्विविधः अखण्डः सखण्डश्च ।
आद्य ईश्वराद्भिन्न इति तार्किकाः ।
अभिन्न इति वेदान्तिनो नवी-नतार्किकाश्च ।
ईश्वारभेदे--
श्रुतिः, स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपातेर्गुणेशः सेसारमोहस्थितिबन्धहेतुः ॥
इति ।
कालकालः = जन्यस्य सम्वत्सरादिरूपस्य कालस्याकलनात् ।
{९}
विष्णुधर्मोत्तरेऽपि--
अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः ।
कलनात्सर्वभूतानां स कालः परिकीर्त्तितः ॥
कर्षणात्सर्वभूतानां स तु सङ्कर्षणः स्मृतः ।
सर्वभूतशमित्वाच्च स तु रुद्रः प्रकीर्त्तितः ॥
अनादिनिधनत्वेन स महान्परमेश्वरः ।
इति ।
[संवत्सरनिर्णय]
एतेन परत्वापरत्वाभ्यामनुमाने आकाशादौ विनिगमकाभावादतिरिक्तकालसिद्धिरित्यपास्तं श्रुतेरेव विनिगमकत्वात् ।
एतच्च यथातथास्तु ।
नास्य कालस्यादृष्टार्थस्मरणादन्यः कर्मण्युपयोग इति न निरूप्यते ।
संवत्सरादिरूपस्तु सूर्यादिगत्यवच्छिन्नः कर्मणि"पोर्णमास्यां पौर्णमास्या यजेत्" "देशे काल उपायेन"इत्यादिश्रुतिस्मृतिभिरधिकरणत्वेन विनियुक्तत्वाद्विचार्यते ।
सूर्यादिगतिपरिच्छेद्यत्वं चोक्तम्--विष्णुधर्मोत्तरे तस्य सूक्ष्मातिसूक्ष्मस्य तथातिमहतो द्विजाः! ।
मानसङ्ख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः ॥
इति ।
प्रत्यक्षोपलभ्यमाननिमेषादिक्रियापरिच्छेदश्च तत्रैव--
लब्वक्षरसमा मात्रा निमेषः परिकीर्त्तितः ।
अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम! ॥
नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः ।
द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दश त्रुटिः स्मृतः ॥
विनाडिका तु षट्प्राणास्तत्षष्टया नाडिका स्मृता ।
अहोरात्रं तु तत्शटया नित्यमेव प्रकीर्त्तितम् ॥
त्रिंशन्मुहूर्तास्च तथा अहोरात्रेण कीर्त्तिताः ।
तत्र पञ्चदश प्रोक्ता राम! नित्यं दिवाचराः ॥
तथा पञ्चदश प्रोक्ता राम! नित्यं निशाचराः ।
उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः ॥
तथा तथा भवेद्वृद्धिर्दिवसस्य महाभुज! ।
दिवसश्च यथा राम! वृद्धिं समधिगच्छति ॥
तदाश्रितमुहूर्तानां तथा वृद्धिः प्रकीर्त्तिता ।
इत्यादि ।
तत्र श्रुतौ निमेषादिकालानां संवत्सरावयवत्वेनोक्तत्वादवयविरूपः संवत्सरः प्रधानत्वाद्विचार्यते ।
संवत्सरो नाम सम्यग्वसन्त्ययनर्तुमासपक्षतिथ्यादयोऽस्मिन्निति व्युत्पत्त्या"द्वादश
मासाः संवत्सर"इतिश्रुतेश्च द्वादशमासात्मकः कालविशेषः ।
स पञ्चविधः ।
{१०}
सौरबार्हस्पत्यसावनचान्द्रनाक्षत्रभेदात् ।
तथा च ज्योतिःशास्त्रे--
सौरबृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः ।
मातुलपातालातुलविमलवराङ्गानि वत्सराः क्रमशः ॥
इति ।
अस्यार्थः ।
गणकप्रसिद्ध्या कटपया वर्गाः ।
शुद्धस्वरः शून्यार्थः ।
तत्र वर्गाक्षरसह्खययाङ्कसङ्ग्रहः ।
तेन मातुलेत्यत्र पवर्गात्पञ्चमेन मकारेण पञ्चसङ्ख्या लभ्यते टबर्गषष्ठेन तकारेण षट्सङ्खया ।
यवर्गतृतीयेन लकारेण त्रित्वसङ्खया ।
एवं चाङ्कानां वामतो गतिरिति प्रकारेण मेलने सावनदिनानां पञ्चषष्टयधिकशतत्रयं सौरसंवत्सरो भवति ।
एवं पातालशब्द एकषष्टयधिकशतत्रयसङ्ख्यामाचष्टे ।
तावत्सूर्योदयपरिमितो बहिस्पत्यः संवत्सरः ।
एवमतुलशब्दः षष्ठ्यधिकशतत्रयसङ्खयामाह ।
तावत्सूर्योदयपरिमितस्सावनः सवत्सरः ।
एवे विमलशब्दः चतुष्पञ्चाशदधिकशतत्रयसङ्ख्यामाचष्टे ।
तावत्सूर्योदयपरिमितश्चान्द्रः ।
एव वराङ्गशब्दश्चतुर्विंशत्यधिकशतत्रयसङ्ख्यामाह तावत्सूर्योदयपरिमितो नाक्षत्रः संवत्सर इति ।
नन्वधिकमासवान्संवत्सरः कथं द्वादशमासात्मकोऽधिमासस्य त्रयोदशत्वादिति चेत्, न ।
"षष्टया तु दिवसैर्मासः कथितो बादरायणैः ।
इतिवचनात्षष्टिदिवसात्मकस्यैकमासत्वेन द्वादशसङ्ख्यानपायात् ।
"अस्ति त्रयोदशो मास"इति श्रुतिस्तु त्रयोदशदर्शान्तत्वेनेत्यदोषः ।
ये तु प्रभवादिषष्टिसंवत्सराः ते बार्हस्पत्यस्यैव भेदाः ।
माघशुक्लं समारभ्य चन्द्राकारै वासवर्क्षगौ ।
जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः ॥
इति विष्णुधर्मोक्तेः ।
ते च--
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ।
अङ्गिराः श्रीमुखो भावो युवा धातेश्वरस्तथा ॥
बहुधान्यः प्रमाथी च विक्रमोऽथ वृषस्तथा ।
चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः ॥
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ।
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥
हेमलम्बो विलम्बश्च विकारी शार्वरी प्लवः ।
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् ।
परिधावी प्रमादी च आनन्दो राक्षसोऽनलः ॥
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ।
{११}
दुन्दुभी रूधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः ॥
इति ।
एते प्रभवादयश्चान्द्रा अपीति माधवः ।
मीनादिस्थे मेषादिस्थे वा सूर्ये सौरसंवत्सरारम्भः ।
बृहस्पतिमध्यमराशिभोगेन बार्हस्पत्यारम्भः ।
यत्किञ्चिद्दिवसमारभ्य यत्किञ्चिथिमारभ्य वा चान्द्रारम्भः ।
यत्किञ्चिन्नक्षत्रादिमारभ्य सावनारम्भः ।
अथैषां विनियोगः ।
तत्र चान्द्रस्य तिलकव्रताब्दिकश्राद्धादावुपयोगः ।
तिलकव्रतमुक्तम्--
भविष्यपुराणे:
वसन्ते किंशुकाशोकशोभिते प्रतिपत्तिथिः ।
शुक्ला तस्यां प्रकुर्वीत स्नानं नियममास्थितः ॥
ललाटपट्टे तिलकं कुर्याच्चन्दनपङ्कजम् ।
ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम् ॥
विधार्यं वत्सरं यावच्छशिनेव नभस्तलम् ।
इति ।
अत्र प्रतिपत्तिथावुपक्रमविधानादस्य व्रतस्य चान्द्रसंवत्सरसाध्यत्वावगतिः ।
आब्दिके तु ब्रह्मसिद्धान्ते--
प्रतिसंवत्सरश्राद्धे मासश्चान्द्रमसः स्मृतः ।
इति ।
सुजन्मादिव्रते सौरः ।
विष्णुधर्मोत्तरे--
भगवन्कर्मणा केन तिर्यग्योनौ न जायते ।
इत्युपक्रम्य--
मेषसङ्गक्रमणे भानोः सोपवासो नरोत्तमः ॥
इत्यादिना व्रतस्वरूपमभिधाय--
व्रतं चरन् वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ।
इत्युपसंहारात् ।
एवं यत्र सङ्क्रान्तिपुरस्कारेण कर्माण्युक्त्वा"संवत्सरं प्रकुर्वीत"इत्युक्तिस्तत्र संवत्सरः सौरो ग्राह्यः ।
"ब्रह्महा द्वादशाब्दं चरेत्"इत्यादिप्रायश्चित्तादौ सावनः ।
आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।
सावनेनैव कर्तव्या शत्रूणां चाप्युपासना ॥
इतिज्योतिर्गर्गोक्तेः ।
बार्हस्पत्यस्य तु यवदानादौ--
संवत्सरे तु दादॄणां तिलदानं महाफलम् ।
परिपूर्वे तथा दानं यवानां द्विजसत्तम! ॥
इदापूर्वे च वस्राणां धान्यानां चानुपूर्वके ।
इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम् ॥
इति विष्णुधर्मोक्तेः ।
अत्र सम्परीत्यादि वत्सरशब्दस्यादिः ।
{१२}
तेन संवत्सरपरिवत्सरेत्यादिपञ्चनामका वत्सरा उक्ता भवन्ति ।
एतेषां पञ्चकस्य युगमिति संज्ञा ।
तथा च प्रभवादि प्रकृत्य--
ब्रह्मवैवर्त,--
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इदावत्सरस्तृतीयश्चतुर्थश्चानुवत्सरः ॥
इद्वत्सरः पञ्चमस्तु कालस्तु युगसंज्ञकः ।
इति ।
बार्हस्पत्य एव कदाचिल्लुप्तसंवत्सर इत्यभिधीयते ।
तथाच--
वसिष्ठः:
सहजां गतिमासाद्य यद्यतीचारगो गुरुः ।
अवशिष्टं पूर्वराशिं नायास्यत्युपभुक्तये ॥
अन्तर्भाव्योपभुक्तांशं वक्रानन्तरितं तदा ।
मासैर्द्वादशभिर्लुप्तसंवत्सर इतीरितः ॥
सहजां = वक्रातीचारभिन्नाम् ।
तथाचायमर्थः ।
यद्यतीचारगो गुरुः पूर्वराश्यवशिष्टांशानां भोगार्थं स्वाभाविकगतिमास्थितः पुनस्तं राशिं नैति तदोपभुक्तांशमतिचारभुक्तांशमन्तर्भांव्यारभ्य तद्दिनप्रभृतीतियावत्द्वादशमासं लुप्तसंवत्सरो भवतीत्यर्थः ।
अस्य क्वचिदपवादः ।
मेषे झषे वृषे कुम्भे यद्यतीचारगो गुरुः ।
न तत्र काललोपः स्यादित्याह भगवान्यमः ॥
इति ।
पराशरः--
मासान् दशैका दश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः ।
भुह्क्ते न पूर्वं न पुनस्तथापि न लुप्तसंवत्सरमाहुरार्याः ॥
लुप्तसंवत्सरे कर्मनिषेधो राजमार्तण्डे,
अतीचारगतो जीवस्तं राशिं नैति चेत्पुनः ।
लुप्तसंवत्सरो झेयः सर्वकर्मसु गर्हितः ॥
इति ।
अस्यापवादमाह--
व्यासः:
यदातिचारं सुरराजमन्त्री करोति गोवृश्विचमीनसंस्थः ।
नायात्यसौयद्यपिपूर्वराशिं शुभाय पाणिग्रहणं वदन्ति ॥
इति संवत्सरनिर्णयः ।
अथायनं निरूप्यते ।
तत्र यद्यप्ययनशब्देन"अयनं वर्त्म मार्गाध्व"इति कोशात्मार्गंसामान्यमुच्यते ।
तथाप्यत्र सौरर्त्तुत्रितयमयनमुच्यते ।
"तस्मादादित्यः षण्मासान् दक्षिणेनैति षडुतरेण"इति तैत्तिरीयश्रुतेः ।
{१३}
सौरमृतुत्रयमुपक्रम्य विष्णुधर्मोत्तरेऽपि, ऋतुत्रयं चायनं स्यादिति ।
सिद्धान्तशिरोमणावपि--
कर्किमृगादिषट्के ते चायने दक्षिणसौम्यके स्तः ।
इति ।
अस्यादित्यगतिपुरस्कारेण वि धानात्सौरत्वमेव ।
केचित्तु मार्गशीर्षादिषण्मासा उदगयनं ज्येष्ठादिष्ण्मासा दक्षिणायनमित्याहुस्तत्र मूलं ज्थोतिःशास्रे मृग्यमिति माधवः ।
अनयोश्च सौम्यदक्षिणयोर्विनियोगः उदगयन आपूर्यमाणपक्षे पुण्यनक्षत्रे चौलकर्मोपनयनगोदानविवाहादिरित्यादिः ।
तथा--
मातृभैरववाराहनारसिंहत्रिविक्रमाः ।
महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने ॥
इत्यादिः तत्तत्प्रकरणोदितस्तत्र तत्र बोध्यः ।
सामान्यतश्चोक्तं ज्योतिषरत्नमालायाम्--
गृहप्रवेशत्रिदिवप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् ।
सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे तु ॥
इति ।
इत्ययननिर्णयः ।
विष्णुधर्मोत्तरे:
पौर्णमासीषु सर्वासु मघर्क्षसहितासु च ।
दत्तानामिह दानानां फलं दशगुणं स्मृतम् ।
महती पूर्णमासी सा युक्ता पूर्णेन्दुना गुरौ ॥
ज्योतिःशास्त्रे--
दृस्येते सहितौ यस्यां दिशि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ।
तस्यां दानोपवासाद्यमक्षयं परिकीर्त्तितम् ॥
तथा:
मासाख्यर्क्षे चन्द्रगुरू तस्मात्पञ्चदशो रविः ।
पूर्णिमा जीववारे तु महच्छब्दा हि सा तिथिः ॥
इति ।
हरिक्षेत्रे च गङ्गायां सामुद्रे नैमिषे तथा ।
महाशब्दतिथौ स्नानं दानं श्राद्धमनन्तकम् ॥
इति ।
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णमासी तु सा ज्ञेया महाज्यैष्ठीति कीर्त्तिता ॥
वायुपुराणे--
आग्नेयं च यदा ऋक्षं कार्तिक्यां तु भवेत्क्वचित् ।
महती सा तिथिर्ज्ञेया स्नानदानादिषूत्तमा ॥
यदा याम्यं भवेदृक्षं पुण्यं तस्यां तिथौ क्वचित् ।
तिथिः सापि महापुण्या ऋषिभिः परिकीर्त्तिंत्ता ॥
प्राजापत्यं यदा ऋक्षं यदा तस्यां नराधिप! ।
सा महाकार्त्तिकी प्रोक्ता देवानामपि दुर्लभा ॥
मन्दे वार्के गुरौ वापि वारेष्वेतेषु च त्रिषु ।
त्रीण्येतानि च ऋक्षाणि प्रोक्तानि व्रह्नणा स्वयम् ॥
तत्राश्वमेधिकं पुण्यं स्नातस्य च भवेन्नृप! ।
दानमक्षयतां याति पितॄणां तर्पणं तथा ॥
{२४७}
ब्रह्मपुराणे--
पुण्या महाकार्त्तिकी स्याज्जीवेन्दौ कृत्तिकासु च ।
मघास्वात्योश्च जीवेन्दौ महामाघीति कथ्यते ॥
ज्योतिः शास्त्रे--
मेषस्थस्च यदा सौरिः सिंहे च गुरुचन्द्रमाः ।
भास्करः श्रवणाख्ये तु महामाघी तु सा स्मृता ॥
शातातपः--
अमावास्यां भवेद्वारो यदा भूमिसुतस्य वै ।
जाह्नवीस्नानमात्रेण गोसहस्रफलं लभेत् ॥
महाभारते:
अमा सोमेन भौमेन गुरुणा रविणा तथा ।
तत्तीर्थं पुष्करं नाम सूर्यग्रहशताधिकम् ॥
विष्णुपुराणे:
अमावास्या यदा मैत्रविशाखाऋक्षयोगिनी ।
श्राद्धे पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ॥
क्वचित्तु विशाखास्वातियोनीति पाठः ।
अमावास्या यदा पुष्ये रौद्रर्क्षे वा पुनर्वसौ ।
द्वादशाब्दीं तथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः ॥
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता ।
वारुणे चाप्यदैवत्ये देवानामपि दुर्ल्लभा ॥
माघासिते पञ्चगशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितॄणां न ह्यल्पपुण्यैर्नृप! लभ्यतेऽसौ ॥
व्यासः--
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥
शनिवारेण संयुक्ता सा महावारुणी स्मृता ।
शुभयोगसमायुक्ता शनौ शतभिषा यदि ।
महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥
अर्धोंदय उक्तो महाभारते--
अमार्कपातश्रवणैर्युक्ता चेत्पुष्यमाघयोः ।
अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥
क्वचित्तु किञ्चिदूनो महोदय इति पाठः ।
दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन ।
इति ।
कपिलषष्ठी वाराहपुराणे--
नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः ।
{२४८}
युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्त्तिता ॥
व्रतोपवासनियमैर्भास्करं तत्र पूजयेत् ।
कपिलां च द्विजाग्र्याय दत्त्वा क्रतुफलं लभेत् ॥
पुराणसमुच्चये तु--
भाद्रमास्यसिते पक्षे भानौ चैव करे स्थिते ।
पाते कुजे च रोहिण्यां सा षष्ठी कपिलाभिधा ॥
इति ।
अत्र च भाद्रपदो दर्शान्तमासाभिप्रायेण ।
तत्रैव कृब्णपक्षे षष्ट्यां रोहिणी सम्भवति ।
अयं च यदा सम्पूर्णः तदैव पुण्यः ।
तदुक्तम्--
संयोगे तु चतुर्णां तु निर्द्दिष्टा परणेष्ठिना ।
हस्तस्थसूर्यश्च फलातिशयार्थः ।
शङ्खः--
अमावास्या तु सोमेन सप्तमी भानुना सह ।
चतुर्थी भूमिपुत्रेण बुधवारेण चाष्टमी ॥
चतस्नस्तिथयः पुण्यास्तुल्याः स्युर्ग्रहणादिभिः ।
सर्वमक्षयमत्रोक्तं स्नानदानजपादिकम् ॥
शातातपः--
अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी ।
भोमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥
मार्कण्डेयः--
एकादश्यां सिते पक्षे पुष्यर्क्षं यदि जायते ।
द्वादश्यां वा तदाशेषपापक्षयकरं स्मृतम् ॥
व्यासः--
शुक्ले वा यदि वा कृष्णे चतुर्थी वा चतुर्दशी ।
भौमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥
इति ।
इति नक्षत्रवारादियोगप्रयुक्तपुण्यतिथयः ।
अथ रात्रिकरणीयवर्ज्यानि ।
रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ॥
इति रात्रिकरणीयवर्ज्यानि ।
अथ चतुष्पथसेवावर्जनकालः ।
मध्यं दिनेऽर्धरात्रे च श्राद्धं भुक्त्वा तु सामिषम् ।
सन्ध्यययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥
इति ।
इति चतुष्पथवर्जनकालः ।
{२४९}
अथ तिथिविशेषवर्ज्यानि ।
तत्र सिंहार्के शुक्लचतुर्थ्यां चन्द्रदर्शनं न कार्यम् ।
मार्कण्डेयः--
सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् ।
मिथ्याभिदूषणं कुर्यात्तस्मात्पश्र्येन्न तं तदा ॥
इति ।
षष्ठीवर्ज्यानि ।
षष्ट्यां तैलं वर्जयेदभ्यङ्गे ।
तथाच रत्नमालायाम्--
षष्ठीषु तैलं पलमष्टमीषु क्षौरक्रियां चैव चतुर्दशीषु ।
स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थं मुनयो वदन्ति ॥
इति ।
अथ सप्तमीवर्ज्यानि ।
तत्र भविष्यपुराणे--
सप्तम्यां न स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ।
न चाप्यामलकैः स्नानं न कुर्यात्कलहं नरः ॥
सप्तम्यां नैव कुर्वीत ताम्रपात्रेण भोजनम् ॥
बुधः--
निम्बस्य भक्षणं तैलं तिलैस्तर्पणमञ्जनम् ।
सप्तम्यां नैव भुञ्जीत ताम्रपात्रेण भोजनम् ॥
इति ।
अथाष्टमीवर्ज्यानि ।
तत्र व्यासः--
षष्ठ्यष्टमी त्वमावास्या पक्षद्वयचतुर्दशी ।
अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥
एषां केचिदासु तिथिषु क्रमेण निषेधमिच्छन्ति ।
षष्ठ्यां तैलमनायुष्यमष्टम्यां पिशितं तथा ।
कामभोगश्चतुर्दश्याममायां तु क्षुरक्रिया ॥
इति स्मरणात्ततोऽन्यत्र दोषाभाव इति, तन्न ।
मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी ।
इति मनुनान्यत्रापि तैलादिनिषेधात् ।
तैलनिषेधे च सर्वत्र तिलतैलस्यैव निषेधः तैलपदस्य तत्रैव
शक्तेः ।
सामान्यतोऽभ्यङ्गनिषेधे तु स्नेहनिषेध एवेति ।
अत्राष्टम्याः पर्वरूपत्वात्तत्प्रयुक्ताः सर्वे निषेधास्तत्र प्रवर्तन्ते ।
पर्वरूपत्वं चोक्तं--
विष्णुपुराणे:
चतुर्दशी अष्टमी च अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र! रविसङ्क्रान्तिरेवच ॥
{२५०}
इत्येतानि अभिधाय--
तत्रैव:
तैलस्त्रीमांसभोगी यः पर्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं नरः ॥
इति ।
पर्वपुरस्कारेण निषेधो वौधायने:
पर्वसु नादीयीत न मांसमस्नीयात्पर्वसु हि रक्षःपिशाचव्यभिचारिवीन्नतम्बिनीति ।
मनुः--
चतुर्दश्यष्टमी दर्शः पौर्णमास्यर्कसङ्क्रमः ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां च विशारदः ।
तैलं मांसं व्यवायं च क्षुरं चैव विवर्जयेत् ॥
हारीतः--
श्लेष्मातके तथालक्ष्मीर्नित्यमेव कृतालया ।
भगे मांसे क्षुरे तैले नित्यं तिष्ठति पर्वसु ॥
मत्स्यपुराणे--
छिनत्ति वीरुधो यस्तु वीरुत्सेस्थे निशाकरे ।
पत्रं वा पाटयेत्तेषां ब्रह्महत्यां स विन्दति ॥
वीरुत्संस्थे = वनस्पतिगते ।
वनस्पतिगतत्वं च त्रिमुहूर्तचतुर्थस्थत्वम् ।
त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं वसेज्जले ।
त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥
इतिस्मृतेः ।
पैठीनसिः--
सायंसन्ध्यां परान्नं च तिलपिष्टं तथैवच ।
अमावास्यां न सेवेत रात्रौ मैथुनभोजने ॥
अमावास्यां प्राप्येत्यर्थः ।
वस्तुतस्तु अमावास्यामिति सप्तम्यन्तम् ।
वस्या वास्या वसी वासी अमापूर्वा अमेति च ।
इत्येवं नवधा प्रोक्ता कृष्णपञ्चदशी तिथिः ॥
इति कोशात् ।
तथा--
नामायां हरितान् छिन्द्यात्कुशांश्च समिधस्तथा ।
अयं च निषेधो दैवपित्र्यकर्मार्थव्यतिरेकेण ।
तथाच कात्यायनेन अमायां
दर्भच्छेदनिषेधमभिधायोक्तम्--
पितृदेवजपार्थं वा समादद्यादिति ।
{२५१}
तथा कात्यायनस्मतावपि--
मासे नभस्यमावास्यां दर्भो ग्राह्यो नवः स्मृतः ।
अयातयामास्ते दर्भा नियोक्तव्याः पुनःपुनः ॥
इति ।
कुशाः शाकं च पुष्पाणि गवार्थे च तृणादिकम् ।
आहरेद्देवपित्र्यर्थममावास्याहनि द्विजः ॥
इति दीपिकाधृतवचनाच्च ।
स्मृतिससुच्चये--
सायंसन्ध्यां परान्नं च पुनर्भोजनमैथुने ।
तैलं मांसं शिलापिष्टममावास्यां विवर्जयेत् ॥
मार्कण्डेयः--
अमावास्यासु सर्वासु नवं वस्त्रं न धारयेत् ।
इति पर्ववर्ज्यानि ।
अथ कालविशेषवर्ज्याः ।
स्कन्दपुराणे--
शिरःकपालमान्त्राणि नखचर्मतिलास्तथा ।
पतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥
शिरो = नारिकेलम् ।
कपालमलावू ।
आन्त्रं = पटोलं दीर्घम् ।
नखं = निष्पावाः, चर्मौमसूर्यः ।
तिलाः = वृन्ताकमिति ।
बृहतिप्रसिद्धिरिति हेमाद्रिः ।
षट्त्रिंशन्मते--
सङ्क्रान्त्यां पञ्चदश्यां च द्वादश्यां श्राद्धवासरे ।
वस्त्रं च पीडयेन्नैव क्षुरेणापि न हिंस्यते ॥
हेमाद्रौ तु चतुर्थचरणे करेणापि हि बुध्यते इति पाठः ।
व्यासः--
तैलं न संस्पृशेदामं वृक्षादीन् छेदयेन्न च ।
पक्षादौ च रवौ षष्ट्यां रिक्तायां च तथा तिथौ ॥
अत्रामनिषेधोऽधिकनिषेधार्थः सामान्येन तैलस्य निषेधात् ।
बृहस्पतिः--
अमावास्येन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ।
नरश्चाण्डालयोनौ स्यात्तैलस्त्रीमांससेवनात् ॥
पुराणे तु पूर्वार्धे--
कुहूपूर्णेन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च ।
इति ।
उत्तरार्द्धं तदेव ।
वामनपुराणे--
नन्दासु नाब्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् ।
पूर्णासु योषित्परिवर्जनीया भद्रासु सर्वाणि समारभेत ॥
{२५२}
नाभ्यङ्गमर्के न च भूमिपुत्रे क्षीरं च शुक्रे च कुजे च मांसम् ।
बुधेन योषा न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥
चित्रासु हस्ते श्रवणेषु तैलं क्षीरं विशाखाप्रतिपत्सु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥
यमः--
तथासिताष्वष्टमीषु भूताहेन्दुक्षये तथा ।
तैलाभ्यङ्गं क्षौरकर्म स्त्रीसङ्गं च विवर्जयते ॥
वाराहपुराणे--
न मृच्च नोदकं वापि न निशायां तु गोमयम् ।
गोमूत्रं च प्रदोषे च गृह्णीयाद्बुद्धिमान्नरः ॥
अयं च निषेधः शौचाद्यतिरिक्तकर्मसु तत्र मृद्ग्रहणस्य विहित त्वात् ।
माण्डव्यः--
श्रुतिबेधजातकान्नप्राशनयात्राप्रतिमार्चाः ।
रविभवनस्थे कार्यं जीवे न कार्यो विवाहस्तु ॥
रविभवनं = सिंहराशिः ।
अयं च नर्मदोत्तरभागे, न दक्षिणे ।
तथा च---
ज्योतिःशास्त्रे:
सिंहे गुरौ सिंहलवे विवाहो नेष्टश्च गोदोत्तरतश्च यावत् ।
भागीरथीयाम्यतरं च यावत्तावच्च दोषस्तपनेऽपि मेषे ॥
स्कान्दे--
स्नानं चैव महादानं स्वाध्यायं पितृतर्पणम् ।
प्रथमेऽव्दे न कुर्वीत महागुरुनिपातने ॥
स्नानं काम्यं पुष्पस्नानादि ।
भविष्यपुराणे--
सुप्ते विष्णौ निवर्तन्ते क्रियाः सर्वाः शुभादिकाः ।
विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥
यज्ञो गृहप्रवेशश्च प्रतिष्ठा देवभूभृताम् ।
पुण्यानि यानि कर्माणि न स्युः सुप्ते जगत्पतौ ॥
इति ।
मनुः--
चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् ।
आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥
वृद्धमनुः--
आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् ।
कर्म चाध्ययनं वापि तथा दानप्रतिग्रहौ ॥
{२५३}
आहाराज्जायते व्याधिर्गर्भो रौद्रश्च भैथुनात् ।
स्वपनात्स्यादलक्ष्मीकः कर्म चैवात्र निष्फलम् ॥
अध्येता नरकं याति दाता नाप्नोति तत्फलम् ।
प्रतिग्रहे भवेत्पापी तस्मात्सन्ध्यां विवर्जयेत् ॥
तथा हेमाद्रौ स्मृतिः--
रात्रौ दानं न कुर्वीत कदाचिदपि केन चित् ।
हरन्ति राक्षसा यस्मात्तस्माद्दातुर्भयावहम् ॥
विशेषतो निशीथे तु न शुभं कर्म शर्मणे ।
अतो विवर्जयेत्प्राज्ञो दानादिषु महानिशाम् ॥
अस्यापवादो देवलेनोक्तः--
राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥
वसिष्ठोऽपि--
ग्रहणोद्वाहसङ्क्रान्तियात्रार्त्तिप्रसवेषु च ।
दानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते ॥
तथा--
यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने ।
दानान्येतानि शस्तानि रात्रौ देवालये तथा ॥
तथा हेमाद्रौ--
अश्वत्थसागरौ सेव्यौ न स्प्रष्टव्यौ कदाचन ।
कोणवारे स्पृशेत्पूर्वमुत्तरं पर्वणि स्पृशेत् ॥
कोणः = शनैश्चरः ।
तैलाभ्यङ्गे निषेध उक्तः सुमन्तुना--
तैलाभ्यङ्गो नार्कवारे न भौमे नो सङ्क्रान्तौ वैधृतौ विष्टिषष्ठ्योः ।
पर्वस्वष्टम्यां च नेष्टः स इष्टः प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः ॥
योगियाज्ञबल्क्यः--
मोहात्प्रतिपदं षष्ठीं कुहूं रिक्तां तिथिं तथा ।
तैलेनाभ्यञ्जयेद्यस्तु चतुर्भिः सह हीयते ॥
पञ्चम्यां च चतुर्दश्यां सप्तम्यां रविसङ्क्रमे ।
द्वादशीं सप्तमीं षष्ठी तैलस्पर्शे विवर्जयेत् ॥
त्रयोदश्यां तृतीयायां प्रतिपन्नवमीद्वये ।
तैलाभ्यङ्गं न कुर्वीत कुर्युर्वा नवमीं विना ॥
यच--
पञ्चमी दशमी चैव तृतीया च त्रयोदशी ।
एकादशी द्वितीया च पक्षयोरुभयोरपि ॥
{२५४}
अभ्यञ्चनस्पर्शनाद्यैर्योऽत्र स्नेहं निषेवते ।
चतुर्णां तस्य वृद्धिः स्यात्धनापत्यबलायुषाम् ॥
इति ।
गर्गेण कासां चिद्ग्रहणं तत्पव्कतैलपरम् ।
सूर्यशुक्रादिवारेषु निषिद्धासु तिथिष्वपि ।
स्नाने वा यदि वास्नाने पव्कतैलं न दुष्यति ॥
इति षट्त्रिंशन्मतादिति केचित् ।
अन्ये तु रागप्राप्ततैलविषयो निषेधः ।
एवं च सर्वतैलनिषेधप्राप्तौ पव्कं प्रतिप्रसूयते ।
विहिते च तैलाभ्यङ्गे आममप्युपादेयमेवेति सङ्क्षेपः ।
यमोऽपि--
घृतं च सार्षपं तैलं यत्तैलं पुष्पवासितम् ।
न दोषः पव्कतैलेषु स्नानाभ्यङ्गेषु नित्यशः ॥
कात्यायनोऽपि--
माङ्गल्यं विद्यते स्नानं वृद्धिपर्वोत्सवेषु च ।
स्नेहमात्रसमायुक्तं मध्याह्नात्प्रविशिष्यते ॥
इति ।
मांसनिषेधकालो नन्दिपुराणे--
यदि नाम चतुर्दश्यां सदा मांसं विवर्जयेत् ।
वर्जयेदयने मुख्ये कृतस्वर्गमतिर्नरः ॥
चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी ।
तथा पञ्चदशी वार्या षडशीतिमुखानि च ॥
सङ्क्रमे चापि सूर्यस्य विषुवे चापि वार्षिके ।
मांसात्तु विरतो मर्त्यो याति स्वर्गं दिनत्रयम् ॥
तथाचाश्वयुजं मासं वर्जयेन्मांसभक्षणे ।
बहुमासकृतं पुण्यं लभेताश्वयुजान्नरः ॥
मांसभोजनसन्त्यागात्पुरुषः सुध्धमानसः ।
यो नरः कार्त्तिके मासि मांसं तु पेरिवर्जयेत् ॥
संवत्सरस्य लभते पुण्यं मांसविवर्जनात् ।
कालनिर्णयदीपिकायां तु यदि नाम चतुर्दश्यामिति स्थाने यदि नाम च शर्वर्यामिति पाठः ।
इति कालीवेशषवर्ज्यानि ।
अथ पर्वानुष्ठेयानि ।
विष्णुः--पर्वसु अवश्यं तिलहोमान् कुर्यादलङ्कृतस्तिष्ठेतेवमाचारसेवी स्यात् ।
मनुः--(अ. ४ श्लो. १५०)
सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः ।
{२५५}
सावित्रानुसवितृदेवताकान् ।
अत्र च द्रव्यमक्षताः ।
शान्तिकामस्तु जुहुयात्गायत्र्या चाक्षतैः शुचिः ।
इति स्मृतेः ।
कात्यायनः--
पौर्णमास्याममावास्यामधः स्वापो विधीयते ।
अनाहिताग्नेरप्येष पश्चादग्नेर्विधीयते ॥
अनाहिताग्निः = स्मार्त्ताग्निमान् ।
आपस्तम्वः--दिवा आदित्यः सत्त्वीनि गोपायति ।
नक्तं चन्द्रमाः तस्मादमावास्यायां साधीयसीमात्मनो गुप्तिमिच्छेत् ।
प्राजापत्येन ब्रह्मचर्यकालेन च जायया सहैतां रात्रिं सूर्याचन्द्रमसौ वसत इति ।
प्राजापत्येनौरथ्योपसर्पणराहित्येन ।
तथा:
मासे नभस्यमावास्या तस्यां दर्भोच्चयो मतः ।
अयातयामास्ते दर्बा नियोक्तव्याः पुनः पुनः ॥
इति पर्वानुष्ठेयानि ।
अथ नानायुगधर्माः ।
तत्रौपकायनः--
श्रुतिश्च शौचमाचारः प्रतिकालं विभिद्यते ।
नानाधर्माः प्रवर्तन्ते मानवानां युगे युगे ॥
श्रुत्यादिप्रमाणं शौचादिराचारश्च प्रतिकालं प्रतियुगं भिद्यते ।
अनेन श्लोकपूर्वार्धेन प्रतियुगमाचारशब्दवाच्याग्निहोत्रादिकर्मणां भेद उक्तस्तद्भेदादेव च तत्प्रतिपादकश्रुत्यादिप्रमाणस्यापि भेद उक्तस्तत्र कर्मभेदे हेतुमाहोत्तरार्धेन--नानाधर्मा इत्यादिना ।
धर्मा अरोगत्वादयस्तदुक्तं--
मनुना,(अ. १ श्लो. ८३-८४)
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृतत्रेतादिषु त्वेषामायुर्हसति पादशः ॥
वेदोक्तमायुर्मर्त्त्यानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥
इति ।
तथारण्यके पर्वणि हनूमद्दर्शने कृतादिधर्मानुदाहृत्योक्तम्--
पादेनैकेन कौन्तेय! धर्मः कलियुगे स्थितः ।
तामसं युगमासाद्य कृष्णो भवति केशवः ॥
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।
{२५६}
ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा ।
उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा ॥
इति ।
तदयमर्थः ।
युगस्वभावादहरहरपचीयमानज्ञानकर्मेन्द्रियशक्तीनां द्विजातीनां कतिपयाङ्गसहिताग्निहोत्रादिकर्मणां प्रमादालस्यादिभिस्तत्तदङ्गहानात्तत्त्वेनाप्रत्यभिज्ञायमानानां भेदादिव तत्प्रतिपादकानां श्रुत्यादीनामपि भेद इव भवति न पुनः श्रुत्यादीनां कर्मणां वा वास्तवो भेद इत्यभिप्रायः ।
अनयैव च दिशा एवञ्जातीयकानि वचनानि बोध्यानि ।
मनुरपि--(अ. १ श्लो. ८५-८६)
अन्ये कृतयुगे धर्मास्त्रेतायां ज्ञानमुच्यते ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
तपः = कृच्छ्रचान्द्रायणादि ।
तदुक्तम्--
स्कन्दपुराणे:
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥
इति ।
परं = प्रधानम् ।
महाभारते--
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥
तथा--
तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् ।
द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः ॥
बृहस्पतिः--
तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्थितम् ।
द्वापरे चाध्वरः प्रोक्तस्तिष्ये दानं दया दमः ॥
तिष्यः = कलिः ।
शिवपुराणे--
ध्यानं परं कृतयुगे त्रेतायां लिङ्गपूजनम् ।
द्वापरेऽध्ययनं तिष्ये महादेवस्य कीर्त्तनम् ॥
तथा--
ध्यानं परं कृतयुगे त्रेतायां यजनं तथा ।
द्वापरे लिङ्गपूजा च कलौ शङ्करकीर्त्तनम् ॥
विष्णुधर्मोत्तरे--
ज्ञानं परं कृतयुगे त्रेतायां च ततः परम् ।
{२५७}
द्वापरे च तथा यज्ञः प्रतिष्ठा तु कलौ युगे ॥
कृतादिषु युगेषु प्राचुर्येण प्रवर्तमानानि प्रमाणान्याह--
पराशरः:
कृते तु मानवा धर्मास्त्रेतायां गौतमा मताः ।
द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः ॥
तपः परं कृतयुगे इत्याद्युक्तं तत्र हेतुमाह--
स एव:
कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमाश्रिताः ।
द्वापरे रुधिरे चैव कलौ त्वन्नादिषु स्थिताः ॥
प्राणनादिवृत्तिपञ्चकोपेतो वायुविशशेषः प्राणः, स चास्थिमांसादिमयेषु शरीरेषु कर्मसूत्रनिबद्धो
युगसामर्थ्यादस्थ्यादिषु स्थितो भवति ।
साक्षात्प्रवत्तिनिवृत्त्यनौपयिकानां युगस्वभावादिप्रतिपादकानां वचनानां प्रतिषेधे विशेषपर्यवसायितामाह--
स एव:
युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥
तेषामित्युपलक्षणम् ।
कामक्रोधलोभादीन् सर्वान् दोषान्कालकृतान् ज्ञात्वा कस्यापि निन्दां न कुर्यादित्यर्थः ।
नन्वेवम्--
जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च ।
जिताश्चारैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ॥
इत्यादिवचनबोधितयुगधर्मानुसारिणां प्राणिनामनिन्द्यत्वे:
धर्मं चर सत्यं वद,
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥
इत्यादीनि विधिनिषेधाविषयाणि श्रुतिस्मृतिशास्त्राण्यप्रमाणीकृतानि स्युरिति चेत्, न ।
युगानुरूपं स्वस्वसामर्थ्यमालोच्य मुक्यकल्पेनानुकल्पे न वा नित्यनैमित्तिकानि कर्माण्यनुतिष्ठता प्रतिषिद्धानि च वर्जयतां प्रमादकृतपातकप्रायश्चित्तानि चाचरतामत्यन्ताशक्तानां वानिन्द्यत्वम् ।
तदन्येषां निन्द्यत्वमिति वस्तुस्थिरिः ।
एवं सत्यपि वस्तुतो निन्द्यस्यापि स्वयं दोषान्नाविष्कुर्यादिति तेषां निन्दा न कर्तव्येत्यस्याभिप्राय इति ।
बृहस्पतिः--
कृते यदब्दाद्धर्मः स्यात्तत्र्रेतायामृतुत्रयात् ।
द्वापरे तु त्रिपक्षेण कलावहनि तद्भवेत् ॥
{२५८}
ब्रह्माण्डपुराणे--
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः ।
यथाशक्ति चरन् प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥
विष्णुपुराणे--
यत्कृते देशभिर्वर्षैस्त्रेतायां हायनेन तु ।
द्वापरे तत्तु मासेन चाहोरात्रेण तत्कलौ ॥
स्कन्दपुराणे--
ब्रह्माकृतयुगे देवस्त्रेतायां भगवान् रविः ।
द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः ॥
कृते नारायणः सूक्ष्मः शुद्धमूर्त्तिरुपास्यते ।
त्रेतायां यज्ञरूपेण पाञ्चरात्रेण द्वापरे ॥
भागवते--
कृतं त्रेता द्वापरं च कलिरित्यत्र केशवः ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥
कृते शुक्लस्चतुर्बाहुर्जटिलो बल्कलाम्बरः ।
कृष्णाजिनोपवीती च चित्रदण्डकमण्डलुः ॥
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ते तपसा देवं शमेन च दमेन च ॥
हंसानुवर्णो वैकुण्ठो वर्यो योगेश्वरोऽमलः ।
ईश्वरः पुरुषोऽसक्तः परमात्मेति गीयते ॥
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥
विष्णुर्यज्ञः पृस्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥
द्वापरे भगवान् श्यीमः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥
तं तथा पुरुंषं मर्त्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप! ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुब्यं भगवते नमः ॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥
{२५९}
इति द्वापर उर्वीशं स्तुवन्ति जगदीश्वरम् ॥
नानातन्त्रविधानेन कलावपि यथा शृणु ।
कृष्णवर्णान्वितं कृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ॥
यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः ।
एवं युगानुरूपेण भगवान्युगवर्त्तिभिः ॥
मनुजैरिज्यते राजन्! श्रेयसामीश्वरो हरिः ।
विष्णुधर्मोत्तरे--
पुष्करं तु कृते सेव्यं त्रेतायां नैमिषं तथा ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् ॥
वामदेवः--
कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥
इति नानायुगधर्माः ।
अथ नानायुगवर्ज्यानि ।
तत्र शातातपः--
त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् ।
द्वापरे कुलमेकं तु कर्त्तारं तु कलौ युगे ॥
कृते सम्माषणादेव त्रेतायां स्पर्शनेन च ।
द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥
इति नानायुगवर्ज्यानि ।
अथ कलियुगधर्माः ।
महाभारते--
यस्त्वोंनमः शिवायेति मन्त्रेणानेन शङ्करम् ।
सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥
सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ।
यस्त्वोंनमः शिवायेति मुच्यते तु कलौ नरः ॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ।
संसारदोषसङ्घानामुच्छेदनकरः कलौ ॥
तथा--
सदा तं यजते यस्तु श्रद्धया मुनिपुङ्गव! ।
लिङ्गेऽथ स्थण्डिले वापि कृतके विधिपूर्वकम् ॥
युगदोषं विनिर्जित्य रुदुरलोके प्रमोदते ।
लिङ्गपुराणे--
कलौ रुद्रो महादेवः शङ्करो नीललोहितः ।
{२६०}
प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥
ये तं विप्रास्तु सेवन्ते येन केनापि शङ्करम् ।
कलिदोषं विनिर्जित्य प्रयान्ति परमं पदम् ॥
व्यासः--
ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥
भागवते--
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते ॥
सङ्कीर्त्तनेनौहरिसह्कीर्त्तनेन ।
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥
अग्निपुराणे--
नास्ति श्रेयस्करं नॄमां विष्णोराराधनान्मुने! ।
युगेऽस्मिंस्तामसे घोरे यज्ञदेवविवर्जिते ॥
कुर्वीताराधनं राजन्वासुदेवे कलौ युगे ।
यदभ्यर्च्य हरिं भत्त्या कृते वर्षशतं नृप! ।
विधानेन फलं लेभे अहोरात्रात्कलाविति ॥
तथा:
कलौ कलिमलध्वंसं सर्वपापहरं हरिम् ।
येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः ॥
धर्मोत्कर्षमतीवानुप्राप्नोति पुरुषः कलौ ।
स्वल्पायासेन धर्मज्ञस्तेन तुष्टोऽस्म्यहं कलौ ॥
धन्ये कलौ भवेद्विप्रा अल्पक्लेशैर्महत्फलम् ॥
विष्णुपुराणे--
देवतावेश्मपूर्णानि नगराणि कलौ युगे ।
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥
कूर्मपुराणे--
गङ्गामेव निषेव्रेत प्रयागे तु विशेषतः ।
नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥
त्कन्दभविष्यपुराणयोः--
भुक्तिमुक्तिफलप्रेत्सुरल्पोपायेन चेन्नरः ।
तीर्थान्येवाश्रयेद्विद्वान्कलौ गङ्गां विशेषतः ॥
गङ्गोत्तरवहा काश्यां लिङ्गं विश्वेश्वरं मम ।
उभे विमुक्तिदे प्लंसां प्राप्ते दावानले कलौ ॥
{२६१}
नारदीये--
कलौ तत्परमब्रह्मप्राप्तये सत्वरं नॄणाम् ।
गङ्गाभजनमेवाहुर्महोपायं महर्षयः ॥
कामिकसंहितायाम्--
न भवेद्वेदमन्त्राणां संसिद्धिः शुद्धिवर्जिते ।
मन्त्रेर्विना न सिध्द्यान्ति प्रज्ञाः शुद्धिस्तु दुर्लभा ॥
काले कलौ विशेषेण शुद्धं घस्तु न दृश्यते ।
कलौ युगे हि तमसा नष्टधर्मे भयङ्करे ॥
अनवच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी ।
विना गङ्गां धर्ममयीं गतिः स्याच्च कथं कलौ ।
शिरसः कर्त्तनं तस्य प्राणत्यागोऽपि वा वरः ।
समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति ॥
भविष्यपुराणे--
कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् ।
विधिहीनक्रियाणां च गतिर्गङ्गां विना नहि ॥
अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ ।
सूर्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ॥
वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः ।
वृथा दानानि तस्येह कलौ गङ्गां न याति यः ॥
इति कलियुगधर्माः ।
अथ कलियुगवर्ज्यानि ।
ब्रह्मपुराणे--
दीर्घकालब्रह्मचर्यं धारणं च कमण्डलोः ।
गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथा ।
नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥
तथा--
ऊढायाः पुनरुद्वाहं ज्येष्ठांशो गोवधस्तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥
क्रतुः--
देवराच्च सुतोत्पत्तिर्दत्ता कन्या न दीयते ।
न यज्ञे गोवधः कार्यः कलौ च न कमण्डलुः ॥
आदित्यपुराणे--
शपथाः शकुनाः स्वप्नाः सामुद्रिकमुपश्रुतिः ।
उपयाचितमादेशाः सम्भवन्ति कलौ क्वचित् ॥
{२६२}
तस्मात्तन्मात्रलाभेन कार्यं यत्तन्न कारयेत् ।
तथा धर्मज्ञसमयवशादन्यान्यपि कलौ वर्ज्यानि ।
विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् ।
वालिकाक्षतयोन्याश्च वरेणान्येन सङ्गतिः ॥
कन्यानामसवर्णानां विवाहश्च द्विजातिभिः ।
आततायिद्विजाग्रयाणां धर्मयुद्धेन हिंसनम् ॥
द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ब्रहः ।
सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ॥
महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे ।
सौत्रामण्यामपि सुराग्रहणस्य च सङ्ग्रहः ॥
अग्निहोत्रहवण्याश्च लेहो लीढापरिग्रहः ।
वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः ॥
वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा ।
प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥
संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः ।
वरातिथिपितृभ्यश्च पशूपाकरणक्रिया ॥
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
(*)सवर्णानां तथादुष्टैः संसर्गः शोधितैरपि ॥
__________
(*) सवर्णान्याङ्गनादुष्टैरिति पाठान्तरं निर्णयसिन्ध्वादौ ।
__________
अयोनौ सङ्ग्रहे वृत्ते परित्यागो गुरुस्त्रियाः ।
परोद्देशात्मसन्त्याग उच्छिष्टस्यापि वर्जनम् ॥
प्रतिमाभ्यचनार्थाय सङ्कल्पश्च सधर्मकः ।
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥
शामित्रं चैव विप्राणां सोमविक्रयणं तथा ।
षड्मक्तानशनेनान्नहरणं हीनकर्मणः ॥
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलिता ।
आपद्वृत्तिर्द्विजाग्षाणामश्वस्तनिकता तथा ॥
प्रजार्थं तु द्विजाग्त्याणां प्रजारणिपरिग्रहः ।
व्राह्नणानां प्रवासित्वं मुखाग्निधमनक्रिया ॥
बलात्कारदिदुष्टस्त्रीसङ्ग्रहो विधिचोदितः ।
{२६३}
यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः ।
नवोदके दशाहं च दक्षिणा गुरुचोदिता ॥
ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च ।
भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा ॥
गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया ।
पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् ॥
यतेः सायंगृहत्वं च मुनिभिस्तत्त्वतत्परैः ।
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥
निवर्त्तिंतानि कर्माणि व्यवस्थापूर्वकं बुधैः ।
समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥
पुराणान्तरे--
ऊढायाः पुनरुद्बाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥
निगमेऽपि--
अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु ।
देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥
व्यासः--
चत्वार्यब्दसहस्राणि चत्वार्य्बदशतानि च ।
कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥
सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानता ।
देवलः--
यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते ।
अग्निहोत्रं च सन्न्यासं तावत्कुर्यात्कलौ युगे ॥
लौगाक्षिः--
अर्धाधानं स्मृतं श्रौतस्मार्त्ताग्न्योस्तु पृथक्कृतिः ।
सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रया ॥
इति कलिवर्ज्यानि ।
अथ दीक्षाकालः ।
कालोत्तरे--
शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ स्मृतः ।
तयोरसम्भवे वर्षा विनान्यत्रापि शस्यते ॥
शरद्वसन्तयोर्योग इति शरदि वसन्ते चेत्यर्थः ।
तत्र मासफलानि तु संहितायाम्--
असिद्धिर्भूमिसम्पत्तिर्मरणं बन्दुनाशनम् ।
{२६४}
आयुर्वृद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः ॥
शुभप्राप्तिः स्थाननाशो मेधार्थश्च वशीकृतिः ।
चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् ॥
कारणे तु अन्यथा मासफलान्युक्तानि ।
वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः ।
वैशाखे धनदायी च ज्येष्ठे मृत्युप्रदो भवेत् ॥
आषाढे पुत्रलाभाय श्रावणे शुभदो मतः ।
बाद्रे चैव ज्ञानहानिस्तथासिद्धिः प्रकीर्त्तिता ॥
आश्विने सर्वसिद्धिश्च कार्त्तिको ज्ञानसिद्धिदः ।
शुभकृन्मार्गशीर्षः स्यात्पौषो दुःखविधायकः ॥
माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता ॥
इति ।
अत्राषाढस्य सम्यक्फलता पूर्ववाक्येऽनिष्टफलदत्वमुक्तमतो विकल्पः ।
सिद्धान्तशेखरे तु विशेषः ।
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ।
फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षात्र मध्यमा ॥
आषाढः श्रावणो माघः कनिष्ठाः सद्भिरादृताः ।
निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ॥
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ।
कारणे--
आषाढपूर्वमासे च आषाढे मार्गशीर्षके ।
दीक्षां न कारयेद्धीमानन्यमासेषु कारयेत् ॥
शुक्लपक्षे शुभर्क्षे च शुभवारतिथौ तथा ।
इति ।
क्रियाकाण्डशेखरे तु--
न विना पर्व दीक्षा स्यात्वर्षासु मधुपौषयोः ।
अन्यत्र तु सदा कार्या विशुद्धौ गुरुशिष्ययोः ॥
वर्षादौ हि निमित्तानि प्रशस्तान्युपलक्ष्य वै ।
इति वर्षादिनिषिद्धकालेष्वपि शुभशकुनाद्युपलम्मे सति दक्षिकार्येत्याह हेमाद्रिः ।
अगस्तिसंहितायाम्--
शुक्लपक्षेऽथ कृष्णे वा दीक्षा सर्वसुखावहा ।
इति ।
कालोत्तरे विशेषः ।
दीक्षारम्भः प्रकर्तव्यो भूतिकामैः सिते तथा ।
मुक्तिकामैः कृष्णपक्ष इति ।
{२६६ ("२५७")}
संहितायां तु--
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ताः सर्वकामदाः ॥
इति ।
अन्यत्रापि--
कृष्णाष्टम्यां चतुर्दश्यां पञ्चपर्वदिनेऽथवा ।
इति ।
मन्त्रसारसङ्ग्रहे--
द्वितीया पञ्चमी चैव षष्ठी चापि विशेषतः ।
द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि वा ॥
इति ।
मन्त्ररत्नावल्यामपि--
चतुर्थीं नवमीं षष्ठीमष्टमीं च चतुर्दशीम् ।
पौर्णमासीं विना शेषा हिता मुक्तौ मुमुक्षुभिः ॥
हेमाद्रौ स्मृत्यन्तरे--
सप्तम्यां च नवम्यां च एकादश्यामथापि वा ।
दशम्यां च त्रयोदश्यां दीक्षाकर्म प्रशस्यते ॥
क्वचित्तु त्रयोदश्याममावास्यामिति पाठः ।
सितेन्दुज्ञगुरूणां तु परीक्षेते गुणागुणैः ॥
गुणैर्युक्ता तु सङ्ग्राह्या गुणैर्हीनां तु व्रजयेत् ।
इति ।
सितः = शुक्रः ।
ज्ञो = बुधः ।
एषां गुणागुणैः तिथिवारसंयोगजैः उदितास्तमितवक्रातिचारुरूपैर्दीक्षालग्ने केन्द्रत्रिकोणषडष्टमान्त्यस्थितिरूपैर्गुणागुणैः ।
कालोत्तरे--
चतुर्थ्यामथवाष्टम्यां चतुर्दश्यां तथैव च ।
पूर्णिमायां प्रकर्तव्यं भूतिकामैः सिते सदा ॥
मुक्तिकामैः कृष्णपक्षे यत्किञ्चित्कर्म चाचरेत् ।
दिनच्छिद्राणि मुक्त्वाथ याश्चान्यास्तिथयः स्मृताः ॥
इति ।
तत्वसागरसंहितायां विशेषः ।
तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् ।
इन्द्र उवाच ।
कस्य का तिथिरुद्दिष्टा समासाद्वद नांरद! ।
नारद उवाच ॥
ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः ।
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥
द्वितीया च श्रियः प्रोक्ता पार्वत्यास्तु तृतीयिका ।
नित्या मार्गेषु पार्वत्या अष्टमी च चतुर्दशी ॥
{२६६ ("२५८")}
चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी ।
एवं मुक्यास्तु तिथयः सुरेन्द्र! परिभाषिताः ॥
इति ।
रत्नावल्याम्--
आदित्यं मङ्गलं सौरिं त्यक्त्वा वारास्तु भूतये ।
इति ।
संहितायां तु--
रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः ।
इति ।
सिते = शुक्लपक्षे इत्यर्थः ।
संहितायाम्--
अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेव कुर्यान्मन्त्राभिषेचनम् ॥
रत्नावल्याम्--
त्रीण्युत्तराणि रोहिण्यः पुष्यकं मृगशीर्षकम् ।
हस्तः स्वातिरनुराधा मघा मूलं च रेवती ।
अभिजित्श्रवणं चे ति शिवयोगे चतुर्दशी ॥
कारणे--
पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा ।
सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैरृतमेव च ॥
तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् ।
नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रत! ॥
इति ।
पौष्णं = रेवती ।
आदित्यं = पुनर्वसुः ।
सावित्रं = हस्तः ।
त्वाष्ट्रं = चित्रा ।
वायव्यं = स्वातिः ।
ऐन्द्रं = ज्येष्ठा ।
नैरृतं = मूलम् ।
सौम्यं = मृगशीर्षकम् ।
शिष्यत्रिजन्मभं = शिष्यजन्मनक्षत्रदशमैकोनविंशातिनक्षत्रम् ।
अन्यत्रापि--
उत्तरात्रयरोहिण्यो रेवतीपुष्यवासवम् ।
धनिष्ठावायुमित्राग्निपित्र्यं त्वाष्ट्रं च नैरृतम् ॥
ऐशवैष्णवहस्ताश्च दीक्षायां तु शुभावहाः ।
इति ।
योगा अप्युक्ता रत्नावल्याम्--
योगाश्च प्रीतिरायुष्मान्सौभाग्यः शोभनः स्मृतः ।
सुकर्मा च धृतिर्बृद्धिर्ध्रवः सिद्धिश्च हर्षणः ॥
वरीयांश्च शिवः सिद्धो ब्रह्मा ऐन्द्रश्च षोडश ।
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ॥
प्रतिपत्पूर्वाषाढा च पञ्चमी कृत्तिका तथा ।
पूर्वाभाद्रपदा षष्ठी दशमी रोहिणी तथा ॥
द्वादश्यां सर्वनक्षत्रमर्यम्णा च त्रयोदशी ।
{२६७ ("२५९")}
नक्षत्रयोगा इत्येते देवानामपि नासदाः ॥
शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् ।
इति ।
कारणे--
राशयश्च चराः श्रेष्ठा मध्यमाश्चोभयोः स्मृताः ।
स्थिराश्च नैधनस्थाने ग्रहाः सर्वे विवर्जिताः ।
आचार्यशिष्ययोरानुकूल्ये शुभप्रदं भवेत् ॥
क्रियाकाण्डशेखरे--
राश्यादिवर्गसंशुद्धिर्लग्ने चर्न्द्राकयोरपि ।
बलं गोचरसिद्धिश्च ज्योतिःशास्त्रे प्रतीयताम् ॥
लग्नदोषा ग्रहदोषाः सर्वे नश्यन्ति वै शुभे ।
लग्नस्थे भार्गवे प्रौढे केन्द्रस्थे वा बृहस्पतौ ॥
इत्यादिनिपुणं वीक्ष्य दीक्षां कुर्वीत देशिकः ।
मौमुक्षवीं प्रत्ययं तु न कालनियमः स्मृतः ॥
इति ।
मन्त्रवर्णेषु सिद्धार्णात्सुसिद्धान्मेलयेद्बुधः ।
वैरिवर्णानुदासीनान् गुणयेद्दशभिः पृथक् ॥
सिद्धराशौ हरेद्भागं वसुभिर्भानुभिः स्वरैः ।
त्रिधा स्थाप्यात्र यः शेषो यामसङ्ख्योदिता हि सा ॥
त्रिधा स्थाप्यात्र यः शेषो यामसह्ख्योदिता हि सा ॥
रिपुराशिगतः शेषो मासोऽसौ परिकीर्त्तितः ।
हरेत्पञ्चदशैर्भागं तिथिज्ञानाय केवलम् ॥
मासि तस्मिन् तथा यामे कुर्वीत ग्रहणं मनोः ।
ज्योतिःशास्त्रशुनिर्णीते लग्ने वा दीक्षितो भवेत् ॥
इति ।
एतदुक्तं भवति ।
देयमन्त्रवर्णान् कोष्ठचक्रे चतुष्कोष्ठात्मकमेककोष्ठमङ्गीकृत्य सिद्धसाध्यसुसिद्धवैरिभेदेन पृथक्कृत्य तन्मध्ये सिद्धसुसिद्धवर्णानेकीकृत्य साध्यवैरिवर्णान् प्रत्येकं दशभिर्गुणयित्वा सर्वमेकीकृताह्कान् पृथक्स्थानत्रये संस्थाप्य प्रथममष्टभिर्हरेत् ।
अवशिष्टाङ्कसमो यामः ।
एवं भानुभिर्हृतेऽविशिष्टाङ्कसमो मासः ।
पञ्चदशभिर्हृते शेषाह्कसमा तिथिः ।
तत्र तस्मिन्मासे शुक्लपक्षे तस्मिन् दिने तस्मिन् प्रहरे मन्त्रमुपदिशेत् ।
मुमुक्षुदीक्षायां कृष्णपक्ष इति विशेषः ।
रत्नावल्याम्--
निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ।
संहितायाम्--
पञ्चाङ्गशुद्धदिवसे स्वोदये तिथिवारयोः ।
गुरुशुक्रोदये शुद्धलग्ने द्वादशसोधिते ॥
प्रवृद्धे बलसंयुक्ते शुक्रे दवगुरौ तथा ।
{२६८ ("२६०")}
शुभे विधुसमायोगे शुभवर्गे शुभोदये ॥
इत्यादौ सर्वमन्त्राणां सङ्ग्रहः सर्वसौख्यकृत् ।
इति ।
तथान्यत्र--
शिष्यत्रिजन्मदिवसे सङ्क्रान्तिविषुवेऽयने ।
अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः ॥
शिष्यानुकूले काले वा देहशुद्धिः सुभावहा ।
इति ।
महाकापिलपञ्चरात्रे--
एवं नक्षत्रतिथ्यादौ करणे योगवासरे ।
मन्त्रोपदेशो गुरुणा साधनं च शुभावहम् ॥
इति ।
गुरुणा कर्त्तब्य इति शेषः ।
साधनं = साधनारम्भ इत्यर्थः ।
कार्यमिति शेषः ।
अथ पूर्वोक्तदीक्षाकालापवादः ।
अगस्तिसंहिताथाम्--
सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् ।
सूर्यग्रहणकालेन न समोऽन्योऽस्ति कश्चन ॥
तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
इति ।
न मासतिथिवारादिशोधनं सूर्यपर्वणि ।
ददातीष्टं गृहीतं यत्तस्मिन्काले गुरोर्नृषु ॥
सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः ।
कर्तव्यं सर्वयत्नेन मन्त्रासिद्धिमभीप्सुभिः ॥
इति ।
तस्मिन्काले यद्गुरोर्गृहीतं तत्नृषु इष्टं ददातीति सम्बन्धः ।
प्रन्थान्तरे--
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत् ॥
कालान्तरे--
धीक्षायाममिषेके च तथा मन्त्रपरिग्रहे ।
व्रतग्रहणमोक्षे च द्रव्यारम्भणकर्मणि ॥
कार्त्तिक्यां चैव वैशाख्यां स्वर्भानोरपि दर्शने ।
चन्द्रसूर्योपरागेषु षडशीतिमुखेषु च ॥
ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेषु च ।
अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः ॥
क्रियाकाण्डशेखरे--
प्रसिद्धास्तिथयो राहुदर्शनं गुरुपर्व च ।
पवित्रकतिथिश्चापि दीक्षाकर्मविधौ परा ॥
इति ।
प्रसिद्धाः = समनन्तरोक्तास्तिथयः ।
{२६९ ("२६१")}
सिद्धान्तशेखरे--
विषुवेऽप्ययनद्वन्द्वे आषाढ्यां दमनोत्सवे ।
दीक्षा कार्या तु कालेषु पवित्रारोपकर्मणि ॥
इति ।
अन्यत्रापि--
पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
प्रयागे श्रीगिरौ काश्यां कालाकालौ न शोधयेत् ॥
देवीपीठचतुष्टयमु = ड्डीयानजालन्धरपूर्णागिरिकामरूपाख्यम् ।
श्रीगिरौ = श्रीपर्वते इति केचित् ।
अन्यत्रापि--
शशिदिनकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसङ्क्रान्तौ ।
करुणासमये च गुरोर्नक्षत्रादीष्यते न दीक्षायाम् ॥
इति ।
तत्वसागरसंहितायाम्--
तिथिं विनापि दीक्षायां विशिष्टावसरं शृणु ।
दुर्लभे सद्गुरूणां हि सकृत्सङ्ग उपस्थिते ॥
तदनुज्ञाय दातव्या स दीक्षावसरो महान् ।
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ॥
आगच्छति गुरुर्दैवाद्यदा दीक्षा तदा भवेत् ।
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ॥
न तिथिर्न जलं होमो न स्नानं न जपक्रिया ।
दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते हि सद्गुरौ ॥
इह केचित्चन्द्रग्रहे दीक्षा न कार्या जडत्वं तदा स्यादित्याहुः ।
ते तु"सत्तीर्थेऽर्कविधुग्रासे" "चन्द्रसूर्योपरागेषु च" "शशिदिवाकरयोर्ग्रहणे" "राहुदर्शनं गुरुपर्व च"इत्यादिबहुमुनिवचनविरोधातनादरणीया इति ।
विष्णुदीक्षायां विशेषः--
पञ्चरात्रे:
द्वादश्यां शुक्लपक्षस्य सूर्यसङ्क्रमणे तथा ।
द्वादश्यां कृष्णपक्षस्य पौर्णमास्यां मुनेऽथवा ॥
अमावास्यामपि तथा कालमुद्दिश्य देशिकः ।
नवैकद्वित्र्यहःपूर्वमधिवासनमारभेत् ॥
तत्त्व(न्त्र)सागरसंहितायामपि--
ब्रह्मणः पोर्णमास्युक्ता द्वादशी चक्रधारिणः ।
एवं ग्रहणादिकालेषु उक्तमासशुक्लद्वादश्यादिषु विष्णुदीक्षा कार्या इति ।
इति दीक्षांकालाः ।
{२७० ("२६२")}
अथ विष्णोर्नामकीर्त्तनकालः ।
विष्णुधर्मोत्तरे--
अथ सर्वाणि नामानि सर्वकार्ये हरेर्जपेत् ।
तथा--
चक्रिणं हलिनं चैव शार्ङ्गिणं खङ्गिनं तथा ।
मोक्षार्थी प्रवसन् राजन्!दिक्षु प्राच्यादिषु स्मरेत् ॥
अजितं चाच्युतं चैव सर्वं सर्वेश्वरं पृथुम् ।
संस्मरेत्पुरुषं भत्त्या व्यवहारेषु सर्वदा ॥
कूर्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् ।
भ्राजिष्णुमग्निजननं जपेन्नाम त्वतन्द्रितः ॥
सङ्ग्रामाभिमुखो गच्छन्संस्मरेदपराजितम् ।
केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत् ॥
नेत्रबाधासु सर्वासु हृषीकेशं तथैव च ।
अच्युतं चामृतं चापि जपेदौषधकर्मणि ॥
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ।
ज्वरदोषशिरोरोगविषवीर्यं प्रशाम्यति ।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥
दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे ।
अन्धकारे तथा तीव्रे नारसिंहेति कीर्त्तयेत् ॥
नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् ।
वामनं खङ्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ।
बलभद्रं तु युद्धार्थी कृष्यारम्भे हलायुधम् ॥
उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप! ।
मङ्गल्यं मङ्गले विष्णुं माङ्गल्येषु च कीर्त्तयेत् ॥
अग्निष्वार्त्तेष्वशेषेषु विशोकेति तथा जपेत् ।
उत्तिष्ठन्कीर्त्तयेद्विष्णुं प्रसुप्ते माधवं नरः ॥
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ।
नारायणं सर्वकाले क्षुतप्रस्खलितादिषु ॥
ध्याने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥
कीर्त्तयेद्वासुदेवं च अनुक्तेष्वपि यादवम् ।
कार्यारम्भे तथा राजन्! यथेष्टं नाम कीर्त्तयेत् ॥
सर्वाणि नामानि हि तस्य राजन्!
सर्वार्थसिध्द्यै हि भवन्ति पुसः ।
{२७१ ("२६३")}
तस्मद्यथेष्टं खलु देवनाम
सर्वेषु कार्येषु जपेत्तु भत्क्या ॥
इति विष्णोर्नामकीर्त्तनकालः ।
अथाधानकालः ।
तत्र श्रुतिः--
जातपुत्रः कृष्णकेशोऽग्नीनादधीतेति ।
एतच्च वयोवस्थाविशेषोपलक्षणम्,
तामाशिषमाशासे तं तवे ज्योतिष्मतीमिति ब्रूयाद्यद्यस्य पुत्रो जातः स्यात् ।
इत्यादिषु यद्युपबन्धदर्शनादजातपुत्रस्याप्याधानपूर्वत्वात् ।
एवं च उपलक्ष्यवयोवस्थाविशेषणीभूतवयस आधानकालत्वं सूचितं भवति ।
कालान्तरमाह--
बौधायनः, विवाहो व्याख्यातोऽत्राग्न्याधेयस्य कालो यथाश्रद्धमत ऊर्द्धं जीवति पितर्यग्नीनादधीतेति बौधायनः ।
जीवादिमृते वा जायामवाप्य दशमेऽहन्यग्निमादधीतेति शालाकिः ।
जायामवाप्येत्युत्क्या विवाहस्य सार्वकालिकत्वेन दक्षिणायनेऽपिर्वण्यपीत्युक्तं भवति ।
जीवति पितरीति पक्षे चौपासनं धारयतो न प्रत्यवाय इत्युक्तं बौधायनेनैव--"न दुर्ब्राह्मणो भवत्यौपासनं धारयमाण"इति ।
एष त्रैवर्णिकसाधारणः कालोऽधुना वर्णाविशेषपुरष्कारेण ऋतुविशेषा विविच्यन्ते ।
तत्र श्रुतिः--वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यो, वर्षासु रथकार इति ।
रथकारो न"माहिष्येण करण्यां तु रथकारः प्रजायते"इति याज्ञबल्क्योक्तो जातिविशेषः, किन्तु सौधन्वनापरपर्यायः ।
आपस्तम्बस्तु--वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षासु रथकारस्य ।
ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषा मेष कालः ।
शिशिरः सार्ववार्णिक इति ।
ये त्रयाणां वर्णानामिति ।
ये ब्राह्मणक्षत्रियवैश्याः एतेषां त्रयाणां वर्णानां मध्ये एतत्कर्म रथकर्म कुर्युस्तेषामेष काल इति, एवं च रथकारो न जातिविशेषः किन्तु त्रैवर्णिंक एवेति ।
कालान्तरमाह--
बौधायनः--यदैवैनं श्रद्धोपनमेदथादधीत सैवास्यर्द्धिः तदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्येति ।
आर्त्तः = व्याधितः ।
अतिवेलं श्रद्धायुक्तोऽतिशयेन श्रद्धावान् ।
{२७२ ("२६४")}
अथ कामनाविशेषेण ऋतव उक्ताः ।
कात्यायनेन--वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ग्रीष्मः क्षत्रियश्रीकामयोः वर्षाः प्रजापशुकामवैश्यरथकृतामिति ।
एतेन ब्राह्मणक्षत्रियवैश्यानां काम्या अन्येऽपि काला इति सिद्धम् ।
वसन्तादयो द्विविधाः ।
सौरचान्द्रभेदेन ऋतुविवेचने = क्ताः ।
सौरा अपि मीनमेषौ मेषवृषौ वेत्यादिभेदेन द्विविधा इत्यपि चोक्तम् ।
एवं च चैत्रवैशाखज्येष्ठास्तथा पूर्वोदाहृतात्"शिशिरः सार्ववर्णिक"इत्येतस्मान्माघफाल्गुनौ च मिलित्वा पञ्च मासा ब्राह्मणस्याधानकाल इति सिद्धम् ।
एतन्मूलिकैव माघादिपञ्चमासा वसन्त इति याज्ञिकप्रसिद्धिरिति ।
अथ तिथयः ।
तत्रापस्तम्बः--अमावास्यायां पौर्णमास्यां वा अधिय इति,
तथा फाल्गुनीपूर्णमास आदधीतेत्युक्त्वा द्व्यहे पुरैकाहे वेति ।
द्व्यहे दिनद्वयं, पुरा पूर्वमेकाहे एकदिनपूर्वमित्यर्थः ।
एवं च द्व्यहेतिपक्षे त्रयोदश्याम् ।
एकाहेतिपक्षे चतुर्दश्यामादधीतेत्यर्थः ।
बौधायनसक्तु-या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्सवंत्सरस्य रोहिण्या सम्पद्यते तस्यामादधीतेति ।
आश्वलायनः-वसन्ते पर्वणि आदधीतेति ।
सत्याषाढस्तु--आदधीतेत्युपक्रम्य--आमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रेऽत्र यत्त्रीणि निपतन्ति तत्समूहम् ।
विप्रतिषेधे ऋतुनक्षत्रं बलीय इति ।
पुण्यनक्षत्राणि तु कृत्तिकादिचतुर्दशनक्षत्राणि"कृत्तिकाः प्रथमं"इत्यादि श्रुतेः ।
वाजसनेयके तु नक्षत्रनिन्दापूर्वकमुक्तम्--अमवास्यायामग्नीनादधीतेति, तेन पर्वाभ्यर्हितमिति ।
अथ नक्षत्राणि ।
तत्र कात्यायनः--कृत्तिकारोहिणीमृगशिरः फल्गुनीषु हस्तो लाभ कामस्य चित्रा चेति ।
बौधायनः--कृत्तिकासु रोहिण्यां पुनर्वसुफल्गुन्योश्चित्रायामिति ।
आश्वलायनः-अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषामेकस्मिन् कस्मिंश्चित् ।
आपस्तम्बस्तु--कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्र्हनवर्चसी भवति ।
गृहांस्तस्याग्निर्द्दाहको भवति ।
रोहिण्यामाधाय सर्वान् रोहान् रोहति ।
मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा यः पुराभद्रः सन्पापीयान् स्यात्स पुनर्वस्वोरादधीत ।
{२७३}
पूर्वयोः फल्गुन्योर्यः कामयेत, दानकामा मे प्रजाः स्युरिति ।
उत्तरयोर्यः कामयेत फलदः स्यादिति ।
एतदेव विपरीतमथापरं पूर्वयोराधाय पापीयान् भवति उत्तरयोर्वशीयान् हस्ते यः कामयेत प्रमे दीयेतेति चित्रायां राजन्यो भ्रातृव्यवान् विशाखयोः प्रजाकामोऽनुराधे वृद्धिकामः उत्तरेषु प्रौष्ठपदेषु प्रतिष्ठाकामः सर्वाणि नित्यवदेके समामनन्ति ।
अस्यार्थः ।
मुख्यः = श्रेष्ठः ।
कल्वान् रोहान् गजादीन् रोहति आरोहति ।
पुराभद्रः = पूर्वाफल्गुनीफलमुत्तराफल्गुनीषु, उत्तराफल्गुनीफलं पूवीफल्गुनीष्वित्यर्थः ।
अत्र अकाम्यमानमपि अनिष्टं फलं भवति वस्तु सामर्थ्यात्"यो ब्राह्मणायावगुरेतितिवत् ।
गर्गसंहितायाम्--
पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठाचित्राकादिदैवत्यभेषु ।
कुर्युर्वह्नयाधानमाद्यं वसन्तग्रीष्मोष्मान्तेष्वेव विप्रादिवर्णाः ॥
पौष्णं = रेवती ।
कः = ब्रह्मा तद्देवत्या रोहिणी ।
आद्यं = प्रथमाधानम् ।
अत्राद्यमित्युपादानात्पुनराधानादौ न ऋतुनक्षत्रादिनियमः ।
अपूर्वेऽपि सोमपूवीधाने न ऋतुनक्षत्रादर इत्युक्तम्--आपस्तम्वेन,
सोमेन यक्ष्यमाणो नर्त्तुं सूर्क्षेन्न नक्षत्रमिति ।
यः सर्वकर्मभ्योऽग्निहोत्रदर्शपूर्णमासादिभ्यः पूर्वं सोममेव कर्तुमिच्छति स ऋतुं नक्षत्रं च न सूर्क्षेतौनाद्रियेत ।
पर्व तु अपेक्षेदेव तथाच--
धूर्तस्बामिः-सोमाधानमेकदीक्षापक्षे पर्वण्येव नैकादश्यादिषु सोमाधानस्य पवीपेक्षणादिति ।
रुद्रदत्तेन तु नक्षत्रग्रहणं प्रदर्शनार्थमिति न पर्वादर इति उक्तम् ।
अत्रेदं विचार्यते ।
किमनेन सोमकालमात्रबाध उताधानमात्रकालबाध उक्त इति ।
नाद्यः, प्रकरणादाधानकालमात्रबाधो युक्तो न सोमस्य तस्याप्रकृतत्वात् ।
किञ्च न हि सोमे आपस्तम्बेन नक्षत्राण्युक्तानि येन कथञ्चिद्बुद्धिस्थतामात्रेण बाध उच्येतेति ।
न द्वितीयः ।
एवं सति अत्र वाक्ये ब्राह्मणं प्रति ऋत्वनादरकथनमनर्थं स्यात्, सोमकालत्वेनाधानेऽपि वसन्तस्यावर्जनीयत्वात् ।
न च वसन्तस्तदानीं सोमाङ्गमेव नाधानाङ्गमिति वाच्यम् ।
तस्य साधारणत्त्वात् ।
कालस्य हि अधिकरणत्वेनैवोपकारकत्वम् ।
सति च तस्मिन् कथं नाङ्गत्वमिति ।
किञ्च उत्कर्षाद्ब्राह्मणस्य सोमः स्यादित्यन्तरागर्भिण्यधिकरणे"सोमेन यक्ष्यमाण"इत्यत्र दर्शपूर्णमासोत्तरकालतारूपः सोमकाल आधानसोमयोरेकाहसम्बन्धेन बाध्यत इत्युक्तम् ।
{२७४}
तत्तुल्यन्याये नात्रापि वसन्तानादरेण कालान्तरे आधाने क्रियमाणे सोमाधानयोरेकाहसम्बन्धार्थं सोमस्याप्यृतुर्बाध्यत एव तस्मान्न सोमकालमात्रस्य न वाधानकालमात्रस्य बाधः अतो वचनमनर्थकमिति ।
अत्र वदामः ।
सत्यं, नैकमात्रकालबाध इति, किन्तु सोमाधानयोर्द्वयोरपि कालो बाध्यते ।
तत्र परं वसन्त उभयाङ्गभूतो बाध्यते ।
नक्षत्रं तु आधानाङ्गभू तमेवेति ।
अत एव"यदैवैनं यज्ञ उपनमेदथादधीत"इति भारद्वाजेन नक्षत्राद्यनादर उक्तो यक्ष्यमाणत्वाभिसन्धिमत इति न किञ्चिदनुपपन्नम् ।
उत्तरायणं सर्वमाधानकाल इत्युक्तमाचार्यैरित्युक्तं बौधायनभाष्ये केशवस्वा मिना ।
यद्यपि ज्योतिःशास्त्रे लग्नाद्युक्तमाधाने, तथापि तदुपादेयमेव तस्य स्मार्त्तत्वेऽपि आधानपुरष्कारेणैव विहितत्वादनन्यथासिद्धत्वेनावश्यमुपसंहर्त्तव्यत्वात् ।
अपरे तु स्मार्त्तत्वेनास्य स्मार्त्ताधान एवोपसंहारो न श्रौताधान इति वदन्ति ।
एतच्च मलमासादिषु तथा गुरुशुक्रमौढ्यादिषु न कार्यम् ।
इत्याधानकालः ।
अथ निरूढपशुबन्धकालः ।
तत्र याज्ञवल्क्यः-(अ. १ श्लो. १२५)
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥
इति ।
अयनमयनं प्रतीति प्रत्ययनं प्रतिदक्षिणायनं प्रत्युत्तरायणं चेत्यर्थः ।
अत्रायनस्य सम्पूर्णसाधारणत्त्वेऽपि अयनाद्यदिन एव कार्यम् ।
"आवृत्तिमुख आवृत्तिमुखे"इत्यापस्तम्वस्मरणात् ।
आवृत्तिः ।
उत्तरावधेर्मकराद्दक्षिणावधेर्वा कर्कात्सूर्यस्य परावृत्तिस्तस्य मुखमाद्यं दिनमित्यर्थः ।
निरूढपशुबन्धमुपक्रम्य कालान्तरमाह--
आपस्तम्बः--संवत्सरे संवत्सरे यजेत षट्सु षटूसु वा मासेष्वित्येके ।
ऋतुव्यावृत्तौ सुयवसे वेति ।
संवत्सरे पूर्णे इति शेषः ।
तेन वर्षान्तरे आधानदिवस इत्यर्थ इत्येके भाष्यकृतः ।
केचित्तु
"उपपदविभक्तेः कारकविभक्तिर्बलीयसी"इत्यनुशासनात्संवत्सरस्यैवाधिकरणत्वे तत्र च कदेत्यपेक्षिते ऋतुव्यावृत्तावित्येकः सुवयस इत्यपर इति कालद्वयम् ।
ऋतुव्यावृत्तौ = र्सवत्सरमध्ये यस्मिन् कस्मिंश्चितृतुव्यावृत्तिदिन इत्यर्थः ।
सुयवसे = सुष्ठुयवसमर्जुनं तृणं यस्मिन् वर्षास्वित्यर्थः ।
भाष्यकारमते ऋतुव्यावृत्तौ प्रतिऋतुव्यावृत्तावेवं संवत्सरे षटिति पक्षान्तरं सुयवस इति च पक्षान्तरं स्वतन्त्रमेव संवत्सरपक्षादिति ।
{२७५}
षट्सु षट्सु मासेषु इति च पक्षान्तरम् ।
षण्मास इत्यप्याधानप्रभृतिषण्मासपूर्त्तौ बोध्यमिति भाष्यकृतः ।
केषांचिन्मते तु षण्मासे इत्येतत्पक्षे आवृत्तिमुख इति योजयन्ति ।
एवं च भाष्यकारमते प्रतिसंवत्सरमाधानदिन इत्येकः पक्षः, आधानदिनात्षट्सु
षट्सु मासेष्विति द्वितीयः, संवत्सरमध्ये प्रतिऋतुव्यावृत्ताविति तृतीयः, संवत्सरमध्ये वर्षाकाल एवेति चतुर्थः ।
आवृत्तिमुख इति पञ्च कालाः ।
केषाचिन्मते तु संवत्सरे संवत्सरे इति पक्षे यस्मिन् कस्मिंश्चिदृतावेकः, सुयवसे वेत्यपरः, षट्सु षट्सु मासेषिति पक्षे च आवृत्तिमुख इति तृतीय इति ।
अत्र च प्रतिनियतदिनपक्षे न पर्वनियमः ।
पक्षान्तरे तन्नियम एव यदि स्तोतिवचनात् ।
कात्यायनोऽपि कालद्वयमाह--पश्विज्या संवत्सरे संवत्सरे प्रावृषि आवृत्तिमुखयोर्वेति ।
कालान्तरमाह बौधायनः-पशुबन्धेन यजेतेत्युपक्रम्य आमावास्येन वा हविषेष्ट्वा नक्षत्रे वेति ।
आमावास्येन हविषेष्ट्वेति यजनीयमहः ।
अपरे तु शुक्लपक्षः सम्पूर्ण इति आहुः ।
नक्षत्रे = कृत्तिकाः प्रथमं विशाखा उत्तममिति तैत्तिरीयशाखोक्तचतुर्दशपुण्यनक्षत्रेष्वित्यर्थः ।
अथवा न क्षीयते चन्द्रमा अस्मिन्निति नक्षत्रं पौर्णमासीत्यर्थ इति ।
एतन्मते पौर्णमास्यां दर्शपौर्णमास प्रयोगारम्भात्पौर्णमासीमारभ्य दर्शपर्यन्तं न कर्मान्तरारम्भः, न कर्मवति कर्मान्तरारम्भ इति नियमात् ।
भाष्यकारस्तु ततो नानीजानं पशुना संवत्सरोऽतीयादित्यर्थवादान्तर्गतवाक्यपर्यालोचनया आधानदिवसात्संवत्सरमध्ये यस्मिन् कस्मिंश्चित्पर्वणि पशुः कार्य इति षष्ठं कालमाह ।
एष च पुशुर्नित्यः"संवत्सरे संवत्सरे"इति प्रत्ययनमिति च वीप्साश्रवात्, एतदकरणे मन्वाद्युक्तप्रायश्चित्तस्य वक्ष्यमाणत्वाच्च ।
इति पशुकालः ।
अथ चातुर्मास्यानां कालो निर्णीयते ।
तत्र चातुर्मास्यानि कर्तव्यानीत्युक्तं याज्ञबल्क्येन--चातुर्मास्यानि चैव हीति ।
कर्तव्यानीत्यनुषङ्गः ।
तत्र चातुर्मास्यपदं वैश्वदेववरुणप्रघाससाकमेधशुनासीरीययागसमुदायनामधेयं राजसूयवत् ।
तानि च यावज्जीविकप्रयोगवन्ति, संवत्सरप्रयोगवन्ति, द्वादशाहप्रयोगवन्ति चेति त्रिविधानि ।
प्रयोगपर्याप्रकालपरिसमाप्यान्यपि केचिन्मन्यन्ते ।
तत्र संवत्सरप्रयोगवन्त्यपि द्विविधानि, ऋतकुयाजिकल्पेन चातुर्मास्ययाजिकल्पेन चेति ।
{२७६}
एतेषां प्रयोगाणां भेदे च प्रमाणं वक्ष्यमाणतत्तत्कालविधित एवावसेयम् ।
तत्र सर्वेषां प्रयोगाणां दर्शपौर्णमासोत्तरकर्तव्यत्वमुक्तं,"दर्शपौर्णमासाभ्यामिष्ट्वा"इत्यनेन ।
अधुना सांवत्सरिकादिप्रयोगेषु कालविशेषो विविच्यते ।
तत्र सांवत्सरिकप्रयोगे ऋतुयाजिकल्पे वैश्वदेवादिकाल उक्त आपस्तम्बेन ।
वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते ।
अत्र त्रिषु पर्वसु नियतः काल उक्तः ।
शुनासीरीये तु ऋतुयाजिसंज्ञानुरोधाच्छिशिर एव ग्राह्य इति प्रतिभाति ।
अत्रापि पक्षे शुक्लपक्षः अपेक्षित एव ।
"उदगयन आपूर्यमाणपक्षे समस्तानि वैकल्पिकेषु
अनेकेषु कालेषु सत्स्वपि"इत्यनेन भारद्वाजवचनेनोक्तस्य तस्याबाधेनैवोपपत्तौ बाधकल्पनायोगात् ।
चातुर्मास्ययाजिकल्पे तथा यावज्जीवप्रयोगेऽपि काल उक्तेनैव यश्चतुर्षु चतुर्षु मासेषु यजते स चातुर्मास्ययाजी ।
तत्रापि नियममाह-फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजेत ।
ततश्चतुर्षु मासेषु आषाढ्यां वा श्रावण्यां वरुणप्रघासैर्यजेत ।
ततश्चतुर्षु मासेषु पूर्वस्मिन् पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजेत ।
ततो द्व्यहेत्र्यहे चतुरहेऽर्द्धमासे मालि चतुर्षु वा मासेषु शुनासीरीयैरिति ।
अत्र यदा फाल्गुन्यामुपक्रमस्तादाषाढ्यामित्यादि, यदा चैत्र्यां तदा श्रावण्यामिति ।
अस्य पक्षस्य
ऋतुयाजिपक्षादयमेव भेदो यदृतुयाजि पक्षे वसन्तान्ते वैश्वदेवैरिष्ट्वा प्रावृडाद्यपर्वणि वरुणप्रघासानुष्ठानमपि सम्भवति ।
चातुर्मास्ययाजिपक्षे चतुर्षु चतुर्षु च मासेष्विति नियम इति ।
द्वादशाहकल्पं बौधायनभारद्वाजावाहतुः ।
तत्र भारद्वाजः--द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्याभ्यां द्वितीये वैश्वदेवेन तृतीये चतुर्थे वोपरम्य पञ्चमे वरुणप्रघासैः षष्ठे सप्तमे वोपरम्याष्टमे नवमे वा साकमेधैर्दशमे एकादशे वोपरम्य द्वादशे शुनासीरीयया, त्रयोदशे पशुरिति संवत्सरप्रतिमा वै द्वादश रात्रयः संवत्सरमेव यजेतेति विज्ञायते ।
त्रयोदशे पशुरिति यदि पशुना समाप्तिस्तत्पक्षे बोध्यम् ।
अत्र द्वितीयादिपदानि द्वितीयादितिथिपराणि प्रतिपदीति उपक्रमात्स्पष्टे चोक्तं बौधायनेन--
द्वादशाहेऽपि चातुर्मास्यैर्यजेताथ प्रथमायां वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां नवम्यां च साकमेधेः द्वादश्यां शुनासीरीयैः पुरुषो यजेतेति विज्ञायत इति ।
{२७७}
कालान्तरमप्युक्तं बौधायनेन--
नक्षत्रे प्रयोग इत्येक आहुरूदगयन आपूर्यमाणपक्षे पुण्याहे प्रयुञ्जीतेति ।
अत्र पक्षे आपूर्यमाणस्य पक्षस्य पुण्यनक्षत्रे उपक्रमः ।
नक्षत्रे प्रयोग इत्येतस्य विशेषणमुदगयनत्वादीति तद्भाष्यकृतः ।
यावज्जीविकप्रयोगपक्षे आरम्भस्तु चातुर्मास्ययाजिकल्पेनैव ।
द्वितीयसंवत्सरे परं विशेष उक्तो बौधायनेन-
कथमु खलु यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्यां शुनासीरीयपुरुषो य जेताथ वैश्वदेवायोपवसेत्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्टया पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपुरुषो यजेतैषामेकेन यजेताथ वैश्वदेवायोपवसेत्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति ।
अथो एतद्बौधायनस्य पक्षं वेदयन्ते याव्जजीविकान्येव चातुर्मास्यानि स्युरिति ।
अनुप्रयोगो = द्वितीयः प्रयोगः ।
अत्र यदा फाल्गुन्यां पूर्वसंवत्सरे उपक्रमस्तदा फाल्गुन्यां यदा चैत्र्यामुपक्रमस्तदा चैत्र्यामिति ।
अथ चेदिष्ठ्येति यदि प्रयोगसमाप्त्यर्थमिष्ट्यादि क्रियते तदायं क्रमः ।
चेदित्युक्त्या यावज्जीवप्रयोगसमाप्त्यर्थैकत्वात्पश्वादीनां पाक्षिकत्वमिति ।
अथो एतद्बौधायनस्येत्याद्युत्त्या च यावज्जीविकप्रयोगोऽपि पाक्षिको बोध्यः ।
कालान्तरमपि बौधायन आह--
यथाप्रयोगमित्यौपमन्यव इति ।
यथाप्रयोगमिति यावता कालेन प्रयोगसमाप्तिर्भवति तावति काले सन्ततं पूर्वाह्नादौ कुर्यादिति ।
अत्र पक्षे उदगयनपुण्यनक्षत्र एवोपक्रम इति ।
एतद्रुद्रदत्तादयो न मन्यन्ते ।
न हि यथाप्रयोगमित्यनेन चातुर्मास्यकालविधानं किन्तु ब्रह्मचर्यकालस्य नियमः प्रयोगदिनमितैव व्रतचर्येति ।
एतच्च स्पष्टमुपक्रमानुसारादेवावगम्येत् ।
तथा च सूत्रं--
यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तरमिथुनानि प्रथमे त्वेव संवत्सरे व्रतं चरेदित्यत्रोहस्माह शालाकिः सांवत्सरिकान्येव चातुर्मास्यानि ब्रह्मचर्यवन्तीति ।
यथाप्रयोगमित्यौपमन्यव इति ।
अस्यार्थः ।
बौधायनमते यावज्जीविकान्येव चातुर्मास्यानि कर्तव्यानि अन्तरिमिथुनवन्ति, प्रथमसंवत्सरयवव्रतचर्योति च ।
शालिकिमते तु सांवत्सरिकेष्वे वायं नियमो न यावज्जीविकेषु ।
उपमन्युमते तु प्रयोगदिने एव व्रतचर्येति ।
{२७८}
अपरे तु मास्तु यथाप्रयोगमित्यतः सन्ततकरणं तथापि"उदगयन आपूर्यमाणपक्षे समस्तानि"इति भारद्वाजवचनात्समस्तानां संलग्नानां प्रयोग इति ।
ऐहिकान्यपि चातुर्मास्यान्युक्तानि शाङ्ख्यायनेन ।
अथ सोमकालः ।
तत्र श्रुतिः--वसन्ते वसन्ते ज्योतिषा यजेतेति ।
याज्ञवल्क्योऽपि प्रतिसंवत्सरं सोम इति ।
अयमपि दर्शपौर्णमासोत्तरं कर्तव्य इत्युक्तं"दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति वचनात् ।
अयमुत्सर्गः ।
सोमाधाने दर्शपौर्णमासेभ्यः पूर्वमपि तस्य करणात् ।
आश्वलायनेनापि"प्रागपि सोमेनैकेन"इत्यनेन दर्शपौर्णमासेभ्यः पूर्वमपि सोमकर्तव्यताकथनाच्च ।
एतच्च वसन्तेऽपि पर्वणि कार्यं यदिष्ट्येतिवचनात् ।
कालान्तरमण्याह बौधायनः--
आमावास्येन हविषेष्ट्वा नक्षत्रे वेति ।
अस्यार्थः पशुकालनिरूपणे प्रतिपादितः ।
इति सोमकालः ।
प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे
श्रीमद्वीरमृगेन्द्रदानजलधिर्यद्वक्रचन्द्रोदये ॥
राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते
ग्रन्थेऽस्मिन्समयप्रकाशनपरः पूर्त्तिं प्रकाशोऽगमत् ॥
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूज--श्रीमन्महाराजमधुकरसाहसूनुचतुरुदधिबलयवसुन्धराहृदयपुण्डरीकविकासदिनकर
श्रीवीरसिंहदेवोद्योजित-
श्रीहंसपण्डितात्मजपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारीन्द्रविद्वज्जनजीवातु श्रीमन्मित्रमिश्रकृते
वीरमित्रोदयाभिधनिबन्धे समयप्रकाशः समाप्तः ।
शुभं भूयात् ।
Search
Search here.