प्राधानिकरहस्यम्

ग्रंथ - पोथी  > दुर्गा सप्तशती संस्कृत Posted at 2019-02-14 19:06:09
॥ अथ प्राधानिकरहस्यम् ॥ अस्य श्रीसप्तशतीरहस्यत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः ॥ महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ अनुष्टुपछंदः ॥ नवदुर्गा महालक्ष्मीर्बीजम् ॥ श्रींशक्तिः ॥ ममाभीष्टफलसिद्धये सप्तशतीपाठांते जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चंडिकायास्त्वयोदिताः ॥ एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि ॥१॥ आराध्यं यन्मया देव्याः स्वरुपं येन वै द्विज ॥ विधिना बूहि सकलं यथावत्प्रणतस्य मे ॥२॥ ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते ॥ भक्तोऽसीति न मे किंचित्तवावाच्यं नराधिप ॥३॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ॥ लक्ष्यालक्ष्यस्वरुपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥४॥ मातुलिंगं गदां खेटं पानपात्रं च बिभ्रती ॥ नागं लिंगं च योनिं च बिभ्रती नृप मूर्धनि ॥५॥ तप्तकांचनवर्णाभा तप्तकाञ्चनभूषणा ॥ शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥६॥ शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ॥ बभार रुपमपरं तमसा केवलेन हि ॥७॥ सा भिन्नांजनसंकाशा दंष्ट्रांचितवरानना ॥ विशाललोचना नारी बभूव तनुमध्यमा ॥८॥ खङ्गपात्रशिरः खेटैरलंकृतचतुर्भुजा ॥ कबंधहारं शिरसा बिभ्राणाऽहिशिरः स्रजम् ॥९॥ सा प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ॥ ददामि तव नामानि यानि कर्माणि तानि ते ॥१०॥ तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्। ददामि तव नामानि यानि कर्माणि तानि ते॥११॥ महामाया महाकाली महामारी क्षुधा तृषा ॥ निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥१२॥ इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ॥ एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥१२॥ तामित्युक्त्वा महालक्ष्मीः स्वरुपमपरं नृप ॥ सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥१४॥ अक्षमालांकुशधरा वीणापुस्तकधारिणी ॥ सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥१५॥ महाविद्या महावाणी भारती वाक् सरस्वती ॥ आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥१६॥ अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥१७॥ इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ॥ हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥१८॥ ब्रह्मन्विधे विरंचेति धतरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥१९॥ महाकाली भारती च मिथुने सृजतः सह ॥ एतयोरपि रुपाणि नामानि च वदामि ते ॥२०॥ नीलकंठं रक्तबाहुं श्वेताङ्गं चंद्रशेखरम् ॥ जनयामास पुरुषं महाकालीं सितां स्त्रियम् ॥२१॥ स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ॥ त्रयीविद्या कामधेनुः सा स्त्री भाषास्वराक्षरा ॥२२॥ सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ॥ जनयामास नामानि तयोरपि वदामि ते ॥२३॥ विष्णुः कृष्णो हषीकेशो वासुदेवो जनार्दनः ॥ उमा गौरी सती चंडी सुंदरी सुभगा शुभा ॥२४॥ एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ॥ चक्षुष्मंतो नु पश्यंति नेतरेऽतद्विदो जनाः ॥२५॥ ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नूप त्रयीम् ॥ रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥२६॥ स्वरया सह संभूय विरंचोऽण्डमजीजनत् ॥ बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥२७॥ अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ॥ महाभूतात्मकं सर्व जगत् स्थावरजंगमम् ॥२८॥ पुपोष पालयामास तल्लक्ष्म्या सह केशवः ॥ संजहार जगत्सर्व सह गौर्या महेश्वर: ॥ २९॥ महालक्ष्मीर्महाराज सर्वसत्त्‍‌वमयीश्वरी ॥ निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३० ॥ नामांतरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥३१॥ मार्कडेयपुराणे प्राधानिकं रहस्यम् ॥

Search

Search here.