शतपथ ब्राह्मणम् 2

ग्रंथालय  > ब्राह्मण ग्रंथ संहिता Posted at 2016-03-12 13:47:49
२.३.४.[१५] अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः सहस्रसामृषिमिति २.३.४.[१६] तदेतत्समाहार्यं षडृचम् । तस्योपवती प्रथमा प्रत्नवत्युत्तमावोचाम तद्यस्मादुपवत्यथाद एव प्रत्नं यावन्तो ह्येव सनाग्रे देवास्तावन्त एव देवास्तस्माददः प्रत्नं तदिमे एवान्तरेण सर्वे कामास्ते अस्मा इमे संजानाने सर्वान् कामान्त्संनमतः २.३.४.[१७] स वै त्रिः प्रथमां जपति । त्रिरुत्तमां त्रिवृत्प्रायणा हि यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमां जपति त्रिरुत्तमाम् २.३.४.[१८] यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा २.३.४.[१९] तदु खलु तनूपा अग्नेऽसि । तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि अग्ने यन्मे तन्वा ऊनं तन्म आप्रणेति २.३.४.[२०] यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा तन्मे पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते २.३.४.[२१] इन्धानास्त्वा । शतं हिमा द्युमन्तं समिधीमहीति शतं वर्षाणि जीव्यास्मेत्येवैतदाह तावत्त्वा महान्तं समिधीमहीति यदाह द्युमन्तं समिधीमहीति वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतमिति वयस्वन्तो वयम् भूयास्म वयस्कृत्त्वं भूया इत्येवैतदाह सहस्वन्तो वयं भूयास्म सहस्कृत्त्वं बूया इत्येवैतदाहाग्ने सपत्नदम्भनमदब्धासो अदाभ्यमिति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह २.३.४.[२२] चित्रावसो स्वस्ति ते पारमशीयेति । त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीयं संगृह्येव चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे २.३.४.[२३] एतेन ह स्म वा ऋषयः । रात्रेः स्वस्ति पारं समश्नुवत एतेनो ह स्मैनान्रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतेनो एवैष एतद्रात्रेः स्वस्ति पारं समश्नुत एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतावन्नु तिष्ठञ्जपति २.३.४.[२४] अथासीनः । सं त्वमग्ने सूर्यस्य वर्चसा गथा इति तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति तेनैतदाह समृषीणां स्तुतेनेति तद्यदुपतिष्ठते तेनैतदाह सं प्रियेणधाम्नेत्याहुतयो वा अस्य प्रियं धामाहुतिभिरेव तदाह समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मिषीयेति यथा त्वमेतैः समगथा एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति यद्भूम्नेति तदेवमहमेतैः संगच्छा इत्येवैतदाह २.३.४.[२५] अथ गामभ्यैति । अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयेति यानि वो वीर्याणि यानि वो महांसि तानि वो भक्षीयेत्येवैतदाहोर्ज स्थोर्ज वो भक्षीयेति रस स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष स्थ रायस्पोषं वो भक्षीयेति भूमा स्थ भूमानं वो भक्षियेत्येवैतदाह २.३.४.[२६] रेवती रमध्वमिति रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमित्यस्मिन्योनावस्मिन् गोष्ठेऽस्मिंलोकेऽस्मिन् क्षये । इहैव स्त मापगातेत्यात्मन एवैतदाह मदेव मापगातेति २.३.४.[२७] अथ गामभिमृशति । संहितासि विश्वरूपीति विश्वरूपा इव हि पशवस्तस्मादाह विश्वरूपीत्यूर्जा माविश गौपत्येनेत्यूर्जेति यदाह रसेनेति तदाह गौपत्येनेति यदाह भूम्नेति तदाह २.३.४.[२८] अथ गार्हपत्यमभ्यैति । स गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयं नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैनं न हिंस्यात् २.३.४.[२९] राजन्तमध्वराणाम् । गोपामृतस्य दीदिविं वर्धमानं स्वे दम इति स्वं वै त इदं यन्मम तन्नो भूयो भूय एव कुर्वित्येवैतदाह २.३.४.[३०] स नः पितेव सूनवे । अग्ने सूपायनो भव सचस्वा नः स्वस्तय इति यथा पिता पुत्राय सूपचरो नैवैनं केन चन हिनस्त्येवं नः सूपचर एधि मैव त्वा केन चन हिंसिष्मेत्येवैतदाह २.३.४.[३१] अथ द्विपदाः । अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादिति २.३.४.[३२] यद्वा आहवनीयमुपतिष्ठते । पशूंस्तद्याचते तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठत उच्चावचा इव हि पशवोऽथ यद्गार्हपत्यं पुरुषांस्तद्याचते तद्गायत्रं प्रथमं त्रिचं गायत्रं वा अग्नेश्छन्दः स्वेनैवैनमेतच्चन्दसोपपरैति २.३.४.[३३] अथ द्विपदाः । पुरुषच्छन्दसं वै द्विपदा द्विपाद्वा अयं पुरुषः पुरुषानैवैतद्याचते पुरुषान्हि याचते तस्माद्द्विपदाः पशुमान्ह वै पुरुषवान्भवति य एवं विद्वानुपतिष्ठते २.३.४.[३४] अथ गामभ्यैति । इड एह्यदित एहीतीडा हि गौरदितिर्हि गौस्तामभिमृशति काम्या एतेति मनुष्याणां ह्येतासु कामाः प्रविष्टास्तस्मादाह काम्या एतेति मयि वः कामधरणं भूयादित्यहं वः प्रियो भूयासमित्येवैतदाह २.३.४.[३५] अथान्तरेणाहवनीयं च गार्हपत्यं च । प्राङ्तिष्ठन्नग्निमीक्षमाणो जपति सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः स नः सिषक्तु यस्तुरः मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य रक्षा णो ब्रह्मणस्पत इति २.३.४.[३६] यद्वा आहवनीयमुपतिष्ठते । दिवं तदुपतिष्ठतेऽथ यद्गार्हपत्यं पृथिवीं तदथैतदन्तरिक्षमेषा हि दिग्बृहस्पतेरेतं ह्येतद्दिशमुपतिष्ठते तस्माद्बार्हस्पत्यं जपति २.३.४.[३७] महि त्रीणामवोऽस्तु । द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य न हि तेषाममा चन नाध्वसु वारणेषु ईशे रिपुरघशंसः ते हि पुत्रासो अदितेः प्र जीवसे मर्त्याय ज्योतिर्यच्छन्त्यजस्रमिति तत्रास्ति नाध्वसु वारणेष्वित्येति ह वा अध्वानो वारणा य इमेऽन्तरेण द्यावापृथिवी एतान्ह्येतदुपतिष्ठते तस्मादाह नाध्वसु वारणेष्विति २.३.४.[३८] अथैन्द्री । इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युप्स्थानं कुरुते कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुष इति यजमानो वै दाश्वान्न यजमानाय द्रुह्यसीत्येवैतदाहोपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इति भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह २.३.४.[३९] अथ सावित्री । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति २.३.४.[४०] अथाग्नेयी । तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त्यै परि ते दूडभो रथोऽस्मानश्नोतु विश्वतः येन रक्षसि दाशुष इति यजमाना वै दाश्वांसो यो ह वा अस्यानाधृष्यतमो रथस्तेनैष यजमानानभिरक्षति स यस्तेऽनाधृष्यतमो रथो येन यजमानानभिरक्षसि तेन नः सर्वतोऽभिगोपायेत्येवैतदाह त्रिरेतज्जपति २.३.४.[४१] अथ पुत्रस्य नाम गृह्णाति । इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवदिति यदि पुत्रो न स्यादप्यात्मन एव नाम गृह्णीयात् २.४.१. २.४.१.[१] अथ हुतेऽग्निहोत्र उपतिष्ठते । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयति यदाह भूर्भुवः स्वरिति तया समृद्धयाशिषमाशास्ते सुपोषः पोषैरिति तत्पुष्टिमाशास्ते २.४.१.[२] यद्वा अदो दीर्घमग्न्युपस्थानम् । आशीरेव साशीरियं तदेतावतैवैतत्सर्वमाप्नोति तस्मादेतेनैवोपतिष्ठेतैतेन न्वेव वयमुपचराम इति ह स्माहासुरिः २.४.१.[३] अथ प्रवत्स्यन् । गार्हपत्यमेवाग्र उपतिष्ठतेऽथाहवनीयं २.४.१.[४] स गार्हपत्यमुपतिष्ठते । नर्य प्रजां मे पाहीति प्रजाया हैष ईष्टे तत्प्रजामेवास्मा एतत्परिददाति गुप्त्यै २.४.१.[५] अथाहवनीयमुपतिष्ठते । शंस्य पशून्मे पाहीति पशूनां हैष ईष्टे तत्पशूनेवास्मा एतत्परिददाति गुप्त्यै २.४.१.[६] अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यन्त्त्वा वाचं विसृजतेऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात् २.४.१.[७] स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति २.४.१.[८] स आहवनीयमुपतिष्ठते । आगन्म विश्ववेदसमस्मभ्यं वसुवित्तममग्ने सम्राडभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पति २.४.१.[९] अथ गार्हपत्यमुपतिष्ठते । अयमग्निर्गृहपतिर्गार्हपत्यःप्रजाया वसुवित्तमः अग्ने गृहपतेऽभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पत्येतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते २.४.१.[१०] स वै खलु तूष्णीमेवोपतिष्ठेत । इदं वै यस्मिन्वसति ब्राह्मणो वा राजा वा श्रेयान्मनुष्यो न्वेव तमेव नार्हति वक्तुमिदं मे त्वं गोपाय प्राहं वत्स्यामीत्यथास्मिन्नेते श्रेयांसो वसन्ति देवा अग्नयः क उ तानर्हति वक्तुमिदम् मे यूयं गोपायत प्राहं वत्स्यामीति २.४.१.[११] मनो ह वै देवा मनुष्यस्याजानन्ति । स वेद गार्हपत्यः परिदाम् मेदमुपागादिति तूष्णीमेवाहवनीयमुपतिष्ठते स वेदाहवनीयः परिदां मेदमुपागादिति २.४.१.[१२] अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलो मन्यते तत्स्यन्त्त्वा वाचं विसृजते ऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण स्यान्नैव तमुपेयात् २.४.१.[१३] स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं तूष्णीमेवाहवनीयमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति तूष्णीमेव गार्हपत्यमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति २.४.१.[१४] अथातो गृहाणामेवोपचारः । एतद्ध वै गृहपतेः प्रोषुष आगताद्गृहाः समुत्त्रस्ता इव भवन्ति किमयमिह वदिष्यति किं वा करिष्यतीति स यो ह तत्र किंचिद्वदति वा करोति वा तस्माद्गृहाः प्रत्रसन्ति तस्येश्वरः कुलं विक्षोब्धोरथ यो ह तत्र न वदति न किं चन करोति तं गृहा उपसंश्रयन्ते न वा अयमिहावादीन्न किं चनाकरदिति स यदिहापि सुक्रुद्ध इव स्याच्व एव ततस्तत्कुर्याद्यद्वदिष्यन्वा करिष्यन्वा स्यादेष उ गृहाणामुपचारः २.४.२. २.४.२.[१] प्रजापतिं वै भूतान्युपासीदन् । प्रजा वै भूतानि वि नो धेहि यथा जीवामेति ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्योपासीदंस्तानब्रवीद्यज्ञो वो ऽन्नममृतत्वं व ऊर्ग्वः सूर्यो वो ज्योतिरिति २.४.२.[२] अथैनं पितरः । प्राचीनावीतिनः सव्यं जान्वाच्योपासीदंस्तानब्रवीन्मासिमासि वो ऽशनं स्वधा वो मनोजवीवश्चन्द्रमा वो ज्योतिरिति २.४.२.[३] अथैनं मनुष्याः । प्रावृता उपस्थं कृत्वोपासीदंस्तानब्रवीत्सायं प्रातर्वो ऽशनं प्रजा वो मृत्युर्वोऽग्निर्वो ज्योतिरिति २.४.२.[४] अथैनं पशव उपासीदन् । तेभ्यः स्वैषमेव चकार यदैव यूयं कदा च लभाध्वै यदि काले यद्यनाकालेऽथैवाश्नाथेति तस्मादेते यदैव कदा च लभन्ते यदि काले यद्यनाकालेऽथैवाश्नन्ति २.४.२.[५] अथ हैनं शश्वदप्यसुरा उपसेदुरित्याहुः । तेभ्यस्तमश्च मायां च प्रददावस्त्यहैवासुरमायेतीव पराभूता ह त्वेव ताः प्रजास्ता इमाः प्रजास्तथैवोपजीवन्ति यथैवाभ्यः प्रजापतिर्व्यदधात् २.४.२.[६] नैव देवा अतिक्रामन्ति । न पितरो न पशवो मनुष्या एवैकेऽतिक्रामन्ति तस्माद्यो मनुष्याणां मेद्यत्यशुभे मेद्यति विहूर्चति हि न ह्ययनाय चन भवत्यनृतं हि कृत्वा मेद्यति तस्मादु सायम्प्रातराश्येव स्यात्स यो हैवं विद्वान्त्सायम्प्रातराशी भवति सर्वं हैवायुरेति यदु ह किं च वाचा व्याहरति तदु हैव भवत्येतद्धि देवसत्यं गोपायति तद्धैतत्तेजो नाम ब्राह्मणं य एतस्य व्रतं शक्नोति चरितुम् २.४.२.[७] तद्वा एतत् । मासि मास्येव पितृभ्यो ददतो यदैवैष न पुरस्तान्न पश्चाद्ददृशे ऽथैभ्यो ददात्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स एतां रात्रिं क्षीयते तस्मिन्क्षीणे ददाति तथैभ्यो समदं करोत्यथ यदक्षीणे दद्यात्समदं ह कुर्याद्देवेभ्यश्च पितृभ्यश्च तस्माद्यदैवैष न पुरस्तान्न पश्चाद्ददृशेऽथैभ्यो ददाति २.४.२.[८] स वा अपराह्णे ददाति । पूर्वाह्णो वै देवानां मध्यन्दिनो मनुष्याणामपराह्णः पितॄणां तस्मादपराह्णे ददाति २.४.२.[९] स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं ग्रृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति २.४.२.[१०] तं श्रपयति । तस्मिन्नधिश्रित आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैव पितॄणां तस्मादधिश्रित आज्यं प्रत्यानयति २.४.२.[११] स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः । देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजतेऽथैतत्पितृयज्ञेनेवाचारीत्तदु निह्नुते स देवैः प्रसूतोऽथैतत्पितृभ्यो ददाति तस्मादुद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः २.४.२.[१२] स वा अग्नये च सोमाय च जुहोति । स यदग्नये जुहोति सर्वत्र ह्येवाग्निरन्वाभक्तो ऽथ यत्सोमाय जुहोति पितृदेवत्यो वै सोमस्तस्मादग्नये च सोमाय च जुहोति २.४.२.[१३] स जुहोति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेत्यग्नौ मेक्षणमभ्यादधाति तत्स्विष्टकृद्भाजनमथ दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति तद्वेदिभाजनं सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुल्लिखति २.४.२.[१४] अथ परस्तादुल्मुकं निदधाति । स यदनिधायोल्मुकमथैतत्पितृभ्यो दद्यादसुररक्षसानि हैषामेतद्विमथ्नीरंस्तथो हैतत्पितॄणामसुररक्षसानि न विमथ्नते तस्मात्परस्तादुल्मुकं निदधाति २.४.२.[१५] स निदधाति । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टांलोकात्प्रणुदात्यस्मादित्यग्निर्हि रक्षसामपहन्ता तस्मादेवं निदधाति २.४.२.[१६] अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत् २.४.२.[१७] अथ सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति । अग्रमिव वै देवानां मध्यमिव मनुष्याणां मूलमिव पितॄणां तस्मादुपमूलं दिनानि भवन्ति सकृदाच्छिन्नानि भवन्ति सकृदु ह्येवपराञ्चः पितरस्तस्मात्सकृदाच्छिन्नानि भवन्ति २.४.२.[१८] तानि दक्षिणोपस्तृणाति । तत्र ददाति स वा इति ददातीतीव वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवं पितॄणां तस्मादिति ददाति २.४.२.[१९] स ददाति । असावेतत्त इत्येव यजमानस्य पित्रे ये च त्वामन्वित्यु हैक आहुस्तदु तथा न ब्रूयात्स्वयं वै तेषां सह येषां सह तस्मादु ब्रूयादसावेतत्त इत्येव यजमानस्य पित्रेऽसावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय तद्यदितः पराग्ददाति सकृदु ह्येव पराञ्चः पितरह् २.४.२.[२०] तत्र जपति । अत्र पितरो मादयध्वं यथाभागमावृषायध्व्वमिति यथाभागमश्नीतेत्येवैतदाह २.४.२.[२१] अथ पराङ्पर्यावर्तते । तिर इव वै पितरो मनुष्येभ्यस्तिर इवैतद्भवति स वा आ तमितोरासीतेत्याहुरेतावान्ह्यसुरिति स वै मुहूर्तमेवासित्वा २.४.२.[२२] अथोपपल्यय्य जपति । अमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह २.४.२.[२३] अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव यजमानस्य पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत् २.४.२.[२४] अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणोऽथावजिघ्रति प्रत्यवधाय पिण्डान्त्स यजमानभागोऽग्नौ सकृदाच्छिन्नान्यभ्यादधाति पुनरुल्मुकमपि सृजति २.४.३. २.४.३.[१] तदु होवाच कहोडः कौषीतकिः । अनयोर्वा अयं द्यावापृथिव्यो रसोऽस्य रसस्य हुत्वा देवेभ्योऽथेममश्नामेति तस्माद्वा आग्रयणेष्ट्या यजत इति २.४.३.[२] तदु होवाच याज्ञवल्क्यः । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततोऽसुरा उभयीरोशधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विषेणेव त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभवेमेति ततो न मनुष्या आशुर्न पशव आलिलिशिरे ता हेमाः प्रजा अनाशकेन नोत्पराबभूवुः २.४.३.[३] तद्वै देवाः शुश्रुवुः । अनाशकेन ह वा इमाः प्रजाः पराभवन्तीति ते होचुर्हन्तेदमासामपजिघांसामेति केनेति यज्ञेनैवेति यज्ञेन ह स्म वै तद्देवाः कल्पयन्ते यदेषां कल्पमासर्षयश्च २.४.३.[४] ते होचुः । कस्य न इदं भविष्यतीति ते ममममेत्येव न सम्पादयां चक्रुस्ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदं भविष्यतीति तथेति तस्मिन्नाजिमाजन्त २.४.३.[५] ताविन्द्राग्नी उदजयताम् । तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवतीन्द्राग्नी ह्यस्य भागधेयमुदजयतां तौ यत्रेन्द्राग्नी उज्जिगीवांसौ तस्थतुस्तद्विश्वे देवा अन्वाजग्मुः २.४.३.[६] क्षत्रं वा इन्द्राग्नी । विशो विश्वे देवा यत्र वै क्षत्रमुज्जयत्यन्वाभक्ता वै तत्र विट्तद्विश्वान्देवानन्वाभजतां तस्मादेष वैश्वदेवश्चरुर्भवति २.४.३.[७] तं वै पुराणानां कुर्यादित्याहुः । क्षत्रं वा इन्द्राग्नी नेत्क्षत्रमभ्यारोहयाणीति तौ वा उभावेव नवानां स्यातां यद्धि पुरोडाश इतरश्चरुरितरस्तेनैव क्षत्रमनभ्यारूढं तस्मादुभावेव नवानां स्याताम् २.४.३.[८] त उ ह विश्वे देवा ऊचुः । अनयोर्वा अयं द्यावापृथिव्यो रसो हन्तेमे अस्मिन्नाभजामेति ताभ्यामेतं भागमकल्पयन्नेतं द्यावापृथिव्यमेककपालम् पुरोडाशं तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति तस्येयमेव कपालमेकेव हीयं तस्मादेककपालो भवति २.४.३.[९] तस्य परिचक्षा । यस्यै वै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तोऽथैतं सर्वमेव जुहोति न स्विष्टकृतेऽवद्यति सा परिचक्षोतो हुतः पर्यावर्तते २.४.३.[१०] तदाहुः । पर्याभूद्वा अयमेककपालो मोहिष्यति राष्ट्रमिति नास्य सा परिचक्षाहवनीयो वा आहुतीनां प्रतिष्ठा स यदाहवनीयं प्राप्यापि दश कृत्वः पर्यावर्तेत न तदाद्रियेत यदीत्त्वन्ये वदन्ति कस्तत्संधमुपेयात्तस्मादाज्यस्यैव यजेदाज्यं ह वा अनयोर्द्यावापृथिव्योः प्रत्यक्षं रसस्तत्प्रत्यक्षमेवैने एतत्स्वेन रसेन मेधेन प्रीणाति तस्मादाज्यस्यैव यजेत् २.४.३.[११] एतेन वै देवाः । यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्रुस्तत आश्नन्मनुष्या आलिशन्त पशवः २.४.३.[१२] अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कश्चन कृत्ययेव त्वद्विषेणेव त्वत्प्रलिम्पतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति यमु चैव देवा भागमकल्पयन्त तमु चैवैभ्य एष एतद्भागं करोतीमा उ चैवैतदुभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवस्ता अनमीवा अकिल्विषाः कुरुते ता अस्यानमीवा अकिल्विषा इमाः प्रजा उपजीवन्ति तस्माद्वा एष एतेन यजते २.४.३.[१३] तस्य प्रथमजो गौर्दक्षिणा । अग्र्यमिव हीदं स यदीजानः स्याद्दर्शपूर्णमासाभ्यां वा यजेताथैतेन यजेत यद्यु अनीजानः स्याच्चातुष्प्राश्यमेवैतमोदनमन्वाहार्यपचने पचेयुस्तं ब्राह्मणा अश्नीयुः २.४.३.[१४] द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवास्तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति तत्रो यच्छक्नुयात्तद्दद्यान्नादक्षिणां हविः स्यादिति ह्याहुर्नाग्निहोत्रे जुहुयात्समदं ह कुर्याद्यदग्निहोत्रे जुहुयादन्यद्वा आग्रयणमन्यदग्निहोत्रं तस्मान्नाग्निहोत्रे जुहुयात् २.४.४. २.४.४.[१] प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे । प्रजाकामो बहुः प्रजया पशुभिः स्यां श्रियं गच्छेयं यशः स्यामन्नादः स्यामिति २.४.४.[२] स वै दक्षो नाम । तद्यदेनेन सोऽग्रेऽयजत तस्माद्दाक्षायणयज्ञो नामोतैनमेके वसिष्ठयज्ञ इत्याचक्षत एष वै वसिष्ठ एतमेव तदन्वाचक्षते स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं प्रजापतेः प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत २.४.४.[३] तेनो ह तत ईजे । प्रतीदर्शः श्वेक्नः स ये तं प्रत्यासुस्तेषां विवचनमिवास विवचनमिव ह वै भवति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत २.४.४.[४] तमाजगाम । सुप्ला सार्ञ्जयो ब्रह्मचर्यं तस्मादेतं च यज्ञमनूचेऽन्यमु च सो ऽनूच्य पुनः सृञ्जयाञ्जगाम ते ह सृञ्जया विदां चक्रुर्यज्ञं वै नोऽनूच्यागन्निति ते होचुः सह वै नस्तद्देवैरागन्यो नो यज्ञमनूच्यागन्निति स वै सहदेवः सार्ञ्जयस्तदप्येतन्निवचनमिवास्त्यन्यद्वा अरेसुप्ला नाम दध इति स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं सृञ्जयानां प्रजातिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति यएवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत२.४.४.[५]तेनो ह तत ईजे । देवभागः श्रौतर्षः स उभयेषां कुरूणां च सृञ्जयानां च पुरोहित आस परमता वै सा यो न्वेवैकस्य राष्ट्रस्य पुरोहितोऽसत्सा न्वेव परमता किमु यो द्वयोः परमतामिव ह वै गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत २.४.४.[६] तेनो ह तत ईजे । दक्षः पार्वतिस्त इमेऽप्येतर्हि दाक्षायणा राज्यमिवैव प्राप्ता राज्यमिह वै प्राप्नोति य एवं विद्वानेतेन यजते तस्माद्वा एतेन यजेत स वा एकैक एवानूचीनाहं पुरोडाशो भवत्येतेनो हास्यासपत्नानुपबाधा श्रीर्भवति स वै द्वे पौर्णमास्यौ यजते द्वे अमावास्ये द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते २.४.४.[७] अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां ते द्वे देवते द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते २.४.४.[८] अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यं ते द्वे देवते द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं क्रियते २.४.४.[९] अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां ते द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियते २.४.४.[१०] अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथैतावेव मित्रावरुणौ द्वे देवते द्वे वै मिथुनम् मिथुनमेवैतत्प्रजननं क्रियत एतदु हास्य तद्रूपं येन बहुर्भवति येन प्रजायते २.४.४.[११] अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां यमेवामुमुपवसथे ऽग्नीषोमीयं पशुमालभते स एवास्य सः २.४.४.[१२] अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यम् प्रातःसवनमेवास्याग्नेयः पुरोडाशो आग्नेयं हि प्रातःसवनमथैन्द्रं सांनाय्यं माध्यन्दिनमेवास्य तत्सवनमैन्द्रं हि माध्यन्दिनं सवनम् २.४.४.[१३] अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां तृतीयसवनमेवास्य तद्वैश्वदेवं वै तृतीयसवनमिन्द्राग्नी वै विश्वे देवाः २.४.४.[१४] अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथ यामेवामूं मैत्रावरुणीं वशामनूबन्ध्यामालभते सैवास्य मैत्रावरुणी पयस्या स पौर्णमासेन चामावास्येन चेष्ट्वा यावत्सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति तदु खलु महायज्ञो भवति २.४.४.[१५] अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यामेतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत यास्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयतेऽथ यत्संनयत्यामावास्यं वै सांनाय्यं दूरे तद्यदमावास्येति क्षिर्र एवैतद्वृत्रं जघ्नुषे तमेतेन रसेनाप्रीणन् क्षिप्रे ह वै पाप्मानमपहते य एवं विद्वान्पौर्णमास्यां संनयत्येष वै सोमो राजा द् स्०२४०११५०ळेवानामन्नं यच्चन्द्रमास्तमेतत्पूर्वेद्युरभिषुण्वन्ति प्रातर्भक्षयिष्यन्तस्तमेतद्भक्षयन्ति यदपक्षीयते २.४.४.[१६] अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यामभिषुणोत्येवैनमेतत्तस्मिन्नभिषुत एतं रसं दधात्येतेन रसेन तीव्रीकरोति स्वदयति ह वै देवेभ्यो हव्यं स्वदते हास्य देवेभ्यो हव्यं य एवं विद्वान्पौर्णमास्यां संनयति २.४.४.[१७] अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां दर्शपूर्णमासयोर्वै देवते स्त इन्द्राग्नी एव ते एवैतदञ्जसा प्रत्यक्षं यजत्यञ्जसा ह वा अस्य दर्शपूर्णमासाभ्यामिष्टं भवति य एवमेतद्वेद २.४.४.[१८] अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशोऽथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणौ योऽपक्षीयते स मित्रस्तावेतां रात्रिमुभौ समागच्छतस्तदुभावेवैतत्सह सन्तौ प्रीणाति सर्वं ह वा अस्य प्रीतं भवति सर्वमाप्तं य एवमेतद्वेद २.४.४.[१९] तद्वा एतां रात्रिम् । मित्रो वरुणे रेतः सिञ्चति तदेतेन रेतसा प्रजायते यदापूर्यते तद्यदेषात्र मैत्रावरुणी पयस्यावकॢप्ततमा भवति २.४.४.[२०] सांनाय्यभाजना वा अमावास्या । तददस्तत्पौर्णमास्यां क्रियते स यद्धात्रापि संनयेज्जामि कुर्यात्समदं कुर्यात्तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो ऽधिजनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे २.४.४.[२१] मिथुनादिद्वा एनमेतत्प्रजनयति । योषा पयस्या रेतो वाजिनं तद्वा अनुष्ठ्या यन्मिथुनाज्जायते तदेनमेतस्मान्मिथुनात्प्रजननात्प्रजनयति तस्मादेषात्र पयस्या भवति २.४.४.[२२] अथ वाजिभ्यो वाजिनं जुहोति । ऋतवो वै वाजिनो रेतो वाजिनं तद्वनुष्ठ्येवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्माद्वाजिभ्यो वाजिनं जुहोति २.४.४.[२३] स वै पश्चादिव यज्ञस्य जुहोति । पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्यां रेतः सिञ्चति स वै प्रागेवाग्रे जुहोत्यग्ने वीहात्यनुवषट्करोति तत्स्विष्टकृद्भाजनं स वै प्रागेव जुहोति २.४.४.[२४] अथ दिशो व्याघारयति । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति पञ्च दिशः पञ्चऽर्तवस्तदृतुभिरेवैतद्दिशो मिथुनीकरोति २.४.४.[२५] तद्वै पञ्चैव भक्षयन्ति । होता चाध्वर्युश्च ब्रह्मा चाग्नीच्च यजमानः पञ्च वा ऋतवस्तदृतूनामेवैतद्रूपं क्रियते तदृतुष्वेवैतद्रेतः सिक्तं प्रतिष्ठापयति प्रथमो यजमानो भक्षयति प्रथमो रेतः परिगृह्णानीत्यथो अप्युत्तमो मय्युत्तमे रेतः प्रतितिष्ठादित्युपहूत उपह्वयस्वेति सोममेवैतत्कुर्वन्ति २.५.१. २.५.१.[१] प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपाद्वा अयं पुरुषस्तस्माद्द्विपादो वयांसि २.५.१.[२] स ऐक्षत प्रजापतिः । यथा न्वेव पुरैकोऽभूवमेवमु न्वेवाप्येतर्ह्येक एवास्मीति स द्वितीयाः ससृजे ता अस्य परैव बभूवुस्तदिदं क्षुद्रं सरीसृपं यदन्यत्सर्पेभ्यस्तृतीयाः ससृज इत्याहुस्ता अस्य परैव बभूवुस्त इमे सर्पा एता ह न्वेव द्वयीर्याज्ञवल्क्य उवाच त्रयीरु तु पुनर्ऋचा २.५.१.[३] सोऽर्चञ्च्राम्यन्प्रजापतिरीक्षां चक्रे । कथं नु मे प्रजाः सृष्टाः पराभवन्तीति स हैतदेव ददर्शानशनतया वै मे प्रजाः पराभवन्तीति स आत्मन एवाग्रे स्तनयोः पय आप्याययां चक्रे स प्रजा असृजत ता अस्य प्रजाः सृष्टा स्तनावेवाभिपद्य तास्ततः सम्बभूवुस्ता इमा अपराभूतः २.५.१.[४] तस्मादेतदृषिणाभ्यनूक्तम् । प्रजा ह तिस्रो अत्यायमीयुरिति तद्याः पराभूतास्ता एवैतदभ्यनूक्तं न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तद्या इमाः प्रजा अपराभूतास्ता अग्निमभितो निविष्टास्ता एवैतदभ्यनूक्तम् २.५.१.[५] महद्ध तस्थौ भुवनेष्वन्तरिति । प्रजापतिमेवैतदभ्यनूक्तं पवमानो हरित आविवेशेति दिशो वै हरितस्ता अयं वायुः पवमान आविष्टस्ता एवैषर्गभ्यनूक्ता ता इमाह्प्रजास्तथैव प्रजायन्ते यथैव प्रजापतिः प्रजा असृजतेदं हि यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनामथैव यज्जायते तज्जायते तास्तत स्तनावेवाभिपद्य सम्भवन्ति २.५.१.[६] तद्वै पय एवान्नम् । एतद्ध्यग्रे प्रजापतिरन्नमजनयत तद्वा अन्नमेव प्रजा अन्नाद्धि सम्भवन्तीदं हि यासां पयोभवति स्तनावेवाभिपद्य तास्ततः सम्भवन्त्यथ यासां पयो न भवति जातमेव ता अथादयन्ति तदु ता अन्नादेव सम्भवन्ति तस्माद्वन्नमेव प्रजाः २.५.१.[७] स यः प्रजाकामः । एतेन हविषा यजत आत्मानमेवैतद्यज्ञं विधत्ते प्रजापतिम् भूतम् २.५.१.[८] स वा आग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निर्वै देवतानां मुखम् प्रजनयिता स प्रजापतिस्तस्मादाग्नेयो भवति २.५.१.[९] अथ सौम्यश्चरुर्भवति । रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति तत्पुरस्तान्मिथुनं प्रजननम् २.५.१.[१०] अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम् प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति २.५.१.[११] अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनं प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव मिथुनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति २.५.१.[१२] अथातः पयस्याया एवायतनम् । मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्वि वै ते मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यस इति २.५.१.[१३] स ऐक्षत प्रजापतिः । परा मे पूर्वाः प्रजा अभूवन्निमा उ चेदिमे विमथ्नते न ततः किं चन परिशेक्ष्यत इति तेभ्य एतं भागमकल्पयदेतं मारुतं सप्तकपालं पुरोडाशं स एष मारुतः सप्तकपालस्तद्यत्सप्तकपालो भवति सप्त सप्त हि मारुतो गणस्तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति २.५.१.[१४] तं वै स्वतवोभ्य इति कुर्यात् । स्वयं हि त एतं भागमकुर्वतोतो स्वतवोभ्यो याज्यानुवाक्ये न विन्दन्ति स उ खलु मारुत एव स्यात्स वा एष प्रजाभ्य एवाहिंसायै क्रियते तस्मान्मारुतः २.५.१.[१५] अथातः पयस्यैव । पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तदेवाभ्य एतत्करोति तद्याः पूर्वैर्हविर्भिः प्रजाः सृजते ता एतस्मात्पयस एतस्यै पयस्यायै सम्भवन्ति २.५.१.[१६] तस्यां मिथुनमस्ति । योषा पयस्या रेतो वाजिनं तस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तद्यदेतस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तस्माद्वैश्वदेवी भवति २.५.१.[१७] अथ द्यावापृथिव्य एककपालः पुरोडाशो भवति । एतैर्वै हविर्भिः प्रजापतिः प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो एवैष एतद्य एतैर्हविर्भिः प्रजाः सृजते ता द्यावापृथिवीभ्यां परिगृह्णाति तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति २.५.१.[१८] अथात आवृदेव । नोपकिरन्त्युत्तरवेदिं विसृष्टमसत्सर्वमसद्वैश्वदेवमसदिति त्रेधा बर्हिः संनद्धं भवति तत्पुनरेकधैतद्धि प्रजननस्य रूपम् प्रजननमु हीदं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रेधा सत्पुनरेकधा प्रस्व उपसंनद्धा भवन्ति तं प्रस्तरं गृह्णाति प्रजननमु हीदम् प्रजननमु हि प्रस्वस्तस्मात्प्रसूः प्रस्तरं गृह्णाति २.५.१.[१९] आसाद्य हवींष्यग्निं मन्थन्ति । अग्निं ह वै जायमानमनु प्रजापतेः प्रजा जज्ञिरे तथो एवैतस्याग्निमेव जायमानमनु प्रजा जायन्ते तस्मादासाद्य हवींष्यग्निं मन्थन्ति २.५.१.[२०] नवप्रयाजं भवति । नवानुयाजं दशाक्षरा वै विराडथैतामुभयतो न्यूनां विराजं करोति प्रजननायैतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजं भवति नवानुयाजम् २.५.१.[२१] त्रीणि समिष्टयजूंषि भवन्ति । ज्याय इव हीदं हविर्यज्ञाद्यत्र नवप्रयाजं नवानुयाजमथो अप्येकमेव स्याद्धविर्यज्ञो हि तस्य प्रथमजो गौर्दक्षिणा २.५.१.[२२] एतेन वै प्रजापतिः यज्ञेनेष्ट्वा । येयं प्रजापतेः प्रजापतिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत २.५.२. २.५.२.[१] वैश्वदेवेन वै प्रजापतिः । प्रजाः ससृजे ता अस्य प्रजाः सृष्टा वरुणस्य यवाञ्जक्षुर्वरुण्यो ह वा अग्रे यवस्तद्यन्न्वेव वरुणस्य यवान्प्रादस्तस्माद्वरुणप्रघासा नाम २.५.२.[२] ता वरुणो जग्राह । ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यष्च शिश्यिरे च निषेदुश्च प्राणोदानौ हैवाभ्यो नापचक्रमतुरथान्याः सर्वा देवता अपचक्रमुस्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुः २.५.२.[३] ता एतेन हविषा प्रजापतिरभिषज्यत् । तद्याश्चैवास्य प्रजा जाता आसन्याश्चाजातास्ता उभयीर्वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्विषाः प्रजाः प्राजायत २.५.२.[४] अथ यदेष एतैश्चतुर्थे मासि यजते । तन्नाह न्वेवैतस्य तथा प्रजा वरुणो गृह्णातीति देवा अकुर्वन्निति न्वेवैष एतत्करोति याश्च न्वेवास्य प्रजा जाता याश्चाजातास्ता उभयीर्वरुणपाशात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायते तस्माद्वा एष एतैश्चतुर्थे मासि यजते २.५.२.[५] तद्वै द्वे वेदी द्वावग्नी भवतः । तद्यद्द्वे वेदी द्वावग्नी भवतस्तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्माद्द्वे वेदी द्वावग्नी भवतः २.५.२.[६] स उत्तरस्यामेव वेदौ । उत्तरवेदिमुपकिरति न दक्षिणस्यां क्षत्र वै वरुणो विशो मरुतः क्षत्रमेवैतद्विश उत्तरे करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुत्तरस्यामेव वेदा उत्तरवेदिमुपकिरति न दक्षिणस्याम् २.५.२.[७] अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदितश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति २.५.२.[८] अथैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति । प्राणोदानौ वा इन्द्राग्नी तद्यथा पुण्यं चक्रुषे पुण्यं कुर्यादेवं तत्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुस्तत्प्राणोदानाभ्यामेवैतत्प्रजा भिषज्यति प्राणोदानौ प्रजासु दधाति तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति २.५.२.[९] उभयत्र पयस्ये भवतः । पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तत एवैतदुभयतो वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मादुभयत्र पयस्ये भवतः २.५.२.[१०] वारुण्युत्तरा भवति । वरुणो ह वा अस्य प्रजा अगृह्णात्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति मारुती दक्षिणाजामितायै न्वेव मारुती भवति जामि ह कुर्याद्यदुभे वारुण्यौ स्यातामतो ह वा अस्य दक्षिणतो मरुतः प्रजा अजिघांसंस्तानेतेन भागेनाशमयत्तस्मान्मारुती दक्षिणा २.५.२.[११] तयोरुभयोरेव करीराण्यावपति । कं वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत कम्वेवैष एतत्प्रजाभ्यः कुरुते २.५.२.[१२] तयोरुभयोरेव शमीपलाशान्यावपति । शं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत शम्वेवैष एतत्प्रजाभ्यः कुरुते २.५.२.[१३] अथ काय एककपालः पुरोडाशो भवति । कं वै प्रजापतिः प्रजाभ्यः कायेनैककपालेन पुरोडाशेनाकुरुत कम्वेवैष एतत्प्रजाभ्यः कायेनैककपालेन पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशो भवति २.५.२.[१४] अथ पूर्वेद्युः । अन्वाहार्यपचनेऽतुषानिव यवान् कृत्वा तानीषदिवोपतप्य तेषां करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्मुस्तावन्त्येकेनातिरिक्तानि २.५.२.[१५] तत्रापि मेषं च मेषीं च कुर्वन्ति । तयोर्मेषे च मेष्यां च यद्यनैडकीरूर्णी विन्देत्ताः प्रणिज्य निश्लेषयेद्यद्यु अनैडकीर्न विन्देदथो अपि कुशीर्णा एव स्युः २.५.२.[१६] तद्यन्मेषश्च मेषी च भवतः । एष वै प्रत्यक्षं वरुणस्य पशुर्यन्मेषस्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति यवमयौ भवतो यवान्हि जक्षुषीर्वरुणोऽगृह्णान्मिथुनौ भवतो मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति २.५.२.[१७] स उत्तरस्यामेव पयस्यायां मेषीमवदधाति । दक्षिणस्यां मेषमेवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते २.५.२.[१८] स सर्वाण्येव हवींष्यध्वर्युः । उत्तरस्यां वेदावासादयत्यथैतामेव पयस्याम् प्रतिप्रस्थाता दक्षिणस्यां वेदावासादयति २.५.२.[१९] आसाद्य हवींष्यग्निं मन्थति । अग्निम् मन्थित्वानुप्रहृत्याभिजुहोत्यथाध्वर्युरेवाहाग्नये समिध्यमानायानुब्रूहीति ता उभावेवेध्मावभ्याधत्त उभौ समिधौ परिशिंष्ट उभौ पूर्वावाघारावाघारयतोऽथाध्वर्युरेवाहाग्निमग्नीत्सम्मृड्ढीत्यसम्मृष्टमेव भवति सम्प्रेषितम् २.५.२.[२०] अथ प्रतिप्रस्थाता प्रतिपरैति । स पत्नीमुदानेष्यन्पृच्छति केन चरसीति वरुण्यं वा एतत्स्त्री करोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्पा जुहवदिति तस्मात्पृच्छति निरुक्तं वा एनः कनीयो भवति सत्यं हि भवति तस्माद्वेव पृच्छति सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहितं स्यात् २.५.२.[२१] तां वाचयति । प्रघासिनो हवामहे मरुतश्च रिशादसः करम्भेण सजोषस इति यथा पुरोऽनुवाक्यैवमेषैतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति २.५.२.[२२] तानि वै प्रतिपुरुषम् । यावन्तो गृह्याः स्युतावन्त्येकेनातिरिक्तानि भवन्ति तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता वरुणपाशात्प्रमुञ्चत्येकेनातिरिक्तानि भवन्ति तद्या एवास्य प्रजा अजातास्ता वरुणपाशात्प्रमुञ्चति तस्मादेकेनातिरिक्तानि भवन्ति २.५.२.[२३] पात्राणि भवन्ति पात्रेषु ह्यशनमश्यते यवमयानि भवन्ति यवान्हि जक्षुषीर्वरुणोऽगृह्णाचूर्पेण जुहोति शूर्पेण ह्यशनं क्रियते पत्नी जुहोति मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति २.५.२.[२४] पुरा यज्ञात्पुराहुतिभ्यो जुहोति । अहुतादो वै विशो विशो वै मरुतो यत्र वै प्रजापतेः प्रजा वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च तद्धासां मरुतः पाप्मानं विमेथिरे तथो एवैतस्य प्रजानां मरुतः पाप्मानं विमथ्नते तस्मात्पुरा यज्ञात्पुराहुतिभ्यो जुहोति २.५.२.[२५] स वै दक्षिणेऽग्नौ जुहोति । यद्ग्रामे यदरण्य इति ग्रामे वा ह्यरण्ये वैनः क्रियते यत्सभायां यदिन्द्रिय इति यत्सभायामिति यन्मानुष इति तदाह यदिन्द्रिय इति यद्देवत्रेति तदाह यदेनश्चकृमा वयमिदं तदवयजामहे स्वाहेति यत्किं च वयमेनश्चकृमेदं वयं तस्मात्सर्वस्मात्प्रमुच्यामह इत्येवैतदाह २.५.२.[२६] अथैन्द्रीं मरुत्वतीं जपति । यत्र वै प्रजापतेः प्रजानां मरुतः पाप्मानं विमेथिरे तद्धेक्षां चक्र इमे ह मे प्रजा न विमथ्नीरन्निति २.५.२.[२७] स एतामैन्द्रीं मरुत्वतीमजपत् । क्षत्रं वा इन्द्रो विशो मरुतः क्षत्रं वै विशो निषेद्धा निषिद्धा असन्निति तस्मादैन्द्री २.५.२.[२८] मो षू णः । इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीरिति २.५.२.[२९] अथैनां वाचयति । अक्रन् कर्म कर्मकृत इत्यक्रन्हि कर्म कर्मकृतः सह वाचा मयोभुवेति सह हि वाचाक्रन्देवेभ्यः कर्म कृत्वेति देवेभ्यो हि कर्म कृत्वास्तम् प्रेत सचाभुव इत्यन्यतो ह्योढया सह भवन्ति तस्मादाह सचाभुव इत्यस्तम् प्रेतेति जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रासीषदद्गृहा वा अस्तं गृहाः प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायां प्रतिष्ठापयति २.५.२.[३०] प्रतिपराणीयोदैति प्रतिप्रस्थाता । सम्मृजन्त्यग्निं सम्मृष्टेऽग्नौ ता उभावेवोत्तरावाघारावाघारयतोऽथाध्वर्युरेवाश्राव्य होतारं प्रवृणीते प्रवृतो होतोत्तरस्यै वेदेर्होतृषदन उपविशत्युपविश्य प्रसौति ता उभावेव प्रसूतौ स्रुच आदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह समिधो यजेति यज यजेति चतुर्थेचतुर्थे प्रयाजे समानयमानौ नवभिः प्रयाजैश्चरतः २.५.२.[३१] अथाध्वर्युरेवाहाग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं यजेति ता उभावेव वषट्कृते जुहुतः २.५.२.[३२] अथाध्वर्युरेवाह सोमायानुब्रूहीति । सौम्यमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह सोमं यजेति ता उभावेव वषट्कृते जुहुतः २.५.२.[३३] तद्यत्किं च वाचा कर्तव्यम् । अध्वर्युरेव तत्करोति न प्रतिप्रस्थाता तद्यदध्वर्युरेवाश्रावयतीहैव यत्र वषट्क्रियते २.५.२.[३४] कृतानुकर एव प्रतिप्रस्थाता । क्षत्रं वै वरुणो विशो मरुतस्तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्याद्यदपि प्रतिप्रस्थाताश्रावयेत्तस्मान्न प्रतिप्रस्थाताश्रावयति २.५.२.[३५] प्राणावेव प्रतिप्रस्थाता । स्रुचौ कृत्वोपास्तेऽथाध्वर्युरेवैतैर्हविर्भिः प्रचरत्याग्नेयेनाष्टाकपालेन पुरोडाशेन सौम्येन चरुणा सावित्रेण द्वादशकपालेन वाष्टाकपालेन वा पुरोडाशेन सारस्वतेन चरुणा पौष्णेन चरुणैन्द्राग्नेन द्वादशकपालेन पुरोडाशेन २.५.२.[३६] अथैताभ्यां पयस्याभ्यां प्रचरिष्यन्तौ विपरिहरतः । स यो मेषो भवति मारुत्यां तं वारुण्यामवदधाति या मेषी भवति वारुण्यां ताम् मारुत्यामवदधाति तद्यदेवं विपरिहरतः क्षत्रं वै वरुणो वीर्यम् पुमान्वीर्यमेवैतत्क्षत्रे धत्तोऽवीर्या वै स्त्री विशो मरुतस्तदवीर्यामेवैतद्विशं कुरुतस्तस्मादेवं विपरिहरतः २.५.२.[३७] अथाध्वर्युरेवाह वरुणायानुब्रूहीति । स उपस्तृणीत आज्यमथास्यै वारुण्यै पयस्यायै द्विरवद्यति सोऽन्यतरेणावदानेन सह मेषमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यतिक्रम्याश्राव्याह वरुणं यजेति वषट्कृते जुहोति २.५.२.[३८] सव्ये पाणावध्वर्युः । स्रुचौ कृत्वा दक्षिणेन प्रतिप्रस्थातुर्वा सोऽन्वारभ्याह मरुद्भ्योऽनुब्रूहीत्युपस्तृणीत आज्यं प्रतिप्रस्थाताथास्यै मारुत्यै पयस्यायै द्विरवद्यति सोऽन्यतरेणावदानेन सह मेषीमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यथाध्वर्युरेवाश्राव्याह मरुतो यजेति वषट्कृते जुहोति २.५.२.[३९] अथाध्वर्युरेव कायेन । एककपालेन पुरोडाशेन प्रचरति कायेनैककपालेन पुरोडाशेन प्रचर्याध्वर्युरेवाहाग्नये स्विष्टकृतेऽनुब्रूहीति स सर्वेषामेव हविषामध्वर्युः सकृत्सकृदवद्यत्यथैतस्या एव पयस्यायै प्रतिप्रस्थाता सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयतस्ता उभावेवातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं स्विष्टकृतं यजेति ता उभावेव वषट्कृते जुहुतः २.५.२.[४०] अथाध्वर्युरेव प्राशित्रमवद्यति । इडां समवदाय प्रतिप्रस्थात्रेऽतिप्रजिहीते तत्रापि प्रतिप्रस्थाता मारुत्यै पयस्यायै द्विरभ्यवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयत्युपहूय मार्जयन्ते २.५.२.[४१] अथाध्वर्युरेवाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृड्ढीति स स्रुचोरेवाध्वर्युः पृषदाज्यं व्यानयतेऽथ यदि प्रतिप्रस्थातुः पृषदाज्यम् भवति तत्स द्वेधा व्यानयत उतो तत्र पृषदाज्यं न भवति स यदेवोपभृत्याज्यं तत्स द्वेधा व्यानयते ता उभावेवातिक्रामतो ऽतिक्रम्याश्राव्याध्वर्युरेवाह देवान्यजेति यजयजेति चतुर्थेचतुर्थेऽनुयाजे समानयमानौ नवभिरनुयाजैश्चरतस्तद्यन्नवप्रयाजं भवति नवानुयाजं तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजं भवति नवानुयाजम् २.५.२.[४२] ता उभावेव सादयित्वा स्रुचो व्यूहतः । स्रुचो व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याध्वर्युरेवाहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यतेऽथैता उभावेव प्रस्तरौ समुल्लुम्पत उभावनुप्रहरत उभौ तृणे अपगृह्योपासाते यदा होता सूक्तवाकमाह २.५.२.[४३] अथाग्नीदाहानुप्रहरेति । ता उभावेवानुप्रहरत उभावात्माना उपस्पृशेते २.५.२.[४४] अथाह संवदस्वेति । अगानग्नीदगंच्रावय श्रौषट्स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्यध्वर्युरेवैतदाह ता उभावेव परिधीननुप्रहरत उभौ स्रुचः सम्प्रगृह्य स्फ्ये सादयतः २.५.२.[४५] अथाध्वर्युरेव प्रतिपरेत्य । पत्नीः संयाजयत्युपास्त एव प्रतिप्रस्थाता पत्नीः संयाज्योदैत्यध्वर्युः २.५.२.[४६] त्रीणि समिष्टृयजूंषि जुहोति । तूष्णीमेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतन्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना किं चन क्रियते तूष्नीमेवेत्याभ्यवेत्योपमारयति २.५.२.[४७] अवभृथ निचुम्पुण । निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनोऽयासिषमव मर्त्यैर्मर्त्यकृतं पुरुरावणे देव रिषस्पाहीति कामं हैते यस्मै कामयेत तस्मै दद्यान्न हि दीक्षितवसने भवतः स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते २.५.२.[४८] अथ केशश्मश्रूप्त्वा । समारोह्याग्नी उदवसायेव ह्येतेन यजते न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति २.५.३. २.५.३.[१] वरुणप्रघासैर्वै प्रजापतिः । प्रजा वरुणपाशात्प्रामुञ्चत्ता स्यानमीवा अकिल्विषाः प्रजाः प्राजायन्ताथैतैः साकमेधैरेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते तस्माद्वा एष एतैश्चतुर्थे मासि यजते स वै द्व्यहमनूचीनाहं यजते २.५.३.[२] स पूर्वेद्युः । अग्नयेऽनीकवतेऽष्टाकपालं पुरोडाशं निर्वपत्यग्निं ह वै देवा अनीकं कृत्वोपप्रेयुर्वृत्रं हनिष्यन्तः स तेजोऽग्निर्नाव्यथत तथो एवैष एतत्पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्नग्निमेवानीकं कृत्वोपप्रैति स तेजो ऽग्निर्न व्यथते तस्मादग्नयेऽनीकवते २.५.३.[३] अथ मरुद्भ्यः सांतपनेभ्यः । मध्यन्दिने चरुं निर्वपति मरुतो ह वै सांतपना मद्यन्दिने वृत्रं संतेपुः स संतप्तोऽनन्नेव प्राणन्परिदीर्णः शिश्ये तथो एवैतस्य पाप्मानं द्विषन्तं भ्रातृव्यं मरुतः सांतपनाः संतपन्ति तस्मान्मरुद्भ्यः सांतपनेभ्यः २.५.३.[४] अथ मरुद्भ्यो गृहमेधिभ्यः । शाखया वत्सानपाकत्य पवित्रवति संदोह्य तं चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपन्ति तन्मेधो देवा दधिरे प्रातर्वृत्रं हनिष्यन्तस्तथो एवैष एतत्पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्मेघो धत्ते तद्यत्क्षीरौदनो भवति मेघो वै पयो मेघस्तण्डुलास्तमुभयं मेघमात्मन्धत्ते तस्मात्क्षीरौदनो भवति २.५.३.[५] तस्यावृत् । सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः सांतपनेभ्यस्तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति तथा संदोह्य चरुं श्रपयति श्रपयित्वाभिघार्योद्वासयति २.५.३.[६] अथ द्वे पिशीले वा पात्र्यौ वा निर्णेनिजति । तयोरेनं द्वेधोद्धरन्ति तयोर्मध्ये सर्पिरासेचने कृत्वा सर्पिरासिञ्चति स्रुवं च स्रुचं च सम्मार्ष्ट्यथैता ओदनावादायोदैति स्रुवं च स्रुचं चादायोदैति स इमामेव स्तीर्णां वेदिमभिमृश्य परिधीन्परिधाय यावतः शकलान् कामयते तावतोऽभ्यादधात्यथैता ओदनावासादयति स्रुवं च स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आह २.५.३.[७] अग्नयेऽनुब्र्रूहीति । आग्नेयमाज्यभागं स दक्षिणस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते जुहोति २.५.३.[८] अथाह सोमायानुब्रूहीति । सौम्यमाज्यभागं स उत्तरस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते जुहोति २.५.३.[९] अथाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति । स दक्षिणस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते तस्य द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति वषट्कृते जुहोति २.५.३.[१०] अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । स उत्तरस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते तस्य द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोत्यथेडामेवावद्यति न प्राशित्रमुपहूय मार्जयन्त एतन्न्वेकमयनम् २.५.३.[११] अथेदं द्वितीयम् । सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः सांतपनेभ्यस्तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति तथा संदोह्य चरुं श्रपयति नेदेव प्रतिवेशमाज्यमधिश्रयति श्रपयित्वाभिघार्योद्वास्यानक्ति स्थाल्यामाज्यमुद्वासयति स्रुवं च स्रुचं च सम्मार्ष्ट्यथैतं सोखमेव चरुमादायोदैति स्थाल्यामाज्यमादायोदैति स्रुवं च स्रुचं चादायोदैति स इमामेव स्तीर्ण् आं वेदिमभिमृश्य परिधीन्परिधाय यावतः शकलान् कामयते तावतो ऽभ्यादधात्यथैतं सोखमेव चरुमासादयति स्थाल्यामाज्यमासादयति स्रुवं च स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आह २.५.३.[१२] अग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं स स्थाल्यै चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते जुहोति २.५.३.[१३] अथाह सोमायानुब्रूहीति । सौम्यमाज्यभागं स स्थाल्या एव चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते जुहोति २.५.३.[१४] अथाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य चरोर्द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यतिक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति वषट्कृते जुहोति २.५.३.[१५] अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य चरोः सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानमतिक्रामत्यतिक्रम्याश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति २.५.३.[१६] अथेडामेवावद्यति न प्राशित्रम् । उपहूय प्राश्नन्ति यावन्तो गृह्या हविरुच्छिष्टाशाः स्युस्तावन्तः प्राश्नीयुरथो अप्यृत्विजः प्राश्नीयुरथो अप्यन्ये ब्राह्मणाः प्राश्नीयुर्यदि बहुरोदन स्यादथैतामनिरशितां कुम्भीमपिधाय निदधति पूर्णदर्वाय मातृभिर्वत्सान्त्समवार्जन्ति तदु पशवो मेघमात्मन्दधते यवाग्वैतां रात्रिमग्निहोत्रं जुहोति निवान्यां प्रातर्दुहन्ति पितृयज्ञाय २.५.३.[१७] अथ प्रातर्हुते वाहुते वा । यतरथा कामयेत सोऽस्या अनिरशितायै कुम्भ्यै दर्व्योपहन्ति पूर्णा दर्वि परापत सपूर्णा पुनरापत वस्नेव विक्रीणावहा इषमूर्जं शतक्रतविति यथा पुरोऽनुवाक्यैवमेपैतयैवैनमेतस्मै भागाय ह्वयति २.५.३.[१८] अथर्षभमाह्वयितवै ब्रूयात् । स यदि रुयात्स वषट्कार इत्यु हैक आहुस्तस्मिन्वषट्कारे जुहुयादित्यथो इन्द्रमेवैतत्स्वेन रूपेण ह्वयति वृत्रस्य बधायैतद्वा इन्द्रस्य रूप यदृषभस्तत्स्वेनैवैनमेतद्रूपेण ह्वयति वृत्रस्य बधाय स यदि रुयादा म इन्द्रो यज्ञमगन्त्सेन्द्रो मे यज्ञ इति ह विद्याद्यद्यु न रुयाद्ब्राह्मण एव दक्षिणत आसीनो ब्रूयाज्जुहुधीति सैवैन्द्री वाक् २.५.३.[१९] स जुहोति । देहि मे ददामि ते नि मे धेहि नि ते दधे निहारं च हरासि मे निहारं निहराणि ते स्वाहेति २.५.३.[२०] अथ मरुद्भ्यः क्रीडिभ्यः । सप्तकपालं पुरोडाशं निर्वपति मरुतो ह वै क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रीडुर्महयन्तस्तथो एवैतं पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्तमभितः परिक्रीडन्ते महयन्तस्तस्मान्मरुद्भ्यः क्रीडिभ्योऽथातो महाहविष एव तद्यथा महाहविषस्तथो तस्य २.५.४. २.५.४.[१] महाहविष ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते तस्माद्वा एष एतेन यजते २.५.४.[२] तस्यावृत् । उपकिरन्त्युत्तरवेदिं गृह्णन्ति पृषदाज्यं मन्थन्त्यग्निं नवप्रयाजम् भवति नवानुयाजं त्रीणि समिष्टयजूंषि भवन्त्यथैतान्येव पञ्च हवींषि भवन्ति २.५.४.[३] स यदाग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निना ह वा एनं तेजसाघ्नन्त्स तेजो ऽग्निर्नाव्यथत तस्मादाग्नेयो भवति २.५.४.[४] अथ यत्सौम्यश्चरुर्भवति । सोमेन ह वा एनं राज्ञाघ्नन्त्सोमराजान एव तस्मात्सौम्यश्चरुर्भवति २.५.४.[५] अथ यत्सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम् प्रसविता सवितृप्रसूता हैवैनमघ्नंस्तस्मात्सावित्रो भवति २.५.४.[६] अथ यत्सारस्वतश्चरुर्भवति । वाग्वै सरस्वती वागु हैवानुममाद प्रहर जहीति तस्मात्सारस्वतश्चरुर्भवति २.५.४.[७] अथ यत्पौष्णश्चरुर्भवति । इयं वै पृथिवी पूषेयं हैवैनं बधाय प्रतिप्रददावनया हैवैनं प्रतिप्रत्तं जघ्नुस्तस्मात्पौष्णश्चरुर्भवति २.५.४.[८] अथैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति । एतेन हैवैनमघ्नंस्तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र एताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन्ब्रह्म वा अग्निः क्षत्रमिन्द्रस्ते उभे संरभ्य ब्रह्म च क्षत्रं च सयुजौ कृत्वा ताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नंस्तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति २.५.४.[९] अथ माहेन्द्रश्चरुर्भवति । इन्द्रो वा एष पुरा वृत्रस्य बधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रश्चरुर्भवति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य बधाय तस्माद्वेव माहेन्द्रश्चरुर्भवति २.५.४.[१०] अथ वैश्वकर्मण एककपालः पुरोडाशो भवति । विश्वं वा एतत्कर्म कृतं सर्वं जितं देवानामासीत्साकमेधैरीजानानां विजिग्यानानां विश्वम्वेवैतस्यैतत्कर्म कृतं सर्वं जितं भवति साकमेधैरीजानस्य विजिग्यानस्य तस्माद्वैश्वकर्मण एककपालः पुरोडाशो भवति २.५.४.[११] एतेन वै देवाः । यज्ञेनेष्ट्वा येयं देवानां प्रजातिर्या श्रीरेतद्बभूवुरेतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत २.६.१. २.६.१.[१] महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्संग्रामेऽघ्नम्स्तान्पितृयज्ञेन समैरयन्त पितरो वै त आसंस्तस्मात्पितृयज्ञो नाम २.६.१.[२] तद्वसन्तो ग्रीष्मो वर्षाः । एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्त उ ते यान्पुनः समैरयन्त २.६.१.[३] अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कं चन घ्नन्तीति देवा अकुर्वन्निति न्वेवैष एतत्करोति यमु चैवैभ्यो देवा भागमकल्पयंस्तमु चैवैभ्य एष एतद्भागं करोति यानु चैव देवाः समैरयन्त तानु चैवैतदवति स्वानु चैवैतत्पितॄंच्रेयांस लोकमुपोन्नयति यदु चैवास्यात्रात्मनोऽचरणेन हन्यते वा मीयते वा तदु चैवास्यैतेन पुनराप्यायते तस्माद्वा एष एतेन यजते २.६.१.[४] स पितृभ्यः सोमवद्भ्यः । षट्कपाल पुरोडाश निवपति सोमाय वा पितृमते षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कपालो भवति २.६.१.[५] अथ पितृभ्यो बर्हिषद्भ्यः । अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः पिंषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भ्यः २.६.१.[६] अथ पितृभ्योऽग्निष्वात्तेभ्यः । निवान्यायै दुग्धे सकृदुपमथित एकशलाकया मन्थो भवति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुपमथितो भवत्येतानि हवींषि भवन्ति २.६.१.[७] तद्ये सोमेनेजानाः । ते पितरः सोमवन्तोऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते पितरो बर्हिषदोऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरो ऽग्निष्वात्ता एत उ ये पितरः २.६.१.[८] स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं षट्कपालम् पुरोडाशं गृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति २.६.१.[९] स दक्षिणैव दृषदुपले उपदधाति । दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपदधाति तद्यदेतां दक्षिणां दिशं सचन्त एषा हि दिक्पितॄणां तस्मादेतां दक्षिणां दिशं सचन्ते २.६.१.[१०] अथ दक्षिणेनान्वाहार्यपचनम् । चतुःस्रक्तिं वेदिं करोत्यवान्तरदिशोऽनु स्रक्तीः करोति चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्मादवान्तरदिशोऽनु स्रक्तीः करोति २.६.१.[११] तन्मध्येऽग्निं समादधाति । पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति सर्वतः पितरोऽवान्तरदिशो वै पितरः सर्वत इव हीमा अवान्तरदिशस्तस्मान्मध्येऽग्निं समादधाति २.६.१.[१२] स तत एव प्राक्स्तम्बयजुर्हरति । स्तम्बयजुर्हुत्वाथेत्येवाग्रे परिगृह्णात्यथेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति हरति यद्धार्यम् भवति स तथैवोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परिग्रहेण परिगृह्य प्रतिमृज्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मं बर्हिरुपसादयन्ति स्रुचः सम्मार्ष्ट्याज्येनोदैति स यज्ञोपवीती भूत्वाज्यानि गृह्णाति २.६.१.[१३] तदाहुः । द्विरुपभृति गृह्णीयाद्द्वौ ह्यत्रानुयाजौ भवत इति तद्वष्टावेव कृत्व उपभृति गृह्णीयान्नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयादाज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा २.६.१.[१४] प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिं न प्रस्तरं गृह्णाति सकृदु ह्येव पराञ्चः पितरस्तस्मान्न प्रस्तरं गृह्णाति २.६.१.[१५] अथ संनहनमनुविस्रंस्य । अपसलवि त्रिः परिस्तृणन्पर्येति सोऽपसलवि त्रिः परिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयान्पितॄनन्ववागात्तेभ्य एवैतत्पुनरपोदेतीमं स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति २.६.१.[१६] स दक्षिणैव परिधीन्परिदधाति । दक्षिणा प्रस्तरं स्तृणाति नान्तर्दधाति विधृती सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती २.६.१.[१७] स तत्र जुहूमासादयति । अथ पूर्वामुपभृतमथ ध्रुवामथ पुरोडाशमथ धाना अथ मन्थमासाद्य हवींषि सम्मृशति २.६.१.[१८] ते सर्व एव यज्ञोपवीतिनो भूत्वा । इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीत् २.६.१.[१९] तेनोपांशु चरन्ति । तिरैव वै पितरस्तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति २.६.१.[२०] परिवृते चरन्ति । तिर इव वै पितरस्तिर इवैतद्यत्परिवृतं तस्मात्परिवृते चरन्ति २.६.१.[२१] अथेध्ममभ्यादधदाह । अग्नये समिध्यमानायानुब्रूहीति स एकामेव होता सामिधेनीं त्रिरन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मादेकां होता सामिधेनीं त्रिरन्वाह २.६.१.[२२] सोऽन्वाह । उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि उशन्नुशत आवह पितॄन्हविषे अत्तव इत्यथाग्निमावह सोममावह पितॄन्त्सोमवत आवह पितॄन्बर्हिषद आवह पितॄनग्निष्वात्तानावह देवां३ आज्यपां३ आवहाग्निं होत्रायावह स्वं महिमानमावहेत्यावाह्योपविशति २.६.१.[२३] अथाश्राव्य न होतारं प्रवृणीते । पितृयज्ञो वा अयं नेद्धोतारं पितृषु दधानीति तस्मान्न होतारं प्रवृणीते सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतोऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह समिधो यजेति सोऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजत्यथाज्यभागाभ्यां चरन्त्याज्यभागाभ्यां चरित्वा २.६.१.[२४] ते सर्व एव प्राचीनावीतिनो भूत्वा । एतैर्वै हविर्भिः प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पुरस्तात्परीतः पश्चादग्नीत्तदुताश्रावयन्त्यों३ स्वधेत्यस्तु स्वधेति प्रत्याश्रावणं स्वधा नम इति वषट्कारः २.६.१.[२५] तदु होवाचासुरिः । आश्रावयेयुरेव प्रत्याश्रावयेयुर्वषट्कुर्युर्नेद्यज्ञस्य विधाया अयामेति २.६.१.[२६] अथाह पितृभ्यः सोमवद्भ्योऽनुब्रूहीति । सोमाय वा पितृमते स द्वे पुरोऽनुवाक्ये अन्वाहैकया वै देवान्प्रच्यावयन्ति द्वाभ्यां पितॄन्त्सकृदु ह्येव पराञ्चः पितरस्तस्माद्द्वे पुरोऽनुवाक्ये अन्वाह २.६.१.[२७] स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्त्सोमवतो यजेति वषट्कृते जुहोति २.६.१.[२८] अथाह पितृभ्यो बर्हिषद्भ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथासां धानानामवद्यति स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य तत्सकृदवदधात्यथोपरिष्टाद्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्बर्हिषदो यजेति वषट्कृते जुहोति २.६.१.[२९] अथाह पितृभ्योऽग्निष्वात्तेभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य मन्थस्यावद्यति स तेनैव सह पुरोडाशस्य तेन सह धानानां तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄनग्निष्वात्तान्यजेति वषट्कृते जुहोति २.६.१.[३०] अथाहाग्नये कव्यवाहनायानुब्रूहीति । तत्स्विष्टकृते हव्यवाहनो वै देवानां कव्यवाहनः पितॄणां तस्मादाहाग्नये कव्यवाहनायानुब्रूहीति २.६.१.[३१] स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याहाग्निं कव्यवाहनं यजेति वषट्कृते जुहोति २.६.१.[३२] स यन्नातिक्रामति । इत एवोपोत्थायं जुहोति सकृदु ह्येव पराञ्चः पितरोऽथ यत्सकृत्सर्वेषां समवद्यति सकृदु ह्येव पराञ्चः पितरोऽथ यद्व्यतिषङ्गमवदानान्यवद्यत्यृतवो वै पितर ऋतूनेवैतद्व्यतिषजत्यृतून्त्संदधाति तस्माद्व्यतिषङ्गमवदानान्यवद्यति २.६.१.[३३] तद्धैके । एतमेव होत्रे मन्थमादधति तं होतोपहूयावैव जिघ्रति तं ब्रह्मणे प्रयच्छति तं ब्रह्मावैव जिघ्रति तमग्नीधे प्रयच्छति तमग्नीदवैव जिघ्रत्येतन्न्वेवैतत्कुर्वन्ति यथा त्वेवेतरस्य यज्ञस्येडाप्राशित्रं समवद्यन्त्येवमेवैतस्यापि समवद्येयुस्तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति प्राशितव्य त्वेव वयं मन्यामह इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति २.६.१.[३४] अथ यतरो दास्यन्भवति । यद्यध्वर्युर्वा यजमानो वा स उदपात्रमादायापसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत् २.६.१.[३५] अथास्य पुरोडाशस्यावदाय । सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ कुरुते मन्थस्यावदाय सव्ये पाणौ कुरुते २.६.१.[३६] स येमामवान्तरदिशमनु स्रक्तिः । तस्यां यजमानस्य पित्रे ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य पितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य प्रपितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां निमृष्टेऽत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति यथाभागमश्नीतेत्येवैतदाह तद्यमेवं पितृभ्यो ददाति तेनो स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति २.६.१.[३७] ते सर्व एव यज्ञोपवीतिनो भूत्वा । उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजते ऽथैतत्पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नुवते २.६.१.[३८] ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते इन्द्रो ह्याहवनीयोऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरि सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि प्र नूनं पूर्णबन्धुर स्तुतो यासि वशांऽनु योजा न्विन्द्र ते हरी इति २.६.१.[३९] अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो न्वाह्वामहे नाराशंसेन स्तोमेन पितॄणां च मन्मभिः आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दृशे पुनर्नः पितरो मनो ददातु दैव्यो जनः जीवं व्रातं सचेमहीति पितृयज्ञेनेव वा एतदचारिषुस्तदु खलु पुनर्जीवानपिपद्यन्ते तस्मादाह जीवं व्रातं सचेमहीति २.६.१.[४०] अथ यतरो ददाति । स पुनः प्राचीनावीती भूत्वाभिप्रपद्य जपत्यमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह २.६.१.[४१] अथोदपात्रमादाय । पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत्तद्यत्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति प्रसलवि न इदं कर्मानुसंतिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति २.६.१.[४२] अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणः २.६.१.[४३] ते सर्व एव यज्ञोपवीतिनो भूत्वा । अनुयाजाभ्यां प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने २.६.१.[४४] अथाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृद्ढीति स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह देवान्यजेति सोऽपबर्हिषौ द्वावनुयाजौ यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति २.६.१.[४५] अथ सादयित्वा स्रुचौ व्यूहति । स्रुचौ व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते नाध्वर्युः प्रस्तरं समुल्लुम्पतीत्येवोपास्ते यदा होता सूक्तवाकमाह २.६.१.[४६] अथाग्नीदाहानुप्रहरेति । स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति २.६.१.[४७] अथाह संवदस्वेति । अगानग्नीदगंच्रावय श्रौषट्स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्युपस्पृशत्येव परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च २.६.१.[४८] तद्धैके । हविरुच्छिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्धुतोच्छिष्टं वा एतन्नेद्धुतोच्छिष्टमग्नौ जुहवामेति तस्मादपो वैवाभ्यवहरेयुः प्राश्नीयुर्वा २.६.२. २.६.२.[१] महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्संग्राम इषव आर्चंस्तानेतैरेव शल्पान्निरहरन्त तान्व्यवृहन्त यत्त्र्यम्बकैरयजन्त २.६.२.[२] अथ यदेष एतैर्यजते । तन्नाह न्वेवैतस्य तथा कं चनेषुर्ऋच्छतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति याश्च त्वेवास्य प्रजा जाता याश्चाजातास्ता उभयी रुद्रियात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते तस्माद्वा एष एतैर्यजते २.६.२.[३] ते वै रौद्रा भवन्ति । रुद्रस्य हीषुस्तस्माद्रौद्रा भवन्त्येककपाला भवन्त्येकदेवत्या असन्निति तस्मादेककपाला भवन्ति २.६.२.[४] ते वै प्रतिपुरुषम् । यावन्तो गृह्याः स्युस्तावन्त एकेनातिरिक्ता भवन्ति तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चत्येकेनातिरिक्ता भवन्ति तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति तस्मादेकेनातिरिक्ता भवन्ति २.६.२.[५] स जघनेन गार्हपत्यम् । यज्ञोपवीती भूत्वोदङ्ङासीन एतान्गृह्णाति स तत एवोपोत्थायोदङ्तिष्ठन्नवहन्त्युदीच्यौ दृषदुपले उपदधात्युत्तरार्धे गार्हपत्यस्य कपालान्युपदधाति तद्यदेव तामुत्तरां दिशं सचन्त एषा ह्येतस्य देवस्य दिक्तस्मादेतामुत्तरां दिशं सचन्ते २.६.२.[६] ते वा अक्ताः स्युः । अक्तं हि हविस्त उ वा अनक्ता एव स्युरभिमानुको ह रुद्रः पशून्त्स्याद्यदञ्ज्यात्तस्मादनक्ता एव स्युः २.६.२.[७] तान्त्सार्धं पात्र्यां समुद्वास्य । अन्वाहार्यपचनादुल्मुकमादायोदङ्परेत्य जुहोत्येषा ह्येतस्य देवस्य दिक्पथि जुहोति पथा हि स देवश्चरति चतुष्पथे जुहोत्येतद्ध वा अस्य जांधितं प्रज्ञातमवसानं यच्चतुष्पथं तस्माच्चतुष्पथे जुहोति २.६.२.[८] पलाशस्य पलाशेन मध्यमेन जुहोति । ब्रह्म वै पलाशस्य पलाशम् ब्रह्मणैवैतज्जुहोति स सर्वेषामेवावद्यत्येकस्यैव नावद्यति य एषोऽतिरिक्तो भवति २.६.२.[९] स जुहोति । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेत्यम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागस्तद्यदस्यैष स्त्रिया सह भागस्तस्मात्त्र्यम्बका नाम तद्या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चति २.६.२.[१०] अथ य एष एकोऽतिरिक्तो भवति । तमाखूत्कर उपकिरत्येष ते रुद्र भाग आखुस्ते पशुरिति तदस्मा आखुमेव पशूनामनुदिशति तेनो इतरान्पशून्न हिनस्ति तद्यदुपकिरति तिर इव वै गर्भास्तिर इवैतद्यदुपकीर्णं तस्माद्वा उपकिरति तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति २.६.२.[११] अथ पुनरेत्य जपन्ति । अव रुद्रमदीमह्यव देवं त्र्यम्बकं यथा नो वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजं सुखं मेषाय मेष्या इत्याशीरेवैषैतस्य कर्मणः २.६.२.[१२] अथापसलवि त्रिः परियन्ति । सव्यानूरूनुपाघ्नानास्त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनमुर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतादित्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशासते तदु ह्येव शमिव यो मृत्योर्मुच्यातै नामृतात्तस्मादाह मृत्योर्मुक्षीय मामृतादिति २.६.२.[१३] तदु ह्यापि कुमायः परीत्युः । भगस्य भजामहा इति या ह वै सा रुद्रस्य स्वसाम्बिका नाम सा ह वै भगस्येष्टे तस्मादु हापि कुमार्य परीयुर्भगस्य भजामहा इति २.६.२.[१४] तासामुतासां मन्त्रोऽस्ति । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् उर्वारुकमिव बन्धनादितो मुक्षीय मामुत इति सा यदित इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाह पतयो ह्येव स्त्रियै प्रतिष्ठा तस्मादाह मामुत इति २.६.२.[१५] अथ पुनः प्रसलवि त्रिः परियन्ति । दक्षिणानूरूनुपाघ्नाना एतेनैव मन्त्रेण तद्यत्पुनः प्रसलवि त्रिः परियन्ति प्रसलवि न इदं कर्मानुसंतिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परियन्ति २.६.२.[१६] अथैतान्यजमानोऽञ्जलौ समोप्य । ऊध्वानुदस्यति यथा गौर्नोदाप्नुयात्तदात्मभ्य एवैतच्छल्यान्निर्मिमते तान्विलिप्सन्त उपस्पृशन्ति भेषजमेवैतत्कुर्वते तस्माद्विलिप्सन्त उपस्पृशन्ति २.६.२.[१७] तान्द्वयोर्मूतकयोरुपनह्य । वेणुयष्ट्यां वा कुपे वोभयत आबध्यादङ्परेत्य यदि वृक्षं वा स्थाणु वा वेणुं वा वल्मीकं वा विन्देत्तस्मिन्नासजत्येतत्ते रुद्रावसं तेन परो मूजवतोऽतीहीत्यवसेन वा अध्वानं यन्ति तदेनं सावसमेवान्ववार्जति यत्र यत्रास्य चरणं तदन्वत्र ह वा अस्य परो मूजवद्भ्यश्चरणं तस्मादाह परो मूजवतोऽतीहीत्यवततधन्वा पिनाकावस इत्यहिंसन्नः शिवोऽतीहीत्य् एवैतदाह कृत्तिवासा इति निष्वापयत्येवैनमेतत्स्वपन्नु हि न कं चन हिनस्ति तस्मादाह कृत्तिवासा इति २.६.२.[१८] अथ दक्षिणान्बाहुनन्वावर्तन्ते । ते प्रतीक्षं पुनरायन्ति पुनरेत्याप उपस्पृशन्ति रुद्रियेणेव वा एतदचारिषुः शान्तिरापस्तदद्भिः शान्त्या शमयन्ते २.६.२.[१९] अथ केशश्मश्रूप्त्वा । समारोह्याग्ना उदवसायेव ह्येतेन यजते न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति २.६.३. २.६.३.[१] अक्षय्यं ह वै सुकृतं चातुर्मास्ययाजिनो भवति । संवत्सरं हि जयति तेनास्याक्षय्यं भवति तं वै त्रेधा विभज्य यजति त्रेधा विभज्य प्रजयति सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम् भवत्यृतुरु हैवैतद्भूत्वा देवानप्येत्यक्षय्यमु वैदेवानामेतेनो हैवास्याक्षय्यं सुकृतं भवत्येतन्नु तद्यस्माच्चातुर्मास्यैर्यजते २.६.३.[२] अथ यस्माच्छुनासीर्येण यजेते । या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माच्छुनासीर्येण यजते २.६.३.[३] तस्यावृत् । नोपकिरन्त्युत्तरवेदिं न गृह्णन्ति पृषदाज्यं न मन्थन्त्यग्निं पञ्च प्रयाजा भवन्ति त्रयोऽनुयाजा एकं समिष्टयजुः २.६.३.[४] अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैर्या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माद्वा एतानि पञ्च हवींषि भवन्ति २.६.३.[५] अथ शुनासीर्यो द्वादशकपालः पुरोडाशो भवति । स बन्धुः शुनासीर्यस्य यम् पूर्वमवोचाम २.६.३.[६] अथ वायव्यं पयो भवति । पयो ह वै प्रजा जाता अभिसंजानते विजिग्यानं मा प्रजाः श्रियै यशसेऽन्नाद्यायाभिसंजानान्ता इति तस्मात्पयो भवति २.६.३.[७] तद्यद्वायव्यं भवति । अयं वै वायुर्योऽयं पवत एष वा इदं सर्वम् प्रप्याययति यदिदं किं च वर्षति वृष्टादोषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एतदद्भ्योऽधि पयः सम्भवत्येष हि वा एतज्जनयति तस्माद्वायव्यम् भवति २.६.३.[८] अथ सौर्य एककपालः पुरोडाशो भवति एष वै सूर्यो य एष तपत्येष वा इदं सर्वमभिगोपायति साधुना त्वदसाधुना त्वदेष इदं सर्वं विदधाति साधौ त्वदसाधौ त्वदेष मा विजिग्यानं प्रीतः साधुना त्वदभिगोपायत्साधौ त्वद्विदधदिति तस्मात्सौर्य एककपालः पुरोडाशो भवति २.६.३.[९] तस्याश्वः श्वेतो दक्षिणा । तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तदेतस्य रूपं क्रियते य एष तपति २.६.३.[१०] स यत्रैव साकमेधैर्यजते । तच्छुनासीर्येण यजेत यद्वै त्रिः संवत्सरस्य यजते तेनैव संवत्सरमाप्नोति तस्माद्यदैव कदा चैतेन यजेत २.६.३.[११] तद्धैके । रात्रीरापिपयिषन्ति स यदि रात्रीरापिपयिषेद्यददः पुरस्तात्फाल्गुन्यै पौर्णमास्या उद्दृष्टं तच्छुनासीर्येण यजेत २.६.३.[१२] अथ दीक्षेत तं नानीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्पुनःप्रयागरूप इव ह स यदेनमनीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्तस्मादेनं नानीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयादिति नूत्सृजमानस्य २.६.३.[१३] अथ पुनः प्रयुञ्जानस्य । पूर्वेद्युः फाल्गुन्यै पौर्णमास्यै शुनासीर्येण यजेताथ प्रातर्वैश्वदेवेनाथ पौर्णमासेनैतदु पुनः प्रयुञ्जानस्य २.६.३.[१४] अथातः । परिवर्तनस्यैव सर्वतोमुखो वा असावादित्य एष वा इदं सर्वं निर्धयति यदिदं किं च शुष्यति तेनैष सर्वतोमुखस्तेनान्नादः २.६.३.[१५] सर्वतोमुखोऽयमग्निः । यतो ह्येव कुतश्चाग्नावभ्यादधति तत एव प्रदहति तेनैष सर्वतोमुखस्तेनान्नादः २.६.३.[१६] अथायमन्यतोमुखः पुरुषः । स एतत्सर्वतोमुखो भवति यत्परिवर्तयते स एवमेवान्नादो भवति यथैतावेतद्य एवं विद्वान्परिवर्तयते तस्माद्वै परिवर्तयेत २.६.३.[१७] तदु होवाचासुरिः । किं नु तत्र मुखस्य यदपि सर्वाण्येव लोमानि वपेत यद्वै त्रिः संवत्सरस्य यजते तेनैव सर्वतोमुखस्तेनान्नादस्तस्मान्नाद्रियेत परिवर्तयितुमिति २.६.४. २.६.४.[१] तद्यदाहुः । साकमेधैर्वै देवा वृत्रमघ्नंस्तैर्वेव व्यजयन्त येयमेषां विजितिस्तामिति सर्वैर्ह त्वेव देवाश्चातुर्मास्यैर्वृत्रमघ्नन्त्सर्वैर्वेव व्ययन्त येयमेषां विजितिस्ताम् २.६.४.[२] ते होचुः । केन राज्ञा केनानीकेन योत्स्याम इति स हाग्निरुवाच मया राज्ञा मयानीकेनेति तेऽग्निना राज्ञाग्निनानीकेन चतुरो मासः प्राजयंस्तान्ब्रह्मणा च त्रय्या च विद्यया पर्यगृह्णन् २.६.४.[३] ते होचुः । केनैव राज्ञा केनानीकेन योत्स्याम इति स ह वरुण उवाच मया राज्ञा मयानीकेनेति ते वरुणेनैव राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन् २.६.४.[४] ते होचुः । केनैव राज्ञा केनानीकेन योत्स्याम इति स हेन्द्र उवाच मया राज्ञा मयानीकेनेति त इन्द्रेणैव राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन् २.६.४.[५] स यद्वैश्वदेवेन यजते । अग्निनैवैतद्राज्ञाग्निनानीकेन चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरः सा या त्र्येनी शलली सा त्रय्यै विद्यायै रूपं लोहः क्षुरो ब्रह्मणो रूपमग्निर्हि ब्रह्म लोहित इव ह्यग्निस्तस्माल्लोहः क्षुरो भवति तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति २.६.४.[६] अथ यद्वरुणप्रघासैर्यजते । वरुणेनैवैतद्राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति २.६.४.[७] अथ यत्साकमेधैर्यजते । इन्द्रेणैवैतद्राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति २.६.४.[८] स यद्वैश्वदेवेन यजते । अग्निरेव तर्हि भवत्यग्नेरेव सायुज्यं सलोकतां जयत्यथ यत्साकमेधैर्यजत इन्द्र एव तर्हि भवतीन्द्रस्यैव सायुज्यं सलोकतां जयति २.६.४.[९] स यस्मिन्हर्तावमुं लोकमेति । स एनमृतुः परस्मा ऋतवे प्रयच्छति पर उ परस्मा ऋतवे प्रयच्छति स परममेव स्थानं परमां गतिं गच्छति चातुर्मास्ययाजी तदाहुर्न चातुर्मास्ययाजिनमनुविन्दन्ति परमं ह्येव खलु स स्थानम् परमांगतिं गच्छतीति ३.१.१.[१] देवयजनं जोषयन्ते । स यदेव वर्षिष्ठं स्यात्तज्जोषयेरन्यदन्यद्भूमेराभिशयीतातो वै देवा दिवमुपोदक्रामन्देवान्वा एष उपोत्क्रामति यो दीक्षते स सदेवे देवयजने यजते स यद्धान्यद्भूमेरभिशयीतावरतर इव हेष्ठ्वा स्यात्तस्माद्यदेव वर्षिष्ठं स्यात्तज्जोषयेरन् ३.१.१.[२] तद्वर्ष्म सत्समं स्यात् । समं सदविभ्रंशि स्यादविभ्रंशि सत्प्राक्प्रवणं स्यात्प्राची हि देवानां दिगथो उदक्प्रवणमुदीची हि मनुष्याणां दिग्दक्षिणतः प्रत्युच्रितमिव स्यादेषा वै दिक्पितॄणां स यद्दक्षिणाप्रवणं स्यात्क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः प्रत्युच्रितमिव स्यात् ३.१.१.[३] न पुरस्ताद्देवयजनमात्रमतिरिच्येत । द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते कामं ह दक्षिणतः स्यादेवमुत्तरत एतद्ध त्वेव समृद्धं देवयजनं यस्य देवयजनमात्रं पश्चात्परिशिष्यते क्षिप्रे हैवैनमुत्तरा देवयज्योपनमतीति नु देवयजनस्य ३.१.१.[४] तदु होवाच याज्ञवल्क्यः । वार्ष्ण्याय देवयजनं जोषयितुमैम तत्सात्ययज्ञो ऽब्रवीत्सर्वा वा इयं पृथिवी देवी देवयजनं यत्र वा अस्यै क्व च यजुषैव परिगृह्य याजयेदिति ३.१.१.[५] ऋत्विजो हैव देवयजनम् । ये ब्राह्मणाः शुश्रुवांसोऽनूचाना विद्वांसो याजयन्ति सैवाह्वलैतन्नेदिष्ठमामिव मन्यामह इति ३.१.१.[६] तच्छालो वा विमितं वा प्राचीनवंशं मिन्वन्ति । प्राची हि देवानां दिक्पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानुपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति ३.१.१.[७] तस्मादु ह न प्रतीचीनशिराः शयीत । नेद्देवानभिप्रसार्य शया इति या दक्षिणा दिक् सा पितॄणां या प्रतीची सासर्पाणां यतो देवा उच्चक्रमुः सैषाहीना योदीची दिक्सा मनुष्याणां तस्मान्मानुष उदीचीनवंशामेव शालां वा विमितं वा मिन्वन्त्युदीची हि मनुष्याणां दिग्दीक्षितस्यैव प्राचीनवंशा नादीक्षितस्य ३.१.१.[८] तां वा एतां परिश्रयन्ति । नेदभिवर्षादिति न्वेव वर्षा देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्परिश्रितं तस्मात्परिश्रयन्ति ३.१.१.[९] तन्न सर्व इवाभिप्रपद्येत ब्राह्मणो वैव राजन्यो वा वैश्यो वा ते हि यज्ञियाः ३.१.१.[१०] स वै न सर्वेणेव संवदेत । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवा सर्वेणेव संवदन्ते ब्राह्मणेन वैव राजन्येन वा वैश्येन वा ते हि यज्ञियास्तस्माद्यद्येनं शूद्रेण संवादो विन्देदेतेषामेवैकं ब्रूयादिममिति विचक्ष्वेममिति विचक्ष्वेत्येष उ तत्र दीक्षितस्योपचारः ३.१.१.[११] अथारणी पाणौ कृत्वा । शालामध्यवस्यति स पूर्वार्ध्यं स्थूणाराजमभिपद्यैतद्यजुराहैदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैश्च देवैर्जुष्टं भवति ये चेमे ब्राह्मणाः शुश्रुवांसोऽनूचाना यदहास्य तेऽक्षिभ्यामीक्षन्ते ब्राह्मणाः शुश्रुवांसस्तदहास्य तैर्जुष्टं भवति ३.१.१.[१२] यद्वाह । यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैर्देवैर्जुष्टम् भवत्यृक्षामाभ्यां संतरन्तो यजुर्भिरित्यृक्षामाभ्यां वै यजुर्भिर्यज्ञस्योदृचं गच्छन्ति यज्ञस्योदृचं गच्छानीत्येवैतदाह रायस्पोषेण समिषा मदेमेति भूमा वै रायस्पोषः श्रीर्वै भूमाशिषमेवैतदाशास्ते समिषा मदेमेतीषं मदतीति वै तमाहुर्यः श्रियमश्नुते यः परमतां गच्छति तस्मादाह समिषा मदेमेति ३.१.२. ३.१.२.[१] अपराह्णे दीक्षेत । पुरा केशश्मश्रोर्वपनाद्यत्कामयेत तदश्नीयाद्यद्वा सम्पद्येत व्रतं ह्येवास्यातोऽशनं भवति यद्यु नाशिशिषेदपि कामं नाश्नीयात् ३.१.२.[२] अथोत्तरेण शालां परिश्रयन्ति । तदुदकुम्भमुपनिदधाति तन्नापित उपतिष्ठते तत्केशश्मश्रु च वपते नखानि च निकृन्ततेऽस्ति वै पुरुषस्यामेध्यं यत्रास्यापो नोपतिष्ठन्ते केशश्मश्रौ च वा अस्य नखेषु चापो नोपतिष्ठन्ते तद्यत्केशश्मश्रु च वपते नखानि च निकृन्तते मेध्यो भूत्वा दीक्षा इति ३.१.२.[३] तद्धैके । सर्व एव वपन्ते सर्व एव मेध्या भूत्वा दीक्षिष्यामह इति तदु तथा न कुर्याद्यद्वै केशश्मश्रु च वपते नखानि च निकृन्तते तदेव मेध्यो भवति तस्मादु केशश्मश्रु चैव वपेत नखानि च निकृन्तेत ३.१.२.[४] स वै नखान्येवाग्रे निकृन्तते । दक्षिणस्यैवाग्रे सव्यस्य वा अग्रे मानुषेऽथैवं देवत्राङ्गुष्ठयोरेवाग्रे कनिष्ठिकयोर्वा अग्रे मानुषेऽथैवं देवत्रा ३.१.२.[५] स दक्षिणमेवाग्रे गोदानं वितारयति । सव्यं वा अग्रे मानुषेऽथैवं देवत्रा ३.१.२.[६] स दक्षिणमेवाग्रे गोदानमभ्युनत्ति । इमा आपः शमु मे सन्तु देवीरिति स यदाहेमा आपः शमु मे सन्तु देवीरिति वज्रो वा आपो वज्रो हि वा आपस्तस्माद्येनैता यन्ति निम्नं कुर्वन्ति यत्रोपतिष्ठन्ते निर्दहन्ति तत्तदेतमेवैतद्वज्रं शमयति तथो हैनमेष वज्रः शान्तो न हिनस्ति तस्मादाहेमा आपः शमु मे सन्तु देवीरिति ३.१.२.[७] अथ दर्भतरुणकमन्तर्दधाति । ओषधे त्रायस्वेति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्त्यथ क्षुरेणाभिनिदधाति स्वधिते मैनं हिंसीरिति वज्रो वै क्षुरस्तथो हैनमेष वज्रः क्षुरो न हिनस्ति ३.१.२.[८] प्रच्छिद्योदपात्रे प्रास्यति । तूष्णीमेवोत्तरं गोदानमभ्युनत्ति तूष्णीं दर्भतरुणकमन्तर्दधाति तूष्णीं क्षुरेणाभिनिधाय प्रच्छिद्योदपात्रे प्रास्यति ३.१.२.[९] अथ नापिताय क्षुरं प्रयच्छति । स केशश्मश्रु वपति स यदा केशश्मश्रु वपति ३.१.२.[१०] अथ स्नाति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वा आपो मेध्यो भूत्वा दीक्षा इति पवित्रं वा आपः पवित्रपूतो दीक्षा इति तस्माद्वै स्नाति ३.१.२.[११] स स्नाति । आपो अस्मान्मातरः शुन्धयन्त्विति घृतेन नो घृतष्वः पुनन्त्विति तद्वै सपूतं यं घृतेनापुनंस्तस्मादाह घृतेन नो घृतप्वः पुनन्त्विति विश्वं हि रिप्रं प्रवहन्ति देवीरिति यद्वै विश्वं सर्वं तद्यदमेध्यं रिप्रं तत्सर्वं ह्यस्मादमेध्यं प्रवहन्ति तस्मादाह विश्वं हि रिप्रं प्रवहन्ति देवीरिति ३.१.२.[१२] अथ प्राङिवोदङ्ङुत्क्रामति । उदिदाभ्यः शुचिरा पूत एमीत्युद्ध्याभ्यः शुचिः पूत एति ३.१.२.[१३] अथ वासः परिधत्ते । सर्वत्वायैव स्वामेवास्मिन्नेतत्त्वचं दधाति या ह वा इयं गोस्त्वक्पुरुषे हैषाग्र आस ३.१.२.[१४] ते देवा अब्रुवन् । गौर्वा इदं सर्वं बिभर्ति हन्त येयं पुरुषे त्वग्गव्येतां दधाम तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षिष्यत इति ३.१.२.[१५] तेऽवच्छाय पुरुषम् । गव्येतां त्वचमदधुस्तयैषा वर्षन्तं तया हिमं तया घृणिं तितिक्षते ३.१.२.[१६] अवचितो हि वै पुरुषः । तस्मादस्य यत्रैव क्व च कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति तस्मिन्नेतां त्वचमदधुर्वास एव तस्मान्नान्यः पुरुषाद्वासो बिभर्त्येतां ह्यस्मिंस्त्वचमदधुस्तस्मादु सुवासा एव बुभूषेत्स्वया त्वचा समृध्या इति तस्मादप्यश्लीलं सुवाससं दिदृक्षन्ते स्वया हि त्वचा समृद्धो भवति ३.१.२.[१७] नो हान्ते गोर्नग्नः स्यात् । वेद ह गौरहमस्य त्वचं बिभर्मीति सा बिभ्यती त्रसति त्वचं म आदास्यत इति तस्मादु गावः सुवाससमुपैव निश्रयन्ते ३.१.२.[१८] तस्य वा एतस्य वाससः । अग्नेः पर्यासो भवति वायोरनुच्छादो नीविः पितॄणां सर्पाणाम् प्रघातो विश्वेषां देवानां तन्तव आरोका नक्षत्राणामेवं हि वा एतत्सर्वे देवा अन्वायत्तास्तस्माद्दीक्षितवसनं भवति ३.१.२.[१९] तद्वा अहतं स्यात् । अयातयामतायै तद्वै निष्पेष्टवै ब्रूयाद्यदेवास्यात्रामेध्या कृणत्ति वा वयति वा तदस्य मेध्यमसदिति यद्यु अहतं स्यादद्भिरभ्युक्षेन्मेध्यमसदित्यथो यदिदं स्नातवस्यं निहितमपल्पूलनकृतं भवति तेनो हापि दीक्षेत ३.१.२.[२०] तत्परिधत्ते । दीक्षातपसोस्तनूरसीत्यदीक्षितस्य वाअस्यैषाग्रे तनूर्भवत्यथात्र दीक्षातपसोस्तस्मादाह दीक्षातपसोस्तनूरसीति तां त्वा शिवां शग्मां परिदध इति तां त्वा शिवां साध्वीं परिदध इत्येवैतदाह भद्रं वर्णं पुष्यन्निति पापवा एषोऽग्रे वर्णं पुष्यति यममुमदीक्षितोऽथात्र भद्रं तस्मादाह भद्रं वर्णं पुष्यन्निति ३.१.२.[२१] अथैनं शालां प्रपादयति । स धेन्वै चानडुहश्च नाश्नीयाद्धेन्वनडुहौ वा इदं सर्वं बिभृतस्ते देवा अब्रुवन्धेन्वनडुहौ वा इदं सर्वं बिभृतो हन्त यदन्येषां वयसां वीर्यं तद्धेन्वनडुहयोर्दधामेति स यदन्येषां वयसां वीर्यमासीत्तद्धेन्वनडुहयोरदधुस्तस्माद्धेनुश्चैवानड्वांश्च भूयिष्ठम् भुङ्क्तस्तद्धैतत्सर्वाश्यमिव यो धेन्वनडुहयोरश्नीयादन्तगतिरिव तं हाद्भुतमभिजनितोर्जायायै गर्भं निरबधीदिति पपमकदिति पापी कीर्तिस्तस्माद्धेन्वनडुहयोर्नाश्नीयात्तदु होवाच याज्ञवल्क्यो ऽश्नाम्येवाहमंसलं चेद्भवतीति ३.१.३. ३.१.३.[१] अपः प्रणीय । आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च यज्ञं परिगृह्य दीक्षा इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति ३.१.३.[२] तद्धैके । आदित्येभ्यश्चरुं निर्वपन्ति तदस्ति पर्युदितमिवाष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यदिति ३.१.३.[३] अष्टौ ह वै पुत्रा अदितेः । यांस्त्वेतद्देवा आदित्या इत्याचक्षते सप्त हैव तेऽविकृतं हाष्टमं जनयां चकार मार्ताण्डं संदेघो हैवास यावानेवोर्ध्वस्तावांस्तिर्यङ् पुरुषसम्मित इत्यु हैक आहुः ३.१.३.[४] त उ हैत ऊचुः । देवा आदित्या यदस्मानन्वजनिमा तदमुयेव भूद्धन्तेमं विकरवामेति तं विचक्रुर्यथायं पुरुषो विकृतस्तस्य यानि मांसानि संकृत्य संन्यासुस्ततो हस्ती समभवत्तस्मादाहुर्न हस्तिनं प्रतिगृह्णीयात्पुरुषाजानो हि हस्तीति यमु ह तद्विचक्रुः स विवस्वानादित्यस्तस्येमाः प्रजाः ३.१.३.[५] स होवाच । राध्नवान्मे स प्रजायां य एतमादित्येभ्यश्चरुं निर्वपादिति राध्नोति हैव य एतमादित्येभ्यश्चरुं निर्वपत्ययं त्वेवाग्नावैष्णवः प्रज्ञातः ३.१.३.[६] तस्य सप्तदश सामिधेन्यो भवन्ति । उपांशु देवते यजति पञ्च प्रयाजा भवन्ति त्रयोऽनुयाजाः संयाजयन्ति पत्नीः सर्वत्वायैव समिष्टयजुरेव न जुहोति नेदिदं दीक्षितवसनं परिधाय पुरा यज्ञस्य संस्थाया अन्तं गच्छानीत्यान्तो हि यज्ञस्य समिष्टयजुः ३.१.३.[७] अथाग्रेण शालां तिष्ठन्नभ्यङ्क्ते । अरुर्वै पुरुषोऽवच्छितोऽनरुरेवैतद्भवति यदभ्यङ्क्ते गवि वै पुरुषस्य त्वग्गोर्वा एतन्नवनीतं भवति स्वयैवैनमेतत्त्वचा समर्धयति तस्माद्वा अभ्यङ्क्ते ३.१.३.[८] तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टम् मनुष्याणामथैतन्नाहैव घृतं नो फाण्टं स्यादेव घृतं स्यात्फाण्टमयातयामतायै तदेनमयातयाम्नैवायातयामानं करोति ३.१.३.[९] तमभ्यनक्ति । शीर्षतोऽग्र आ पादाभ्यामनुलोमं महीनां पयोऽसीति मह्य इति ह वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनाम् पयोऽसीति वर्चोदा असि वर्चो मे देहीति नात्र तिरोहितमिवास्ति ३.१.३.[१०] अथाक्ष्यावानक्ति । अरुर्वै पुरुषस्याक्षि प्रशान्ममेति ह स्माह याज्ञवल्क्यो दुरक्ष इव हास पूयो हैवास्य दूषीका ते एवैतदनरुष्करोति यदक्ष्यावानक्ति ३.१.३.[११] यत्र वै देवाः । असुररक्षसानि जघ्नुस्तच्छुष्णो दानवः प्रत्यङ्पतित्वा मनुष्याणामक्षीणि प्रविवेश स एष कनीनकः कुमारक इव परिभासते तस्मा एवैतद्यज्ञमुपप्रयन्त्सर्वतोऽश्मपुरां परिदधात्यश्मा ह्याञ्जनम् ३.१.३.[१२] त्रैककुदं भवति । यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यत्त्रैककुदं भवति चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैककुदं न विन्देदप्यत्रैककुदमेव स्यात्समानी ह्येवाञ्जनस्य बन्धुता ३.१.३.[१३] शरेषीकयानक्ति । वज्रो वै शरो विरक्षस्तायै सतूला भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षोऽन्तरिक्षमनुचरति यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद्यत्सतूला भवति विरक्षस्तायै ३.१.३.[१४] स दक्षिणमेवाग्र आनक्ति । सव्यं वा अग्रे मानुषेऽथैवं देवत्रा ३.१.३.[१५] स आनक्ति । वृत्रस्यासि कनीनक इति वृत्रस्य ह्येष कनीनकश्चक्षुर्दा असि चक्षुर्मे देहीति नात्र तिरोहितमिवास्ति ३.१.३.[१६] स दक्षिणं सकृद्यजुषानक्ति । सकृत्तूष्णीमथोत्तरं सकृद्यजुषानक्ति द्विस्तूष्णीं तदुत्तरमेवैतदुत्तरावत्करोति ३.१.३.[१७] तद्यत्पञ्च कृत्व आनक्ति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्व आनक्ति ३.१.३.[१८] अथैनं दर्भपवित्रेण पावयति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वै दर्भा मेध्यो भूत्वा दीक्षा इति पवित्रं वै दर्भाः पवित्रपूतो दीक्षा इति तस्मादेनं दर्भपवित्रेण पावयति ३.१.३.[१९] तद्वा एकं स्यात् । एको ह्येवायं पवते तदेतस्यैव रूपेण तस्मादेकं स्यात् ३.१.३.[२०] अथो अपि त्रीणि स्युः । एको ह्येवायं पवते सोऽयं पुरुषेऽन्तः प्रविष्टस्त्रेधाविहितः प्राण उदानो व्यान इति तदेतस्यैवानु मात्रां तस्मात्त्रीणि स्युः ३.१.३.[२१] अथो अपि सप्त स्युः । सप्त वा इमे शीर्षन्प्राणास्तस्मात्सप्त स्युस्त्रिःसप्तान्येव स्युरेकविंशतिरेषैव सम्पत् ३.१.३.[२२] तं सप्तभिः सप्तभिः पावयति । चित्पतिर्मा पुनात्विति प्रजापतिर्वै चित्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह वाक्पतिर्मा पुनात्विति प्रजापतिर्वै वाक्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह देवो मा सविता पुनात्विति तद्वै सुपूतं यं देवः सवितापुनात्तस्मादाह देवो मा सविता पुनात्वित्यच्छिद्रेण पवित्रेणेति यो वा अयं पवत एषोऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिरिति ३.१.३.[२३] तस्य ते पवित्रपत इति । पवित्रपतिर्हि भवति पवित्रपूतस्येति पवित्रपूतो हि भवति यत्कामः पुने तच्छकेयमिति यज्ञस्योदृचं गच्छानीत्येवैतदाह ३.१.३.[२४] अथाशिषामारम्भं वाचयति । आ वो देवास ईमहे वामं प्रयत्यध्वरे आ वो देवास आशिषो यज्ञियासो हवामह इति तदस्मै स्वाः सतीर्ऋत्विज आशिष आशासते ३.१.३.[२५] अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनस इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहा वातादारभ इति मुष्टीकरोति न वै यज्ञः प्रत्यक्षमिवारभे यथायं दण्डो वा वासो वा परोऽक्षं वै देवाः परोऽक्षं यज्ञः ३.१.३.[२६] स यदाह । स्वाहा यज्ञं मनस इति तन्मनस आरभते स्वाहोरोरन्तरिक्षादिति तदन्तरिक्षादारभते स्वाहा द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यामारभते ययोरिदं सर्वमधि स्वाहा वातादारभ इति वातो वै यज्ञस्तद्यज्ञं प्रत्यक्षमारभते ३.१.३.[२७] अथ यत्स्वाहा स्वाहेति करोति । यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्तेऽत्रो एव वाचं यच्छति वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्ते ३.१.३.[२८] अथैनं शालां प्रपादयति । स जघनेनाहवनीयमेत्यग्रेण गार्हपत्यं सोऽस्य संचरो भवत्या सुत्यायै तद्यदस्यैष संचरो भवत्या सुत्याया अग्निर्वै योनिर्यज्ञस्य गर्भो दीक्षितोऽन्तरेण वै योनिं गर्भः संचरति स यत्स तत्रैजति त्वत्परि त्वदावर्तते तस्मादिमे गर्भा एजन्ति त्वत्परि त्वदावर्तन्ते तस्मादस्यैष सचरो भवत्या सुत्यायै ३.१.४. ३.१.४.[१] सर्वाणि ह वै दीक्षाया यजूंष्यौद्ग्रभणानि । उद्गृभ्णीते वा एषो ऽस्माल्लोकाद्देवलोकमभि यो दीक्षत एतैरेव तद्यजुर्भिरुद्गृभ्णीते तस्मादाहुः सर्वाणि दीक्षाया यजूंष्यौद्ग्रभणानीति तत एतान्यवान्तरामाचक्षत औद्ग्रभणानीत्याहुतयो ह्येता आहुतिर्हि यज्ञः परोऽक्षं वै यजुर्जपत्यथैष प्रत्यक्षं यज्ञो यदाहुतिस्तदेतेन यज्ञेनोद्गृभ्णीतेऽस्माल्लोकाद्देवलोकमभि ३.१.४.[२] ततो यानि त्रीणि स्रुवेण जुहोति । तान्याधीतयजूंषीत्याचक्षते सम्पद एव कामाय चतुर्थं हूयतेऽथ यत्पञ्चमं स्रुचा जुहोति तदेव प्रत्यक्षमौद्ग्रभणमनुष्टुभा हि तज्जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः ३.१.४.[३] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम ३.१.४.[४] तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यदेतानि जुहोति ३.१.४.[५] तानि वै पञ्च जुहोति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च जुहोति ३.१.४.[६] अथातो होमस्यैव । आकुत्यै प्रयुजेऽग्नये स्वाहेत्या वा अग्रे कुवते यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते ३.१.४.[७] मेधायै मनसेऽग्नये स्वाहेति । मेधया वै मनसाभिगच्छति यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते ३.१.४.[८] दीक्षायै तपसेऽग्नये स्वाहेति । अन्वेवैतदुच्यते नेत्तु हूयते ३.१.४.[९] सरस्वत्यै पूष्णेऽग्नये स्वाहेति । वाग्वै सरस्वती वाग्यज्ञः पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते ३.१.४.[१०] तदाहुः । अनद्धेवैता आहुतयो हूयन्तेऽप्रतिष्ठिता अदेवकास्तत्र नेन्द्रो न सोमो नाग्निरिति ३.१.४.[११] आकूत्यै प्रयुजेऽग्नये स्वाहेति । नात एकं चनाग्निर्वा अद्धेवाग्निः प्रतिष्ठितः स यदग्नौ जुहोति तेनैवैता अद्धेव तेन प्रतिष्ठितास्तस्मादु सर्वास्वेवाग्नये स्वाहेति जुहोति तत एतान्याधीतयजूंषीत्याचक्षते ३.१.४.[१२] आकूत्यै प्रयुजेऽग्नये स्वाहेति । आत्मना वा अग्र आकुवते यजेयेति तमात्मन एव प्रयुङ्क्ते यत्तनुते ते अस्यैते आत्मन्देवते आधीते भवत आकूतिश्च प्रयुक्च ३.१.४.[१३] मेधायै मनसेऽग्नये स्वाहेति । मेधया वै मनसाभिगच्छति यजेयेति ते अस्यैते आत्मन्देवते आधीते भवतो मेधा च मनश्च ३.१.४.[१४] सरस्वत्यै पूष्णेऽग्नये स्वाहेति । वाग्वै सरस्वती वाग्यज्ञः सास्यैषात्मन्देवताधीता भवति वाक्पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तेऽस्यैत आत्मन्पशव आधीता भवन्ति तद्यदस्यैता आत्मन्देवता आधीता भवन्ति तस्मादाधीतयजूंषि नाम ३.१.४.[१५] अथ चतुर्थी जुहोति । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेत्येषा ह नेदीयो यज्ञस्यापां हि कीर्तयत्यापो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति लोकानां हि कीर्तयति बृहस्पतये हविषा विधेम स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्म यज्ञ एतेनो हैषा नेदीयो यज्ञस्य ३.१.४.[१६] अथ यां पञ्चमीं स्रुचा जुहोति । सा हैव प्रत्यक्षं यज्ञोऽनुष्टुभा हि तां जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः ३.१.४.[१७] अथ यद्ध्रुवायामाज्यं परिशिष्टं भवति । तज्जुह्वामानयति त्रिः स्रुवेणाज्यविलापन्या अधि जुह्वां गृह्णाति यत्तृतीयं गृह्णाति तत्स्रुवमभिपूरयति ३.१.४.[१८] स जुहोति । विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यं विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहेति ३.१.४.[१९] सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रं मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम् ३.१.४.[२०] सैषा देवताभिः पङ्क्तिर्भवति । पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैतमेवैतयाप्नोति यद्देवताभिः पङ्क्तिर्भवति ३.१.४.[२१] तां वा अनुष्टुभा जुहोति । वाग्वा अनुष्टुब्वाग्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति ३.१.४.[२२] तदाहुः । एतामेवैकां जुहुयाद्यस्मै कामायेतरा हूयन्त एतयैव तं काममाप्नोतीति तां वै यद्येकां जुहुयात्पूर्णां जुहुयात्सर्वं वै पूर्णं सर्वमेवैनयैतदाप्नोत्यथ यत्स्रुवमभिपूरयति स्रुचं तदभिपूरयति ताम् पूर्णां जुहोत्यन्वैवैतदुच्यते सर्वास्त्वेव हूयन्ते ३.१.४.[२३] तां वा अनुष्टुभा जुहोति । सैषानुष्टुप्सत्येकत्रिंशदक्षरा भवति दश पाण्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषः पुरुषो यज्ञः पुरुषसम्मितो यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैनयैतदाप्नोति यदनुष्टुभैकत्रिंशदक्षरया जुहोति ३.२.१. ३.२.१.[१] दक्षिणेनाहवनीयं प्राचीनग्रीवे कृष्णाजिने उपस्तृणाति । तयोरेनमधि दीक्षयति यदि द्वे भवतस्तदनयोर्लोकयो रूपं तदेनमनयोर्लोकयोरधि दीक्षयति ३.२.१.[२] सम्बद्धान्ते भवतः । सम्बद्धान्ताविव हीमौ लोकौ तर्द्मसमुते पश्चाद्भवतस्तदिमावेव लोकौ मिथुनीकृत्य तयोरेनमधि दीक्षयति ३.२.१.[३] यद्यु एक भवति । तदेषां लोकानां रूपं तदेनमेषु लोकेष्वधि दीक्षयति यानि शुक्लानि तानि दिवो रूपं यानि कृष्णानि तान्यस्यै यदि वेतरथा यान्येव कृष्णानि तानि दिवो रूपंयानि शुक्लानि तान्यस्यै यान्येव बभ्रूणीव हरीणि तान्यन्तरिक्षस्य रूपं तदेनमेषु लोकेष्वधि दीक्षयति ३.२.१.[४] अन्तकमु तर्हि पश्चात्प्रत्यस्येत् । तदिमानेव लोकान्मिथुनीकृत्य तेष्वेनमधि दीक्षयति ३.२.१.[५] अथ जघनेन कृष्णाजिने पश्चात् प्राङ्जान्वाक्न उपविशति स यत्र शुक्लानां च कृष्णानां च संधिर्भवति तदेवमनिमृश्य जपत्यृक्षामयोः शिल्पे स्थ इति यद्वै प्रतिरूपं तच्छिल्पमृचां च साम्नां च प्रतिरूपे स्थ इत्येवैतदाह ३.२.१.[६] ते वामारभ इति । गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्वक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः ३.२.१.[७] स यदाह । ते वामारभ इति ते वां प्रविशामीत्येवैतदाह ते मा पातमास्य यज्ञस्योदृच इति ते मा गोपायतमास्य यज्ञस्य संस्थाया इत्येवैतदाह ३.२.१.[८] अथ दक्षिणेन जानुनारोहति । शर्मासि शर्म मे यच्छेति चर्म वा एतत्कृष्णस्य तदस्य तन्मानुषं शर्म देवत्रा तस्मादाह शर्मासि शर्म मे यच्छेति नमस्ते अस्तु मा मा हिंसीरिति श्रेयांसं वा एष उपाधिरोहति यो यज्ञं यज्ञो हि कृष्णाजिनं तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनमेष यज्ञो न हिनस्ति तस्मादाह नमस्ते अस्तु मा मा हिंसीरिति ३.२.१.[९] स वै जघनार्ध इवैवाग्र आसीत । अथ यदग्र एव मध्य उपविशेद्य एनं तत्रानुष्ठ्या हरेद्द्रप्स्यति वा प्र वा पतिष्यतीति तथा हैव स्यात्तस्माज्जघनार्ध इवैवाग्र आसीत ३.२.१.[१०] अथ मेखलां परिहरते । अङ्गिरसो ह वै दीक्षितानबल्यमविन्दत्ते नान्यद्व्रतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्तिं तां मध्यत आत्मन ऊर्जमदधत समाप्तिं तया समाप्नुवंस्तथो एवैष एतां मध्यत आत्मन ऊर्जंधत्ते समाप्तिं तया समाप्नोति ३.२.१.[११] सा वै शाणी भवति । मृद्व्यसदिति न्वेव शाणी यत्र वै प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञात्तस्य यन्नेदिष्ठमुल्बमासीत्ते शणास्तस्मात्ते पूतयो वान्ति यद्वस्य जराय्वासीत्तद्दीक्षितवसनमन्तरं वा उल्बं जरायुणो भवति तस्मादेषान्तरा वाससो भवति स यथैवातः प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञादेवमेवैषोऽतो जायते गर्भो भूत्वैतस्माद्यज्ञात् ३.२.१.[१२] सा वै त्रिवृद्भवति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृद्भवति ३.२.१.[१३] मुञ्जवल्शेनान्वस्ता भवति । वज्रो वै शरो विरक्षस्तायै स्तुकासर्गं सृष्टा भवति सा यत्प्रसलवि सृष्टा स्याद्यथेदमन्या रज्जवो मानुषी स्याद्यद्वपसलवि सृष्टा स्यात्पितृदेवत्या स्यात्तस्मात्स्तुकासर्गं सृष्टा भवति ३.२.१.[१४] तां परिहरते । ऊर्गस्याङ्गिरसीत्यङ्गिरसो ह्येतामूर्जमपश्यन्नूर्णम्रदा ऊर्जम् मयि धेहीति नात्र तिरोहितमिवास्ति ३.२.१.[१५] अथ नीविमुद्गूहते । सोमस्य नीविरसीत्यदीक्षितस्य वा अस्यैषाग्रे नीविर्भवत्यथात्र दीक्षितस्य सोमस्य तस्मादाह सोमस्य नीविरसीति ३.२.१.[१६] अथ प्रोर्णुते । गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भो उल्बेनेव जरायुणेव तस्माद्वै प्रोर्णुते ३.२.१.[१७] स प्रोर्णुते । विष्णोः शर्मासि शर्म यजमानस्येत्युभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च यदह दीक्षते तद्विष्णुर्भवति यद्यजते तद्यजमानस्तस्मादाह विष्णोः शर्मासि शर्म यजमानस्येति ३.२.१.[१८] अथ कृष्णविषाणां सिचि बध्नीते । देवाश्च वा असुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्मन एव देवा उपायन्वाचमसुरा यज्ञमेव तद्देवा उपायन्वाचमसुरा अमूमेव देवा उपायन्निमामसुराः ३.२.१.[१९] ते देवा यज्ञमब्रुवन् । योषा वा इयं वागुपमन्त्रयस्व ह्वयिष्यते वै त्वेति स्वयं वा हैवैक्षत योषा वा इयं वागुपमन्त्रयै ह्वयिष्यते वै मेति तामुपामन्त्रयत सा हास्मा आरकादिवैवाग्र आसूयत्तस्मादु स्त्री पुंसोपमन्त्रितारकादिवैवाग्रेऽसूयति स होवाचारकादिव वै म आसूयीदिति ३.२.१.[२०] ते होचुः । उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हास्मै निपलाशमिवोवाद तस्मादु स्त्री पुंसोपमन्त्रिता निपलाशमिवैव वदति स होवाच निपलाशमिव वै मेऽवादीदिति ३.२.१.[२१] ते होचुः । उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हैनं जुहुव तस्मादु स्त्री पुमांसं ह्वयत एवोत्तमं स होवाचाह्वत वै मेति ३.२.१.[२२] ते देवा ईक्षां चक्रिरे । योषा वा इयं वाग्यदेनं न युवितेहैव मा तिष्ठन्तमभ्येहीति ब्रूहि तां तु न आगतां प्रतिप्रब्रूतादिति सा हैनं तदेव तिष्ठन्तमभ्येयाय तस्मादु स्त्री पुमांसं संस्कृते तिष्ठन्तमभ्यैति तां हैभ्य आगतां प्रतिप्रोवाचेयं वा आगादिति ३.२.१.[२३] तां देवाः । असुरेभ्योऽन्तरायंस्तां स्वीकृत्याग्नावेव परिगृह्य सर्वहुतमजुहवुराहुतिर्हि देवानां स यामेवामूमनुष्टुभाजुहवुस्तदेवैनां तद्देवाः स्व्यकुर्वत तेऽसुरा आत्तवचसो हेऽलवो हेऽलव इति वदन्तः पराबभूवुः ३.२.१.[२४] तत्रैतामपि वाचमूदुः । उपजिज्ञास्यां स म्लेच्छस्तस्मान्न ब्राह्मणो म्लेच्छेदसुर्या हैषा वाक्। एवमेवैष द्विषतां सपत्नानामादत्ते वाचं तेऽस्यात्तवचसः पराभवन्ति य एवमेतद्वेद ३.२.१.[२५] सोऽयं यज्ञो वाचमभिदध्यौ । मिथुन्येनया स्यामिति तां संबभूव ३.२.१.[२६] इन्द्रो ह वा ईक्षां चक्रे । महद्वा इतोऽभ्वं जनिष्यते यज्ञस्य च मिथुनाद्वाचश्च यन्मा तन्नाभिभवेदिति स इन्द्र एव गर्भो भूत्वैतन्मिथुनम् प्रविवेश ३.२.१.[२७] स ह संवत्सरे जायमान ईक्षां चक्रे । महावीर्या वा इयं योनिर्या मामदीधरत यद्वै मेतो महदेवाभ्वं नानुप्रजायेत यन्मा तन्नाभिभवेदिति ३.२.१.[२८] तां प्रतिपरामृश्यवेष्ट्याच्छिनत् । तां यज्ञस्य शीर्षन्प्रत्यदधाद्यज्ञो हि कृष्णः स यः स यज्ञस्तत्कृष्णाजिनं यो सा योनिः सा कृष्णविषाणाथ यदेनामिन्द्र आवेष्ट्याच्छिनत्तस्मादावेष्टितेव स यथैवात इन्द्रोऽजायत गर्भो भूत्वैतस्मान्मिथुनादेवमेवैषोऽतो जायते गर्भो भूत्वैतस्मान्मिथुनात् ३.२.१.[२९] तां वा उत्तानामिव बध्नाति । उत्तानेव वै योनिर्गर्भं बिभर्त्यथ दक्षिणाम् भ्रुवमुपर्युपरि ललाटमुपस्पृशतीन्द्रस्य योनिरसीतीन्द्रस्य ह्येषा योनिरतो वा ह्येनां प्रविशन्प्रविशत्यतो वा जायमानो जायते तस्मादाहेन्द्रस्य योनिरसीति ३.२.१.[३०] अथोल्लिखति । सुसस्याः कृषीस्कृधीति यज्ञमेवैतज्जनयति यदा वै सुषमम् भवत्यथालं यज्ञाय भवति यदो दुःषमं भवति न तर्ह्यात्मने चनालम् भवति तद्यज्ञमेवैतज्जनयति ३.२.१.[३१] अथ न दीक्षितः । काष्ठेन वा नखेन वा कण्डूयेत गर्भो वा एष भवति यो दीक्षते यो वै गर्भस्य काष्ठेन वा नखेन वा कण्डूयेदपास्यन्म्रित्येत्ततो दीक्षितः पामनो भवितोर्दीक्षितं वा अनु रेतांसि ततो रेतांसि पामनानि जनितोः स्वा वै योनी रेतो न हिनस्त्येषा वा एतस्य स्वा योनिर्भवति यत्कृष्णविषाणा तथो हैनमेषा न हिनस्ति तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः ३.२.१.[३२] अथास्मै दण्डं प्रयच्छति । वज्रो वै दण्डो विरक्षस्तायै ३.२.१.[३३] औदुम्बरो भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरो भवति ३.२.१.[३४] मुखसम्मितो भवति । एतावद्वै वीर्यं स यावदेव वीर्यं तावांस्तद्भवति यन्मुखसम्मितः ३.२.१.[३५] तमुच्रयति । उच्रयस्व वनस्पत ऊर्ध्वो मा पाह्यंहस आस्य यज्ञस्योदृच इत्यूर्ध्वो मा गोपायास्य यज्ञस्य संस्थाया इत्येवैतदाह ३.२.१.[३६] अत्र हैके । अङ्गुलिश्च न्यचन्ति वाचं च यच्छन्त्यतो हि किं च न जपिष्यन्भवतीति वदन्तस्तदु तथा न कुर्याद्यथा पराञ्चं धावन्तमनुलिप्सेत तं नानुलभेतैवं ह स यज्ञं नानुलभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यच्छेत् ३.२.१.[३७] अथ यद्दीक्षितः । ऋचं वा यजुर्वा साम वाभिव्याहरत्यभिस्थिरमभिस्थिरमेवैतद्यज्ञमारभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यच्छेत् ३.२.१.[३८] अथ यद्वाचं यच्छति । वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्तेऽथ यद्वाचंयमो व्याहरति तस्मादु हैष विसृष्टो यज्ञः पराङावर्तते तत्रो वैष्णवीमृचं वा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिः ३.२.१.[३९] अथैक उद्वदति । दीक्षितोऽयं ब्राह्मणो दीक्षितोऽयं ब्राह्मण इति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययं महावीर्यो यो यज्ञम् प्रापदित्ययं युष्माकैकोऽभूत्तं गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ३.२.१.[४०] अथ यद्ब्राह्मण इत्याह । अनद्धेव वा अस्याता पुरा जानं भवतीदं ह्याहू रक्षांसि योषितमनुसचन्ते तदुत रक्षांस्येव रेत आदधतीत्यथात्राद्धा जायते यो ब्रह्मणो यो यज्ञाज्जायते तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयाद्ब्रह्मणो हि जायते यो यज्ञाज्जायते तस्मादाहुर्न सवनकृतं हन्यादेनस्वी हैव सवनकृतेति ३.२.२. ३.२.२.[१] वाचं यच्छति । स वाचंयम आस्त आस्तमयात्तद्यद्वाचं यच्छति ३.२.२.[२] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम ३.२.२.[३] तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञः ३.२.२.[४] तामस्तमिते वाचं विसृजते । संवत्सरो वै प्रजापतिः प्रजापतिर्यज्ञोऽहोरात्रे वै संवत्सर एते ह्येनं परिप्लवमाने कुरुतः सोऽहन्नदीक्षिष्ट स रात्रिं प्रापत्स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतदाप्त्वा वाचं विसृजते ३.२.२.[५] तद्धैके । नक्षत्रं दृष्ट्वा वाचं विसर्जयन्त्यत्रानुष्ट्यास्तमितो भवतीति वदन्तस्तदु तथा न कुर्यात्क्व ते स्युर्यन्मेघः स्यात्तस्माद्यत्रैवानुष्ट्यास्तमितं मन्येत तदेव वाचं विसर्जयेत् ३.२.२.[६] अनेनो हैके वाचं विसर्जयनि । भूर्भुवः स्वरिति यज्ञमाप्याययामो यज्ञं संदध्म इति वदन्तस्तदु तथा न कुर्यान्न ह स यज्ञमाप्याययति न संदधाति य एतेन वाचं विसर्जयति ३.२.२.[७] अनेनैव वाचं विसर्जयेत् । व्रतं कृणुत व्रतं कृणुताग्निर्ब्रह्माग्निर्यज्ञो वनस्पतिर्यज्ञिय इत्येष ह्यस्यात्र यज्ञो भवत्येतद्धविर्यथा पुराग्निहोत्रं तद्यज्ञेनैवैतद्यज्ञं सम्भृत्य यज्ञे यज्ञं प्रतिष्ठापयति यज्ञेन यज्ञं संतनोति संततं ह्येवास्यैतद्व्रतं भवत्या सुत्यायै त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ३.२.२.[८] अथाग्निमभ्यावृत्य वाचं विसृजते । न ह स यज्ञमाप्याययति न संदधाति योऽतो ऽन्येन वाचं विसृजते स प्रथमं व्याहरन्त्सत्यं वाचोऽभिव्याहरति ३.२.२.[९] अग्निर्ब्रह्मेति । अग्निर्ह्येव ब्रह्माग्निर्यज्ञ इत्यग्निर्ह्येव यज्ञो वनस्पतिर्यज्ञिय इति वनस्पतयो हि यज्ञिया न हि मनुष्या यजेरन्यद्वनस्पतयो न स्युस्तस्मादाह वनस्पतिर्यज्ञिय इति ३.२.२.[१०] अथास्मै व्रतं श्रपयन्ति । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति शृतं वै देवानां हविर्नाशृतं तस्माच्रपयन्ति तदेष एव व्रतयति नाग्नौ जुहोति तद्यदेष एव व्रतयति नाग्नौ जुहोति ३.२.२.[११] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम ३.२.२.[१२] तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एष वा अत्र यज्ञो भवति यो दीक्षत एष ह्येनं तनुत एष एनं जनयति तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति यदेष एव व्रतयति नाग्नौ जुहोति न हाप्याययेद्यदग्नौ जुहुयाज्जुह्वदु हैव मन्येत नाजुह्वत् ३.२.२.[१३] इमे वै प्राणाः । मनोजाता मनोयुजो दक्षक्रतवो वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वे देवा एतासु हैवास्यैतद्देवतासु हुतम् भवति ३.२.२.[१४] तद्धैके । प्रथमे व्रत उभौ व्रीहियवावावपन्त्युभाभ्यां रसाभ्यां यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तत्पुनराप्याययाम इति वदन्तो यद्यु व्रतदुघा न दुहीत यस्यैवातः कामयेत तस्य व्रतं कुर्यादेतदु ह्येवास्यैता उभौ व्रीहियवावन्वारब्धौ भवत इति तदु तथा न कुर्यान्न ह स यज्ञमाप्याययति न संदधाति य उभौ व्रीहियवावावपति तस्मादन्यतरमेवावपेद्धविर्वा अस्यैता उभ् औ व्रीहियवौ भवतः स यदेवास्यैतौ हविर्भवतस्तदेवास्यैतावन्वारब्धौ भवतो यद्यु व्रतदुघा न दुहीत यस्यैवातः कामयेत तस्य व्रतं कुर्यात् ३.२.२.[१५] तद्धैके । प्रथमे व्रते सर्वौषधं सर्वसुरभ्यावपन्ति यदि दीक्षितमार्तिर्विन्देद्येनैवातः कामयेत तेन भिषज्येद्यथा व्रतेन भिषज्येदिति तदु तथा न कुर्यान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति यदि दीक्षितमार्तिर्विन्देद्येनैवातः कामयेत तेन भिषज्येत्समाप्तिर्ह्येव पुण्या ३.२.२.[१६] अथास्मै व्रतं प्रयच्छति । अतिनीय मानुषं कालं सायंदुग्धमपररात्रे प्रातर्दुग्धमपराह्णे व्याकृत्या एव दैवं चैवैतन्मानुषं च व्याकरोति ३.२.२.[१७] अथास्मै व्रतं प्रदास्यन्नप उपस्पर्शयति । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति मानुषाय वा एष पुराशनायावनेनिक्तेऽथात्र दैव्यै धिये तस्मादाह दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति स यावत्कियच्च व्रतं व्रतयिष्यन्नप उपस्पृशेदेतेनैवोपस्पृशेत् ३.२.२.[१८] अथ व्रतं व्रतयति । ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते नोऽवन्तु ते नः पान्तु तेभ्यः स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति ३.२.२.[१९] अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते । श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधा इति देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवत्यनुत्सिक्तं वै देवानां हविरथैतद्व्रतप्रदो मिथ्य करोति व्रतमुपोत्सिञ्चन्व्रतं प्रमीणाति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतं भवति न व्रतं प्रमीणाति तस्मादाह श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृध इति स यावत्कियच्च व्रतं व्रतयित्वा नाभिमुपस्पृशेदेतेनैवोपस्पृशेत्कस्तद्वेद यद्व्र२ अप्रदो व्रतमुपोत्सिञ्चेत् ३.२.२.[२०] अथ यत्र मेक्ष्यन्भवति । तत्कृष्णविषाणया लोष्टं वा किंचिद्वोपहन्तीयं ते यज्ञिया तनूरितीयं वै पृथिवी देवो देवयजनी सा दीक्षितेन नाभिमिह्या तस्या एतदुद्गृह्यैव यज्ञियां तनूमथायज्ञियं शरीरमभिमेहत्यपो मुञ्चामि न प्रजामित्युभयं वा अत एत्यापश्च रेतश्च स एतदप एव मुञ्चति न प्रजामंहोमुचः स्वाहाकृता इत्यंहस इव ह्येता मुञ्चन्ति यदुदरे गुष्टितम् भवति तस्मा दाहांहोमुच इति स्वाहाकृतां पृथिवीमाविशतेत्याहुतयो भूत्वा शान्ताः पृथिवीमाविशतेत्येवैतदाह ३.२.२.[२१] अथ पुनर्लोष्टं न्यस्यति । पृथिव्या सम्भवेतीयं वै पृथिवी देवी देवयजनी सा दीक्षितेन नाभिमिह्या तस्या एतदुद्गृह्यैव यज्ञियां तनूमथायज्ञियं शरीरमभ्यमिक्षत्तामेवास्यामेतत्पुनर्यज्ञियां तनूं दधाति तस्मादाह पृथिव्या सम्भवेति ३.२.२.[२२] अथाग्नये परिदाय स्वपिति । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवत्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्परिदाय स्वपित्यग्ने त्वं सु जागृहि वयं सु मन्दिषीमहीत्यग्ने त्वं जागृहि वयं स्वप्स्याम इत्येवैतदाह रक्षा णो अप्रयुच्छन्निति गोपाय नोऽप्रमत्त इत्येवैतदाह प्रबुधे नः पुनस्कृधीति यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहा एवं नः कुर्वित्येवैतदाह ३.२.२.[२३] अथ यत्र सुप्त्वा । पुनर्नावद्रास्यन्भवति तद्वाचयति पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रं म आगन्निति सर्वे ह वा एते स्वपतोऽपक्रामन्ति प्राण एव न तैरेवैतत्सुप्त्वा पुनः संगच्छते तस्मादाह पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रं म आगन् वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति तद्यदेवात्र स्वप्नेन वा येन वा मिथ्याकर्म तस्मान्नः सर्वस्मादग्निर्गोपायत्वित्येवैतदाह तस्मादाह वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति ३.२.२.[२४] अथ यद्दीक्षितः । अव्रत्यं वा व्याहरति क्रुध्यति वा तन्मिथ्याकरोति व्रतम् प्रमीणात्यक्रोधो ह्येव दीक्षितस्याग्निर्वै देवानां व्रतपतिस्तमेवैतदुपधावति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वां यज्ञष्वीड्य इति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतं भवति न व्रतं प्रमीणाति तस्मादाह त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञष्वीड्य इति ३.२.२.[२५] अथ यद्दीक्षितायाभिहरन्ति । तस्मिन्वाचयति रास्वेयत्सोमा भूयो भरेति सोमो ह वा अस्मा एतद्युते यद्दीक्षितायाभिहरन्ति स यदाह रास्वेययत्सोमेति रास्व न इयत्सोमेत्येवैतदाहा भूयो भरेत्या नो भूयो हरेत्येवैतदाह देवो नः सविता वसोर्दाता वस्वदादिति तथो हास्मा एतत्सवितृप्रसूतमेव दानाय भवति ३.२.२.[२६] पुरास्तमयादाह । दीक्षित वाचं यच्छेति तामस्तमिते वाचं विसृजते पुरोदयादाह दीक्षित वाचं यच्छेति तामुदिते वाचं विसृजते संतत्या एवाहरेवैतद्रात्र्या संतनोत्यह्ना रात्रिम् ३.२.२.[२७] नैनमन्यत्र चरन्तमभ्यस्तमियात् । न स्वपन्तमभ्युदियात्स यदेनमन्यत्र चरन्तमभ्यस्तमियाद्रात्रेरेनं तदन्तरियाद्यत्स्वपन्तमभ्युदियादह्न एनं तदन्तरियान्नात्र प्रायश्चित्तिरस्ति प्रतिगुप्यमेवैतस्मात् न पुरावभृथादपो ऽभ्यवेयान्नैनमभिवर्षेदनवकॢप्तं ह तद्यत्पुरावभृथादपो ऽभ्यवेयाद्यद्वैनमभिवर्षेदथ परिह्वालं वाचं वदति न मानुषीं प्रसृतां तद्यत्परिह्वालं वाचं वदति न मानुषीं प्रसृताम् ३.२.२.[२८] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो ३.२.२.[२९] तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञस्तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति यत्परिह्वालं वाचं वदति न मानुषी प्रसृतां न हाप्याययेद्यत्प्रसृतां मानुषीं वाचं वदेत्तस्मात्परिह्वालं वाचं वदति न मानुषीं प्रसृताम् ३.२.२.[३०] स वै धीक्षते । वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो हि वाग्धीक्षितो ह वै नामैतद्यद्दीक्षित इति ३.२.३. ३.२.३.[१] आदित्यं चरुं प्रायणीयं निर्वपति । देवा ह वा अस्यां यज्ञं तन्वाना इमां यज्ञादन्तरीयुः सा हैषामियं यज्ञं मोहयां चकार कथं नु मयि यज्ञं तन्वाना मां यज्ञादन्तरीयुरिति तं ह यज्ञं न प्रजज्ञुः ३.२.३.[२] ते होचुः । यन्न्वस्यामेव यज्ञमतंस्महि कथं नु नोऽमहत्कथं न प्रजानीम इति ३.२.३.[३] ते होचुः । अस्यामेव यज्ञं तन्वाना इमां यज्ञादन्तरगाम सा न इयमेव यज्ञममूमुहदिमामेवोपधावामेति ३.२.३.[४] ते होचुः । यन्नु त्वय्येव यज्ञमतंस्महि कथं नु नोऽमुहत्कथं न प्रजानीम इति ३.२.३.[५] सा होवाच । मय्येव यज्ञं तन्वाना मां यज्ञादन्तरगात सा वोऽहमेव यज्ञममूमुहं भागं नु मे कल्पयताथ यज्ञं द्रक्ष्यथाथ प्रज्ञास्यथेति ३.२.३.[६] तथेति देवा अब्रुवन् । तवैव प्रायणीयस्तवोदयनीय इति तस्मादेष आदित्य एव प्रायणीयो भवत्यादित्य उदयनीय इयं ह्येवादितिस्ततो यज्ञमपश्यंस्तमतन्वत ३.२.३.[७] स यदादित्यं चरुं प्रायणीयं निर्वपति । यज्ञस्यैव दृष्ट्यै यज्ञं दृष्ट्वा क्रीणानि तं तनवा इति तस्मादादित्यं चरुं प्रायणीयं निर्वपति तद्वै निरुप्तं हविरासीदनिष्टा देवता ३.२.३.[८] अथैभ्यः पथ्या स्वस्तिः प्रारोचत । तामयजन्वाग्वै पथ्या स्वस्तिर्वाग्यज्ञस्तद्यज्ञमपश्यंस्तमतन्वत ३.२.३.[९] अथैभ्योऽग्निः सारोचत । तमयजन्त्स यदाग्नेयं यज्ञस्यासीत्तदपश्यन्यद्वै शुष्कं यज्ञस्य तदाग्नेयं तदपश्यंस्तदतन्वत ३.२.३.[१०] अथैभ्यः सोमः प्रारोचत । तमयजन्त्स यत्सौम्यं यज्ञस्यासीत्तदपश्यन्यद्वा आर्द्रं यज्ञस्य तत्सौम्यं तदपश्यंस्तदतन्वत ३.२.३.[११] अथैभ्यः सविता प्रारोचत । तमयजन्पशवो वै सविता पशवो यज्ञस्तद्यज्ञमपश्यंस्तमतन्वताथ यस्यै देवतायै हविर्निरुप्तमासोत्तामयजन् ३.२.३.[१२] ता वा एताः । पञ्च देवता यजति यो वै स यज्ञो मुग्ध आसीत्पाङ्क्तो वै स आसीत्तमेताभिः पञ्चभिर्देवताभिः प्राजानन् ३.२.३.[१३] ऋतवो मुग्धा आसन्पञ्च । तानेताभिरेव पञ्चभिर्देवताभिह्प्राजानन् ३.२.३.[१४] दिशो मुग्धा आसन्पञ्च । ता एताभिरेव पञ्चभिर्देवताभिः प्राजानन् ३.२.३.[१५] उदीचीमेव दिशम् । पथ्यया स्वस्त्या प्राजानंस्तस्मादत्रोत्तराहि वाग्वदति कुरुपञ्चालत्रा वाग्घ्येषा निदानेनोदीचीं ह्येतया दिशं प्राजानन्नुदीची ह्येतस्यै दिक् ३.२.३.[१६] प्राचीमेव दिशम् । अग्निना प्राजानंस्तस्मादग्निं पश्चात्प्राञ्चमुद्धृत्योपासते प्राचीं ह्येतेन दिशं प्राजानन्प्राची ह्येतस्य दिक् ३.२.३.[१७] दक्षिणामेव दिशम् । सोमेन प्राजानंस्तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति तस्मादाहुः पितृदेवत्यः सोम इति दक्षिणां ह्येतेन दिशं प्राजानन्दक्षिणा ह्येतस्य दिक् ३.२.३.[१८] प्रतीचीमेव दिशम् । सवित्रा प्राजानन्नेष वै सविता य एष तपति तस्मादेष प्रत्यङ्ङेति प्रतीचीं ह्येतेन दिशं प्राजानन्प्रतीची ह्येतस्य दिक् ३.२.३.[१९] ऊर्ध्वामेव दिशम् । अदित्या प्राजानन्नियं वा अदितिस्तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतय ऊर्ध्वां ह्येतया दिशं प्राजानन्नूर्ध्वा ह्येतस्यै दिक् ३.२.३.[२०] शिरो वै यज्ञस्यातिथ्यम् । बाहू प्रायणीयोदयनीयावभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च ३.२.३.[२१] तदाहुः । यदेव प्रायणीये क्रियेत तदुदयनीये क्रियेत यदेव प्रायणीयस्य बर्हिर्भवति तदुदयनीयस्य बर्हिर्भवतीति तदपोद्धृत्य निदधाति तां स्थालीं सक्षामकर्षां प्रमृज्य मेक्षणं निदधाति य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति तद्यदेतत्समानं यज्ञे क्रियते तेन बाहू सदृशौ तेन सरूपौ ३.२.३.[२२] तदु तथा न कुर्यात् । काममेवैतद्बर्हिरनुप्रहरेदेवं मेक्षणं निर्णिज्य स्थालीं निदध्याद्य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति यद्यु ते विप्रेताः स्युरप्यन्य एव स्युः स यद्वै समानीर्देवता यजति समानानि हवींषि भवन्ति तेनैव बाहू सदृशौ तेन सरूपौ ३.२.३.[२३] स वै पञ्च प्रायणीये देवता यजति । पञ्चोदयनीये तस्मात्पञ्चेत्थादङ्गुलयः पञ्चेत्थात्तच्छम्य्वन्तं भवति न पत्नीः संयाजयन्ति पूर्वार्धं वा अन्वात्मनो बाहू पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति तस्माच्छम्य्वन्तं भवति न पत्नीः संयाजयन्ति ३.२.४. ३.२.४.[१] दिवि वै सोम आसीत् । अथेह देवास्ते देवा अकामयन्ता नः सोमो गच्छेत्तेनागतेन यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च तद्धिष्ण्यानां ब्राह्मणे व्याख्यायते सौपर्णीकाद्रवं यथा तदास ३.२.४.[२] तेभ्यो गायत्री सोममच्छापतत् । तस्या आहरन्त्यै गन्धर्वो विश्वावसुः पर्यमुष्णात्ते देवा अविदुः प्रच्युतो वै परस्तात्सोमोऽथ नो नागच्छति गन्धर्वा वै पर्यमोषिषुरिति ३.२.४.[३] ते होचुः । योषित्कामा वै गन्धर्वा वाचमेवैभ्यः प्रहिणवाम सा नः सह सोमेनागमिष्यतीति तेभ्यो वाचं प्राहिण्वन्त्सैनान्त्सह सोमेनागच्छत् ३.२.४.[४] ते गन्धर्वा अन्वागत्याब्रुवन् । सोमो युष्माकं वागेवास्माकमिति तथेति देवा अब्रुवन्निहो चेदागान्मैनामभीषहेव नैष्ट विह्वयामहा इति तां व्यह्वयन्त ३.२.४.[५] तस्यै गन्धर्वाः । वेदानेव प्रोचिर इति वै वयं विद्मेति वयं विद्मेति ३.२.४.[६] अथ देवाः । वीणामेव सृष्ट्वा वादयन्तो निगायन्तो निषेदुरिति वै वयं गास्याम इति त्वा प्रमोदयिष्यामह इति सा देवानुपाववर्त सा वै सा तन्मोघमुपाववर्त या स्तुवद्भ्यः शंसद्भ्यो नृत्तं गीतमुपाववर्त तस्मादप्येतर्हि मोघसंहिता एव योषा एवं हि वागुपावर्तत तामु ह्यन्या अनु योषास्तस्माद्य एव नृत्यति यो गायति तस्मिन्नेवैता निमिश्लतमा इव ३.२.४.[७] तद्वा एतदुभयं देवेष्वासीत् । सोमश्च वाक्च स यत्सोमं क्रीणात्यागत्या एवागतेन यजा इत्यनागतेन ह वै स सोमेन यजते योऽक्रीतेन यजते ३.२.४.[८] अथ यद्ध्रुवायामाज्यं परिशिष्टं भवति । तज्जुह्वां चतुष्कृत्वो विगृह्णाति बर्हिषा हिरण्यं प्रबध्यावधाय जुहोति कृत्स्नेन पयसा जुहवानीति समानजन्म वै पयश्चहिरण्यं चोभयं ह्यग्निरेतसम् ३.२.४.[९] स हिरण्यमवदधाति । एषा ते षुक्र तनूरेतद्वर्च इति वर्चो वा एतद्यद्धिरण्यं तया सम्भवं भ्राजं गच्छेति स यदाह तया सम्भवेति तया सम्पृच्यस्वेत्येवैतदाह भ्राजं गच्छेति सोमो वै भ्राट्सोमं गच्छेत्येवैतदाह ३.२.४.[१०] तां यथैवादो देवाः । प्राहिण्वन्त्सोममचैवमेवैनामेष एतत्प्रहिणोति सोममच्छ वाग्वै सोमक्रयणी निदानेन तामेतयाहुत्या प्रीणाति प्रीतया सोमं क्रीणानीति ३.२.४.[११] स जुहोति । जूरसीत्येतद्ध वा अस्या एकं नाम यज्जूरसीति धृता मनसेति मनसा वा इयं वाग्धृता मनो वा इदं पुरस्ताद्वाच इत्थं वद मैतद्वादीरित्यलग्लमिव ह वै वाग्वदेद्यन्मनो न स्यात्तस्मादाह धृता मनसेति ३.२.४.[१२] जुष्टा विष्णव इति । जुष्टा सोमायेत्येवैतदाह यमच्छेम इति तस्यास्ते सत्यसवसः प्रसव इति सत्यप्रसवा न एधि सोमं नोऽच्छेहीत्येवैतदाह तन्वो यन्त्रमशीय स्वाहेति स ह वै तन्वो यन्त्रमश्नुते यो यज्ञस्योदृचं गच्छति यज्ञस्योदृचं गच्छानीत्येवैतदाह ३.२.४.[१३] अथ हिरण्यमपोद्धरति । तन्मनुष्येषु हिरण्यं करोति स यत्सहिरण्यं जुहुयात्परागु हैवैतन्मनुष्येभ्यो हिरण्यं प्रवृञ्ज्यात्तन्न मनुष्येषु हिरण्यमभिगम्येत ३.२.४.[१४] सोऽपोद्धरति । शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसीति कृत्स्नेन पयसा हुत्वा यदेवैतत्तदाह शुक्रमसीति शुक्रं ह्येतच्चन्द्रमसीति चन्द्रं ह्येतदमृतमसीत्यमृतं ह्येतद्वैश्वदेवमसीति वैश्वदेवं ह्येतत्प्रमुच्य तृणं बर्हिष्यपिसृजति सूत्रेण हिरण्यं प्रबध्नीते ३.२.४.[१५] अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । अन्वारभस्व यजमानेत्याहापोर्णुवन्ति शालायै द्वारे दक्षिणतः सोमक्रयण्युपतिष्ठते तत्प्रहितामेवैनामेतत्सतीम् प्राहैषीद्वाग्वै सोमक्रयणी निदानेन तामेतयाहुत्याप्रैषीत्प्रीतया सोमं क्रीणानीति ३.२.४.[१६] अथोपनिष्क्रम्याभिमन्त्रयते । चिदसि मनासीति चित्तं वा इदं मनो वागनुवदति धीरसि दक्षिणेति धियाधिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव तस्मादाह धीरसीति दक्षिणेति दक्षिणा ह्येषा क्षत्रियासि यज्ञियासीति क्षत्रिया ह्येषा यज्ञिया ह्येषादितिरस्युभयतःशीर्ष्णीति स यदेनया समानं सद्विपर्यासं वदति यदपरं तत्पूर्वं करोति यत्पूर्वं तदपर ं तेनोभयतःशीर्ष्णी तस्मादाहादितिरस्युभयतःशीर्ष्णीति ३.२.४.[१७] सा नः सुप्राची सुप्रतीच्येधीति । सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची त एधि सोमेन नः सह पुनरेहीत्येवैतदाह तस्मादाह सा नः सुप्राची सुप्रतीच्येधीति ३.२.४.[१८] मित्रस्त्वा पदि बध्नीतामिति । वरुण्या वा एषा यद्रज्जुः सा यद्रज्ज्वाभिहिता स्याद्वरुण्या स्याद्यद्वनभिहिता स्यादयतेव स्यादेतद्वा अवरुण्यं यन्मैत्रं सा यथा रज्ज्वाभिहिता यतैवमस्यै तद्भवति यदाह मित्रस्त्वा पदि बध्नीतामिति ३.२.४.[१९] पूषाध्वनस्पात्विति । इयं वै पृथिवी पूषा यस्य वा इयमध्वन्गोप्त्री भवति तस्य न का चन ह्वला भवति तस्मादाह पूषाध्वनस्पात्विति ३.२.४.[२०] इन्द्रायाध्यक्षायेति । स्वध्यक्षासदित्येवैतदाह यदाहेन्द्रायाध्यक्षायेत्यनु माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्य इति सा यत्ते जन्म तेन नोऽनुमता सोममच्छेहीत्येवैतदाह सा देवि देवमच्छेहीति देवी ह्येषा देवमचैति यद्वाक्षोमं तस्मादाह सा देवि देवमच्छेहीतीन्द्राय सोममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय सोममिति रुद्रस्त्वावर्तयत्वित्यप्रणाशायैतदाह रुद्र् अं हि नाति पशवः स्वस्ति सोमसखा पुनरेहीति स्वस्ति नः सोमेन सह पुनरेहीत्येवैतदाह ३.२.४.[२१] तां यथैवादो देवाः । प्राहिण्वन्त्सोममच्छ सैनान्त्सह सोमेनागच्छदेवमेवैनामेष एतत्प्रहिणोति सोममच्छ सैनं सह सोमेनागच्छति ३.२.४.[२२] तं यथैवादो देवाः । व्यह्वयन्त गन्धर्वैः सा देवानुपावर्ततैवमेवैनामेतद्यजमानो विह्वयते सा यजमानमुपावर्तते तामुदीचीमत्याकुर्वन्त्युदीची हि मनुष्याणां दिक्षो एव यजमानस्य तस्मादुदीचीमत्याकुर्वन्ति ३.३.१. ३.३.१.[१] सप्त पदान्यनुनिक्रामति । वृङ्क्त एवैनामेतत्तस्मात्सप्त पदान्यनुनिक्रामति यत्र वै वाचः प्रजातानि छन्दांसि सप्तपदा वै तेषां परार्ध्या शक्वरी तामेवैतत्परस्तादर्वाचीं वृङ्क्ते तस्मात्सप्त पदान्यनुनिक्रामति ३.३.१.[२] स वै वाच एव रूपेणानुनिक्रामति । वस्व्यस्यदितिरस्यादित्यासि रुद्रासि चन्द्रासीति वस्वी ह्येषादितिर्ह्येषादित्या ह्येषा रुद्रा ह्येषा चन्द्रा ह्येषा बृहस्पतिष्ट्वा सुम्ने रम्णात्विति ब्रह्म वै बृहस्पतिर्बृहस्पतिष्ट्वा साधुनावर्तयत्वित्येवैतदाह रुद्रो वसुभिराचक इत्यप्रणाशायैतदाह रुद्रं हि नाति पशवः ३.३.१.[३] अथ सप्तमं पदं पर्युपविशन्ति । स हिरण्यं पदे निधाय जुहोति न वा अनग्नावाहुतिर्हूयतेऽग्निरेतसं वै हिरण्यं तथो हास्यैषाग्निमत्येवाहुतिर्हुता भवति वज्रो वा आज्यं वज्रेणैवैतदाज्येन स्पृणुते तां स्पृत्वा स्वीकुरुते ३.३.१.[४] स जुहोति । अदित्यास्त्वा मूर्धन्नाजिघर्मीतीयं वै पृथिव्यदितिरस्यै हि मूर्धन्जुहोति देवयजने पृथिव्या इति देवयजने हि पृथिव्यै जुहोतीडायास्पदमसि घृतवत्स्वाहेति गौर्वा इडा गोर्हि पदे जुहोति घृतवत्स्वाहेति घृतवद्ध्येतदभिहुतं भवति ३.३.१.[५] अथ स्फ्यमादाय परिलिखति । वज्रो वै स्फ्यो वज्रेणैवैतत्परिलिखति त्रिष्कृत्वः परिलिखति त्रिवृतैवैतद्वज्रेण समन्तं परिगृह्णात्यनतिक्रमाय ३.३.१.[६] स परिलिखति । अस्मे रमस्वेति यजमाने रमस्वेत्येवैतदाहाथ समुल्लिख्य पदं स्थाल्यां संवपत्यस्मे ते बन्धुरिति यजमाने ते बन्धुरित्येवैतदाह ३.३.१.[७] अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादप उपनिनयति ३.३.१.[८] अथ यजमानाय पदं प्रयच्छति । त्वे राय इति पशवो वै रायस्त्वयि पशव इत्येवैतदाह तद्यजमानः प्रतिगृह्णाति मे राय इति पशवो वै रायो मयि पशव इत्येवैतदाह ३.३.१.[९] अथाध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्मेति तथो हाध्वर्युः पशुभ्य आत्मानं नान्तरेति ३.३.१.[१०] अथ पत्न्यै पदं प्रतिपराहरन्ति । गृहा वै पत्न्यै प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्टायां प्रतिष्ठापयति तस्मात्पत्न्यै पदम् प्रतिपराहरन्ति ३.३.१.[११] तां नेष्टा वाचयति । तोतो राय इत्यथैनां सोमक्रयण्या संख्यापयति वृषा वै सोमो योषा पत्न्येष वा अत्र सोमो भवति यत्सोमक्रयणी मिथुनमेवैतत्प्रजननं क्रियते तस्मादेनां सोमक्रयण्या संख्यापयति ३.३.१.[१२] स संख्यापयति । समख्ये देव्या धिया सं दक्षिणयोरुचक्षसा मा म आयुः प्रमोषीर्मो अहं तव वीरं विदेय तव देवि संदृशीत्याशिषमेवैतदाशास्ते पुत्रो वै वीरः पुत्रं विदेय तव संदृशीत्येवैतदाह ३.३.१.[१३] सा या बभ्रुः पिङ्गाक्षी । सा सोमक्रयणी यत्र वा इन्द्राविष्णू त्रेधा सहस्रं व्यैरयेतां तदेकात्यरिच्यत तां त्रेधा प्राजनयतां तस्माद्योऽप्येतर्हि त्रेधा सहस्रं व्याकुर्यादेकैवातिरिच्येत ३.३.१.[१४] सा या बभ्रुः पिङ्गाक्षी । सा सोमक्रयण्यथ या रोहिणी सा वार्त्रघ्नी यामिदं राजा संग्रामं जित्वोदाकुरुतेऽथ या रोहिणी श्येताक्षी सा पितृदेवत्या यामिदं पितृभ्यो घ्नन्ति ३.३.१.[१५] सा या बभ्रुः पिङ्गाक्षी । सा सोमक्रयणी स्याद्यदि बभ्रुं पिङ्गाक्षीं न विन्देदरुणा स्याद्यद्यरुणां न विन्देद्रोहिणी वार्त्रघ्नी स्याद्रोहिण्यै हत्वेव श्येताक्ष्या आशां नेयात् ३.३.१.[१६] सा स्यादप्रवीता । वाग्वा एषा निदानेत यत्सोमक्रयण्ययातयाम्नी वा इयं वागयातयाम्न्यप्रवीता तस्मादप्रवीता स्यात्सा स्यादवण्डाकूटाकाणाकर्णालक्षितासप्तशफा सा ह्येकरूपैकरूपा हीयं वाक् ३.३.२. ३.३.२.[१] पदं समुप्य पाणी अवनेनिक्ते । तद्यत्पाणी अवनेनिक्ते वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्मात्पाणी अवनेनिक्ते ३.३.२.[२] अथास्यां हिरण्यं बध्नीते । द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च सत्यमव देवा अनृतं मनुष्या अग्निरेतसं वै हिरण्यं सत्येनांशूनुपस्पृशानि सत्येन सोमं पराहणानीति तस्माद्वा अस्यां हिरण्यं बध्नीते ३.३.२.[३] अथ सम्प्रेष्यति । सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति स यदेव शोभनं तत्सोमोपनहनं स्याद्वासो ह्यस्यैतद्भवति शोभनं ह्येतस्य वासः स यो हैनं शोभनेनोपचरति शोभते हाथ य आह यदेव किं चेति यद्धैव किं च भवति तस्माद्यदेव शोभनं तत्सोमोपनहनं स्याद्यदेव किं च सोमपर्याणहनम् ३.३.२.[४] यद्युष्णीषं विन्देत् । उष्णीषः स्याद्यद्युष्णीषं न विन्देत्सोमपर्याणहनस्यैव द्व्यङ्गुलं वा त्र्यङ्गुलं वावकृन्तेदुष्णीषभाजनमध्वर्युर्वा यजमानो वा सोमोपनहमादत्ते य एव कश्च सोमपर्याणहनम् ३.३.२.[५] अथाग्रेण राजानं विचिन्वन्ति । तदुदकुम्भ उपनिहितो भवति तद्ब्राह्मण उपास्ते तदभ्यायन्ति प्राञ्चः ३.३.२.[६] तदायत्सु वाचयति । एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताच्चन्दोनामानां साम्राज्यं गच्छेति मे सोमाय ब्रूतादित्येकं वा एष क्रीयमाणोऽभिक्रीयते च्छन्दसामेव राज्याय च्छन्दसां साम्राज्याय घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतदाह च्छन्दसामेव त्वा राज्याय क्रीणामि च्छन्दसां साम्राज्याय न बधायत्यथेत्य प्राङ्गुपविशति ३.३.२.[७] सोऽभिमृशति । आस्माकोऽसीति स्व इव ह्यस्यैतद्भवति यदागतस्तस्मादाहास्माकोऽसीति शुक्रस्ते ग्रह्य इति शुक्रं ह्यस्माद्ग्रहं ग्रहीष्यन्भवति विचितस्त्वा विचिन्वन्त्विति सर्वत्वायैतदाह ३.३.२.[८] अत्र हैके । तृणं वा काष्ठं वावित्त्वापास्यन्ति तदु तथा न कुर्यात्क्षत्रं वै सोमो विडन्या ओषधयोऽन्नं वै क्षत्रियस्य विट्स यथा ग्रसितमनुहायाच्छिद्य परास्येदेवं तत्तस्मादभ्येव मृशेद्विचितस्त्वा विचिन्वन्त्विति तद्य एवास्य विचेतारस्त एनं विचिन्वन्ति ३.३.२.[९] अथ वासः । द्विगुणं वा चतुर्गुणं वा प्राग्दशं वोदग्दशं वोपस्तृणाति तद्राजानम् मिमीते स यद्राजानं मिमीते तस्मान्मात्रा मनुष्येषु मात्रो यो चाप्यन्या मात्रा ३.३.२.[१०] सावित्र्या मिमीते । सविता वै देवानां प्रसविता तथो हास्मा एष सवितृप्रसूत एव क्रयाय भवति ३.३.२.[११] अतिच्छन्दसा मिमीते । एषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथा हास्यैष सर्वैरेव च्छन्दोभिर्मितो भवति तस्मादतिच्छन्दसा मिमीते ३.३.२.[१२] स मिमीते । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिं कविम् ३.३.२.[१३] ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वरिति ३.३.२.[१४] एतया सर्वाभिः । एतया चतसृभिरेतया तिसृभिरेतया द्वाभ्यामेतयैकयैतयैवैकयैतया तिसृभिरेतया चतसृभिरेतया सर्वाभिः समस्याञ्जलिनाध्यावपति ३.३.२.[१५] स वा उदाचं न्याचं मिमीते । स यदुदाचं न्याचं मिमीत इमा एवैतदङ्गुलीर्नानाजानाः करोति तस्मादिमा नाना जायन्तेऽथ यत्सह सर्वाभिर्मिमीते संश्लिष्टा इव हैवैमा जायेरंस्तस्माद्वा उदाचं न्याचं मिमीते ३.३.२.[१६] यद्वेवोदाचं न्याचं मिमीते । इमा एवैतन्नानावीर्याः करोति तस्मादिमा नानावीर्यास्तस्माद्वा उदाचं न्याचं मिमीते ३.३.२.[१७] यद्वेवोदाचं न्याचं मिमीते । विराजमेवैतदर्वाचीं च पराचीं च युनक्ति पराच्यह देवेभ्यो यज्ञं वहत्यर्वाची मनुष्यानवति तस्माद्वा उदाचं न्याचम् मिमीते ३.३.२.[१८] अथ यद्दश कृत्वो मिमीते । दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दश कृत्वो मिमीते ३.३.२.[१९] अथ सोमोपनहनस्य समुत्पार्यान्तान् । उष्णीषेण विग्रथ्नाति प्रजाभ्यस्त्वेति प्रजाभ्यो ह्येनं क्रीणाति स यदेवेदं शिरश्चांसौ चान्तरोपेनितमिव तदेवास्यैतत्करोति ३.३.२.[२०] अथ मध्येऽङ्गुल्याकाशं करोति । प्रजास्त्वानुप्राणन्त्विति तमयतीव वा एनमेतत्समायच्छन्नप्राणमिव करोति तस्यैतदत एव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति तस्मादाह प्रजास्त्वानुप्राणन्त्विति तं सोमविक्रयिणे प्रयच्छत्यथातः पणनस्यैव ३.३.३. ३.३.३.[१] स वै राजानं पणते । स यद्राजानं पणते तस्मादिदं सकृत्सर्वं पण्यं स आह सोमविक्रयिन्क्रय्यस्ते सोमो राजा३ ति क्रय्य इत्याह सोमविक्रयी तं वै ते क्रीणानीति क्रीणीहीत्याह सोमविक्रयी कलया ते क्रीणानीति भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युः ३.३.३.[२] गोर्वै प्रतिधुक् । तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम् ३.३.३.[३] शफेन ते क्रीणानीति । भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युरेतान्येव दश वीर्याण्युदाख्यायाह पदा तेऽर्धेन ते गवा ते क्रीणामीति क्रीतः सोमो राजेत्याह सोमविक्रयी वयांसि प्रब्रूहीति ३.३.३.[४] स आह । चन्द्र ते वस्त्रं ते च्छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्तेऽन्या इति स यदर्वाक्पणन्ते परः सम्पादयन्ति तस्मादिदं सकृत्सर्वं पण्यमर्वाक्पणन्ते परः सम्पादयन्त्यथ यदध्वर्युरेव गोर्वीर्याण्युदाचष्टे न सोमस्य सोमविक्रयी महितो वै सोमो देवो हि सोमोऽथतदध्वर्युर्गां महयति तस्यै पश्यन्वीर्याणि क्रीणादिति तस्मादध्वर्युरेव गोर्वीर्याण्युदाचष्टे न सोमस्य सोमविक्रयी ३.३.३.[५] अथ यत्पञ्च कृत्वः पणते । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्वः पणते ३.३.३.[६] अथ हिरण्ये वाचयति । शुक्रं त्वा शुक्रेण क्रीणामीति शुक्रं ह्येतच्छुक्रेण क्रीणाति यत्सोमं हिरण्येन चन्द्रं चन्द्रेणेति चन्द्रं ह्येतच्चन्द्रेण क्रीणाति यत्सोमं हिरण्येनामृतममृतेनेत्यमृतं ह्येतदमृतेन क्रीणाति यत्सोमं हिरण्येन ३.३.३.[७] अथ सोमविक्रयिणमभिप्रकम्पयति । सग्मे ते गोरिति यजमाने ते गौरित्येवैतदाह तद्यजमानमभ्याहृत्य न्यस्थत्यस्मे ते चन्द्राणीति स आत्मन्येव वीर्यं धत्ते शरीरमेव सोमविक्रयी हरते तत्ततः सोमविक्रय्यादत्ते ३.३.३.[८] अथाजायां प्रतीचीनमुख्यां वाचयति । तपसस्तनूरसीति तपसो ह वा एषा प्रजापतेः सम्भूता यदजा तस्मादाह तपसस्तनूरसीति प्रजापतेर्वर्ण इति सा यत्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः परमेण पशुना क्रीयस इति सा यत्त्रिः संवत्सरस्य विजायते तेन परमः पशुः सहस्रपोषम् पुषेयमित्याशिषमेवैतदाशास्ते भूमा वै सहस्रं भूमानं गच्छानीत्येवैतदाह ३.३.३.[९] स वा अनेनैवाजां प्रयच्छति । अनेन राजानमादत्त आजा ह वै नामैषा यदजैतया ह्येनमन्तत आजति तामेतत्परोऽक्षमजेत्याचक्षते ३.३.३.[१०] अथ राजानमादत्ते । मित्रो न एहि सुमित्रध इति शिवो नः शान्त एहीत्येवैतदाह तं यजमानस्य दक्षिण ऊरौ प्रत्युह्य वासो निदधातीन्द्रस्योरुमाविश दक्षिणमित्येष वा अत्रेन्द्रो भवति यद्यजमानस्तस्मादाहेन्द्रस्योरुमाविश दक्षिणमित्युशन्नुशन्तमिति प्रियः प्रियमित्येवैतदाह स्योनः स्योनमिति शिवः शिवमित्येवैतदाह ३.३.३.[११] अथ सोमक्रयणाननुदिशति । स्वान भ्राजाङ्घरे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्निति धिष्ण्यानां वा एते भाजनेनैतानि वै धिष्ण्यानां नामानि तान्येवैभ्य एतदन्वदिक्षत ३.३.३.[१२] अथात्रापोर्णुते । गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भा उल्वेनेव जरायुणेव तमत्राजीजनत तस्मादपोर्णुत एष वा अत्र गर्भो भवति तस्मात्परिवृतो भवति परिवृता इव हि गर्भो उल्बेनेव जरायुणेव ३.३.३.[१३] अथ वाचयति । परि माग्ने दुश्चरिताद्बाधस्वा मा सुचरिते भजेत्यासीनं वा एनमेष आगच्छति स आगत उत्तिष्ठति तन्मिथ्याकरोति व्रतं प्रमीणाति तस्यो हैषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतं भवति न व्रतं प्रमीणाति तस्मादाह परि माग्ने दुश्चरिताद्बाधस्वा मा सुचरिते भजेति ३.३.३.[१४] अथ राजानमादायोत्तिष्ठति । उदायुषा स्वायुषोदस्थाममृतां अन्वित्यमृतं वा एषो ऽनुत्तिष्ठात यः सोमं क्रीतं तस्मादाहोदायुषा स्वायुषोदस्थाममृतां अन्विति ३.३.३.[१५] अथ राजानमादायारोहणमभिप्रैति । प्रति पन्थामपद्महि स्वस्ति गामनेहसम् येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति ३.३.३.[१६] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसण्गाद्भिभयां चक्रुस्त एतद्यजुः स्वस्त्ययनं ददृशुस्त एतेन यजुषा नाष्ट्रा रक्षांस्यपहत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समाश्नुवत तथो एवैष एतेन यजुषा नाष्ट्रा रक्षांस्यपहत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समश्नुते तस्मादाह प्रति पन्थामपद्महि स्वस्ति गामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति ३.३.३.[१७] तं वा इति हरन्ति । अनसा परिवहन्ति महयन्त्येवैनमेतत्तस्माचीर्ष्णा वीजं हरन्त्यनसोदावहन्ति ३.३.३.[१८] अथ यदपामन्ते क्रीणाति । रसो वा आपः सरसमेवैतत्क्रीणात्यथ यद्धिरण्यम् भवति सशुक्रमेवैतत्क्रीणात्यथ यद्वासो भवति सत्वचसमेवैतत्क्रीणात्यथ यदजा भवति सतपसमेवैतत्क्रीणात्यथ यद्धेनुर्भवति साशिरमेवैतत्क्रीणात्यथ यन्मिथुनौ भवतः समिथुनमेवैतत्क्रीणाति तं वै दशभिरेव क्रीणीयान्नादशभिर्दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दशभिरेव क्रीणीयान्नादशभिः ३.३.४. ३.३.४.[१] नीडे कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसीति सोऽसावेव बन्धुरथैनमासादयत्यदित्यै सद आसीदेतीयं वै पृथिव्यदितिः सेयं प्रतिष्ठा तदस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति तस्मादाहादित्यै सद आसीदेति ३.३.४.[२] अथैवमभिपद्य वाचयति । अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमिति देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङाद्बिभयां चक्रुस्त एनमेतज्ज्यायांसमेव बधाच्चक्रुर्यदाहास्तभ्नाद्द्यां वृषभो अन्तरिक्षमिति ३.३.४.[३] अमिमीत वरिमाणं पृथिव्या इति । तदेनेनेमांलोकानास्पृणोति तस्य हि न हन्तास्ति न बधो येनेमे लोका आस्पृतास्तस्मादाहामिमीत वरिमाणं पृथिव्या इति ३.३.४.[४] आसीदद्विश्वा भुवनानि सम्राडिति । तदेनेनेदं सर्वमास्पृणोति तस्य हि न हन्तास्ति न बधो येनेदं सर्वमास्पृतं तस्मादाहासीदद्विश्वा भुवनानि सम्राडिति ३.३.४.[५] विश्वेत्तानि वरुणस्य व्रतानीति तदस्मा इदं सर्वमनुवर्त्म करोति यदिदं किं च न कं चन प्रत्युद्यामिनं तस्मादाह विश्वेत्तानि वरुणस्य व्रतानीति ३.३.४.[६] अथ सोमपर्याणहनेन पर्याणह्यति । नेदेनं नाष्ट्रा रक्षांसि प्रमृशानिति गर्भो वा एष भवति तिर इव वै गर्भास्तिर इवैतत्पर्याणद्धं तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्पर्याणद्धं तस्माद्वै पर्याणह्यति ३.३.४.[७] स पर्याणह्यति । वनेषु व्यन्तरिक्षं ततानेति वनेषु हीदमन्तरिक्षं विततं वृक्षाग्रेषु वाजमर्वत्सु पय उस्रियास्विति वीर्यं वै वाजाः पुमांसोऽर्वन्तः पुंस्वेवैतद्वीर्यं दधाति पय उस्रियास्विति पयो हीदमुस्रियासु हितं हृत्सु क्रतुं वरुणो विक्ष्वग्निमिति हृत्सु ह्ययं क्रतुर्मनोजवः प्रविष्टो विक्ष्वग्निमिति विक्षु ह्ययं प्रजास्वग्निर्दिवि सूर्यमदधात्सोममद्राविति दिवि ह्यसौ सूर्यो हितः सोममद्राविति गिरिषु हि सोमस्तस्मादाह दिवि सूर्यमदधात्सोममद्राविति ३.३.४.[८] अथ यदि द्वे कृष्णाजिने भवतः । तयोरन्यतरत्प्रत्यानह्यति प्रतीनाहभाजनं यद्यु एकं भवति कृष्णाजिनग्रीवा एवावकृत्य प्रत्यानह्यति प्रतीनाहभाजनं सूर्यस्य चक्षुरारोहाग्नेरक्ष्णः कनीनकं यत्रैतशेभिरीयसे भ्राजमानो विपश्चितेति सूर्यमेवैतत्पुरस्तात्करोति सूर्यः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण परिवहन्ति ३.३.४.[९] उद्धते प्र उग्ये फलके भवतः । तदन्तरेण तिष्ठन्त्सुब्रह्मण्यः प्राजति श्रेयान्वा एषोऽभ्यारोहाद्भवति को ह्येतमर्हत्यभ्यारोढुं तस्मादन्तरेण तिष्ठन्प्राजति ३.३.४.[१०] पलाशशाखया प्राजति । यत्र वै गायत्री सोममच्छापतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णो ऽभवत्तस्मात्पर्णो नाम तद्यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात्पलाशशाखया प्राजति ३.३.४.[११] अथानड्वाहावाजन्ति । तौ यदि कृष्णौ स्यातामन्यतरो वा कृष्णस्तत्र विद्याद्वर्षिष्यत्यैषमः पर्जन्यो वृष्टिमान्भविष्यतीत्येतदु विज्ञानम् ३.३.४.[१२] अथ युनक्ति । उस्रावेतं धूर्षाहावित्युस्रौ हि भवतो धूर्षाहाविति धूर्वाहौ हि भवतो युज्येथामनश्रू इति युजेते ह्यनश्रू इत्यनार्ताविति तदवीरहणावित्यपापकृताविति तद्ब्रह्मचोदनाविति ब्रह्मचोदनौ हि भवतः स्वस्ति यजमानस्य गृहान्गच्छतमिति यथैनावन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह ३.३.४.[१३] अथ पश्चात्परिक्रम्य । अपालम्बमभिपद्याह सोमाय क्रीतायानुब्रूहीति सोमाय पर्युह्यमाणायेति वातो यतरथा कामयेत ३.३.४.[१४] अथ वाचयति । भद्रो मेऽसि प्रच्यवस्व भुवस्पत इति भद्रो ह्यस्यैष भवति तस्मान्नान्यमाद्रियतेऽप्यस्य राजानः सभागा आगच्छन्ति पूर्वो राज्ञोऽभिवदति भद्रो हि भवति तस्मादाह भद्रो मेऽसीति प्रच्यवस्व भुवस्पत इति भुवनानां ह्येष पतिर्विश्वान्यभि धामानीत्यङ्गानि वै विश्वानि धामान्यङ्गान्येवैतदभ्याह मा त्वा परिपरिणो विदन्मा त्वा परिपन्यिनो विदन्मा त्वा वृका अघायवो विदन्निति यथैनमन्तरा नाष्ट्रा रक्षांसि न विन्देयुरेवमेतदाह ३.३.४.[१५] श्येनो भूत्वा परापतेति । वय एवैनमेतद्भूतं प्रपातयति यद्वा उग्रं तन्नाष्ट्रा रक्षांसि नान्ववयन्त्येतद्वै वयसामोजिष्ठं बलिष्ठं यच्येनस्तमेवैतद्भूतं प्रपातयति यदाह श्येनो भूत्वा परापतेति ३.३.४.[१६] अथ शरीरमेवान्ववहन्ति । यजमानस्य गृहान्गच्छ तन्नौ संस्कृतमिति नात्र तिरोहितमिवास्ति ३.३.४.[१७] अथ सुब्रह्मण्यामाह्वयति । यथा येभ्यः पक्ष्यन्त्स्यात्तान्ब्रूयादित्यहे वः पक्तास्मीत्येवमेवैतद्देवेभ्यो यज्ञं निवेदयति सुब्रह्मण्यो३ं सुब्रह्म्ण्यो३ इति ब्रह्म हि देवान्प्रच्यावयति त्रिष्कृत्व आह त्रिवृद्धि यज्ञः ३.३.४.[१८] इन्द्रागच्छेति । इन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रागच्छेति हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जारेति तद्यान्येवास्य चरणानि तैरेवैनमेतत्प्रमुमोदयिषति ३.३.४.[१९] कौशिक ब्राह्मण गौतम ब्रुवाणेति । शश्वद्धैतदारुणिनाधुनोपज्ञातं यद्गौतम ब्रुवाणेति स यदि कामयेत ब्रूयादेतद्यद्यु कामयेतापि नाद्रियेतेत्यहे सुत्यामिति यावदहे सुत्या भवति ३.३.४.[२०] देवा ब्रह्माण आगच्छतेति । तद्देवांश्च ब्राह्मणांश्चाहैतैर्ह्यत्रोभयैरर्थो भवति यद्देवैश्च ब्राह्मणैश्च ३.३.४.[२१] अथ प्रतिप्रस्थाता । अग्रेण शालामग्नीषोमीयेण पशुना प्रत्युपतिष्ठतेऽग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्पशुनात्मानं निष्क्रीणीते ३.३.४.[२२] तद्धैके । आहवनीयादुल्मुकमाहरन्त्ययमग्निरयं सोमस्ताभ्यां सह सद्भ्यां निष्क्रेष्यामह इति वदन्तस्तदु तथा न कुर्याद्यत्र वा एतौ क्व च तत्सहैव ३.३.४.[२३] स वै द्विरूपो भवति । द्विदेवत्यो हि भवति देवतयोरसमदे कृष्णसारङ्ग स्यादित्याहुरेतद्ध्येनयो रूपतममिवेति यदि कृष्णसारङ्गं न विन्देदथो अपि लोहितसारङ्ग स्यात् ३.३.४.[२४] तस्मिन्वाचयति । नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत दूरे दृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसतेति नम एवास्मा एतत्करोति मित्रधेयमेवैनेनैतत्कुरुते ३.३.४.[२५] अथाध्वर्युरारोहणं विमुञ्चति । वरुणस्योत्तम्भनमसीत्युपस्तम्भनेनोपस्तभ्नाति वरुणस्य स्कम्भसर्जनी स्थ इति शम्ये उद्वृहति स यदाह वरुणस्य स्कम्भसर्जनी स्थ इति वरुण्यो ह्येष एतर्हि भवति यत्सोमः क्रीतः ३.३.४.[२६] अथ चत्वारो राजासन्दीमाददते । द्वौ वा अस्मै मानुषाय राज्ञ आददाते अथैतां चत्वारो योऽस्य सकृत्सर्वस्येष्टे ३.३.४.[२७] औदुम्बरी भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरी भवति ३.३.४.[२८] नाभिदघ्ना भवति । अत्र वा अन्नं प्रतितिष्ठन्यन्नं सोमस्तस्मान्नाभिदघ्ना भवत्यत्रो एव रेतस आशयो रेतः सोमस्तस्मादत्रदघ्ना भवति ३.३.४.[२९] तामभिमृशति । वरुणस्य ऋतसदन्यसीत्यथ कृष्णाजिनमास्तृणाति वरुणस्य ऋतसदनमसीत्यथैनमासादयति वरुणस्य ऋतसदनमासीदेति स यदाह वरुणस्य ऋतसदनमासीदेति वरुण्यो ह्येष एतर्हि भवति ३.३.४.[३०] अथैनं शालां प्रपादयति । स प्रपादयन्वाचयति या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यानिति गृहा वै दुर्या गृहान्नः शिवः शान्तोऽपापकृत्प्रचरेत्येवैतदाह ३.३.४.[३१] अत्र हैके । उदपात्रमुपनिनयन्ति यथा राज्ञ आगतायोदकमाहरेदेवमेतदिति वदन्तस्तदु तथा न कुर्यान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति तस्मान्नोपनिनयेत् ३.४.१. ३.४.१.[१] शिरो वै यज्ञस्यातिथ्यं बाहू प्रायणीयोदयनीयौ । अभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च ३.४.१.[२] अथ यस्मादातिथ्यं नाम । अतिथिर्वा एष एतस्यागच्छति यत्सोमः क्रीतस्तस्मा एतद्यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत्तदह मानुषं हविर्देवानामेवमस्मा एतदातिथ्यं करोति ३.४.१.[३] तदाहुः । पूर्वोऽतीत्य गृह्णीयादिति यत्र वा अर्हन्तमागतं नापचायन्ति क्रुध्यति वै स तत्र तथा हापचितो भवति ३.४.१.[४] तद्वा अन्यतर एव विमुक्तः स्यात् । अन्यतरोऽविमुक्तोऽथ गृह्णीयात्स यदन्यतरो विमुक्तस्तेनागतो यद्वन्यतरोऽविमुक्तस्तेनापचितः ३.४.१.[५] तदु तथा न कुर्यात् विमुच्यैव प्रपाद्य गृह्णीयाद्यथा वै देवानां चरणं तद्वा अनु मनुष्याणां तस्मान्मानुषे यावन्न विमुञ्चते नैवास्मै तावदुदकं हरन्ति नापचितिं कुर्वन्त्यनागतो हि स तावद्भवत्यथ यदैव विमुञ्चतेऽथास्मा उदकं हरन्त्यथापचितिं कुर्वन्ति तर्हि हि स आगतो भवति तस्माद्विमुच्यैव प्रपाद्य गृह्णीयात् ३.४.१.[६] स वै संत्वरमाण इव गृह्णीयात् । तथा हापचितो भवति तत्पत्न्यन्वारभते पर्युह्यमाणं वै यजमानोऽन्वारभतेऽथात्र पत्न्युभयत एवैतन्मिथुनेनान्वारभेते यत्र वा अर्हन्नागच्छति सर्वगृह्या इव वै तत्र चेष्टन्ति तथा हापचितो भवति ३.४.१.[७] स वा अन्येनैव ततो यजुषा गृह्णीयात् । येनो चान्यानि हवींष्येकं वा एष भागं क्रीयमाणोऽभिक्रीयते च्छन्दसामेव राज्याय च्छन्दसां साम्राज्याय तस्य छन्दांस्यभितः साचयानि यथा राज्ञोऽराजानो राजकृतः सूतग्रामण्य एवमस्य छन्दांस्यभितः साचयानि ३.४.१.[८] न वै तदवकल्पते । यच्चन्दोभ्य इति केवलं गृह्णीयाद्यत्र वा अर्हते पचन्ति तदभितः साचयोऽन्वाभक्ता भवन्त्यराजानो राजकृतः सूतग्रामण्यस्तस्माद्यत्रैवैतस्यै गृह्णीयात्तदेव छन्दांस्यन्वाभजेत् ३.४.१.[९] स गृह्णाति । अग्नेस्तनूरसि विष्णवे त्वेत्यग्निर्वै गायत्री तद्गायत्रीमन्वाभजति ३.४.१.[१०] सोमस्य तनूरसि विष्णवे त्वेति । क्षत्रं वै सोमः क्षत्रं त्रिष्टुप्तत्त्रिष्टुभमन्वाभजति ३.४.१.[११] अतिथेरातिथ्यमसि विष्णवे त्वेति । सोऽस्योद्धारो यथा श्रेष्ठस्योद्धार एवमस्यैष ऋते च्छन्दोभ्यः ३.४.१.[१२] श्येनाय त्वा सोमभृते विष्णवे त्वेति । तद्गायत्रीमन्वाभजति सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः सोमभृत्तेनैवैनामेतद्वीर्येण द्वितीयमन्वाभजति ३.४.१.[१३] अग्नये त्वा रायस्पोषदे विष्णवे त्वेति । पशवो वै रायस्पोषः पशवो जगती तज्जगतीमन्वाभजति ३.४.१.[१४] अथ यत्पञ्च कृत्वो गृह्णाति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्वो गृह्णात्यथ यद्विष्णवे त्वा विष्नवे त्वेति गृह्णाति विष्णवे हि गृह्णाति यो यज्ञाय गृह्णाति ३.४.१.[१५] नवकपालः पुरोडाशो भवति । शिरो वै यज्ञस्यातिथ्यं नवाक्षरा वै गायत्र्यष्टौ तानि यान्यन्वाह प्रणवो नवमः पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मान्नवकपालः पुरोडाशो भवति ३.४.१.[१६] कार्ष्मर्यमयाः परिधयः । देवा ह वा एतं वनस्पतिषु राक्षोघ्नं ददृशुर्यत्कार्ष्मर्यं शिरो वै यज्ञस्यातिथ्यं नेच्छिरो यज्ञस्य नाष्ट्रा रक्षांसि हिनसन्निति तस्मात्कार्ष्मर्यमयाः परिधयो भवन्ति ३.४.१.[१७] आश्ववालः प्रस्तरः । यज्ञो ह देवेभ्योऽपचक्राम सोऽश्वो भूत्वा पराङाववर्त तस्य देवा अनुहाय वालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्धं संन्यासुस्तत एता ओषधयः समभवन्यदश्ववालाः शिरो वै यज्ञस्यातिथ्यं जघनार्धो वाला उभयत एवैतद्यज्ञं परिगृह्णाति यदाश्ववालाः प्रस्तरो भवति ३.४.१.[१८] ऐक्षव्यौ विधृती । नेद्बर्हिश्च प्रस्तरश्च संलुभ्यात इत्यथोत्पूयाज्यं सर्वाण्येव चतुर्गृहीतान्याज्यानि गृह्णाति न ह्यत्रानुयाजा भवन्ति ३.४.१.[१९] आसाद्य हवींष्यग्निं मन्थति । शिरो वै यज्ञस्यातिथ्यं जनयन्ति वा एनमेतद्यन्मन्थन्ति शीर्षतो वा अग्रे जायमानो जायते शीर्षत एवैतदग्रे यज्ञं जनयत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति शिरो वै यज्ञस्यातिथ्यं शीर्षत एवैतद्यज्ञं सर्वाभिर्देवताभिः समर्धयति तस्मादग्निं मन्थति ३.४.१.[२०] सोऽधिमन्थनं शकलमादत्ते । अग्नेर्जनित्रमसीत्यत्र ह्यग्निर्जायते तस्मादाहाग्नेर्जनित्रमसीति ३.४.१.[२१]अथ दर्भतरुणके निदधाति । वृषणौ स्थ इति तद्यावेवेमौ स्त्रियै साकंजावेतावेवैतौ ३.४.१.[२२] अथाधरारणिं निदधाति । उर्वश्यसीत्यथोत्तरारण्याज्यविलापनीमुपस्पृशत्यायुरसीति तामभिनिदधाति पुरूरवा असीत्युर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरेवमेवैष एतस्मान्मिथुनाद्यज्ञं जनयत्यथाहाग्नये मथ्यमानायानुब्रूहीति ३.४.१.[२३] स मन्थति । गायत्रेण त्वा च्छन्दसा मन्थामि त्रैष्टुभेन त्वा च्छन्दसा मन्थामि जागतेन त्वा च्छन्दसा मान्थामीति तं वै च्छन्दोभिरेव मन्थति छन्दांसि मथ्यमानायान्वाह छन्दांस्येवैतद्यज्ञमन्वायातयति यथामुमादित्यं रश्मयो जातायानुब्रूहीत्याह यदा जायते प्रह्रियमाणायेत्यनुप्रहरन् ३.४.१.[२४] सोऽनुप्रहरति । भवतं नः समनसौ सचेतसावरेपसौ मा यज्ञं हिंसिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य न इति शान्तिमेवाभ्यामेतद्वदति यथा नान्योऽन्यं हिंस्याताम् ३.४.१.[२५] अथ स्रुवेणोपहत्याज्यम् । अग्निमभिजुहोत्यग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपावा स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन्त्स्वाहेत्याहुत्यै वा एतमजीजनत तमेतयाहुत्याप्रैषीत्तस्मादेवमभिजुहोति ३.४.१.[२६] तदिडान्तं भवति । नानुयाजान्यजन्ति शिरो वै यज्ञस्यातिथ्यं पूर्वार्धो वै शिरः पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति स यद्धानुयाजान्यजेद्यथा शीर्षतः पर्याहृत्य पादौ प्रतिदध्यादेवं तत्तस्मादिडान्तं भवति नानुयाजान्यजन्ति ३.४.२. ३.४.२.[१] आतिथ्येन वै देवा इष्ट्वा । तान्त्समदविन्दत्ते चतुर्धा व्यद्रवन्नन्योऽन्यस्य श्रिया अतिष्ठमाना अग्निर्वसुभिः सोमो रुद्रैर्वरुण आदित्यैरिन्द्रो मरुद्भिर्बृहस्पतिर्विश्वैर्देवैरित्यु हैक आहुरेते ह त्वेव ते विश्वे देवा ये ते चतुर्धा व्यद्रवंस्तान्विद्रुतानसुररक्षान्यनुव्यवेयुः ३.४.२.[२] तेऽविदुः । पापीयांसो वै भवामोऽसुररक्षसानि वै नोऽनुव्यवागुर्द्विषद्भ्यो वै रध्यामो हन्त संजानामहा एकस्य श्रियै तिष्ठामहा इति त इन्द्रस्य श्रिया अतिष्ठन्त तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा देवा इति ३.४.२.[३] तस्मादु ह न स्वा ऋतीयेरन् । य एषां परस्तरामिव भवति स एनाननुव्यवैति ते प्रियं द्विषतां कुर्वन्ति द्विषद्भ्यो रध्यन्ति तस्मान्नऽर्तीयेरन्त्स यो हैवं विद्वान्नऽर्तीयतेऽप्रियं द्विषतां करोति न द्विपद्भ्यो रध्यति तस्मान्नऽर्तीयेत ३.४.२.[४] ते होचुः । हन्तेदं तथा करवामहै यथा न इदमाप्रदिवमेवाजर्यमसदिति ३.४.२.[५] ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति कस्योपद्रष्टुरिति तनूनप्तुरेव शाक्वरस्येति यो वा अयमेष तनूनपाच्छाक्वरः सोऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ ३.४.२.[६] तस्मादाहुः । मनो देवा मनुष्यस्याजानन्तीति मनसा संकल्पयति तत्प्राणमपिपद्यते प्राणो वातं वातो देवेभ्य आचष्टे यथा पुरुषस्य मनः ३.४.२.[७] तस्मादेतदृषिणाभ्यनूक्तम् । मनसा संकल्पयति तद्वातमपिगच्छति वातो देवेभ्य आचष्टे यथा पुरुष ते मन इति ३.४.२.[८] ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति तद्देवा अप्येतर्हि नातिक्रामन्ति के हि स्युर्यदतिक्रामेयुरनृतं हि वदेयुरेकं ह वै देवा व्रतं चरन्ति सत्यमेव तस्मादेषां जितमनपजय्यं तस्माद्यश एवं ह वा अस्य जितमनपजय्यमेवं यशो भवति य एवं विद्वान्त्सत्यं वदति तदेतत्तानूनप्त्रं निदानेन ३.४.२.[९] ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरेऽथैत आज्यान्येव गृह्णाना जुष्टास्तनूः प्रियाणि धामानि सार्धं समवद्यन्ते तस्मादु ह न सर्वेणेव समभ्यवेयान्नेन्मे जुष्टास्तन्वः प्रियाणि धामानि सार्धं समभ्यवायानिति येनो ह समभ्यवेयान्नास्मै द्रुह्येदिदं ह्याहुर्न सतानुनप्त्रिणे द्रोग्धव्यमिति ३.४.२.[१०] अथातो गृह्णात्येव । आपतये त्वा परिपतये गृह्णामीति यो वा अयं पवत एष आ च पतति परि च पतत्येतस्मा उ हि गृह्णाति तस्मादाहापतये त्वा परिपतये गृह्णामीति ३.४.२.[११] तनूनप्त्रे शाक्वरायेति । यो वा अयं पवत एष तनूतप्ता शाक्वर एतस्मा उ हि गृह्णाति तस्मादाह तनूनप्त्रे शाक्वरायेति ३.४.२.[१२] शक्वन ओजिष्ठायेति । एष वै शक्वौजिष्ठ एतस्मा उ हि गृह्णाति तस्मादाह शक्वन ओजिष्ठायेति ३.४.२.[१३] अथातः समवमृशन्त्येव । एतद्ध देवा भूयः समामिर इत्थं नः सो ऽमुथासद्यो न एतदतिक्रामादिति तथो एवैत एतत्सममन्त इत्थं नः सो ऽमुथासद्यो न एतदतिक्रामादिति ३.४.२.[१४] ते समवमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोज इत्यनाधृष्टा हि देवा आसन्ननाधृष्याः सह सन्तः समानं वदन्तः समानं दध्राणा देवानामोज इति देवानां वै जुष्टास्तन्वः प्रियाणि धामान्यनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमिति सर्वां हि देवा अभिशस्तिं तीर्णा अञ्जसा सत्यमुपगेषमिति सत्यं वदानि मेदमतिक्रमिषमित्येवैतदाह स्विते मा धा इति स्विते हि तद्देवा आत्मानमदधत् अ यत्सत्यमवदन्यत्सत्यमकुर्वस्तस्मादाह स्विते मा धा इति ३.४.२.[१५] अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तदिन्द्रे संन्यदधतैष वा इन्द्रो य एष तपति न ह वा एषोऽग्रे तताप यथा हैवैदमन्यत्कृष्णमेवं हैवास तेनैवैतद्वीर्येण तपति तस्माद्यदि बहवो दीक्षेरन्गृहपतय एव व्रतमभ्युत्सिच्य प्रयच्छेयुः स हि तेषामिन्द्रभाजनम् भवति यद्यु दक्षिणावता दीक्षेत यजमानायैव व्रतमभ्युत्सिच्य प्रयच्छेयुरिदं ह्याहुरिन्द्रो यजमान इति ३.४.२.[१६] अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तत्सार्धं संजघ्ने तत्सामाभवत्तस्मादाहुः सत्यं साम देवजं सामेति ३.४.३. ३.४.३.[१] आतिथ्येन वै देवा इष्ट्वा । तान्त्समदविन्दत्ते तानूनप्त्रैः समशाम्यंस्त एतस्य प्रायश्चित्तिमैचन्यदन्योऽन्यं पापमवदन्नाह पुरावभृथात्पुनर्दीक्षामवाकल्पयंस्त एतामवान्तरां दीक्षामपश्यन् ३.४.३.[२] तेऽग्निनैव त्वचं विपल्याङ्गयन्त । तपो वा अग्निस्तपो दीक्षा तदवान्तरां दीक्षामुपायंस्तद्यदवान्तरां दीक्षामुपायंस्तस्मादवान्तरदीक्षा संतरामङ्गुलीराञ्चन्त संतरां मेखलां पर्यस्तामेवैनामेतत्सतीं पर्यास्यन्त तथो एवैष एतद्यदतः प्राचीनमव्रत्यं वा करोत्यव्रत्यं वा वदति तस्यैवैतत्प्रायश्चित्तिं कुरुते ३.४.३.[३] सोऽग्निनैव त्वचं विपल्यङ्गयते । तपो वा अग्निस्तपो दीक्षा तदवान्तरां दीक्षामुपैति संतरामङ्गुलीरचते संतरां मेखलां पर्यस्तामेवैनामेतत्सतीम् पर्यस्यते प्रजामु हैव तद्देवा उपायन् ३.४.३.[४] तेऽग्निनैव त्वच विपल्याङ्गयन्त । अग्निर्वै मिथुनस्य कर्ता प्रजनयिता तत्प्रजामुपायन्त्संतरामङ्गुलीराञ्चन्त संतरां मेखलां तत्प्रजामात्मन्नकुर्वत तथो एवैष एतत्प्रजामेवोपैति ३.४.३.[५] सोऽग्निनैव त्वचं विपल्यङ्गयते । अग्निर्वै मिथुनस्य कर्ता प्रजनयिता तत्प्रजामुपैति संतरामङ्गुलीरचते संतरां मेखलां तत्प्रजामात्मन्कुरुते ३.४.३.[६] देवानामु ह स्म दीक्षितानाम् । यः समिद्धारो वा स्वाध्यायं वा विसृजते तं ह स्मेतरस्यैवेतरं रूपेणेतरस्येतरमसुररक्षसानि जिघांसन्ति ते ह पापं वदन्त उपसमेयुरिति वै मां त्वमचिकीर्षीरिति माजिघांसीरित्यग्निर्हैव तथा नान्यमुवादाग्निं तथा नान्यः ३.४.३.[७] ते होचुः । अपीत्थं त्वामग्नेऽवादिषूरिति नैवाहमन्यं न मामन्य इति ३.४.३.[८] तेऽविदुः । अयं वै नो विरक्षस्तमोऽस्यैव रूपमसाम तेन रक्षांस्यतिमोक्ष्यामहे तेन स्वर्गं लोकं समश्नुविष्यामह इति तेऽग्निरेव रूपमभवंस्तेन रक्षांस्यत्यमुच्यन्त तेन स्वर्गं लोकं समाश्नुवत तथो एवैष एतदग्नेरेव रूपं भवति तेन रक्षांस्यतिमुच्यते तेन स्वर्गं लोकं समश्नुते स वै समिधमेवाभ्यादधदवान्तरदीक्षामुपैति ३.४.३.[९] स समिधमभ्यादधाति । अग्ने व्रतपास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूरियं सा मयि यो मम तनूरेषा सा त्वयि सह नौ व्रतपते व्रतानीति तदग्निना त्वचं विपल्यङ्गयतेऽनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरिति तदवान्तरां दीक्षामुपैति संतरामङ्गुलीरचते संतरां मेखलां पर्यस्तामेवैतत्सतीं पर्यस्यते ३.४.३.[१०] अथैनमतो मदन्तीभिरुपचरन्ति । तपो वा अग्निस्तपो मदन्त्यस्तस्मादेनम् मदन्तीभिरुपचरन्ति ३.४.३.[११] अथ मदन्तीभिरुपस्पृश्य । राजानमाप्याययन्ति तद्यन्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसामेति तस्मान्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति ३.४.३.[१२] तदाहुः । यस्मा एतदाप्यायनं क्रियत आतिथ्यं सोमाय तमेवाग्र आप्याययेयुरथावान्तरदीक्षामथ तानूनप्त्राणीति तदु तथा न कुर्याद्यज्ञस्य वा एवं कर्मात्र वा एनान्त्समदविन्दत्ते संशममेव पूर्वमुपायन्नथावान्तरदीक्षामथाप्यायनम् ३.४.३.[१३] तद्यदाप्याययन्ति । देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तदेषोशाना नामौषधिर्जायत इति ह स्माह श्वेतकेतुरौद्दालकिस्तामेतदाहृत्याभिषुण्वन्ति तां दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं कुर्वन्तीति तथो एवैनामेष एतद्दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं करोति ३.४.३.[१४] मधु सारघमिति वा आहुः । यज्ञो ह वै मधु सारघमथैत एव सरघो मधुकृतो यदृत्विजस्तद्यथा मधु मधुकृत आप्याययेयुरेवमेवैतद्यज्ञमाप्याययन्ति ३.४.३.[१५] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम ३.४.३.[१६] तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यो दीक्षते वाग्वै यज्ञस्तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं तदेवैतत्पुनराप्याययति ३.४.३.[१७] ते वै षड्भूत्वाप्याययन्ति । षड्वा ऋतव ऋतव एवैतद्भूत्वाप्याययन्ति ३.४.३.[१८] त आप्याययन्ति । अंशुरंशुष्टे देव सोमाप्यायतामिति तदस्यांशुमंशुमेवाप्याययन्तीन्द्रायैकधनविद इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेत्येकधनविद इति शतंशतं ह स्म वा एष देवान्प्रत्येकैक एवांशुरेकधनानाप्यायते दशदश वा तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेतीन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तामेवैतदाप्याययत्या त्वमिन्द्राय प्यायस्वेति तदेतस्मिन्नाप्यायनं दधात्याप्याययास्मान्त्सखीन्त्सन्या मेधयेति स यत्सनोति तत्तदाह यत्सन्येत्यथ यदनुब्रूते तदु तदाह यन्मघयेति स्वस्ति ते देव सोम सत्यामशीयेत्येका वा एतेषामाशीर्भवत्यृत्विजां च्छ यजमानस्य च यज्ञस्योदृचं गच्छेमेति यज्ञस्योदृचं गच्छानीत्येवैतदाह ३.४.३.[१९] अथ प्रस्तरे निह्नुवते । उत्तरतौपचारो वै यज्ञो ऽथैतद्दक्षिणेवान्वित्याप्याययन्त्यग्निर्वै यज्ञस्तद्यज्ञं पृष्ठतः कुर्वन्ति तन्मिथ्याकुर्वन्ति देवेभ्य आवृश्च्यन्ते यज्ञो वै प्रस्तरस्तद्यज्ञं पुनरारभन्ते तस्यो हैषा प्रायश्चित्तिस्तथो हैषामेतन्न मिथ्याकृतं भवति न देवेभ्य आवृश्च्यन्ते तस्मात्प्रस्तरे निह्नुवते ३.४.३.[२०] तदाहुः । अक्ते निह्नुवीराननक्ता इत्यनक्ते हैव निह्नुवीरन्ननुप्रहरणं ह्येवाक्तस्य ३.४.३.[२१] ते निह्नुवते । एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्य इति सत्यं सत्यवादिभ्य इत्यैवैतदाह नमो द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यां निह्नुवते ययोरिदं सर्वमधि ३.४.३.[२२] अथाह समुल्लुप्य प्रस्तरम् । अग्नीन्मदन्त्यापाइति मदन्तीत्यग्नीदाह ताभिरेहीत्युपर्युपर्यग्निमतिहरति स यन्नानुप्रहरत्येतेन ह्यत ऊर्ध्वान्यहानि प्रचरिष्यन्भवत्यथ यदुपर्युपर्यग्निमतिहरति तदेवास्यानुप्रहृतभाजनम् भवति तमग्नीधे प्रयच्छति तमग्नीन्निदधाति ३.४.४. ३.४.४.[१] ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः । तस्माद्यदि प्रवर्ग्यवान्भवति प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्ति तद्ग्रीवाः प्रतिदधाति ३.४.४.[२] तद्याः पूर्वाह्णेऽनुवाक्या भवन्ति । ता अपराह्णे याज्या या याज्यास्ता अनुवाक्यास्तद्व्यतिषजति तस्मादिमानि ग्रीवाणां पर्वाणि व्यतिषक्तानीमान्यस्थीनि ३.४.४.[३] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयीमेवास्मिंलोके रजतामन्तरिक्षे हरिणीं दिवि ३.४.४.[४] तद्वै देवा अस्पृण्वत । त एताभिरुपसद्भिरुपासीदंस्तद्यदुपासीदंस्तस्मादुपसदो नाम ते पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तस्मादाहुरुपसदा पुरं जयन्तीति यदहोपासते तेनेमां मानुषीं पुरं जयन्ति ३.४.४.[५] एताभिर्वै देवा उपसद्भिः । पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतन्नाहैवास्मा अस्मिंलोके कश्चन पुरः कुरुत इमानेवैतल्लोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादुपसद्भिर्यजते ३.४.४.[६] ता वा आज्यहविषो भवन्ति । वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येन पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन वज्रेणाज्येनेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादाज्यहविषो भवन्ति ३.४.४.[७] स वा अष्टौ कृत्वो जुह्वां गृह्णाति । चतुरुपभृत्यथो इतरथाहुश्चतुरेव कृत्वो जुह्वां गृह्णीयादष्टौ कृत्व उपभृतीति ३.४.४.[८] स वा अष्टावेव कृत्वो जुह्वां गृह्णाति । चतुरुपभृति तद्वज्रमभिभारं करोति तेन वज्रेणाभिभारेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति ३.४.४.[९] अग्नीषोमौ वै देवानां सयुजौ । ताभ्यां सार्धं गृह्णाति विष्णव एकाकिने ऽन्यतरमेवाघारमाघारयति यं स्रुवेण प्रतिक्रामति वा उत्तरमाघारमाघार्याभिजित्या अभिजयानीति तस्मादन्यतरमेवाघारमाघारयति यं स्रुवेण ३.४.४.[१०] अथाश्राव्य न होतारं प्रवृणीते । सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतोऽध्वर्युः स्रुचावादत्ते ३.४.४.[११] स आहातिक्रामन्नग्नयेऽनुब्रूहीति । आश्राव्याहाग्निं यजेति वषट्कृते जुहोति ३.४.४.[१२] अथाह सोमायानुब्रूहीति । आश्राव्याह सोमं यजेति वषट्कृते जुहोति ३.४.४.[१३] अथ यदुपभृत्याज्यं भवति । तत्समानयमान आह विष्णवेऽनुब्रूहीत्याश्राव्याह विष्णुं यजेति वषट्कृते जुहोति ३.४.४.[१४] स यत्समानत्र तिष्ठन्जुहोति । न यथेदं प्रचरन्त्संचरत्यभिजित्या अभिजयानीत्यथ यदेता देवता यजति वज्रमेवैतत्संस्करोत्यग्निमनीकं सोमं शल्पं विष्णुं कुल्मलं ३.४.४.[१५] संवत्सरो हि वज्रः । अग्निर्वा अहः सोमो रात्रिरथ यदन्तरेण तद्विष्णुरेतद्वै परिप्लवमानं संवत्सरं करोति ३.४.४.[१६] संवत्सरो वज्रः । एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्निमांलोकान्प्राजयंस्तथो एवैष एतेन संवत्सरेण वज्रेणेमांलोकान्प्रभिनत्तीमांलोकान्प्रजयति तस्मादेता देवता यजति ३.४.४.[१७] स वै तिस्र उपसद उपेयात् । त्रयो वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया ३.४.४.[१८] ताः षट्सम्पद्यन्ते । षड्वा ऋतवः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति ३.४.४.[१९] यद्यु द्वादशोपसद उपेयात् । द्वादश वै मासाः संवत्सरस्य संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति द्विरेकया प्रचरति द्विरेकया ३.४.४.[२०] ताश्चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवैतद्रूपं क्रियते संवत्सरमेवैतत्संस्करोति ३.४.४.[२१] स यत्सायम्प्रातः प्रचरति । तथा ह्येव सम्पत्सम्पद्यते स यत्पूर्वाह्णे प्रचरति तज्जयत्यथ यदपराह्णे प्रचरति सुजितमसदित्यथ यज्जुहोतीदं वै पुरं युद्यन्ति तां जित्वा स्वां सतीं प्रपद्यन्ते ३.४.४.[२२] स यत्प्रचरति तद्युध्यत्यथ यत्संतिष्ठते तज्जयत्यथयज्जुहोति स्वामेवैतत्सतीं प्रपद्यते ३.४.४.[२३] स जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्नेऽयःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीदयस्मयी हि सासीत् ३.४.४.[२४] अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने रजःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीद्रजता हि सासीत् ३.४.४.[२५] अथ जुहोति । ययाद्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने हरिशया तनूर्वर्षिष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीद्धरिणी हि सासीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया ३.४.४.[२६] अथातो व्रतोपसदामेव । परौर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः स यासामेकम् प्रथमाहं दोग्ध्यथ द्वावथ त्रींस्ताः परौर्वीरथ यासां त्रीन्प्रथमाहं दोग्ध्यथ द्वावथैकं ताः परोऽह्वीर्या वै परोऽह्वीस्ताः परौर्वीर्याः परौर्वीस्ताः परोऽह्वीः ३.४.४.[२७] तपसा वै लोकं जयन्ति । तदस्यैतत्परः पर एव वरीयस्तपो भवति परःपरः श्रेयांसं लोकं जयति वसीयानु हैवास्मिंलोके भवति य एवं विद्वान्परो ऽह्वीरुपसद उपैति तस्मादु परोऽह्वीरेवोपसद उपेयाद्यद्यु द्वादशोपसद उपेयात्त्रींश्चतुरहं दोहयेद्द्वौ चतुरहमेकं चतुरहम् ३.५.१. ३.५.१.[१] तद्य एष पूर्वार्ध्यो वर्षिष्ठ स्थूणाराजो भवति । तस्मात्प्राङ्प्रक्रामति त्रीन्विक्रमांस्तच्छङ्कुं निहन्ति सोऽन्तःपातः ३.५.१.[२] तस्मान्मध्यमाच्छङ्कोः । दक्षिणा पञ्चदश विक्रमान्प्रक्रामति तच्छङ्कु निहन्ति सा दक्षिणा श्रोणिः ३.५.१.[३] तस्मान्मध्यमाच्छङ्कोः उदङ्पञ्चदश विक्रमान्प्रक्रामति तच्छङ्कु निहन्ति सोत्तरा श्रोणिः ३.५.१.[४] तस्मान्मध्यमाच्छङ्कोः । प्राङ्षट्त्रिंशतं विक्रमान्प्रक्रामति तच्छङ्कु निहन्ति स पूर्वार्धः ३.५.१.[५] तस्मान्मध्यमाच्छङ्कोः । दक्षिणा द्वादश विक्रमान्प्रक्रामति तच्छङ्कु निहन्ति स दक्षिणोऽंसः ३.५.१.[६] तस्मान्मध्यमाच्छङ्कोः । उदङ्द्वादश विक्रमान्प्रक्रामति तच्छङ्कु निहन्ति स उत्तरोऽंस एषा मात्रा वेदेः ३.५.१.[७] अथ यत्त्रिंशद्विक्रमा पश्चाद्भवति । त्रिंशदक्षरा वै विराड्विराजा वै देवा अस्मिंलोके प्रत्यतिष्ठंस्तथो एवैष एतद्विराजैवास्मिंलोके प्रतितिष्ठति ३.५.१.[८] अथो अपि त्रयस्त्रिंशत्स्युः । त्रयस्त्रिंशदक्षरा वै विराड्विराजैवास्मिंलोके प्रतितिष्ठति ३.५.१.[९] अथ यत्षट्त्रिंशद्विक्रमा प्राची भवति । षट्त्रिंशदक्षरा वै बृहती बृहत्या वै देवाः स्वर्गं लोकं समाश्नुवत तथो एवैष एतद्बृहत्यैव स्वर्गं लोकं समश्नुते सोऽस्य दिव्याहवनीयो भवति ३.५.१.[१०] अथ यच्चतुर्विंशतिविक्रमा पुरस्ताद्भवति । चतुर्विंशत्यक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्माच्चतुर्विंशतिविक्रमा पुरस्ताद्भवत्येषा मात्रा वेदेः ३.५.१.[११] अथ यत्पश्चाद्वरीयसी भवति । पश्चाद्वरीयसी पृथुश्रोणिरिति वै योषां प्रशंसन्ति यद्वेव पश्चाद्वरीयसी भवति पश्चादेवैतद्वरीयः प्रजननं करोति तस्मात्पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते ३.५.१.[१२] नासिका ह वा एषा यज्ञस्य यदुत्तरवेदिः । अथ यदेनामुत्तरां वेदेरुपकिरति तस्मादुत्तरवेदिर्नाम ३.५.१.[१३] द्वय्यो ह वा इदमग्रे प्रजा आसुः । आदित्याश्चैवाङ्गिरसश्च ततोऽङ्गिरसः पूर्वे यज्ञं समभरंस्ते यज्ञं सम्भृत्योचुरग्निमिमां नः श्वःसुत्यामादित्येभ्यः प्रब्रूह्यनेन नो यज्ञेन याजयतेति ३.५.१.[१४] ते हादित्या ऊचुः । उपजानीत यथास्मानेवाङ्गिरसो याजयान्न वयमङ्गिरस इति ३.५.१.[१५] ते होचुः । न वा अन्येन यज्ञादपक्रमणमस्त्यन्तरामेव सुत्यां ध्रियामहा इति ते यज्ञं संजह्रुस्ते यज्ञं सम्भृत्योचुः श्वःसुत्यां वै त्वमस्मभ्यमग्ने प्रावोचोऽथ वयमद्यसुत्यामेव तुभ्यं प्रब्रूमोऽङ्गिरोभ्यश्च तेषां नस्त्वं होतासीति ३.५.१.[१६] तेऽन्यमेव प्रतिप्रजिघ्युः । अङ्गिरसोऽच ते हाप्यङ्गिरसोऽग्नयेऽन्वागत्य चुक्रुधुरिव कथं नु नो दूतश्चरन्न प्रत्यादृथा इति ३.५.१.[१७] स होवाच । अनिन्द्या वै मावृषत सो निन्द्यैर्वृतो नाशकमपक्रमितुमिति तस्मादु हानिन्द्यस्य वृतो नापक्रामेत्त एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन्त्स सद्यःक्रीः ३.५.१.[१८] तेभ्यो वाचं दक्षिणामानयन् । तां न प्रत्यगृह्णन्हास्यामहे यदि प्रतिग्रहीष्याम इति तदु तद्यज्ञस्य कर्म न व्यमुच्यत यद्दाक्षिणमासीत् ३.५.१.[१९] अथैभ्यः सूर्यं दक्षिणामानयन् । तं प्रत्यगृह्णंस्तस्मादु ह स्माहुरङ्गिरसो वयं वा आर्त्विजीनाः स्मो वयं दक्षिणीया अपि वा अस्माभिरेष प्रतिगृहीतो य एष तपतीति तस्मात्सद्यःक्रियोऽश्वः श्वेतो दक्षिणा ३.५.१.[२०] तस्य रुक्मः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तस्य रुक्मः पुरस्ताद्भवति तदेतस्य रूपं क्रियते य एष तपति ३.५.१.[२१] तेभ्यो ह वाक्चुक्रोध । केन मदेष श्रेयान्बन्धुना केना यदेतम् प्रत्यग्रहीष्ट न मामिति सा हैभ्योऽपचक्राम सोभयानन्तरेण देवासुरान्त्सयत्तान्त्सिंही भूत्वाददाना चचार तामुपैव देवा अमन्त्रयन्तोपासुरा अग्निरेव देवानां दूत आस सहरक्षा इत्यसुररक्षसमसुराणाम् ३.५.१.[२२] सा देवानुपावर्त्स्यन्त्युवाच । यद्वा उपावर्तेय किं मे ततः स्यादिति पूर्वामेव त्वाग्नेराहुतिः प्राप्स्यतीत्यथ हैषा देवानुवाच यां मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा समर्धिष्यत इति सैवं देवानुपाववर्त ३.५.१.[२३] स यद्धार्यमाणेऽग्नौ । उत्तरवेदिं व्याघारयति यदेवैनामदो देवा अब्रुवन्पूर्वां त्वाग्नेराहुतिः प्राप्स्यतीति तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति वाग्घ्येषा निदानेनाथ यदुत्तरवेदिमुपकिरति यज्ञस्यैव सर्वत्वाय वाग्घि यज्ञो वागु ह्येषा ३.५.१.[२४] तां वै युगशम्येन विमिमीते । युगेन यत्र हरन्ति शम्यया यतो हरन्ति युगशम्येन वै योग्यं युञ्जन्ति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तदेवैनामेतद्यज्ञे युनक्ति ३.५.१.[२५] तस्मान्निवृत्तदक्षिणां न प्रतिगृह्णीयात् । सिंही हैनं भूत्वा क्षिणोति नो हामाकुर्वीत सिंही हैवैनं भूत्वा क्षिणोति नो हान्यस्मै दद्याद्यज्ञं तदन्यत्रात्मनः कुर्वीत तस्माद्योऽस्यापि पाप इव समानबन्धुः स्यात्तस्मा एनां दद्यात्स यद्ददाति तदेनं सिंही भूत्वा न क्षिणोति यदु समानबन्धवे ददाति तदु नान्यत्रात्मनः कुरुत एषो निवृत्तदक्षिणायै प्रतिष्ठा ३.५.१.[२६] अथ शम्यां च स्फ्यं चादत्ते । तद्य एष पूर्वार्ध्यः उत्तरार्ध्यः शङ्कुर्भवति तस्मात्प्रत्यङ्प्रक्रामति त्रीन्विक्रमांस्तच्चात्वालं परिलिखति सा चात्वालस्य मात्रा नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालं परिलिखेत् ३.५.१.[२७] स वेद्यन्तात् । उदीचीं शम्यां निदधाति स परिलिखति तप्तायनी मे ऽसीतीमामेवैतदाहास्यां हितप्त एति ३.५.१.[२८] अथ पुरस्तात् । उदीचीं शम्यां निदधाति स परिलिखति वित्तायनी मे ऽसीतीमामेवैतदाहास्यां हि विविदान एति ३.५.१.[२९] अथानुवेद्यन्तम् । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा नाथितादितीमामेवैतदाह यत्र नाथैतन्मावतादिति ३.५.१.[३०] अथोत्तरतः । प्राचीं शम्यां निदधाति स परिलिखत्यवतान्मा व्यथितादितीमामेवैतदाह यत्र व्यथैतन्मावतादिति ३.५.१.[३१] अथ हरति । यत्र हरति तदग्नीदुपसीदति स वा अग्नीनामेव नामानि गृह्णन्हरति यान्वा अमून्देवा अग्रेऽग्नीन्होत्राय प्रावृणत ते प्राधन्वंस्त इमा एव पृथिवीरुपासर्पन्निमामहैव द्वे अस्याः परे तेनैवैतान्निदानेन हरति ३.५.१.[३२] स प्रहरति विदेदग्निर्नभो नामाग्ने अङ्गिर आयुना नाम्नेहीति स यत्प्राधन्वंस्तदायुर्दधाति तत्समीरयति यो स्यां पृथिव्यामसीति योऽस्याम् पृथिव्यामसीति हृत्वा निदधाति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वादध इति यत्तेऽनाधृष्टं रक्षोभिर्नाम यज्ञियं तेन त्वादध इत्येवैतदाहानु त्वा देववीतय इति चतुर्थं हरति देवेभ्यस्त्वा जुष्टां हरामीत्येवैतदाह तां वै चतुःस्रक्तेश्चात्वालाद्ध्रति चतस्रो वै दिशः सर्वाभ्य एवैनामेतद्दिग्भ्यो हरति ३.५.१.[३३] अथानुव्यूहति । सिंह्यसि सपत्नसाही देवेभ्यः कल्पस्वेति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तदेवैनामेतदाह सिंह्यसीति सपत्नसाहीति त्वया वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह देवेभ्यः कल्पस्वेति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यः कल्पयति ३.५.१.[३४] तां वै युगमात्रीं वा सर्वतः करोति । यजमानस्य वा दशदश पदानि दशाक्षरा वै विराड्वाग्वै विराड्वाग्यज्ञो मध्ये नाभिकामिव करोति समानत्रासीनो व्याघारयाणीति ३.५.१.[३५] तामद्भिरभ्युक्षति । सा यदेवादः सिंही भूत्वाशान्तेवाचरच्छान्तिरापस्तामद्भिः शमयति योषा वा उत्तरवेदिस्तामेवैतद्देवेभ्यो हिन्वति तस्मादद्भिरभ्युक्षति ३.५.१.[३६] सोऽभ्युक्षति । सिंह्यसि सपत्नसाही देवेभ्यः शुन्धस्वेत्यथ सिकताभिरनुविकिरत्यलंकारो न्वेव सिकता भ्राजन्त इव हि सिकता अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकता अग्निं वा अस्यामाधास्यन्भवति तथो हैनामग्निर्न हिनस्ति तस्मात्सिकताभिरनुविकिरति सोऽनुविकिरति सिंह्यसि सपत्नसाही देवेभ्यः शुम्भस्वेत्यथैनां च्छादयति सा छन्नैतां रात्रिं वसति ३.५.२. ३.५.२.[१] इध्यमभ्यादधति । उपयमनीरुपकल्पयन्त्याज्यमधिश्रयति स्रुवं च स्रुचं सम्मार्ष्ट्यथोत्पूयाज्यं पञ्चगृहीतं गृह्णीते यदा प्रदीप्त इध्मो भवति ३.५.२.[२] अथोद्यच्छन्तीध्मम् । उपयच्छन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूह्येकस्फ्ययानूदेहीत्यनूदैति प्रतिप्रस्थातैकस्फ्ययैतस्मान्मध्यमाच्छङ्कोर्य एष वेदेर्जघनार्धे भवति तद्यदेवात्रान्तःपातेन गार्हपत्यस्य वेदेर्व्यवच्छिन्नं भवति तदेवैतदनुसंतनोति ३.५.२.[३] तद्धैके । ओत्तरवेदेरनूदायन्ति तदु तथा न कुर्यादैवैतस्मान्मध्यमाच्छङ्कोरनूदेयात्त आयन्त्यागच्छन्त्युत्तरवेदिम् ३.५.२.[४] प्रोक्षणीरध्वर्युरादत्ते । स पुरस्तादेवाग्रे प्रोक्षत्युदङ् तिष्ठन्निन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वितीन्द्रघोषस्त्वा वसुभिः पुरस्ताद्गोपायत्वित्येवैतदाह ३.५.२.[५] अथ पश्चात्प्रोक्षति । प्रचेतास्त्वा रुद्रैः पश्चात्पात्विति प्रचेतास्त्वा रुद्रैः पश्चाद्गोपायत्वित्येवैतदाह ३.५.२.[६] अथ दक्षिणतः प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पात्विति मनोजवास्त्वा पितृभिर्दक्षिणतो गोपायत्वित्येवैतदाह ३.५.२.[७] अथोत्तरतः प्रोक्षति । विश्वकर्मा त्वादित्यैरुत्तरतः पात्विति विश्वकर्मा त्वादित्यैरुत्तरतो गोपायत्वित्येवैतदाह ३.५.२.[८] अथ याः प्रोक्षण्यः परिशिष्यन्ते । तद्ये एते पूर्वे स्रक्ती तयोर्या दक्षिणा ता न्यन्तेन बहिर्वेदि निनयतीदमहं तप्तं वार्बहिर्धा यज्ञान्निःसृजामीति सा यदेवादः सिंही भूत्वाशान्तेवाचरत्तामेवास्या एतच्छुचं बहिर्धा यज्ञान्निःसृजति यदि नाभिचरेद्यद्यु अभिचरेदादिशेदिदमहं तप्तं वारमुमभि निःसृजामीति तमेतया शुचा विध्यति स शोचन्नेवामुं लोकमेति ३.५.२.[९] स यद्धार्यमाणेऽग्नौ । उत्तरवेदिं व्याघारयति यदेवैनामदो देवा अब्रुवन्पूर्वां त्वाग्नेराहुतिः प्राप्स्यतीति तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति यद्वेषा देवानब्रवीद्यां मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा समर्धिष्यत इति तामेनयात्रर्त्विजो यजमानायाशिषमाशासते सास्मै सर्वा समृध्यते ३.५.२.[१०] तद्वा एतदेकं कुर्वन्द्वयं करोति । यदुत्तरवेदिं व्याघारयत्यथ यैषाम् मध्ये नाभिकेव भवति तस्यै ये पूर्वे स्रक्ती तयोर्या दक्षिणा ३.५.२.[११] तस्यामाघारयति । सिंह्यसि स्वाहेत्यथापरयोरुत्तरस्यां सिंह्यस्यादित्यवनिः स्वाहेत्यथापरयोर्दक्षिणस्यां सिंह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहेति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये ३.५.२.[१२] अथ पूर्वयोरुत्तरस्याम् । सिंह्यसि सुप्रजावनी रायस्पोषवनिः स्वाहेति तत्प्रजामाशास्ते यदाह सुप्रजावनिरिति रायस्पोषवनिरिति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते ३.५.२.[१३] अथ मध्य आघारयति । सिंह्यस्यावह देवान्यजमानाय स्वाहेति तद्देवान्यजमानायावाहयत्यथ स्रुचमुद्यचति भूतेभ्यस्त्वेति प्रजा वै भूतानि प्रजाभ्यस्त्वेत्येवैतदाह ३.५.२.[१४] अथ परिधीन्परिदधाति । ध्रुवोऽसि पृथिवीं दृंहेति मध्यमं ध्रुवक्षिदस्यन्तरिक्षं दृंहेति दक्षिणमच्युतक्षिदसि दिवं दृंहेत्युत्तरमग्नेः पुरीषमसीति सम्भारानुपनिवपति तद्यत्सम्भारा भवन्त्यग्नेरेव सर्वत्वाय ३.५.२.[१५] शरीरं हैवास्य पीतुदारु । तद्यत्प्रैतुदारवाः परिधयो भवन्ति शरीरेणैवैनमेतत्समर्धयति कृत्स्नं करोति ३.५.२.[१६] मांसं हैवास्य गुल्गुलु । तद्यद्गुल्गुलु भवति मांसेनैवैनमेतत्समर्धयति कृत्स्नं करोति ३.५.२.[१७] गन्धो हैवास्य सुगन्धितेजनम् । तद्यत्सुगन्धितेजनं भवति गन्धेनैवैनमेतत्समर्धयति कृत्स्नं करोति ३.५.२.[१८] अथ यद्वृष्णे स्तुका भवति । वृष्णेर्ह वै विषाणे अन्तरेणाग्निरेकां रात्रिमुवास तद्यदेवात्राग्नेर्न्यक्तं तदिहाप्यसदिति तस्माद्वृष्णे स्तुका भवति तस्माद्या शीर्ष्णो नेदिष्ठं स्यात्तामाच्छिद्याहरेद्यद्यु तां न विन्देदपि यामेव कां चाहरेत्तद्यत्परिधयो भवन्ति गुप्त्या एव दूर इव ह्येनमुत्तरे परिधय आगच्छन्ति ३.५.३. ३.५.३.[१] पुरुषो वै यज्ञः । पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः ३.५.३.[२] शिर एवास्य हविर्धानम् । वैष्णवं देवतयाथ यदस्मिन्त्सोमो भवति हविर्वै देवानां सोमस्तस्माद्धविर्धानं नाम ३.५.३.[३] मुखमेवास्याहवनीयः । स यदाहवनीये जुहोति यथा मुख आसिञ्चेदेवं तत् ३.५.३.[४] स्तुप एवास्य यूपः । बाहू एवास्याग्नीध्रीयश्च मार्जालीयश्च ३.५.३.[५] उदरमेवास्य सदः । तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्ति ३.५.३.[६] अथ यावेतौ जघनेनाग्नी । पादावेवास्यैतावेष वै तायमानो यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः ३.५.३.[७] उभयतोद्वारं हविर्धानं भवति । उभयतोद्वारं सदस्तस्मादयं पुरुष आन्तं संतृणः प्रणिक्ते हविर्धाने उपतिष्ठते ३.५.३.[८] ते समववर्तयन्ति । दक्षिणेनैव दक्षिणमुत्तरेणोत्तरं यद्वर्षीयस्तद्दक्षिणं स्यात् ३.५.३.[९] तयोः समववृत्तयोः । च्छदिरधिनिदधति यदि च्छदिर्न विन्देयुश्चदिःसम्मिताम् भित्तिं प्रत्यानह्यन्ति रराट्यां परिश्रयन्त्युच्छ्रायीभ्यां छदिः पश्चादधिनिदधति च्छदिःसम्मितां वा भित्तिम् ३.५.३.[१०] अथ पुनः प्रपद्य । चतुर्गृहीतमाज्यं गृहीत्वा सावित्रं प्रसवाय जुहोति सविता वै देवानां प्रसविता सवितृप्रसूताय यज्ञं तनवामहा इति तस्मात्सावित्रं जुहोति ३.५.३.[११] स जुहोति । युञ्जते मन उत युञ्जते धिय इति मनसा च वै वाचा च यज्ञं तन्वते स यदाह युञ्जते मन इति तन्मनो युनक्त्युत युञ्जते धिय इति तद्वाचं युनक्ति धियाधिया ह्येतया मनुष्या जुज्यूषन्त्यनूक्तेनेव प्रकामोद्येनेव गाथाभिरिव ताभ्यां युक्ताभ्यां यज्ञं तन्वते ३.५.३.[१२] विप्रा विप्रस्य बृहतो विपश्चित इति । ये वै ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते विप्रास्तानेवैतदभ्याह बृहतो विपश्चित इति यज्ञो वै बृहन्विपश्चिद्यज्ञमेवैतदभ्याह वि होत्रा दधे वयुनाविदेक इदिति वि हि होत्रा दधते यज्ञं तन्वाना मही देवस्य सवितुः परिष्टुतिः स्वाहेति तत्सावित्रम् प्रसवाय जुहोति ३.५.३.[१३] अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उपनिष्क्रामति दक्षिणया द्वारा पत्नीं निष्क्रामयन्ति स दक्षिणस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांसुरे स्वाहेति संस्रवं पत्न्यै पाणावानयति साक्षस्य संतापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति प्रयच्छति प्रतिप्रस्थात्रे स्रुचं चाज्यविलापनीं च पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी ३.५.३.[१४] चतुर्गृहीतमाज्यं गृहीत्वा । प्रतिप्रस्थातोत्तरस्य हविर्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोतीरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या व्यस्कभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः स्वाहेति संस्रुवं पत्न्यै पाणावानयति साक्षस्य संतापमुपानक्ति देवश्रुतौ देवेष्वाघोषतमिति तद्यदेवं जुहोति ३.५.३.[१५] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुर्वज्रो वा आज्य त एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवाघ्नंस्तथैषां नियानं नान्ववायंस्तथो एवैष एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवहन्ति तथास्य नियानं नान्वयन्ति तद्यद्वैष्णवीभ्यामृग्भ्यां जुहोति वैष्णवं हि हविर्धानम् ३.५.३.[१६] अथ यत्पत्न्यक्षस्य संतापमुपानक्ति । प्रजननमेवैतत्क्रियते यदा वै स्त्रियै च पुंसश्च संतप्यतेऽथ रेतः सिच्यते तत्ततः प्रजायते परागुपानक्ति पराग्घ्येव रेतः सिच्यतेऽथाह हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति ३.५.३.[१७] अथ वाचयति । प्राची प्रेतमध्वरं कल्पयन्ती इत्यध्वरो वै यज्ञः प्राची प्रेतं यज्ञं कल्पयन्ती इत्येवैतदाहोर्ध्वं यज्ञं नयतं मा जिह्वरतमित्यूर्ध्वमिमं यज्ञं देवलोकं नयतमित्येवैतदाह मा जिह्वरतमिति तदेतस्मा अह्वलामाशास्ते समुद्गृह्येव प्रवर्तयेयुर्यथा नोत्सर्जेतामसुर्या वा एषा वाग्याक्षे नेदिहासुर्या वाग्वदादिति यद्युत्सर्जेताम् ३.५.३.[१८] एतद्वाचयेत् । स्वं गोष्ठमावदतं देवी दुर्ये आयुर्मा निर्वादिष्टं प्रजां मा निर्वादिष्टमिति तस्यो हैषा प्रायश्चित्तिः ३.५.३.[१९] तदाहुः । उत्तरवेदेः प्रत्यङ्प्रक्रामेत्त्रीन्विक्रमांस्तद्धविर्धाने स्थापयेत्सा हविर्धानयोर्मात्रेति नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत नाहैव सत्रात्यन्तिके नो दूरे तत्स्थापयेत् ३.५.३.[२०] ते अभिमन्त्रयते । अत्र रमेथां वर्ष्मन्पृथिव्या इति वर्ष्म ह्येतत्पृथिव्यै भवति दिवि ह्यस्याहवनीयो भवति नभ्यस्थे करोति तद्धि क्षेमस्य रूपम् ३.५.३.[२१] अथोत्तरेण पर्येत्याध्वर्युः । दक्षिणं हविर्धानमुपस्तभ्नाति विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे ३.५.३.[२२] अथ प्रतिप्रस्थाता । उत्तरं हविर्धानमुपस्तभ्नाति दिवो वा विष्ण उत वा पृथिव्या महो वा विष्ण उरोरन्तरिक्षात उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणादोत सव्याद्विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे तद्यद्वैष्णवैर्यजुर्भिरुपचरन्ति वैष्णवं हि हविर्धानम् ३.५.३.[२३] अथ मध्यमं च्छदिरुपस्पृश्य वाचयति । प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेतीदं हैवास्यैतचीर्षकपालं यदिदमुपरिष्टादधीव ह्येतत्क्षियन्त्यन्यानि शीर्षकपालानि तस्मादाहाधिक्षियन्तीति ३.५.३.[२४] अथ रराट्यामुपस्पृश्य वाचयति । विष्णो रराटमसीति ललाटं हैवास्यैतदथोच्राय्या उपस्पृश्य वाचयति विष्णोः श्नप्त्रे स्थ इति स्रक्वे हैवास्यैते अथ यदिदम् पश्चाच्चदिर्भवतीदं हैवास्यैतचीर्षकपालं यदिदं पश्चात् ३.५.३.[२५] अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । विष्णोः स्यूरसीत्यथ ग्रन्थिं करोति विष्णोर्ध्रुवोऽसीति नेद्व्यंवपद्याता इति तं प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशति वैष्णवमसीति वैष्णवं हि हविर्धानम् ३.५.४. ३.५.४.[१] द्वयं वा अभ्युपरवाः खायन्ते । शिरो वै यज्ञस्य हविर्धानं तद्य इमे शीर्षश्चत्वारः कूपा इमावह द्वाविमौ द्वौ तानेवैतत्करोति तस्मादुपरवान् खनति ३.५.४.[२] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचख्नुरुतैवं चिद्देवानभिभवेमेति ३.५.४.[३] तद्वै देवा अस्पृण्वत । त एतैः कृत्या वलगानुदखनन्यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथो एवैष एतद्यद्यस्मा अत्र कश्चिद्द्विषन्भ्रातृव्यः कृत्यां वलगान्निखनति तानेवैतदुत्किरति तस्मादुपरवान् खनति स दक्षिणस्य हविर्धानस्याधोऽधः प्रौगं खनति ३.५.४.[४] सोऽभ्रिमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति ३.५.४.[५] तान्प्रादेशमात्रं विना परिलिखति । इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति ३.५.४.[६] तद्यावेतौ पूर्वौ । तयोर्दक्षिणमेवाग्रे परिलिखेदथापरयोरुत्तरमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरम् ३.५.४.[७] अथो इतरथाहुः । अपरयोरेवाग्र उत्तरं परिलिखेदथ पूर्वयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो अपि समीच एव परिलिखेदेतं त्वेवोत्तमं परिलिखेद्य एष पूर्वयोरुत्तरो भवति ३.५.४.[८] तान्यथापरिलिखितमेव यथापूर्वं खनति । बृहन्नसि बृहद्रवा इत्युपस्तौत्येवैनानेतन्महयत्येव यदाह बृहन्नसि बृहद्रवा इति बृहतीमिन्द्राय वाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत्सेन्द्रं करोति तस्मादाह बृहतीमिन्द्राय वाचं वदेति ३.५.४.[९] रक्षोहणं वलगहनमिति । रक्षसां ह्येते वलगानां बधाय खायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक् ३.५.४.[१०] तान्यथाखातमेवोत्किरति । इदमहं तं वलगमुत्किरामि यं मे निष्ट्यो यममात्यो निचखानेति निष्ट्यो वा वा अमात्यो वा कृत्यां वलगन्निखनति तानेवैतदुत्किरति ३.५.४.[११] इदमहं तं वलगमुत्किरामि । यं मे समानो यमसमानो निचखानेति समानो वा वा असमानो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति ३.५.४.[१२] इदमहं तं वलगमुत्किरामि । यं मे सबन्धुर्यमसबन्धुर्निचखानेति सबन्धुर्वा वा असबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति ३.५.४.[१३] इदमहं तं वलगमुत्किरामि । यं मे सजातो यमसजातो निचखानेति सजातो वा वा असजातो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरत्युत्कृत्यां किरामीत्यन्तत उद्वपति तत्कृत्यामुत्किरति ३.५.४.[१४] तान्बाहुमात्रान् खनेत् । अन्तो वा एषोऽन्तेनैवैतत्कृत्यां मोहयति तानक्ष्णया संतृन्दन्ति यद्यक्ष्णया न शक्नुयादपि समीचस्तस्मादिमे प्राणाः परः संतृणाः ३.५.४.[१५] तान्यथाखातमेवावमर्शयति । स्वराडसि सपत्नहा सत्रराडस्यभिमातिहा जनराडसि रक्षोहा सर्वराडस्यमित्रहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते ३.५.४.[१६] अथाध्वर्युश्च यजमानश्च सम्मृशेते । पूर्वयोर्दक्षिणे ऽध्वर्युर्भवत्यपरयोरुत्तरे यजमानः सोऽध्वर्युः पृच्छति यजमान किमत्रेति भद्रमित्याह तन्नौ सहेत्युपांश्वध्वर्युः ३.५.४.[१७] अथापरयोर्दक्षिणेऽध्वर्युर्भवति । पूर्वयोरुत्तरे यजमानः पृच्छत्यध्वर्यो किमत्रेति भद्रमित्याह तन्म इति यजमानस्तद्यदेवं सम्मृशेते प्राणानेवैतत्सयुजः कुरुतस्तस्मादिमे प्राणाः परः संविद्रेऽथ यत्पृष्टो भद्रमिति प्रत्याह कल्याणमेवैतन्मानुष्यै वाचो वदति तस्मात्पृष्टो भद्रमिति प्रत्याहाथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यानेवैतत्करोति ३.५.४.[१८] स प्रोक्षति । रक्षोहणो वो वलगहन इति रक्षोहणो ह्येते वलगहनो ह्येते प्रोक्षामि वैष्णवानिति वैष्णवा ह्येते ३.५.४.[१९] अथ याः प्रोक्षण्यः परिशिष्यते । ता अवटेष्ववनयति तद्या इमाः प्राणेष्वापस्ता एवैतद्दधाति तस्मादेषु प्राणेष्विमा आपः ३.५.४.[२०] सोऽवनयति । रक्षोहणो वो वलगहनोऽवनयामि वैष्णवानित्यथ बर्हींषि प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति तद्यानीमानि प्राणेषु लोमानि तान्येवैतद्दधाति तस्मादेषु प्राणेष्विमानि लोमानि ३.५.४.[२१] सोऽवस्तृणाति । रक्षोहणो वो वलगहनोऽवस्तृणामि वैष्णवानित्यथ बर्हींषि तनूनीवोपरिष्टात्प्रच्छादयति केशा हैवास्यैते ३.५.४.[२२] अथाधिषवणे फलके उपदधाति । रक्षोहणौ वां वलगहना उपदधामि वैष्णवी इति हनू हैवास्यैते अथ पर्यूहति रक्षोहणौ वां वलगहनौ पर्यूहामि वैष्णवी इति दृंहत्येवैने एतदशिथिले करोति ३.५.४.[२३] अथाधिषवणं परिकृत्तं भवति । सर्वरोहितं जिह्वा हैवास्यैषा तद्यत्सर्वरोहितं भवति लोहिनीव हीयं जिह्वा तन्निदधाति वैष्णवमसीति वैष्णवं ह्येतत् ३.५.४.[२४] अथ ग्राव्ण उपावहरति । दन्ता हैवास्य ग्रावाणस्तद्यद्ग्रावभिरभिषुण्वन्ति यथा दद्भिः प्सायादेवं तत्तान्निदधाति वैष्णवा स्थेति वैष्णवा ह्येत एतदु यज्ञस्य शिरः संस्कृतम् ३.६.१. ३.६.१.[१] उदरमेवास्य सदः । तस्मात्सदसि भक्षयन्ति यद्धीदं किं चाश्नन्त्युदर एवेदं सर्वं प्रतितिष्ठत्यथ यदस्मिन्विश्वे देवा असीदंस्तस्मात्सदो नाम त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्त्यैन्द्रं देवतया ३.६.१.[२] तन्मध्य औदुम्बरीं मिनोति । अन्नं वा ऊर्गुदुम्बर उदरमेवास्य सदस्तन्मध्यतोऽन्नाद्यं दधाति तस्मान्मध्य औदुम्बरीं मिनोति ३.६.१.[३] अथ य एष मध्यमः शङ्कुर्भवति । वेदेर्जघनार्धे तस्मात्प्राङ्प्रक्रामति षड्विक्रमान्दक्षिणा सप्तममपक्रामति सम्पदः कामाय तदवटं परिलिखति ३.६.१.[४] सोऽभ्रिमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति ३.६.१.[५] अथावटं परिलिखति । इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति ३.६.१.[६] अथ खनति । प्राञ्चमुत्करमुत्किरति यजमानेन सम्मायौदुम्बरीम् परिवासयति तामग्रेण प्राचीं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधिनिदधाति ३.६.१.[७] अथ यवमत्यः प्रोक्षण्यो भवन्ति । आपो ह वा ओषधीनां रसस्तस्मादोषधयः केवल्यः खादिता न धिन्वन्त्योषधय उ हापां रसस्तस्मादापः पीताः केवल्यो न धिन्वन्ति यदैवोभय्यः संसृष्टा भवन्त्यथैव धिन्वन्ति तर्हि हि सरसा भवन्ति सरसाभिः प्रोक्षाणीति ३.६.१.[८] देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवेभ्यः सर्वा एवौषधय ईयुर्यवा हैवैभ्यो नेयुः ३.६.१.[९] तद्वै देवा अस्पृण्वत । त एतैः सर्वाः सपत्नानामोषधीरयुवत यदयुवत तस्माद्यवा नाम ३.६.१.[१०] ते होचुः । हन्त यः सर्वासामोषधीनां रसस्तं यवेषु दधामेति स यःसर्वासामोषधीनां रस आसीत्तं यवेष्वदधुस्तस्माद्यत्रान्या ओषधयो म्लायन्ति तदेते मोदमाना वर्धन्त एवं ह्येषु रसमदधुस्तथो एवैष एतैः सर्वाः सपत्नानामोषधीर्युते तस्माद्यवमत्यः प्रोक्षण्यो भवन्ति ३.६.१.[११] स यवानावपति । यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यामेवैतत्करोति ३.६.१.[१२] स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेतीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति ३.६.१.[१३] अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति ३.६.१.[१४] अथ बर्हींषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्य वा अस्या एतद्भवति यन्निखातं सा यथानिखातौषधिषु मिता स्यादेवमेतास्वोषधिषु मिता भवति ३.६.१.[१५] तामुच्रयति । उद्दिवं स्तभानान्तरिक्षं पृण दृंहस्व पृथिव्यामितीमानेवैतल्लोकानूर्जा रसेन भाजयत्येषु लोकेषूर्जं रसं दधाति ३.६.१.[१६] अथ मिनोति । द्युतानस्त्वा मारुतो मिनोत्विति यो वा अयं पवत एष द्युतानो मारुतस्तदेनामेतेन मिनोति मित्रावरुणौ ध्रुवेण धर्मणेति प्राणोदानौ वै मित्रावरुणौ तदेनां प्राणोदानाभ्यां मिनोति ३.६.१.[१७] अथ पर्यूहति । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामीति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये रायस्पोषवनीति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते ३.६.१.[१८] अथ पर्यृषति । ब्रह्म दृंह क्षत्रं दृंहायुर्दृंह प्रजां दृंहेत्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशास्ते समम्भूमि पर्यर्षणं करोति गर्तस्य वा उपरिभूम्यथैवं देवत्रा तथा हागर्तमिद्भवति ३.६.१.[१९] अथाप उपनिनयति । यत्र वा अस्यै खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति तस्मादप उपनिनयति ३.६.१.[२०] अथैवमभिपद्य वाचयति । ध्रुवासि ध्रुवोऽयं यजमानोऽस्मिन्नायतने प्रजया भूयादिति पशुभिरिति वैवं यं कामं कामयते सोऽस्मै कामः समृध्यते ३.६.१.[२१] अथ स्रुवेणोपहत्याज्यम् । विष्टपमभि जुहोति घृतेन द्यावापृथिवी पूर्येथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति ३.६.१.[२२] अथ च्छदिरधिनिदधाति । इन्द्रस्य च्छदिरसीत्यैन्द्रं हि सदो विश्वजनस्य च्छायेति विश्वगोत्रा ह्यस्मिन्ब्राह्मणा आसते तदुभयतश्चदिषी उपदधात्युत्तरतस्त्रीणि परस्त्रीणि तानि नव भवन्ति त्रिवृद्वै यज्ञो नव वै त्रिवृत्तस्मान्नव भवन्ति ३.६.१.[२३] तदुदीचीनवंशं सदो भवति । प्राचीनवंशं हविर्धानमेतद्वै देवानां निष्केवल्यं यद्धविर्धानं तस्मात्तत्र नाश्नन्ति न भक्षयन्ति निष्केवल्यं ह्येतद्देवानां स यो ह तत्राश्नीयाद्वा भक्षयेद्वा मूर्धा हास्य विपतेदथैते मिश्रे यदाग्नीध्रं च सदश्च तस्मात्तयोरश्नन्ति तस्माद्भक्षयन्ति मिश्रे ह्येते उदीची वै मनुष्याणां दिक्तस्मादुदीचीनवंशं सदो भवति ३.६.१.[२४] परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इतीन्द्रो वै गिर्वा विशो गिरो विश्वेवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम् ३.६.१.[२५] अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । इन्द्रस्य स्यूरसीत्यथ ग्रन्थिं करोतीन्द्रस्य ध्रुवोऽसीति नेद्व्यवपद्याता इति प्रकृते कर्मन्विष्यति तथो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति तन्निष्ठितमभिमृशत्यैन्द्रमसीत्यैन्द्रं हि सदः ३.६.१.[२६] अथ हविर्धानयोः । जघनार्धं समन्वीक्ष्योत्तरेणाग्नीध्रं मिनोति तस्यार्धमन्तर्वेदि स्यादर्धं बहिर्वेद्यथो अपि भूयोऽर्धादन्तर्वेदि स्यात्कनीयो बहिर्वेद्यथो अपि सर्वमेवान्तर्वेदि स्यात्तन्निष्ठितमभिमृशति वैश्वदेवमसीति द्वयेनैतद्वैश्वदेवं यदस्मिन्पूर्वेद्युर्विश्वे देवा वसतीवरीषूपवसन्ति तेन वैश्वदेवम् ३.६.१.[२७] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तान्दक्षिणतोऽसुररक्षसान्यासेजुस्तान्त्सदसो जिग्युस्तेषामेतान्धिष्ण्यानुद्वापयां चक्रुर्य एतेऽन्तःसदसम् ३.६.१.[२८] सर्वे ह स्म वा एते पुरा ज्वलन्ति । यथायमाहवनीयो यथा गार्हपत्यो यथाग्नीध्रीयस्तद्यत एनानुदवापयंस्तत एवैतन्न ज्वलन्ति तानाग्नीध्रमभि संरुरुधुस्तानप्यर्धमाग्नीध्रस्य जिग्युस्ततो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम् ३.६.१.[२९] तान्देवाः प्रतिसमैन्धत । यथा प्रत्यवस्येत्तस्मादेनान्त्सवने सवन एव प्रतिसमिन्धते तस्माद्यः समृद्धः स आग्नीध्रं कुर्याद्यो वै ज्ञातोऽनूचानः स समृद्धस्तस्मादग्नीधे प्रथमाय दक्षिणां नयन्त्यतो हि विश्वे देवा अमृतत्वमपाजयंस्तस्माद्यं दीक्षितानामबल्यं विन्देदाग्नीध्रमेनं नयतेति ब्रूयात्तदनार्तं तन्नारिष्यतीति तद्यदतो विश्वे देवा अमृतत्वमपाजयंस्तस्माद्वैश्वदेवम् ३.६.२. ३.६.२.[१] विजामानो हैवास्य धिष्ण्याः । इमे समङ्का ये वै समङ्कास्ते विजामान एत उ हैवास्यैत आत्मनः ३.६.२.[२] दिवि वै सोम आसीत । अथेह देवास्ते देवा अकामयन्ता नः सोमो गच्छेत्तेनागतेन यजेमहीति त एते माये असृजन्त सुपर्णीं च कद्रूं च वागेव सुपर्णीयं कद्रूस्ताभ्यां समदं चक्रुः ३.६.२.[३] ते हर्तीयमाने ऊचतुः । यतरा नौ दवीयः परापश्यादात्मानं नौ सा जयादिति तथेति सा ह कद्रूरुवाच परेक्षस्वेति ३.६.२.[४] सा ह सुपर्ण्युवाच । अस्य सलिलस्य पारेऽश्वः श्वेत स्थाणौ सेवते तमहं पश्यामीति तमेव त्वं पश्यसीति तं हीत्यथ ह कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति ३.६.२.[५] सा यत्सुपर्ण्युवाच । अस्य सलिलस्य पार इति वेदिर्वै सलिलं वेदिमेव सा तदुवाचाश्वः श्वेत स्थाणौ सेवत इत्यग्निर्वा अश्वः श्वेतो यूप स्थाणुरथ यत्कद्रूरुवाच तस्य वालो न्यषञ्जि तममुं वातो धूनोति तमहं पश्यामीति रशना हैव सा ३.६.२.[६] सा ह सुपर्ण्युवाच । एहीदं पताव वेदितुं यतरा नौ जयतीति सा ह कद्रूरुवाच त्वमेव पत त्वं वै न आख्यास्यसि यतरा नौ जयतीति ३.६.२.[७] सा ह सुपर्णी पपात । तद्ध तथैवास यथा कद्रूरुवाच तामागतामभ्युवाद त्वमजैषीरहामिति त्वमिति होवाचैतद्व्याख्यानं सौपर्णीकाद्रवमिति ३.६.२.[८] सा ह कद्रूरुवाच । आत्मानं वै त्वाजैषं दिव्यसौ सोमस्तं देवेभ्य आहर तेन देवेभ्य आत्मानं निष्क्रीणीष्वेति तथेति सा छन्दांसि ससृजे सा गायत्री दिवः सोममाहरत् ३.६.२.[९] हिरण्मय्योर्ह कुश्योरन्तरवहित आस । ते ह स्म क्षुरपवी निमेषं निमेषमभिसंधत्तो दीक्षातपसौ हैव ते आसतुस्तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः ३.६.२.[१०] तयोरन्यतरां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ सा दीक्षा तया देवा अदीक्षन्त ३.६.२.[११] अथ द्वितीयां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ तत्तपस्तया देवास्तप उपायन्नुपसदस्तपो ह्युपसदः ३.६.२.[१२] खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत्तस्मात्खादिरो यूपो भवति खादिर स्फ्योऽच्छावाकस्य हैनं गोपनायां जहार सोऽच्छावाकोऽहीयत ३.६.२.[१३] तमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः ३.६.२.[१४] तस्माद्दीक्षिता राजानं गोपायन्ति । नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह ३.६.२.[१५] तस्माद्ब्रह्मचारिण आचार्यं गोपायन्ति । गृहान्पशून्नेन्नोऽपहरानिति तस्मात्तत्र सुगुप्तं चिकीर्षेद्यस्य ह गोपनायामपहरन्ति हीयते ह तेनैतेन सुपर्णी देवेभ्य आत्मानं निरक्रीणीत तस्मादाहुः पुण्यलोक ईजान इति ३.६.२.[१६] ऋणं ह वै पुरुषो जायमान एव । मृत्योरात्मना जायते सयद्यजते यथैव तत्सुपर्णी देवेभ्य आत्मानं निरक्रीणीतैवमेवैष एतन्मृत्योरात्मानं निष्क्रीणीते ३.६.२.[१७] तेन देवा अयजन्त । तमेते गन्धर्वाः सोमरक्षा अन्वाजग्मुस्ते ऽन्वागत्याब्रुवन्ननु नो यज्ञ आभजत मा नो यज्ञादन्तर्गातास्त्वेव नोऽपि यज्ञे भाग इति ३.६.२.[१८] ते होचुः । किं नस्ततः स्यादिति यथैवास्यामुत्र गोप्तारोऽभूमैवमेवास्यापीह गोप्तारो भविष्याम इति ३.६.२.[१९] तथेति देवा अब्रुवन् । सोमक्रयणा व इति तानेभ्य एतत्सोमक्रयणाननुदिशत्यथैनानब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्यापहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं नार्हथेति सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति ३.६.२.[२०] अथ यदग्नौ होष्यन्ति । तद्वो विष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ यद्वः सोमं बिभ्रत उपर्युपरि चरिष्यन्ति तद्वो विष्यतीति स यदेनान्त्सोमम् बिभ्रत उपर्युपरि चरन्ति तदेनानवति तस्मादध्वर्युः समया धिष्ण्यान्नातीयादध्वर्युर्हि सोमं बिभर्ति तमेते व्यात्तेन प्रत्यासते स एतेषां व्यात्तमापद्येत तमग्निर्वाभिदहेद्यो वायं देवः पशूनामीष्टे स वा हैनमभिमन्येत तस्माद्यद्यध्वर्योः शालायामर्थः स्यादुत्तरेणैवाग्नीध्रीयं संचरेत् ३.६.२.[२१] ते वा एते । सोमस्यैव गुप्त्यै न्युप्यन्त आहवनीयः पुरस्तान्मार्जालीयो दक्षिणत आग्नीध्रीय उत्तरतोऽथ ये सदसि ते पश्चात् ३.६.२.[२२] तेषां वा अर्धानुपकिरन्ति । अर्धाननुदिशन्त्येत उ हैवैतद्दध्रिरेऽर्धान्न उपकिरन्त्वर्धाननुदिशन्तु तथा यस्माल्लोकादागताः स्मो दिवस्तथा तं लोकम् प्रतिप्रज्ञास्यामस्तथा न जिह्मा एष्याम इति ३.६.२.[२३] स यानुपकिरन्ति । तेनास्मिंलोके प्रत्यक्षं भवन्त्यथ याननुदिशन्ति तेनामुष्मिंलोके प्रत्यक्षं भवन्ति ३.६.२.[२४] ते वै द्विनामानो भवन्ति । एत उ हैवैतद्दध्रिरे न वा एभिर्नामभिररात्स्म येषां नः सोममपाहार्षुर्हन्ति द्वितीयानि नामानि करवामहा इति ते द्वितीयानि नामान्यकुर्वत तैरराध्नुवन्यानपहृतसोमपीथान्त्सतोऽथ यज्ञ आभजंस्तस्माद्द्विनामानस्तस्माद्ब्राह्मणोऽनृध्यमाने द्वितीयं नाम कुर्वीत राध्नोति हैव य एवं विद्वान्द्वितीयं नाम कुरुते ३.६.२.[२५] स यदग्नौ जुहोति । तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यत्सदसि भक्षयन्ति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्त्यथ यद्धविर्धानयोर्नाराशंसाः सीदन्ति तत्पितृषु जुहोति तस्मात्पितरः सन्ति ३.६.२.[२६] या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किं चैवमु तत्सर्वं यज्ञ आभक्तं ते ह स्मैत उभये देवमनुष्याः पितरः सम्पिबन्ते सैषा सम्पा ते ह स्म दृश्यमाना एव पुरा सम्पिबन्त उतैतर्ह्यदृश्यमानाः ३.६.३. ३.६.३.[१] सर्वं वा एषोऽभि दीक्षते । यो दीक्षते यज्ञं ह्यभि दीक्षते यज्ञं ह्येवेदं सर्वमनु तं यज्ञं सम्भृत्य यमिममभि दीक्षते सर्वमिदं विसृजते ३.६.३.[२] यद्वैसर्जिनानि जुहोति । स यदिदं सर्वं विसृजते तस्माद्वैसर्जिनानि नाम तस्माद्यो ऽपिव्रतः स्यात्सोऽन्वारभेत यद्यु अन्यत्र चरेन्नाद्रियेत यद्वै जुहोति तदेवेदं सर्वं विसृजते ३.६.३.[३] यद्वेव वैसर्जिनानि जुहोति । यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते यज्जुहोति तस्माद्वैसर्जिनानि जुहोति ३.६.३.[४] सोऽपराह्णे वेदिं स्तीर्त्वा । अर्धव्रतं प्रदाय सम्प्रपद्यन्त इध्ममभ्यादधत्युपयमनीरुपकल्पयन्त्याज्यमधिश्रयति स्रुचः सम्मार्ष्ट्युपस्थे राजानं यजमानः कुरुतेऽथ सोमक्रयण्यै पदं जघनेन गार्हपत्यं परिकिरति पदा वै प्रतितिष्ठति प्रतिष्ठित्या एव ३.६.३.[५] तद्धैके । चतुर्धा कुर्वन्ति यत्राहवनीयमुद्धरन्ति तासूपयमनीषु चतुर्भागमक्षं चतुर्भागेणोपाञ्जन्त्येतासूपयमनीषु चतुर्भागं जघनेन गार्हपत्यं चतुर्भागं परिकिरति ३.६.३.[६] तदु तथा न कुर्यात् । सार्धमेव परिकिरेज्जघनेन गार्हपत्यमथोत्पूयाज्यं चतुर्गृहीते जुह्वां चोपभृति च गृह्णाति पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां वैश्वदेवं हि पृषदाज्यं धारयन्ति स्रुचो यदा प्रदीप्त इध्मो भवति ३.६.३.[७] अथ जुहोति । त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथं स्वाहेति तदेतेनैवास्यां पृथिव्यां प्रतिष्ठायां प्रतितिष्ठत्येतेनेमं लोकं स्पृणुते ३.६.३.[८] अथाप्तवे द्वितीयामाहुतिं जुहोति । जुषाणो अप्तुराज्यस्य वेतु स्वाहेत्येष उ हैवैतदुवाच रक्षोभ्यो वै बिभेमि यथा मान्तरा नाष्ट्रा रक्षांसि न हिनसन्नेवं मा कनीयांसमेव बधात्कृत्वातिनयत स्तोकमेव स्तोको ह्यप्तुरिति तमेतत्कनीयांसमेव बधात्कृत्वात्यनयन्त्स्तोकमेव स्तोको ह्यप्तू रक्षोभ्यो भीषा तस्मादप्तवे द्वितीयामाहुतिं जुहोति ३.६.३.[९] उद्यच्छन्तीध्मम् । उपयच्छन्त्युपयमनीरथाहाग्नये प्रह्रियमाणायानुब्रूहि सोमाया प्रणीयमानायेति वाग्नये प्रह्रियमाणायानुब्रूहीति त्वेव ब्रूयात् ३.६.३.[१०] आददते ग्राव्णः । द्रोणकलशं वायव्यानीध्मं कार्ष्मर्यमयान्परिधीनाश्ववालम् प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति वपाश्रपण्यौ रशने अरणी अधिमन्थनः शकलो वृषणौ तत्समादाय प्राञ्च आयन्ति स एष ऊर्ध्वो यज्ञ एति ३.६.३.[११] तदायत्सु वाचयति । अग्ने नय सुपथा राय अस्मान्विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेमेत्यग्निमेवैतत्पुरस्तात्करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति त आयन्त्यागच्छन्त्याग्नीध्रं तमाग्नीध्रे निदधाति ३.६.३.[१२] स निहिते जुहोति । अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दनयं वाजाञ्जयतु वाजसातावयं शत्रूञ्जयतु जर्हृषाणः स्वाहेति तदेतेनैवैतस्मिन्नन्तरिक्षे प्रतिष्ठायां प्रतितिष्ठत्येतेनैतं लोकं स्पृणुते ३.६.३.[१३] तदेव निदधति ग्राव्णः । द्रोणकलशं वायव्यान्यथेतरमादायायन्ति तदुत्तरेणाहवनीयमुपसादयन्ति ३.६.३.[१४] प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिमाश्ववालः प्रस्तर उपसंनद्धो भवति तं गृह्णाति गृहीत्वा प्रस्तरमेकवृद्बर्हि स्तृणाति स्तीर्त्वा बर्हिः कार्ष्मर्यमयान्परिधीन्परिदधाति परिधाय परिधीन्त्समिधावभ्यादधात्यभ्याधाय समिधौ ३.६.३.[१५] अथ जुहोति । उरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति तदेतेनैवैतस्यां दिवि प्रतिष्ठायाम् प्रतितिष्ठत्येतेनैतं लोकं स्पृणुत यदेतया जुहोति ३.६.३.[१६] यद्वेव वैष्णव्यर्चा जुहोति । कनीयांसं वा एनमेतद्बधात्कृत्वात्यनैषु स्तोकमेव स्तोको ह्यप्तुस्तमेतदभयं प्राप्य य एवैष तं करोति यज्ञमेव यज्ञो हि विष्णुस्तस्माद्वैष्णव्यर्चा जुहोति ३.६.३.[१७] अथासाद्य स्रुचः । अप उपस्पृश्य राजानं प्रपादयति तद्यदासाद्य स्रुचोऽप उपस्पृश्य राजानं प्रपादयति वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्मादासाद्य स्रुचोऽप उपस्पृश्य राजानं प्रपादयति ३.६.३.[१८] स दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनमास्तृणाति । तदेनमासादयति देव सवितरेष ते सोमस्तं रक्षस्व मा त्वा दभन्निति तदेनं देवायैव सवित्रे परिददाति गुप्त्यै ३.६.३.[१९] अथानुसृज्योपतिष्ठते । एतत्त्वं देव सोम देवो देवानुपागा इदमहम् मनुष्यान्त्सह रायस्पोषेणेत्यग्नीषोमौ वा एतमन्तर्जम्भ आदधाते यो दीक्षत आग्नावैष्णवं ह्यदो दीक्षणीयं हविर्भवति यो वै विष्णुः सोमः स हविर्वा एष देवानां भवति यो दीक्षते तदेनमन्तर्जम्भ आदधाते तत्प्रत्यक्षं सोमान्निर्मुच्यते यदाहैतत्त्वं देव सोम देवो देवानुपागा इदमहम् मनुष्यान्त्सह रायस्पोषेणेति भूमा वै रायस्पोषः सह भूम्नेत्येवैतदाह ३.६.३.[२०] अथोपनिष्क्रामति । स्वाहा निर्वरुणस्य पाशान्मुच्य इति वरुणपाशे वा एषो ऽन्तर्भवति योऽन्यस्यासंस्तत्प्रत्यक्षं वरुणपाशान्निर्मुच्यते यदाह स्वाहा निर्वरुणस्य पाशान्मुच्य इति ३.६.३.[२१] अथेत्याहवनीये समिधमभ्यादधाति । अग्ने व्रतपास्त्वे व्रतपा इत्यग्निर्हि देवानां व्रतपतिस्तस्मादाहाग्ने व्रतपास्त्वे व्रतपा इति या तव तनूर्मय्यभूदेषा सा त्वयि यो मम तनूस्त्वय्यभूदियं सा मयि यथायथं नौ व्रतपते व्रतान्यनु मे दीक्षां दीक्षापतिरमंस्तानु तपस्तपस्पतिरिति तत्प्रत्यक्षमग्नेर्निर्मुच्यते स स्वेन सतात्मना यजते तस्मादस्यात्राश्नन्ति मानुषो हि भवति तस्मादस्यात्र नाम गृह्णन्ति मानुषो हि भवत्यथ यत्पुरा नाश्नन्ति यथा हविषो हुतस्य नाश्नीयादेवं तत्तस्माद्दीक्षितस्य नाश्नीयादथात्राङ्गुलीर्विसृजते ३.६.४. ३.६.४.[१] यूपं व्रक्ष्यन्वैष्णव्यर्चा जुहोति । विष्णवो हि यूपस्तस्माद्वैष्णव्यर्चा जुहोति ३.६.४.[२] यद्वेव वैष्णव्या जुहोति । यज्ञो वै विष्णुर्यज्ञेनैवैतद्यूपमचैति तस्माद्वैष्णव्यर्चा जुहोति ३.६.४.[३] स यदि स्रुचा जुहोति । चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यद्यु स्रुवेण स्रुवेणैवोपहत्य जुहोत्युरु विष्णो विक्रमस्वोरु क्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहेति ३.६.४.[४] यदाज्यं परिशिष्टं भवति । तदादत्ते यत्तक्ष्णः शस्त्रं भवति तत्तक्षादत्ते त आयन्ति स यं यूपं जोषयन्ते ३.६.४.[५] तमेवमभिमृश्य जपति । पश्चाद्वैव प्राङ्तिष्ठन्नभिमन्त्रयतेऽत्यन्यानगां नान्यानुपागामित्यति ह्यन्यानेति नान्यानुपैति तस्मादाहात्यन्यानगां नान्यान् उपागामिति ३.६.४.[६] अर्वाक्त्वा परेभ्योऽविदं परोऽवरेभ्य इति । अर्वाग्घ्येनं परेभ्यो वृश्चति य एतस्मान्पराञ्चो भवन्ति परोऽवरेभ्य इति परो ह्येनमवरेभ्यो वृश्चति य एतस्मादर्वाञ्चो भवन्ति तस्मादाहार्वाक्त्वा परेभ्योऽविदं परोऽवरेभ्य इति ३.६.४.[७] तं त्वा जुषामहे देव वनस्पते देवयज्याया इति । तद्यथा बहूनाम् मध्यात्साधवे कर्मणे जुषेत स रातमनास्तस्मै कर्मणे स्यादेवमेवैनमेतद्बहूनां मध्यात्साधवे कर्मणे जुषते स रातमना व्रश्चनाय भवति ३.६.४.[८] देवास्त्वा देवयज्यायै जुषन्तामिति । तद्वै समृद्धं यं देवाः साधवे कर्मणे जुषान्तै तस्मादाह देवास्त्वा देवयज्यायै जुषन्तामिति ३.६.४.[९] अथ स्रुवेणोपस्पृशति । विष्णवे त्वेति वैष्णवो हि यूपो यज्ञो वै विष्णुर्यज्ञाय ह्येनं वृश्चति तस्मादाह विष्णवे त्वेति ३.६.४.[१०] अथ दर्भतरुणकमन्तर्दधाति । ओषधे त्रायस्वेति वज्रो वै परशुस्तथो हैनमेष वज्रः परशुर्न हिनस्त्यथ परशुना प्रहरति स्वधिते मैनं हिंसीरिति वज्रो वै परशुस्तथो हैनमेष वज्रः परशुर्न हिनस्ति ३.६.४.[११] स यं प्रथमं शकलमपच्छिनत्ति । तमादत्ते तं वा अनक्षस्तम्भं वृश्चेदुत ह्येनमनसा वहन्ति तथानो न प्रतिबाधते ३.६.४.[१२] तं प्राञ्चं पातयेत् । प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां दिगथो प्रत्यञ्चं दक्षिणायै त्वेवैनं दिशः परिबिबाधिषेतैषा वै दिक्पितॄणां तस्मादेनं दक्षिणायै दिशः परिबिबाधिषेत ३.६.४.[१३] तं प्रच्यवमानमनुमन्त्रयते । द्यां मा लेखीरन्तरिक्षं मा हिंसीः पृथिव्या सम्भवेति वज्रो वा एष भवति यं यूपाय वृश्चन्ति तस्माद्वज्रात्प्रच्यवमानादिमे लोकाः संरेजन्ते तदेभ्य एवैनमेतल्लोकेभ्यः शमयति तथेमांलोकाञ्चान्तो न हिनस्ति ३.६.४.[१४] स यदाह । द्यां मा लेखीरिति दिवं मा हिंसीरित्येवैतदाहान्तरिक्षं मा हिंसीरिति नात्र तिरोहितमिवास्ति पृथिव्या सम्भवेति पृथिव्या संजानीष्वेत्येवैतदाहायं हि त्वा स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेत्येष ह्येनं स्वधितिस्तेजमानः प्रणयति ३.६.४.[१५] अथाव्रश्चनमभिजुहोति । नेदतो नाष्ट्रा रक्षांस्यनूत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथातो नाष्ट्रा रक्षांसि नानूत्तिष्ठन्त्यथो रेतो वा आज्यं तद्वनस्पतिष्वेवैतद्रेतो दधाति तस्माद्रेतस आव्रश्चनाद्वनस्पतयोऽनु प्रजायन्ते ३.६.४.[१६] स जुहोति । अतस्त्वं देव वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेमेति नात्र तिरोहितमिवास्ति ३.६.४.[१७] तं परिवासयति । स यावन्तमेवाग्रे परिवासयेत्तावान्त्स्यात् ३.६.४.[१८] पञ्चारत्निं परिवासयेत् । पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य तस्मात्पञ्चारत्निं परिवासयेत् ३.६.४.[१९] षडरत्निं परिवासयेत् । षड्वा ऋतवः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्मात्षडरत्निं परिवासयेत् ३.६.४.[२०] अष्टारत्निं परिवासयेत् । अष्टाक्ष्रा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य तस्मादष्टारत्निं परिवासयेत् ३.६.४.[२१] नवारत्निं परिवासयेत् । त्रिवृद्वै यज्ञो नव वै त्रिवृत्तस्मान्नवारत्निं परिवासयेत् ३.६.४.[२२] एकादशारत्निं परिवासयेत् । एकादशाक्षरा वै त्रिष्टुब्वज्रस्त्रिष्टुब्वज्रो यूपस्तस्मादेकादशारत्निं परिवासयेत् ३.६.४.[२३] द्वादशारत्निं परिवासयेत् । द्वादश वै मासाः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्माद्द्वादशारत्निं परिवासयेत् ३.६.४.[२४] त्रयोदशारत्निं परिवासयेत् । त्रयोदश वै मासाः संवत्सरस्य संवत्सरो वज्रो वज्रो यूपस्तस्मात्त्रयोदशारत्निं परिवासयेत् ३.६.४.[२५] पञ्चदशारत्निं परिवासयेत् । पञ्चदशो वै वज्रो वज्रो यूपस्तस्मात्पञ्चदशारत्निम् परिवासयेत् ३.६.४.[२६] सप्तादशारत्निर्वाजपेययूपः । अपरिमित एव स्यादपरिमितेन वा एतेन वज्रेण देवा अपरिमितमजयंस्तथो एवैष एतेन वज्रेणापरिमितेनैवापरिमितं जयति तस्मादपरिमित एव स्यात् ३.६.४.[२७] स वा अष्टाश्रिर्भवति । अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मादष्टाश्रिर्भवति ३.७.१. ३.७.१.[१] अभ्रिमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति ३.७.१.[२] अथावटं परिलिखति । इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति ३.७.१.[३] अथ खनति । प्राञ्चमुत्करमुत्किरत्युपरेण सम्मायावटं खनति तदग्रेण प्राञ्चं यूपं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधिनिदधाति तदेवोपरिष्टाद्यूपशकलमधिनिदधाति पुरस्तात्पार्श्वतश्चषालमुपनिदधात्यथ यवमत्यः प्रोक्षण्यो भवन्ति सोऽसावेव बन्धुः ३.७.१.[४] स यवानावपति । यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति ३.७.१.[५] स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति वज्रो वै यूप एषां लोकानामभिगुप्त्या एषां त्वा लोकानामभिगुप्त्यै प्रोक्षामीत्येवैतदाह ३.७.१.[६] अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति ३.७.१.[७] अथ बर्हींषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्यं वा अस्यैतद्भवति यन्निखातं स यथानिखात ओषधिषु मितः स्यादेवमेतास्वोषधिषु मितो भवति ३.७.१.[८] अथ यूपशकलं प्रास्यति । तेजो ह वा एतद्वनस्पतीनां यद्बाह्याशकलस्तस्माद्यदा बाह्याशकलमपतक्ष्णुवन्त्यथ शुष्यन्ति तेजो ह्येषामेतत्तद्यद्यूपशकलम् प्रास्यति सतेजसं मिनवानीति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्माद्यूपशकलं प्रास्यति ३.७.१.[९] स प्रस्यति । अग्रेणीरसि स्वावेश उन्नेतॄणामिति पुरस्ताद्वा अस्मादेषोऽपच्छिद्यते तस्मादाहाग्रेणीरसि स्वावेश उन्नेतॄणामित्येतस्य वित्तादधि त्वा स्थास्यतीत्यधि ह्येनं तिष्ठति तस्मादाहैतस्य वित्तादधि त्वा स्थास्यतीति ३.७.१.[१०] अथ स्रुवेणोपहत्याज्यम् । अवटमभिजुहोति नेदधस्तान्नाष्ट्रा रक्षांस्युपोत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथाधस्तान्नाष्ट्रा रक्षांसि नोपोत्तिष्ठन्त्यथ पुरस्तात्परीत्योदङ्ङासीनो यूपमनक्ति स आह यूपायाज्यमानायानुब्रूहीति ३.७.१.[११] सोऽनक्ति । देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानां प्रसविता यजमानो वा एष निदानेन यद्यूपः सर्वं वा इदं मधु यदिदं किं च तदेनमनेन सर्वेण संस्पर्शयति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति ३.७.१.[१२] अथ चषालमुभयतः प्रत्यज्य प्रतिमुञ्चति । सुपिप्पलाभ्यस्त्वौषधीभ्य इति पिप्पलं हैवास्यैतद्यन्मध्ये संगृहीतमिव भवति तिर्यग्वा इदं वृक्षे पिप्पलमाहतं स यदेवेदं सम्बन्धनं चान्तरोपेनितमिव तदेवैतत्करोति तस्मान्मध्ये संगृहीतमिव भवति ३.७.१.[१३] आन्तमग्निष्ठामनक्ति । यजमानो वा अग्निष्ठा रस आज्यं रसेनैवैतद्यजमानमनक्ति तस्मादान्तमग्निष्ठामनक्त्यथ परिव्ययणम् प्रतिसमन्तं परिमृशत्यथाहोच्रीयमाणायानुब्रूहीति ३.७.१.[१४] स उच्रियति । द्यामग्रेणास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृंहीरिति वज्रो वै यूप एषां लोकानामभिजित्यै तेन वज्रेणेमांलोकान्त्स्पृणुत एभ्यो लोकेभ्यः सपत्नान्निर्भजति ३.७.१.[१५] अथ मिनोति । या ते धामान्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः अत्राह तदुरुगायस्य विष्णोः परमं पदमवभारि भूरीत्येतया त्रिष्टुभा मिनोति वज्रस्त्रिष्टुब्वज्रो यूपस्तस्मात्त्रिष्टुभा मिनोति ३.७.१.[१६] सम्प्रत्यग्निमग्निष्टां मिनोति । यजमानो वा अग्निष्ठाग्निरु वै यज्ञः स यदग्नेरग्निष्ठां ह्वलयेद्ध्वलेद्ध यज्ञाद्यजमानस्तस्मात्सम्प्रत्यग्निमग्निष्ठां मिनोत्यथ पर्यूहत्यथ पर्यृषत्यथाप उपनिनयति ३.७.१.[१७] अथैवमभिपद्य वाचयति । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्युः सखेति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियद्विष्णोर्विजितिम् पश्यतेत्येवैतदाह यदाह विष्णोः कर्माणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यः सखेतीन्द्रो वै यज्ञस्य देवता वैष्णवो यूपस्तं सेन्द्रं करोति तस्मादाहेन्द्रस्य युज्यः सखेति ३.७.१.[१८] अथ चषालमुदीक्षते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियत्ता विष्णोर्विजितिम् पश्यतेत्येवैतदाह यदाह तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति ३.७.१.[१९] अथ परिव्ययति । अनग्नतायै न्वेव परिव्ययति तस्मादत्रेव परिव्ययत्यत्रेव हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रतितिष्ठति तस्मादत्रेव परिव्ययति ३.७.१.[२०] त्रिवृता परिव्ययति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति ३.७.१.[२१] स परिव्ययति । परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमं यजमानं रायो मनुष्याणामिति तद्यजमानायाशिषमाशास्ते यदाह परीमं यजमानं रायो मनुष्याणामिति ३.७.१.[२२] अथ यूपशकलमवगूहति । दिवः सूनुरसीति प्रजा हैवास्यैषा तस्माद्यदि यूपैकादशिनी स्यात्स्वं स्वमेवावगूहेदविपर्यासं तस्य हैषामुग्धानुव्रता प्रजा जायतेऽथ यो विपर्यासमवगूहति न स्वंस्वं तस्य हैषा मुग्धाननुव्रता प्रजा जायते तस्मादु स्वं स्वमेवावगूहेदविपर्यासम् ३.७.१.[२३] स्वर्गस्यो हैष लोकस्य समारोहणः क्रियते । यद्यूपशकल इयं रशना रशनायै यूपशकलो यूपशकलाच्चषालं चषालात्स्वर्गं लोकं समश्नुते ३.७.१.[२४] अथ यस्मात्स्वरुर्नाम । एतस्माद्वा एषोऽपच्छिद्यते तस्यैतत्स्वमेवारुर्भवति तस्मात्स्वरुर्नाम ३.७.१.[२५] तस्य यन्निखातम् । तेन पितृलोकं जयत्यथ यदूर्ध्वं निखातादा रशनायै तेन मनुष्यलोकं जयत्यथ यदूर्ध्वं रशनाया आ चषालात्तेन देवलोकं जयत्यथ यदूर्ध्वं चषालाद्द्व्यङ्गुलं वा त्र्यङ्गुलं वा साध्या इति देवास्तेन तेषां लोकं जयति सलोको वै साध्यैर्देवैर्भवति य एवमेतद्वेद ३.७.१.[२६] तं वै पूर्वार्धे मिनोति । वज्रो वै यूपो वज्रो दण्डः पूर्वार्धं वै दण्डस्याभिपद्य प्रहरति पूर्वार्ध एष यज्ञस्य तस्मात्पूर्वार्धे मिनोति ३.७.१.[२७] यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम् मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम पुरस्ताद्वै प्रज्ञा पुरस्तान्मनोजवस्तस्मात्पूर्वार्धे मिनोति ३.७.१.[२८] स वा अष्टाश्रिर्भवति । अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्धे एष यज्ञस्य तस्मादष्टाश्रिर्भवति ३.७.१.[२९] तं ह स्मैतं देवा अनुप्रहरन्ति । यथेदमप्येतर्ह्येकेऽनुप्रहरन्तीति देवा अकुर्वन्निति ततो रक्षांसि यज्ञमनूदपिबन्त ३.७.१.[३०] ते देवा अध्वर्युमब्रुवन् । यूपशकलमेव जुहुधि तदहैष स्वगाकृतो भविष्यति तथो रक्षांसि यज्ञं नानूत्पास्यन्तेऽयं वै वज्र उद्यत इति ३.७.१.[३१] सोऽध्वर्युः । यूपशकलमेवाजुहोत्तदहैष स्वगाकृत आसीत्तथो रक्षांसि यज्ञं नानूदपिबन्तायं वै वज्र उद्यत इति ३.७.१.[३२] तथो एवैष एतत् । यूपशकलमेव जुहोति तदहैष स्वगाकृतो भवति तथो रक्षांसि यज्ञं नानूत्पिबन्तेऽयं वै वज्र उद्यत इति स जुहोति दिवं ते धूमो गच्छतु स्वर्ज्योतिह्पृथिवीं भस्मनापृण स्वाहेति ३.७.२. ३.७.२.[१] यावतो वै वेदिस्तावती पृथिवी । वज्रा वै यूपास्तदिमामेवैतत्पृथिवीमेतैर्वज्रैः स्पृणुतेऽस्यै सपत्नान्निर्भजति तस्माद्यूपैकादशिनी भवति द्वादश उपशयो भवति वितष्टस्तं दक्षिणत उपनिदधाति तद्यद्द्वादश उपशयो भवति ३.७.२.[२] देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तद्य एत उच्रिता यथेषुरस्ता तया वै स्तृणुते वा न वा स्तृणुते यथा दण्डः प्रहृतस्तेन वै स्तृणुते वा न वा स्तृणुतेऽथ य एष द्वादश उपशयो भवति यथेषुरायतानस्ता यथोद्यतमप्रहृतमेवमेष वज्र उद्यतो दक्षिणतो नाष्ट्राणां रक्षसामपहत्यै तस्माद्द्वादश उपशयो भवति ३.७.२.[३] तं निदधाति । एष ते पृथिव्यां लोक आरण्यस्ते पशुरिति पशुश्च वै यूपश्च तदस्मा आरण्यमेव पशूनामनुदिशति तेनो एष पशुमान्भवति तद्वयं यूपैकादशिन्यै सम्मयनमाहुः श्वःसुत्यायै ह न्वेवैके सम्मिन्वन्ति प्रकुब्रतायै चैव श्वःसुत्यायै यूपं मिन्वन्तीत्यु च ३.७.२.[४] तदु तथा न कुर्यात् । अग्निष्ठमेवोच्रयेदिदं वै यूपमुच्रित्याध्वर्युरा परिव्ययणान्नान्वर्जत्यपरिवीता वा एत एतां रात्रिं वसन्ति सा न्वेव परिचक्षा पशवे वै यूपमुच्रयन्ति प्रातर्वै पशूनालभन्ते तस्मादु प्रातरेवोच्रयेत् ३.७.२.[५] स य उत्तरोऽग्निष्ठात्स्यात् । तमेवाग्र उच्रयेदथ दक्षिणमथोत्तरं दक्षिणार्ध्यमुत्तमं तथोदीची भवति ३.७.२.[६] अथो इतरथाहुः । दक्षिणमेवाग्रेऽग्निष्ठादुच्रयेदथोत्तरमथ दक्षिणमुत्तरार्ध्यमुत्तमं तथो हास्योदगेव कर्मानुसंतिष्ठत इति ३.७.२.[७] स यो वर्षिष्ठः स दक्षिणार्ध्यः स्यात् । अथ ह्रसीयानथ ह्रसीयानुत्तरार्ध्यो ह्रसिष्ठस्तथोदीची भवति ३.७.२.[८] अथ पत्नीभ्यः पत्नीयूपमुच्रयन्ति । सर्वत्वाय न्वेव पत्नीयूप उच्रायते तत्त्वाष्ट्रं पशुमालभते त्वष्टा वै सिक्तं रेतो विकरोति तदेष एवैतत्सिक्तं रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता यन्मुष्करस्तस्मान्मुष्करो भवति तं न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत्स यत्संस्थापयेत्प्रजायै हान्तमियात्तत्प्रजामुत्सृजति तस्मान्न संस्थापयेत्पर्यग्निकृतमेवोत्सृजेत् ३.७.३. ३.७.३.[१] पशुश्च वै यूपश्च । न वा ऋते यूपात्पशुमालभन्ते कदा चन तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यदन्नमभिविष्यन्यथेदमन्नं भूता यथा हैवायं द्विपात्पुरुष उच्रित एवं हैव द्विपाद उच्रिताश्चेरुः ३.७.३.[२] ततो देवा एतं वज्रं ददृशुः । यद्यूपं तमुच्छिश्रियुस्तस्माद्भीषा प्राव्लीयन्त ततश्चतुष्पादा अभवंस्ततोऽन्नमभवन्यथेदमन्नं भूता एतस्मै हि वा एते ऽतिष्ठन्त तस्माद्यूप एव पशुमालभन्ते नर्ते यूपात्कदा चन ३.७.३.[३] अथोपाकृत्य पशुम् । अग्निं मथित्वा नियुनक्ति तद्यत्तथा न ह वा एतस्मा अग्रे पशवश्चक्षमिरे यद्धविरभविष्यन्यथैनानिदं हविर्भूतानग्नौ जुह्वति तान्देवा उपनिरुरुधुस्त उपनिरुद्धा नोपावेयुः ३.७.३.[४] ते होचुः । न वा इमेऽस्य यामं विदुर्यदग्नौ हविर्जुह्वति नैताम् प्रतिष्ठामुपरुध्यैव पशूनग्निं मथित्वाग्नावग्निं जुहवाम ते वेदिष्यन्त्येष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततो ऽभ्यवैष्यन्ति ततो रातमनस आलम्भाय भविष्यन्तीति ३.७.३.[५] त उपरुध्यैव पशून् । अग्निं मथित्वाग्नावग्निमजुहुवुस्तेऽविदुरेष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततोऽभ्यवायंस्ततो रातमनस आलम्भायाभवन् ३.७.३.[६] तथो एवैष एतत् । उपरुध्यैव पशुमग्निं मथित्वाग्नावग्निं जुहोति स वेदैष वै किल हविषो याम एषा प्रतिष्ठाग्नौ वै किल हविर्जुह्वतीति ततोऽभ्यवैति ततो रातमना आलम्भाय भवति तस्मादुपाकृत्य पशुमग्निं मथित्वा नियुनक्ति ३.७.३.[७] तदाहुः । नोपाकुर्यान्नाग्निं मन्थेद्रशनामेवादायाञ्जसोपपरेत्याभिधाय नियुञ्ज्यादिति तदु तथा न कुर्याद्यथाधर्मं तिरश्चथा चिकीर्षेदेवं तत्तस्मादेतदेवानुपरीयात् ३.७.३.[८] अथ तृणमादायोपाकरोति । द्वितीयवान्निरुणधा इति द्वितीयवान्हि वीर्यवान् ३.७.३.[९] स तृणमादत्ते । उपावीरसीत्युप हि द्वितीयोऽवति तस्मादाहोपावीरसीत्युप देवान्दैवीर्विशः प्रागुरिति दैव्यो वा एता विशो यत्पशवोऽस्थिषत देवेभ्य इत्येवैतदाह यदाहोप देवान्दैवीर्विशः प्रागुरिति ३.७.३.[१०] उशिजो वह्नितमानिति । विद्वांसो हि देवास्तस्मादाहोशिजो वह्नितमानिति ३.७.३.[११] देव त्वष्टर्वसु रमेति । त्वष्टा वै पशूनामीष्टे पशवो वसु तानेतद्देवा अतिष्ठमानांस्त्वष्टारमब्रुवन्नुपनिमदेति यदाह देव त्वष्टर्वसु रमेति ३.७.३.[१२] हव्या ते स्वदन्तामिति । यदा वा एत एतस्मा अध्रियन्त यद्धविरभविष्यंस्तस्मादाह हव्या ते स्वदन्तामिति ३.७.३.[१३] रेवती रमध्वमिति । रेवन्तो हि पशवस्तस्मादाह रेवती रमध्वमिति बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिः पशवो वसु तानेतद्देवा अतिष्ठमानान्ब्रह्मणैव परस्तात्पर्यदधुस्तन्नात्यायंस्तथो एवैनानेष एतद्ब्रह्मणैव परस्तात्परिदधाति तन्नातियन्ति तस्मादाह बृहस्पते धारया वसूनीति पाशं कृत्वा प्रतिमुञ्चत्यथातो नियोजनस्यैव ३.७.४. ३.७.४.[१] पाशं कृत्वा प्रतिमुञ्चति । ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामीति वरुण्या वा एषा यद्रज्जुस्तदेनमेतदृतस्यैव पाशे प्रतिमुञ्चति तथो हैनमेषा वरुण्या रज्जुर्न हिनस्ति ३.७.४.[२] धर्षा मानुष इति । न वा एतमग्रे मनुष्योऽधृष्णोत्स यदेवर्तस्य पाशेनैतद्देवहविः प्रतिमुञ्चत्यथैनं मनुष्यो धृष्णोति तस्मादाह धर्षा मानुष इति ३.७.४.[३] अथ नियुनक्ति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नीषोमाभ्यां जुष्टं नियुनज्मीति तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताभ्यामादिशत्यथ प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति ३.७.४.[४] स प्रोक्षति । अद्भ्यस्त्वौषधीभ्य इति तद्यत एव सम्भवति तत एवैतन्मेध्यं करोतीदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति रसाद्रेतो रेतसः पशवस्तद्यत एव सम्भवति यतश्च जायते तत एवैतन्मेध्यं करोति ३.७.४.[५] अनु त्वा माता मन्यतामनु पितेति । स हि मातुश्चाधि पितुश्च जायते तद्यत एव जायते तत एवैतन्मेध्यं करोत्यनु भ्राता सगर्भ्योऽनु सखा सयूथ्य इति स यत्ते जन्म तेन त्वानुमतमारभ इत्येवैतदाहाग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामीति तद्याभ्यां देवताभ्यामारभते ताभ्यां मेध्यं करोति ३.७.४.[६] अथोपगृह्णाति । अपां पेरुरसीति तदेनमन्तरतो मेध्यं करोत्यथाधस्तादुपोक्षत्यापो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविरिति तदेनं सर्वतो मेध्यं करोति ३.७.४.[७] अथाहाग्नये समिध्यमानायानुब्रूहीति । स उत्तरमाघारमाघार्यासंस्पर्शयन्त्स्रुचौ पर्येत्य जुह्वा पशुं समनक्ति शिरो वै यज्ञस्योत्तर आघार एष वा अत्र यज्ञो भवति यत्पशुस्तद्यज्ञ एवैतच्छिरः प्रतिदधाति तस्माज्जुह्वा पशुं समनक्ति ३.७.४.[८] स ललाटे समनक्ति । सं ते प्राणो वातेन गच्छतामिति समङ्गानि यजत्रैरित्यंसयोः सं यज्ञपतिराशिषेति श्रोण्योः स यस्मै कामाय पशुमालभन्ते तत्प्राप्नुहीत्येवैतदाह ३.७.४.[९] इदं वै पशोः संज्ञप्यमानस्य । प्राणो वातमपिपद्यते तत्प्राप्नुहि यत्ते प्राणो वातमपिपद्याता इत्येवैतदाह समङ्गानि यजत्रैरित्यङ्गैर्वा अस्य यजन्ते तत्प्राप्नुहि यत्तेऽङ्गैर्यजान्ता इत्येवैतदाह स यज्ञपतिराशिषेति यजमानस्य वा एतेनाशिषमाशास्ते तत्प्राप्नुहि यत्त्वया यजमानायाशिषमाशासान्ता इत्येवैतदाह सादयति स्रुचावथ प्रवरायाश्रावयति सोऽसावेव बन्धुः ३.७.४.[१०] अथ द्वितीयमाश्रावयति । द्वौ ह्यत्र होतारौ भवतः स मैत्रावरुणायाहैवाश्रावयति यजमानं त्वेव प्रवृणीतेऽग्निर्ह दैवीनां विशाम् पुरएतेत्यग्निर्हि देवतानां मुखं तस्मादाहाग्निर्ह दैवीनां विशां पुरएतेत्ययं यजमानो मनुष्याणामिति तं हि सोऽन्वर्धो भवति यस्मिन्नर्धे यजते तस्मादाहायं यजमानो मनुष्याणामिति तयोरस्थूरि गार्हपत्यं दीदयच्छतं हिमा द्वा यू इति तयोरनार्तानि गार्हपत्यानि शतं वर्षाणि सन्त्वित्येवैतदाह ३.७.४.[११] राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति । राधांस्येव सम्पृञ्चाथां नापि तनूरित्येवैतदाह तौ ह यत्तनूरपि सम्पृञ्चीयातां प्राग्निर्यजमानं दहेत्स यदग्नौ जुहोति तदेषोऽग्नये प्रयच्छत्यथ यामेवात्रर्त्विजो यजमानायाशिषमाशासते तामस्मै सर्वामग्निः समर्धयति तद्राधांस्येव सम्पृञ्चाते नापि तनूस्तस्मादाह राधांसीत्सम्पृञ्चानावसम्पृञ्चानौ तन्व इति ३.८.१. ३.८.१.[१] तद्यत्रैतत्प्रवृतो होता होतृषदन उपविशति । तदुपविश्य प्रसौति प्रसूतो ऽध्वर्युः स्रुचावादत्ते ३.८.१.[२] अथाप्रीभिश्चरन्ति । तद्यदाप्रीभिश्चरन्ति सर्वेणेव वा एष मनसा सर्वेणेवात्मना यज्ञं सम्भरति सं च जिहीर्षति यो दीक्षते तस्य रिरिचान इवात्मा भवति तमेताभिराप्रीभिराप्याययन्ति तद्यदाप्याययन्ति तस्मादाप्रियो नाम तस्मादाप्रीभिश्चरन्ति ३.८.१.[३] ते वा एत एकादश प्रयाजा भवन्ति । दश वा इमे पुरुषे प्राणा आत्मैकादशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदस्य सर्वमात्मानमाप्यायन्ति तस्मादेकादश प्रयाजा भवन्ति ३.८.१.[४] स आश्राव्याह । समिधः प्रेष्येति प्रेष्य प्रेष्येति चतुर्थेचतुर्थे प्रयाजे समानयमानो दशभिः प्रयाजैश्चरति दश प्रयाजानिष्ट्वाह शासमाहरेत्यसिं वै शास इत्याचक्षते ३.८.१.[५] अथ यूपशकलमादत्ते । तावग्रे जुह्वा अक्त्वा पशोर्ललाटमुपस्पृशति घृतेनाक्तौ पशूंस्त्रायेथामिति वज्रो वै यूपशकलो वज्रः शासो वज्र आज्यं तमेवैतत्कृत्स्नं वज्रं सम्भृत्य तमस्याभिगोप्तारं करोति नेदेनं नाष्ट्रा रक्षांसि हिनसन्निति पुनर्यूपशकलमवगूहत्येषा ते प्रज्ञाताश्रिरस्त्वित्याह शासं प्रयच्छन्त्सादयति स्रुचौ ३.८.१.[६] अथाह पर्यग्नयेऽनुब्रूहीति । उल्मुकमादायाग्नीत्पर्यग्निं करोति तद्यत्पर्यग्निं करोत्यच्छिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति तद्यत्रैनं श्रपयन्ति तदभिपरिहरति ३.८.१.[७] तदाहुः । पुनरेतदुल्मुकं हरेदथात्रान्यमेवाग्निं निर्मथ्य तस्मिन्नेनं श्रपयेयुराहवनीयो वा एष न वा एष तस्मै यदस्मिन्नशृतं श्रपयेयुस्तस्मै वा एष यदस्मिञ्चृतं जुहुयुरिति ३.८.१.[८] तदु तथा न कुर्यात् । यथा वै ग्रसितमेवमस्यैतद्भवति यदेनेन पर्यग्निं करोति स यथा ग्रसितमनुहायाच्छिद्य तदन्यस्मै प्रयच्छेदेवं तत्तस्मादेतस्यैवोल्मुकस्याङ्गारान्निमृद्य तस्मिन्नेनं श्रपयेयुः ३.८.१.[९] अथोल्मुकमादायाग्नीत्पुरस्तात्प्रतिपद्यते । अग्निमेवैतत्पुरस्तात्करोत्यग्निः पुरस्तान्नाष्ट्रा रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण पशुं नयन्ति तं वपाश्रपणीभ्यां प्रतिप्रस्थातान्वारभते प्रतिप्रस्थातारमध्वर्युरध्वर्युं यजमानः ३.८.१.[१०] तदाहुः । नैष यजमानेनान्वारभ्यो मृत्यवे ह्येतं नयन्ति तस्मान्नान्वारभेतेति तदन्वेवारभेत न वा एतं मृत्यवे नयन्ति यं यज्ञाय नयन्ति तस्मादन्वेवारभेत यज्ञादु हैवात्मानमन्तरियाद्यन्नान्वारभेत तस्मादन्वेवारभेत तत्परोऽक्षमन्वारब्धं भवति वपाश्रपणीभ्याम् प्रतिप्रस्थाता प्रतिप्रस्थातारमध्वर्युरध्वर्युं यजमान एतदु परो ऽक्षमन्वारब्धं भवति ३.८.१.[११] अथ स्तीर्णायै वेदेः । द्वे तृणे अध्वर्युरादत्ते स आश्राव्याहोपप्रेष्य होतर्हव्या देवेभ्य इत्येतदु वैश्वदेवं पशौ ३.८.१.[१२] अथ वाचयति । रेवति यजमान इति वाग्वै रेवती सा यद्वाग्बहु वदति तेन वाग्रेवती प्रियं धा आविशेत्यनार्तिमाविशेत्येवैतदाहोरोरन्तरिक्षात्सजूर्देवेन वातेनेत्यन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायम् पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद्वातेनैनं संविदानान्तरिक्षाद्गोपायेत्येवैतदाह यदाहोरोरन्तरिक्षात्सजूर्देवेन वातेनेति ३.८.१.[१३] अस्य हविषस्त्मना यजेति । वाचमेवैतदाहानार्तस्यास्य हविष आत्मना यजेति समस्य तन्वा भवेति वाचमेवैतदाहानार्तस्यास्य हविषस्तन्वा सम्भवेति ३.८.१.[१४] तद्यत्रैनं विशसन्ति । तत्पुरस्तात्तृणमुपास्यति वर्षो वर्षीयसि यज्ञे यज्ञपतिं धा इति बर्हिरेवास्मा एतत्स्तृणात्यस्कन्नं हविरसदिति तद्यदेवास्यात्र विशस्यमानस्य किंचित्स्कन्दति तदेतस्मिन्प्रतितिष्ठति तथा नामुया भवति ३.८.१.[१५] अथ पुनरेत्याहवनीयमभ्यावृत्यासते । नेदस्य संज्ञप्यमानस्याध्यक्षा असामेति तस्य न कूटेन प्रघ्नन्ति मानुषं हि तन्नो एव पश्चात्कर्णं पितृदेवत्यं हि तदपिगृह्य वैव मुखं तमयन्ति वेष्कं वा कुर्वन्ति तन्नाह जहि मारयेति मानुषं हि तत्संज्ञपयान्वगन्निति तद्धि देवत्रा स यदाहान्वगन्नित्येतर्हि ह्येष देवाननुगच्छति तस्मादाहान्वगन्निति ३.८.१.[१६] तद्यत्रैनं निविध्यन्ति । तत्पुरा संज्ञपनाज्जुहोति स्वाहा देवेभ्य इत्यथ यदा प्राह संज्ञप्तः पशुरित्यथ जुहोति देवेभ्यः स्वाहेति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ते वा एते परिपशव्ये इत्याहुती स यदि कामयेत जुहुयादेते यद्यु कामयेतापि नाद्रियेत ३.८.२. ३.८.२.[१] यदा प्राह संज्ञप्तः पशुरिति । अथाध्वर्युराह नेष्टः पत्नीमुदानयेत्युदानयति नेष्टा पत्नीं पान्नेजनं बिभ्रतीम् ३.८.२.[२] तां वाचयति । नमस्त आतानेति यज्ञो वा आतानो यज्ञं हि तन्वते तेन यज्ञ आतानो जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रसादयिष्यन्भवति तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनामेष यज्ञो न हिनस्ति तस्मादाह नमस्त आतानेति ३.८.२.[३] अनर्वा प्रेहीति । असपत्नेन प्रेहीत्येवैतदाह घृतस्य कुल्या उप ऋतस्य पथ्या अन्विति साधूपेत्येवैतदाह देवीरापः शुद्धा वोढ्वं सुपरिविष्टा देवेषु सुपरिविष्टा वयं परिवेष्टारो भूयास्मेत्यप एवैतत्पावयति ३.८.२.[४] अथ पशोः प्राणानद्भिः पत्न्युपस्पृशति । तद्यदद्भिः प्राणानुपस्पृशति जीवं वै देवानां हविरमृतममृतानामथैतत्पशुं घ्नन्ति यत्संज्ञपयन्ति यद्विशासत्यापो वै प्राणास्तदस्मिन्नेतान्प्राणान्दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् ३.८.२.[५] अथ यत्पत्न्युपस्पृशति । योषा वै पत्नी योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषायै प्रजनयति तस्मात्पत्न्युपस्पृशति ३.८.२.[६] सोपस्पृशति । वाचं ते शुन्धामीति मुखं प्राणं ते शुन्धामीति नासिके चक्षुस्ते शुन्धामीत्यक्ष्यौ श्रोत्रं ते शुन्धामीति कर्णौ नाभिं ते शुन्धामीति यो ऽयमनिरुक्तः प्राणो मेढ्रं ते शुन्धामीति वा पायुं ते शुन्धामीति योऽयम् पश्चात्प्राणस्तत्प्राणान्दधाति तत्समीरयत्यथ संहृत्य पदश्चरित्रांस्ते शुन्धामीति पद्भिर्वै प्रतितिष्ठति प्रतिष्ठित्या एव तदेनं प्रतिष्ठापयति ३.८.२.[७] अथ या आपः परिशिष्यन्ते । अर्धा वा यावत्यो वा ताभिरेनं यजमानश्च शीर्षतोऽग्रे ऽनुषिञ्चतस्तत्प्राणांश्चैवास्मिंस्तत्तौ धत्तस्तच्चैनमतः समीरयतः ३.८.२.[८] तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः संधत्तः ३.८.२.[९] तावनुषिञ्चतः । मनस्त आप्यायतां वाक्त आप्यायतां प्राणस्त आप्यायतां चक्षुस्त आप्यायतां श्रोत्रं त आप्यायतामिति तत्प्राणान्धत्तस्तत्समीरयतो यत्ते क्रूरं यदास्थितं तत्त आप्यायतां निष्ट्यायतामिति ३.८.२.[१०] तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति शान्तिरापस्तदद्भिः शान्त्या शमयतस्तदद्भिः संधत्तस्तत्ते शुध्यत्विति तन्मेध्यं कुरुतः शसहोभ्य इति जघनेन पशुं निनयतः ३.८.२.[११] तद्यत्क्रूरीकुर्वन्ति । यदास्थापयन्ति नेदतदन्वशान्तान्यहोरात्राण्यसन्निति तस्माच्छमहोभ्य इति जघनेन पशुं निनयतः ३.८.२.[१२] अथोत्तानं पशुं पर्यस्यन्ति । स तृणमन्तर्दधात्योषधे त्रायस्वेति वज्रो वा असिस्तथो हैनमेष वज्रोऽसिर्न हिनस्त्यथासिनाभिनिदधाति स्वधिते मैनं हिंसीरिति वज्रो वा असिस्तथो हैनमेष वज्रोऽसिर्न हिनस्ति ३.८.२.[१३] सा या प्रज्ञाताश्रिः । तयाभिनिदधाति सा हि यजुष्कृता मेध्या तद्यदग्रं तृणस्य तत्सव्ये प्राणौ कुरुतेऽथ यद्बुध्नं तद्दक्षिणेनादत्ते ३.८.२.[१४] स यत्राच्यति । यत एतल्लोहितमुत्पतति तदुभयतोऽनक्ति रक्षसां भागोऽसीति रक्षसां ह्येष भागो यदसृक् ३.८.२.[१५] तदुपास्याभितिष्ठति । इदमहं रक्षोऽभितिष्ठामीदमहं रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीति तद्यज्ञेनैवैतन्नाष्ट्रा रक्षांस्यवबाधते तद्यदमूलमुभयतः परिच्छिन्नं भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षोऽन्तरिक्षमनुचरति यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तस्मादमूलमुभयतः परिच्छिन्नम् भवति ३.८.२.[१६] अथ वपामुत्खिदन्ति । तया वपाश्रपण्यौ प्रोर्णौति घृतेन द्यावापृथिवी प्रोर्णुवाथामिति तदिमे द्यावापृथिवी ऊर्जा रसेन भाजयत्यनयोरूर्जं रसं दधाति ते रसवत्या उपजीवनीये इमाः प्रजा उपजीवन्ति ३.८.२.[१७] कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः । यत्र वै देवा अग्रे पशुमालेभिरे तदुदीचः कृष्यमाणस्यावाण्नेधः पपात स एष वनस्पतिरजायत तद्यत्कृष्यमाणस्यावाङपतत्तस्मात्कार्ष्मर्यस्तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्कार्ष्मर्यमय्यौ वपाश्रपण्यौ भवतः ३.८.२.[१८] तां परिवासयति । तां पशुश्रपणे प्रतपति तथो हास्यात्रापि शृता भवति पुनरुल्मुकमग्नीदादत्ते ते जघनेन चात्वालं यन्ति त आयन्त्यागच्छन्त्याहवनीयं स एतत्तृणमध्वर्युराहवनीये प्रास्यति वायो वै स्तोकानामिति स्तोकानां हैषा समित् ३.८.२.[१९] अथोत्तरतस्तिष्ठन्वपां प्रतपति । अत्येष्यन्वा एषोऽग्निं भवति दक्षिणतः परीत्य श्रपयिष्यंस्तस्मा एवैतन्निह्नुते तथो हैनमेषोऽतियन्तमग्निर्न हिनस्ति तस्मादुत्तरतस्तिष्ठन् वपां प्रतपति ३.८.२.[२०] तामन्तरेण यूपं चाग्निं च हरन्ति । तद्यत्समया न हरन्ति येनान्यानि हवींषि हरन्ति नेदशृतया समया यज्ञं प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपम् बहिर्धा यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतः परीत्य प्रतिप्रस्थाता श्रपयति ३.८.२.[२१] अथ स्रुवेणोपहत्याज्यम् । अध्वर्युर्वपामभिजुहोत्यग्निराज्यस्य वेतु स्वाहेति तथो हास्यैते स्तोकाः शृताः स्वाहाकृता आहुतयो भूत्वाग्निं प्राप्नुवन्ति ३.८.२.[२२] अथाह स्तोकेभ्योऽनुब्रूहीति । स आग्नेयी स्तोकेभ्योऽन्वाह तद्यदाग्नेयी स्तोकेभ्यो ऽन्वाहेतःप्रदाना वै वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स एतै स्तोकैरेतान्त्स्तोकान्वनुते त एते स्तोका वर्षन्ति तस्मादाग्नेयी स्तोकेभ्योऽन्वाह यदा शृता भवति ३.८.२.[२३] अथाह प्रतिप्रस्थाता शृता प्रचरेति । स्रुचावादायाध्वर्युरतिक्रम्याश्राव्याह स्वाहाकृतिभ्यः प्रेष्येति वषट्कृते जुहोति ३.८.२.[२४] हुत्वा वपामेवाग्रेऽभिघारयति । अथ पृषदाज्यं तदु ह चरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति प्राणः पृषदाज्यमिति वदन्तस्तदु ह याज्ञवल्क्यं चरकाध्वर्युरनुव्याजहारैवं कुर्वन्तं प्राणं वा अयमन्तरगादध्वर्युः प्राण एनं हास्यतीति ३.८.२.[२५] स ह स्म बाहू अन्ववेक्ष्याह । इमौ पलितौ बाहू क्व स्विद्ब्राह्मणस्य वचो बभूवेति न तदाद्रियेतोत्तमो वा एष प्रयाजो भवतीदं वै हविर्यज्ञ उत्तमे प्रयाजे ध्रुवामेवाग्रेऽभिघारयति तस्यै हि प्रथमावाज्यभागौ होष्यन्भवति वपां वा अत्र प्रथमां होष्यन्भवति तस्माद्वपामेवाग्रेऽभिघारयेदथ पृषदाज्यमथ यत्पशुं नाभिघारयति नेदशृतमभिघारयाणीत्येतदेवास्य सर्वः पशुरभिघा रितो भवति यद्वपामभिघारयति तस्माद्वपामेवाग्रेऽभिघारयेदथ पृषदाज्यम् ३.८.२.[२६] अथाज्यमुपस्तृणीते । अथ हिरण्यशकलमवदधात्यथ वपामवद्यन्नाहाग्नीषोमाभ्यां च्छागस्य वपायै मेदसोऽनुब्रूहीत्यथ हिरण्यशकलमवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति ३.८.२.[२७] तद्यद्धिरण्यशकलावभितो भवतः । घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा संजीवति तस्माद्धिरण्यशकलावभितो भवत आश्राव्याहाग्नीषोमाभ्यां च्छागस्य वपां मेदः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति वषट्कृते जुहोति ३.८.२.[२८] हुत्वा वपां समीच्यौ । वपाश्रपण्यौ कृत्वानुप्रास्यति स्वाहाकृते ऊर्ध्वनभसम् मारुतं गच्छतमिति नेदिमे अमुया सतो याभ्यां वपामशिश्रपामेति ३.८.२.[२९] तद्यद्वपया चरन्ति । यस्यै वै देवतायै पशुमालभन्ते तामेवैतद्देवतामेतेन मेधेन प्रीणाति सैषा देवतैतेन मेधेन प्रीता शान्तोत्तराणि हवींषि श्रप्यमाणान्युपरमति तस्माद्वपया चरन्ति ३.८.२.[३०] अथ चात्वाले मार्जयन्ते । क्रूरी वा एतत्कुर्वन्ति यत्संज्ञपयन्ति यद्विशासति सान्तिरापस्तदद्भिः शान्त्या शमयन्ते तदद्भिः संदधते तस्माच्चात्वाले मार्जयन्ते ३.८.३. ३.८.३.[१] यद्देवत्यः पशुर्भवति । तद्देवत्यं पुरोडाशमनुनिर्वपति तद्यत्पुरोडाशमनुनिर्वपति सर्वेषां वा एष पशूनां मेधो यद्व्रीहियवौ तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्पुरोडाशमनुनिर्वपति ३.८.३.[२] अथ यद्वपया प्रचर्य । एतेन पुरोडाशेन प्रचरति मध्यतो वा इमां वपामुत्खिदन्ति मध्यत एवैनमेतेन मेधेन समर्धयति कृत्स्नं करोति तस्माद्वपया प्रचर्यैतेन पुरोडाशेन प्रचरत्येष न्वेवैतस्य बन्धुर्यत्र क्व चैष पशुं पुरोडाशोऽनुनिरुप्यते ३.८.३.[३] अथ पशुं विशास्ति । त्रिः प्रच्यावयतात्त्रिःप्रच्युतस्य हृदयमुत्तमं कुरुतादिति त्रिवृद्धि यज्ञः ३.८.३.[४] अथ शमितारं संशास्ति । यत्त्वा पृच्छाचूतं हविः शमितारिति शृतमित्येव ब्रूतान्न शृतम् भगवो न शृतं हीति ३.८.३.[५] अथ जुह्वा पृषदाज्यस्योपहत्य । अध्वर्युरुपनिष्क्रम्य पृच्छति शृतं हविः शमितारिति शृतमित्याह तद्देवानामित्युपांश्वध्वर्युः ३.८.३.[६] तद्यत्पृच्छति । शृतं वै देवानां हविर्नाशृतं शमिता वै तद्वेद यदि शृतं वा भवत्यशृतं वा ३.८.३.[७] तद्यत्पृच्छति । शृतेन प्रचराणीति तद्यद्यशृतं भवति शृतमेव देवानां हविर्भवति शृतं यजमानस्यानेना अध्वर्युर्भवति शमितरि तदेनो भवति त्रिष्कृत्वः पृच्छति त्रिवृद्धि यज्ञोऽथ यदाह तद्देवानामिति तद्धि देवानां यचूतं तस्मादाह तद्देवानामिति ३.८.३.[८] स हृदयमेवाग्रेऽभिघारयति । आत्मा वै मनो हृदयं प्राणः पृषदाज्यमात्मन्येवैतन्मनसि प्राणं दधाति तथैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानाम् ३.८.३.[९] सोऽभिघारयति । सं ते मनो मनसा सं प्राणः प्राणेन गच्छतामिति न स्वाहाकरोति न ह्येषाहुतिरुद्वासयन्ति पशुम् ३.८.३.[१०] तं जघनेन चात्वालमन्तरेण यूपं चाग्निं च हरन्ति । तद्यत्समया न हरन्ति येनान्यानि हवींषि हरन्ति शृतं सन्तं नेदङ्गशो विकृत्तेन क्रूरीकृतेन समया यज्ञं प्रसजामेति यदु बाह्येन न हरन्त्यग्रेण यूपं बहिर्धा ह यज्ञात्कुर्युस्तस्मादन्तरेण यूपं चाग्निं च हरन्ति दक्षिणतो निधाय प्रतिप्रस्थातावद्यति प्लक्षशाखा उत्तरबर्हिर्भवन्ति ता अध्यवद्यति तद्यत्प्लक्षशाखा उत्तरबर्हिर्भवन्ति ३.८.३.[११] यत्र वै देवाः । अग्रे पशुमालेभिरे तं त्वष्टा शीर्षतोऽग्रेऽभ्युवामोतैवं चिन्नालभेरन्निति त्वष्टुर्हि पशवः स एष शीर्षन्मस्तिष्कोऽनूक्यश्च मज्जा तस्मात्स वान्त इव त्वष्टा ह्येतमभ्यवमत्तस्मात्तं नाश्नीयात्त्वष्टुर्ह्येतदभिवान्तम् ३.८.३.[१२] तस्यावाङ्मेधः पपात । स एष वनस्पतिरजायत तं देवाः प्रापश्यंस्तस्मात्प्रख्यः प्रख्यो ह वै नामैतद्यत्प्लक्ष इति तेनैवैनमेतन्मेधेन समर्धयति कृत्स्नं करोति तस्मात्प्लक्षशाखा उत्तरबर्हिर्भवन्ति ३.८.३.[१३] अथाज्यमुपस्तृणीते । जुह्वां चोपभृति च वसाहोमहवन्यां समवत्तधान्यामथ हिरण्यशकलाववदधाति जुह्वां चोपभृति च ३.८.३.[१४] अथ मनोतायै हविषोऽनुवाच आह । तद्यन्मनोतायै हविषोऽनुवाच आह सर्वा ह वै देवताः पशुमालभ्यमानमुपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति सर्वासां हि देवतानां हविः पशुस्तासां सर्वासां देवतानां पशौ मनांस्योतानि भवन्ति तान्येवैतत्प्रीणाति तथो हामोघाय देवतानाम् मनांस्युपसंगतानि भवन्ति तस्मान्मनोतायै हविषोऽनुवाच आह ३.८.३.[१५] स हृदयस्यैवाग्रेऽवद्यति । तद्यन्मध्यतः सतो हृदयस्याग्रेऽवद्यति प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते ३.८.३.[१६] हृदयमु वै पशुः । तदस्यात्मन एवाग्रेऽवद्यति तस्माद्यदि किंचिदवदानं हीयेत न तदाद्रियेत सर्वस्य हैवास्य तत्पशोरवत्तं भवति यद्धृदयस्याग्रे ऽवद्यति तस्मान्मध्यतः सतो हृदयस्यैवाग्रेऽवद्यत्यथ यथापूर्वम् ३.८.३.[१७] अथ जिह्वायै । सा हीयं पूर्वार्धात्प्रतिष्ठत्यथ वक्षसस्तद्धि ततो ऽथैकचरस्य दोष्णोऽथ पार्श्वयोरथ तनिम्नोऽथ वृक्कयोः ३.८.३.[१८] गुदं त्रेधा करोति । स्थविमोपयड्द्भ्यो मध्यं जुह्वां द्वेधा कृत्वावद्यत्यणिम त्र्यङ्गेष्वथैकचरायै श्रोणेरेतावन्नु जुह्वामवद्यति ३.८.३.[१९] अथोपभृति । त्र्यङ्ग्यस्य दोष्णो गुदं द्वेधा कृत्वावद्यति त्र्यङ्ग्यायै श्रोणेरथ हिरण्यशकलाववदधात्यथोपरिष्टादाज्यस्याभिघारयति ३.८.३.[२०] अथ वसाहोमं गृह्णाति । रेडसीति लेलयेव हि यूस्तस्मादाह रेडसीत्यग्निष्ट्वा श्रीणात्वित्यग्निर्ह्येतच्रपयति तस्मादाहाग्निष्ट्वा श्रीणात्वित्यापस्त्वा समरिणन्नित्यापो ह्येतमङ्गेभ्यो रसं सम्भरन्ति तस्मादाहापस्त्वा ममरिणन्निति ३.८.३.[२१] वातस्य त्वा ध्राज्या इति । अन्तरिक्षं वा अयमनुपवते योऽयं पवतेऽन्तरिक्षाय वै गृह्णाति तस्मादाह वातस्य त्वा ध्राज्या इति ३.८.३.[२२] पूष्णा रंह्या इति । एष वै पूष्णो रंहिरेतस्मा उ हि गृह्णाति तस्मादाह पूष्णो रंह्या इति ३.८.३.[२३] ऊष्मणो व्यथिषदिति । एष वा ऊष्मैतस्मा उ हि गृह्णाते तस्मादाहोष्मणो व्यथिषदित्यथोपरिष्टाद्द्विराज्यस्याभिघारयति ३.८.३.[२४] अथ पार्श्वेन वासिना वा प्रयौति । प्रयुत द्वेष इति तन्नाष्ट्रा एवैतद्रक्षांस्यतो ऽपहन्ति ३.८.३.[२५] अथ यद्यूष्परिशिष्यते । तत्समवत्तधान्यामानयति तद्धृदयं प्रास्यति जिह्वां वक्षस्तनिम मतस्ने वनिष्ठुमथोपरिष्टाद्द्विराज्यस्याभिघारयति ३.८.३.[२६] तद्यद्धिरण्यशकलावभितो भवतः । घ्नन्ति वा एतत्पशुं यदग्नौ जुह्वत्यमृतमायुर्हिरण्यं तदमृत आयुषि प्रतितिष्ठति तथात उदेति तथा संजीवति तस्माद्धिरण्यशकलावभितो भवतः ३.८.३.[२७] अथ यदक्ष्णयावद्यति । सव्यस्य च दोष्णो दक्षिणायाश्च च दोष्णः सव्यावाश्च श्रोणेस्तस्मादयं पशुरक्ष्णया पदो हरत्यथ यत्सम्यगवद्येत्समीचो हैवायम् पशुः पदो हरेत्तस्मादक्ष्णयावद्यत्यथ यन्न शीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोः ३.८.३.[२८] अमुरा ह वा अग्रे पशुमालेभिरे । तद्देवा भीषा नोपावेयुस्तान्हेयं पृथिव्युवाच मैतदादृड्वमहं व एतस्याध्यक्षा भविष्यामि यथा यथैत एतेन चरिष्यन्तीति ३.८.३.[२९] सा होवाच । अन्यतरामेवाहुतिमहौषुरन्यतरां पर्यशिषन्निति स याम् पर्यशिंषंस्तानीमान्यवदानाने ततो देवाः स्विष्टकृते त्र्यङ्गाण्यपाभजंस्तस्मात्त्र्यङ्गाण्यथासुरा अवाद्यञ्चीर्ष्णों ऽसयोरनूकस्यापरसक्थयोस्तस्मात्तेषां नावद्येद्यन्न्वेव त्वष्टानूकमभ्यवमत्तस्मादनूकस्य नावद्येदथाहाग्नीषोमाभ्यां च्छागस्य हविषोऽनुब्रूहीत्याश्राव्याहाग्नीषोमाभ्यां च्छागस्य हविः प्रेष्येति न प्रस्थितमित्याह प्रसुते प्रस्थितमिति ३.८.३.[३०] अन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति । इतो वा अयमूर्ध्वो मेध उत्थितो यमस्या इमं रसं प्रजा उपजीवन्त्यर्वाचीनं दिवो रसो वै वसाहोमो रसो मेधो रसेनैवैतद्रसं तीव्रीकरोति तस्मादयं रसोऽद्यमानो न क्षीयते ३.८.३.[३१] तद्यदन्तरेण । अर्धर्चौ याज्यायै वसाहोमं जुहोतीयं वा अर्धर्चोऽसौ द्यौरर्धर्चोऽन्तरा वै द्यावापृथिवी अन्तरिक्षमन्तरिक्षाय वै जुहोति तस्मादन्तरेणार्धर्चौ याज्यायै वसाहोमं जुहोति ३.८.३.[३२] स जुहोति । घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहेत्येतेन वैश्वदेवेन यजुषा जुहोति वैश्वदेवं वा अन्तरिक्षं तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदानत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवं वषट्कृते जुहोति यानि जुह्वामवदानानि भवन्ति ३.८.३.[३३] अथ जुह्वा पृषदाज्यस्योपघ्नन्नाह । वनस्पतयेऽनुब्रूहीत्याश्राव्याह वनस्पतये प्रेष्येति वषट्कृते जुहोति तद्यद्वनस्पतये जुहोत्येतमेवैतद्वज्रं यूपम् भागिनं करोति सोमो वै वनस्पतिः पशुमेवैतत्सोमं करोति तद्यदन्तरेणोभे आहुती जुहोति तयोभयं व्याप्नोति तस्मादन्तरेणोभे आहुती जुहोति ३.८.३.[३४] अथ यान्युपभृत्यवदानानि भवन्ति । तानि समानयमान आहाग्नये स्विष्टकृते ऽनुब्रूहीत्याश्राव्याहाग्नये स्विष्टकृते प्रेष्येति वषट्कृते जुहोति ३.८.३.[३५] अथ यद्वसाहोमस्य परिशिष्यते । तेन दिशो व्याघारयति दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति रसो वै वसाहोमः सर्वास्वेवैतद्दिक्षु रसं दधाति तस्मादयं दिशिदिशि रसोऽभिगम्यते ३.८.३.[३६] अथ पशुं सम्मृशति । एतर्हि सम्मर्शनस्य कालोऽथ यत्पुरा समृशति य इम उपतिष्ठन्ते ते विमथिष्यन्त इति शङ्कमानो यद्यु विमाथान्न शङ्केतात्रैव सम्मृशेत् ३.८.३.[३७] ऐन्द्रः प्राणः । अङ्गेअङ्गे निदीध्यदैन्द्र उदानो अङ्गेअङ्गे निधीत इति यदङ्गशो विकृत्तो भवति तत्प्राणोदानाभ्यां संदधाति देव त्वष्टर्भूरि ते संसमेतु सलक्ष्मा यद्विषुरूपं भवातीति कृत्स्नवृतमेवैतत्करोति देवत्रा यन्तमवसे सखायोऽनु त्वा मातापितरो मदन्त्विति तद्यत्रैनमहौषीत्तदेनं कृत्स्नं कृत्वानुसमस्यति सोऽस्य कृत्स्नोऽमुष्मिंलोक आत्मा भवति ३.८.४. ३.८.४.[१] त्रीणि ह वै पशोरेकादशानि । एकादश प्रयाजा एकादशानुयाजा एकादशोपयजो दश पाण्या अङ्गुलयो दश पाद्या दश प्राणाः प्राण उदानो व्यान इत्येतावान्वै पुरुषो यः परार्ध्यः पशूनां यं सर्वेऽनु पशवः ३.८.४.[२] तदाहुः । किं तद्यज्ञे क्रियते येन प्राणः सर्वेभ्योऽङ्गेभ्यः शिव इति ३.८.४.[३] यदेव गुदं त्रेधा करोति । प्राणो वै गुदः सोऽयं प्राङाततस्तमयं प्राणो ऽनुसंचरति ३.८.४.[४] स यदेव गुदं त्रेधा करोति । तृतीयमुपयड्भ्यस्तृतीयं जुह्वां तृतीयमुपभृति तेन प्राणः सर्वेभ्योऽङ्गेभ्यः शिवः ३.८.४.[५] स ह त्वेव पशुमालभेत । य एनं मेधमुपनयेद्यदि कृशः स्याद्यदुदर्यस्य मेदसः परिशिष्यत तद्गुदे न्यृषेत्प्राणो वै गुदः सोऽयं प्राङाततस्तमयम् प्राणोऽनुसंचरति प्राणो वै पशुर्यावद्ध्येव प्राणेन प्राणिति तावत्पशुरथ यदास्मात्प्राणोऽपक्रामति दार्वेव तर्हि भूतोऽनर्थ्यः शेते ३.८.४.[६] गुदो वै पशुह् । मेदो वै मेधस्तदेनं मेधमुपनयति यद्यु अंसलो भवति स्वयमुपेत एव तर्हि मेधं भवति ३.८.४.[७] अथ पृषदाज्यं गृह्णाति । द्वयं वा इदं सर्पिश्चैव दधि च द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते ३.८.४.[८] तेनानुयाजेषु चरति । पशवो वा अनुयाजाः पयः पृषदाज्यं तत्पशुष्वेवैतत्पयो दधाति तदिदं पशुषु पयो हितं प्राणो हि पृषदाज्यमन्नं हि पृषदाज्यमन्नं हि प्राणः ३.८.४.[९] तेन पुरस्तादनुयाजेषु चरति । स योऽयं पुरस्तात्प्राणस्तमेवैतद्दधाति तेन पश्चादुपयजति स योऽयं पश्चात्प्राणस्तमेवैतद्दधाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् ३.८.४.[१०] तद्वा एतदेको द्वाभ्यां वषट्करोति । अध्वर्यवे च यश्चैष उपयजत्यथ यद्यजन्तमुपयजति तस्मादुपयजो नामाथ यदुपयजति प्रैवैतज्जनयति पश्चाद्ध्युपयजति पश्चाद्धि योषायै प्रजाः प्रजायन्ते ३.८.४.[११] स उपयजति । समुद्रं गच्छ स्वाहेत्यापो वै समुद्र आपो रेतो रेत एवैतत्सिञ्चति ३.८.४.[१२] अन्तरिक्षं गच्छ स्वाहेति । अन्तरिक्षं वा अनु प्रजाः प्रजायन्तेऽन्तरिक्षमेवैतदनु प्रजनयति ३.८.४.[१३] देवं सवितारं गच्छ स्वाहेति सविता वै देवानां प्रसविता सवितृप्रसूत एवैतत्प्रजनयति ३.८.४.[१४] मित्रावरुणौ गच्छ स्वाहेति । प्राणोदानौ वै मित्रावरुणौ प्राणोदानावेवैतत्प्रजासु दधाति ३.८.४.[१५] अहोरात्रे गच्छ स्वाहेति । अहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवैतदनु प्रजनयति ३.८.४.[१६] छन्दांसि गच्छ स्वाहेति । सप्त वै छन्दांसि सप्त ग्राम्याः पशवः सप्तारण्यास्तानेवैतदुभयान्प्रजनयति ३.८.४.[१७] द्यावापृथिवी गच्छ स्वाहेति । प्रजापतिर्वै प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्याम् पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो एवैष एतत्प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां परिगृह्णाति ३.८.४.[१८] अथात्युपयजति । स यन्नात्युपयजेद्यावत्यो हैवाग्रे प्रजाः सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्नथ यदत्युपयजति प्रैवैतज्जनयति तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते ३.८.५. ३.८.५.[१] सोऽत्युपयजति । यज्ञं गच्छ स्वाहेत्यापो वै यज्ञ आपो रेतो रेत एवैतत्सिञ्चति ३.८.५.[२] सोमं गच्छ स्वाहेति । रेतो वै सोमो रेत एवैतत्सिञ्चति ३.८.५.[३] दिव्यं नभो गच्छ स्वाहेति । आपो वै दिव्यं नभ आपो रेतो रेत एवैतत्सिञ्चति ३.८.५.[४] अग्निं वैश्वानरं गच्छ स्वाहेति । इयं वै पृथिव्यग्निर्वैश्वानरः सेयम् प्रतिष्ठेमामेवैतत्प्रतिष्ठामभिप्रजनयति ३.८.५.[५] अथ मुखं विमृष्टे । मनो मे हार्दि यच्छेति तथो होपयष्टात्मानं नानुप्रवृणक्ति ३.८.५.[६] अथ जाघन्या पत्नीः संयाजयन्ति । जघनार्धो वै जाघनी जघनार्धाद्वै योषायै प्रजाः प्रजायन्ते तत्प्रैवैतज्जनयति यज्जाघन्या पत्नीः संयाजयन्ति ३.८.५.[७] अन्तरतो देवानां पत्नीभ्योऽवद्यति । अन्तरतो वै योषायै प्रजाः प्रजायन्त उपरिष्टादग्नये गृहपतय उपरिष्टाद्वै वृषा योषामधिद्रवति ३.८.५.[८] अथ हृदयशूलेनावभृथं यन्ति । पशोर्ह वा आलभ्यमानस्य हृदयं शुक्षमभ्यवैति हृदयाद्धृदयशूलमथ यचृतस्य परितृन्दन्ति तदलंजुषं तस्मादु परितृद्यैव शूलाकुर्यात्तत्त्रिःप्रच्युते पशौ हृदयं प्रवृह्योत्तमम् प्रत्यवदधाति ३.८.५.[९] अथ हृदयशूलं प्रयच्छति । तन्न पृथिव्यां परास्येन्नाप्सु स यत्पृथिव्याम् परास्येदोषधीश्च वनस्पतींश्चैषा शुक्प्रविशेद्यदप्सु परास्येदप एषा शुक्प्रविशेत्तस्मान्न पृथिव्यां नाप्सु ३.८.५.[१०] अप एवाभ्यवेत्य । यत्र शुष्कस्य चार्द्रस्य च संधिः स्यात्तदुपगूहेद्यद्यु अभ्यवायनाय ग्लायेदग्रेण यूपमुदपात्रं निनीय यत्र शुष्कस्य चार्द्रस्य च संधिर्भवति तदुपगूहति नापो नौषधीर्हिंसीरिति तथा नापो नौषधीर्हिनस्ति धाम्नोधाम्नो राजंस्ततो वरुण नो मुञ्च यदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्चेति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति ३.८.५.[११] अथाभिमन्त्रयते । सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यत्र वा एतेन प्रचरन्त्यापश्च ह वा अस्मात्तावदोषधयश्चापक्रम्येव तिष्ठन्ति तदु ताभिर्मित्रधेयं कुरुते तथो हैनं ताः पुनः प्रविशन्त्येषो तत्र प्रायश्चित्तिः क्रियते स वै नाग्नीषोमीयस्य पशोः करोति नाग्नेयस्य वशाया एवानूबन्ध्यायै तां हि सर्वोऽनु यज्ञः संतिष्ठत एतदु हास्याग्नीषोमीयस्य च पशोराग्नेयस्य च हृदयशूलेन चरितं भवति यद्वशायाश्चरन्ति ३.९.१. ३.९.१.[१] प्रजापतिर्वै प्रजाः ससृजानो रिरिचान इवामन्यत । तस्मात्पराच्यः प्रजा आसुर्नास्य प्रजाः श्रियेऽन्नाद्याय तस्थिरे ३.९.१.[२] स ऐक्षतारिक्ष्यहम् । अस्मा उ कामायासृक्षि न मे स कामः समार्धि पराच्यो मत्प्रजा अभूवन्न मे प्रजाः श्रियेऽन्नाद्यायास्थिषतेति ३.९.१.[३] स ऐक्षत प्रजापतिः । कथं नु पुनरात्मानमाप्याययेयोप मा प्रजाः समावर्तेरंस्तिष्ठेरन्मे प्रजाः श्रियेऽन्नाद्यायेति ३.९.१.[४] सोऽर्चञ्च्राम्यंश्चचार प्रजाकामः । स एतामेकादशिनीमपश्यत्स एकादशिन्येष्ट्वा प्रजापतिः पुनरात्मानमाप्याययतोपैनं प्रजाः समावर्तन्तातिष्ठन्तास्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वाभवत् ३.९.१.[५] तस्मै कमेकादशिन्या यजेत । एवं हैव प्रजया पशुभिराप्यायत उपैनं प्रजाः समावर्तन्ते तिष्ठन्तेऽस्य प्रजाः श्रियेऽन्नाद्याय स वसीयानेवेष्ट्वा भवत्येतस्मै कमेकादशिन्या यजते ३.९.१.[६] स आग्नेयं प्रथमं पशुमालभते । अग्निर्वै देवतानां मुखं प्रजनयिता स प्रजापतिः स उ एव यजमानस्तस्मादाग्नेयो भवति ३.९.१.[७] अथ सारस्वतम् । वाग्वै सरस्वती वाचैव तत्प्रजापतिः पुनरात्मानमाप्याययत वागेनमुपसमावर्तत वाचमनुकामात्मनोऽकुरुत वाचो एवैष एतदाप्यायते वागेनमुपसमावर्तते वाचमनुकामात्मनः कुरुते ३.९.१.[८] अथ सौम्यम् । अन्नं वै सोमोऽन्नेनैव तत्प्रजापतिः पुनरात्मानमाप्याययतान्नमेनमुपसमावर्ततान्नमनुकमात्मनो ऽकुरुतान्नेनो एवैष एतदाप्यायतेऽन्नमेनमुपसमावर्ततेऽन्नमनुकमात्मनः कुरुते ३.९.१.[९] तद्यत्सारस्वतमनु भवति । वाग्वै सरस्वत्यन्नं सोमस्तस्माद्यो वाचा प्रसाम्यन्नादो हैव भवति ३.९.१.[१०] अथ पौष्णम् । पशवो वै पूषा पशुभिरेव तत्प्रजापतिः पुनरात्मानमाप्याययत पशव एनमुपसमावर्तन्त पशूननुकानात्मनोऽकुरुत पशुभिर्वेवैष एतदाप्यायते पशव एनमुपसमावर्तन्ते पशूननुकानात्मनः कुरुते ३.९.१.[११] अथ बार्हस्पत्यम् । ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैतत्प्रजापतिः पुनरात्मानमाप्याययत ब्रह्मैनमुपसमावर्तत ब्रह्मानुकमात्मनोऽकुरुत ब्रह्मणो एवैष एतदाप्यायते ब्रह्मैनमुपसमावर्तते ब्रह्मानुकमात्मनः कुरुते ३.९.१.[१२] तद्यत्पौष्णमनु भवति । पशवो वै पूषा ब्रह्म बृहस्पतिस्तस्माद्ब्राह्मणः पशूनभिधृष्णुतमः पुराहिता ह्यस्य भवन्ति मुख आहितास्तस्मादु तत्सर्वं दत्त्वाजिनवासी चरति ३.९.१.[१३] अथ वैश्वदेवम् । सर्वं वै विश्वे देवाः सर्वेणैव तत्प्रजापतिः पुनरात्मानमाप्याययत सर्वमेनमुपसमावर्तत सर्वमनुकमात्मनोऽकुरुत सर्वेणो एवैष एतदाप्यायते सर्वमेनमुपसमावर्तते सर्वमनुकमात्मनः कुरुते ३.९.१.[१४] तद्यद्बार्हस्पत्यमनु भवति । ब्रह्म वै बृहस्पतिः सर्वमिदं विश्वे देवा अस्यैवैतत्सर्वस्य ब्रह्म मुखं करोति तस्मादस्य सर्वस्य ब्राह्मणो मुखम् ३.९.१.[१५] अथैन्द्रम् । इन्द्रियं वै वीर्यमिन्द्रमिन्द्रियेणैव तद्वीर्येण प्रजापतिः पुनरात्मानमाप्याययतेन्द्रियमेनं वीर्यमुपसमावर्ततेन्द्रियं वीर्यमनुकमात्मनोऽकुरुतेन्द्रियेणो एवैष एतद्वीर्येणाप्यायत इन्द्रियमेनं वीर्यमुपसमावर्तत इन्द्रियं वीर्यमनुकमात्मनः कुरुते ३.९.१.[१६] तद्यद्वैश्वदेवमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा अन्नाद्यमेवास्मा एतत्पुरस्तात्करोति ३.९.१.[१७] अथ मारुतम् । विशो वै मरुतो भूमो वै विड्भूम्नैव तत्प्रजापतिः पुनरात्मानमाप्याययत भूमैनमुपसमावर्तत भूमानमनुकमात्मनो ऽकुरुत भूम्नो एवैष एतदाप्यायते भूमैनमुपसमावर्तते भूमानमनुकमात्मनः कुरुते ३.९.१.[१८] तद्यदैन्द्रमनु भवति । क्षत्रं वा इन्द्रो विशो विश्वे देवा विशो वै मरुतो विशैवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढम् ३.९.१.[१९] अथैन्द्राग्नम् । तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभाभ्यामेव तद्वीर्याभ्याम् प्रजापतिः पुनरात्मानमाप्याययतोभे एनं वीर्ये उपसमावर्तेतामुभे वीर्ये अनुके आत्मनो कुरुतोभाभ्याम्वेवैष एतद्वीर्याभ्यामाप्यायत उभे एनं वीर्ये उपसमावर्तेते उभे वीर्ये अनुके आत्मनः कुरुते ३.९.१.[२०] अथ सावित्रम् । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते ३.९.१.[२१] अथ वारुणमन्तत आलभते । तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति ३.९.१.[२२] तस्माद्यदि यूपैकादशिनी स्यात् । आग्नेयमेवाग्निष्ठे नियुञ्ज्यादथेतरान्व्युपनयेयुर्यथापूर्वम् ३.९.१.[२३] यद्यु पश्वेकादशिनी स्यात् । आग्नेयमेव यूप आलभेरन्नथेतरान्यथापूर्वम् ३.९.१.[२४] तान्यत्रोदीचो नयन्ति । आग्नेयमेव प्रथमं नयन्त्यथेतरान्यथापूर्वम् ३.९.१.[२५] तान्यत्र निविध्यन्ति । आग्नेयमेव प्रथमं दक्षिणार्ध्यं निविध्यन्त्यथेतरानुदीचोऽतिनीय यथापूर्वम् ३.९.१.[२६] तेषां यत्र वपाभिः प्रचरन्ति । आग्नेयस्यैव प्रथमस्य वपया प्रचरन्त्यथेतरेषां यथापूर्वम् ३.९.१.[२७] तैर्यत्र प्रचरन्ति । आग्नेयेनैव प्रथमेन प्रचरन्त्यथेतरैर्यथापूर्वम् ३.९.२. ३.९.२.[१] यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेष तेनैवैतद्रसेनापः स्यन्दन्ते तमेवैतद्रसं स्यन्दमानं मन्यन्ते ३.९.२.[२] स यद्वसतीवरीरचैति । तमेवैतद्रसमाहृत्य यज्ञे दधाति रसवन्तं यज्ञं करोति तस्माद्वसतीवरीरचैति ३.९.२.[३] ता वै सर्वेषु सवनेषु विभजति । सर्वेष्वेवैतत्सवनेषु रसं दधाति सर्वाणि सवनानि रसवन्ति करोति तस्मात्सर्वेषु विभजति ३.९.२.[४] ता वै स्यन्दमानानां गृह्णीयात् । ऐद्धि स यज्ञस्य रसस्तस्मात्स्यन्दमानानां गृह्णीयात् ३.९.२.[५] गोपीथाय वा एता गृह्यन्ते । सर्वं वा इदमन्यदिलयति यदिदं किं चापि योऽयम् पवतेऽथैता एव नेलयन्ति तस्मात्स्यन्दमानानां गृह्णीयात् ३.९.२.[६] दिवा गृह्णीयात् । पश्यन्यज्ञस्य रसं गृह्णानीति तस्माद्दिवा गृह्णीयादेतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवास्तस्माद्दिवा गृह्णीयाद्दिवेव वा एष तस्माद्वेव दिवा गृह्णीयात् ३.९.२.[७] एतद्ध वै विश्वे देवाः । यजमानस्य गृहानागच्छन्ति स यः पुरादित्यस्यास्तमयाद्वसतीवरीर्गृह्णाति यथा श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्त एतद्धविः प्रविशन्ति त एतासु वसतीवरीषूपवसन्ति स उपवसथः ३.९.२.[८] स यस्यागृहीता अभ्यस्तमियात् । तत्र प्रायश्चित्तिः क्रियते यदि पुरेजानः स्यान्निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति यद्यु अनीजानः स्याद्य एनमीजान उपावसितो वा पर्यवसितो वा स्यात्तस्य निनाह्याद्गृह्णीयाद्दिवा हि तस्य ताः पुरा गृहीता भवन्ति ३.९.२.[९] यद्यु एतदुभयं न विन्देत् । उल्कुषीमेवादायोपपरेयात्तामुपर्युपरि धारयन्गृह्णीयाद्धिरण्यं वोपर्युपरि धारयन्गृह्णीयात्तदेतस्य रूपं क्रियते य एष तपति ३.९.२.[१०] अथातो गृह्णात्येव । हविष्मतीरिमा आप इति यज्ञस्य ह्यासु रसः प्राविशत्तस्मादाह हविष्मतीरिमा आप इति हविष्मानाविवासतीति हविष्मान्ह्येना यजमान आविवासति तस्मादाह हविष्मानाविवासतीति ३.९.२.[११] हविष्मान्देवो अध्वर इति । अध्वरो वै यज्ञस्तद्यस्मै यज्ञाय गृह्णाति तं हविष्मन्तं करोति तस्मादाह हविष्मान्देवो अध्वर इति ३.९.२.[१२] हविष्मानस्तु सूर्य इति । एतस्मै वै गृह्णाति य एष तपति विश्वेभ्यो ह्येना देवेभ्यो गृह्णाति रश्मयो ह्यस्य विश्वे देवास्तस्मादाह हविष्मानस्तु सूर्य इति ३.९.२.[१३] ता आहृत्य जघनेन गार्हपत्यं सादयति । अग्नेर्वोऽपन्नगृहस्य सदसि सादयामीत्यग्नेर्वोऽनार्तगृहस्य सदसि सादयामीत्येवैतदाहाथ यदाग्नीषोमीयः पशुः संतिष्ठतेऽथ परिहरति व्युत्क्रामतेत्याहाग्रेण हविर्धाने यजमान आस्ते ता आदत्ते ३.९.२.[१४] स दक्षिणेन निष्क्रामति । ता दक्षिणायां श्रोणौ सादयतीन्द्राग्न्योर्भागधेयी स्थेति विश्वेभ्यो ह्येना देवेभ्यो गृह्णातीन्द्राग्नी हि विश्वे देवास्ताः पुनराहृत्याग्रेण पत्नीं सादयति स जघनेन पत्नीं पर्येत्य ता आदत्ते ३.९.२.[१५] स उत्तरेण निष्क्रामति । ता उत्तरायां श्रोणौ सादयति मित्रावरुणयोर्भागधेयी स्थेति नैवं सादयेदतिरिक्तमेतन्नैवं सम्पत्सम्पद्यत इन्द्राग्न्योर्भागधेयी स्थेत्येव ब्रूयात्तदेवानतिरिक्तं तथा सम्पत्सम्पद्यते ३.९.२.[१६] गुप्त्यै वा एताः परिह्रियन्ते । अग्निः पुरस्तादथैताः समन्तं पल्यङ्ग्यन्ते नाष्ट्रा रक्षांस्यपघ्नत्यस्ता आग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थेति तदासु विश्वान्देवान्त्संवेशयत्येते वै वसतां वरं तस्माद्वसतीवर्यो नाम वसतां ह वै वरं भवति य एवमेतद्वेद ३.९.२.[१७] तानि वा एतानि सप्त यजूंषि भवन्ति । चतुर्भिर्गृह्णात्येकेन जघनेन गार्हपत्यं सादयत्येकेन परिहरत्येकेनाग्नीध्रे तानि सप्त यत्र वै वाचः प्रजातानि छन्दांसि सप्तपदा वै तेषां परार्ध्या शक्वर्येतामभिसम्पदं तस्मात्सप्त यजूंषि भवन्ति ३.९.३. ३.९.३.[१] तान्त्सम्प्रबोधयन्ति । तेऽप उपस्पृश्याग्नीध्रमुपसमायन्ति त आज्यानि गृह्णते गृहीत्वाज्यान्यायन्त्यासाद्याज्यानि ३.९.३.[२] अथ राजानमुपावहरति । इयं वै प्रतिष्ठा जनूरासाम् प्रजानामिमामेवैतत्प्रतिष्ठामभ्युपावहरति तमस्यै तनुते तमस्यै जनयति ३.९.३.[३] अन्तरेणेष उपावहरति । यज्ञो वा अनस्तन्न्वेव यज्ञान्न बहिर्धा करोति ग्रावसु सम्मुखेष्वधिनिदधाति क्षत्रं वै सोमो विशो ग्रावाणः क्षत्रमेवैतद्विश्यध्यूहति तद्यत्सम्मुखा भवन्ति विशमेवैतत्सम्मुखां क्षत्रियमभ्यविवादिनीं करोति तस्मात्सम्मुखा भवन्ति ३.९.३.[४] स उपावहरति । हृदे त्वा मनसे त्वेति यजमानस्यैतत्कामायाह हृदयेन हि मनसा यजमानस्तं कामं कामयते यत्काम्या यजते तस्मादाह हृदे त्वा मनसे त्वेति ३.९.३.[५] दिवे त्वा सूर्याय त्वेति । देवलोकाय त्वेत्येवैतदाह यदाह दिवे त्वेति सूर्याय त्वेति देवेभ्यस्त्वेत्येवैतदाहोर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छेत्यध्वरो वै यज्ञ ऊर्द्वमिमं यज्ञं दिवे देवेषु धेहीत्येवैतदाह ३.९.३.[६] सोम राजन्विश्वास्त्वं प्रजा उपावरोहेति । तदेनमासां प्रजानामाधिपत्याय राज्यायोपावहरति ३.९.३.[७] अथानुसृज्योपतिष्ठते । विश्वास्त्वां प्रजा उपावरोहन्त्वित्ययथायथमिव वा एतत्करोति यदाह विश्वास्त्वं प्रजा उपावरोहेति क्षत्रं वै सोमस्तत्पापवस्यसं करोति तद्धेदमनु पापवस्यसं क्रियतेऽथात्र यथायथं करोति यथापूर्वं यदाह विश्वास्त्वां प्रजा उपावरोहन्त्विति तदेनमाभिः प्रजाभिः प्रत्यवरोहयति तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासत उपसन्नो होता प्रातरनुवाकमनुवक्ष्यन्भवति ३.९.३.[८] अथ समिधमभ्यादधदाह । देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणश्चन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति ३.९.३.[९] तदु हैक आहुः । देवेभ्योऽनुब्रूहीति तदु तथा न ब्रूयाच्चन्दांसि वै देवाः प्रातर्यावाणश्चन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति तस्मादु ब्रूयाद्देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीत्येव ३.९.३.[१०] अथ यत्समिधमभ्यादधाति । छन्दांस्येवैतत्समिन्द्धेऽथ यद्धोता प्रातरनुवाकमन्वाह छन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति यातयामानि वै देवैश्चन्दांसि च्छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत न वा अत्र स्तुवते न शंसन्ति तच्चन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते तस्माद्धोता प्रातरनुवाकमन्वाह ३.९.३.[११] तदाहुः । कः प्रातरनुवाकस्य प्रतिगर इति जाग्रद्धैवाध्वर्युरुपासीत स यन्निमिषति स हैवास्य प्रतिगरस्तदु तथा न कुर्याद्यदि निद्रायादपि कामं स्वप्यात्स यत्र होता प्रातरनुवाकं परिदधाति तत्प्रचरणीति स्रुग्भवति तस्यां चतुर्गृहीतमाज्यं गृहीत्वा जुहोति ३.९.३.[१२] यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेश तमदः पूर्वेद्युर्वसतीवरीभिराहरत्यथ योऽत्र यज्ञस्य रसः परिशिष्टस्तमेवैतदचैति ३.९.३.[१३] यद्धैवैतामाहुतिं जुहोति । एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं संनमन्ति ३.९.३.[१४] स जुहोति । शृणोत्वग्निः समिधा हवं म इति शृणोतु म इदमग्निरनु मे जानात्वित्येवैतदाह शृण्वन्त्वापो धिषणाश्च देवीरिति शृण्वन्तु म इदमापोऽनु मे जानन्त्वित्येवैतदाह श्रोता ग्रावाणो विदुषो न यज्ञमिति शृण्वन्तु म इदं ग्रावाणोऽनु मे जानन्त्वित्येवैतदाह विदुषो न यज्ञमिति विद्वांसो हि ग्रावाणः शृणोतु देवः सविता हवं मे स्वाहेति शृणोतु म इदं देवः सवितानु मे जानात्वित्येवैतदाह सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतद्यज्ञस्य रसमचैति ३.९.३.[१५] अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उदङ्प्रयन्नाहाप इष्य होतरित्यप इच्छ होतरित्येवैतदाह तद्यदतो होतान्वाहैतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्ध एतानु चैवैतदनुतिष्ठते नेदेनानन्तरा नाष्ट्रा रक्षांसि हिनसन्निति ३.९.३.[१६] अथ सम्प्रेष्यति । मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति सम्प्रैष एवैषः ३.९.३.[१७] त उदञ्चो निष्क्रामन्ति । जघनेन चात्वालमग्रेणाग्नीध्रं स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति ते वै सह पत्नीभिर्यन्ति तद्यत्सह पत्नीभिर्यन्ति ३.९.३.[१८] यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेश तमेते गन्धर्वाः सोमरक्षा जुगुपुः ३.९.३.[१९] ते ह देवा ऊचुः । इयमु न्वेवेह नाष्ट्रा यदिमे गन्धर्वाः कथं न्विममभये ऽनाष्ट्रे यज्ञस्य रसमाहरेमेति ३.९.३.[२०] ते होचुः । योषित्कामा वै गन्धर्वाः सह पत्नीभिरयाम ते पत्नीष्वेव गन्धर्वा गर्धिष्यन्त्यथैतमभयेऽनाष्ट्रे यज्ञस्य रसमाहरिष्याम इति ३.९.३.[२१] ते सह पत्नीभिरीयुः । ते पत्नीष्वेव गन्धर्वा जगृधुरथैतमभये नाष्ट्रे यज्ञस्य रसमाजह्रुः ३.९.३.[२२] तथो एवैष एतत् । महैव पत्नीभिरेति ते पत्नीष्वेव गन्धर्वा गृध्यन्त्यथैतमभयेऽनाष्ट्रे यज्ञस्य रसमाहरति ३.९.३.[२३] सोऽपोऽभिजुहोति । एतां ह वा आहुतिं हृतामेष यज्ञस्य रस उपसमेति ताम् प्रत्युत्तिष्ठति तमेवैतदाविष्कृत्य गृह्णाति ३.९.३.[२४] यद्वेवैतामाहुतिं जुहोति । एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे तमपो याचति याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं संनमन्ति ३.९.३.[२५] स जुहोति । देवीरापो अपांनपादिति देव्यो ह्यापस्तस्मादाह देवीरापो अपांनपादिति यो व ऊर्मिर्हविष्य इति यो व ऊर्मिर्यज्ञिय इत्येवैतदाहेन्द्रियावान्मदिन्तम इति वीर्यवानित्येवैतदाह यदाहेन्द्रियावानिति मदिन्तम इति स्वादिष्ठ इत्येवैतदाह तं देवेभ्यो देवत्रा दत्तेत्येतदेना अयाचिष्ट यदाह तं देवेभ्यो देवत्रा दत्तेति शुक्रपेभ्य इति सत्यं वै शुक्रं सत्यपेभ्य इत्येवैतदाह येषां भाग स्थ स्वाहेति तेषामु ह्येष भागः ३.९.३.[२६] अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति । कार्षिरसीति यथा वा अङ्गारो ऽग्निना प्सातः स्यादेवमेषाहुतिरेतया देवतया प्साता भवति राजानं वा एताभिरद्भिरुपस्रक्ष्यन्भवति या एता मैत्रावरुणचमसे वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्माद्वा अपप्लावयति ३.९.३.[२७] अथ गृह्णाति । समुद्रस्य त्वाक्षित्या उन्नयामीत्यापो वै समुद्रोऽप्स्वेवैतदक्षितिं दधाति तस्मादाप एतावति भोगे भुज्यमाने न क्षीयन्ते तदन्वेकधनानुन्नयन्ति तदनु पान्नेजनान् ३.९.३.[२८] तद्यन्मैत्रावरुणचमसेन गृह्णाति । यत्र वै देवेभ्यो यज्ञो ऽपाक्रामत्तमेतद्देवाः प्रैषैरेव प्रैषमैच्छन्पुरोरुग्भिः प्रारोचयन्निविद्भिर्न्यवेदयंस्तस्मान्मैत्रावरुणचमसेन गृह्णाति ३.९.३.[२९] त आयन्ति । प्रत्युपतिष्ठतेऽग्नीच्चात्वाले वसतीवरीभिश्च होतृचमसेन च स उपर्युपरि चात्वालं संस्पर्शयति वसतीवरीश्च मैत्रावरुणचमसं च समापो अद्भिरग्मत समोषधीभिरोषधीरिति यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजति ३.९.३.[३०] तद्धैके । एव मैत्रावरुणचमसे वसतीवरीर्नयन्त्या मैत्रावरुणचमसाद्वसतीवरीषु यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजाम इति वदन्तस्तदु तथा न कुर्याद्यद्वा आधवनीये समवनयति तदेवैष उभयो यज्ञस्य रसः संसृज्यतेऽथ होतृचमसे वसतीवरीर्गृह्णाति निग्राभ्याभ्यस्तद्यदुपर्युपरि चात्वालं संस्पर्शयत्यतो वै देवा दिवमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यम् पन्थानमनुसंख्यापयति ३.९.३.[३१] त आयन्ति । तं होता पृच्छत्यध्वर्योऽवेरपा इत्यविदोऽपा इत्येवैतदाह तम् प्रत्याहोतेव नंनमुरित्यविदमथो मेऽनंसतेत्येवैतदाह ३.९.३.[३२] स यद्यग्निष्टोमः स्यात् । यदि प्रचरण्यां संस्रवः परिशिष्टोऽलं होमाय स्यात्तं जुहुयाद्यद्यु नालं होमाय स्यादपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः स यन्ता शश्वतीरिषः स्वाहेत्याग्नेय्या जुहोत्यग्निर्वा अग्निष्टोमस्तदग्नावग्निष्टोमं प्रतिष्ठापयति मर्तवत्या पुरुषसम्मितो वा अग्निष्टोम एवं जुहुयाद्यद्यग्निष्टोमः स्यात् ३.९.३.[३३] यद्युक्थ्यः स्यात् । मध्यमं परिधिमुपस्पृशेत्त्रयः परिधयस्त्रीण्युक्थान्येतैरु हि तर्हि यज्ञः प्रतितिष्ठति यद्यु अतिरात्रो वा षोडशी वा स्यान्नैव जुहुयान्न मध्यमं परिधिमुपस्पृशेत्समुद्यैव तूष्णीमेत्य प्रपद्येत तद्यथायथं यज्ञक्रतून्व्यावर्तयति ३.९.३.[३४] अयुङ्गाअयुङ्गा एकधना भवन्ति । त्रयो वा पञ्च वा पञ्च वा सप्त वा नव वा नव वैकादश वैकादश वा त्रयोदश वा त्रयोदश वा पञ्चदश वा द्वन्द्वमह मिथुनं प्रजननमथा थ एष एकोऽतिरिच्यते स यजमानस्य श्रियमभ्यतिरिच्यते स वा एषां सधनं यो यजमानस्य श्रियमभ्यतिरिच्यते तद्यदेषां सधनं तस्मादेकधना नाम ३.९.४. ३.९.४.[१] अथाधिषवणे पर्युपविशन्ति । अथास्यां हिरण्यं बध्नीते द्वयं वा इदं न तृतीयमस्ति सत्यं चैवानृतं च सत्यमेव देवा अनृतं मनुष्या अग्निरेतसं वै हिरण्यं सत्येनांशूनुपस्पृशानि सत्येन सोमं पराहणानीति तस्माद्वा अस्यां हिरण्यं बध्नीते ३.९.४.[२] अथ ग्रावाणमादत्ते । ते वा एतेऽश्ममया ग्रावाणो भवन्ति देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत्तस्यैतच्छरीरं यद्गिरयो यदश्मानस्तच्छरीरेणैवैनमेतत्समर्धयति कृत्स्नं करोति तस्मादश्ममया भवन्ति घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा संजीवति तस्मादश्ममया ग्रावाणो भवन्ति ३.९.४.[३] तमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे रावासीति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैनमेतदादत्ते ऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू तत्तयोरेव बाहुभ्यामादत्ते न स्वाभ्याम् पूष्णो हस्ताभ्यामिति पूषा भागदुघस्तत्तस्यैव हस्ताभ्यामादत्ते न स्वाभ्यां वज्रो वा एष तस्य न मनुष्यो भर्ता तमेताभिर्देवताभिरादत्ते ३.९.४.[४] आददे रावासीति । यदा वा एनमेतेनाभिषुण्वन्त्यथाहुतिर्भवति यदाहुतिं जुहोत्यथ दक्षिणा ददात्येतद्ध्येष द्वयं रासत आहुतीश्च दक्षिणाश्च तस्मादाह रावासीति ३.९.४.[५] गभीरमिममध्वरं कृधीति । अध्वरो वै यज्ञो महान्तमिमं यज्ञं कृधीत्येवैतदाहेन्द्राय सुषूतममितीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्रायेति सुषूतममिति सुसुतममित्येवैतदाहोत्तमेन पविनेत्येष वा उत्तमः पविर्यत्सोमस्तस्मादाहोत्तमेन पविनेत्यूर्जस्वन्तं मधुमन्तं पयस्वन्तमिति रसवन्तमित्येवैतदाह यदाहोर्जस्वन्तं मधुमन्तं पयस्वन्तमिति ३.९.४.[६] अथ वाचं यच्छति । देवा ह वै यज्ञं तन्वानास्तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुरुपांशु यजाम वाचं यच्छामेति त उपांश्वयजन्वाचमयच्छन् ३.९.४.[७] अथ निग्राभ्या आहरति । तास्वेनं वाचयति निग्राभ्या स्थ देवश्रुतस्तर्पयत मा मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति रसो वा आपस्तास्वेवैतामाशिषमाशास्ते सर्वं च म आत्मानं तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्निति स य एष उपांशुसवनः स विवस्वानादित्यो निदानेन सोऽस्यैष व्यानः ३.९.४.[८] तमभिमिमीते । घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा संजीवति यद्वेव मिमीते तस्मान्मात्रा मनुष्येषु मात्रो यो चाप्यन्या मात्रा ३.९.४.[९] स मिमीते । इन्द्राय त्वा वसुमते रुद्रवत इतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्राय त्वेति वसुमते रुद्रवत इति तदिन्द्रमेवानु वसूंश्च रुद्रांश्चाभजतीन्द्राय त्वादित्यवत इति तदिन्द्रमेवान्वादित्यानाभजतीन्द्राय त्वाभिमातिघ्न इति सपत्नो वा अभिमातिरिन्द्राय त्वा सपत्नघ्न इत्येवैतदाह सो ऽस्योद्धारो यथा श्रेष्ठन्योद्धार एवमस्यैष ऋते देवेभ्यः ३.९.४.[१०] श्येनाय त्वा सोमभृत इति । तद्गायत्र्यै मिमीतेऽग्नये त्वा रायस्पोषद इत्यग्निर्वै गायत्री तद्गायत्र्यै मिमीते स यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन मा श्येनः सोमभृत्तेनैवास्या एतद्वीर्येण द्वितीयं मिमीते ३.९.४.[११] अथ यत्पञ्च कृत्वो मिमीते । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्वां मिमीते ३.९.४.[१२] तमभिमृशति । यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राये कृध्यधि दात्रे वोच इति यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त ३.९.४.[१३] तद्वै देवा अस्पृण्वत । तेऽस्यैतेनैवैतास्तनूराप्नुवन्त्स कृत्स्न एव देवानां हविरभवत्तथो एवास्यैष एतेनैवैतास्तनूराप्नोति स कृत्स्न एव देवानां हविर्भवति तस्मादेवमभिमृशति ३.९.४.[१४] अथ निग्राभ्याभिरुपसृजति । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते तस्मादेनाः स्यन्दमाना न किं चन प्रतिघारयति ता ह स्वमेव वशं चेरुः कस्मै नु वयं तिष्ठेमहि याभिरस्माभिर्वृत्रो हत इति सर्वं वा इदमिन्द्राय तस्थानमास यदिदं किं चापि योऽयं पवते ३.९.४.[१५] स इन्द्रोऽब्रवीत् । सर्वं वै म इदं तस्थानं यदिदं किं च तिष्ठध्वमेव म इति ता होचुः किं नस्ततः स्यादिति प्रथमभक्ष एव वः सोमस्य राज्ञ इति तथेति ता अस्मा अतिष्ठन्त तास्तस्थाना उरसि न्यगृह्णीत तद्यदेना उरसि न्यगृह्णीत तस्मान्निग्राभ्या नाम तथैवैता एतद्यजमान उरसि निगृह्णीते स आसामेष प्रथमभक्षः सोमस्य राज्ञो यन्निग्राभ्याभिरुपसृजति ३.९.४.[१६] स उपसृजति । श्वात्रा स्थ वृत्रतुर इति शिवा ह्यापस्तस्मादाह श्वात्रा स्थेति वृत्रतुर इति वृत्रं ह्येता अघ्नन्राधोगूर्ता अमृतस्य पत्नीरित्यमृता ह्यापस्ता देवीर्देवत्रेमं यज्ञं नयतेति नात्र तिरोहितमिवास्त्युपहूताः सोमस्य पिबतेति तदुपहूता एव प्रथमभक्षं सोमस्य राज्ञो भक्षयन्ति ३.९.४.[१७] अथ प्रहरिष्यन् । यं द्विष्यात्तं मनसा ध्यायेदमुष्मा अहं प्रहरामि न तुभ्यमिति यो न्वेवेमं मानुषं ब्राह्मणं हन्ति तं न्वेव परिचक्षतेऽथ किं य एतं देवी हि सोमो घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तमेतेन घ्नन्ति तथात उदेति तथा संजीवति तथानेनस्यं भवति यद्यु न द्विष्यादपि तृणमेव मनसा ध्यायेत्तथो अनेनस्यं भवति ३.९.४.[१८] स प्रहरति । मा भेर्मा संविक्था इति मा त्वं भैषीर्मा संविक्था अमुष्मा अहम् प्रहरामि न तुभ्यमित्येवैतदाहोर्जं धत्स्वेति रसं धत्स्वेत्येवैतदाह धिषणे वीड्वी सती वीडयेथामूर्जं दधाथामितोमे एवैतत्फलके आहुरित्यु हैक आहुः किं नु तत्र योऽप्येते फलके भिन्द्यादिमे हवै द्यावापृथिवी एतस्माद्वज्रादुद्यतात्संरेजेते तदाभ्यामेवैनमेतद्द्यावापृथिवीभ्यां शमयति तथेमे शान्तो न हिनस्त्यूर्जं दधाथामिति रसं दधाथामित्येवैतदाह पाप्मा हतो न सोम इति तदस्य सर्वं पाप्मानं हन्ति ३.९.४.[१९] स वै त्रिरभिषुणोति । त्रिः सम्भरति चतुर्निग्राभमुपैति तद्दश दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दश कृत्वः सम्पादयति ३.९.४.[२०] अथ यन्निग्राभमुपैति । यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेमा दिशो ऽभिदध्यावाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पृशेयेति तमेतद्देवा आभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना समस्पर्शयन्यन्निग्राभमुपायंस्तथो एवैनमेष एतदाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयति यन्निग्राभमुपैति ३.९.४.[२१] स उपैति । प्रागपागुदगधराक्षर्वतस्त्वा दिश आधावन्त्विति तदेनमाभिर्दिग्भिर्मिथुनेन प्रियेण धाम्ना संस्पर्शयत्यम्ब निष्पर समरीर्विदामिति योषा वा अम्बा योषा दिशस्तस्मादाहाम्ब निष्परेति समरीर्विदामिति प्रजा वा अरीः सं प्रजा जानतामित्येवैतदाह तस्माद्या अपि विटूरमिव प्रजा भवन्ति समेव ता जानते तस्मादाह समरीर्विदामिति ३.९.४.[२२] अथ यस्मात्सोमो नाम । यत्र वा एषोऽग्रे देवानां हविर्बभूव तद्धेक्षां चक्रे मैव सर्वेणेवात्मना देवानां हविर्भूवमिति तस्य या जुष्टतमा तनूरास तामपनिदधे तद्वै देवा अस्पृण्वत ते होचुरुपैवैतां प्रवृहस्व सहैव न एतया हविरेधीति तां दूर इवोपप्रावृहत स्वा वै म एषेति तस्मात्सोमो नाम ३.९.४.[२३] अथ यस्माद्यज्ञो नाम । घ्नन्ति वा एनमेतद्यदभिषुण्वन्ति तद्यदेनं जनयन्ति स तायमानो जायते स यन्जायते तस्माद्यञ्जो यञ्जो हवै नामैतद्यद्यज्ञ इति ३.९.४.[२४] तत्रैतामपि वाचमुवाद । त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वच इति मर्त्यो हैवैतद्भवन्नुवाच त्वमेवेतो जनयितासि नान्यस्त्वदिति ३.९.४.[२५] अथ निग्राभ्याभ्यो ग्रहान्विगृह्णते । आपो ह वै वृत्रं जघ्नुस्तेनैवैतद्वीर्येणापः स्यन्दन्ते स्यन्दमानानां वै वसतीवरीर्गृह्णाति वसतीवरीभ्यो निग्राभ्या निग्राब्याभ्यो ग्रहान्विगृह्णते तेनैवैतद्वीर्येण ग्रहान्विगृह्णते होतृचमसाद्योषा वा ऋग्घोता योषायै वा इमाः प्रजाः प्रजायन्ते तदेनमेतस्यै योषाया ऋचो होतुः प्रजनयति तस्माद्धोतृचमसात्  

Search

Search here.