शिवसूत्र वार्तिक:

ग्रंथालय  > सुत्र व तंत्र ग्रंथ Posted at 2016-03-12 07:20:37
शिवसूत्र प्रथम उन्मेष चैतन्यमात्मा ॥ वार्त्तिक १.१ ॥ [<शिवसूत्रवार्तिक:> चैतन्यं चित्क्रियारूपं शिवस्य परमस्य यत् ॥ वार्त्तिक १.१:१ ॥ स्वातन्त्र्यमेतदेवात्मा ततोऽसौ परमः शिवः ॥ वार्त्तिक १.१:२ ॥ अथवा कोऽयमात्मेति प्रष्ट्बोधयितुं शिशून् ॥ वार्त्तिक १.१:३ ॥ नात्मा देहो न च प्राणो न मनः खं न शून्यभूः ॥ वार्त्तिक १.१:४ ॥ किंतु चैतन्यमेवात्मेत्यादिष्टं परमेष्ठिना ॥ वार्त्तिक १.१:५ ॥ अथ चैतन्यमेवैतदात्मा स्वाभाविकं वपुः ॥ वार्त्तिक १.१:६ ॥ विशेषाचोदनादस्य जगतश्चेत्यरूपिणः ॥ वार्त्तिक १.१:७ ॥ अचेत्यमानं कस्यापि वपुः किमपि नो भवेत् ॥ वार्त्तिक १.१:८ ॥ चेत्यमानं तु चिद्रूपतादात्म्याच्चिन्मयं भवेत् ॥ वार्त्तिक १.१:९ ॥ एवं शिवोक्तया नीत्या जङ्गमस्थावरात्मनः ॥ वार्त्तिक १.१:१० ॥ चैतन्यमेव विश्वस्य स्वरूपं पारमार्थिकम् ॥ वार्त्तिक १.१:११ ॥ नन्वेवंविधविश्वस्य चैतन्यं चेद्वपुस्तदा ॥ वार्त्तिक १.१:१२ ॥ कथं बन्धस्य सम्बन्ध इति शङ्कां व्यपोहितुम् ॥ वार्त्तिक १.१:१३ ॥ प्रश्लेषाश्लेषपाठाभ्यां सूत्रमाह महेश्वरः ॥ वार्त्तिक १.१:१४ ॥] ज्ञानं बन्धः ॥ वार्त्तिक १.२ ॥ [<शिवसूत्रवार्तिक:> अज्ञानमिति तत्राद्यं चैतन्यस्फाररूपिणि ॥ वार्त्तिक १.२:१ ॥ आत्मन्यनात्मताज्ञानं ज्ञानं पुनरनात्मनि ॥ वार्त्तिक १.२:२ ॥ देहादावात्ममानित्वं द्वयमप्येतदाणवम् ॥ वार्त्तिक १.२:३ ॥ मलं स्वकल्पितं स्वस्मिन् बन्धः स्वेच्छाविभावितः ॥ वार्त्तिक १.२:४ ॥ किमाणवमलात्मैव बन्धोऽयं नेत्युदीर्यते ॥ वार्त्तिक १.२:५ ॥] योनिवर्गः कलाशरीरम् ॥ वार्त्तिक १.३ ॥ [<शिवसूत्रवार्तिक:> योनिर्भेदप्रथाहेतुर्माया वर्गस्तदुत्थितः ॥ वार्त्तिक १.३:१ ॥ कलादिक्षितिपर्यन्ततत्त्वराशिस्तदात्मकः ॥ वार्त्तिक १.३:२ ॥ मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम् ॥ वार्त्तिक १.३:३ ॥ कलेति कायमाविश्य परिच्छेदकरी नृणाम् ॥ वार्त्तिक १.३:४ ॥ व्यापृतिः पुण्यपापात्मा शरीरं यस्य तत्पुनः ॥ वार्त्तिक १.३:५ ॥ कार्मं च मलमेतस्मिन् द्वये बन्धोऽनुवर्तते ॥ वार्त्तिक १.३:६ ॥ ईश्वरप्रत्यभिज्ञायामुक्तमेतन्मलत्रयम् ॥ वार्त्तिक १.३:७ ॥ स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ॥ वार्त्तिक १.३:८ ॥ द्विधाणवं मलमिदं स्वस्वरूपापहारतः ॥ वार्त्तिक १.३:९ ॥ भिन्नवेद्यप्रथात्रैव मायीयं जन्मभोगदम् ॥ वार्त्तिक १.३:१० ॥ कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥ वार्त्तिक १.३:११ ॥ इत्यथैषां मलानां तु बन्धकत्वं निरूप्यते ॥ वार्त्तिक १.३:१२ ॥] ज्ञानाधिष्ठानं मातृका ॥ वार्त्तिक १.४ ॥ [<शिवसूत्रवार्तिक:> अपूर्णमन्यतारूपं भिन्नवेद्यप्रथात्मकम् ॥ वार्त्तिक १.४:१ ॥ शुभाशुभात्मकाशेषकर्मसंस्कारविग्रहम् ॥ वार्त्तिक १.४:२ ॥ त्रिविधं मलमुक्तं यत्तदेव ज्ञानमुच्यते ॥ वार्त्तिक १.४:३ ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ॥ वार्त्तिक १.४:४ ॥ अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥ वार्त्तिक १.४:५ ॥ इत्युक्तनीत्या ज्ञानस्य विविधस्यास्य मातृका ॥ वार्त्तिक १.४:६ ॥ अकारादिक्षकारान्तपञ्चाशद्वर्णविग्रहा ॥ वार्त्तिक १.४:७ ॥ शिवादिक्षितिपर्यन्ततत्त्वग्रामप्रसूतिभूः ॥ वार्त्तिक १.४:८ ॥ करन्ध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः ॥ वार्त्तिक १.४:९ ॥ पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ॥ वार्त्तिक १.४:१० ॥ इति श्रीतिमिरोद्घाटप्रोक्तनीत्यनुसारतः ॥ वार्त्तिक १.४:११ ॥ स्वरादिवर्गाधिष्ठातृमातृचक्रपरिष्कृता ॥ वार्त्तिक १.४:१२ ॥ अपूर्णोऽहमहं पूर्णोऽहं कृशोऽहं कृशेतरः ॥ वार्त्तिक १.४:१३ ॥ इति शब्दानुवेधेन शोकहर्षादिकारिका ॥ वार्त्तिक १.४:१४ ॥ अधिष्ठानमधिष्ठात्री तदधिष्ठानतो नृणाम् ॥ वार्त्तिक १.४:१५ ॥ अलब्धान्तर्मुखस्वात्मविश्रान्तीनि निरन्तरम् ॥ वार्त्तिक १.४:१६ ॥ बहिर्मुखानि ज्ञानानि कथ्यन्ते बन्धहेतवः ॥ वार्त्तिक १.४:१७ ॥ अथेदृग्बन्धसम्बन्धप्रशमोपाय उच्यते ॥ वार्त्तिक १.४:१८ ॥ परमोपेयविश्रान्तिसतत्त्वः परमेष्ठिना ॥ वार्त्तिक १.४:१९ ॥] उद्यमो भैरवः ॥ वार्त्तिक १.५ ॥ [<शिवसूत्रवार्तिक:> योऽयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः ॥ वार्त्तिक १.५:१ ॥ झटित्युच्छलनाकारप्रतिभोन्मज्जनात्मकः ॥ वार्त्तिक १.५:२ ॥ उद्यमोऽन्तःपरिस्पन्दः पूर्णाहम्भावनात्मकः ॥ वार्त्तिक १.५:३ ॥ स एव सर्वशक्तीनां सामरस्यादशेषतः ॥ वार्त्तिक १.५:४ ॥ विश्वतो भरितत्वेन विकल्पानां विभेदिनाम् ॥ वार्त्तिक १.५:५ ॥ अलं कवलनेनापीत्यन्वर्थादेव भैरवः ॥ वार्त्तिक १.५:६ ॥ अथेदृग्भैरवापत्तेर्बन्धप्रशमकारणात् ॥ वार्त्तिक १.५:७ ॥ व्युत्थानं च भवेच्छान्तभेदाभासमितीर्यते ॥ वार्त्तिक १.५:८ ॥] शक्तिचक्रसंधाने विश्वसंहारः ॥ वार्त्तिक १.६ ॥ [<शिवसूत्रवार्तिक:> योऽयमुक्तः स्वसंवित्तेरुद्यमो भैरवात्मकः ॥ वार्त्तिक १.६:१ ॥ अस्यास्ति महती शक्तिरतिक्रान्तक्रमाक्रमा ॥ वार्त्तिक १.६:२ ॥ निःशेषनिजचिच्छक्तिचक्राक्रमणलम्पटा ॥ वार्त्तिक १.६:३ ॥ रिक्तारिक्तोभयाकाराप्यनेतद्रूपिणी परा ॥ वार्त्तिक १.६:४ ॥ ययैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः ॥ वार्त्तिक १.६:५ ॥ परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया ॥ वार्त्तिक १.६:६ ॥ सृष्टिस्थितिलयानाख्याभासशक्तिप्रसारणात् ॥ वार्त्तिक १.६:७ ॥ प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम् ॥ वार्त्तिक १.६:८ ॥ तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः ॥ वार्त्तिक १.६:९ ॥ संधानमान्तराम्नायाम्नातक्रमविमर्शनम् ॥ वार्त्तिक १.६:१० ॥ तस्मिन् सत्यस्य विश्वस्य कालाग्न्यादिकलावधेः ॥ वार्त्तिक १.६:११ ॥ संहारः स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः ॥ वार्त्तिक १.६:१२ ॥ एवं स्वसंवित्कालाग्निप्लुष्टभेदस्य योगिनः ॥ वार्त्तिक १.६:१३ ॥ न स्यात्समाधिव्युत्थानभेदः कोऽपीति कथ्यते ॥ वार्त्तिक १.६:१४ ॥ जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ वार्त्तिक १.६:१५ ॥ उद्यमो भैरव इति प्रोक्तरूपं स्फुरद्वपुः ॥ वार्त्तिक १.६:१६ ॥ तुर्यं नाम परं धाम तदाभोगश्चमत्क्रिया ॥ वार्त्तिक १.६:१७ ॥ भेदेऽपि जाग्रदादीनां योगिनस्तस्य सम्भवः ॥ वार्त्तिक १.६:१८ ॥ अनुस्यूतिः परानन्दरूपा स्यादिति शिष्यते ॥ वार्त्तिक १.६:१९ ॥ जाग्रदादित्रयं सूत्रत्रयेण लक्ष्यते क्रमात् ॥ वार्त्तिक १.६:२० ॥] ज्ञानं जाग्रत् ॥ वार्त्तिक १.७ ॥ स्वप्नो विकल्पाः ॥ वार्त्तिक १.८ ॥ अविवेको माया सौषुप्तम् ॥ वार्त्तिक १.९ ॥ [<शिवसूत्रवार्तिक:> ज्ञानं बाह्याक्षजं जाग्रत्सर्वसाधारणार्थकम् ॥ वार्त्तिक १.९:१ ॥ स्वप्नः स्वात्मैव सम्प्रोक्तो विकल्पाः स्वात्मसम्भवाः ॥ वार्त्तिक १.९:२ ॥ अविवेको निजाख्यातिर्माया मोहस्तदात्मकः ॥ वार्त्तिक १.९:३ ॥ सौषुप्तं योगिनामेतत्त्रितयं धारणादिकम् ॥ वार्त्तिक १.९:४ ॥ ईश्वरप्रत्यभिज्ञायां जागराद्यपि लक्षितम् ॥ वार्त्तिक १.९:५ ॥ शून्ये बुद्ध्याद्यभावात्मन्यहंताकर्तृतापदे ॥ वार्त्तिक १.९:६ ॥ अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ वार्त्तिक १.९:७ ॥ साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता ॥ वार्त्तिक १.९:८ ॥ जीवनाख्याथवा प्राणेऽहंता पुर्यष्टकात्मिका ॥ वार्त्तिक १.९:९ ॥ तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् ॥ वार्त्तिक १.९:१० ॥ सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ वार्त्तिक १.९:११ ॥ मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् ॥ वार्त्तिक १.९:१२ ॥ स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ वार्त्तिक १.९:१३ ॥ सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ॥ वार्त्तिक १.९:१४ ॥ सृष्टिः साधारणी सर्वप्रमात्णां स जागरः ॥ वार्त्तिक १.९:१५ ॥ इति विस्तरतः प्रोक्ते लोकयोग्यनुसारतः ॥ वार्त्तिक १.९:१६ ॥ जागरादित्रयेऽमुष्मिन्नवधानेन जाग्रतः ॥ वार्त्तिक १.९:१७ ॥ शक्तिचक्रानुसंधानाद्विश्वसंहारकारणात् ॥ वार्त्तिक १.९:१८ ॥ तुर्याभोगमयाभेदख्यातिरख्यातिहारिणी ॥ वार्त्तिक १.९:१९ ॥ स्फुरत्यविरतं यस्य स तद्धाराधिरोहतः ॥ वार्त्तिक १.९:२० ॥ तुर्यातीतमयं योगी प्रोक्तचैतन्यमामृशन् ॥ वार्त्तिक १.९:२१ ॥] त्रितयभोक्ता वीरेशः ॥ वार्त्तिक १.१० ॥ [<शिवसूत्रवार्तिक:> जागरादित्रयं प्रोक्तशक्तिचक्रानुसंधितः ॥ वार्त्तिक १.१०:१ ॥ तुर्यानन्दरसासाराच्छुरितं भेदवर्जनात् ॥ वार्त्तिक १.१०:२ ॥ आनन्दरसनिर्मग्नं परमं व्योम भावयन् ॥ वार्त्तिक १.१०:३ ॥ त्रितयस्यास्य यो भोक्ता चमत्कर्ता स योगिराट् ॥ वार्त्तिक १.१०:४ ॥ त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ॥ वार्त्तिक १.१०:५ ॥ विद्यात्तदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ वार्त्तिक १.१०:६ ॥ इत्युक्तनिष्प्रतिद्वन्द्विसंवित्साम्राज्यवैभवः ॥ वार्त्तिक १.१०:७ ॥ चिद्घनः स्वात्मविज्ञानपरमानन्दनिर्भरः ॥ वार्त्तिक १.१०:८ ॥ वीरेशो येन वीराणां भेदग्रसनकारिणाम् ॥ वार्त्तिक १.१०:९ ॥ अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वरः ॥ वार्त्तिक १.१०:१० ॥ किमस्य परचित्तत्त्वारोहविश्रान्तिसूचिकाः ॥ वार्त्तिक १.१०:११ ॥ भूमिकाः सन्त्ययं याभिर्याति सर्वोत्तरां स्थितिम् ॥ वार्त्तिक १.१०:१२ ॥ इत्यन्तेवासिहृच्छङ्काशान्त्यै सन्तीत्युदीर्यते ॥ वार्त्तिक १.१०:१३ ॥] विस्मयो योगभूमिकाः ॥ वार्त्तिक १.११ ॥ [<शिवसूत्रवार्तिक:> यथा सातिशयानन्दे कस्यचिद्विस्मयो भवेत् ॥ वार्त्तिक १.११:१ ॥ तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने ॥ वार्त्तिक १.११:२ ॥ निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये ॥ वार्त्तिक १.११:३ ॥ परे स्वात्मन्यतृप्त्यैव यदाश्चर्यं स विस्मयः ॥ वार्त्तिक १.११:४ ॥ स एव खलु योगस्य परतत्त्वैक्यरूपिणः ॥ वार्त्तिक १.११:५ ॥ भूमिकास्तत्क्रमारोहपरविश्रान्तिसूचिकाः ॥ वार्त्तिक १.११:६ ॥ ईर्दृग्विस्मयवद्योगभूमिकारूढचेतसः ॥ वार्त्तिक १.११:७ ॥] इच्छा शक्तिरुमा कुमारी ॥ वार्त्तिक १.१२ ॥ [<शिवसूत्रवार्तिक:> परभैरवतां युक्त्या समापन्नस्य शाश्वतीम् ॥ वार्त्तिक १.१२:१ ॥ तस्यैव योगिनो येच्छा शक्तिः सैव भवत्युमा ॥ वार्त्तिक १.१२:२ ॥ परा भट्टारिका सैव कुमारीति प्रकीर्तिता ॥ वार्त्तिक १.१२:३ ॥ सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया ॥ वार्त्तिक १.१२:४ ॥ कुमारी कुं महामायाभूमिं मारयतीत्यपि ॥ वार्त्तिक १.१२:५ ॥ कुमारी चोपभोग्यास्य योगिनो भैरवात्मनः ॥ वार्त्तिक १.१२:६ ॥ कुमारी नान्यभोग्या च भोक्त्रैकात्म्येन तिष्ठति ॥ वार्त्तिक १.१२:७ ॥ उमा कुमारी संत्यक्तसर्वासङ्गा महेशितुः ॥ वार्त्तिक १.१२:८ ॥ आराधनपरा तद्वदिच्छा शक्तिस्तु योगिनः ॥ वार्त्तिक १.१२:९ ॥ अयमेव स्फुटः पाठो दृष्टोऽनुत्तरदैशिकैः ॥ वार्त्तिक १.१२:१० ॥ व्याख्यातश्च परैः शक्तितमेतिपठनात्पुनः ॥ वार्त्तिक १.१२:११ ॥ प्रकर्षो व्याकृतोऽमुष्याः शक्तेर्ज्ञानक्रियात्मतः ॥ वार्त्तिक १.१२:१२ ॥ एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः ॥ वार्त्तिक १.१२:१३ ॥] दृश्यं शरीरम् ॥ वार्त्तिक १.१३ ॥ [<शिवसूत्रवार्तिक:> यद्यद्दृश्यमशेषं तच्छरीरं तस्य योगिनः ॥ वार्त्तिक १.१३:१ ॥ अहमित्यपृथक्त्वेन पतिवत्प्रतिभासनात् ॥ वार्त्तिक १.१३:२ ॥ शरीरं देहधीप्राणशून्यरूपं घटादिवत् ॥ वार्त्तिक १.१३:३ ॥ दृश्यमेवास्य पशुवत्द्रष्टृत्वेन न भासते ॥ वार्त्तिक १.१३:४ ॥ एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः ॥ वार्त्तिक १.१३:५ ॥ मयूराण्डरसन्यायात्प्रतिपत्तिरभेदिनी ॥ वार्त्तिक १.१३:६ ॥ दृश्यं शरीरतामेति शरीरं चापि दृश्यताम् ॥ वार्त्तिक १.१३:७ ॥ इत्युक्तं योगिनो यत्तन्न दुर्घटमितीर्यते ॥ वार्त्तिक १.१३:८ ॥ हृदये चित्तसंघट्टाद्दृश्यस्वापदर्शनम् ॥ वार्त्तिक १.१३:९ ॥ हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ वार्त्तिक १.१३:१० ॥ इत्युक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः ॥ वार्त्तिक १.१३:११ ॥ स्वसंवित्तत्र संघट्टश्चित्तस्य चलतः सतः ॥ वार्त्तिक १.१३:१२ ॥ तदैकात्म्यपरामर्शजागरूकस्वभावता ॥ वार्त्तिक १.१३:१३ ॥ तस्माद्दृश्यस्य विश्वस्य नीलदेहादिरूपिणः ॥ वार्त्तिक १.१३:१४ ॥ स्वापस्यैतदभावस्य शून्यस्यापि च दर्शनम् ॥ वार्त्तिक १.१३:१५ ॥ स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ॥ वार्त्तिक १.१३:१६ ॥ इति श्रीप्रत्यभिज्ञोक्तनीत्या पत्युरिव प्रभोः ॥ वार्त्तिक १.१३:१७ ॥ स्वाङ्गकल्पतया तस्य यथावत्प्रथनं भवेत् ॥ वार्त्तिक १.१३:१८ ॥ उक्तेऽप्येवं प्रमेयेऽस्मिन्नुपायान्तरमुच्यते ॥ वार्त्तिक १.१३:१९ ॥] शुद्धतत्त्वसंधानाद्वापशुशक्तिः ॥ वार्त्तिक १.१४ ॥ [<शिवसूत्रवार्तिक:> शुद्धं तत्त्वं परं वस्तु यत्तत्परशिवात्मकम् ॥ वार्त्तिक १.१४:१ ॥ तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनम् ॥ वार्त्तिक १.१४:२ ॥ तेनैव यस्य पश्वाख्या बन्धशक्तिर्न विद्यते ॥ वार्त्तिक १.१४:३ ॥ तत्सदाशिववत्सोऽपि विश्वस्य जगतः पतिः ॥ वार्त्तिक १.१४:४ ॥ शुद्धतत्त्वानुसंधानवत एवास्य योगिनः ॥ वार्त्तिक १.१४:५ ॥] वितर्क आत्मज्ञानम् ॥ वार्त्तिक १.१५ ॥ [<शिवसूत्रवार्तिक:> वितर्कः प्रोक्तसंधानध्वस्तबन्धस्य योगिनः ॥ वार्त्तिक १.१५:१ ॥ विश्वात्मा शिव एवाहमस्मीत्यर्थविचिन्तनम् ॥ वार्त्तिक १.१५:२ ॥ एतदेव स्फुरद्रूपमात्मनो ज्ञानमुच्यते ॥ वार्त्तिक १.१५:३ ॥ किं चास्य प्रोक्तवैतर्कस्वात्मविज्ञानशालिनः ॥ वार्त्तिक १.१५:४ ॥] लोकानन्दः समाधिसुखम् ॥ वार्त्तिक १.१६ ॥ [<शिवसूत्रवार्तिक:> लोक्यं लोकयिता चेति लोकश्चेत्यचिदात्मनि ॥ वार्त्तिक १.१६:१ ॥ तत्तद्रूपतया तस्मिं लोके स्फुरति योगिनः ॥ वार्त्तिक १.१६:२ ॥ ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ॥ वार्त्तिक १.१६:३ ॥ योगिनां तु विशेषोऽयं सम्बन्धे सावधानता ॥ वार्त्तिक १.१६:४ ॥ इत्युक्तनीत्या तत्सर्वमहमित्यनुसंहितेः ॥ वार्त्तिक १.१६:५ ॥ आनन्दो यो भवत्यन्तस्तत्समाधिसुखं स्मृतम् ॥ वार्त्तिक १.१६:६ ॥ यत्समाधिसुखं तस्य स्वात्मारामस्य योगिनः ॥ वार्त्तिक १.१६:७ ॥ तदेव लोके लोकानामानन्दोऽन्तर्विचिन्वताम् ॥ वार्त्तिक १.१६:८ ॥ विभूतियोगमेतस्य दर्शयत्यथ योगिनः ॥ वार्त्तिक १.१६:९ ॥] शक्तिसंधाने शरीरोत्पत्तिः ॥ वार्त्तिक १.१७ ॥ [<शिवसूत्रवार्तिक:> इच्छा शक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या ॥ वार्त्तिक १.१७:१ ॥ संधाने योगिनस्तस्यास्तन्मयीभावने सति ॥ वार्त्तिक १.१७:२ ॥ तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते ॥ वार्त्तिक १.१७:३ ॥ अन्याश्च सिद्धयस्तस्य सम्भवन्तीत्युदीर्यते ॥ वार्त्तिक १.१७:४ ॥] भूतसंधानभूतपृथक्त्वविश्वसंघट्टाः ॥ वार्त्तिक १.१८ ॥ [<शिवसूत्रवार्तिक:> भूतानां देहधीप्राणशून्यानां ग्राहकात्मनाम् ॥ वार्त्तिक १.१८:१ ॥ ग्राह्याणां स्थावराणां च संधानं परिपोषणम् ॥ वार्त्तिक १.१८:२ ॥ पृथक्त्वमथ विश्लेषो व्याध्यादिक्लेशशान्तये ॥ वार्त्तिक १.१८:३ ॥ विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः ॥ वार्त्तिक १.१८:४ ॥ संघट्टश्चक्षुराद्यक्षप्रत्यक्षीकरणादिकम् ॥ वार्त्तिक १.१८:५ ॥ एतत्सर्वं भवेच्छक्तिसंधाने सति योगिनः ॥ वार्त्तिक १.१८:६ ॥ यदा परिमिताः सिद्धीरनिच्छन् पुनरिच्छति ॥ वार्त्तिक १.१८:७ ॥ विश्वात्मताप्रथारूपां परां सिद्धिं तदास्य तु ॥ वार्त्तिक १.१८:८ ॥] शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ वार्त्तिक १.१९ ॥ [<शिवसूत्रवार्तिक:> वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिमात्मनः ॥ वार्त्तिक १.१९:१ ॥ यदा योगी तदा तस्य सदाशिवपदस्पृशः ॥ वार्त्तिक १.१९:२ ॥ ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ॥ वार्त्तिक १.१९:३ ॥ सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ वार्त्तिक १.१९:४ ॥ इति नीत्या जगत्सर्वमहमेवेति या मतिः ॥ वार्त्तिक १.१९:५ ॥ सा शुद्धा निर्मला विद्या तदीयादुदयात्स्फुटम् ॥ वार्त्तिक १.१९:६ ॥ उन्मज्जनात्स चिच्छक्तिमात्मनो नित्यमामृशेत् ॥ वार्त्तिक १.१९:७ ॥ यदा योगी तदा तस्य चक्रेशत्वमनुत्तरम् ॥ वार्त्तिक १.१९:८ ॥ माहेश्वर्यं समावेशोत्कर्षात्सिध्यति योगिनः ॥ वार्त्तिक १.१९:९ ॥ विश्वात्मकतदुत्तीर्णस्वात्मारामत्वमेव सः ॥ वार्त्तिक १.१९:१० ॥ इच्छति स्वच्छचिद्रूपो यदा योगी तदास्य तु ॥ वार्त्तिक १.१९:११ ॥] महाह्रदानुसंधानान्मन्त्रवीर्यानुभवः ॥ वार्त्तिक १.२० ॥ [<शिवसूत्रवार्तिक:> परा भट्टारिका संविदिच्छाशक्तिपुरःसरम् ॥ वार्त्तिक १.२०:१ ॥ स्थूलप्रमेयपर्यन्तं वमन्ती विश्वमान्तरम् ॥ वार्त्तिक १.२०:२ ॥ प्रमात्रन्तर्बहीरूपहृषीकविषयात्मनाम् ॥ वार्त्तिक १.२०:३ ॥ खेचर्यादिप्रवाहाणां बाह्याभ्यन्तररूपिणाम् ॥ वार्त्तिक १.२०:४ ॥ प्रवर्तकत्वात्स्वच्छत्वगम्भीरत्वादिधर्मतः ॥ वार्त्तिक १.२०:५ ॥ महाह्रदो जगद्व्यापी देशकालाद्यगोचरः ॥ वार्त्तिक १.२०:६ ॥ अन्तस्तस्यानुसंधानात्तादात्म्यस्यावमर्शनात् ॥ वार्त्तिक १.२०:७ ॥ अकारादिक्षकारान्तशब्दराशिप्रथात्मनः ॥ वार्त्तिक १.२०:८ ॥ क्षित्यादिशिवपर्यन्ततत्त्वान्तःक्षोभकारिणः ॥ वार्त्तिक १.२०:९ ॥ मन्त्रवीर्यस्य सर्वेषां मन्त्राणां प्राणरूपिणः ॥ वार्त्तिक १.२०:१० ॥ पराहंतापरामर्शमयस्यानुभवः स्फुटम् ॥ वार्त्तिक १.२०:११ ॥ अखिलं वाचकं वाच्यमहमित्यवमर्शनम् ॥ वार्त्तिक १.२०:१२ ॥ योगिनः सावधानस्य भवतीत्येव शिष्यते ॥ वार्त्तिक १.२०:१३ ॥ स्फुटीकरोमि संक्षेपात्तत्प्रमेयं पुरोदितम् ॥ वार्त्तिक १.२०:१४ ॥ महाह्रद इति प्रोक्ता शक्तिर्भगवती परा ॥ वार्त्तिक १.२०:१५ ॥ अनुसंधानमित्युक्तं तत्तादात्म्यविमर्शनम् ॥ वार्त्तिक १.२०:१६ ॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहंताविमर्शनम् ॥ वार्त्तिक १.२०:१७ ॥ तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुटम् ॥ वार्त्तिक १.२०:१८ ॥ इति श्रीशाम्भवोपायप्रकाशनपरायणः ॥ वार्त्तिक १.२०:१९ ॥ उन्मेषः प्रथमः सम्यक्स्वरूपोन्मेषलक्षणः ॥ वार्त्तिक १.२०:२० ॥] शिवसूत्र, द्वितीय उन्मेष चित्तं मन्त्रः ॥ वार्त्तिक २.१ ॥ [<शिवसूत्रवार्तिक:> चेत्यतेऽनेन परमं स्वात्मतत्त्वं विमृश्यते ॥ वार्त्तिक २.१:१ ॥ इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ वार्त्तिक २.१:२ ॥ तदेव मन्त्र्यते गुप्तमभेदेन विमृश्यते ॥ वार्त्तिक २.१:३ ॥ स्वस्वरूपमनेनेति मन्त्रस्तेनास्य दैशिकैः ॥ वार्त्तिक २.१:४ ॥ पूर्णाहंतानुसंध्यात्मस्फूर्जन्मननधर्मता ॥ वार्त्तिक २.१:५ ॥ संसारक्षयकृत्त्राणधर्मता च निरुच्यते ॥ वार्त्तिक २.१:६ ॥ तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यकम् ॥ वार्त्तिक २.१:७ ॥ आराधकस्य चित्तं च मन्त्रस्तद्धर्मयोगतः ॥ वार्त्तिक २.१:८ ॥ अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः ॥ वार्त्तिक २.१:९ ॥] प्रयत्नः साधकः ॥ वार्त्तिक २.२ ॥ [<शिवसूत्रवार्तिक:> उक्तमन्त्रानुसंधानावष्टम्भोद्यन्तृतात्मकः ॥ वार्त्तिक २.२:१ ॥ प्रयत्नोऽन्तःस्वसंरम्भः स एव खलु साधकः ॥ वार्त्तिक २.२:२ ॥ यतो मन्त्रयितुर्मन्त्रदेवतैक्यप्रदः स्मृतः ॥ वार्त्तिक २.२:३ ॥ ईदृक्साधकसाध्यस्य मन्त्रस्य प्रथमोदितम् ॥ वार्त्तिक २.२:४ ॥ वीर्यं विस्तरतः सम्यग्वर्ण्यतेऽथ सलक्षणम् ॥ वार्त्तिक २.२:५ ॥] विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ वार्त्तिक २.३ ॥ [<शिवसूत्रवार्तिक:> विद्येति परमाद्वैतसम्प्रवेदनरूपिणी ॥ वार्त्तिक २.३:१ ॥ शरीरं यस्य भगवान् शब्दराशिः स उच्यते ॥ वार्त्तिक २.३:२ ॥ तस्य सत्ता समस्ताध्वपूर्णाहंतास्वरूपिणी ॥ वार्त्तिक २.३:३ ॥ स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणाम् ॥ वार्त्तिक २.३:४ ॥ गुप्तार्थताया जननं रहस्यमिति कथ्यते ॥ वार्त्तिक २.३:५ ॥ एतच्छ्रीक्षेमराजेन तन्त्रसारात्समुद्धृतैः ॥ वार्त्तिक २.३:६ ॥ संवादैः संमतैः सम्यग्वर्णितं निजवृत्तिगैः ॥ वार्त्तिक २.३:७ ॥ सम्यगेवंविधं मन्त्रवीर्यं येषां यथातथम् ॥ वार्त्तिक २.३:८ ॥ महाह्रदानुसंधानप्रकारावेदितं त्वपि ॥ वार्त्तिक २.३:९ ॥ इच्छयैव महेशस्य हृदयंगमतां दृढम् ॥ वार्त्तिक २.३:१० ॥ न गच्छत्यथ तुच्छायां चित्तं सिद्धौ प्ररोहति ॥ वार्त्तिक २.३:११ ॥ बिन्दुनादादिजातायां तेषां तु मितयोगिनाम् ॥ वार्त्तिक २.३:१२ ॥] गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ वार्त्तिक २.४ ॥ [<शिवसूत्रवार्तिक:> गर्भोऽख्यातिर्महामाया तन्मये सिद्धिसंचये ॥ वार्त्तिक २.४:१ ॥ विकासो नाम चित्तस्य तावन्मात्रे कृतार्थता ॥ वार्त्तिक २.४:२ ॥ सैवाविशिष्टा विद्येति किंचिज्ज्ञत्वस्वरूपिणी ॥ वार्त्तिक २.४:३ ॥ अशुद्धविद्या सा स्वप्नो विकल्पप्रत्ययामकः ॥ वार्त्तिक २.४:४ ॥ आगता अपि ताः सिद्धीः खलीकृत्य यदा पुनः ॥ वार्त्तिक २.४:५ ॥ अवष्टभ्नात्यसौ योगी परां सिद्धिं तदाश्नुते ॥ वार्त्तिक २.४:६ ॥] विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ वार्त्तिक २.५ ॥ [<शिवसूत्रवार्तिक:> विद्यायाः प्राक्समाख्यातरूपायाः शंकरेच्छया ॥ वार्त्तिक २.५:१ ॥ स्वाभाविके समुत्थाने समुल्लासे स्वभावजे ॥ वार्त्तिक २.५:२ ॥ उन्मज्जने सति क्षुद्रसिद्धिमज्जनतत्परे ॥ वार्त्तिक २.५:३ ॥ अवस्था या शिवस्यान्तरवस्थातुरभेदिनी ॥ वार्त्तिक २.५:४ ॥ स्फुरत्ता सैव सम्पूर्णस्वानन्दोच्छलनात्मिकाम् ॥ वार्त्तिक २.५:५ ॥ मुदं रातीत्यतो मुद्रा खेचरी च नभश्चरी ॥ वार्त्तिक २.५:६ ॥ व्यज्यते योगिनो विश्वग्विश्वोत्तीर्णस्वरूपिणः ॥ वार्त्तिक २.५:७ ॥ एवंप्रभावयोर्वीर्यासादने मन्त्रमुद्रयोः ॥ वार्त्तिक २.५:८ ॥] गुरुरुपायः ॥ वार्त्तिक २.६ ॥ [<शिवसूत्रवार्तिक:> सम्यग्ज्ञानक्रियाप्राणमन्त्रमुद्रायथास्थितिम् ॥ वार्त्तिक २.६:१ ॥ गृणात्युपदिशत्यर्थं तद्वीर्यं चेत्यतो गुरुः ॥ वार्त्तिक २.६:२ ॥ स एव मन्त्रमुद्राणां वीर्यव्याप्तिप्रकाशनात् ॥ वार्त्तिक २.६:३ ॥ उपायः कथ्यते साक्षादुपेयं परमं प्रति ॥ वार्त्तिक २.६:४ ॥ यद्वा गुरुः परा शक्तिरीश्वरानुग्रहात्मिका ॥ वार्त्तिक २.६:५ ॥ अवकाशप्रदानेन सैव यायादुपायताम् ॥ वार्त्तिक २.६:६ ॥ स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ वार्त्तिक २.६:७ ॥ आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ वार्त्तिक २.६:८ ॥ गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् ॥ वार्त्तिक २.६:९ ॥ इति श्रीमालिनीशास्त्रसिद्धातन्त्रोक्तवैभवात् ॥ वार्त्तिक २.६:१० ॥ अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदकात् ॥ वार्त्तिक २.६:११ ॥ परमेष्ठिसमात्तस्मात्परमोपायतो गुरोः ॥ वार्त्तिक २.६:१२ ॥] मातृकाचक्रसंबोधः ॥ वार्त्तिक २.७ ॥ [<शिवसूत्रवार्तिक:> मन्त्रमुद्रानुसंधानसंततोद्युक्तचेतसः ॥ वार्त्तिक २.७:१ ॥ भवत्युक्तगुरोः प्रीतात्साधकस्येति शिष्यते ॥ वार्त्तिक २.७:२ ॥ अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः ॥ वार्त्तिक २.७:३ ॥ तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ वार्त्तिक २.७:४ ॥ पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु ॥ वार्त्तिक २.७:५ ॥ क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ वार्त्तिक २.७:६ ॥ वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् ॥ वार्त्तिक २.७:७ ॥ तदूर्ध्वे शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥ वार्त्तिक २.७:८ ॥ अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता ॥ वार्त्तिक २.७:९ ॥ सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ वार्त्तिक २.७:१० ॥ इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा ॥ वार्त्तिक २.७:११ ॥ इति श्रीत्रीशिकाशास्त्रप्रोक्तन्यायेन मातृका ॥ वार्त्तिक २.७:१२ ॥ अकारादिविसर्गान्तस्वरषोडशगर्भिणी ॥ वार्त्तिक २.७:१३ ॥ अत एवादिबिन्द्वन्तदशपञ्चतिथिक्रमा ॥ वार्त्तिक २.७:१४ ॥ तदात्मकतदुत्तीर्णबिन्दुद्वन्द्वविभूषिता ॥ वार्त्तिक २.७:१५ ॥ अत एव जगत्सर्वं सृजत्यन्तरनुत्तरे ॥ वार्त्तिक २.७:१६ ॥ तत्पञ्चदशकस्यान्तरुद्धृतैः पञ्चभिः स्वरैः ॥ वार्त्तिक २.७:१७ ॥ अ इ उ ऋ ळ विन्यासैः कादिमान्तं च वाचकम् ॥ वार्त्तिक २.७:१८ ॥ क्षित्यादिपुरुषान्तं च वाच्यं तत्त्वकदम्बकम् ॥ वार्त्तिक २.७:१९ ॥ पञ्चपञ्चकभेदेन पञ्चपञ्चविजृम्भितम् ॥ वार्त्तिक २.७:२० ॥ बहिश्चानुत्तरादेव सृजती विश्वमीदृशम् ॥ वार्त्तिक २.७:२१ ॥ वाय्वग्निसलिलेन्द्राणां क्रमाद्य र ल वात्मनाम् ॥ वार्त्तिक २.७:२२ ॥ अनुत्तरेच्छोन्मेषाख्यत्रितयान्योन्यसंधितः ॥ वार्त्तिक २.७:२३ ॥ किंचानुत्तरषण्ढाख्यद्वयसंधिवशादपि ॥ वार्त्तिक २.७:२४ ॥ उत्थितानां कलाविद्यामायारागाभिधायिनाम् ॥ वार्त्तिक २.७:२५ ॥ स्वरूपगोपनात्सर्वकर्तृत्वाद्यपसारतः ॥ वार्त्तिक २.७:२६ ॥ खण्डितस्य पशोः किंचित्कर्तृत्वादिप्रदायिनाम् ॥ वार्त्तिक २.७:२७ ॥ मायोर्ध्वशुद्धविद्यादितत्त्वारोहनिरोधनात् ॥ वार्त्तिक २.७:२८ ॥ मूलादधोऽवरोहस्य निरोधाच्च त्रिशण्कुवत् ॥ वार्त्तिक २.७:२९ ॥ मध्ये संस्थापितस्यास्य धारणाद्धारणात्मनाम् ॥ वार्त्तिक २.७:३० ॥ यतिस्तु भावाभावानां व्यवस्थोदयदायिनी ॥ वार्त्तिक २.७:३१ ॥ कालोऽपि तां महामायां स्वतन्त्रामनुवर्तते ॥ वार्त्तिक २.७:३२ ॥ इत्युक्त्या कालनियतियुक्तत्वात्षड्विधात्मनाम् ॥ वार्त्तिक २.७:३३ ॥ स्फारयन्ती वपुः पश्चात्तदूर्ध्वं शादिपञ्चकम् ॥ वार्त्तिक २.७:३४ ॥ सद्योजातादिकेशानपर्यन्तब्रह्मविग्रहम् ॥ वार्त्तिक २.७:३५ ॥ सूक्ष्मरूपमहीवारिवह्निवायुनभोमयम् ॥ वार्त्तिक २.७:३६ ॥ क्रमेण शुद्धविद्येशसादशक्तिशिवात्मकम् ॥ वार्त्तिक २.७:३७ ॥ विस्फारयन्ती स्वान्तःस्थं विसर्गकलया बहिः ॥ वार्त्तिक २.७:३८ ॥ कादिसान्ताक्षरान्तस्थः क्षकारोऽप्यन्तिमो यतः ॥ वार्त्तिक २.७:३९ ॥ अतोऽकारहकाराभ्यामहमित्यपृथक्तया ॥ वार्त्तिक २.७:४० ॥ प्रपंचं शिवशक्तिभ्यां क्रोडीकृत्य प्रकाशते ॥ वार्त्तिक २.७:४१ ॥ अस्यास्त्वेवंप्रभावायाश्चक्रं यत्तदिहोदितम् ॥ वार्त्तिक २.७:४२ ॥ अनुत्तरेच्छोन्मेषादिस्पन्दशक्तिकदम्बकम् ॥ वार्त्तिक २.७:४३ ॥ तत्संबोधश्चिदानन्दघनस्वात्मानुसंहितिः ॥ वार्त्तिक २.७:४४ ॥ अथेदृङ्मातृकाचक्रसंबोधोद्बोधितात्मनः ॥ वार्त्तिक २.७:४५ ॥] शरीरं हविः ॥ वार्त्तिक २.८ ॥ [<शिवसूत्रवार्तिक:> शून्यं धीः प्राण इत्येतत्सृज्यते क्षीयतेऽपि च ॥ वार्त्तिक २.८:१ ॥ स्थैर्यमस्ति परं देहापेक्षया न तु तत्त्वतः ॥ वार्त्तिक २.८:२ ॥ इत्युक्तनीत्या शून्यादेः प्रमाता त्वस्य भित्तिभूः ॥ वार्त्तिक २.८:३ ॥ शरीरं स्थूलसूक्ष्मादि चिदग्नौ परयोगिनः ॥ वार्त्तिक २.८:४ ॥ हूयमानं हविः प्रोक्तं तन्मातृत्वनिमज्जनात् ॥ वार्त्तिक २.८:५ ॥ परिपूर्णप्रकाशात्मप्रमात्रुन्मज्जनप्रदात् ॥ वार्त्तिक २.८:६ ॥ एवं शरीरहव्येन ज्वलद्बोधोर्ध्वरोचिषः ॥ वार्त्तिक २.८:७ ॥] ज्ञानमन्नम् ॥ वार्त्तिक २.९ ॥ [<शिवसूत्रवार्तिक:> ज्ञानं बन्ध इति प्रोक्तं यत्प्राक्तत्परयोगिनः ॥ वार्त्तिक २.९:१ ॥ अनात्मन्यात्मताज्ञप्तिरन्नं ग्रस्यत इत्यतः ॥ वार्त्तिक २.९:२ ॥ किं च यद्यत्प्रकाशात्मस्वरूपामर्शनात्मकम् ॥ वार्त्तिक २.९:३ ॥ ज्ञानं तत्परमाह्लादकारित्वादन्नमुच्यते ॥ वार्त्तिक २.९:४ ॥ यदा त्ववहितः शश्वद्योगी नैवं भवत्यसौ ॥ वार्त्तिक २.९:५ ॥ तदा ज्ञानवतोऽप्यस्य समाधानावलेपतः ॥ वार्त्तिक २.९:६ ॥] विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ वार्त्तिक २.१० ॥ [<शिवसूत्रवार्तिक:> विद्येति ज्ञानविस्फाररूपा या तु पुरोदिता ॥ वार्त्तिक २.१०:१ ॥ शुद्धविद्याथ संहारेऽनुत्थानेऽस्या निमज्जने ॥ वार्त्तिक २.१०:२ ॥ तदुत्थस्य क्रमेणाञ्चद्विद्यासंहारजन्मनः ॥ वार्त्तिक २.१०:३ ॥ स्वप्नस्य भेदनिष्ठस्य विकल्पौघस्य दर्शनम् ॥ वार्त्तिक २.१०:४ ॥ उन्मज्जनं भवत्यस्य प्राग्व्याख्यातोत्तमात्मनः ॥ वार्त्तिक २.१०:५ ॥ अवधानेऽवलिप्तस्य साधकस्येति शिष्यते ॥ वार्त्तिक २.१०:६ ॥ इति द्वितीय उन्मेषः शाक्तोपायप्रकाशकः ॥ वार्त्तिक २.१०:७ ॥] शिवसूत्र, तृतीय उन्मेष आत्मा चित्तम् ॥ वार्त्तिक ३.१ ॥ [<शिवसूत्रवार्तिक:> विशेषभोग्यशब्दादिवासनावेशरूपितम् ॥ वार्त्तिक ३.१:१ ॥ तत्तदध्यवसायादिव्यापारकरणोन्मुखम् ॥ वार्त्तिक ३.१:२ ॥ सत्त्वादिवृत्त्यवष्टम्भि बुद्ध्यहंकृन्मनोमयम् ॥ वार्त्तिक ३.१:३ ॥ चित्तं तत्प्रोक्तचैतन्यस्वरूपानवमर्शनात् ॥ वार्त्तिक ३.१:४ ॥ तत्तत्कर्मानुसारेण नानायोनीरनुव्रजत् ॥ वार्त्तिक ३.१:५ ॥ अततीत्यत एवात्मा ततः सोऽणुः प्रकीर्तितः ॥ वार्त्तिक ३.१:६ ॥ आत्मनश्चातनं नास्ति संविदेकस्वरूपिणः ॥ वार्त्तिक ३.१:७ ॥ अतश्चैतन्यमात्मेति धीक्रियात्मकमात्मनः ॥ वार्त्तिक ३.१:८ ॥ विश्वस्वभावभूतं तत्तात्त्विकं रूपमीरितम् ॥ वार्त्तिक ३.१:९ ॥ इदानीमेतदीयेन स्वातन्त्र्येणावभासितात् ॥ वार्त्तिक ३.१:१० ॥ संकोचादणुतायोगाच्चित्तमात्मेति लक्षितम् ॥ वार्त्तिक ३.१:११ ॥ इति पूर्वापरादेशवैषम्यं नास्ति किंचन ॥ वार्त्तिक ३.१:१२ ॥ अस्य चित्तस्वरूपस्य देहादेरात्मनस्त्वणोः ॥ वार्त्तिक ३.१:१३ ॥] ज्ञानं बन्धः ॥ वार्त्तिक ३.२ ॥ [<शिवसूत्रवार्तिक:> अन्तः सुखादिसंवेद्यव्यवसायादिवृत्तिमत् ॥ वार्त्तिक ३.२:१ ॥ बहिस्तद्योग्यनीलादिदेहादिविषयोन्मुखम् ॥ वार्त्तिक ३.२:२ ॥ भेदाभासात्मकं चास्य ज्ञानं बन्धोऽणुरूपिणः ॥ वार्त्तिक ३.२:३ ॥ तत्पाशितत्वादेवासावणुः संसरति ध्रुवम् ॥ वार्त्तिक ३.२:४ ॥ ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः ॥ वार्त्तिक ३.२:५ ॥ अनयोरपृथग्भावाज्ज्ञानी ज्ञाने प्रकाशते ॥ वार्त्तिक ३.२:६ ॥ इत्युक्तनीत्या ज्ञानं च स्वस्वरूपप्रकाशकम् ॥ वार्त्तिक ३.२:७ ॥ आत्मवत्तत्कथं तस्य बन्धकत्वप्रसङ्गिता ॥ वार्त्तिक ३.२:८ ॥ इत्याशङ्क्याह यद्येवं प्रसन्नात्परमेश्वरात् ॥ वार्त्तिक ३.२:९ ॥ प्रत्यभिज्ञा भवत्येषा तदा सत्यं त्वदीरितम् ॥ वार्त्तिक ३.२:१० ॥ तन्मायाशक्तितो नैष विमर्शोऽस्य यदा तदा ॥ वार्त्तिक ३.२:११ ॥] कलादीनां तत्त्वानामविवेको माया ॥ वार्त्तिक ३.३ ॥ [<शिवसूत्रवार्तिक:> अन्तरन्तःस्फुरत्किंचित्कर्तृत्वादिप्रदायिनाम् ॥ वार्त्तिक ३.३:१ ॥ कलादिक्षितिपर्यन्ततत्त्वानां कञ्चुकात्मनाम् ॥ वार्त्तिक ३.३:२ ॥ पुर्यष्टकमयत्वेन स्थूलदेहादिरूपतः ॥ वार्त्तिक ३.३:३ ॥ स्थितानामविवेकस्तेष्वात्मत्वेनानुसंहितिः ॥ वार्त्तिक ३.३:४ ॥ सैव सम्मोहिनी माया तत्त्वाख्यातिमयं जगत् ॥ वार्त्तिक ३.३:५ ॥ अतश्चैतज्जन्यमायाप्रशमायास्य योगिनः ॥ वार्त्तिक ३.३:६ ॥] शरीरे संहारः कलानाम् ॥ वार्त्तिक ३.४ ॥ [<शिवसूत्रवार्तिक:> महाभूतात्मके स्थूले सूक्ष्मे पुर्यष्टकात्मनि ॥ वार्त्तिक ३.४:१ ॥ मूलादिसमनान्ते च शरीरे योगिनः परे ॥ वार्त्तिक ३.४:२ ॥ कलानां तत्र भागानां कार्याणां कारणे निजे ॥ वार्त्तिक ३.४:३ ॥ संहारः संविदेकाग्निसद्भावो लयचिन्तया ॥ वार्त्तिक ३.४:४ ॥ दाहाद्यामर्शयुक्त्या वा ध्यातव्य इति शिष्यते ॥ वार्त्तिक ३.४:५ ॥ एवं ध्यानाभिधानो यः संहारोपाय ईरितः ॥ वार्त्तिक ३.४:६ ॥ एवमेतत्प्रधानांश्च प्राणायामपुरःसरान् ॥ वार्त्तिक ३.४:७ ॥ अन्यान् समाधिपर्यन्तानुपायान् दर्शयत्यसौ ॥ वार्त्तिक ३.४:८ ॥] नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि ॥ वार्त्तिक ३.५ ॥ [<शिवसूत्रवार्तिक:> भावनीयानि युक्तेन साधकेनेति शिष्यते ॥ वार्त्तिक ३.५:१ ॥ प्राणादिवाहिनाडीनां संहारः प्राणसंयमात् ॥ वार्त्तिक ३.५:२ ॥ रेचकादिक्रमोत्पादादुदानदहनात्मनि ॥ वार्त्तिक ३.५:३ ॥ मध्यनाड्यां विलीनत्वापादनं तन्मयत्वतः ॥ वार्त्तिक ३.५:४ ॥ भूतानां भूजलादीनां जयो यः स उदीर्यते ॥ वार्त्तिक ३.५:५ ॥ वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥ वार्त्तिक ३.५:६ ॥ माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता ॥ वार्त्तिक ३.५:७ ॥ आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥ वार्त्तिक ३.५:८ ॥ इति स्वच्छन्दशास्त्रोक्तधारणाभिर्वशीकृतिः ॥ वार्त्तिक ३.५:९ ॥ भूतेभ्यः किल कैवल्यं चित्तप्रत्याहृतिस्ततः ॥ वार्त्तिक ३.५:१० ॥ पृथक्त्वं तदनालिप्तस्वच्छस्वात्मैकरूपता ॥ वार्त्तिक ३.५:११ ॥ भूतसंधान इत्यादिसूत्रोक्तं यत्फलं पुरा ॥ वार्त्तिक ३.५:१२ ॥ अप्रयत्नेन साध्यं तच्छाम्भवोपायशालिनः ॥ वार्त्तिक ३.५:१३ ॥ आणवोपायसाध्यं तु यत्नेनेति विशिष्यते ॥ वार्त्तिक ३.५:१४ ॥ इत्येवं देहशुद्ध्याद्यैः समाध्यन्तैश्च या भवेत् ॥ वार्त्तिक ३.५:१५ ॥ सिद्धिः सा मोहवरणान्नात्मज्ञानादितीर्यते ॥ वार्त्तिक ३.५:१६ ॥] मोहावरणात्सिद्धिः ॥ वार्त्तिक ३.६ ॥ [<शिवसूत्रवार्तिक:> मोहो विमोहिनी माया तत्कृतावरणात्किल ॥ वार्त्तिक ३.६:१ ॥ पूर्वोक्तधारणाद्युक्त्या सिद्धिः परिमिता भवेत् ॥ वार्त्तिक ३.६:२ ॥ तत्तत्तत्त्वोपभोगात्मा न त्वस्य परचित्प्रथा ॥ वार्त्तिक ३.६:३ ॥ विनष्टमोहावेशस्य समाधौ चाग्रतः पुनः ॥ वार्त्तिक ३.६:४ ॥ मध्यमं प्राणमाश्रित्य प्राणापानपथान्तरम् ॥ वार्त्तिक ३.६:५ ॥ आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेत् ॥ वार्त्तिक ३.६:६ ॥ प्राणादिस्थूलभावं तु त्यक्त्वा सूक्ष्ममथान्तरम् ॥ वार्त्तिक ३.६:७ ॥ सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥ वार्त्तिक ३.६:८ ॥ प्राणायामः स उद्दिष्टो यस्मान्न च्यवते पुनः ॥ वार्त्तिक ३.६:९ ॥ शब्दादिगुणवृत्तिर्या चेतसा ह्यनुभूयते ॥ वार्त्तिक ३.६:१० ॥ त्यक्त्वा तां परमं धाम प्रविशेत्तत्स्वचेतसा ॥ वार्त्तिक ३.६:११ ॥ प्रत्याहार इति प्रोक्तो भवपाशनिकृन्तनः ॥ वार्त्तिक ३.६:१२ ॥ धीगुणान् समतिक्रम्य निर्ध्येयं चाव्ययं विभुम् ॥ वार्त्तिक ३.६:१३ ॥ ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ॥ वार्त्तिक ३.६:१४ ॥ धारणा परमात्मत्वं धार्यते येन सर्वदा ॥ वार्त्तिक ३.६:१५ ॥ धारणा सा विनिर्दिष्टा भवबन्धविनाशिनी ॥ वार्त्तिक ३.६:१६ ॥ स्वपरस्थेषु भूतेषु जगत्यस्मिन् समानधीः ॥ वार्त्तिक ३.६:१७ ॥ शिवोऽहमद्वितीयोऽहं समाधिः स परः स्मृतः ॥ वार्त्तिक ३.६:१८ ॥ इत्येवं मृत्युजित्तन्त्रभट्टारकनिरूपितैः ॥ वार्त्तिक ३.६:१९ ॥ प्राणसंयमनारम्भैः समाध्यन्तैः क्रमैरपि ॥ वार्त्तिक ३.६:२० ॥ परतत्त्वसमावेशो भवत्येवेति कथ्यते ॥ वार्त्तिक ३.६:२१ ॥] मोहजयादनन्ताभोगात्सहजविद्याजयः ॥ वार्त्तिक ३.७ ॥ [<शिवसूत्रवार्तिक:> मोहो माया निजाख्यातिस्तज्जयात्तत्पराभवात् ॥ वार्त्तिक ३.७:१ ॥ उद्यमार्कोत्थितोऽनन्तः संस्कारप्रशमावधिः ॥ वार्त्तिक ३.७:२ ॥ आभोगो यस्य विस्तार ईदृशाद्दर्शितात्मनः ॥ वार्त्तिक ३.७:३ ॥ भवेत्सहजविद्याया जयो लाभो योगिनः ॥ वार्त्तिक ३.७:४ ॥ एवं मोहजयोपात्तशुद्धविद्यामहोदयः ॥ वार्त्तिक ३.७:५ ॥] जाग्रद्द्वितीयकरः ॥ वार्त्तिक ३.८ ॥ [<शिवसूत्रवार्तिक:> भक्त्वैवं सहजां विद्यां तदेकत्वावलम्बने ॥ वार्त्तिक ३.८:१ ॥ जागरूकः सदा योगी जाग्रदित्ययमुच्यते ॥ वार्त्तिक ३.८:२ ॥ संपूर्णाहंविमर्शात्मस्वाहंतापेक्षया जगत् ॥ वार्त्तिक ३.८:३ ॥ द्वितीयमिदमाकारं करो यस्य स्वदीधितिः ॥ वार्त्तिक ३.८:४ ॥ तथाभूतो भवत्येष स्वकरीभूतविष्टपः ॥ वार्त्तिक ३.८:५ ॥ ईदृशोऽयं सदा स्वात्मविमर्शावेशिताशयः ॥ वार्त्तिक ३.८:६ ॥] नर्तक आत्मा ॥ वार्त्तिक ३.९ ॥ [<शिवसूत्रवार्तिक:> नृत्यत्यन्तःपरिच्छन्नस्वस्वरूपावलम्बनाः ॥ वार्त्तिक ३.९:१ ॥ स्वेच्छया स्वात्मचिद्भित्तौ स्वपरिस्पन्दलीलया ॥ वार्त्तिक ३.९:२ ॥ जागरास्वप्नसौषुप्तरूपास्तास्ताः स्वभूमिकाः ॥ वार्त्तिक ३.९:३ ॥ आभासयति यत्तस्मादात्मा नर्तक उच्यते ॥ वार्त्तिक ३.९:४ ॥ एवंविधजगन्नाट्यनर्तकस्यास्य योगिनः ॥ वार्त्तिक ३.९:५ ॥ भूमिकाग्रहणस्थानं रङ्गमाह जगद्गुरुः ॥ वार्त्तिक ३.९:६ ॥] रङ्गोऽन्तरात्मा ॥ वार्त्तिक ३.१० ॥ [<शिवसूत्रवार्तिक:> रज्यतेऽस्मिन् जगन्नाट्यक्रीडाकौतुकिनात्मना ॥ वार्त्तिक ३.१०:१ ॥ इति रङ्गोऽन्तरात्मेति जीवः पुर्यष्टकात्मकः ॥ वार्त्तिक ३.१०:२ ॥ योगी कृतपदस्तत्र स्वेन्द्रियस्पन्दलीलया ॥ वार्त्तिक ३.१०:३ ॥ सदाशिवादिक्षित्यन्तजगन्नाट्यं प्रकाशयेत् ॥ वार्त्तिक ३.१०:४ ॥ देहान्तरङ्गे रङ्गेऽस्मिन्नृत्यतः स्वान्तरात्मनि ॥ वार्त्तिक ३.१०:५ ॥] प्रेक्षकाणीन्द्रियाणि ॥ वार्त्तिक ३.११ ॥ [<शिवसूत्रवार्तिक:> प्रेक्षकाणीति संसारनाट्यप्राकट्यकृद्वपुः ॥ वार्त्तिक ३.११:१ ॥ चक्षुरादीन्द्रियाण्यन्तश्चमत्कुर्वन्ति योगिनः ॥ वार्त्तिक ३.११:२ ॥ इत्येवं प्रेक्षकीभूतस्वाक्षचक्रस्य योगिनः ॥ वार्त्तिक ३.११:३ ॥] धीवशात्सत्त्वसिद्धिः ॥ वार्त्तिक ३.१२ ॥ [<शिवसूत्रवार्तिक:> धीस्तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः ॥ वार्त्तिक ३.१२:१ ॥ तद्वशादेव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः ॥ वार्त्तिक ३.१२:२ ॥ स्फुरत्तारूपिणः सिद्धिरभिव्यक्तिः स्फुटं भवेत् ॥ वार्त्तिक ३.१२:३ ॥ एवं निजस्फुरत्तात्मसत्त्वासादनवैभवात् ॥ वार्त्तिक ३.१२:४ ॥] सिद्धः स्वतन्त्रभावः ॥ वार्त्तिक ३.१३ ॥ [<शिवसूत्रवार्तिक:> सिद्धः सम्पन्न एवास्य भवेत्परमयोगिनः ॥ वार्त्तिक ३.१३:१ ॥ स्वतन्त्रभावः सहजज्ञत्वकर्तृत्वलक्षणः ॥ वार्त्तिक ३.१३:२ ॥ स्वातन्त्र्यं वशिनो विश्वस्ववशीकरणक्षमम् ॥ वार्त्तिक ३.१३:३ ॥ स्वतन्त्रभाव एवास्य स्वानन्दभरितात्मनः ॥ वार्त्तिक ३.१३:४ ॥] यथा तत्र तथान्यत्र ॥ वार्त्तिक ३.१४ ॥ [<शिवसूत्रवार्तिक:> यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता ॥ वार्त्तिक ३.१४:१ ॥ यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ वार्त्तिक ३.१४:२ ॥ स्फुटीभवति युक्तस्य पूर्णाहंतास्वरूपिणी ॥ वार्त्तिक ३.१४:३ ॥ न चैवमप्युदासीनेन भाव्यं योगिनापि तु ॥ वार्त्तिक ३.१४:४ ॥] बीजावधानम् ॥ वार्त्तिक ३.१५ ॥ [<शिवसूत्रवार्तिक:> स्फुरत्तात्मा परा शक्तिर्बीजं विश्वस्य कारणम् ॥ वार्त्तिक ३.१५:१ ॥ तत्रावधानं चित्तस्य भूयोभूयो निवेशनम् ॥ वार्त्तिक ३.१५:२ ॥ योगिना सावधानेन कर्तव्यमिति शिष्यते ॥ वार्त्तिक ३.१५:३ ॥ एवंविधो महायोगी परशक्त्यवधानवान् ॥ वार्त्तिक ३.१५:४ ॥] आसनस्थः सुखं ह्रदे निमज्जति ॥ वार्त्तिक ३.१६ ॥ [<शिवसूत्रवार्तिक:> आस्यते स्थीयते यस्मिन्नैकात्म्येनेति चासनम् ॥ वार्त्तिक ३.१६:१ ॥ शाक्तं बलं यत्तत्रस्थस्तदेवान्तः परामृशन् ॥ वार्त्तिक ३.१६:२ ॥ योगी परिहृतध्यानधारणादिपरिश्रमः ॥ वार्त्तिक ३.१६:३ ॥ खेचर्यादिमहास्रोतोवाहप्रसरकारणे ॥ वार्त्तिक ३.१६:४ ॥ स्वच्छत्वादिगुणैर्युक्ते स्वानन्दभरिते ह्रदे ॥ वार्त्तिक ३.१६:५ ॥ संप्लुतेदंपदद्वीपे सम्पूर्णे संविदर्णवे ॥ वार्त्तिक ३.१६:६ ॥ निरस्तसकलोपायो निमज्जति यथासुखम् ॥ वार्त्तिक ३.१६:७ ॥ देहादिब्रोडनेनैव तन्मयीभवति स्फुटम् ॥ वार्त्तिक ३.१६:८ ॥ इत्येवमाणवोपायासादितान्मोहनिर्जयात् ॥ वार्त्तिक ३.१६:९ ॥ उन्मज्जच्छुद्धविद्यात्मशाक्तावेशप्रकर्षतः ॥ वार्त्तिक ३.१६:१० ॥ आत्मीकृतपरानन्दह्रदगाढावगाहनात् ॥ वार्त्तिक ३.१६:११ ॥ प्रस्फुरच्छाम्भवावशवैभवः साधकोत्तमः ॥ वार्त्तिक ३.१६:१२ ॥] स्वमात्रानिर्माणमापादयति ॥ वार्त्तिक ३.१७ ॥ [<शिवसूत्रवार्तिक:> स्वस्य सम्बन्धिनी मात्रा चैतन्यस्योक्तरूपिणः ॥ वार्त्तिक ३.१७:१ ॥ आश्यानता मितात्मांशो ग्राह्यग्राहकलक्षणः ॥ वार्त्तिक ३.१७:२ ॥ निर्माणापादनं तस्या निर्मितत्वेन दर्शनम् ॥ वार्त्तिक ३.१७:३ ॥ सम्पादयति योगीन्द्रो यथेष्टं स्पष्टमिच्छया ॥ वार्त्तिक ३.१७:४ ॥ एवमीदृशशक्त्युत्थविश्वरूपस्य योगिनः ॥ वार्त्तिक ३.१७:५ ॥ पुनर्जन्मादिसम्बन्धो न कश्चिदिति कथ्यते ॥ वार्त्तिक ३.१७:६ ॥] विद्याविनाशे जन्मविनाशः ॥ वार्त्तिक ३.१८ ॥ [<शिवसूत्रवार्तिक:> विद्येति सहजा तस्या अविनाशः सदोदयः ॥ वार्त्तिक ३.१८:१ ॥ तेनैवाज्ञानसहकृत्तत्तत्कर्मानुषङ्गिणः ॥ वार्त्तिक ३.१८:२ ॥ देहप्राणमनीषादिसमुदायस्य जन्मनः ॥ वार्त्तिक ३.१८:३ ॥ विनाशो मूलविध्वंसो भवत्यस्येति शिष्यते ॥ वार्त्तिक ३.१८:४ ॥ यदा तु शुद्धविद्यायाः स्वरूपं तस्य मज्जति ॥ वार्त्तिक ३.१८:५ ॥ तदा तन्मोहनायैव समुत्तिष्ठन्ति शक्तयः ॥ वार्त्तिक ३.१८:६ ॥] कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ वार्त्तिक ३.१९ ॥ [<शिवसूत्रवार्तिक:> कवर्गादिषु तिष्ठन्त्यस्तदधिष्ठातृतां गताः ॥ वार्त्तिक ३.१९:१ ॥ माहेश्वर्यादिकाः प्रोक्तकरन्ध्रचितिमध्यगाः ॥ वार्त्तिक ३.१९:२ ॥ पशून् प्रमात् ॥ आविश्य तत्तत्प्रत्ययभूमिषु ॥ वार्त्तिक ३.१९:३ ॥ तत्तच्छब्दानुवेधेन मोहनात्पशुमातरः ॥ वार्त्तिक ३.१९:४ ॥ आवृण्वाना निजं रूपं चिदानन्दघनात्मकम् ॥ वार्त्तिक ३.१९:५ ॥ अतिमानं विवृण्वानाः शरीरादौ जडेऽपि च ॥ वार्त्तिक ३.१९:६ ॥ पशुवत्साधकमपि प्रमत्तं मोहयन्त्यमूः ॥ वार्त्तिक ३.१९:७ ॥ तस्माद्भाव्यं सदानेन सावधानेन योगिना ॥ वार्त्तिक ३.१९:८ ॥ उक्तं सामान्यतो ज्ञानाधिष्ठानं मातृकेत्यतः ॥ वार्त्तिक ३.१९:९ ॥ इदं तु प्राप्ततत्त्वोऽपि प्रमाद्यन् साधकः पुनः ॥ वार्त्तिक ३.१९:१० ॥ पश्वधिष्ठानभूताभिर्मोह्यते मातृभिस्त्विति ॥ वार्त्तिक ३.१९:११ ॥ यत एवमतः शुद्धविद्या प्राप्तापि युक्तिभिः ॥ वार्त्तिक ३.१९:१२ ॥ बह्वीभिः सा पुनर्मौढ्याद्यथास्य न विनश्यति ॥ वार्त्तिक ३.१९:१३ ॥ तथा सर्वास्ववस्थासु युक्तो भूयादितीर्यते ॥ वार्त्तिक ३.१९:१४ ॥] त्रिषु चतुर्थं तैलवदासेच्यम् ॥ वार्त्तिक ३.२० ॥ [<शिवसूत्रवार्तिक:> त्रिष्विति प्रोक्तरूपेषु जागरादिषु तैलवत् ॥ वार्त्तिक ३.२०:१ ॥ चतुर्थमिति पूर्वोक्तं शुद्धविद्याप्रथात्मकम् ॥ वार्त्तिक ३.२०:२ ॥ तुर्यं धाम सदासेच्यं यथा स्यात्तन्मयं त्रयम् ॥ वार्त्तिक ३.२०:३ ॥ यथा तैलं क्रमात्स्वीयमाश्रयं व्याप्नुयात्तथा ॥ वार्त्तिक ३.२०:४ ॥ आद्यन्तकोट्योः स्फुरता जागरादेः परिस्फुटम् ॥ वार्त्तिक ३.२०:५ ॥ तुर्यानन्दरसेनार्द्रीकुर्यान्मध्यदशामपि ॥ वार्त्तिक ३.२०:६ ॥ जाग्रदित्यादिसूत्रेण पूर्वमुद्यमवत्तया ॥ वार्त्तिक ३.२०:७ ॥ शक्तिचक्रानुसंधानशालिनः परयोगिनः ॥ वार्त्तिक ३.२०:८ ॥ स्वरसप्रसरज्जाग्रत्स्वप्नसौषुप्तभूमिषु ॥ वार्त्तिक ३.२०:९ ॥ उदीरितः स्वतोनिर्यत्तुर्यप्रसरसम्भवः ॥ वार्त्तिक ३.२०:१० ॥ त्रितयेत्यादिसूत्रेण शाम्भवोपायसाधितात् ॥ वार्त्तिक ३.२०:११ ॥ हठपाकक्रमाज्जाग्रत्स्वप्नसौषुप्तसंहृतिः ॥ वार्त्तिक ३.२०:१२ ॥ दर्शितानेन सूत्रेण त्वाणवोपाययुक्तितः ॥ वार्त्तिक ३.२०:१३ ॥ दलकल्पतयास्थायि जाग्रदादिपदत्रयम् ॥ वार्त्तिक ३.२०:१४ ॥ सिञ्चेत्तुर्यरसेनेति विशेषः समुदीरितः ॥ वार्त्तिक ३.२०:१५ ॥ अत्रोपायं पुनश्चाह तुर्यामृतनिषेचने ॥ वार्त्तिक ३.२०:१६ ॥] मग्नः स्वचित्तेन प्रविशेत् ॥ वार्त्तिक ३.२१ ॥ [<शिवसूत्रवार्तिक:> प्राणायामादिकं त्यक्त्वा स्थूलोपायं विकल्पकम् ॥ वार्त्तिक ३.२१:१ ॥ अविकल्पकरूपेण स्वचित्तेन स्वसंविदा ॥ वार्त्तिक ३.२१:२ ॥ अन्तर्मुखपरामर्शचमत्काररसात्मना ॥ वार्त्तिक ३.२१:३ ॥ मग्नस्तुर्यरसेनात्र स्वदेहादिप्रमातृताम् ॥ वार्त्तिक ३.२१:४ ॥ मज्जनेन प्रशमयन् प्रविशेत्तत्समाविशेत् ॥ वार्त्तिक ३.२१:५ ॥ इत्थं परपदाविष्टबुद्धेर्वस्तुस्वभावतः ॥ वार्त्तिक ३.२१:६ ॥ यदा भूयः प्रसरणं योगिनो जायते तदा ॥ वार्त्तिक ३.२१:७ ॥] प्राणसमाचारे समदर्शनम् ॥ वार्त्तिक ३.२२ ॥ [<शिवसूत्रवार्तिक:> प्राणस्य प्रस्फुरच्छाक्तसौरभावेशसंस्कृतः ॥ वार्त्तिक ३.२२:१ ॥ सम्यग्विकसिताशेषग्रन्थ्यवष्टम्भधीबलात् ॥ वार्त्तिक ३.२२:२ ॥ ईषद्बहिर्मन्दमन्दं चारे प्रसरणे सति ॥ वार्त्तिक ३.२२:३ ॥ समं चिन्मुद्घनात्मत्वात्सर्वदाभेददर्शनम् ॥ वार्त्तिक ३.२२:४ ॥ संवेदनं भवत्यर्थात्सर्वावस्थासु योगिनः ॥ वार्त्तिक ३.२२:५ ॥ तुर्यावष्टम्भतो लभ्यं तुर्यातीतमनामृशन् ॥ वार्त्तिक ३.२२:६ ॥ पूर्वापरात्मनोः कोट्योः संवेद्ये तुर्यमात्रके ॥ वार्त्तिक ३.२२:७ ॥ आस्ते योगी तदामुष्य तावन्मात्रेण तुष्यतः ॥ वार्त्तिक ३.२२:८ ॥] मध्येऽवरप्रसवः ॥ वार्त्तिक ३.२३ ॥ [<शिवसूत्रवार्तिक:> पूर्वस्यामपरस्यां च कोटौ तुर्यनिषेविणः ॥ वार्त्तिक ३.२३:१ ॥ अवधानेऽवलिप्तस्य कदाचित्तस्य योगिनः ॥ वार्त्तिक ३.२३:२ ॥ मध्यायामवरोऽश्रेष्ठः कुत्सितः सर्ग आपतेत् ॥ वार्त्तिक ३.२३:३ ॥ व्युत्थानात्मा ततो योगी सावधानः सदा भवेत् ॥ वार्त्तिक ३.२३:४ ॥ अवरप्रसवे वृत्ते ह्येवं मध्यपदे पुनः ॥ वार्त्तिक ३.२३:५ ॥ तुर्यावष्टम्भरसतस्तुर्यातीतं परामृशेत् ॥ वार्त्तिक ३.२३:६ ॥] मात्रास्वप्रत्ययसंधाने नष्टस्य पुनरुत्थानम् ॥ वार्त्तिक ३.२४ ॥ [<शिवसूत्रवार्तिक:> मात्राः पदार्थाः रूपाद्यास्तास्वेभिश्चक्षुरादिभिः ॥ वार्त्तिक ३.२४:१ ॥ अक्षैः स्वप्रत्ययो नाम तत्तत्स्वग्राह्यवेदनम् ॥ वार्त्तिक ३.२४:२ ॥ संधानं तु समस्तं तदहमित्यनुसंहितिः ॥ वार्त्तिक ३.२४:३ ॥ अमुष्मिन् सति नष्टाय हारितस्योक्तवर्गतः ॥ वार्त्तिक ३.२४:४ ॥ तुर्यस्य पुनरुत्थानं भूय उन्मज्जनं भवेत् ॥ वार्त्तिक ३.२४:५ ॥ तदैक्यसम्पत्पूर्णत्वं योगीन्द्रस्येति शिष्यते ॥ वार्त्तिक ३.२४:६ ॥ एवमुद्यत्समावेशप्रकर्षः साधकर्षभः ॥ वार्त्तिक ३.२४:७ ॥] शिवतुल्यो जायते ॥ वार्त्तिक ३.२५ ॥ [<शिवसूत्रवार्तिक:> तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम् ॥ वार्त्तिक ३.२५:१ ॥ सम्प्राप्तः साधकः साक्षात्सर्वलोकान्तरात्मना ॥ वार्त्तिक ३.२५:२ ॥ शिवेन चिन्मयस्वच्छस्वच्छदानन्दशालिना ॥ वार्त्तिक ३.२५:३ ॥ तुल्योऽविगलनाद्देहकलाया गलने शिवः ॥ वार्त्तिक ३.२५:४ ॥ अर्जितं दीक्षया दग्धं भविष्यन्ति यमादिभिः ॥ वार्त्तिक ३.२५:५ ॥ येनेदं साधितं यत्र तद्भुक्त्या विनिवर्तते ॥ वार्त्तिक ३.२५:६ ॥ अनेकभाविकं कर्म दग्धं बीजमिवाग्निना ॥ वार्त्तिक ३.२५:७ ॥ भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ वार्त्तिक ३.२५:८ ॥ इत्युक्तनीत्या प्रारब्धप्राप्तभोगोपभोगभूः ॥ वार्त्तिक ३.२५:९ ॥ कलेवरस्थितिस्तस्य कर्तव्येत्युपदिश्यते ॥ वार्त्तिक ३.२५:१० ॥] शरीरवृत्तिर्व्रतम् ॥ वार्त्तिक ३.२६ ॥ [<शिवसूत्रवार्तिक:> एवं पूर्वोक्तया नीत्या शिवतुल्यस्य योगिनः ॥ वार्त्तिक ३.२६:१ ॥ शश्वच्छिवात्मकस्वात्मसपर्यातत्परात्मनः ॥ वार्त्तिक ३.२६:२ ॥ अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ॥ वार्त्तिक ३.२६:३ ॥ भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ वार्त्तिक ३.२६:४ ॥ इति लोकोत्तरश्रीमदुत्पलप्रोक्तया दिशा ॥ वार्त्तिक ३.२६:५ ॥ शिवभक्तिसुधापूर्णे शरीरे वृत्तिरस्य या ॥ वार्त्तिक ३.२६:६ ॥ व्रतमेतदनुष्ठेयं न तुच्छं तस्य धारणम् ॥ वार्त्तिक ३.२६:७ ॥ एवंविधस्य तस्यास्य या या स्वालापरूपिणी ॥ वार्त्तिक ३.२६:८ ॥] कथा जपः ॥ वार्त्तिक ३.२७ ॥ [<शिवसूत्रवार्तिक:> महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ॥ वार्त्तिक ३.२७:१ ॥ अपूर्वामोदसुभगं परामृतरसोल्वणम् ॥ वार्त्तिक ३.२७:२ ॥ इति श्रीप्रत्यभिज्ञाकृद्दैशिकप्रोक्तया दिशा ॥ वार्त्तिक ३.२७:३ ॥ अकृत्रिमाहमामर्शमयस्वात्मावमर्शिनः ॥ वार्त्तिक ३.२७:४ ॥ या या स्वैराभिलापात्मा कथा याथार्थ्यवादिनः ॥ वार्त्तिक ३.२७:५ ॥ भूयोभूयः परे भावे भावना भाव्यते हि या ॥ वार्त्तिक ३.२७:६ ॥ जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ वार्त्तिक ३.२७:७ ॥ षट्शतानि दिवारात्रं सहस्राण्येकविंशतिः ॥ वार्त्तिक ३.२७:८ ॥ जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ वार्त्तिक ३.२७:९ ॥ इत्युक्तनीत्या सा सर्वस्वात्मेशामर्शसम्पदः ॥ वार्त्तिक ३.२७:१० ॥ जनिपालनधर्मत्वाज्जप इत्यभिधीयते ॥ वार्त्तिक ३.२७:११ ॥ अथेदृग्विधयोगीन्द्रविषयापि च या कथा ॥ वार्त्तिक ३.२७:१२ ॥ जपः सोऽपि जनस्योक्तो जनिपालनयोगतः ॥ वार्त्तिक ३.२७:१३ ॥ अथ चास्योच्यते चर्या मर्यादानुविधायिनी ॥ वार्त्तिक ३.२७:१४ ॥] दानमात्मज्ञानम् ॥ वार्त्तिक ३.२८ ॥ [<शिवसूत्रवार्तिक:> प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः ॥ वार्त्तिक ३.२८:१ ॥ यत्तज्ज्ञानं तदेवास्य दानं यत्नेन दीयते ॥ वार्त्तिक ३.२८:२ ॥ परिपूर्णं स्वरूपं स्वं दीयते खण्ड्यते भिदा ॥ वार्त्तिक ३.२८:३ ॥ दायते शोध्यते रूपमात्मीयं दीयते पुनः ॥ वार्त्तिक ३.२८:४ ॥ रक्ष्यते प्रत्यभिज्ञातः शिवात्मा स्वस्वभावता ॥ वार्त्तिक ३.२८:५ ॥ दीयते चेति यत्नेन स्वात्मज्ञानमनुत्तरम् ॥ वार्त्तिक ३.२८:६ ॥ कृपया स्वात्मशिष्येभ्यस्तदनेनैव दीयते ॥ वार्त्तिक ३.२८:७ ॥ एवं सम्यग्व्रतं प्रोक्तं जपं चर्या च पालयन् ॥ वार्त्तिक ३.२८:८ ॥ शिवतुल्यः सदा स्वात्मशिवाराधनतत्परः ॥ वार्त्तिक ३.२८:९ ॥ अयमेव महायोगी महामन्त्रधुरंधरः ॥ वार्त्तिक ३.२८:१० ॥ अन्तेवासिजनस्यान्तस्तत्त्वतस्तत्त्वबोधकः ॥ वार्त्तिक ३.२८:११ ॥ इत्याह भगवानीशो नित्यानुग्रहकारकः ॥ वार्त्तिक ३.२८:१२ ॥] योऽविपस्थो ज्ञाहेतुश्च ॥ वार्त्तिक ३.२९ ॥ [<शिवसूत्रवार्तिक:> अवीन् पशुजनान् पातीत्यविपं शक्तिमण्डलम् ॥ वार्त्तिक ३.२९:१ ॥ माहेश्वर्यादिकं प्रोक्तं कवर्गाद्यधिदैवतम् ॥ वार्त्तिक ३.२९:२ ॥ अधितिष्ठति यः स्वैरमविपस्थः स उच्यते ॥ वार्त्तिक ३.२९:३ ॥ जानातीत्यखिलं तत्ज्ञा ज्ञानशक्तिरुदीर्यते ॥ वार्त्तिक ३.२९:४ ॥ तस्या हेतुस्तया शिष्यान् प्रतिबोधयितुं क्षमः ॥ वार्त्तिक ३.२९:५ ॥ अन्यस्तु शक्तिचक्रेण परतन्त्रीकृतत्वतः ॥ वार्त्तिक ३.२९:६ ॥ स्वात्मन्येवासमर्थः सन् कथमन्यान् प्रबोधयेत् ॥ वार्त्तिक ३.२९:७ ॥ यच्छब्दापेक्षया सूत्रे तच्छब्दोऽध्याहृतः स्वयम् ॥ वार्त्तिक ३.२९:८ ॥ चशब्दो ह्यर्थवाच्यत्र यस्माज्ज्ञानप्रबोधने ॥ वार्त्तिक ३.२९:९ ॥ योगी हेतुस्ततो दानमात्मज्ञानमितीरितम् ॥ वार्त्तिक ३.२९:१० ॥ इत्येवमविपस्थस्य ज्ञाहेतोरस्य योगिनः ॥ वार्त्तिक ३.२९:११ ॥] स्वशक्तिप्रचयो विश्वम् ॥ वार्त्तिक ३.३० ॥ [<शिवसूत्रवार्तिक:> शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥ वार्त्तिक ३.३०:१ ॥ इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा ॥ वार्त्तिक ३.३०:२ ॥ शिवस्य तत्समस्यापि तथास्य परयोगिनः ॥ वार्त्तिक ३.३०:३ ॥ स्वस्याः स्वात्माविमुक्तायाः शक्तेः संवेदनात्मनः ॥ वार्त्तिक ३.३०:४ ॥ प्रचयः स्फुरणारूपो विकासो विश्वमिष्यते ॥ वार्त्तिक ३.३०:५ ॥ न परं सृष्ट्यवस्थायाममुष्य परयोगिनः ॥ वार्त्तिक ३.३०:६ ॥ स्वशक्तिप्रचयो विश्वं यावत्तत्पृष्ठपातिनौ ॥ वार्त्तिक ३.३०:७ ॥] स्थितिलयौ ॥ वार्त्तिक ३.३१ ॥ [<शिवसूत्रवार्तिक:> स्वशक्तिप्रचयौ प्रोक्तौ तावपीत्यनुवर्तते ॥ वार्त्तिक ३.३१:१ ॥ विकासितस्य विश्वस्य क्रियामय्या स्वसंविदा ॥ वार्त्तिक ३.३१:२ ॥ तत्तत्प्रमात्रपेक्षातः किंचित्कालमिदंतया ॥ वार्त्तिक ३.३१:३ ॥ या स्थितिश्चिन्मयाहंताविश्रान्त्यात्मा च यो लयः ॥ वार्त्तिक ३.३१:४ ॥ तावुभौ योगिनस्तस्य स्वशक्तिप्रचयात्मकौ ॥ वार्त्तिक ३.३१:५ ॥ विकसत्संकुचत्सर्वं वेद्यं यत्संविदात्मकम् ॥ वार्त्तिक ३.३१:६ ॥ अन्यथा तस्य वेद्यस्य वेदनानुपपत्तितः ॥ वार्त्तिक ३.३१:७ ॥ ननु सृष्टिस्थितिध्वंसेष्वेवमन्योन्यभेदिषु ॥ वार्त्तिक ३.३१:८ ॥ अन्यथात्वं समायातं स्वस्वरूपस्य योगिनः ॥ वार्त्तिक ३.३१:९ ॥ इत्याशङ्कानिवृत्त्यर्थं सूत्रमाह महेश्वरः ॥ वार्त्तिक ३.३१:१० ॥] तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥ वार्त्तिक ३.३२ ॥ [<शिवसूत्रवार्तिक:> तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम् ॥ वार्त्तिक ३.३२:१ ॥ उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः ॥ वार्त्तिक ३.३२:२ ॥ अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ॥ वार्त्तिक ३.३२:३ ॥ कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ वार्त्तिक ३.३२:४ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते ॥ वार्त्तिक ३.३२:५ ॥ तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ वार्त्तिक ३.३२:६ ॥ न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ॥ वार्त्तिक ३.३२:७ ॥ तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ वार्त्तिक ३.३२:८ ॥ इति श्रीस्पन्दशास्त्रोक्तनीत्या तस्यास्य योगिनः ॥ वार्त्तिक ३.३२:९ ॥ अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात् ॥ वार्त्तिक ३.३२:१० ॥ उद्यत्तुर्यचमत्कारादुपलब्धृस्वभावतः ॥ वार्त्तिक ३.३२:११ ॥ निरासे तस्य सृष्ट्यादेः सृज्यस्याप्यप्रकाशनात् ॥ वार्त्तिक ३.३२:१२ ॥ विश्वसृष्टिस्थितिध्वंसेष्वप्रकम्पस्य योगिनः ॥ वार्त्तिक ३.३२:१३ ॥] सुखासुखयोर्बहिर्मननम् ॥ वार्त्तिक ३.३३ ॥ [<शिवसूत्रवार्तिक:> उत्तीर्णदेहप्राणादिप्रमातृत्वस्य धीमतः ॥ वार्त्तिक ३.३३:१ ॥ वेद्यस्पर्शजयोस्तस्य मननं सुखदुःखयोः ॥ वार्त्तिक ३.३३:२ ॥ इदंताभासरूपेण नीलपीतादिवद्बहिः ॥ वार्त्तिक ३.३३:३ ॥ अहं सुखीति दुःखीति लोकवन्न त्वहंतया ॥ वार्त्तिक ३.३३:४ ॥ स्वशक्तिप्रचयो विश्वमिति सूत्रार्थनीतितः ॥ वार्त्तिक ३.३३:५ ॥ अहंताच्छादितत्वेन सर्वमस्य प्रकाशते ॥ वार्त्तिक ३.३३:६ ॥ योगिनो लौकिकस्येव सुखाद्येव न केवलम् ॥ वार्त्तिक ३.३३:७ ॥ अतिक्रान्तमहामोहाक्रान्तदेहाद्यहंकृतिः ॥ वार्त्तिक ३.३३:८ ॥ लोकवत्सुखदुःखाभ्यां कथं स्पृश्येत योगिराट् ॥ वार्त्तिक ३.३३:९ ॥ उदञ्चच्चित्प्रमातृत्वन्यञ्चत्पुर्यष्टकस्थितेः ॥ वार्त्तिक ३.३३:१० ॥ यतो न तत्सुखाद्यन्तस्तत एवैष साधकः ॥ वार्त्तिक ३.३३:११ ॥] तद्विमुक्तस्तु केवली ॥ वार्त्तिक ३.३४ ॥ [<शिवसूत्रवार्तिक:> ताभ्यां मुक्तो विशेषेण योगीन्द्रो यत्तयोर्यतः ॥ वार्त्तिक ३.३४:१ ॥ संस्कारेणाप्यसंस्पृष्टः केवली चिन्मयः स्मृतः ॥ वार्त्तिक ३.३४:२ ॥ तुशब्दोऽन्तरमाख्याति वक्ष्यमाणव्यपेक्षया ॥ वार्त्तिक ३.३४:३ ॥ एवमुत्तरसूत्रस्थोऽप्येतत्सूत्रव्यपेक्षया ॥ वार्त्तिक ३.३४:४ ॥ तदेवाह तुशब्दोक्तमन्तरं चन्द्रशेखरः ॥ वार्त्तिक ३.३४:५ ॥] मोहप्रतिसंहतस्तु कर्मात्मा ॥ वार्त्तिक ३.३५ ॥ [<शिवसूत्रवार्तिक:> मोहः स्वाख्यातिरज्ञानं तेन यः प्रतिसंहतः ॥ वार्त्तिक ३.३५:१ ॥ तदेकघनतां प्राप्तस्ततो दुःखाद्युपाश्रयः ॥ वार्त्तिक ३.३५:२ ॥ तत एव स कर्मात्मा शुभाशुभकलङ्कितः ॥ वार्त्तिक ३.३५:३ ॥ तस्यैवमीदृशस्यापि तत्तत्कर्मात्मनो यदा ॥ वार्त्तिक ३.३५:४ ॥ अनर्गलमहेशानशक्तिपातात्समुन्मिषन् ॥ वार्त्तिक ३.३५:५ ॥ स्वातन्त्र्ययोगः सहजः प्रादुरस्ति तदास्य तु ॥ वार्त्तिक ३.३५:६ ॥] भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ वार्त्तिक ३.३६ ॥ [<शिवसूत्रवार्तिक:> भेदस्य देहप्राणादिमिताहंकृतिजन्मनः ॥ वार्त्तिक ३.३६:१ ॥ कलादिवलितभ्रान्तसकलाद्युचितात्मनः ॥ वार्त्तिक ३.३६:२ ॥ तिरस्कारे स्थितस्यापि स्वोन्मेषादपहस्तने ॥ वार्त्तिक ३.३६:३ ॥ मन्त्रमन्त्रेशतादात्म्यस्वमाहात्म्यप्रकाशनात् ॥ वार्त्तिक ३.३६:४ ॥ स्यात्सर्गान्तरकर्मत्वममुष्य परयोगिनः ॥ वार्त्तिक ३.३६:५ ॥ यथाभिलाषनिर्मेयनिर्मातृत्वं स्फुटं भवेत् ॥ वार्त्तिक ३.३६:६ ॥ न चैतदप्यसंभाव्यं स्रष्टृत्वं योगिनो यतः ॥ वार्त्तिक ३.३६:७ ॥] करणशक्तिः स्वतोऽनुभवात् ॥ वार्त्तिक ३.३७ ॥ [<शिवसूत्रवार्तिक:> स्वतः स्वस्मादनुभवात्स्वप्नसंकल्पनादिषु ॥ वार्त्तिक ३.३७:१ ॥ करणं निजसंवेद्यग्राह्यग्राहकनिर्मितिः ॥ वार्त्तिक ३.३७:२ ॥ शक्तिस्तत्कर्तृतोन्मेषः स्वसंवित्त्यैव सिध्यति ॥ वार्त्तिक ३.३७:३ ॥ सम्भवन्तीं तथा सृष्टिं यदि दार्ढ्येन भावयेत् ॥ वार्त्तिक ३.३७:४ ॥ सर्वसाधारणाशेषनिर्मितिश्च भवेत्तदा ॥ वार्त्तिक ३.३७:५ ॥ यतः करणशक्त्यात्र शक्तिः स्वातन्त्र्यरूपिणी ॥ वार्त्तिक ३.३७:६ ॥ प्रमातुर्बोधरूपस्य सारं तस्मात्स्वमायया ॥ वार्त्तिक ३.३७:७ ॥ तिरोहितायाः स्वातन्त्र्यशक्तेरुत्तेजनं प्रति ॥ वार्त्तिक ३.३७:८ ॥] त्रिपदाद्यनुप्राणनम् ॥ वार्त्तिक ३.३८ ॥ [<शिवसूत्रवार्तिक:> त्रिपदं जागरास्वप्नसौषुप्तानामनुक्रमात् ॥ वार्त्तिक ३.३८:१ ॥ प्रत्येकमादिमध्यान्तरूपं भङ्ग्या निरूपितम् ॥ वार्त्तिक ३.३८:२ ॥ भावौन्मुख्यतदासक्तितदेकीकरणात्मकम् ॥ वार्त्तिक ३.३८:३ ॥ सृष्टिस्थितिलयाकारं तुर्येणैव तदादिना ॥ वार्त्तिक ३.३८:४ ॥ तत्त्रयान्तश्चमत्काररसानन्दघनात्मना ॥ वार्त्तिक ३.३८:५ ॥ माययाच्छादितेनापि तिरोधानस्वरूपया ॥ वार्त्तिक ३.३८:६ ॥ तत्तद्विषयभोगेषु विद्युद्वत्स्फुरता क्षणम् ॥ वार्त्तिक ३.३८:७ ॥ अनुप्राणनमादध्यादवधानेन साधकः ॥ वार्त्तिक ३.३८:८ ॥ तेनैव जीवितेनापि जीवितस्य निजात्मनः ॥ वार्त्तिक ३.३८:९ ॥ सम्यगुत्तेजनं कुर्याद्येनासौ तन्मयो भवेत् ॥ वार्त्तिक ३.३८:१० ॥ तुर्यानुप्राणनं प्रोक्तं जागरादौ पुरा त्रिषु ॥ वार्त्तिक ३.३८:११ ॥ चतुर्थमिति सूत्रेण त्रिपदेत्यादिनामुना ॥ वार्त्तिक ३.३८:१२ ॥ जागराद्यादिमध्यान्तपर्वस्विति विशिष्यते ॥ वार्त्तिक ३.३८:१३ ॥ अन्तर्मुखस्वरूपायामवस्थायां न केवलम् ॥ वार्त्तिक ३.३८:१४ ॥ त्रिपदादिप्राणनमित्येतदुक्तमथापि तु ॥ वार्त्तिक ३.३८:१५ ॥] चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ वार्त्तिक ३.३९ ॥ [<शिवसूत्रवार्तिक:> अनुप्राणनमित्येतदादद्यादिति शिष्यते ॥ वार्त्तिक ३.३९:१ ॥ अन्तर्मुखस्वरूपायां यथा चित्तस्थितौ तथा ॥ वार्त्तिक ३.३९:२ ॥ अनुप्राणनमुक्तेन तुर्येणानन्दरूपिणा ॥ वार्त्तिक ३.३९:३ ॥ कुर्याद्बहिर्मुखत्वेऽपि देहाक्षविषयात्मनि ॥ वार्त्तिक ३.३९:४ ॥ तन्मयं भवतीत्यर्थात्तदा सर्वं चराचरम् ॥ वार्त्तिक ३.३९:५ ॥ एवं स्वानन्दरूपास्य शक्तिः स्वातन्त्र्यलक्षणा ॥ वार्त्तिक ३.३९:६ ॥ यथेष्टभावनिर्माणकारिणी भवति स्फुटम् ॥ वार्त्तिक ३.३९:७ ॥ यदा पुनरसौ योगी प्रोक्तां तुर्यात्मिकां दशाम् ॥ वार्त्तिक ३.३९:८ ॥ आन्तरीं नामृशत्यन्तस्तदा देहाद्यहंकृतेः ॥ वार्त्तिक ३.३९:९ ॥ अपूर्णमन्यतारूपादस्याणवमलात्मनः ॥ वार्त्तिक ३.३९:१० ॥] अभिलापाद्बहिर्गतिः संवाह्यस्य ॥ वार्त्तिक ३.४० ॥ [<शिवसूत्रवार्तिक:> तत्त्वैः शक्तिगणाक्रान्तैर्धरण्यन्तैः कलादिभिः ॥ वार्त्तिक ३.४०:१ ॥ योनेर्योन्यन्तरं नेयः संवाह्यः पशुरुच्यते ॥ वार्त्तिक ३.४०:२ ॥ तस्याणवमलाकारात्तत्तत्कर्मानुसारिणः ॥ वार्त्तिक ३.४०:३ ॥ अपूर्णमन्यतारूपादभिलाषाद्बहिर्गतिः ॥ वार्त्तिक ३.४०:४ ॥ विषयोन्मुखतैवास्य नान्तस्तत्त्वानुसंहितिः ॥ वार्त्तिक ३.४०:५ ॥ यदा पुनर्महेशानशक्तिपातवशोन्मिषत् ॥ वार्त्तिक ३.४०:६ ॥ आत्मीयमेव विमृशन्नास्ते रूपं तदास्य तु ॥ वार्त्तिक ३.४०:७ ॥ अभावादभिलाषस्य न बहिर्गतिरापतेत् ॥ वार्त्तिक ३.४०:८ ॥ अपि तूक्तचरस्वात्मारामतैवेति कथ्यते ॥ वार्त्तिक ३.४०:९ ॥] तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ वार्त्तिक ३.४१ ॥ [<शिवसूत्रवार्तिक:> तदित्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणि ॥ वार्त्तिक ३.४१:१ ॥ आरूढा प्रमितिः संवित्तद्विमर्शनतत्परा ॥ वार्त्तिक ३.४१:२ ॥ यस्य तस्यास्य तदिति प्रोक्ताणवमलात्मनः ॥ वार्त्तिक ३.४१:३ ॥ अभिलापस्य रूढस्य क्षयाज्जीवस्य संक्षयः ॥ वार्त्तिक ३.४१:४ ॥ पुर्यष्टकस्वभावस्य प्रशमस्तत्त्वतो भवेत् ॥ वार्त्तिक ३.४१:५ ॥ प्राप्नोति देहपातोऽस्य नन्वेवं जीवसंक्षये ॥ वार्त्तिक ३.४१:६ ॥ नासौ कदापि कस्यापि दृश्यतेऽत्रापि योगिनः ॥ वार्त्तिक ३.४१:७ ॥ तस्मात्कथं तदारूढप्रमितिः साधको भवेत् ॥ वार्त्तिक ३.४१:८ ॥ इत्याशङ्क्योत्तरं वक्ति भगवान् विश्वदैशिकः ॥ वार्त्तिक ३.४१:९ ॥] भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ वार्त्तिक ३.४२ ॥ [<शिवसूत्रवार्तिक:> तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये ॥ वार्त्तिक ३.४२:१ ॥ पुर्यष्टकप्रमातृत्वाभिमानगलनेऽप्यसौ ॥ वार्त्तिक ३.४२:२ ॥ देहारम्भकरैर्भूतैरस्पृशद्भिरहंपदम् ॥ वार्त्तिक ३.४२:३ ॥ कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः ॥ वार्त्तिक ३.४२:४ ॥ भूयो बाहुल्यतः पत्या समोऽयं परमेशिना ॥ वार्त्तिक ३.४२:५ ॥ तत्स्वरूपसमाविष्टचिदानन्दघनात्मकः ॥ वार्त्तिक ३.४२:६ ॥ तत एव परः पूर्णः सम्यक्तन्मयतां गतः ॥ वार्त्तिक ३.४२:७ ॥ भूतकञ्चुकिताप्यस्य तदैव न निवर्तते ॥ वार्त्तिक ३.४२:८ ॥ कस्मादित्यपि शङ्कायामुत्तरं वक्ति शंकरः ॥ वार्त्तिक ३.४२:९ ॥] नैसर्गिकः प्राणसम्बन्धः ॥ वार्त्तिक ३.४३ ॥ [<शिवसूत्रवार्तिक:> प्राणे परिणता संवित्प्रागिति प्रोक्तया दिशा ॥ वार्त्तिक ३.४३:१ ॥ निसर्गात्सहजात्स्वस्य स्वातन्त्र्यादनिवारितात् ॥ वार्त्तिक ३.४३:२ ॥ चञ्चत्प्रपञ्चवैचित्र्यप्रकर्षकरणेच्छया ॥ वार्त्तिक ३.४३:३ ॥ संकोचं परिगृह्णाना संविद्भगवती स्वयम् ॥ वार्त्तिक ३.४३:४ ॥ प्राप्नोति संकुचत्तत्तत्प्राणग्राहकभूमिकाः ॥ वार्त्तिक ३.४३:५ ॥ उक्तमर्थं दृढीकर्तुं संवादः सोऽयमत्र तु ॥ वार्त्तिक ३.४३:६ ॥ या सा शक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा ॥ वार्त्तिक ३.४३:७ ॥ शक्तिचक्रस्य जननी परानन्दामृतात्मिका ॥ वार्त्तिक ३.४३:८ ॥ महाघोरेश्वरी चण्डा सृष्टिसंहारकारिका ॥ वार्त्तिक ३.४३:९ ॥ त्रिवहं त्रिविधं त्रिष्ठं बलात्कालं प्रकर्षति ॥ वार्त्तिक ३.४३:१० ॥ इति वाजसनेयायामियमेव चितिः परा ॥ वार्त्तिक ३.४३:११ ॥ स्वातन्त्र्येणावरुह्य प्राक्प्राणरूपे प्रमातरि ॥ वार्त्तिक ३.४३:१२ ॥ चन्द्रभास्करवह्न्यात्मनाडीत्रितयवाहिनम् ॥ वार्त्तिक ३.४३:१३ ॥ अन्तर्बहिर्विशन्निर्यन्निश्वासोच्छ्वासलक्षणम् ॥ वार्त्तिक ३.४३:१४ ॥ अतीतवर्तमानादित्रिविधं कालमात्मनि ॥ वार्त्तिक ३.४३:१५ ॥ कर्षन्त्यन्तर्बहिश्चेति कथ्यते कालकर्षिणी ॥ वार्त्तिक ३.४३:१६ ॥ ततो नैसर्गिकस्तस्याः प्राणसम्बन्ध आगतः ॥ वार्त्तिक ३.४३:१७ ॥ स्थितेऽपि प्राणसम्बन्धे यस्तदारूढ आन्तरीम् ॥ वार्त्तिक ३.४३:१८ ॥ संविदं विमृशन्नास्ते स लोकोत्तरतां व्रजेत् ॥ वार्त्तिक ३.४३:१९ ॥ इत्युपायोपसंहारमुखेनाह महेश्वरः ॥ वार्त्तिक ३.४३:२० ॥] नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्नेषु ॥ वार्त्तिक ३.४४ ॥ [<शिवसूत्रवार्तिक:> नेत्रादिरोमरन्ध्रान्तनाडीनां निविडात्मनाम् ॥ वार्त्तिक ३.४४:१ ॥ सर्वासां मुख्यभूतेषु सर्वावष्टम्भदायिषु ॥ वार्त्तिक ३.४४:२ ॥ सव्यापसव्यसौषुम्ननाडीमार्गेषु सर्वदा ॥ वार्त्तिक ३.४४:३ ॥ नाडीनां नासिका प्राणशक्तिः कुटिलवाहिनी ॥ वार्त्तिक ३.४४:४ ॥ अन्तरित्यान्तरी संवित्तत्स्वरूपस्य यत्पुनः ॥ वार्त्तिक ३.४४:५ ॥ मध्यं सर्वान्तरत्वेन प्रधानं विश्वभित्तिकम् ॥ वार्त्तिक ३.४४:६ ॥ परामर्शमयं रूपमुत्तीर्णं तस्य संयमात् ॥ वार्त्तिक ३.४४:७ ॥ निभालनप्रकर्षोत्थात्स्वात्मबुद्धिविमर्शनात् ॥ वार्त्तिक ३.४४:८ ॥ किमत्र संयमे वाच्यमियमेव समाहितिः ॥ वार्त्तिक ३.४४:९ ॥ देदीप्यमाना सर्वासु दशास्वन्तर्निरन्तरम् ॥ वार्त्तिक ३.४४:१० ॥ निर्व्युत्थानावधानेन योगिनैवानुभूयते ॥ वार्त्तिक ३.४४:११ ॥ मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ॥ वार्त्तिक ३.४४:१२ ॥ श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ वार्त्तिक ३.४४:१३ ॥ इति श्रीभगवद्गीताप्रोक्तनीत्यनुसारतः ॥ वार्त्तिक ३.४४:१४ ॥ विश्वोत्तीर्णनिजाहंतासमावेशितचेतसः ॥ वार्त्तिक ३.४४:१५ ॥ पर्यन्ते योगिनो योगफलं सम्यक्प्रदर्शयन् ॥ वार्त्तिक ३.४४:१६ ॥ उपसंहरति श्रीमानुक्तं प्रकरणं शिवः ॥ वार्त्तिक ३.४४:१७ ॥] भूयः स्यात्प्रतिमीलनम् ॥ वार्त्तिक ३.४५ ॥ [<शिवसूत्रवार्तिक:> पुनश्च प्रोक्तचैतन्यस्वरूपोन्मीलनात्मकम् ॥ वार्त्तिक ३.४५:१ ॥ परयोगाधिरूढस्य भवेत्परमयोगिनः ॥ वार्त्तिक ३.४५:२ ॥ भूयः स्यादिति वाक्यस्य स्फुटमेवायमाशयः ॥ वार्त्तिक ३.४५:३ ॥ यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः ॥ वार्त्तिक ३.४५:४ ॥ स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्निजात् ॥ वार्त्तिक ३.४५:५ ॥ नायं विकल्पदौरात्म्याद्भासमानमपि स्वतः ॥ वार्त्तिक ३.४५:६ ॥ विम्रष्टुं क्षम इत्यस्य प्रोक्तोपायक्रमेण तत् ॥ वार्त्तिक ३.४५:७ ॥ शिवत्वं व्यक्तिमेतीति शिवेनोदीरितं शिवम् ॥ वार्त्तिक ३.४५:८ ॥ इत्युन्मेषस्तृतीयोऽयमाणवोपायसूचकः ॥ वार्त्तिक ३.४५:९ ॥ इति श्रीशिवसूत्राणां रहस्यार्थोपबृंहितम् ॥ वार्त्तिक ३.४५:१० ॥ प्रागुक्तवार्त्तिकांशेन सहितं वार्त्तिकान्तरम् ॥ वार्त्तिक ३.४५:११ ॥ अखण्डसंवित्साम्राज्ययौवराज्याधिकारिणाम् ॥ वार्त्तिक ३.४५:१२ ॥ पराक्रमहठाक्रान्तषट्त्रिंशत्तत्त्वसम्पदाम् ॥ वार्त्तिक ३.४५:१३ ॥ मधुराजकुमाराणां महाहंताधिरोहिणाम् ॥ वार्त्तिक ३.४५:१४ ॥ पश्चिमेन तदालोकध्वस्तपश्चिमजन्मना ॥ वार्त्तिक ३.४५:१५ ॥ मया वरदराजेन मायामोहापसारकम् ॥ वार्त्तिक ३.४५:१६ ॥ श्रीक्षेमराजनिर्णीतव्याख्यानाध्वानुसारिणा ॥ वार्त्तिक ३.४५:१७ ॥ कृतिना कृष्णदासेन व्यञ्जितं कृपयाञ्जसा ॥ वार्त्तिक ३.४५:१८ ॥ अनुगृह्णन्तु नामैतत्सन्तः संतोषमागताः ॥ वार्त्तिक ३.४५:१९ ॥] 

Search

Search here.