शिवाष्टकम्

स्तोत्र - मंत्र  > शिव स्तोत्र Posted at 2016-02-10 18:25:00
शिवाष्टकम् श्री गणेशाय नम: ॥ प्रभुं प्राणनाथं विभुं विश्‍वनाथं जगन्नाथनाथं सदानंदभाजाम् । भवद्बव्यभुतेश्वरं भूतनाथं शिवं शंकरं शंभूमीशानमीडे ॥ १ ॥ गले रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । जटाजूटगंगोत्तरंगैर्विशालं शिवं० ॥ २ ॥ मुदामाकरं मंडनं मंडयन्तं महामंडलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं० ॥ ३ ॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् । गिरिशं गणेशं सुरेशं महेशं शिवं० ॥ ४ ॥ गिरिन्द्रात्मजासंगृहीतार्धदेहं गिरौ संस्थितं सर्वदासन्नगेहम् ॥ परब्रह्मब्रह्मादिभिर्वंद्यमानं शिवं० ॥ ५ ॥ कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् । बलीवर्दयानं सुराणां प्रधानं शिवं० ॥ ६ ॥ शरच्चंद्रगात्रं गुणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् । अपर्णाकलत्रं चरित्रं विचित्रं शिवं० ॥ ७ ॥ हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् । श्मशाने वसंतं मनोजं दहंतं शिवं० ॥ ८ ॥ स्तवं य: प्रभाते नर: शूलपाणे: पठेत्सर्वदा भर्गभावानुरक्त: । सपुत्र धनं धान्यमित्रं कलत्रं विचित्र: समासाद्य मोक्षं प्रयाति ॥ ९ ॥ इति श्रीशिवाष्टकं सम्पूर्णम्

Search

Search here.