श्री नृसिंह सरस्वती स्तोत्र
स्तोत्र - मंत्र > श्री सद्गुरु स्तोत्र Posted at 2019-02-09 03:42:44
|| श्रीनृसिंहसरस्वतीस्तोत्रम् ||
।। श्री गणेशाय नमः ।।
प्राग्ब्रह्म त्वमजोक्रियोपि बहुलं स्यामित्यभूद्धेस्तया ।
सृष्ट्वैवांडभुवं ततो जगदिदं सृष्टं सधर्मं गुणै: ॥
स्वै: स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशं ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥१॥
कल्याकृष्टह्रुदुझ्झितक्रतुनरत्रस्ताध्वराशीर्मुदे ।
प्रात: सूर्य इवोदितोस्यज महामोहांधकारं ग्रसन् ॥
सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यं नयन् ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥२॥
सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् ।
प्रादुष्कृत्य जनत्रयांतरमृगक्रीडावनं पावनं ॥
संसारवटमग्नमुद्धरसि भो स्वीकृत्य तुर्याश्रमं ।
वंदे श्रीन्रुहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥३॥
मूके गां दृशमंधके सुतनयं वंध्यासु चासून्मृते ।
सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुष्केंधने ॥
एवंभूत इयान्तवैष महिमा त्रैलोक्यसंस्थाक्षमो ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥४॥
मुक्तावास मुमुक्षुकल्पविटपिन्भो कामिनां कामधुग् ।
दारिद्रानलमेघ दुष्कृतदवाग्ने तापिताराम ते ॥
श्रुत्यन्विष्टरज:पदं श्रुतविवादातीततत्वं महत् ।
वंदे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥५॥
भो योगीश्वरभावितं तव पदं तीर्थाश्रयं सज्जना -
जीवं कामिसुदैवतं च कमलालीलास्थलं निर्मलं ॥
विद्वद्वादकरंडकं सुकृतसंस्थानं महत्पावनं ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥६॥
वेदागोचर ते चरित्रममलं शक्तोत्र क: कृत्स्नशो ।
वक्तुं वन्ह्यबिनेंदुभूखपवनात्मेतीह मूर्त्यष्टकम् ॥
एतद्विश्वमयं न चान्यदिह वा ॐकाररूपेशित -
र्वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥७॥
कुण्डीदण्डकरं प्रशांतममलं संन्यासिरूपं तव ।
श्रीभीमामरजायुतिस्थितमज ध्येयं शरण्यं मयि ॥
ज्ञातं तारकमीश सत्यमनिशं ब्रह्मन्स्थिरीकुर्वदो ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥८॥
एवं स्तुवंतं प्रभुराह तेर्पिता तुष्टेन भक्तिर्मयि खल्वहैतुकी ।
भो पुत्रपौत्रादिसमस्तवंशजा भक्ता भविष्यन्ति ममैव निश्चितम् ॥
इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं संपूर्णम्।।
Search
Search here.