श्री सूक्त
स्तोत्र - मंत्र > देवी स्तोत्र Posted at 2018-11-03 00:51:25
श्री सुक्त
हरिः ऊँ
ॐ हिरण्यवर्णांहरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रांहिरण्मयींलक्ष्मीं जातवेदोमआवह॥१॥
तां मआवह जातवेदोलक्ष्मी मनपगामिनीम्।
यस्यां हिरण्यंविन्देयं गामश्वंपुरुषानहम् ॥२॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवीजुषताम् ॥३।।
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तींतृप्तांतर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥४॥
चन्द्रांप्रभासां यशसाज्वलन्तीं श्रियंलोकेदेवजुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहंप्रपद्ये ऽलक्ष्मीर्मेनश्यतां त्वांवृणे॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथबिल्वः ।
तस्यफलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
उपैतुमां देवसखः कीर्तिश्चमणिनासह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिंददातुमे ॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिम समृद्धिंचसर्वांनिर्णुद मेगृहात्॥८॥
गन्धद्वारां दुराधर्षां नित्यपुष्टांकरीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वयेश्रियम् ॥९॥
मनसःकाममाकूतिं वाचःसत्यमशीमहि ।
पशूनां रूपमन्नस्यमयि श्रीःश्रयतांयशः ॥१०॥
कर्दमेन प्रजाभूतामयिसम्भवकर्दम ।
श्रियंवासयमेकुले मातरंपद्ममालिनीम् ॥११॥
आपःसृजन्तुस्निग्धानि चिक्लीतवसमेगृहे।
निचदेवींमातरं श्रियंवासयमेकुले ॥१२॥
आर्द्रां पुष्करिणीं पुष्टिंपिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयींलक्ष्मीं जातवेदोमआवह॥१३॥
आर्द्रां यःकरिणीं यष्टिंसुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयींलक्ष्मीं जातवेदोमआवह॥१४॥
तां मआवहजातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यंप्रभूतं गावोदास्योऽश्वान्विन्देयं पूरुषानहम् ॥१५॥
यःशुचिःप्रयतोभूत्वा जुहुयादाज्यमन्वहम्। सूक्तंपञ्चदशर्चंच श्रीकामःसततंजपेत् ॥१६॥
फलश्रुति
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥ अश्वदायी गोदायी धनदायी महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥ भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ।। सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥ श्रीमहालक्ष्मी च विद्महे विष्णुपत्नी च धीमही । तन्नो लक्ष्मीः प्रचोदयात् ॥ श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ।। ऋणरोगादिदारिद्र्य पापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥
Search
Search here.