श्रीयोगेश्वरी सहस्त्रनाम स्तोत्र
नामावली > देवी नामावली Posted at 2019-02-09 04:26:28
श्रीयोगेश्र्वरी सहस्त्रनाम
श्रीगणेशायनमः ॥ श्रीयोगेश्र्वर्यैनमः ॥
अथ मूल मंत्रः
ॐ र्हीं नमो भगवति रक्तचामुंडे योगेश्र्वरी, योगिनीं र्हीं स्वाहा इति मंत्रः ।
रक्तचामुंडायै विद्महे भूत संहारिण्यै च धीमहि ।
तन्नो योगेश्र्वरी प्रचोदयात् ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपं ।
सिद्धिर्भवतु मे देवी त्वत्प्रसादात्त्वयि स्थितिः ।
लं, हं, यं, रं, वं ।
अथ महामंत्रः
ॐ अस्य योगेश्र्वरी महामन्त्रस्य महादेव ऋषिः ।
अनुष्टुप् छंदः । श्री योगेश्र्वरी देवता । र्हीं बीजम् ।
श्रीं शक्तिः । क्लीं कीलकम् ।
मम चतुर्विधपुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ।
अथ न्यासः
ॐ र्हीं अंगुष्ठाभ्यां नमः ।ॐ यं तर्जनीभ्यां नमः ।
ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रदेवतायै अनामिकाभ्यां नमः ।
ॐ योगेश्र्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकर पृष्ठाभ्यां नमः ।
एवं हृदयादि न्यसेत् ।
अथ ध्यानम्
ॐ देवी भक्तजनप्रियां सुवदनां खड्गं च पात्रं तथा ।
स्वर्णालङ्कृतलाङ्गलं सुमुसलं हस्तैर्दधानां श्रियम् ॥
विद्युत्कोटिरवीन्दुकान्ति धवलां दन्तासुरोन्मूलिनीं ।
ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्र्वरीं संभजे ॥ १ ॥
लं पृथिव्यादि पंच
मानसोपचारैः संपूज्य जपेत्
ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि नमः
ॐ हं आकाशात्मने पुष्पं परिकल्पयामि नमः
ॐ यं वायव्यात्मने धूपं परिकल्पयामि नमः
ॐ रं अग्न्यात्मने दीपं परिकल्पयामि नमः
ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि नमः
ॐ सं सर्वात्मने फलं तांबूलं दक्षणांच परिकल्पयामि नमः
अथ मन्त्रः
ॐ र्हीं यं यां रुद्रदेवतायै योगेश्र्वर्यै स्वाहा
उत्तर न्यासं कृत्वा गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मेदेवित्वत्प्रसादात्सुरेश्र्वरि ॥
इति ॐ ॐ ॐ
अथ श्री योगेश्र्वरी सहस्त्रनाम प्रारंभः ।
ॐ या तुरीया परादेवी दोषत्रयविवर्जिता ।
सदानंदतनुः शांता सैवाहमहमेव सा ॥ १ ॥
यस्याः संस्मरणादेव क्षोयंते भवभीतयः ।
तां नमामि जगद्धात्रीं योगिनीं परयोगिनीम् ॥ २ ॥
महदादि जगद्यस्या जातं रज्जुभुजगंवत् ।
सा अंबापुरसंस्थाना पातु योगेश्र्वरी ॥ ३ ॥
सच्चिदानंदरुपाय प्रतीचेनंत रुपिणे ।
नमो वेदांतवेद्याय महसेमिततेजसे ॥ ४ ॥
श्री ईश्र्वर उवाच ।
यो नित्यं पुजयेद्देवीं योगिनीं योगवित्तमां ।
तस्यायुः पुत्रसौख्यं च विद्यादात्री भवत्यसौ ॥ ५ ॥
यो देवीभक्तिसंयुक्तस्तस्य लक्ष्मीश्च किंकरी ।
राजानो वश्यतां यांति स्त्रियो वै मदवोव्हलाः ॥ ६ ॥
यो भवानीं महामायां पूजयेन्नित्य मादृतः ।
ऐहिकं च सुखं प्राप्य परे ब्रह्मणि लीयते ॥ ७ ॥
श्रीविष्णुरुवाच ।
देव देव महादेव नीलकंठ उमापते ।
रहस्यं प्रष्टुमिच्छामि संशयोऽस्ति महामते ॥ ८ ॥
चराचरस्य कर्ता त्वं संहर्ता पालकस्तथा ।
कस्या देव्यास्त्वया शंभो क्रियतेस्तुतितन्वहम् ॥ ९ ॥
जप्यते परमो मंत्रो ध्यायते किं त्वया प्रभो ।
वद शंभो महादेव त्वतः का परदेवता ॥ १० ॥
प्रसन्नो यदि देवेश परमेश पुरातन ।
रहस्यं परया देव्या कृपया कथय प्रभो ॥ ११ ॥
विनायासं विनाजाप्यं विनाध्यानं विनार्चनम् ।
प्राणायामं विना होमं विनानित्योदितक्रियाम् ॥ १२ ॥
विनादानं विनागंधं विनापुष्पं विनाबलिम् ।
विनाभूतादिशुद्धि च यथा देवी प्रसीदति ॥ १३ ॥
ईति पृष्टस्तदा शंभुर्विष्णुना प्रभविष्णुना ।
प्रोवाच भगवान्देवी विकसन्नेत्र पंकजः ॥ १४ ॥
श्रीशिव उवाच ।
साधु साधु सुरश्रेष्ठ पृष्ठवानसि सांप्रतं ।
षण्मुखस्यापि यद्गोप्तं रहस्यं तद्वदामि ते ॥ १५ ॥
पुरा युगक्षये लोकान्कर्तुमिच्छुः सुरासुरम् ।
गुणत्रयमयी शक्तिश्चिद्रूपाद्या व्यवस्थिता ॥ १६ ॥
तस्यामहं समुत्पन्नो मत्तस्त्वं जगतःपिता ।
त्वत्तोब्रह्मा समुद्भूतो लोककर्ता महाविभुः ॥ १७ ॥
ब्रह्मणो ऋषयो जातास्तत्त्वैस्तैर्महादिभिः ।
चेतनेति ततः शक्तिर्मां काप्यालिंग्य तिष्ठति ॥ १८ ॥
आराधिता स्तुता सैव सर्वमंगलकारिणी ।
तस्यास्त्वनुग्रहादेव मया प्राप्तं परं पदम् ॥ १९ ॥
स्तौमि तां च महामायां प्रसन्ना च ततः शिवा ।
नामानि ते प्रवक्ष्यामि योगेश्र्वर्याः शुभानि च ॥ २० ॥
एतानि प्रपठेद्विद्वान्नमोंतानि सुरेश्वर ।
तस्या स्तोत्रं महापुण्यं स्वयंकल्पात्प्रकाशितम् ॥ २१ ॥
गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।
तव तत्कथयिष्यामि श्रुत्वा तदवधारय ॥ २२ ॥
यस्यैककालपठनात्सर्वे विघ्नाः पलायितः ।
पठेसहस्त्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ॥ २३ ॥
प्रसन्ना योगिनी तस्य पुत्रत्वेनानुकल्पते ।
यथा ब्रह्मामृतैर्ब्रह्मकुसुमैः पूजितापरा ॥ २४ ॥
प्रसीदति तथा तेन श्रुत्वा देवी प्रसीदति ।
अस्य श्री योगेश्र्वरी सहस्त्रनामस्तोत्रमंत्रस्य श्रीमहादेव ऋषिः ।
अनुष्टुप छंदः । श्रीयोगेश्र्वरी देवता ।
मम सकलकामना सिद्धर्थं अंबापुरवासिनी प्रीत्यर्थं
सहस्त्रनाम स्तोत्र जपे विनियोग ।
अथन्यासः
ॐ र्हीं अंगुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः ।
ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रदेवतायै अनामिकाभ्यां नमः ।
ॐ योगेश्र्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ।
एवंहृदयादि षडंगन्यासः ।
ॐ र्हीं हृदयाय नमः । ॐ यं शिरसे स्वाहा ।
ॐ यां शिखायै वषट् । ॐ रुद्रदेवत्यायै कवचायहुं ।
ॐ योगेश्र्वर्यै नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् ।
ॐ भूर्भुवस्वरोमिति दिग्बंधः ।
अथ ध्यानं ।
ॐ कालाभ्राभ्यां कटाक्षैरलिकुलभयदां मौलिबद्धेंदुरेखां ।
शंखं चक्रं कपालं डमरुमपि करैरुद्वहंतीं त्रिनेत्रां ।
सिंहस्कंधाधिरुढां त्रिभुवनमखिलं तेजसा पूरयंतीं,
ध्यायेदंबां जयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेंद्रः ॥ १ ॥
अथ सहस्त्रनाम स्तवनम् ।
ॐ योगिनी योगमाया च योगपीठस्थितिप्रिया ।
योगिनो योगदीक्षाच योगरुपाच योगिनी ॥ १ ॥
योगगम्या योगरता योगीहृदयवासिनी ।
योगस्थिता योगयुता योगमार्गरता सदा ॥ २ ॥
योगेश्र्वरी योगनिद्रा योगदात्री सरस्वती ।
तपोयुक्ता तपःप्रितिः तपःसिद्धिप्रदापरा ॥ ३ ॥
निशुंभशुंभसंहत्रीं रक्तबीज विनाशिनी ।
मधुकैटभहंत्री च महिषासुरघातिनी ॥ ४ ॥
शारदेंदुप्रतीकाशा चंद्रकोटिप्रकाशिनी ।
महामाया महाकाली महामारी क्षुधातृषा ॥ ५ ॥
निद्रातृष्णा चैकवीरा कालरात्रीर्दुरत्यया ।
महाविद्या महावाणी भारतीवाक् सरस्वती ॥ ६ ॥
आर्या ब्राह्मी महाधेनुर्वेदगर्भा च धीश्वरी ।
कराला विकरालाख्या अतिकालातिदीपका ॥ ७ ॥
एकलिंगा योगिनी च डाकिनी भैरवी तथा ।
महाभैरवकेंद्राक्षी त्वसितांगी सुरेश्वरी ॥ ८ ॥
शांति चंद्रार्धमाकर्षी कलाकांति कलानिधीः ।
सर्वसंक्षोभिणी शक्तिः सर्वाल्हादकरी प्रिया ॥ ९ ॥
सर्वाकर्षिणिकाशक्तिः सर्वविद्राविणी तथा ।
सर्वसंमोहिनीशक्तिः सर्वस्तंभनकारिणी ॥ १० ॥
सर्वजृंभनिका नाम शक्तिः सर्ववशंकरी ।
महासौभाग्यगंभीरा पीनवृत्तघनस्तनी ॥ ११ ॥
रत्नपीठाविनिक्षिप्ता साधकेप्सितभूषणा ।
नानाशस्त्रधरादिव्या वसतीहर्षितानना ॥ १२ ॥
खड्गपात्र धरादेवी दिव्यवस्त्रा च योगिनी ।
सर्वसिद्धिप्रदादेवी सर्वसंपत्प्रदानता ॥ १३ ॥
सर्वप्रियंकरीचैव सर्वमंगलकारिणी ।
सा वैष्णवी सैव शैवी महारौद्री शिवा क्षमा ॥ १४ ॥
कौमारी पार्वती सैव सर्वमंगलदायिनी ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥ १५ ॥
वाराही चैव माहेंद्री चामुंडा सर्वदेवता ।
अणिमा महिमा सिद्धिर्लघिमा शिवरुपिका ॥ १६ ॥
वशित्वसिद्धिः प्राकाम्या भुक्तिरिच्छाष्टमी परा ।
सर्वांकर्षणिकाशक्तिः सर्वाल्हादकरी प्रिया ॥ १७ ॥
सर्वसंमोहिनीशक्तिः सर्वस्तंभनकारिणी
सर्वजृंभनिका नाम शक्तिः सर्ववशंकरी ॥ १८ ॥
सर्वार्थरंजिनीशक्तिः सर्वमोदनकारिणी ।
सर्वार्थसाधकीशक्तिः सर्वसंपत्तिपूरकी ॥ १९ ॥
सर्वमंत्रमयीशक्तिः सर्वद्वद्वक्षयंकरी ।
सर्वकामप्रदादेवी सर्वदुःखप्रमोचनी ॥ २० ॥
सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ।
सर्वांगसुंदरादेवी सर्वसौभाग्यदायिनी ॥ २१ ॥
सर्वरक्षाकरीदेवी अक्षवर्णविराजिता ।
नोमितां जगतां धात्री योगनिद्रास्वरुपिणीम् ।
सर्वस्याद्या विशालाक्षी नित्या बुद्धिःस्वरुपिणी ॥ २२ ॥
श्वेतपर्वतसंकाशा श्वेतवस्त्रा महासती ।
नीलहस्ता रक्तमध्या सुश्वेतस्तनमंडला ॥ २३ ॥
रक्तपादा नीलजंघा सिचित्रजघना विभो ।
चित्रमाल्यांबरधरा चित्रगंधानुलेपना ॥ २४ ॥
जपाकुसुमवर्णाभा रक्तांबरविभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकुंचितमूर्घना ॥ २५ ॥
सर्वस्याद्या महालक्ष्मीनित्याबुद्धिस्वरुपिणी ।
चतुर्भुजा रक्तदंता जगद्व्याप्यव्यवस्थिता ॥ २६ ॥
नीलांजनचयप्रख्या महाद्रंष्टा महानना ।
विस्तीर्णलोचनादेवी वृत्तपीनपयोधरा ॥ २७ ॥
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ।
भीमा देवीति संपूज्या चैत्रपुत्र प्रदायिनी ॥ २८ ॥
या सात्त्विकगुणा प्रोक्ता मायाविष्टसरस्वती ।
सा देवकार्यवसति स्वरुपमपरं दधौ ॥ २९ ॥
देवस्तुता तदा गौरी स्वदेहात्तरुणीं सृजत् ।
ख्याता वै कौशिकी देवी ततः कृष्णाभवत्सती ॥ ३० ॥
हिमाचलकृतस्थाना कालिकेति च विश्रुता ।
महासरस्वतीदेवी शुंभसुरनिबर्हिणी ॥ ३१ ॥
श्वेतपर्वतसंकाशा श्वेतवस्त्राविभूषणा ।
नानारत्नसमाकीर्णा वेदविद्याविनोदिनी ॥ ३२ ॥
शस्त्रव्रातसमायुक्ता भारती सा सरस्वती ।
वागीश्वरी पीतवर्णा सैवोक्ता कामदालया ॥ ३३ ॥
कृष्णवर्णा महालंबा नीलोत्पलविलोचनी ।
गंभीरनाभिस्त्रिवली विभूषिततनूदरी ॥ ३४ ॥
सुकर्कशा चंद्रभासा वृत्तपीनपयोधरा ।
चतुर्भुजा विशालाक्षी कामोनीपद्मलोचना ॥ ३५ ॥
शाकंभरी समाख्याता शताक्षी वनशंकरी ।
त्रिपुरा विजया भीमा तारा त्रैलोक्यसुंदरी ॥ ३६ ॥
शांभवी त्रिजगन्माता स्वरात्रिपुरसुंदरी ।
कामाक्षी कमलाक्षी च धृतिस्त्रिपुरतापिनी ।
शुचौ शाकंबरीदेवी पूजनीया प्रयत्नतः ॥ ३७ ॥
जया जयंर्गती शिवदा जलेशी च रणप्रिया ।
गजवक्रा त्रिनेत्रा च शंखिनी चापराजिता ॥ ३८ ॥
महिषघ्नी शुभानंदा स्वधा स्वाहा शिवासना ।
विद्युज्जिव्हा त्रिवका च चतुर्वक्रा सदाशिवा ।
कोटराक्षी शिखिरवा त्रिपदा सर्वमंगला ।
मयुरवदनासिद्धिर्बुद्धिः काकरवासती ॥ ३९ ॥
हुंकार तालकेशी च सर्वतारा च सुंदरी ।
सर्पास्या च महाजिव्हा पाशपाणिर्गरुत्मती ॥ ४० ॥
पद्मावती सुकेशी च पद्मकेशी क्षमावती ।
पद्मावती सुरमुखी पद्मवक्रा षडानना ॥ ४१ ॥
त्रिवर्गफलदा माया रक्षोघ्नी पद्मवासिनी ।
प्रणवेशी महोल्काभा विघ्नेशीस्तंभनी खला ॥ ४२ ॥
मातृकावर्णरुपा च अक्षरोच्चारिणी गृहा ।
अजपा मोहिनी श्यामा जपरुपा बलोत्कटा ॥ ४३ ॥
वाराही वैष्णवी जंभा वार्ताली दैत्यतापिनी ।
क्षेमंकरी सिद्धिकरी बहुमाया सुरेश्र्वरी ॥ ४४ ॥
छिन्नमूर्धा छिन्नकेशी दानवेंद्रक्षयंकरी ।
शाकंभरी मोक्षलक्ष्मीर्जंभिनी बगलामुखी ॥ ४५ ॥
अश्वारुढा महाक्लिन्ना नारसिंही गजेश्र्वरी ।
सिद्धेश्र्वरी विश्वदुर्गा चामुंडा शववाहना ॥ ४६ ॥
ज्वालामुखी कराली च चिपटा खेचरेश्र्वरी ।
शुंभघ्नी दैत्यदर्पघ्नी विंध्याचलनिवासिनी ॥ ४७ ॥
योगिनी च विशालाक्षी तथा त्रिपुरभैरवी ।
मातंगिनी करालाक्षी गजारुढा महेश्र्वरी ॥ ४८ ॥
पार्वती कमलालक्ष्मीः श्वेताचलनिभात्द्युमा ।
कात्यायनी शंखरवा धुर्धुरा सिंहवाहिनी ॥ ४९ ॥
नारायणीश्वरी चंडी घंटाली देवसुंदरी ।
विरुपावामनी कुब्जा कर्णकुब्जा घनस्तनी ॥ ५० ॥
नीला शाकंभरी दुर्गा सर्वदुर्गार्तिहारिणी ।
द्रंष्ट्राकितमुखा भीमा नीलपत्रशिरोधरा ॥ ५१ ॥
महिषघ्नी महादेवी कुमारी सिंहवाहिनी ।
दानवांस्तर्जयंती च सर्वकामदुधा शिवा ॥ ५२ ॥
कन्या कुमारिका चैव देवेशी त्रिपुरा तथा ।
कल्याणी रोहिणी चैव कालिका चंडिका परा ॥ ५३ ॥
शांभवी चैव दुर्गा च सुभद्रा च यशस्विनी ।
कलात्मिका कलातीता कारुण्यहृदयाशिवा ॥ ५४ ॥
कारुण्यजननी नित्या कल्याणी करुणाकरा ।
कामाधारा कामरुपा कालदंड स्वरुपिणी ॥ ५५ ॥
कामदा करुणाधारा कालिका कामदा शुभा ।
चंडवीरा चंडमाया चंडमुंडविनाशिनी ॥ ५६ ॥
चंडिका शक्तिरत्युग्रा चंडिका चंडविग्रहा ।
गजानना सिंहमुखी गृध्रास्या च महेश्र्वरी ॥ ५७ ॥
उष्ट्रग्रीवा हयग्रीवा कालरात्रिर्निशाचरी ।
कंकाली रौद्रचीत्कारी फेत्कारी भूतडामरी ॥ ५८ ॥
वाराही शरभास्या च प्रेताक्षी मांसभोजनी ।
कंकाली डाकिनीकाली शुल्कांगीकलहप्रिया ॥ ५९ ॥
उलूकिका शिवारावा धूम्राक्षी चित्रनादिनी ।
उर्ध्वकेशी भद्रकेशी शवहस्तांत्रमालिनी ॥ ६० ॥
कपालहस्ता रक्ताक्षी श्येनी रुधिरदायिनी ।
खड्गिनी दीर्घलंबोष्ठी पाशहस्ता बलाकिनी ॥ ६१ ॥
काकतुंडा पाशहस्ता धूर्जटी विषभक्षिणी ।
पशुघ्नी पापहंत्री च मयूरी विकटानना ॥ ६२ ॥
भयविध्वंसिनी चैव प्रेतास्या प्रेतवाहिनी ।
कोटराक्षी लसज्जिव्हा अष्टवक्रा सुरप्रिया ॥ ६३ ॥
व्यात्तास्या धूमनिःश्वासा त्रिपुरा भुवनेश्र्वरी ।
बृहत्तुंडा दंडहस्ता प्रचंडा चंडविक्रमा ॥ ६४ ॥
स्थूलकेशी बृहत्कुक्षी यमदूती करालिनी ।
दशवक्रा दशपदा दशहस्ता विलासिनी ॥ ६५ ॥
अनाद्यंतस्वरुपा च क्रोधरुपा मनोगति ।
मनःश्रुतिस्मृतिघ्राणचक्षुस्त्वग्रसनात्मिका ॥ ६६ ॥
योगिनीमानसंस्था च योगिसिद्धिप्रदायिका ।
उग्रिणी उग्ररुपा च उग्रतारा च उग्रिणी ॥ ६७ ॥
उग्ररुपधरा चैव उग्रेशी उग्रवासिनी ।
भीमा च भीमकेशी च भीममूर्तिश्च भामिनी ॥ ६८ ॥
भीमा च भीमरुपा च भीमरुपा जगन्मया ।
खड्गिन्यभयहस्ता च घंटाडमरुधारिणी ॥ ६९ ॥
पाशिनी नागहस्ता च योनिन्यंकुशधारिणी ।
यज्ञा च यज्ञमूर्तिश्च दक्षयज्ञविनाशिनी ॥ ७० ॥
यज्ञदीक्षा धरादेवी यज्ञसिद्धिप्रदायिनी ।
हिरण्यबाहुचरणा शरणागतपालिनी ॥ ७१ ॥
अनाम्न्यनेक नाम्नीच निर्गुणा च गुणात्मिका ।
नमो जगत्प्रतिष्ठा च सर्वकल्याणमूर्तिनी ॥ ७२ ॥
ब्रह्मादिसुर वंद्या च गंगाधरजटास्थिता ।
महामोहा महादीप्ति सिद्धिर्विद्या च योगिनी ॥ ७३ ॥
योगिनी चंडिका सिद्धा सिद्धसिद्धा शिवप्रिया ।
शरयूर्गोमती भीमा गौतमी नर्मदा मही ॥ ७४ ॥
भागीरथी च कावेरी त्रिवेणी गंदकी शरा ।
सुषुप्तिर्जागृतिर्निद्रा स्वप्नातुर्या च चक्रिणी ॥ ७५ ॥
अहिल्यारुंधती चैव तारा मंदोदरी तथा ।
देवी पद्मावती चैव त्रिपुरेशस्वरुपिणी ॥ ७६ ॥
एकवीरा महादेवी कनकाद्याश्चदेवता ।
शूलिनी परिघास्त्रा च खड्गिन्याबाह्यदेवता ॥ ७७ ॥
कौबेरी धनदा याम्याग्नेयी वायुतनुर्निशा ।
ईशानी नैर्ऋतिः सौम्या माहेंद्री वारुणी तथा ॥ ७८ ॥
सर्वर्षिःपूजनीयांघ्रिः सर्वयंत्राधिदेवता ।
सप्तधातुमयीमूर्तिः सप्तधात्वंतराश्रया ॥ ७९ ॥
देहपुष्टिर्मनस्तुष्टिरत्नपुष्ठिर्बलोद्धता ।
तपोनिष्ठा तपोयुक्ता तापसःसिद्धिदायिनी ॥ ८० ॥
तपस्विनी तपःसिद्धिः तापसी च तपःप्रिया ।
औषधी वैद्यमाता च द्रव्यशक्तिःप्रभाविनी ॥ ८१ ॥
वेदविद्या च विद्या च सुकुला कुलपूजिता ।
जालंधरशिरःछेत्री महर्षिहितकारिणी ॥ ८२ ॥
योगनीतिर्महायोगा कालरात्रिर्महारवा ।
अमोहा च प्रगल्भा च गायत्रीहरवल्लभा ॥ ८३ ॥
विप्राख्या व्योमकारा च मुनिविप्र प्रियासती ।
जगत्कीर्तिर्जगत्कारी जगश्वासा जगन्निधिः ॥ ८४ ॥
जगत्प्राणा जगद्दंष्ट्रा जगज्जिव्हा जगद्रसा ।
जगचक्षुर्जगत्घ्राणा जगच्छोत्रा जगन्मुखा ॥ ८५ ॥
जगच्छत्रा जगद्वक्रा जगद्भर्त्रीजगत्पिता ।
जगत्पत्नी जगन्माता जगद्धात्री जगत्सुहृत् ॥ ८६ ॥
जगद्धात्री जगत्प्राणा जगद्योनिर्जगन्मती ।
सर्वस्तंभी महामाया जगद्दीक्षाजया तथा ॥ ८७ ॥
भक्त्यैयलक्ष्या द्विविधा त्रिविधा च चतुर्विधा ।
इंद्राक्षी पंचरुपा च सहस्त्ररुपधारिणी ॥ ८८ ॥
मूलादिवासिनी चैव अंबापुर निवासिनी ।
नवकुंभा नवरुचिः कामज्वाला नवानना ॥ ८९ ॥
गर्भज्वाला तथा बाला चक्षुर्ज्वाला नवांबरा ।
नवरुपा नवकला नवनाडी नवानना ॥ ९० ॥
नवक्रीडा नवविधा नवयोगिनिका तथा ।
वेदविद्या महाविद्या विद्यादात्री विशारदा ॥ ९१ ॥
कुमारी युवती बाला कुमारीव्रत चारिणी ।
कुमारी भक्तसुखिनी कुमारीरुपधारिणी ॥ ९२ ॥
भवानी विष्णुजननी ब्रह्मादिजननी परा ।
गणेशजननी शक्तिः कुमारजननीशुभा ॥ ९३ ॥
भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी ।
भगात्मिका भगाधारा रुपिणी भगमालिनी ॥ ९४ ॥
भवरोगहरा भव्या सुभ्रुःपरममंगला ।
शर्वाणी चपलापांगी चारुचंद्राकलपरा ॥ ९५ ॥
विशालाक्षी विश्वमाता विश्ववंद्या विलासिनी ।
शुभप्रदा शुभावार्ता वृत्तपीनपयोधरा ॥ ९६ ॥
अंबासंसारमथिनी मृडानी सर्वमंगला ।
विष्णुसंसेविता शुद्धाब्रह्मादिसुरसेविता ॥ ९७ ३
परमानंदशक्तिश्च परमानंदरुपिणी ।
परमानंदजननी परमान्नंदप्रदायिनी ॥ ९८ ॥
परोपकारनिरता परमाभक्तवत्सला ।
आनंदभैरवी बाला भैरवी बटुभैरवी ॥ ९९ ॥
श्मशान भैरवी काली भैरवी रुरुभैरवी ॥ १०० ॥
पूर्णचंद्राभवदना पूर्णचंद्रनिभांशुका ।
शुभलक्षणसंपन्ना शुभानंतगुणार्णवा ॥ १०१ ॥
शुभसौभाग्यनिलया शुभाचाररताप्रिया ।
सुखसंभोगभवना सर्वसौख्यनिरुपिणी ॥ १०२ ॥
अवलंबा तथा वाग्मी प्रवरा वाद्यवादिनी ।
घूर्णादिपट्टला कोपादुतीर्णकुटिलानना ॥ १०३ ॥
पापदा पापनाशा च ब्रह्माग्नीशापमोचनी ।
सर्वातीता च उच्छिष्टा चांडाली परिघायुधा ॥ १०४ ॥
ॐ कारी वेदकारी च र्हींकारी सकलगमा ।
यंकारी चर्चिता चर्ची चर्चिता चक्ररुपिणी ॥ १०५ ॥
महाव्याधवरारोहा धनुर्बाणधरा धरा ।
लंबिनी च पिपासा च क्षुधा संदेशिका तथा ॥ १०६ ॥
भुक्तिदा मुक्तिदा देवी सिद्धिदा शुभदायिनी ।
सिद्धिदा बुद्धिदा माता वर्मिणी फलदायिनी ॥ १०७ ॥
चन्डिका चन्डमथिनी चंडदर्पनिवारिणी ।
चंडमार्तंडनयना चंद्राग्निनयना सती ॥ १०८ ॥
सर्वांगसुंदरी रक्ता रक्तवस्त्रोत्तरीयका ।
जपापावकसिंदुरा रक्तचंदनधारिणी ॥ १०९ ॥
कर्पूरागरुकस्तूरीकुंकुमद्रवलेपिनी ।
विचित्ररत्नपृथिवी कल्मषांघ्रीतलास्थिता ॥ ११० ॥
भगात्मिका भगाधारा रुपिणी भगमालिनी ।
लिंगाभिधायिनी लिंगप्रियलिंगानिवासिनी ॥ १११ ॥
भगलिंगस्वरुपा च भगलिंगसुखावहा ।
स्वयंभूकुसुमप्रीता स्वयंभूकुसुमार्चिता ॥ ११२ ॥
स्वयंभुकुसुमस्नाता स्वयंभूपुष्पतर्पिता ।
स्वयंभूपुष्पतिलका स्वयंभूपुष्पधारीणी ॥ ११३ ॥
पुंडरीककरा पुण्या पुण्यदा पुण्यरुपिणी ।
पुण्यज्ञेया पुण्यवंद्या पुण्यमूर्तिः पुरातना ॥ ११४ ॥
अनवद्या वेदवेद्या वेदवेदांतरुपिणी ।
मायातीता सृष्टमाया माया धर्मात्मवंदिता ॥ ११५ ॥
असृष्टा संगरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारुढा शूलहस्ता स्थितिसंहारकारिणी ॥ ११६ ॥
मंदस्थितिः शुद्धरुपा शुद्धचित्तमुनिस्तुता ।
महाभाग्यवती दक्षा दक्षाध्वर विनाशिनी ॥ ११७ ॥
अपर्णानन्यशरणा भक्ताभीष्टफलप्रदा ।
नित्या सुंदरसर्वांगी सच्चिदानंदलक्षणा ॥ ११८ ॥
कामजा केलिका केलि कर्षा कर्बुरकालजा ।
गिरिजागर्वजा गोत्रा अकुला कुलजा तथा ॥ ११९ ॥
दिनजा दिनमाता च वेदजा वेदसंभृता ।
क्रोधजा कुटजा धारा परमा बलगर्विता ॥ १२० ॥
सर्वलोकोत्तरा भावा सर्वकालोद्भवात्मिका ।
कुंडगोलोद्भवा प्रीता कुंडगोलोद्भवात्मिका ॥ १२१ ॥
कुंदपुष्पसदाप्रीति पुष्पगोलसदारतिः ।
शुक्रमूर्तिः शुक्रदेहा शुक्रपुजितमूर्तिनी ॥ १२२ ॥
विदेहा विमला शुक्रा चौंडा कर्नाटकी तथा ।
त्रिमाता उत्कला मौंडी विरेखा वीरवंदिता ॥ १२३ ॥
शामला गौरवी पीना मागधेश्वर वंदिता ।
पार्वती कर्मनाशा च कैलासवासिका तथा ॥ १२४ ॥
शालिग्रामशिला माली शार्दूला पिंगकेशिनी ।
नारदा शारदा चैव रेणुका गगनेश्वरी ॥ १२५ ॥
धेनुरुपा रुक्मिणी च गोपिका यमुनाश्रया ।
सुकंठा कोकिला मेना चिरानंदा शिवात्मिका ॥ १२६ ॥
कंदर्पकोटिलावण्या सुंदरा सुंदरस्तनी ।
विश्वपक्षा विश्वरक्षा विश्वनाथ प्रियासती ॥ १२७ ॥
योगिनी योगयुक्ता च योगांगध्यानशालिनी ।
योगट्टधरा मुक्ता मुक्तानांपरामागतिः ॥ १२८ ॥
कुरुक्षेत्रवती काशि मथुरा कांत्यवंतिका ।
अयोध्या द्वारका माया तीर्था तीर्थकरीप्रिया ॥ १२९ ॥
त्रिपुष्करा प्रमेया च कोशस्था कोशवासिनी ।
कुशावर्ता कौशिकी च कोशांबा कोशवर्धिनी ॥ १३० ॥
पद्मकोशा कोशदाक्षी कुसुंभकुसुमप्रिया ।
तुलाकोटि च काकुत्स्था कुक्कुटा च रवाश्रया ॥ १३१ ॥
ॐ र्हीं यं यां रुद्र दैवत्यायै योगेश्वर्ये स्वाहा ।
पुत्रदा पौत्रदा पौत्री दिव्यादा दिव्यभोगदा ॥ १३२ ॥
स्त्रुक्स्त्रुवा सामिधेनी च सुश्रद्धा श्राद्धदेवता ।
माता मातामही तृप्तिः पितुर्माता पितामही ॥ १३३ ॥
स्नुषा दौहित्रिणी पुत्री दोलाक्रीडाभिनंदिनी ।
पोषिणीशोषिणीशक्तिर्दीर्घकेशी सुलोमशा ॥ १३४ ॥
सप्ताब्धिसंश्रयानित्या सप्तद्विपाब्धिमेखला ।
सूर्यदीप्तिर्वज्रशक्तिर्मदोन्मत्ता च पिंगला ॥ १३५ ॥
सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमंत्रमयी विद्या सर्वमंत्राक्षरावरा ॥ १३६ ॥
सर्वज्ञदा विश्वमाता भक्तानुग्रहकारिणी ।
विश्वप्रिया प्राणशक्तिर्नंतगुणनामधीः ॥ १३७ ॥
पंचाशद्विष्णुशक्तिश्च पंचाशन्मातृकामयी ।
द्विपंचाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रया ॥ १३८ ॥
चतुःषष्टिमहासिद्धिर्योगिनी वृंदवंदिनी ।
चतुःषड्वर्णनिर्णेयी चतुःषष्टिकलानिधिः ॥ १३९ ॥
अष्टषष्टिमहातीर्थक्षेत्रभैरववासिनी ।
चतुर्नवतिमंत्रात्मा षण्णवत्याधिकाप्रिया ॥ १४० ॥
सहस्त्रपत्रनिलया सहस्त्रफणिभूषणा ।
सहस्त्रनामसंस्तोत्रा सहस्त्रक्षबलापहा ॥ १४१ ॥
प्रकाशाख्या विशालाक्ष्या प्रकाशिकविमर्शका ।
निर्वाणचरणदेवी चतुश्चरणसंज्ञका ॥ १४२ ॥
चतुर्विज्ञानशक्त्याढ्या सुभगा च क्रियायुता ।
स्मरेशा शांतिदा इच्छा इच्छाशक्तिसमन्विता ॥ १४३ ॥
निशांबरा च राजन्यपूजिता च निशाचरी ।
सुंदरी चौर्ध्वकेशी च कामदा मुक्तकेशिका ॥ १४४ ॥
मानिनीतिसमाख्याता वीराणांजयदायिनी ।
यामलीति समाख्याता नासाग्रबिंदुमालिनी ॥ १४५ ॥
या कंका च करालांगी चंद्रकाला च संश्रया ।
चक्रिणी शंखिनी रौद्रा एकपादा त्रिलोचना ॥ १४६ ॥
भीषणीर्भैरवी भीमा चंद्रहासा मनोरमा ।
विश्वरुपा महादेवी घोररुपा प्रकाशिका ॥ १४७ ॥
कपालमालिकायुक्ता मूलपीठस्थिता रमा ।
योगिनी विष्णुरुपा च सर्वदेवर्षिपूजिता ॥ १४८ ॥
सर्वतीर्थपरादेवी तीर्थदक्षिणतःस्थिता ।
श्रीसदाशिवउवाच ।
दिव्यनाम सहस्त्रं ते योगेश्वर्यामयोदितं ॥ १४९ ॥
यः पठेत्पाठयेद्वापि स मुक्तो नात्र संशयः ।
अष्टम्यां भूतपौर्णम्यां नवम्यां दर्शभौमयोः ॥ १५० ॥
अयनेषूपरागे च पुण्यकाले विशेषतः ।
सर्वसौभाग्यसिद्धर्थं जपनीयं प्रयत्नतः ॥ १५१ ॥
सर्वाभिष्टकरं पुण्यं नित्यमंगलदायकं ।
इयं नामावली तुभ्यं मयाद्य समुदीरिता ॥ १५२ ॥
गोपनीया प्रयत्नेन नाख्येया च कदाचन ।
भक्ताय ज्येष्ठपुत्राय देयं शिष्याय धीमते ॥ १५३ ॥
आवहंतीतिमंत्रेण युक्तान्येतानि सादरं ।
यो जपेत्सततं भक्त्या सकामांल्लभतेध्रुवम् ॥ १५४ ॥
कार्याण्यावाहनादीनि देव्याशुचिरतात्मभिः ।
आवहंतीति मंत्रेण प्रत्येकं च यथाक्रमम् ॥ १५५ ॥
कर्तव्यं तर्पनं चापि तेन मंत्रेण मूलवत् ।
तदन्वितैश्च होमोपि कर्तव्यं स्तैश्च मूलतः ॥ १५६ ॥
एतानि दिव्य नामानिश्रुत्वा ध्यात्वाऽपि योनरः ।
ध्यात्वा देवीं च सततं सर्वकामार्थसिद्धये ॥ १५७ ॥
एतज्जपप्रसादेन नित्यतृप्तोवसाम्यहं ।
संतुष्टहृदयो नित्यं वसाम्यत्रार्चयं शिवाम् ॥ १५८ ॥
स्वापकाले प्रबोधे च यात्राकाले विशेषतः ।
तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ॥ १५९ ॥
राजद्वारे सभास्थाने विवादे विप्लवे तथा ।
चोरव्याघ्रभयं नास्ति संग्रामे जयवर्धनम् ॥ १६० ॥
क्षयापस्मारकुष्ठादितापज्वर निवारणम् ।
महाज्वरं तथात्युग्रं शीतज्वरनिवारणम् ॥ १६१ ॥
दोषादिसंन्निपातं च रोगाणां हंति सर्वशः ।
भूतप्रेतपिशाचाश्च रक्षां कुर्वंतिसर्वशः ॥ १६२ ॥
जपेत्सहस्त्रनमाख्यं योगिन्याः सर्व कामदम् ।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ १६३ ॥
त्रिकालमेककालं वा श्रद्ध्या प्रयतः पठेत् ।
सर्वान् रिपून्क्षणाज्जित्वा यः पुमांश्र्रियमाप्नुयात् ॥ १६४ ॥
डाकिनी शाकिनी चैव वेतालब्रह्मराक्षसां ।
कूष्मांडादिभयं सर्वं नश्यति स्मरणात्ततः ॥ १६५ ॥
वने रणे महाघोरे कारागृहनियंत्रके ।
सर्वसंकटनाशार्थं स्तोत्रपाठः सुसिद्धये ॥ १६६ ॥
वंध्या वा काकवंध्या वा मृतवंध्या च यांगना ।
श्रुत्वा स्तोत्रमिदं पुत्रांल्लभते चिरजीविनः ॥ १६७ ॥
स्वयंभुकुसुमैः शुक्रैः सुगंधिकुसुमान्वितैः ।
कुंकुमागरुकस्तुरीसिंदूरादिभिरर्चयेत् ॥ १६८ ॥
फलपुष्पादिभिर्युक्तैः मध्वाज्यैःपायसान्वितैः ।
पक्वाने षड्रसैर्भोज्यैः स्वाद्वंनैश्च चतुर्विधैः ॥ १६९ ॥
कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनीः ।
शक्तितो दक्षिणां दत्वा वासोलंकारभूषणैः ॥ १७० ॥
अनेन विधिना पूज्या देव्या संतुष्टकारकम् ।
सहस्त्रनामपाठात्तु कार्यसिद्धिर्नसंशयः ॥ १७१ ॥
रमाकांत सुराधीश प्रोक्तं गुह्यतरं मया ।
नासूयकाय वक्तव्यं न मूर्खायाततायिने ॥ १७२ ॥
सत्यं सत्यं पुनः सत्यं उध्दृत्य भुजमुच्यते ।
नानया सदृशी विद्या न देव्या योगिनी परा ॥ १७३ ॥
इति श्रीरुद्रयामले उत्तरखंडे देवीचरित्रे विष्णुशंकरसंवादे योगेश्र्वरीसहस्त्रनाम स्तोत्रं संपूर्णम् ॥
Search
Search here.