स्कंद पुराण
नमः परमदेवाय त्रैगुण्याविजितात्मने ।
सर्वतो योगरूपाय संसाराभावहेतवे ॥ १.१ ॥
स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे ।
षड्विंशाय प्रधानाय महादेवाय धीमते ॥ १.२ ॥
प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे ।
प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥ १.३ ॥
मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः ।
तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥ १.४ ॥
पौराणिकमपश्यन्त सूतं सत्यपरायणम् ।
स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ॥ १.५ ॥
दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः ।
आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ॥ १.६ ॥
स प्रणम्य च तान्सर्वान् सूतस्तान्मुनिपुंगवान् ।
प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥ १.७ ॥
तमासीनमपृच्छन्त मुनयस्तपसैधिताः ।
ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ॥ १.८ ॥
कथितं भारताख्यानं पुराणं च परं त्वया ।
तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥ १.९ ॥
सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥ १.१० ॥
भारताख्यानसदृशं पुराणाद्यद्विशिष्यते ।
तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥ १.११ ॥
इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
स्कन्दसंभवशुश्रूषा संजातौत्सुक्यमानसाः ॥ १.१२ ॥
एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
प्रोवाचेदं मुनीन्सर्वान् वचो भूतार्थवाचकम् ॥ १.१३ ॥
शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् ।
ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥ १.१४ ॥
मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥ १.१५ ॥
दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः ।
विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥ १.१६ ॥
मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् ।
सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥ १.१७ ॥
विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् ।
मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥ १.१८ ॥
वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥ १.१९ ॥
दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् ।
ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥ १.२० ॥
ब्रह्मसूनुरथ व्यासं समायातं महौजसम् ।
परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥ १.२१ ॥
दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ।
अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥ १.२२ ॥
श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥ १.२३ ॥
कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥ १.२४ ॥
कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम् ।
उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः ॥ १.२५ ॥
कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
भूतसंमोहनं ह्येतत्कथयस्व यथातथम् ॥ १.२६ ॥
सूत उवाच
एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे ।
तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥ १.२७ ॥
इति स्कन्दपुराणे प्रथमोऽध्यायः
स्कन्दपुराण २
सनत्कुमार उवाच
प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ २.१ ॥
शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥ २.२ ॥
तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥ २.३ ॥
देहावतारो देवस्य रुद्रस्य परमात्मनः ।
प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥ २.४ ॥
दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।
नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् ॥ २.५ ॥
ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥ २.६ ॥
सत्या विवादश्च तथा दक्षशापस्तथैव च ।
मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ॥ २.७ ॥
देवानां वरदानं च वसिष्ठस्य च धीमतः ।
पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥ २.८ ॥
वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् ।
वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥ २.९ ॥
रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
गणानां दर्शनं चैव कथनं चाप्यशेषतः ॥ २.१० ॥
कालीव्याहरणं चैव तपश्चरणमेव च ।
सोमनन्दिसमाख्यानं वरदानं तथैव च ॥ २.११ ॥
गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥ २.१२ ॥
गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥ २.१३ ॥
निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा ।
अभिषेकश्च कौशिक्या वरदानमथापि च ॥ २.१४ ॥
अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ।
हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥ २.१५ ॥
बलिसंयमनं चैव देव्याः समय एव च ।
देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥ २.१६ ॥
देवानां वरदानं च शुक्रस्य च विसर्जनम् ।
सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ॥ २.१७ ॥
शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
आर्यावरप्रदानं च शैलादिस्तव एव च ॥ २.१८ ॥
देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ॥ २.१९ ॥
आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता ।
दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ॥ २.२० ॥
अन्धकासुरसंवादो मन्दरागमनं तथा ।
गणानामागमश्चैव संख्यानश्रवणं तथा ॥ २.२१ ॥
निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।
शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥ २.२२ ॥
भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ॥ २.२३ ॥
उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥ २.२४ ॥
त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥ २.२५ ॥
नारदस्यागमश्चैव तारकप्रेषितस्य ह ।
वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥ २.२६ ॥
महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् ।
शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥ २.२७ ॥
देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥ २.२८ ॥
एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् ।
बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् ॥ २.२९ ॥
इति स्कन्दपुराणे द्वितीयोऽध्यायः
_
स्कन्द पुराण ३
सनत्कुमार उवाच
शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् ।
यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ॥ ३.१ ॥
न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
इमां कथामनुब्रूयात्तथा चासूयके नरे ॥ ३.२ ॥
इदं पुत्राय शिष्याय धार्मिकायानसूयवे ।
कथनीयं महाब्रह्मन् देवभक्ताय वा भवेत् ।
कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥ ३.३ ॥
पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते ।
सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥ ३.४ ॥
अहमेक इति ज्ञात्वा सर्वांल्लोकानवैक्षत ।
न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥ ३.५ ॥
पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥ ३.६ ॥
स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् ।
विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥ ३.७ ॥
तदेषोपनिषत्प्रोक्ता मया व्यास सनातना ।
यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् ॥ ३.८ ॥
ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३.९ ॥
स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् ।
पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥ ३.१० ॥
महता योगतपसा युक्तस्य सुमहात्मनः ।
अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ ३.११ ॥
दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह ।
स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥ ३.१२ ॥
नमः परमदेवाय देवानामपि वेधसे ।
स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥ ३.१३ ॥
एकस्मै शक्तियुक्ताय अशक्तिरहिताय च ।
अनन्तायाप्रमेयाय इन्द्रियाविषयाय च ॥ ३.१४ ॥
व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने ।
कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥ ३.१५ ॥
प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ॥ ३.१६ ॥
विषयग्राहिणे चैव नियमस्य च कारिणे ।
मनसः करणानां च तत्रैव नियमस्य च ॥ ३.१७ ॥
भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् ॥ ३.१८ ॥
तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥ ३.१९ ॥
यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ॥ ३.२० ॥
यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति ॥ ३.२१ ॥
प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् ।
तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥ ३.२२ ॥
एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः ।
यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह ।
भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥ ३.२३ ॥
तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
एतमद्याभिषेकेण सम्पादयत मा चिरम् ॥ ३.२४ ॥
ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् ।
अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥ ३.२५ ॥
तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा ।
पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ॥ ३.२६ ॥
रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो ।
अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥ ३.२७ ॥
स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् ।
ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥ ३.२८ ॥
यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज ।
देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम् ॥ ३.२९ ॥
सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः ।
तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् ॥ ३.३० ॥
इति स्कन्दपुराणे तृतीयोऽध्यायः
स्कन्द पुराण ४
सनत्कुमार उवाच
प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।
प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥ ४.१ ॥
स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।
सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥ ४.२ ॥
सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
तेजसा जगदाविश्य आजगाम तदन्तिकम् ।
स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥ ४.३ ॥
स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ॥ ४.४ ॥
तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् ।
स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ॥ ४.५ ॥
आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ॥ ४.६ ॥
स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ॥ ४.७ ॥
सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥ ४.८ ॥
मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥ ४.९ ॥
कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् ।
एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ॥ ४.१० ॥
एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ॥ ४.११ ॥
स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः ।
समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥ ४.१२ ॥
समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
पपात ज्वलने तस्मिन् द्विगुणं तस्य तेजसा ॥ ४.१३ ॥
तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् ।
प्रेरितं देवदेवेन निपपात हविर्भुजि ॥ ४.१४ ॥
क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् ।
प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ॥ ४.१५ ॥
तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् ।
भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥ ४.१६ ॥
नीललोहित इत्येव तेनासावभवत्प्रभुः ।
त्र्यक्षो दशभुजः श्रीमान् ब्रह्माणं छादयन्निव ॥ ४.१७ ॥
शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ॥ ४.१८ ॥
ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् ।
असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥ ४.१९ ॥
सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥ ४.२० ॥
ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ॥ ४.२१ ॥
अथ कालेन महता कल्पेऽतीते पुनः पुनः ।
प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥ ४.२२ ॥
प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने ।
प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥ ४.२३ ॥
ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः ।
मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ॥ ४.२४ ॥
भृगवोऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः ।
ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ॥ ४.२५ ॥
भगवन्नन्धकारेण महता स्मः समावृताः ।
खिन्ना विवदमानाश्च न च पश्याम यत्परम् ॥ ४.२६ ॥
एतं नः संशयं देव चिरं हृदि समास्थितम् ।
त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥ ४.२७ ॥
किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥ ४.२८ ॥
कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ॥ ४.२९ ॥
कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥ ४.३० ॥
एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ ।
देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ॥ ४.३१ ॥
यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥ ४.३२ ॥
स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् ।
स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् ।
तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥ ४.३३ ॥
ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥ ४.३४ ॥
ऋषय ऊचुः
किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥ ४.३५ ॥
पितामह उवाच
सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥ ४.३६ ॥
ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ ४.३७ ॥
यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ ४.३८ ॥
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ४.३९ ॥
तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥ ४.४० ॥
विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥ ४.४१ ॥
इति स्कन्दपुराणे चतुर्थोऽध्यायः
स्कन्द पुराण ५
सनत्कुमार उवाच
तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः ।
दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् ॥ ५.१ ॥
एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।
ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥ ५.२ ॥
तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ ५.३ ॥
तेषां तं भावमालक्ष्य मातरिश्वा महातपाः ।
सर्वप्राणिचरः श्रीमान् सर्वभूतप्रवर्तकः ।
ददौ स रूपी भगवान् दर्शनं सत्त्रिणां शुभः ॥ ५.४ ॥
तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् ।
आसीनमासने पुण्ये ऋषयः संशितव्रताः ।
पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥ ५.५ ॥
स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।
वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥ ५.६ ॥
अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।
पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च ॥ ५.७ ॥
चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः ।
वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् ॥ ५.८ ॥
एतत्सर्वमशेषेण कथयामास स प्रभुः ।
दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा ॥ ५.९ ॥
अथ दिव्येन रूपेण सामवाग्दिङ्निरीक्षणा ।
यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥ ५.१० ॥
न्यायश्रोत्रा निरुक्तत्व गृक्पादपदगामिनी ।
कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी ॥ ५.११ ॥
कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।
कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥ ५.१२ ॥
छन्दोविचितिमध्या च मीमांसानाभिरेव च ।
पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥ ५.१३ ॥
आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः ।
लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः ॥ ५.१४ ॥
श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी ।
वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥ ५.१५ ॥
तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः ।
तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् ॥ ५.१६ ॥
उवाच स महातेजा ऋषीन्धर्मानुभावितान् ।
शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥ ५.१७ ॥
यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।
इयं सरस्वती नाम ब्रह्मलोकविभूषणा ॥ ५.१८ ॥
प्रथमं मर्त्यलोकेऽस्मिन् युष्मत्सिद्ध्यर्थमागता ।
नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते ॥ ५.१९ ॥
ऋषय ऊचुः
कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।
कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् ॥ ५.२० ॥
वायुरुवाच
अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् ।
ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥ ५.२१ ॥
यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ५.२२ ॥
स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
अवेक्षमाणः स्वांल्लोकांश्चतुर्भिर्मुखपङ्कजैः ॥ ५.२३ ॥
देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः ।
अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः ॥ ५.२४ ॥
योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः ।
देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ॥ ५.२५ ॥
अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते ।
नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥ ५.२६ ॥
तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।
अयं हि तव संमोहो विनाशाय भविष्यति ॥ ५.२७ ॥
न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः ।
स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम् ॥ ५.२८ ॥
अहं कर्ता हि भूतानां भुवनस्य तथैव च ।
करोमि न च संमोहं यथा त्वं देव कत्थसे ॥ ५.२९ ॥
तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।
अहमेव हि भूतानां धर्ता भर्ता तथैव च ।
मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ॥ ५.३० ॥
अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् ।
उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥ ५.३१ ॥
अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् ।
शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥ ५.३२ ॥
परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥ ५.३३ ॥
यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् ।
सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥ ५.३४ ॥
तमेवंवादिनं देवो ब्रह्मा वेदमभाषत ।
अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च ॥ ५.३५ ॥
मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।
प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ॥ ५.३६ ॥
एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह ।
आदित्यमण्डलाकारमदृश्यत च मण्डलम् ।
महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् ॥ ५.३७ ॥
स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः ।
हिमवत्कुञ्जमासाद्य नानाविहगनादितम् ।
व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥ ५.३८ ॥
ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः ।
चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥ ५.३९ ॥
स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् ।
तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् ।
आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् ॥ ५.४० ॥
तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् ।
संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ॥ ५.४१ ॥
वर्धमानं तदा तत्तु वडवामुखसंनिभम् ।
दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः ॥ ५.४२ ॥
हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि ।
चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥ ५.४३ ॥
दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः ।
पपात मूढचेता वै योगधर्मविवर्जितः ॥ ५.४४ ॥
ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ॥ ५.४५ ॥
ब्रह्मोवाच
नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥ ५.४६ ॥
नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
नमः सहस्रपादाय सर्वपादाय वै नमः ॥ ५.४७ ॥
सहस्रपाणये चैव सर्वतःपाणये नमः ।
नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः ॥ ५.४८ ॥
आदित्यवर्णाय नमः शिरसश्छेदनाय च ।
सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥ ५.४९ ॥
नमः सहस्रलिङ्गाय सहस्रचरणाय च ।
संहारलिङ्गिने चैव जललिङ्गाय वै नमः ॥ ५.५० ॥
अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।
व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ॥ ५.५१ ॥
इन्द्रियार्थविशेषाय तथा नियमकारिणे ।
भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥ ५.५२ ॥
त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो ।
शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥ ५.५३ ॥
तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥ ५.५४ ॥
चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः ।
विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥ ५.५५ ॥
तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।
गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् ।
विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् ॥ ५.५६ ॥
संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।
यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥ ५.५७ ॥
मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति ।
स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति ॥ ५.५८ ॥
तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव ।
मयैव कारिता तेन निर्वृतश्चाधुना भव ॥ ५.५९ ॥
तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।
शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।
स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ ॥ ५.६० ॥
वायुरुवाच
ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा ।
उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ॥ ५.६१ ॥
भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।
ननु स्मरेयमेतच्च शिरसश्छेदनं विभो ॥ ५.६२ ॥
भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् ।
तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् ॥ ५.६३ ॥
विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः ।
स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः ।
शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते ॥ ५.६४ ॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः ।
सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत ॥ ५.६५ ॥
वायुरुवाच
य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् ।
स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥ ५.६६ ॥
यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः ।
स सर्वपापनिर्मुक्तो रुद्रलोके महीयते ॥ ५.६७ ॥
नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् ।
आख्येयं नापि चाज्ञाय न शठाय न मानिने ॥ ५.६८ ॥
इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि ।
कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् ॥ ५.६९ ॥
इति स्कन्दपुराणे पञ्चमोऽध्यायः
स्कन्द पुराण ६
सनत्कुमार उवाच
ततः स भगवान्देवः कपर्दी नीललोहितः ।
आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥ ६.१ ॥
तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।
योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥ ६.२ ॥
स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः ।
न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥ ६.३ ॥
अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः ।
तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ॥ ६.४ ॥
स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा ।
शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् ।
पपात सा च विस्तीर्णा योजनार्धशतं तदा ॥ ६.५ ॥
तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया ।
पितामहकपालस्य नार्धमप्यभिपूरितम् ।
तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥ ६.६ ॥
सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।
सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ॥ ६.७ ॥
तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद ।
वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ॥ ६.८ ॥
विष्णुरुवाच
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ॥ ६.९ ॥
देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे ।
ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ॥ ६.१० ॥
तमाहाथाक्षयश्चासि अजरामर एव च ।
युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः ।
देवकार्यकरः श्रीमान् सहानेन चरस्व च ॥ ६.११ ॥
नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च ।
नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥ ६.१२ ॥
वायुरुवाच
तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः ।
अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ॥ ६.१३ ॥
य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।
स कीर्त्या परया युक्तो विष्णुलोके महीयते ॥ ६.१४ ॥
इति स्कन्दपुराणे षष्ठोऽध्यायः
स्कन्द पुराण ७
वायुरुवाच
ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः ।
भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ॥ ७.१ ॥
तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥ ७.२ ॥
तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत ।
वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ॥ ७.३ ॥
ब्रह्मोवाच
इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ॥ ७.४ ॥
तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः ।
सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ॥ ७.५ ॥
शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी ।
निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ॥ ७.६ ॥
तामुवाच तदा देवो वाचा संजीवयन्निव ।
यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता ।
सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ॥ ७.७ ॥
यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता ।
तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ॥ ७.८ ॥
इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे ।
सर्वांल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ॥ ७.९ ॥
यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः ।
पुण्या च सर्वसरितां भविष्यसि न संशयः ॥ ७.१० ॥
ततः सा समनुज्ञाता शंकरेण विभाविनी ।
चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ॥ ७.११ ॥
तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् ।
नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् ।
ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥ ७.१२ ॥
तं गृहीत्वा महादेवः कपालममितौजसम् ।
इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ॥ ७.१३ ॥
तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥ ७.१४ ॥
तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः ।
अनदन्सुमहानादं नादयन्तो दिशो दश ।
क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ॥ ७.१५ ॥
तेन शब्देन घोरेण असुरो देवकण्टकः ।
हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ॥ ७.१६ ॥
अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः ।
ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ॥ ७.१७ ॥
तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ॥ ७.१८ ॥
दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः ।
आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ॥ ७.१९ ॥
ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् ।
भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ॥ ७.२० ॥
हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत ।
ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः ।
अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥ ७.२१ ॥
स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः ।
तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ॥ ७.२२ ॥
भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः ।
कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥ ७.२३ ॥
कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना ।
महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ॥ ७.२४ ॥
स्थापितस्य कपालस्य यथोक्तमभवत्तदा ।
ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ॥ ७.२५ ॥
आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः ।
कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ॥ ७.२६ ॥
अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः ।
भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ॥ ७.२७ ॥
श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः ।
ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् ।
गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ॥ ७.२८ ॥
एवं तत्र नरः पापं सर्वमेव प्रहास्यति ।
त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ॥ ७.२९ ॥
यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः ।
स गुह्यगणदेवानां समतां समवाप्स्यति ॥ ७.३० ॥
वायुरुवाच
ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् ।
शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ॥ ७.३१ ॥
तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् ।
रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ॥ ७.३२ ॥
यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।
कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ॥ ७.३३ ॥
ततो देवः सह गणै रूपं विकृतमास्थितः ।
पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ॥ ७.३४ ॥
गते च देवनाथेऽथ कपालस्थानमव्ययम् ।
सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥ ७.३५ ॥
तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते ।
महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ॥ ७.३६ ॥
इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् ।
महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ॥ ७.३७ ॥
तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले ।
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ॥ ७.३८ ॥
इति स्कन्दपुराणे सप्तमोऽध्यायः
स्कन्द पुराण ८
वायुरुवाच
एवमेषा भगवती ब्रह्मलोकानुसारिणी ।
युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ॥ ८.१ ॥
सनत्कुमार उवाच
एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके ।
प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ॥ ८.२ ॥
ब्रह्मोवाच
भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् ।
यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ॥ ८.३ ॥
विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् ।
योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ॥ ८.४ ॥
तथेत्युक्त्वा गते तस्मिन् सत्त्राण्याजह्रिरे तदा ।
बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ॥ ८.५ ॥
निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः ।
राजानं सोममानाय्य अभिषेक्तुमियेषिरे ॥ ८.६ ॥
अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना ।
स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ॥ ८.७ ॥
ते गत्वा मुनयः सर्वे कलापग्रामवासिनः ।
पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ॥ ८.८ ॥
ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो ।
केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ॥ ८.९ ॥
स एवमुक्तो मृगयन्नतमासादयत्प्रभुः ।
उवाच स तदा विप्रान् प्रणम्य भयपीडितः ॥ ८.१० ॥
परमं यत्नमास्थाय मया सोमोऽभिमार्गितः ।
न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥ ८.११ ॥
तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः ।
ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥ ८.१२ ॥
भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः ।
न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ॥ ८.१३ ॥
विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि ।
तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि ॥ ८.१४ ॥
वयमेव हि राजानमानयिष्याम दुर्विदम् ।
तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् ॥ ८.१५ ॥
ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।
अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥ ८.१६ ॥
स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी ।
रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥ ८.१७ ॥
तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः ।
ब्रूत तत्कृतमेवेह भविष्यति न संशयः ॥ ८.१८ ॥
ऋषय ऊचुः
सोमो नोऽपहृतो देवि केनापि सुदुरात्मना ।
तमानय नमस्तेऽस्तु एष नो वर उत्तमः ॥ ८.१९ ॥
सनत्कुमार उवाच
सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा ।
श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ॥ ८.२० ॥
व्यग्राणामसुराणां सा गृहीत्वा सोममागता ।
आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ॥ ८.२१ ॥
ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।
अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ॥ ८.२२ ॥
ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।
आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ॥ ८.२३ ॥
ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।
सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ॥ ८.२४ ॥
तेषां कालेन महता तपसा भावितात्मनाम् ।
योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ॥ ८.२५ ॥
ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।
महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ॥ ८.२६ ॥
अथ तेषां महादेवः पिनाकी नीललोहितः ।
अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥ ८.२७ ॥
तद्भावभाविताञ्{}ज्ञात्वा सद्भावेन परेण ह ।
उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ॥ ८.२८ ॥
भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः ।
दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ॥ ८.२९ ॥
सनत्कुमार उवाच
अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् ।
विमानं मेरुसंकाशं नानारत्नविभूषितं ॥ ८.३० ॥
तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् ।
ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ॥ ८.३१ ॥
दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।
त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम् ॥ ८.३२ ॥
मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् ।
पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ॥ ८.३३ ॥
असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् ।
अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः ।
चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ॥ ८.३४ ॥
तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा ।
यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ॥ ८.३५ ॥
तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् ।
वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ॥ ८.३६ ॥
प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।
प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ॥ ८.३७ ॥
इति स्कन्दपुराणे अष्टमोऽध्यायः
स्कन्द पुराण ९
सनत्कुमार उवाच
ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः ।
अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ॥ ९.१ ॥
पितामह उवाच
नमः शिवाय सोमाय भक्तानां भयहारिणे ।
नमः शूलाग्रहस्ताय कमण्डलुधराय च ॥ ९.२ ॥
दण्डिने नीलकण्ठाय करालदशनाय च ।
त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ॥ ९.३ ॥
नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे ।
व्यालयज्ञोपवीताय कुण्डलाभरणाय च ॥ ९.४ ॥
नमश्चक्रधरायैव व्याघ्रचर्मधराय च ।
कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा ॥ ९.५ ॥
वरदात्रे च रुद्राय सरस्वतीसृजे तथा ।
सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च ॥ ९.६ ॥
ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः ।
नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ॥ ९.७ ॥
हालाहलविनाशाय कपालवरधारिणे ।
विमानवरवाहाय जनकाय ममैव च ।
वरदाय वरिष्ठाय श्मशानरतये नमः ॥ ९.८ ॥
नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा ।
उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ॥ ९.९ ॥
ऋषिदैवतनाथाय सर्वभूताधिपाय च ।
शिवः सौम्यश्च देवेश भव नो भक्तवत्सल ॥ ९.१० ॥
सनत्कुमार उवाच
ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः ।
उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् ॥ ९.११ ॥
तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः ।
वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् ॥ ९.१२ ॥
सनत्कुमार उवाच
अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् ।
दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ॥ ९.१३ ॥
ब्रह्मोवाच
यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः ।
तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः ॥ ९.१४ ॥
सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा ।
सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः ॥ ९.१५ ॥
सह देव्या ससूनुश्च सह देवगणैरपि ।
एष नो दीयतां देव वरो वरसहस्रद ॥ ९.१६ ॥
सनत्कुमार उवाच
एवमुक्तः स भगवान् ब्रह्मणा देवसत्तमः ।
स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥ ९.१७ ॥
अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह ।
तामाह भव नारीति भगवान्विश्वरूपधृक् ॥ ९.१८ ॥
साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता ।
उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥ ९.१९ ॥
तामाह प्रहसन्देवो देवीं कमललोचनाम् ।
ब्रह्माणं देवि वरदमाराधय शुचिस्मिते ॥ ९.२० ॥
सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे ।
रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे ।
फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः ॥ ९.२१ ॥
अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः ।
मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ ॥ ९.२२ ॥
अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गोऽचलोत्तमः ।
पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ॥ ९.२३ ॥
मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः ।
स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् ॥ ९.२४ ॥
स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः ।
निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह ।
समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः ॥ ९.२५ ॥
देवगन्धर्वचरितमप्सरोगणसेवितम् ।
सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् ।
अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् ॥ ९.२६ ॥
ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः ।
उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च ।
यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति ॥ ९.२७ ॥
योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् ।
गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति ।
नियमेन मृतश्चात्र मया सह चरिष्यति ॥ ९.२८ ॥
यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः ।
तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ ॥ ९.२९ ॥
एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ ९.३० ॥
सनत्कुमार उवाच
य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा ।
सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ॥ ९.३१ ॥
जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् ।
जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी ॥ ९.३२ ॥
मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः ।
सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः ॥ ९.३३ ॥
इति स्कन्दपुराणे नवमोऽध्यायः
स्कन्द पुराण १०
सनत्कुमार उवाच
सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः ।
निराहारा कदाचिच्च एकपर्णाशना पुनः ।
वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च ॥ १०.१ ॥
तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् ।
उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते ॥ १०.२ ॥
साब्रवीत्त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् ।
विचरेयं सुखं देव सर्वांल्लोकान्नमस्तव ॥ १०.३ ॥
ब्रह्मोवाच
न हि येन शरीरेण क्रियते परमं तपः ।
तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते ॥ १०.४ ॥
तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः ।
जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ॥ १०.५ ॥
ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी ।
दक्षस्य दुहिता जज्ञे सती नामातियोगिनी ॥ १०.६ ॥
तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् ।
ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् ॥ १०.७ ॥
आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् ।
अनेकानि सहस्राणि रुद्राणाममितौजसाम् ॥ १०.८ ॥
तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् ।
मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ॥ १०.९ ॥
अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः ।
तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः ॥ १०.१० ॥
देव उवाच
न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन ।
स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः ॥ १०.११ ॥
ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः ।
चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः ॥ १०.१२ ॥
सनत्कुमार उवाच
अथ काले गते व्यास स दक्षः शापकारणात् ।
अन्यानाहूय जामातॄन् सदारानर्चयद्गृहे ॥ १०.१३ ॥
सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः ।
सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥ १०.१४ ॥
अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत ।
मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् ॥ १०.१५ ॥
क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः ।
निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव ॥ १०.१६ ॥
मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः ।
न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ॥ १०.१७ ॥
गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः ।
श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ॥ १०.१८ ॥
तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् ।
पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ॥ १०.१९ ॥
सनत्कुमार उवाच
ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता ।
पूजामसंमतां हीनामिदं चोवाच तं शुभा ॥ १०.२० ॥
यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि ।
श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः ॥ १०.२१ ॥
तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा ।
असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह ॥ १०.२२ ॥
सनत्कुमार उवाच
ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह ।
उवाचेदं सुसंरब्धा वचनं वचनारणिः ॥ १०.२३ ॥
यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया ।
एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती ।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ १०.२४ ॥
ततः सा धारणां कृत्वा आग्नेयीं सहसा सती ।
ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना ॥ १०.२५ ॥
तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः ।
उवाच दक्षं संगम्य इदं वचनकोविदः ॥ १०.२६ ॥
यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् ।
जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे ।
उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ॥ १०.२७ ॥
त्वं चैव मम शापेन क्षत्रियो भविता नृपः ।
प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः ।
धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः ॥ १०.२८ ॥
सनत्कुमार उवाच
तमुवाच तदा दक्षो दूयता हृदयेन वै ।
मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः ।
किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा ॥ १०.२९ ॥
यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर ।
भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन ॥ १०.३० ॥
भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः ।
अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ॥ १०.३१ ॥
सनत्कुमार उवाच
ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः ।
सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते ॥ १०.३२ ॥
तमहं धारयाम्येको लोकानां हितकाम्यया ।
भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः ।
तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया ॥ १०.३३ ॥
भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः ।
अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः ।
दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये ॥ १०.३४ ॥
यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत ।
अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ॥ १०.३५ ॥
देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः ।
भागानपः स्पृशन्ति स्म तत्र का परिदेवना ॥ १०.३६ ॥
त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः ।
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ १०.३७ ॥
सनत्कुमार उवाच
एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः ।
विरराम महातेजा जगाम च यथागतम् ॥ १०.३८ ॥
चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् ।
गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः ॥ १०.३९ ॥
य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम् ।
शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ १०.४० ॥
इति स्कन्दपुराणे दशमोऽध्यायः
स्कन्द पुराण ११
सनत्कुमार उवाच
कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् ।
अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् ॥ ११.१ ॥
केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।
तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे ॥ ११.२ ॥
कश्यप उवाच
अपत्येन महाबाहो सर्वमेतदवाप्यते ।
मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह ॥ ११.३ ॥
किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल ॥ ११.४ ॥
वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ॥ ११.५ ॥
तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् ।
तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ ११.६ ॥
अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः ।
तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ ११.७ ॥
अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
विवेश तं तदा देशं सा गर्ता यत्र भूधर ॥ ११.८ ॥
गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः ॥ ११.९ ॥
के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ ११.१० ॥
पितर ऊचुः
वयं तेऽकृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ ११.११ ॥
नरकोऽयं महाभाग गर्तारूपं समास्थितः ।
त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ ११.१२ ॥
यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ ११.१३ ॥
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान्मुच्येम वयमेकशः ॥ ११.१४ ॥
नान्येन तपसा पुत्र न तीर्थानां फलेन च ।
तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात् ॥ ११.१५ ॥
स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।
पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ॥ ११.१६ ॥
स्वयं च रुद्रदयितः सुकेशो नाम नामतः ।
संमतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ११.१७ ॥
तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् ।
उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ॥ ११.१८ ॥
सनत्कुमार उवाच
स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः ।
तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ॥ ११.१९ ॥
तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत ।
ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत ॥ ११.२० ॥
हिमवानुवाच
भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।
एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो ॥ ११.२१ ॥
ब्रह्मोवाच
कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी ।
यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् ॥ ११.२२ ॥
अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः ।
पावनश्चैव पुण्यश्च देवानामपि सर्वतः ।
ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे ॥ ११.२३ ॥
सनत्कुमार उवाच
एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत ।
सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् ।
अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ॥ ११.२४ ॥
न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला ।
आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् ।
शतं वर्षसहस्राणां दुश्चरं देवदानवैः ॥ ११.२५ ॥
आहारमेकपर्णेन सैकपर्णा समाचरत् ।
पाटलेन तथैकेन विदधात्येकपाटला ॥ ११.२६ ॥
पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः ।
अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता ॥ ११.२७ ॥
सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ ११.२८ ॥
एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम् ।
एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति ॥ ११.२९ ॥
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः ॥ ११.३० ॥
ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ ११.३१ ॥
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ॥ ११.३२ ॥
दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः ।
असितस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ ११.३३ ॥
या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ।
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ॥ ११.३४ ॥
उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ।
अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा ।
प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥ ११.३५ ॥
ब्रह्मोवाच
देवि किं तपसा लोकांस्तापयस्यतिशोभने ।
त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय ॥ ११.३६ ॥
त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा ।
ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः ॥ ११.३७ ॥
देव्युवाच
यदर्थं तपसो ह्यस्य चरणं मे पितामह ।
जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः ॥ ११.३८ ॥
ब्रह्मोवाच
यदर्थं देवि तपसा श्राम्यसे लोकभावनि ।
स त्वां स्वयं समागम्य इहैव वरयिष्यति ॥ ११.३९ ॥
सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
वयं सदेवा यस्येशे वश्याः किंकरवादिनः ॥ ११.४० ॥
स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् ।
उदाररूपो विकृताभिरूपवान् समानरूपो न हि यस्य कस्यचित् ॥ ११.४१ ॥
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः ।
विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम् ॥ ११.४२ ॥
इति स्कन्दपुराणे एकादशोऽध्यायः
स्कन्द पुराण १२
सनत्कुमार उवाच
ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।
देवि येनैव सृष्टासि मनसा यस्त्वया वृतः ।
स भर्ता तव देवेशो भविता मा तपः कृथाः ॥ १२.१ ॥
ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ।
जगामादर्शनं तस्याः सा चापि विरराम ह ॥ १२.२ ॥
सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह ।
द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ॥ १२.३ ॥
अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ।
विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ॥ १२.४ ॥
विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ।
उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ॥ १२.५ ॥
अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ।
अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया ॥ १२.६ ॥
तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि ।
सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया ॥ १२.७ ॥
देव्युवाच
भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा ।
तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव ॥ १२.८ ॥
गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ॥ १२.९ ॥
सनत्कुमार उवाच
ततः स भगवान्देवस्तथैव विकृतः प्रभुः ।
उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥ १२.१० ॥
स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ १२.११ ॥
भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् ।
मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः ॥ १२.१२ ॥
स्वयंवरो मे दुहितुर्भविता विप्रपूजितः ।
वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति ॥ १२.१३ ॥
सनत्कुमार उवाच
तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः ।
देव्याः समीपमागत्य इदमाह महामनाः ॥ १२.१४ ॥
देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् ।
तत्र त्वं वरयित्री यं स ते भर्ता किलानघे ॥ १२.१५ ॥
तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने ।
रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् ॥ १२.१६ ॥
सनत्कुमार उवाच
तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् ।
भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ १२.१७ ॥
सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा ।
अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन ॥ १२.१८ ॥
अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन ।
इहैव त्वां महाभाग वरयामि मनोरथम् ॥ १२.१९ ॥
सनत्कुमार उवाच
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् ।
स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे ॥ १२.२० ॥
ततः स भगवान्देवस्तथा देव्या वृतस्तदा ।
उवाच तमशोकं वै वाचा संजीवयन्निव ॥ १२.२१ ॥
यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।
तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि ॥ १२.२२ ॥
कामरूपः कामपुष्पः कामगो दयितो मम ।
सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ॥ १२.२३ ॥
सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।
सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ।
निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः ॥ १२.२४ ॥
आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् ।
योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति ।
यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ॥ १२.२५ ॥
यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् ।
स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ १२.२६ ॥
सनत्कुमार उवाच
एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ १२.२७ ॥
सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।
तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ॥ १२.२८ ॥
उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ ।
निशेव चन्द्ररहिता सा बभौ विमनास्तदा ॥ १२.२९ ॥
अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा ।
सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह ॥ १२.३० ॥
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा ॥ १२.३१ ॥
योगमायामथास्थाय प्रपञ्चोद्भवकारणम् ।
तद्रूपं सरसो मध्ये कृत्वेदं समभाषत ।
त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ॥ १२.३२ ॥
धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः ।
यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ॥ १२.३३ ॥
शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः ।
यथा शोचामि पितरं मातरं च तपस्विनीम् ॥ १२.३४ ॥
मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ ।
प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ॥ १२.३५ ॥
सनत्कुमार उवाच
श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना ।
उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ १२.३६ ॥
सापश्यदिन्दुवदना बालकं चारुरूपिणम् ।
ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ॥ १२.३७ ॥
सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् ।
तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह ॥ १२.३८ ॥
स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् ।
अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता ॥ १२.३९ ॥
ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् ।
विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ १२.४० ॥
ग्राह उवाच
यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् ।
स आहारो मम पुरा विहितो लोककर्तृभिः ॥ १२.४१ ॥
सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे ।
ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन ॥ १२.४२ ॥
देव्युवाच
यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।
तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ १२.४३ ॥
ग्राह उवाच
मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने ।
नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम् ॥ १२.४४ ॥
मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना ।
अमरत्वमवध्यत्वमक्षयं बलमेव च ॥ १२.४५ ॥
स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः ।
दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति ॥ १२.४६ ॥
अथ वा ते कृपा देवि भृशं बाले शुभानने ।
ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति ॥ १२.४७ ॥
देव्युवाच
ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् ।
तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् ॥ १२.४८ ॥
ग्राह उवाच
यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः ।
तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ॥ १२.४९ ॥
देव्युवाच
जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया ।
तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः ॥ १२.५० ॥
सनत्कुमार उवाच
प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः ।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥ १२.५१ ॥
उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् ।
देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते ।
तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ १२.५२ ॥
गृहाण तप एतच्च बालं चेमं शुचिस्मिते ।
तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते ॥ १२.५३ ॥
सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ।
सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् ।
न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ १२.५४ ॥
दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते ।
न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ १२.५५ ॥
दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः ।
त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ १२.५६ ॥
तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च ।
देवीमादित्यसद्भासं तत्रैवान्तरधीयत ॥ १२.५७ ॥
बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।
स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ १२.५८ ॥
तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा ।
भूय एव तपः कर्तुमारेभे यत्नमास्थिता ॥ १२.५९ ॥
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् ।
प्रोवाच वचनं व्यास मा कृथास्तप इत्युत ॥ १२.६० ॥
मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते ।
तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा ॥ १२.६१ ॥
इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम् ।
स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता ॥ १२.६२ ॥
इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः ।
स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः ॥ १२.६३ ॥
इति स्कन्दपुराणे द्वादशमोऽध्यायः
स्कन्द पुराण १३
सनत्कुमार उवाच
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ १३.१ ॥
अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ १३.२ ॥
जानन्नपि महाशैलः समाचारक्रियेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ १३.३ ॥
देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात्परमेशानं समक्षं येन मे सुता ॥ १३.४ ॥
तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम् ।
इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ १३.५ ॥
आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ १३.६ ॥
अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः ॥ १३.७ ॥
प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः ।
विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम ॥ १३.८ ॥
अक्ष्णां सहस्रं सुरराट्स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् ।
आरुह्य सर्वामरराट्स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् ॥ १३.९ ॥
तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् ।
हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन ॥ १३.१० ॥
मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने ।
समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी ॥ १३.११ ॥
पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः ।
दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ॥ १३.१२ ॥
महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः ।
समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि ॥ १३.१३ ॥
संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य ।
वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी ॥ १३.१४ ॥
नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् ।
आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च ॥ १३.१५ ॥
आप्याययन्सर्वसुरासुरेशान् कान्त्या च वेषेण च चारुरूपः ।
ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ॥ १३.१६ ॥
श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली ।
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः ॥ १३.१७ ॥
तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य ।
मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ ॥ १३.१८ ॥
शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः ।
सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ॥ १३.१९ ॥
दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् ।
वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् ॥ १३.२० ॥
गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी ।
गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम ॥ १३.२१ ॥
अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः ।
आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च ॥ १३.२२ ॥
शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः ।
आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार ॥ १३.२३ ॥
हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् ।
पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था ।
दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी ॥ १३.२४ ॥
एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश ।
वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते ॥ १३.२५ ॥
ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः ।
स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः ॥ १३.२६ ॥
विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी ।
सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे ॥ १३.२७ ॥
सनत्कुमार उवाच
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः ॥ १३.२८ ॥
देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥ १३.२९ ॥
अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ॥ १३.३० ॥
अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला ।
निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ॥ १३.३१ ॥
ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् ।
कोऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः ॥ १३.३२ ॥
वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ १३.३३ ॥
स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च ॥ १३.३४ ॥
भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः ।
तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा ॥ १३.३५ ॥
शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत ।
तस्यापि शिरसो देवः खालित्यं प्रचकार ह ॥ १३.३६ ॥
पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः ।
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ॥ १३.३७ ॥
यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा ।
बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् ।
बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः ॥ १३.३८ ॥
अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु ।
ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् ।
बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् ॥ १३.३९ ॥
स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् ।
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः ।
पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ॥ १३.४० ॥
अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः ।
प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् ॥ १३.४१ ॥
अमृतं परमात्मा च ईश्वरः कारणं महत् ।
ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः ॥ १३.४२ ॥
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ।
पत्नीरूपं समास्थाय जगत्कारणमागता ॥ १३.४३ ॥
नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥ १३.४४ ॥
देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥ १३.४५ ॥
तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् ।
स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः ॥ १३.४६ ॥
मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् ।
देवदेवमिहायातं ममैवोत्पत्तिकारणम् ॥ १३.४७ ॥
अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् ।
उग्र ईशान आत्मा च अजः शंकर एव च ॥ १३.४८ ॥
देवदेवः परं धाम ईशः पशुपतिः पतिः ।
जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ॥ १३.४९ ॥
गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः ।
सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ १३.५० ॥
ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ १३.५१ ॥
अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः ।
यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ १३.५२ ॥
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे ।
वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ।
तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् ॥ १३.५३ ॥
तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ।
प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् ॥ १३.५४ ॥
ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ।
ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः ॥ १३.५५ ॥
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ।
पादयोः स्थापयामास स्रग्मालाममितद्युतेः ॥ १३.५६ ॥
साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् ।
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ॥ १३.५७ ॥
अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः ।
हिमवन्तं महाशैलमिदमाह महाद्युतिः ॥ १३.५८ ॥
श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि ।
शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान् ।
क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् ॥ १३.५९ ॥
ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत ।
त्वमेव कारणं देव येन शर्वादयं मम ॥ १३.६० ॥
प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह ॥ १३.६१ ॥
तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः ।
उद्वाहः क्रियतां देव इति देवमुवाच ह ।
तमाह शंकरो देवं यथेष्टमिति लोकपः ॥ १३.६२ ॥
तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् ।
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ॥ १३.६३ ॥
रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च ।
मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् ॥ १३.६४ ॥
चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता ।
भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता ॥ १३.६५ ॥
तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते ।
शुशुभे देवदेवस्य महेशस्य महात्मनः ॥ १३.६६ ॥
सोमादित्यौ समं तत्र भासयन्तौ महामणी ।
सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः ।
प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् ॥ १३.६७ ॥
समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ १३.६८ ॥
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ १३.६९ ॥
तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः ।
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ॥ १३.७० ॥
ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः ।
पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ १३.७१ ॥
जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः ।
गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः ॥ १३.७२ ॥
ऋतवः षट्समं तत्र नानागन्धसुखावहाः ।
उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ॥ १३.७३ ॥
नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः ।
केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ १३.७४ ॥
विलोलपिङ्गलस्पष्ट विद्युल्लेखावभासिता ।
कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ॥ १३.७५ ॥
प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा ।
शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता ॥ १३.७६ ॥
प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री ॥ १३.७७ ॥
तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता ॥ १३.७८ ॥
विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः ।
विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः ॥ १३.७९ ॥
गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा ।
निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः ॥ १३.८० ॥
हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना ॥ १३.८१ ॥
असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा ।
सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै ॥ १३.८२ ॥
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी ।
हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा ॥ १३.८३ ॥
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्लेन्दीवराभोग विलोचनमनोहरा ॥ १३.८४ ॥
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवश्यामालताश्याम रोमराजीपरिष्कृता ॥ १३.८५ ॥
चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ १३.८६ ॥
समदालिकुलोद्गीत मधुरस्वरभाषिणी ।
चलत्कुमुदसंघात चारुकुण्डलशोभिनी ॥ १३.८७ ॥
रक्ताशोकाग्रशाखोत्थ पल्लवाङ्गुलिधारिणी ।
तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ॥ १३.८८ ॥
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भचारूरुः शशाङ्कवदना तथा ॥ १३.८९ ॥
पद्मकिञ्जल्कसम्पृक्त पवनाग्रकरैः सुरान् ।
प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ॥ १३.९० ॥
निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी ।
नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ १३.९१ ॥
अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः ।
ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती ॥ १३.९२ ॥
ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः ।
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ॥ १३.९३ ॥
तेन प्रालेयवर्षेण घनेन स हिमाचलः ।
अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ १३.९४ ॥
हिमस्थानेषु हिमवान्नाशयामास पादपान् ।
साधूपचारान्सहसा कृतार्थ इव दुर्जनः ॥ १३.९५ ॥
प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः ।
छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः ॥ १३.९६ ॥
पाण्डराणि विशालानि श्रीमन्ति सुभगानि च ।
तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे ॥ १३.९७ ॥
तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु ।
प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः ॥ १३.९८ ॥
बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः ।
ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः ॥ १३.९९ ॥
निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः ।
वसन्तकालश्च तमद्रिपुत्री सेवार्थमागाद्धिमवन्तमाशु ॥ १३.१०० ॥
तस्मिन्नृतावद्रिसुताविवाह सिषेवया तं गिरिमभ्युपेते ।
प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ॥ १३.१०१ ॥
ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः ।
मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः ॥ १३.१०२ ॥
स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः ।
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः ॥ १३.१०३ ॥
ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः ।
चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः ॥ १३.१०४ ॥
नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि ।
चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ १३.१०५ ॥
प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः ।
तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ १३.१०६ ॥
हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः ।
शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ १३.१०७ ॥
फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः ।
कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः ॥ १३.१०८ ॥
समदालिकुलोद्गीत लताकुसुमसंचयाः ।
परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ॥ १३.१०९ ॥
नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः ।
रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः ॥ १३.११० ॥
हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।
वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः ॥ १३.१११ ॥
वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः ।
नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः ॥ १३.११२ ॥
शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने ॥ १३.११३ ॥
ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः ।
सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ १३.११४ ॥
कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् ॥ १३.११५ ॥
चीरुवाकविघुष्टानि किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे ॥ १३.११६ ॥
तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।
नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ॥ १३.११७ ॥
निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च ।
प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज ॥ १३.११८ ॥
श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः ।
तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥ १३.११९ ॥
पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः ।
देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् ॥ १३.१२० ॥
स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।
शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥ १३.१२१ ॥
तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्ण कदम्बार्जुनगन्धिनः ॥ १३.१२२ ॥
वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः ।
अभवंस्तटसंघुष्ट कलहंसकदम्बकाः ॥ १३.१२३ ॥
तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः ।
सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः ॥ १३.१२४ ॥
बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ॥ १३.१२५ ॥
इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर ॥ १३.१२६ ॥
तत एवं प्रवृत्ते तु सर्वभूतसमागमे ।
नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् ॥ १३.१२७ ॥
शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा ।
पुरं प्रवेशयामास स्वयमादाय लोकधृक् ॥ १३.१२८ ॥
ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् ।
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ।
ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः ॥ १३.१२९ ॥
तमाह शंकरो देवं देवदेवो जगत्पतिः ।
यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् ।
कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ १३.१३० ॥
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ।
हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह ॥ १३.१३१ ॥
ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं ।
श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ १३.१३२ ॥
यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि ।
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥ १३.१३३ ॥
मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः ।
सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना ।
वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् ॥ १३.१३४ ॥
योगेनैव तयोर्व्यास तदोमापरमेशयोः ।
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ॥ १३.१३५ ॥
इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् ॥ १३.१३६ ॥
इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः
स्कन्द पुराण १४
सनत्कुमार उवाच
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः सहपितामहाः ।
तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ॥ १४.१ ॥
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरूपायाजिताय च ॥ १४.२ ॥
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ।
नमो नीलशिखण्डाय अम्बिकापतये नमः ॥ १४.३ ॥
नमः पवनरूपाय शतरूपाय वै नमः ।
नमो भैरवरूपाय विरूपनयनाय च ॥ १४.४ ॥
नमः सहस्रनेत्राय सहस्रचरणाय च ।
नमो वेदरहस्याय वेदाङ्गाय नमो नमः ॥ १४.५ ॥
विष्टम्भनाय शक्रस्य बाहोर्वेदाङ्कुराय च ।
चराचराधिपतये शमनाय नमो नमः ॥ १४.६ ॥
सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने ।
नमः कपालमालाय कपालस्रग्मिणे नमः ॥ १४.७ ॥
नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः ।
नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च ॥ १४.८ ॥
नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ।
नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे ॥ १४.९ ॥
भगनेत्रनिपाताय पूष्णो दन्तहराय च ।
नमः पिनाकशूलासि खड्गमुद्गरधारिणे ॥ १४.१० ॥
नमोऽस्तु कालकालाय तृतीयनयनाय च ।
अन्तकान्तकृते चैव नमः पर्वतवासिने ॥ १४.११ ॥
सुवर्णरेतसे चैव सर्पकुण्डलधारिणे ।
वाड्वलेर्योगनाशाय योगिनां गुरवे नमः ॥ १४.१२ ॥
शशाङ्कादित्यनेत्राय ललाटनयनाय च ।
नमः श्मशानरतये श्मशानवरदाय च ॥ १४.१३ ॥
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ।
अशनीशतहासाय ब्रह्मण्यायाजिताय च ॥ १४.१४ ॥
गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ १४.१५ ॥
सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ १४.१६ ॥
नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसवे आदित्यायाश्विने नमः ॥ १४.१७ ॥
नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः ।
नमः शर्वाय सर्वाय उग्राय वरदाय च ॥ १४.१८ ॥
नमो भीमाय सेनान्ये पशूनां पतये नमः ।
शुचये रेरिहाणाय सद्योजाताय वै नमः ॥ १४.१९ ॥
महादेवाय चित्राय नमश्चित्ररथाय च ।
प्रधानाय प्रमेयाय कार्याय करणाय च ॥ १४.२० ॥
पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोग प्रधानगुणकारिणे ॥ १४.२१ ॥
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य संवेत्त्रे फलसंयोगदाय च ॥ १४.२२ ॥
कालज्ञाय च सर्वत्र नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ १४.२३ ॥
नमस्ते देवदेवेश नमस्ते भूतभावन ।
शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो ॥ १४.२४ ॥
सनत्कुमार उवाच
एवं स भगवान्देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ १४.२५ ॥
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः ।
वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः ॥ १४.२६ ॥
ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः ।
तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम् ।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ १४.२७ ॥
एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः ॥ १४.२८ ॥
यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् ।
सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ॥ १४.२९ ॥
सनत्कुमार उवाच
पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा ।
स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव ॥ १४.३० ॥
इति स्कन्दपुराणे चतुर्दशमोऽध्यायः
स्कन्द पुराण १५
सनत्कुमार उवाच
प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ॥ १५.१ ॥
तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् ॥ १५.२ ॥
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह ।
चक्राह्वयस्य रूपेण रत्या सह तमागतम् ॥ १५.३ ॥
अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् ।
नयनेन तृतीयेन सावज्ञं तमवैक्षत ॥ १५.४ ॥
ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
संवृत्य रतिभर्तारमदहत्सपरिच्छदम् ॥ १५.५ ॥
स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् ।
प्रसादयंश्च तं देवं पपात स महीतले ॥ १५.६ ॥
आशु सोऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
पपात भस्मसाच्चैव क्षणेन समपद्यत ॥ १५.७ ॥
पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवं देवीं च दुःखार्ता अयाचत्करुणायती ॥ १५.८ ॥
तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ १५.९ ॥
दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते ।
अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति ॥ १५.१० ॥
यदा तु विष्णुर्भविता वसुदेवसुतः शुभे ।
तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति ॥ १५.११ ॥
सनत्कुमार उवाच
ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ १५.१२ ॥
सनत्कुमार उवाच
एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् ।
प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ॥ १५.१३ ॥
वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते ।
तस्याहं वरदानाय प्रयास्यामि महाव्रते ॥ १५.१४ ॥
एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः ।
जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः ॥ १५.१५ ॥
ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् ।
वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः ॥ १५.१६ ॥
पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् ।
उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते ।
ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ॥ १५.१७ ॥
दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् ।
शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः ॥ १५.१८ ॥
वसिष्ठ उवाच
नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ॥ १५.१९ ॥
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः ॥ १५.२० ॥
नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः ।
नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः ॥ १५.२१ ॥
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ।
नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने ॥ १५.२२ ॥
नमोऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ।
नमोऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः ॥ १५.२३ ॥
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ।
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ॥ १५.२४ ॥
नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः ।
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ १५.२५ ॥
नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः ।
नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः ॥ १५.२६ ॥
नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः ।
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः ॥ १५.२७ ॥
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्तेऽनन्तलिङ्गाय देवानुगतलिङ्गिने ॥ १५.२८ ॥
दिश नः परमं योगमपत्यं मत्समं तथा ।
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ १५.२९ ॥
सनत्कुमार उवाच
एवं स भगवान्व्यास वसिष्ठेनामितात्मना ।
स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥ १५.३० ॥
भगवानुवाच
तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम् ।
योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ॥ १५.३१ ॥
पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् ।
ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते ॥ १५.३२ ॥
दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च ।
नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः ॥ १५.३३ ॥
अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा ।
वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया ।
ब्रूहि चान्यानपि वरान् ददामि ऋषिसत्तम ॥ १५.३४ ॥
वसिष्ठ उवाच
भगवन्विदितं सर्वं भविष्यं देवसत्तम ।
न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो ॥ १५.३५ ॥
देव उवाच
भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः ।
अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा ॥ १५.३६ ॥
तथा तन्नात्र संदेहो विहितं यद्यथा मया ।
तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः ॥ १५.३७ ॥
सनत्कुमार उवाच
एवमुक्त्वा ततो देवः कपर्दी नीललोहितः ।
पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत ॥ १५.३८ ॥
इति स्कन्दपुराणे पञ्चदशमोऽध्यायः
स्कन्द पुराण १६
व्यास उवाच
वरान्स लब्ध्वा भगवान् वसिष्ठोऽस्मत्पितामहः ।
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ॥ १६.१ ॥
सनत्कुमार उवाच
तेनासौ वरदानेन देवदेवस्य शूलिनः ।
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ।
ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ॥ १६.२ ॥
तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ।
परेण चेतसा भक्तिरभवद्गोवृषध्वजे ॥ १६.३ ॥
स कदाचिदपत्यार्थमाराधयदुमापतिम् ।
तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत ॥ १६.४ ॥
अथ दृष्ट्वा तमीशानमिदमाहानताननः ।
केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः ।
सर्वान्धारयसे लोकानात्मना समयाद्विभो ॥ १६.५ ॥
त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया ।
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ॥ १६.६ ॥
आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।
इच्छामि दत्तं देवेश एष मे दीयतां वरः ॥ १६.७ ॥
सनत्कुमार उवाच
तमेवंवादिनं देवः प्रहस्य वदतां वरः ।
उवाच वचसा व्यास दिशः सर्वा विनादयन् ॥ १६.८ ॥
त्वयाहं याचितः शक्ते स च ते संभविष्यति ।
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव ॥ १६.९ ॥
बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना ।
बीजात्मना न भवति परिणामान्तरं गतः ॥ १६.१० ॥
एवं स आत्मनात्मा वः संभूतोऽपत्यसंज्ञितः ।
स्वेनात्मना न भविता परिणामान्तरं गतः ॥ १६.११ ॥
सनत्कुमार उवाच
एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च ।
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ॥ १६.१२ ॥
तस्मिन्गते महादेवे शक्तिस्तव पितामहः ।
वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत ॥ १६.१३ ॥
अथ कालेऽतिमहति समतीते शुभव्रते ।
तपसा भावितश्चापि महताग्निसमप्रभः ।
अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् ॥ १६.१४ ॥
तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् ।
भक्षयामास संरब्धो रक्षसा हृतचेतनः ॥ १६.१५ ॥
इति स्कन्दपुराणे षोडशोऽध्यायः
स्कन्द पुराण १७
व्यास उवाच
कस्मात्स राजा तमृषिं चखाद तपसान्वितम् ।
रक्षसा स किमर्थं च हृतचेताभवन्नृपः ॥ १७.१ ॥
सनत्कुमार उवाच
वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः ।
सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः ॥ १७.२ ॥
तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् ।
तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् ॥ १७.३ ॥
इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् ।
अप्रतीकारसंयुक्तमेकदैकान्त एव च ॥ १७.४ ॥
एवमस्त्विति तेनोक्तो जगाम स महामनाः ।
अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा ।
नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम ॥ १७.५ ॥
गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् ।
सूदमाहूय चोवाच आर्तवत्स नराधिपः ॥ १७.६ ॥
सौदास उवाच
मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः ।
पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् ।
तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा ॥ १७.७ ॥
स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा ।
राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव ।
साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम् ॥ १७.८ ॥
पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् ।
अमितस्य प्रदानाच्च न किंचिदवशिष्यते ॥ १७.९ ॥
राजोवाच
जाने सर्वोपयोगं च जाने चादुष्टतां तव ।
जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् ।
मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे ॥ १७.१० ॥
सनत्कुमार उवाच
एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः ।
पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित् ॥ १७.११ ॥
यदा न लब्धवान्मांसं तदोवाच नराधिपम् ।
गत्वा निशि महाराजमिदं वचनमर्थवत् ॥ १७.१२ ॥
राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् ।
मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते ॥ १७.१३ ॥
सनत्कुमार उवाच
स एवमुक्तः सूदेन तस्मिन्काले नराधिपः ।
नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह ॥ १७.१४ ॥
तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः ।
राक्षसो रुधिरो नाम संविवेश नराधिपम् ॥ १७.१५ ॥
रक्षसा स तदाविष्टो रुधिरेण दुरात्मना ।
उवाच सूदं शनकैः कर्णमूले महाद्युतिः ॥ १७.१६ ॥
गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः ।
गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि ॥ १७.१७ ॥
किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् ।
रसवद्गन्धवच्चैव क्षिप्रमेव समाचर ॥ १७.१८ ॥
सनत्कुमार उवाच
स एवमुक्तस्तेनाथ मानुषं मांसमाददे ।
राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ॥ १७.१९ ॥
अथार्धरात्रसमये भास्कराकारवर्चसम् ।
शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् ॥ १७.२० ॥
स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च ।
समर्चयित्वा विधिवदन्नमस्योपपादयत् ॥ १७.२१ ॥
स तदन्नं समानीतं समालभ्य महातपाः ।
चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव ॥ १७.२२ ॥
शक्तिरुवाच
पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् ।
न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ॥ १७.२३ ॥
यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् ।
तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि ॥ १७.२४ ॥
सनत्कुमार उवाच
एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा ।
उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः ॥ १७.२५ ॥
पुरुषादो भवेत्येवं मामवोचद्भवान्यतः ।
ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ॥ १७.२६ ॥
भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् ।
चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् ।
पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् ॥ १७.२७ ॥
इति स्कन्दपुराणे सप्तदशमोऽध्यायः
स्कन्द पुराण १८
सनत्कुमार उवाच
ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया ।
वनं विवेश तत्राभूत्पुरुषादो महाबलः ॥ १८.१ ॥
सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् ।
ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ॥ १८.२ ॥
ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः ।
नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति ।
पुत्रशोकेन महता भृशमेवान्वकीर्यत ॥ १८.३ ॥
स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः ।
नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् ।
शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः ॥ १८.४ ॥
पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी ।
तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ॥ १८.५ ॥
ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः ।
वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् ॥ १८.६ ॥
अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् ।
अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत ॥ १८.७ ॥
अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा ।
उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा ॥ १८.८ ॥
तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः ।
सोवाच दीनया वाचा रुदती श्वशुरं तदा ॥ १८.९ ॥
अदृश्यन्त्युवाच
यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो ।
तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता ॥ १८.१० ॥
अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो ।
उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः ॥ १८.११ ॥
सनत्कुमार उवाच
इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् ।
क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः ॥ १८.१२ ॥
तदाश्रमपदं गच्छन् पथि राजानमैक्षत ।
वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम् ॥ १८.१३ ॥
अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः ।
ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः ॥ १८.१४ ॥
उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम् ।
दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते ॥ १८.१५ ॥
ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।
प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् ॥ १८.१६ ॥
गते निशाचरे राजा प्रणम्य शिरसा मुनिम् ।
प्रसादयामास तदा स चोवाचेदमर्थवत् ॥ १८.१७ ॥
न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै ।
कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः ॥ १८.१८ ॥
प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो ।
ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव ॥ १८.१९ ॥
राजोवाच
इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत ।
देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् ॥ १८.२० ॥
सनत्कुमार उवाच
एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः ।
पुत्रं च शोणकं नाम जनयामास निर्वृतः ॥ १८.२१ ॥
तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः ।
जगाम वनमेवाशु सभार्यस्तपसि स्थितः ॥ १८.२२ ॥
वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् ।
अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः ॥ १८.२३ ॥
वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत ।
तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् ॥ १८.२४ ॥
ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् ।
पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा ॥ १८.२५ ॥
तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् ।
जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् ॥ १८.२६ ॥
सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः ।
ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ॥ १८.२७ ॥
ब्रह्मोवाच
देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः ।
अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम् ॥ १८.२८ ॥
पराशर उवाच
सह देवैरहं सर्वांल्लोकान्धक्ष्यामि पावकैः ।
दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः ॥ १८.२९ ॥
सनत्कुमार उवाच
तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः ।
उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः ॥ १८.३० ॥
पितामह उवाच
कृतमेतन्न संदेहो यथा ब्रूषे महामते ।
क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया ॥ १८.३१ ॥
यैस्ते पिता महाभाग भक्षितः सह सोदरैः ।
त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः ।
अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ॥ १८.३२ ॥
तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् ।
वसिष्ठस्य महाभाग त्वं निवारय पुत्रक ॥ १८.३३ ॥
देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् ।
ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा ॥ १८.३४ ॥
ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् ।
विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् ॥ १८.३५ ॥
य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् ।
रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति ॥ १८.३६ ॥
तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः ।
विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ ॥ १८.३७ ॥
सनत्कुमार उवाच
ततो देवाः सगन्धर्वाः पितामहपुरःसराः ।
प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् ॥ १८.३८ ॥
हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु ।
संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा ॥ १८.३९ ॥
सनत्कुमार उवाच
य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् ।
श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः ॥ १८.४० ॥
पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् ।
निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् ॥ १८.४१ ॥
इति स्कन्दपुराणेऽष्टादशमोऽध्यायः
स्कन्द पुराण १९
सनत्कुमार उवाच
एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् ।
समापयित्वा च पुनस्तपस्तेपे च भास्वरम् ॥ १९.१ ॥
तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् ।
उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः ॥ १९.२ ॥
वसिष्ठ उवाच
पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् ।
पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् ॥ १९.३ ॥
अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः ।
करिष्यति गतिं चैव इति वेदविदो विदुः ॥ १९.४ ॥
स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः ।
पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो ॥ १९.५ ॥
तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर ।
सुतमुत्पादय क्षिप्रमधिकं सममेव वा ॥ १९.६ ॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना ।
मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् ॥ १९.७ ॥
तस्य कालेन महता तपसा भावितस्य तु ।
उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् ॥ १९.८ ॥
स लब्धवर आगम्य ययाचे पुत्रकारणात् ।
क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥ १९.९ ॥
सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् ।
पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् ॥ १९.१० ॥
मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा ।
अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् ॥ १९.११ ॥
तस्यां स जनयामास वरं दत्त्वा महातपाः ।
भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ॥ १९.१२ ॥
तव पुत्रोऽभवच्चापि शुको योगविदां वरः ।
तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा ॥ १९.१३ ॥
व्यास उवाच
कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः ।
कथं चापगतं भूय एतदिच्छामि वेदितुम् ॥ १९.१४ ॥
सनत्कुमार उवाच
पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते ।
सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः ॥ १९.१५ ॥
तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता ।
मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा ॥ १९.१६ ॥
मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् ।
सरस्वतीमथैकान्ते वसिष्ठं मे महापगे ।
स्रोतसा महताक्षिप्य स्नायमानमिहानय ॥ १९.१७ ॥
सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता ।
यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् ॥ १९.१८ ॥
एवं कुरु महाभागे मां नयस्व यथेप्सितम् ।
मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् ॥ १९.१९ ॥
सनत्कुमार उवाच
गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे ।
मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा ॥ १९.२० ॥
तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् ।
उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया ।
तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि ॥ १९.२१ ॥
विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा ।
अवहद्रुधिरं चैव मांसमेदस्तथैव च ॥ १९.२२ ॥
अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः ।
अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥ १९.२३ ॥
महतस्तपसः शक्त्या कालेन महता तदा ।
वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः ॥ १९.२४ ॥
विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।
एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ॥ १९.२५ ॥
सनत्कुमार उवाच
य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा ।
स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः ॥ १९.२६ ॥
ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः ।
भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् ॥ १९.२७ ॥
एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः ।
वैरं समाप्तं लोकानां हितार्थं पुनरेव च ॥ १९.२८ ॥
इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः
स्कन्द पुराण २०
व्यास उवाच
उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ ।
तन्मे सर्वमशेषेण कथयस्व महामुने ॥ २०.१ ॥
सनत्कुमार उवाच
उमाहरौ तु संगम्य परस्परमनिन्दितौ ।
शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह ॥ २०.२ ॥
स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् ।
रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ॥ २०.३ ॥
व्यास उवाच
कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् ।
समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च ॥ २०.४ ॥
सनत्कुमार उवाच
अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् ।
तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ॥ २०.५ ॥
अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः ।
विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः ॥ २०.६ ॥
तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम् ।
आराधय महादेवं सुतार्थं द्विजसत्तम ॥ २०.७ ॥
तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ २०.८ ॥
तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः ।
हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् ॥ २०.९ ॥
नमः परमदेवाय महेशाय महात्मने ।
स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः ॥ २०.१० ॥
नमः कामाङ्गनाशाय योगसम्भवहेतवे ।
नमः पर्वतवासाय ध्यानगम्याय वेधसे ॥ २०.११ ॥
ऋषीणां पतये नित्यं देवानां पतये नमः ।
वेदानां पतये चैव योगिनां पतये नमः ॥ २०.१२ ॥
प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे ।
वरदाय च भक्तानां नमः सर्वगताय च ॥ २०.१३ ॥
तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह ।
स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे ॥ २०.१४ ॥
जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा ।
प्रकृतेः पतये नित्यं पुरुषात्परगामिने ॥ २०.१५ ॥
ईश्वराय नमो नित्यं योगगम्याय रंहसे ।
संसारोत्पत्तिनाशाय सर्वकामप्रदाय च ॥ २०.१६ ॥
शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे ।
नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः ॥ २०.१७ ॥
सूर्यानिलहुताशाम्बु चन्द्राकाशधराय च ।
स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे ॥ २०.१८ ॥
स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते ।
यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः ॥ २०.१९ ॥
अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः ।
प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ॥ २०.२० ॥
सनत्कुमार उवाच
यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् ।
तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च ॥ २०.२१ ॥
ततः स भगवान्देवः स्तूयमानः सहोमया ।
उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम् ॥ २०.२२ ॥
तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा ।
उवाच चेदं देवेशं स वाचा सज्जमानया ॥ २०.२३ ॥
भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे ।
इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ॥ २०.२४ ॥
एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः ।
एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ॥ २०.२५ ॥
गते तस्मिन्महेष्वासे ऋषिः परमपूजितः ।
स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः ॥ २०.२६ ॥
तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम ।
यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम् ॥ २०.२७ ॥
तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः ।
संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत ॥ २०.२८ ॥
स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् ।
राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम् ॥ २०.२९ ॥
कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम् ।
उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ॥ २०.३० ॥
स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत ।
ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् ॥ २०.३१ ॥
वायुरुवाच
शालङ्कायन पुत्रस्ते योऽसौ देवेन शम्भुना ।
अयोनिजः पुरा दत्तः स एष प्रतिनन्दय ॥ २०.३२ ॥
यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम ।
तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव ॥ २०.३३ ॥
सनत्कुमार उवाच
ततः स वायुवचनान्नन्दिनं परिषस्वजे ।
गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम् ।
चूडोपनयनादीनि कर्माण्यस्य चकार सः ॥ २०.३४ ॥
कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः ।
आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् ॥ २०.३५ ॥
हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् ।
शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ॥ २०.३६ ॥
भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ।
भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् ।
अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च ॥ २०.३७ ॥
दक्षः शुचिरदीनात्मा प्रियवागनसूयकः ।
सर्वलोकप्रियो नित्यं मनोनयननन्दनः ॥ २०.३८ ॥
तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ ।
आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ ॥ २०.३९ ॥
तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः ।
सुखासीनौ समालक्ष्य आसने परमार्चितौ ॥ २०.४० ॥
मित्रावरुणनामानौ तपोयोगबलान्वितौ ।
अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे ॥ २०.४१ ॥
ताभ्यामनुज्ञातश्चैव निषसाद वरासने ।
उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ॥ २०.४२ ॥
ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः ।
स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः ॥ २०.४३ ॥
कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते ।
कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् ॥ २०.४४ ॥
स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः ।
उवाच गुणवान्सम्यक्कुलवंशविवर्धनः ॥ २०.४५ ॥
तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् ।
तयोः पादेषु शिरसा अपातयत नन्दिनम् ॥ २०.४६ ॥
तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम् ।
गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ॥ २०.४७ ॥
सनत्कुमार उवाच
शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा ।
विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ ॥ २०.४८ ॥
शिलाद उवाच
भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् ।
किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि ।
प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ ॥ २०.४९ ॥
मित्रावरुणावूचतुः
तवैष तनयस्तात अल्पायुः सर्वसंमतः ।
अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति ॥ २०.५० ॥
सनत्कुमार उवाच
ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः ।
विसृज्य ऋषिशार्दूलावेकाकी विललाप च ॥ २०.५१ ॥
तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः ।
नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् ॥ २०.५२ ॥
नन्द्युवाच
केन त्वं तात दुःखेन दूयमानः प्ररोदिषि ।
दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः ॥ २०.५३ ॥
शिलाद उवाच
पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि ।
ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ॥ २०.५४ ॥
नन्द्युवाच
सत्यं देवऋषी तात न तावनृतमूचतुः ।
तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः ॥ २०.५५ ॥
शिलाद उवाच
किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते ।
येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् ॥ २०.५६ ॥
नन्द्युवाच
न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया ।
महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा ॥ २०.५७ ॥
द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् ।
नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः ॥ २०.५८ ॥
शिलाद उवाच
मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् ।
महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ॥ २०.५९ ॥
भवांस्तु वर्षेणैकेन तपसा नातिभावितः ।
कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् ॥ २०.६० ॥
नन्द्युवाच
न तात तपसा देवो दृश्यते न च विद्यया ।
शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः ॥ २०.६१ ॥
त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् ।
द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् ॥ २०.६२ ॥
तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसंमतम् ।
न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् ॥ २०.६३ ॥
तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा ।
न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज ॥ २०.६४ ॥
अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः ।
अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् ॥ २०.६५ ॥
जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च ।
न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् ॥ २०.६६ ॥
सनत्कुमार उवाच
तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा ।
व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः ॥ २०.६७ ॥
अभिवन्द्य पितुः पादौ शिरसा स महायशाः ।
प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः ॥ २०.६८ ॥
अभिवाद्य ऋषीन्सर्वान् स दिदृक्षुरुदारधीः ।
मुनिः स देवमगमत्प्रणतार्तिहरं हरम् ॥ २०.६९ ॥
इति स्कन्दपुराणे विंशतितमोऽध्यायः
स्कन्द पुराण २१
सनत्कुमार उवाच
निर्गतोऽथ ततो नन्दी जगाम सरितां वराम् ।
भुवनामिति विख्यातां सर्वलोकसुखावहाम् ॥ २१.१ ॥
तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः ।
स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः ॥ २१.२ ॥
जपता तेन तत्रैव तत्परेण तदाशिषा ।
कोटिरेका यदा जप्ता तदा देवस्तुतोष ह ॥ २१.३ ॥
तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् ।
नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम् ॥ २१.४ ॥
उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् ।
द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो ।
एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम् ॥ २१.५ ॥
सनत्कुमार उवाच
सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह ।
जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ॥ २१.६ ॥
द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः ।
अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत ॥ २१.७ ॥
स प्राह भगवन्कोटिं तृतीयामपि कालहन् ।
जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो ॥ २१.८ ॥
एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह ।
उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः ॥ २१.९ ॥
ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह ।
युगान्तादित्यसंकाशस्ततः समभवद्द्विजः ॥ २१.१० ॥
तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः ।
सोमः सह गणैर्देवस्तं देशमुपचक्रमे ॥ २१.११ ॥
स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह ।
संमृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत् ॥ २१.१२ ॥
देव उवाच
शैलादे वरदोऽहं ते तपसानेन तोषितः ।
साधु जप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ॥ २१.१३ ॥
शैलादिरुवाच
जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा ।
वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो ॥ २१.१४ ॥
भगवानुवाच
किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा ।
यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते ॥ २१.१५ ॥
ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् ।
आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते ॥ २१.१६ ॥
सनत्कुमार उवाच
स एवमुक्तो देवेन शिरसा पादयोर्नतः ।
तुष्टाव पुरकामाङ्ग क्रतुपर्वतनाशनम् ॥ २१.१७ ॥
नन्द्युवाच
नमो देवातिदेवाय महादेवाय वै नमः ।
नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः ॥ २१.१८ ॥
नमस्तुषितनाशाय त्रैलोक्यदहनाय च ।
नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः ॥ २१.१९ ॥
नमो नीलशिखण्डाय सहस्रशिरसे नमः ।
सहस्रपाणये चैव सहस्रचरणाय च ॥ २१.२० ॥
सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च ।
सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते ॥ २१.२१ ॥
नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च ।
नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः ॥ २१.२२ ॥
नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च ।
पिनाकपाणये चैव शूलमुद्गरपाणये ॥ २१.२३ ॥
गदिने खड्गिने चैव परश्वधधराय च ।
रथिने वर्मिणे चैव महेष्वासाय वै नमः ॥ २१.२४ ॥
नमस्त्रिशूलहस्ताय उग्रदण्डधराय च ।
नमो गणाधिपतये रुद्राणां पतये नमः ॥ २१.२५ ॥
नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
आदित्यानां च पतये वसूनां पतये नमः ॥ २१.२६ ॥
नमः पृथिव्याः पतये आकाशपतये नमः ।
नमः स्वर्लोकपतये उमायाः पतये नमः ॥ २१.२७ ॥
नमो योगाधिपतये सर्वयोगप्रदाय च ।
ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च ॥ २१.२८ ॥
मृत्यवे कालदण्डाय यमाय च महात्मने ।
देवाधिपतये चैव दिव्यसंहननाय च ॥ २१.२९ ॥
यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च ।
सवित्रे सर्वदेवानां धर्मायानेकरूपिणे ॥ २१.३० ॥
अमृताय वरेण्याय सर्वदेवस्तुताय च ।
ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः ॥ २१.३१ ॥
त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च ।
उमादेहार्धरूपाय ललाटनयनाय च ॥ २१.३२ ॥
महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने ।
ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च ॥ २१.३३ ॥
कुमारगुरवे चैव कुमारवरदाय च ।
हलिने मुषलघ्नाय महाहासाय वै नमः ॥ २१.३४ ॥
मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे ।
सविद्युद्घनवाहाय तथैव वृषयायिने ॥ २१.३५ ॥
हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने ।
कैलासवासिने चैव धनेश्वरसखाय च ॥ २१.३६ ॥
विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च ।
सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने ॥ २१.३७ ॥
अन्तर्भूताधिभूताय प्राणिनां जीवदाय च ।
मनसे मन्यमानाय अतिमानाय चैव हि ॥ २१.३८ ॥
बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः ।
नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च ॥ २१.३९ ॥
नमस्ते रसयित्रे च तथैव रसनाय च ।
नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि ।
हस्तिने चैव हस्ताय तथा पादाय पादिने ॥ २१.४० ॥
नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः ।
वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने ॥ २१.४१ ॥
सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः ।
नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च ॥ २१.४२ ॥
विष्णवे लोकतन्त्राय प्रजानां पतये नमः ।
मनवे सप्तऋषये तप्यमानाय तापिने ॥ २१.४३ ॥
ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः ।
शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ॥ २१.४४ ॥
अत्रये भृगवे चैव तथैवाङ्गिरसे नमः ।
पुलहाय पुलस्त्याय क्रतुदक्षानलाय च ॥ २१.४५ ॥
धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते ।
भूताय भूतनाथाय कुष्माण्डपतये नमः ॥ २१.४६ ॥
तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च ।
अवश्यायाप्यवध्याय अजरायामराय च ॥ २१.४७ ॥
अक्षयायाव्ययायैव तथाप्रतिहताय च ।
अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे ॥ २१.४८ ॥
सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने ।
नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव ।
नमस्ते सर्वलोकेश नमस्ते लोकभावन ॥ २१.४९ ॥
न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः ।
न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप ।
इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ॥ २१.५० ॥
नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।
द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ॥ २१.५१ ॥
त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः ।
शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् ॥ २१.५२ ॥
त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः ।
अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् ॥ २१.५३ ॥
अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् ।
प्रतीच्छ मां सदा देव एष मे दीयतां वरः ॥ २१.५४ ॥
सनत्कुमार उवाच
य इमं प्रातरुत्थाय पठेदविमना नरः ।
स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ॥ २१.५५ ॥
यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु ।
सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ २१.५६ ॥
श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् ।
यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् ॥ २१.५७ ॥
योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा ।
किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः ॥ २१.५८ ॥
इति स्कन्दपुराण एकविंशतिमोऽध्यायः
स्कन्द पुराण २२
सनत्कुमार उवाच
ततस्तु देवदेवेशो भक्त्या परमया युतम् ।
अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ॥ २२.१ ॥
कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा ।
उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह ॥ २२.२ ॥
उवाच चैनं तुष्टात्मा वचसाप्याययन्निव ।
निरीक्ष्य गणपान्सर्वान् देव्या सह तदा प्रभुः ॥ २२.३ ॥
देव उवाच
जाने भक्तिं तव मयि जाने चार्तिं तवानघ ।
तस्य सर्वस्य शैलादे उदर्कं संनिशामय ॥ २२.४ ॥
अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः ।
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ॥ २२.५ ॥
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः ।
इष्टो मम सदा चैव मम पार्श्वगतः सदा ।
मद्रूपश्चैव भविता महायोगबलान्वितः ॥ २२.६ ॥
ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् ।
संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा ॥ २२.७ ॥
कुशेशयमयीं मालामवमुच्यात्मनस्ततः ।
आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ॥ २२.८ ॥
स तया मालया नन्दी बभौ कण्ठावसक्तया ।
त्र्यक्षो दशभुजः श्रीमान् द्वितीय इव शंकरः ॥ २२.९ ॥
ततस्तं वै समादाय हस्तेन भगवान्हरः ।
उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम् ॥ २२.१० ॥
आश्रमश्चायमत्यर्थं तपसा तव भावितः ।
जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ॥ २२.११ ॥
समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् ।
सिद्धचारणसंकीर्णमप्सरोगणसेवितम् ।
सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः ॥ २२.१२ ॥
कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः ।
शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् ॥ २२.१३ ॥
जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति ।
यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् ॥ २२.१४ ॥
ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् ।
उक्त्वा नदी भवस्वेति विससर्ज महातपाः ॥ २२.१५ ॥
सा ततो दिव्यतोया च पुण्या मणिजला शुभा ।
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।
पद्मोत्पलवनोपेता प्रावर्तत महानदी ॥ २२.१६ ॥
स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता ।
पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता ॥ २२.१७ ॥
तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् ।
यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने ।
तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा ॥ २२.१८ ॥
त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः ।
सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ २२.१९ ॥
सनत्कुमार उवाच
ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् ।
पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत् ॥ २२.२० ॥
सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती ।
पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः ।
पयसा शङ्खगौरेण देवी देवं निरीक्षती ॥ २२.२१ ॥
तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी ।
नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः ॥ २२.२२ ॥
त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः ।
ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत् ॥ २२.२३ ॥
यस्माद्वृषभनादेन प्रवृत्ता सा महानदी ।
तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः ॥ २२.२४ ॥
जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् ।
मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे ॥ २२.२५ ॥
तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः ।
देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः ॥ २२.२६ ॥
तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् ।
यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत ।
स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत ॥ २२.२७ ॥
जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् ।
प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् ॥ २२.२८ ॥
एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् ।
व्याख्यातं फलमेतासां जटोदायां महात्मना ॥ २२.२९ ॥
तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् ।
त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् ॥ २२.३० ॥
नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ॥ २२.३१ ॥
यस्तु जप्येश्वरे प्राणान् परित्यजति दुस्त्यजान् ।
नियमेनान्यथा वापि स मे गणपतिर्भवेत् ॥ २२.३२ ॥
नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः ।
मम पार्श्वादनपगः प्रियः संमत एव च ॥ २२.३३ ॥
जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम् ।
स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् ॥ २२.३४ ॥
इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः
स्कन्द पुराण २३
सनत्कुमार उवाच
भगवान्देवदेवेशः सर्वभूतपतिर्हरः ।
देवीमुवाच वागीश उमां गिरिवरात्मजाम् ॥ २३.१ ॥
देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम् ।
गणानावाहयिष्यामि किं वा त्वं मन्यसेऽव्यये ॥ २३.२ ॥
देव्युवाच
सप्तलोकाधिपत्यं च गणेशानां तथैव च ।
सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः ॥ २३.३ ॥
सनत्कुमार उवाच
ततः स भगवान्देवः सुरशत्रुनिषूदनः ।
प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा ॥ २३.४ ॥
ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः ।
सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने ॥ २३.५ ॥
ततः करालदशनो भृकुटीभूषिताननः ।
शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः ॥ २३.६ ॥
जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः ।
अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः ॥ २३.७ ॥
विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः ।
सर्पयज्ञोपवीती च परश्वधधरस्तथा ॥ २३.८ ॥
भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः ।
अट्टहासान्सृजानश्च अशनीपातसंनिभान् ।
दिण्डिरित्येव विख्यातो गणपः समदृश्यत ॥ २३.९ ॥
आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः ।
गणपानां सुरेशानां योगिनां दीप्ततेजसाम् ॥ २३.१० ॥
ततोऽपरो महाकेशो महाकायोर्ध्वमेहनः ।
त्र्यक्षोऽनलशतप्रख्यः अशनीपातनर्दनः ॥ २३.११ ॥
नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः ।
ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् ॥ २३.१२ ॥
कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम् ।
गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत ॥ २३.१३ ॥
सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः ।
सोऽषाढिर्नाम गणपो व्यास तत्र समागतः ॥ २३.१४ ॥
सनत्कुमार उवाच
अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः ।
शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः ॥ २३.१५ ॥
अतिदीर्घोऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः ।
वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः ॥ २३.१६ ॥
पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च ।
दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः ॥ २३.१७ ॥
पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः ।
वृतः कोटीशतेनैव सदृशानामदृश्यत ॥ २३.१८ ॥
भारभूतीति विख्यातो महायोगबलान्वितः ।
गणपो देवदेवस्य समीपं सोऽभ्यगच्छत ॥ २३.१९ ॥
ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम् ।
मृणालस्फटिकाभं च भस्मकक्षावलम्बनम् ॥ २३.२० ॥
गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम् ।
शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम् ॥ २३.२१ ॥
ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम् ।
वायुवेगं महाहासं भुजगाबद्धमेखलम् ॥ २३.२२ ॥
महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम् ।
भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम् ॥ २३.२३ ॥
महागणपतिं वीरं ज्वर इत्येव विश्रुतम् ।
कोटीशतवृतं तं च गणपं सोऽन्वपश्यत ॥ २३.२४ ॥
ततोऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च ।
त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः ॥ २३.२५ ॥
बहुवेषधरश्चैव ध्यानयोगपरायणः ।
सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः ।
तादृशानां गणाध्यक्षो देवेनाहूत आगतः ॥ २३.२६ ॥
अथापरो महाकायः शूलपाणिर्महाबलः ।
युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः ॥ २३.२७ ॥
चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः ।
एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः ॥ २३.२८ ॥
वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत ।
समहापार्षदो रुद्रः सर्वासुरनिबर्हणः ॥ २३.२९ ॥
ततोऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः ।
सहस्रबाहुचरणः सहस्राक्षः प्रतापवान् ॥ २३.३० ॥
करालदशनश्चैव कृष्णसर्पाम्बरच्छदः ।
त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः ॥ २३.३१ ॥
उग्रसेन इति ख्यातः कोटीशतवृतः स च ।
आगात्समीपं देवस्य आहूतः स्वयमीश्वरः ॥ २३.३२ ॥
ततोऽपरः समापेदे देवं चन्द्रार्धधारिणम् ।
चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः ॥ २३.३३ ॥
सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः ।
करालदशनश्चैव शङ्कुकर्णो महानखः ॥ २३.३४ ॥
असिपाणिर्महातेजाः शतपादः शतोदरः ।
विद्युत्केशोऽतिहासश्च तथैवोभयतोगतिः ॥ २३.३५ ॥
अजैकपादिति ख्यातो वृतः कोटीशतेन सः ।
काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः ॥ २३.३६ ॥
सनत्कुमार उवाच
आगात्ततोऽपरो व्यास गणपः सुमहाबलः ।
सर्वतोवदनः श्रीमान् सर्वतःपाणिपादधृक् ॥ २३.३७ ॥
ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम् ।
शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः ।
निकुम्भ इति विख्यातः शतपादोदराननः ॥ २३.३८ ॥
आगात्ततोऽपरश्चापि विद्युत्केशो महाबलः ।
चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन् ॥ २३.३९ ॥
दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः ।
गणकोटीशतवृतः परमं परतापनः ॥ २३.४० ॥
ततोऽपरः सहस्रेण कोटीनां गणपो वृतः ।
सूर्यमालास्रजं बिभ्रदाजगाम महातपाः ॥ २३.४१ ॥
स सूर्याप्यायनो नाम देवस्य परमप्रियः ।
धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः ॥ २३.४२ ॥
तथान्यः सर्पमालश्च चक्राभरण एव च ।
चक्रायुधो महातेजा ह्रस्वपादकटीकरः ॥ २३.४३ ॥
स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत ।
गणकोटिशतैः षड्भिर्वृतः समनुधावत ॥ २३.४४ ॥
शङ्कुकर्णोऽभ्ययाच्चैव गणकोट्या महाबलः ।
नन्दिकश्चापि दशभिः पिङ्गाक्षोऽष्टाभिरेव च ।
विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः ॥ २३.४५ ॥
हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च ।
धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा ॥ २३.४६ ॥
सहस्रघण्टोऽष्टादशभिस्तपः पञ्चभिरेव च ।
सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः ॥ २३.४७ ॥
वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः ।
विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै ॥ २३.४८ ॥
आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः ।
महारवः सहस्रेण कोटीनां गणपो वृतः ॥ २३.४९ ॥
चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः ।
महाकालः शतेनैव तथाग्निशिखरो गणः ॥ २३.५० ॥
आदित्यमूर्धा कोट्या च तथा चैव धनावहः ।
संनामश्च शतेनैव कुक्कुटोऽष्टाभिरेव च ॥ २३.५१ ॥
कुन्दश्च पञ्चदशभिस्तथा संकोटकोऽपरः ।
अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ ॥ २३.५२ ॥
एकपादोऽपरः षष्ट्या तथा सप्तशिरा गणः ।
महाबलश्च नवभिरपस्मारश्च विश्रुतः ॥ २३.५३ ॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह ॥ २३.५४ ॥
कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः ।
ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः ॥ २३.५५ ॥
भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः ॥ २३.५६ ॥
मेघः सौदामनीमालो नवत्या संवृतोऽभ्यगात् ।
प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः ॥ २३.५७ ॥
गिरिको मेघनादश्च उदरो मणिरेव च ।
काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः ॥ २३.५८ ॥
शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान् ।
तालकेतुश्च षण्डश्च कापाली गजनाशनः ॥ २३.५९ ॥
संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा ।
लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च ॥ २३.६० ॥
मृत्युश्चैव यमश्चैव कालो विषहरस्तथा ।
शतमायो महामायः सर्वत्राशरणस्तथा ।
एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः ॥ २३.६१ ॥
एते चान्ये च गणपा गुह्या ये च महाबलाः ।
तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः ॥ २३.६२ ॥
गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः ।
मुखाडम्बरवाद्यानि नादयन्तस्तथैव च ॥ २३.६३ ॥
रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः ।
व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च ॥ २३.६४ ॥
श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः ।
विमानेषु तथारूढा मनुष्येषु तथापरे ॥ २३.६५ ॥
भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः ।
वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः ॥ २३.६६ ॥
भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः ।
मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि ॥ २३.६७ ॥
दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि ।
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ॥ २३.६८ ॥
ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च ।
सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः ॥ २३.६९ ॥
इति स्कन्दपुराणे त्रयोविंशतिमोऽध्यायः
स्कन्द पुराण २४
सनत्कुमार उवाच
ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः ।
प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ २४.१ ॥
भगवन्देवतारिघ्न देवदेवाम्बिकापते ।
किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ २४.२ ॥
किं सागराञ्छोषयामो यमं वा सह किंकरैः ।
हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ २४.३ ॥
बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना ।
आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ २४.४ ॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ २४.५ ॥
तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः ।
उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ २४.६ ॥
देव उवाच
शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ।
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ॥ २४.७ ॥
नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः ।
प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ॥ २४.८ ॥
तमिमं मम संदेशाद्यूयं सर्वेऽभिसंमताः ।
सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ २४.९ ॥
अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः ।
प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥ २४.१० ॥
सनत्कुमार उवाच
एवमुक्ते भगवता गणपाः सर्व एव ते ।
एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः ॥ २४.११ ॥
तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् ।
आसनं मेरुसंकाशं मनोरममथाहरन् ॥ २४.१२ ॥
शातकुम्भमयं चापि चारुचामीकरप्रभम् ।
मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ २४.१३ ॥
स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् ।
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् ।
कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ २४.१४ ॥
तस्याग्रतः पादपीठं नीलं वज्रावभासितम् ।
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ।
सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ २४.१५ ॥
अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः ।
सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ॥ २४.१६ ॥
छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् ।
शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ २४.१७ ॥
व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् ।
मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ २४.१८ ॥
आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् ।
पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ २४.१९ ॥
स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् ।
कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ २४.२० ॥
ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ ।
ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम् ॥ २४.२१ ॥
कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् ।
राजतानां सहस्रं च पार्थिवानां तथैव च ॥ २४.२२ ॥
ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् ।
वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ २४.२३ ॥
मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा ।
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ २४.२४ ॥
पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च ।
जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ २४.२५ ॥
हारं च मणिचित्राङ्गं रोचनारुचकं तथा ।
{}नलभां पारियात्रं च वर्षं कङ्कणिमेव च{} ॥ २४.२६ ॥
दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च ।
समन्तान्निन्युरव्यग्रा गणपा देवसंमताः ॥ २४.२७ ॥
ततो दिशः समुद्राश्च वरुणः सधनेश्वरः ।
यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ २४.२८ ॥
तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा ।
रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ २४.२९ ॥
गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा ।
पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ २४.३० ॥
वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः ।
नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ २४.३१ ॥
लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च ।
भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ २४.३२ ॥
तीर्थानि चैव सर्वाणि दानानि विविधानि च ।
ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि ॥ २४.३३ ॥
यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा ।
छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः ।
ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ २४.३४ ॥
तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः ।
सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ २४.३५ ॥
एकैकं कलशं तत्र सर्वौषधिसमन्वितम् ।
कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ २४.३६ ॥
जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च ।
सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ २४.३७ ॥
कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि ।
आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ २४.३८ ॥
तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः ।
पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ २४.३९ ॥
सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च ।
दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ २४.४० ॥
राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह ।
क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ २४.४१ ॥
औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा ।
तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ २४.४२ ॥
एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च ।
वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ २४.४३ ॥
स जग्राह तदा ब्रह्मा एकं कलशमात्मना ।
विष्णवे च ददावेकमेकमिन्द्राय धीमते ।
गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ २४.४४ ॥
ततस्तमासने तस्मिन्नुपवेश्य महामनाः ।
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ २४.४५ ॥
ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः ।
गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ २४.४६ ॥
वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च ।
केयूरे कुण्डले चैव मुकुटं हारमेव च ।
पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ २४.४७ ॥
छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च ।
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ २४.४८ ॥
विष्णुरुवाच
नमः कुष्माण्डराजाय वज्रोद्यतकराय च ।
शालङ्कायनपौत्राय हलमार्गोत्थिताय च ॥ २४.४९ ॥
शिलादस्य च पुत्राय रुद्रजप्यकराय च ।
रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ॥ २४.५० ॥
गणानां पतये चैव भूतानां पतये नमः ।
उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ २४.५१ ॥
नमो दंष्ट्राकरालाय ललाटनयनाय च ।
प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ २४.५२ ॥
द्वाराध्यक्षाय शूराय सुयशापतये नमः ।
नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ २४.५३ ॥
महागणाधिपतये महायोगेश्वराय च ।
दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ २४.५४ ॥
अक्षयायामृतायैव अजरायामराय च ।
पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ २४.५५ ॥
नमः पवनवेगाय सर्वज्ञायाजिताय च ।
अनेकशिरसे चैव अनेकचरणाय च ॥ २४.५६ ॥
किरीटिने कुण्डलिने महापरिघबाहवे ।
सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ॥ २४.५७ ॥
सनत्कुमार उवाच
एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने ।
प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ २४.५८ ॥
ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः ।
ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ २४.५९ ॥
ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा ।
वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ॥ २४.६० ॥
दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः ।
अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ २४.६१ ॥
सनत्कुमार उवाच
नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् ।
पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ २४.६२ ॥
नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् ।
तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ २४.६३ ॥
यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः ।
न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ २४.६४ ॥
नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः ।
ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ २४.६५ ॥
इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः
स्कन्द पुराण २५
सनत्कुमार उवाच
ततस्तत्रागतान्देवान् देवताधिपतिर्भवः ।
मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः ॥ २५.१ ॥
मरुतो ये महावेगा महासत्त्वा महौजसः ।
आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः ॥ २५.२ ॥
युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी ।
दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः ॥ २५.३ ॥
मरुत ऊचुः
त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा ।
प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि ॥ २५.४ ॥
त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा ।
मा नः परानिवेशान याचनेन विभावय ॥ २५.५ ॥
पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः ।
पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः ।
स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि ॥ २५.६ ॥
स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः ।
सुयशां मरुतां कन्यामानयामास तत्क्षणात् ॥ २५.७ ॥
स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः ।
कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ ।
अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः ॥ २५.८ ॥
नारदः पर्वतश्चैव चित्रसेनश्च गायनः ।
विश्वावसू रुचिश्चैव हाहा हूहू तथैव च ॥ २५.९ ॥
तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः ।
ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः ।
एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः ॥ २५.१० ॥
उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि ।
तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः ।
अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् ॥ २५.११ ॥
सनत्कुमार उवाच
स एवमभवद्व्यास विवाहस्तस्य धीमतः ।
नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः ॥ २५.१२ ॥
ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः ।
पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च ।
शिलादस्य च लोकेशः श्रिया परमया युतः ॥ २५.१३ ॥
देव उवाच
वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया ।
वरं ददामि ते वत्स अनया सहमीप्सितम् ॥ २५.१४ ॥
नन्द्युवाच
भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे ।
सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः ॥ २५.१५ ॥
पितरं चैव मे देव उत्पादकमिमं प्रभो ।
अनुग्रहेण युक्तेन योक्तुमर्हसि कामद ॥ २५.१६ ॥
देव उवाच
सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः ।
पार्वत्या सहितो धीमन्निदं च शृणु मे वचः ॥ २५.१७ ॥
सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः ।
महायोगी महेष्वासो महाबलपराक्रमः ॥ २५.१८ ॥
अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव ।
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥ २५.१९ ॥
अयं च ते पिता विप्रः परमैश्वर्यसंयुतः ।
भविष्यति गणाध्यक्षो महागणपतिर्मम ॥ २५.२० ॥
पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् ।
उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् ।
तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् ॥ २५.२१ ॥
स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् ।
भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः ।
स कामचारी वैभ्राजे गणपोऽस्य भविष्यति ॥ २५.२२ ॥
सनत्कुमार उवाच
ततो देवी महाभागा शैलादेरददद्वरम् ।
सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥ २५.२३ ॥
ततो मरुत्सुता चैव उभाभ्यामपि चोदिता ।
वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह ॥ २५.२४ ॥
युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि ।
नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा ।
एतदिच्छामि देवेशौ वरं वरसहस्रदौ ॥ २५.२५ ॥
सनत्कुमार उवाच
ततस्तावेवमेतत्ते भवितेति शुचिस्मिते ।
ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् ॥ २५.२६ ॥
गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया ।
वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः ॥ २५.२७ ॥
युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम् ।
वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च ॥ २५.२८ ॥
गणा ऊचुः
भवान्मन्तानुमन्ता च गतिरागतिरेव च ।
अस्माकमीशः सर्वेषां देवानामपि चेश्वरः ॥ २५.२९ ॥
कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः ।
ईतीनां द्वारपालश्च प्रमथानां तथैव च ॥ २५.३० ॥
महाबलो महायोगी सेनानीस्त्वं हि नो मतः ।
त्वं भूतो भूतनेता च नायकोऽथ विनायकः ॥ २५.३१ ॥
ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा ।
त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः ॥ २५.३२ ॥
महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह ।
जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ॥ २५.३३ ॥
भावनः सर्वभूतानां वरदो वरदार्चितः ।
अस्माकं वरदश्चैव भव भूतेश्वर प्रभो ॥ २५.३४ ॥
सनत्कुमार उवाच
स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः ।
उवाच प्रणतः सर्वान् ब्रूत किं करवाणि वः ॥ २५.३५ ॥
त एवमुक्ता गणपाः सर्व एव महाबलाः ।
ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ ॥ २५.३६ ॥
त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना ।
अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः ॥ २५.३७ ॥
स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि ।
क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा ॥ २५.३८ ॥
सनत्कुमार उवाच
एवमुक्तस्तदा सर्वान् प्रणम्य बहुमानतः ।
शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा ॥ २५.३९ ॥
नन्द्युवाच
नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च ।
नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा ॥ २५.४० ॥
नमः कामचरेभ्यश्च नम उग्रेभ्य एव च ।
मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः ॥ २५.४१ ॥
नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च ।
नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च ॥ २५.४२ ॥
नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः ।
नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च ॥ २५.४३ ॥
नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च ।
नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः ॥ २५.४४ ॥
धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः ।
नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः ॥ २५.४५ ॥
नमः शरभरूपेभ्यः शतरूपेभ्य एव च ।
नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च ॥ २५.४६ ॥
नमो मार्जाररूपेभ्यः काककोकेभ्य एव च ।
नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च ॥ २५.४७ ॥
नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च ।
नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च ॥ २५.४८ ॥
नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च ।
नमो वामनरूपेभ्यो वामरूपेभ्य एव च ॥ २५.४९ ॥
देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः ।
नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः ॥ २५.५० ॥
ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा ।
शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च ।
मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः ॥ २५.५१ ॥
इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः ।
दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे ॥ २५.५२ ॥
तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् ।
दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा ॥ २५.५३ ॥
सनत्कुमार उवाच
इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः ।
सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते ॥ २५.५४ ॥
सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् ।
पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् ॥ २५.५५ ॥
सनत्कुमार उवाच
ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता ।
निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् ॥ २५.५६ ॥
देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः ।
सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः ।
ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ॥ २५.५७ ॥
य इमं नन्दिनो जन्म वरदानं तथैव च ।
अभिषेकं विवाहं च पठेद्वा श्रावयीत वा ।
ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् ॥ २५.५८ ॥
यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या ।
सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ॥ २५.५९ ॥
इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः
सनत्कुमार उवाच
एवं नन्दीश्वरो व्यास उत्पन्नोऽनुचरश्च ह ।
अभवद्देवदेवस्य सेनापत्येऽभिषेचितः ॥ २६.१ ॥
व्यास उवाच
देव्या सहाथ भगवानासीनस्तत्र कामदः ।
अकरोत्किं महादेव एतदिच्छामि वेदितुम् ॥ २६.२ ॥
सनत्कुमार उवाच
भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया ।
गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः ॥ २६.३ ॥
देवीं बालेन्दुतिलको रामयच्च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ २६.४ ॥
अथ देव्याससादैका मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्रे आसने परमार्चिते ॥ २६.५ ॥
अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम् ।
आसनेन महार्हेण सम्पादयदनिन्दिताम् ॥ २६.६ ॥
आसीनां तां च सोवाच मेना हिमवतः प्रिया ।
चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे ।
दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता ॥ २६.७ ॥
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ २६.८ ॥
सनत्कुमार उवाच
सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत् ।
महत्याक्षमया युक्ता न किंचित्तामुवाच ह ॥ २६.९ ॥
विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह ।
भगवन्देवदेवेश नेह वत्स्यामि भूधरे ।
अन्यं वृणु ममावासं भुवनेश महाद्युते ॥ २६.१० ॥
देव उवाच
सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि ।
अन्यत्र रोचितवती नावासं देवि कर्हिचित् ॥ २६.११ ॥
इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।
कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥ २६.१२ ॥
देव्युवाच
गृहं गताहं देवेश पितुरद्य महात्मनः ।
दृष्ट्वा च मे तत्र माता विजने लोकभावनी ॥ २६.१३ ॥
आसनादिभिरभ्यर्च्य सा मामेवमभाषत ।
उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे ।
क्रीडते न हि देवानां क्रीडा भवति तादृशी ॥ २६.१४ ॥
यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः ।
रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ २६.१५ ॥
सनत्कुमार उवाच
ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ।
एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव ॥ २६.१६ ॥
कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह ।
अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च ।
विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥ २६.१७ ॥
मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव ।
न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने ॥ २६.१८ ॥
देव्युवाच
न मेऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर ।
तथा कुरु महादेव यथान्यत्र वसामहे ॥ २६.१९ ॥
सनत्कुमार उवाच
स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः ।
पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् ॥ २६.२० ॥
गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् ।
शून्यां कुरु महाबाहो उपायेनैव मा बलात् ॥ २६.२१ ॥
तत्र राजा निवसति दिवोदासः प्रतापवान् ।
धार्मिको मम भक्तश्च महायोगी महाबलः ॥ २६.२२ ॥
स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे ।
तस्यैव चापराधेन शून्यां वाराणसीं कुरु ॥ २६.२३ ॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः ।
उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः ॥ २६.२४ ॥
तथा करिष्ये देवेश यथा स हि नराधिपः ।
भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि ।
शून्या वाराणसी चैव भविष्यति न संशयः ॥ २६.२५ ॥
सनत्कुमार उवाच
एवमुक्त्वा निकुम्भोऽसौ प्रणम्य शिरसा हरम् ।
जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः ॥ २६.२६ ॥
तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः ।
मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा ॥ २६.२७ ॥
निकुम्भ उवाच
मण्डूकाक्ष निकुम्भोऽहं गणपः शोकनाशनः ।
तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत् ॥ २६.२८ ॥
दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् ।
स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम् ॥ २६.२९ ॥
वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च ।
प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः ॥ २६.३० ॥
सनत्कुमार उवाच
एवमुक्तो निकुम्भेन नापितो नृपतिं तदा ।
गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम् ॥ २६.३१ ॥
नापित उवाच
स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम् ।
स्थापयिष्ये गणेशं च तन्मेऽनुज्ञातुमर्हसि ॥ २६.३२ ॥
तथेति सोऽप्यनुज्ञातश्चक्रे तत्र तदालयम् ।
प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ ॥ २६.३३ ॥
तस्य पूजां च महतीं प्रावर्तयत शोभनाम् ।
गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत ॥ २६.३४ ॥
स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् ।
पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः ॥ २६.३५ ॥
तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु ।
आरिराधयिषुर्लोकस्तस्य पूजां चकार ह ॥ २६.३६ ॥
चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे ।
होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः ।
उपहारांस्तथैवान्ये गीतनृत्तं तथापरे ॥ २६.३७ ॥
तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः ।
ददौ सर्वानभिप्रायान् ये ये तेषामभीप्सिताः ॥ २६.३८ ॥
एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा ।
उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया ॥ २६.३९ ॥
देवि सर्वानभिप्रायाञ्जनेभ्योऽयं प्रयच्छति ।
गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय ॥ २६.४० ॥
सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना ।
उवाच भगवन्देव अनपत्याहमीश्वर ॥ २६.४१ ॥
उपवासं करिष्यामि तव देवाभिराधने ।
तावन्न भोक्ष्ये यावन्मे वरोऽदत्तस्त्वया प्रभो ॥ २६.४२ ॥
जाते च पुत्रे दास्यामि शतानां दशतीर्दश ।
त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर ॥ २६.४३ ॥
तथा घटसहस्रेण दध्नश्चैव घृतस्य च ।
क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते ॥ २६.४४ ॥
ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् ।
पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः ॥ २६.४५ ॥
बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च ।
सदा सत्त्रं च पूजां च करिष्यति तव प्रभो ॥ २६.४६ ॥
सनत्कुमार उवाच
सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता ।
सोपवासा तदा पूजां महतीं तस्य कुर्वती ॥ २६.४७ ॥
तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः ।
उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः ॥ २६.४८ ॥
एवं तेन गणेशेन निकुम्भेन महात्मना ।
असकृत्प्रोच्यमाना सा नियमाद्विरराम ह ॥ २६.४९ ॥
ततो नराधिपं देवी प्रोवाच विमना तदा ।
आर्यपुत्र न मे पुत्रं गणपोऽसौ प्रयच्छति ।
ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः ॥ २६.५० ॥
सनत्कुमार उवाच
एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः ।
सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः ॥ २६.५१ ॥
तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् ।
मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम् ॥ २६.५२ ॥
एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः ।
क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् ॥ २६.५३ ॥
राजोवाच
गणो वा त्वं पिशाचो वा भूतो वा राक्षसोऽपि वा ।
कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि ॥ २६.५४ ॥
मम चैव गृहद्वारि पौरैश्चैव समर्चितः ।
विषये मम वासी च न च पुत्रं प्रयच्छसि ॥ २६.५५ ॥
पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि ।
नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः ॥ २६.५६ ॥
ततोऽस्य भेदयामास निलयं गजयूथपैः ।
स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम् ॥ २६.५७ ॥
निकुम्भोऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः ।
उवाच तं दिवोदासं प्रदहन्निव तेजसा ॥ २६.५८ ॥
यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम् ।
न दत्तो यद्यसौ कोपः कस्तत्र भवतोऽभवत् ॥ २६.५९ ॥
यस्मान्ममालयो भग्नस्त्वया निरपकारिणः ।
तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति ॥ २६.६० ॥
सनत्कुमार उवाच
स एवमुक्त्वा राजानं निकुम्भः परमात्मवान् ।
देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः ॥ २६.६१ ॥
राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि ।
व्रीडां परां समासाद्य गृहानभ्यागमत्तदा ॥ २६.६२ ॥
अथ सा तेन शापेन पुरी वाराणसी तदा ।
शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता ॥ २६.६३ ॥
तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् ।
सगणो नन्दिना सार्धमाजगाम महाद्युतिः ॥ २६.६४ ॥
स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम् ।
अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे ॥ २६.६५ ॥
न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् ॥ २६.६६ ॥
देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु ।
तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः ॥ २६.६७ ॥
तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये ।
रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः ॥ २६.६८ ॥
इति स्कन्दपुराणे षड्विंशोऽध्यायः
सनत्कुमार उवाच
अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ ।
आसने काञ्चने दिव्ये नानारत्नोपशोभिते ॥ २७.१ ॥
अथाचलसुता देवी सुखासीना विभावरी ।
सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् ॥ २७.२ ॥
भगवन्देवतारिघ्न चन्द्रावयवभूषण ।
कथयैतन्मम विभो यत्त्वां पृच्छामि मानद ॥ २७.३ ॥
किं फलं तव देवेश लभन्ते भक्तवत्सल ।
भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन ॥ २७.४ ॥
सनत्कुमार उवाच
स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः ।
अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम् ॥ २७.५ ॥
व्यास उवाच
किं तत्स भगवान्देवः प्रीयमाणो महातपाः ।
प्रणयात्स तदा देव्या पृष्टोऽकथयदव्ययः ॥ २७.६ ॥
सनत्कुमार उवाच
मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः ।
यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते ॥ २७.७ ॥
गणेशानं महाभागं सूर्यायुतसमप्रभम् ।
अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम् ॥ २७.८ ॥
ईशेन यत्पुरा देव्याः कथितं गणसत्तम ।
तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे ॥ २७.९ ॥
नन्दीश्वर उवाच
श्रूयतामभिधास्यामि पृच्छतस्ते महामुने ।
देवदेवेन पार्वत्या यत्पुरा कथितं हितम् ॥ २७.१० ॥
देव उवाच
श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते ।
हिताय देवि भक्तानां पृष्टस्ते कथयामि ते ॥ २७.११ ॥
प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते ।
विदधाम्यर्जुनं तस्य गृहं शिवपुरेऽक्षयम् ॥ २७.१२ ॥
विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः ।
चरते स मया सार्धं नित्यमष्टगुणान्वितः ॥ २७.१३ ॥
काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम ।
तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम् ॥ २७.१४ ॥
यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये ।
लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान् ॥ २७.१५ ॥
वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा ।
स कुलानामुभयतस्तारयेदेकविंशतिम् ॥ २७.१६ ॥
गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम् ।
स मे पुरं समासाद्य गणेशैः सह मोदते ॥ २७.१७ ॥
यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम् ।
सोऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे ॥ २७.१८ ॥
योऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम ।
रथेन वृषयुक्तेन मम लोके स मोदते ॥ २७.१९ ॥
महिमानोपचारैश्च यो मां जप्यैश्च पूजयेत् ।
ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम् ॥ २७.२० ॥
मनसा चिन्तयेद्यश्च पूजयेयमहं हरम् ।
अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे ॥ २७.२१ ॥
स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः ।
मम लोकमवाप्नोति भिन्ने देहे न संशयः ॥ २७.२२ ॥
स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति ।
स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् ॥ २७.२३ ॥
संमार्जनं पञ्चशतं सहस्रमुपलेपनम् ।
गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम् ॥ २७.२४ ॥
अभ्यङ्गोऽष्टशतं चैव स्नपनं त्रिशतं भवेत् ।
गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च ॥ २७.२५ ॥
क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम् ।
तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा ॥ २७.२६ ॥
क्षमामि देवि चास्येह अपराधान्बहूनपि ।
भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम् ॥ २७.२७ ॥
अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम् ।
चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः ॥ २७.२८ ॥
अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः ।
आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः ॥ २७.२९ ॥
द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् ।
देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत् ॥ २७.३० ॥
दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे ।
निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् ॥ २७.३१ ॥
चरवो दशसाहस्रा यावकश्च चतुर्गुणः ।
शेषाश्च चरवः सर्वे यावकार्धेन संमिताः ॥ २७.३२ ॥
घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम् ।
प्रीणाति च पितॄन्सर्वान् विमाने चैव मोदते ।
छत्त्रं दद्याच्च यः सोऽपि दीप्यते तेजसा दिवि ॥ २७.३३ ॥
उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः ।
उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते ।
ददान्यस्य स्वकं लोकं तुष्टोऽहं देवि शाश्वतम् ॥ २७.३४ ॥
रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि ।
पूजितोऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् ॥ २७.३५ ॥
एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः ।
सर्वयज्ञफलं तस्य ददानि श्रियमेव च ॥ २७.३६ ॥
मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः ।
न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः ॥ २७.३७ ॥
ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः ।
एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा ॥ २७.३८ ॥
ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः ।
सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः ॥ २७.३९ ॥
त्रींल्लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च ।
गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम् ॥ २७.४० ॥
न शक्योऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि ।
ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः ॥ २७.४१ ॥
यानि लोकेषु तीर्थानि देवतायतनानि च ।
पादयोस्तानि सुश्रोणि सदा संनिहितानि मे ॥ २७.४२ ॥
मय्यर्पितमना नित्यं तथा मद्भावभावितः ।
ममैव स प्रभावेन सर्वपापैः प्रमुच्यते ॥ २७.४३ ॥
सर्वथा वर्तमानोऽपि देवि यो मां सदा स्मरेत् ।
कल्मषेण न युज्येत नरः कर्ता कदाचन ॥ २७.४४ ॥
सर्वावस्थोऽपि पापात्मा ज्ञाननिष्ठेन चेतसा ।
योऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत् ॥ २७.४५ ॥
षडङ्गेन च योगेन यो मामर्चयते सदा ।
प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा ॥ २७.४६ ॥
योऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा ।
सोऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम् ॥ २७.४७ ॥
इति स्कन्दपुराणे सप्तविंशतितमोऽध्यायः
सनत्कुमार उवाच
ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा ।
अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता ॥ २८.१ ॥
व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप ।
व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर ॥ २८.२ ॥
देव उवाच
महाफलं यद्भवति यच्चाप्यल्पफलं शुभे ।
व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्वमनिन्दिते ॥ २८.३ ॥
चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः ।
संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः ॥ २८.४ ॥
सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम् ।
तच्चैव फलमाप्नोति यमं चैव न पश्यति ॥ २८.५ ॥
शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः ।
स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः ॥ २८.६ ॥
मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते ।
लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत् ॥ २८.७ ॥
पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः ।
स त्रिरात्रफलं देवि अहोरात्रेण विन्दति ॥ २८.८ ॥
संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः ।
निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत् ॥ २८.९ ॥
नवमी अष्टमी चैव पौर्णमासी त्रयोदशी ।
यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम् ॥ २८.१० ॥
गाणपत्यं स लभते निःसपत्नमनिन्दिते ।
भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च ॥ २८.११ ॥
श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम् ।
किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च ।
फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः ॥ २८.१२ ॥
स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते ।
दिव्यरूपधरः श्रीमान् देवतैः सह नित्यशः ॥ २८.१३ ॥
हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम् ।
सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् ॥ २८.१४ ॥
भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् ।
पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा ॥ २८.१५ ॥
पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम् ।
चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम् ॥ २८.१६ ॥
तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि ।
सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह ॥ २८.१७ ॥
वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् ।
इह लोके सुखी जातो मामेव प्रतिपद्यते ॥ २८.१८ ॥
रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियोऽथ विट् ।
शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम् ॥ २८.१९ ॥
सिद्धार्थकैरथार्घार्थे दैवे पित्र्येऽथवा पुनः ।
त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि ॥ २८.२० ॥
ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम् ।
मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते ॥ २८.२१ ॥
सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च ।
कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम् ॥ २८.२२ ॥
गुह्यमेतत्परं देवि यो वेत्ति स महातपाः ।
तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः ।
प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम् ॥ २८.२३ ॥
क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः ।
अपराधसहस्रं तु क्षमे तस्याहमन्तशः ॥ २८.२४ ॥
यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते ।
मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत् ॥ २८.२५ ॥
संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः ।
गाणपत्यं स लभते वल्लभत्वं च नित्यशः ॥ २८.२६ ॥
सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः ।
द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् ॥ २८.२७ ॥
अभिगम्यश्च देवानां स भवेत नरोत्तमः ।
निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् ॥ २८.२८ ॥
संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः ।
वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् ।
सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि ॥ २८.२९ ॥
लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः ।
शतं वर्षसहस्राणि दिव्यानि दिवि मोदते ॥ २८.३० ॥
चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः ।
अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च ।
सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते ॥ २८.३१ ॥
सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम् ।
एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम् ॥ २८.३२ ॥
करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम् ।
तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते ॥ २८.३३ ॥
पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम् ।
तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने ॥ २८.३४ ॥
बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम् ।
बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम् ॥ २८.३५ ॥
बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम् ।
पुष्पे दत्ते तदेकस्मिंल्लभेद्धुत्तूरकस्य तु ॥ २८.३६ ॥
निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः ॥ २८.३७ ॥
स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः ।
नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत् ॥ २८.३८ ॥
ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
तस्य पापमहं शीघ्रं नाशयामि महाव्रते ॥ २८.३९ ॥
दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम ।
अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः ।
गाणपत्यं स लभते दीप्यते च रविर्यथा ॥ २८.४० ॥
दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह ।
यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् ॥ २८.४१ ॥
ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये ।
सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् ॥ २८.४२ ॥
चित्रो नाम गणो मह्यं तेन सार्धं स मोदते ।
सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये ।
त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते ॥ २८.४३ ॥
न तुष्याम्यर्चितोऽर्चायां तथा देवि नगात्मजे ।
लिङ्गेऽर्चिते यथात्यर्थं परितुष्यामि पार्वति ॥ २८.४४ ॥
सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः ।
स प्रयाति दिवं देवि लिङ्गं योऽर्चयतीह मे ॥ २८.४५ ॥
त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः ।
मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते ॥ २८.४६ ॥
सनत्कुमार उवाच
ततो भगवती भूयः पतिं सर्वजगत्पतिम् ।
अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि ॥ २८.४७ ॥
ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः ।
वचः प्रोवाच भगवांल्लोकानां हितकाम्यया ॥ २८.४८ ॥
देव उवाच
शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम् ।
त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने ॥ २८.४९ ॥
यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति ।
यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते ॥ २८.५० ॥
न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः ।
सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः ॥ २८.५१ ॥
तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत् ।
यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते ॥ २८.५२ ॥
सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः ।
मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत् ॥ २८.५३ ॥
मन्त्रः
सर्वगाय सुरेशाय सर्वदेवमयाय च ।
नमो भगवते चैव गुह्यागुह्याय वै सदा ॥ २८.५४ ॥
सोमाय भूतनाथाय भावनाय भवाय च ।
सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च ॥ २८.५५ ॥
सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह ।
कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे ॥ २८.५६ ॥
पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् ।
सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत् ॥ २८.५७ ॥
अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः ।
तिलानां चैव कृष्णानां सर्षपाणां च पार्वति ।
अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति ॥ २८.५८ ॥
इदं च वचनं ब्रूयात्सूर्येति च ममेति च ।
सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः ॥ २८.५९ ॥
अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत् ।
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ।
सोऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति ॥ २८.६० ॥
वामदेव सुदेवेति हर गुप्तेति वा पुनः ।
उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते ॥ २८.६१ ॥
शर्व भीम पशुपते शंकरोग्र भवेति च ।
महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत् ।
सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते ॥ २८.६२ ॥
एतेषामेकमपि यः कथयेद्वा पठेत वा ।
स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते ।
एवं सर्वप्रणामेन यन्मया परिकीर्तितम् ॥ २८.६३ ॥
अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत् ।
क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये ।
सोऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः ॥ २८.६४ ॥
इदं च परमं गुह्यं यो मे देवि निवेदयेत् ।
अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह ।
निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते ॥ २८.६५ ॥
इमानि च महाभागे यो मे नामानि कीर्तयेत् ।
श्मशाननिलयो नग्नो भस्मशायी यतव्रतः ॥ २८.६६ ॥
वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः ।
अवसव्यप्रियः सव्यो बहुरूपोऽन्तकान्तकृत् ॥ २८.६७ ॥
पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः ।
अनिन्द्रियोऽतीन्द्रियश्च सर्वभूतहृदि स्थितः ॥ २८.६८ ॥
संसारचक्री योगात्मा कापाली दिण्डिरेव च ।
महादेवो महादेवो महादेवेति चैव हि ॥ २८.६९ ॥
जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः ।
स देहभेदमासाद्य योगात्मा गणपो भवेत् ॥ २८.७० ॥
सनत्कुमार उवाच
नाशुभाय न पापाय नानृताय कदाचन ।
श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन ॥ २८.७१ ॥
धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् ।
पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् ।
श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित् ॥ २८.७२ ॥
इति स्कन्दपुराणेऽष्टाविंशतितमोऽध्यायः
व्यास उवाच
एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम् ।
जगतः पितरौ देवौ चक्रतुः किमतः परम् ॥ २९.१ ॥
सनत्कुमार उवाच
ततः स भगवान्देवो देवीं हिमवतः सुताम् ।
उवाच देवि पश्याम उद्यानं यदि रोचते ॥ २९.२ ॥
देव्युवाच
एवं भवतु देवेश यथात्थ त्वं वृषध्वज ।
न हि मेऽन्यत्र गन्तव्यमुद्यानात्परतो हर ॥ २९.३ ॥
सनत्कुमार उवाच
सह देव्या ततो व्यास वाराणस्यां वृषध्वजः ।
देवोद्यानदिदृक्षार्थं विचचार समन्ततः ॥ २९.४ ॥
पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक् ।
उद्यानं दर्शयामास नानाकुसुमशोभितम् ॥ २९.५ ॥
चम्पकाशोकपुंनाग प्रियङ्गूचूतसंकुलम् ।
बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि ॥ २९.६ ॥
गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः ।
रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः ।
संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम् ॥ २९.७ ॥
स तदुद्यानमासाद्य देवीमाह जगत्पतिः ।
अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने ॥ २९.८ ॥
ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः ।
पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत् ॥ २९.९ ॥
ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः ।
ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन् ।
तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः ॥ २९.१० ॥
गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः ।
नैकवर्णास्तदाभूवन् यदा सम्प्रेक्षिता मया ॥ २९.११ ॥
तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे ।
आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत् ॥ २९.१२ ॥
अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः ।
प्रसादं कुरु देवेश सुरभीस्तेजसा तव ।
न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित ॥ २९.१३ ॥
ततोऽहमास्थितो देवि स्थानेऽस्मिन्स्वयमेव तु ।
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः ॥ २९.१४ ॥
गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः ।
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥ २९.१५ ॥
ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि ।
ह्रदेऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा ।
कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते ॥ २९.१६ ॥
अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः ।
सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः ॥ २९.१७ ॥
कपिलाह्रदतीर्थेऽस्मिन् स्नात्वा नान्यमना नरः ।
वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥ २९.१८ ॥
सलोकतां मृतश्चापि अर्चयित्वा तु मामिह ।
लभते देहभेदे तु गणत्वं चातिदुर्लभम् ॥ २९.१९ ॥
अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् ।
शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् ॥ २९.२० ॥
तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम् ।
भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम् ॥ २९.२१ ॥
सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ।
गच्छोपशममीशेति उपशान्तशिवस्ततः ॥ २९.२२ ॥
स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् ।
दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् ॥ २९.२३ ॥
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ।
ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः ॥ २९.२४ ॥
ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा ।
मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि ॥ २९.२५ ॥
तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् ।
रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा ॥ २९.२६ ॥
मयैष स्थापितस्तेन नाम्ना तव भविष्यति ।
हिरण्यगर्भ इत्येवं ततोऽत्राहं समास्थितः ।
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः ॥ २९.२७ ॥
पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे ।
स्थापयामास विधिवद्भक्त्या परमया युतः ।
स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः ॥ २९.२८ ॥
स्वस्मिन्परतरे लीनः प्रधाने मम कारणे ।
तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम् ॥ २९.२९ ॥
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ।
आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता ॥ २९.३० ॥
अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः ।
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ॥ २९.३१ ॥
व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः ।
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् ॥ २९.३२ ॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ।
स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे ।
सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् ॥ २९.३३ ॥
आदावत्राहमागत्य आस्थितो गणपैः सह ।
ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ॥ २९.३४ ॥
दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम् ।
न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी ॥ २९.३५ ॥
समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह ।
दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् ॥ २९.३६ ॥
इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः ।
न च मुक्तं मया यस्मादविमुक्तमिदं ततः ।
क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति ॥ २९.३७ ॥
अविमुक्तेश्वरं मां वै योऽत्र द्रक्ष्यति मानवः ।
गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह ।
प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम् ॥ २९.३८ ॥
पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् ।
मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् ॥ २९.३९ ॥
शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम् ।
दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् ॥ २९.४० ॥
नदी वाराणसी चेयं पुण्या पापप्रमोचनी ।
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ॥ २९.४१ ॥
स्थापितं संगमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमम् ।
संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम् ॥ २९.४२ ॥
संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः ।
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ॥ २९.४३ ॥
इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम् ।
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः ।
मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः ॥ २९.४४ ॥
सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम् ।
योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् ।
दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति ॥ २९.४५ ॥
स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना ।
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् ॥ २९.४६ ॥
दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः ।
मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः ॥ २९.४७ ॥
पुरा जम्बुकरूपेण असुरा देवकण्टकाः ।
ब्रह्मणोऽथ वरं लब्ध्वा गोमायुवधशङ्किताः ॥ २९.४८ ॥
निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम् ।
अभवं जगति ख्यातः सुरासुरनमस्कृतः ।
दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् ॥ २९.४९ ॥
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि ।
पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु ॥ २९.५० ॥
एवमेतानि पुण्यानि मन्निवासानि पार्वति ।
कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु ॥ २९.५१ ॥
क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।
योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम् ॥ २९.५२ ॥
महालयगिरिस्थाने केदारे च व्यवस्थितम् ।
गणत्वं लभते दृष्ट्वा क्षेत्रेऽस्मिन्मोक्षमाप्यते ॥ २९.५३ ॥
गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा ।
ततो महालयात्तस्मात्केदारान्मध्यमादपि ।
स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे ॥ २९.५४ ॥
केदारमध्यमे स्थाने स्थानं चैव महालयम् ।
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ॥ २९.५५ ॥
यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् ।
कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत् ॥ २९.५६ ॥
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः ।
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ॥ २९.५७ ॥
शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् ।
हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम् ॥ २९.५८ ॥
उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् ।
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ।
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ॥ २९.५९ ॥
एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ।
विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे ॥ २९.६० ॥
अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा ।
सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम् ।
तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव ॥ २९.६१ ॥
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः ।
योगीश्वरा महात्मानस्तथा वैतानिकव्रताः ॥ २९.६२ ॥
अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः ।
बहवः शतशोऽभ्येत्य नमश्चक्रुर्महेश्वरम् ॥ २९.६३ ॥
पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः ।
तस्थुरात्मानमाधाय लीयमाना इवेश्वरे ॥ २९.६४ ॥
स्थितानां स तथा तेषां देवदेव उमापतिः ।
संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः ॥ २९.६५ ॥
षड्विंश ईश्वरोऽव्यक्तः सूर्यायुतसमप्रभः ।
कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः ॥ २९.६६ ॥
तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः ।
न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ॥ २९.६७ ॥
ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम् ।
प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका ।
तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः ॥ २९.६८ ॥
ततस्ते लयमाधाय योगिनः पुरुषस्य तु ।
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः ॥ २९.६९ ॥
अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान् ।
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् ॥ २९.७० ॥
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा ।
स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति ॥ २९.७१ ॥
तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् ।
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ।
यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना ॥ २९.७२ ॥
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः ।
अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा ॥ २९.७३ ॥
तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम ।
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः ॥ २९.७४ ॥
प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम् ।
उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे ॥ २९.७५ ॥
शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः ।
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च ॥ २९.७६ ॥
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् ।
उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् ॥ २९.७७ ॥
पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम् ।
भजन्ते सर्वतोऽभ्येत्य ताञ्छृणुष्व वरानने ॥ २९.७८ ॥
संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ।
पुष्करं नैमिशं चैव प्रयागं सपृथूदकम् ॥ २९.७९ ॥
सन्ध्या सप्तऋचं चैव सर्वानद्यः सरांसि च ।
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ।
भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम् ॥ २९.८० ॥
अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे ।
पृथिव्यां यानि पुण्यानि मह्यमायतनानि च ।
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु ॥ २९.८१ ॥
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये ।
मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम् ॥ २९.८२ ॥
शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ ।
द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च ॥ २९.८३ ॥
स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम् ।
भैरवेश्वरमीशानं तथा कारोहणास्थितम् ॥ २९.८४ ॥
यानि चान्यानि पुण्यानि स्थानानि मम भूतले ।
तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् ॥ २९.८५ ॥
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ।
तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम् ॥ २९.८६ ॥
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ।
सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः ।
सद्य एवमवाप्नोति किं न्वतः परमस्ति वै ॥ २९.८७ ॥
सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि ।
नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः ॥ २९.८८ ॥
ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च ।
गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम् ॥ २९.८९ ॥
स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् ।
विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति ॥ २९.९० ॥
क्षेत्रेऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः पश्यन्तोऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः ।
ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् ॥ २९.९१ ॥
एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम् ।
जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम ॥ २९.९२ ॥
भागीरथीमिहासाद्य वाराणस्यां ममास्पदे ।
अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति ॥ २९.९३ ॥
नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित् ।
नातः शुभतरं किंचिन्नातः प्रियतरं मम ॥ २९.९४ ॥
क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् ।
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम् ॥ २९.९५ ॥
सनत्कुमार उवाच
उद्यानानि ततो देवः स्थानानि च तथात्मनः ।
आख्याय हिमवत्पुत्र्या विचचार तदा पुनः ॥ २९.९६ ॥
सोऽपश्यत तदा विप्रं तप्यमानं परं तपः ।
पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् ॥ २९.९७ ॥
स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा ।
भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् ।
जप्येन वृषनादैश्च तपसा भावितः शुचिः ॥ २९.९८ ॥
तमेवं वर्तमानं तु भक्त्या परमया युतम् ।
भगवान्सहसाभ्येत्य इदं वचनमब्रवीत् ॥ २९.९९ ॥
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ।
तुष्टोऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम् ॥ २९.१०० ॥
स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् ।
प्रणम्य शिरसा पादाववन्दत्परया मुदा ॥ २९.१०१ ॥
जैगीषव्य उवाच
नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः ।
नमः पिनाकहस्ताय हिमवन्निलयाय च ॥ २९.१०२ ॥
नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा ।
नमः सोमाय हेम्ने च हेममालाधराय च ॥ २९.१०३ ॥
नमो गणाधिपतये नमः शान्तेन्द्रियाय च ।
योगसाहाय्यकर्त्रे च साहसोपशमाय च ॥ २९.१०४ ॥
नमो मृत्युहरायैव नमः शोकहराय च ।
नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः ॥ २९.१०५ ॥
धारिणे सर्वलोकानां सर्वलोकेश्वराय च ।
नमो दशार्धवर्णाय संसारापनुदाय च ॥ २९.१०६ ॥
नमः संसारपाराय अपारपरमाय च ।
स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः ॥ २९.१०७ ॥
नमः कालकलाज्ञाय सकलायाकलाय च ।
नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः ॥ २९.१०८ ॥
नमः क्रोधविहीनाय क्रोधाधिपतये नमः ।
नमः श्रमायाश्रमिणे श्रमापनयनाय च ॥ २९.१०९ ॥
नमो ज्ञानरसज्ञाय ज्ञानिनेऽज्ञानहारिणे ।
सक्ताय चैव तपसि ऐश्वर्यनिरताय च ॥ २९.११० ॥
नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने ।
नमः सर्वानुभावाय भावानुगतचेतसे ॥ २९.१११ ॥
नमः शमदमाढ्याय मृत्युदूतापहारिणे ।
नमः शैलादिनाथाय शैलादिगणपाय च ॥ २९.११२ ॥
नमो योगरहस्याय योगदाय नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ भगवन्प्रभो ॥ २९.११३ ॥
सनत्कुमार उवाच
स एवं स्तूयमानश्च भक्त्या परमयापि च ।
तुष्टस्तुतोष भूयोऽस्य इदं चैनमुवाच ह ॥ २९.११४ ॥
देव उवाच
अजरश्चामरश्चैव सर्वशोकविवर्जितः ।
महायोगी महावीर्यो योगैश्वर्यसमन्वितः ॥ २९.११५ ॥
प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् ।
योगेऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ।
भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः ॥ २९.११६ ॥
यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति ।
योनयः सप्त गत्वा तु योगं स समवाप्स्यति ॥ २९.११७ ॥
जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः ।
स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते ॥ २९.११८ ॥
मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति ।
एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् ॥ २९.११९ ॥
त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत् ।
अतो भूयश्च किं तेऽद्य जैगीषव्य ददान्यहम् ॥ २९.१२० ॥
जैगीषव्य उवाच
भगवन्देवदेवेश यच्छ यन्मे मनोगतम् ।
अतोऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम् ॥ २९.१२१ ॥
त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे ।
अनुत्सेकं तथा क्षान्तिं शमं दममथापि च ॥ २९.१२२ ॥
न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम् ।
एतान्वरानहं देव सदेच्छामि महाद्युते ॥ २९.१२३ ॥
देव उवाच
एते तव भविष्यन्ति अजय्यत्वं च योगिभिः ।
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥ २९.१२४ ॥
सनत्कुमार उवाच
ततः स भगवान्देवः पाराशर्योमया सह ।
सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया ॥ २९.१२५ ॥
तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् ।
वरदानाय देवेशो जगाम पुरतस्तदा ॥ २९.१२६ ॥
अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम् ।
तप्यमानं तपो घोरं सुतं विश्रवसस्तदा ॥ २९.१२७ ॥
दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् ।
तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् ॥ २९.१२८ ॥
देव उवाच
भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते ।
सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा ॥ २९.१२९ ॥
ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम् ।
प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह ॥ २९.१३० ॥
अबलं तं समालक्ष्य उत्थानेऽशक्तमीश्वरः ।
उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते ॥ २९.१३१ ॥
तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत ।
पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः ॥ २९.१३२ ॥
इयं सा पर्वतसुता सर्वलोकनमस्कृता ।
माता लोकत्रयस्यास्य महायोगबलान्विता ॥ २९.१३३ ॥
अहोऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम् ।
या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह ॥ २९.१३४ ॥
सनत्कुमार उवाच
तमेवंभूतमनसमीक्षमाणं च पार्वतीम् ।
बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी ॥ २९.१३५ ॥
सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत् ।
विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा ॥ २९.१३६ ॥
पुनश्चास्य विनाशाय कुबेरस्य शुभानना ।
मतिं दध्रे तपोयोनिरथैनामवदद्धरः ॥ २९.१३७ ॥
मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः ।
यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः ॥ २९.१३८ ॥
कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे ।
प्रसादं कुरु बालस्य धनदस्य महेश्वरि ॥ २९.१३९ ॥
देव्युवाच
एषोऽसकृन्मां देवेश वीक्षतेऽविनयात्प्रभो ।
मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः ॥ २९.१४० ॥
तेजसां योऽप्रमेयानां कुर्यान्मोहेन लङ्घनम् ।
सोऽल्पवीर्यो विनश्येत पतङ्गोऽग्निमिवागतः ॥ २९.१४१ ॥
सनत्कुमार उवाच
तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः ।
उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः ॥ २९.१४२ ॥
ब्रवीमि त्वां महाभागे मा क्रुधो जगतोऽरणि ।
त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि ।
पुत्रस्तेऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि ॥ २९.१४३ ॥
मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने ।
न दोषोऽस्ति न चैवास्य त्वयि चेतो विमोहितम् ॥ २९.१४४ ॥
तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च ।
प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम् ॥ २९.१४५ ॥
सनत्कुमार उवाच
सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा ।
प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् ॥ २९.१४६ ॥
देव्युवाच
कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ ।
तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम् ॥ २९.१४७ ॥
यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम् ।
वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह ॥ २९.१४८ ॥
अनेन चाङ्कितो लोके भविष्यसि न संशयः ।
एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः ॥ २९.१४९ ॥
चरितं यत्तपश्चेदमक्षयं तच्च तेऽव्ययम् ।
सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति ॥ २९.१५० ॥
सनत्कुमार उवाच
एवमुक्त्वा ततो देवी विरराम शुभानना ।
भगवान्वरदोऽस्मीति कुबेरमवदत्ततः ॥ २९.१५१ ॥
अथैवमुक्तो देवेन कुबेरो हृष्टमानसः ।
तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः ॥ २९.१५२ ॥
कुबेर उवाच
नमः पट्टिसहस्ताय किरीटवरधारिणे ।
नमो वलयधारिण्यै धारिण्यै दर्पणस्य च ॥ २९.१५३ ॥
नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः ।
नमो मेखलधारिण्यै नमो मौञ्जीधराय च ॥ २९.१५४ ॥
नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते ।
नमो ज्ञानाय तनवे भूताधिपतये नमः ॥ २९.१५५ ॥
नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः ।
नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये ॥ २९.१५६ ॥
नमः प्रकृतये चैव नमोऽस्तु पुरुषाय च ।
नमोऽस्तु बुद्धये चैव अहंकाराय वै नमः ॥ २९.१५७ ॥
नमोऽस्तु रतये चैव सुखाय च नमो नमः ।
नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये ॥ २९.१५८ ॥
नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः ।
नमः साम्नेऽथ यजुषे छन्दसे चेष्टये नमः ॥ २९.१५९ ॥
नमोऽग्नये च वेद्यै च स्वाहायै हविषे नमः ।
नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे ॥ २९.१६० ॥
इच्छायै रतये चैव नमः सम्पद्विरागिणे ।
नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः ॥ २९.१६१ ॥
नमः स्वधायै कव्याय हव्याय च नमो नमः ।
नमो वेद्याय विद्यायै नमः शर्वाय भक्तये ॥ २९.१६२ ॥
प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च ।
मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे ॥ २९.१६३ ॥
नमस्ते भगवन्देव सह देव्या जगत्पते ।
दिश नो भूतभव्येश यन्मे मनसि संस्थितम् ॥ २९.१६४ ॥
सनत्कुमार उवाच
य इमं पठते नित्यं स्तवं प्रातः समुत्थितः ।
जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा ॥ २९.१६५ ॥
तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम् ।
सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति ॥ २९.१६६ ॥
सनत्कुमार उवाच
एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः ।
उवाच वरदोऽस्मीति ब्रूहि विश्रवसः सुत ॥ २९.१६७ ॥
कुबेर उवाच
त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती ।
भगवंस्त्वां च पश्येयं वर एषोऽस्तु मे विभो ॥ २९.१६८ ॥
एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः ।
आत्मना सह सख्यं च ददावात्यन्तिकं तदा ॥ २९.१६९ ॥
देव उवाच
गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम् ।
लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि ॥ २९.१७० ॥
इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम् ।
गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम् ॥ २९.१७१ ॥
अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति ।
कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम् ॥ २९.१७२ ॥
सनत्कुमार उवाच
ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम् ।
आबबद्धास्य शिरसि भास्कराकारवर्चसम् ॥ २९.१७३ ॥
कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम् ।
आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः ॥ २९.१७४ ॥
प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम् ।
जगाम भगवान्सोमस्ततोऽन्यं देशमीप्सितम् ॥ २९.१७५ ॥
सनत्कुमार उवाच
य इमं तु कुबेरस्य वरदानमशेषतः ।
शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान्समाहितः ॥ २९.१७६ ॥
धनवान्रूपसम्पन्नः पुत्रपौत्रसमन्वितः ।
कुलज्ञानबलोपेतो जायते स मृतो नरः ॥ २९.१७७ ॥
अथ देवी महाभागा सहिता शम्भुना तदा ।
संचिन्त्य पञ्चचूडास्तु तपन्त्योऽप्सरसः शुभाः ॥ २९.१७८ ॥
कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः ।
कारुण्याहृतचेतस्का देवं वचनमब्रवीत् ॥ २९.१७९ ॥
एतासां तप्यमानानां योषितां वरमुत्तमम् ।
ददानीप्सितमीशान तन्मेऽनुज्ञातुमर्हसि ।
तस्या विज्ञप्तिमाकर्ण्य भगवानिदमब्रवीत् ॥ २९.१८० ॥
एवं कुरु महाभागे भक्तानुग्रहमीप्सितम् ।
वैदिक्योऽप्सरसो ह्येताः पञ्चचूडा इति स्मृताः ।
त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः प्रदीयताम् ॥ २९.१८१ ॥
ततः सा देवदेवेन तथा समनुचोदिता ।
पञ्चचूडाः समागम्य वच एतदुवाच ह ॥ २९.१८२ ॥
तुष्टास्म्यप्सरसः साक्षात्पश्यध्वं मां शुचिस्मिताः ।
ददानि वो वरानिष्टान्येवो हृदयसंस्थिताः ॥ २९.१८३ ॥
सनत्कुमार उवाच
ता एवमुक्ताः पार्वत्या वैदिक्योऽप्सरसः शुभाः ।
देवीं दृष्ट्वा प्रणम्यैव शिरसा पादयोर्नताः ॥ २९.१८४ ॥
अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना ।
शिरस्यञ्जलिमाधाय तुष्टुवुः सहिताः समम् ॥ २९.१८५ ॥
नमः सिद्ध्यै नमस्तुष्ट्यै क्रियायै बुद्धये नमः ।
नमः कीर्त्यै नमः सत्यै उल्कजायै तथेष्टये ॥ २९.१८६ ॥
नमः पृथिव्यै कल्याण्यै श्रियै लक्ष्म्यै नमो नमः ।
नमः सुधायै स्वाहायै स्वधायै दितये नमः ॥ २९.१८७ ॥
नमोऽस्तु तडिते चैव सौदामन्यै नमो नमः ।
सावित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः ॥ २९.१८८ ॥
नमः पर्वतकन्यायै मतये स्मृतये नमः ।
नमः पर्वतवासिन्यै रुद्राण्यै च नमो नमः ॥ २९.१८९ ॥
नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः ।
शोभायै दीप्तये चैव भास्करग्रहरश्मये ॥ २९.१९० ॥
गत्यायै गतये चैव इन्द्राण्यै मुक्तये नमः ।
नियत्यै सरिते चैव गङ्गायै सूतये नमः ॥ २९.१९१ ॥
हेतये प्रीतये चैव नमः करणवृत्तये ।
नमः संनतये चैव इरायै वृत्तये नमः ॥ २९.१९२ ॥
वारुण्यै च शरण्यायै गौर्यै काल्यै नमो नमः ।
कौशिक्यै च नमस्तेऽस्तु कात्यायन्यै नमो नमः ॥ २९.१९३ ॥
नमः संनतये चैव महिम्ने च नमो नमः ।
अणिमायै नमस्तेऽस्तु लघिमायै नमो नमः ॥ २९.१९४ ॥
पूजायै ते नमस्तेऽस्तु शितिबाह्वे च सृप्तये ।
संज्ञायै च नमस्तेऽस्तु गिरेऽथ स्मृतये नमः ॥ २९.१९५ ॥
नमस्तेऽस्तु सरस्वत्यै जिह्वायै दृष्टये नमः ।
नमो महिषघातिन्यै तथा सुम्भनिसुम्भयोः ॥ २९.१९६ ॥
नमः सिंहरथिन्यै च शूलिन्यै च नमो नमः ।
नमो मुद्गरधारिण्यै कवचिन्यै नमो नमः ॥ २९.१९७ ॥
नमस्तूणीरधारिण्यै धारिण्यै जगतो नमः ।
नमो धनुर्धरायै च खड्गिन्यै च नमो नमः ॥ २९.१९८ ॥
नमः पिञ्च्छध्वजिन्यै च धारिण्यै पट्टिसस्य च ।
नमोऽस्तु भूतमात्रे च स्कन्दस्य च नमो नमः ॥ २९.१९९ ॥
विशाखशाखयोश्चैव नैगमेषस्य चैव हि ।
जात्यै सर्वरसानां च देवतायै वनस्य च ॥ २९.२०० ॥
आर्यायै च नमो नित्यं शिखण्डिन्यै नमो नमः ।
नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः ॥ २९.२०१ ॥
नमोऽस्तु तनुमध्यायै देवतायै धनस्य च ।
नमो धृत्यै नमश्चित्यै कीर्तये च नमो नमः ॥ २९.२०२ ॥
स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः ।
राकानुमतये चैव सिनीवाल्यै नमो नमः ॥ २९.२०३ ॥
नमः क्रियायै श्रद्धायै मेधायै च नमो नमः ।
नमोऽस्तु धारणायै च ऊहायै च नमो नमः ॥ २९.२०४ ॥
अपोहायै नमस्तेऽस्तु वषट्प्रकृतये नमः ।
नमः समाधये चैव स्पृहायै वित्तये नमः ॥ २९.२०५ ॥
वेदनायै नमस्तेऽस्तु बृहदुक्ष्यै नमो नमः ।
नमः प्रभायै शुद्धायै शुद्धये शुचये नमः ॥ २९.२०६ ॥
नमस्त्र्यम्बकभार्यायै विद्यायै च नमो नमः ।
दीक्षायै दक्षिणायै च ज्वालायै च नमो नमः ॥ २९.२०७ ॥
इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम् ।
श्रुतये सर्ववेदानां भवान्यै च नमो नमः ॥ २९.२०८ ॥
दुर्गायै दुर्गतारिण्यै धारिण्यै सर्वदेहिनाम् ।
नमस्ते सर्वदेवत्यै नमस्ते लोकभावनि ॥ २९.२०९ ॥
नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च ।
नमोऽस्त्वदित्यै दानव्यै विनतायै नमो नमः ॥ २९.२१० ॥
नमः शिवायै कर्त्र्यै च प्रभावायै नमो नमः ।
मृकण्ड्वै मार्दबाह्वै च तथा सुरतये नमः ॥ २९.२११ ॥
विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः ।
नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः सदा ।
दिश नः सुमनाः सर्वं यत्किंचिद्धृदये स्थितम् ॥ २९.२१२ ॥
सनत्कुमार उवाच
य इदं पठते नित्यं नरः स्त्री वा समाहितः ।
स रात्रिषु कृतं पापं त्यजेत्सर्वमशेषतः ॥ २९.२१३ ॥
शयानो जपते यश्च प्रयतो व्यास नित्यशः ।
दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत् ॥ २९.२१४ ॥
यश्चैतच्छृणुयान्नित्यं द्विजान्वा श्रावयेत्सदा ।
स देहभेदमासाद्य पञ्चचूडाप्रियो भवेत् ॥ २९.२१५ ॥
यश्चैनं प्रजहन्प्राणाञ्जपेन्मर्त्यः सुदुस्त्यजान् ।
विमाने सूर्यसंकाशे अप्सरोगणसेविते ।
सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं समम् ॥ २९.२१६ ॥
यश्च भक्त्या परमया तिथौ नियमवान्नरः ।
देवीमभ्यर्च्य जपते सर्वपापैः प्रमुच्यते ॥ २९.२१७ ॥
जपनाद्देहतपनाद्देहे भिन्ने च भक्तिमान् ।
स भूत्वानुचरो देव्याः पुण्ये लोके महीयते ॥ २९.२१८ ॥
सनत्कुमार उवाच
ताभिरेवं स्तुता देवी स्थिता देवस्य संनिधौ ।
उवाच हर्षमाणास्या पञ्चचूडास्तदा वचः ॥ २९.२१९ ॥
शृणुताप्सरसः सर्वास्तपसोऽस्य महत्फलम् ।
यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः ॥ २९.२२० ॥
अजराश्च विशोकाश्च नित्यं मुदितमानसाः ।
प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया ॥ २९.२२१ ॥
ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशङ्किताः ।
सर्वं दास्यामि तद्वोऽहं मा चिराय तदुच्यताम् ॥ २९.२२२ ॥
पञ्चचूडा ऊचुः
देवि पुंसां स्त्रियः सर्वाः कार्यार्थं विदितं च ते ।
अर्थिनस्ते च नस्तावद्यावत्कार्यं समाप्यते ।
समाप्ते चैव तत्कार्ये परा इव भवन्ति नः ॥ २९.२२३ ॥
तद्देवि यदि तुष्टासि यदि देयो वरश्च नः ।
सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः ॥ २९.२२४ ॥
देव्युवाच
अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा ।
सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह ॥ २९.२२५ ॥
आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः ।
सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च ॥ २९.२२६ ॥
व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च ।
प्रिया एव भविष्यन्ति पापं न च भवेत्सदा ॥ २९.२२७ ॥
मातरं पितरं भ्रातॄन् सुहृदोऽथ सुतानपि ।
अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः ॥ २९.२२८ ॥
पश्यन्तोऽपि व्यलीकानि दोषान्वैकृत्यमेव च ।
नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः ॥ २९.२२९ ॥
सनत्कुमार उवाच
ततः सा देवदेवस्य पत्नी हिमवतः सुता ।
माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना ।
भव नार्य इति प्राह हसन्ती प्रियमव्यया ॥ २९.२३० ॥
भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले ।
कुसुमान्यभवंस्तानि नार्यः कमललोचनाः ॥ २९.२३१ ॥
ता उवाचामरा यूयं जराक्षयविवर्जिताः ।
जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः ॥ २९.२३२ ॥
दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः ।
संमोहयिष्यथ नरान् स्त्रीवशांश्च करिष्यथ ।
नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः ॥ २९.२३३ ॥
वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा ।
पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च ॥ २९.२३४ ॥
क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह ।
बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः ॥ २९.२३५ ॥
सनत्कुमार उवाच
एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च ।
उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम् ॥ २९.२३६ ॥
तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि ।
देवानां मानुषाणां च अवध्याश्चैव रक्षसाम् ।
ता उवाच ततो देवी एवं लोके भविष्यतु ॥ २९.२३७ ॥
ततः स सहितो देव्या सनन्दी परमेश्वरः ।
गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः ॥ २९.२३८ ॥
भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः ।
जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम ॥ २९.२३९ ॥
इति स्कन्दपुराणे ऊनत्रिंशोऽध्यायः
स्कन्दपुराण 30
व्यास उवाच
भगवन्पिङ्गलः केन गणत्वं समुपागतः ।
अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः ॥ ३०.१ ॥
क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः ।
एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया ॥ ३०.२ ॥
सनत्कुमार उवाच
शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः ।
अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि ॥ ३०.३ ॥
पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान् ।
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह ॥ ३०.४ ॥
तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा ।
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ॥ ३०.५ ॥
आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन् ।
भुञ्जानोऽथ पिबन्वापि रुद्रमेवानुचिन्तयत् ॥ ३०.६ ॥
तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् ।
न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा ॥ ३०.७ ॥
न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत ।
गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः ।
क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक ॥ ३०.८ ॥
मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम् ।
स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते ॥ ३०.९ ॥
हरिकेश उवाच
दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा ।
वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत् ।
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः ॥ ३०.१० ॥
हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह ।
देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च ॥ ३०.११ ॥
अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम् ।
ममापि विहितं पश्य कर्मैतन्नात्र संशयः ॥ ३०.१२ ॥
सनत्कुमार उवाच
स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान् ।
उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते ॥ ३०.१३ ॥
ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान् ।
वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् ॥ ३०.१४ ॥
स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः ।
संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः ॥ ३०.१५ ॥
अथ तस्यैवमनिशं तत्परस्य तदाशिषः ।
सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत ॥ ३०.१६ ॥
वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः ।
वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च ॥ ३०.१७ ॥
निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः ।
अस्थिशेषोऽभवत्सर्वो देवश्चैनममन्यत ॥ ३०.१८ ॥
एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम् ।
उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद ॥ ३०.१९ ॥
क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे ।
यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम् ॥ ३०.२० ॥
इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः ।
सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे ॥ ३०.२१ ॥
निर्जगाम च देवेशः पार्वत्या सह शंकरः ।
उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ॥ ३०.२२ ॥
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ।
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ॥ ३०.२३ ॥
तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः ।
अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः ॥ ३०.२४ ॥
क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः ।
विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः ॥ ३०.२५ ॥
क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम् ।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥ ३०.२६ ॥
मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम् ।
क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम् ॥ ३०.२७ ॥
प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम् ।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥ ३०.२८ ॥
मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः ।
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् ॥ ३०.२९ ॥
निविडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगव्रातनादाभिरामम् ।
कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितप्रान्तशाखम् ॥ ३०.३० ॥
क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम् ।
क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः ॥ ३०.३१ ॥
पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः ।
आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ॥ ३०.३२ ॥
फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम् ।
मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् ॥ ३०.३३ ॥
तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः ।
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ॥ ३०.३४ ॥
हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम् ।
मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् ॥ ३०.३५ ॥
सारङ्गैः क्वचिदुपसेवितप्रदेशं संछन्नं कुसुमचयैः क्वचिद्विचित्रैः ।
हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः क्षीवाभिः सुमधुरगीतवृक्षषण्डम् ॥ ३०.३६ ॥
संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम् ।
आ मूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम् ॥ ३०.३७ ॥
फुल्लातिमुक्तकलतागृहलीनसिद्धं सिद्धाङ्गनाकनकनूपुररावरम्यम् ।
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीशबलिताम्रकदम्बपुष्पम् ॥ ३०.३८ ॥
पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रे सुरेभविनिपातितवंशगुल्मम् ।
गुल्मान्तरप्रसृतभीतमृगीसमूहमूहावतां तनुभृतामपवर्गदातृ ॥ ३०.३९ ॥
चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः ।
चामीकरप्रतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः ॥ ३०.४० ॥
क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः ।
क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम् ॥ ३०.४१ ॥
पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् ।
रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥ ३०.४२ ॥
सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः ।
विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनमतिरम्यं दर्शयामास देव्याः ॥ ३०.४३ ॥
देव्युवाच
उद्यानं दर्शितं देव शोभया परया युतम् ।
क्षेत्रस्य तु गुणान्सर्वान् पुनर्वक्तुमिहार्हसि ॥ ३०.४४ ॥
अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा ।
श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे ॥ ३०.४५ ॥
देव उवाच
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ॥ ३०.४६ ॥
अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ।
अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः ॥ ३०.४७ ॥
नानावृक्षसमाकीर्णे नानाविहगसेविते ।
कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते ॥ ३०.४८ ॥
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ।
रोचते मे सदावासो येन कार्येण तच्छृणु ॥ ३०.४९ ॥
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ।
यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् ॥ ३०.५० ॥
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत् ।
ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः ।
अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम ॥ ३०.५१ ॥
विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन ।
मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ॥ ३०.५२ ॥
नैमिशेऽथ कुरुक्षेत्रे गङ्गाद्वारेऽथ पुष्करे ।
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः ।
इह सम्प्राप्यते येन तत एतद्विशिष्यते ॥ ३०.५३ ॥
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् ।
प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम् ॥ ३०.५४ ॥
जैगीषव्यः परां सिद्धिं यो गतः स महातपाः ।
अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः ॥ ३०.५५ ॥
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते ।
ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ।
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥ ३०.५६ ॥
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः ।
इह सम्प्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित् ॥ ३०.५७ ॥
तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम् ।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ॥ ३०.५८ ॥
कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः ।
क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह ॥ ३०.५९ ॥
संवर्तो भविता यश्च सोऽपि भक्त्या ममैव तु ।
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् ॥ ३०.६० ॥
पराशरसुतो योगी ऋषिर्व्यासो महातपाः ।
धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः ।
रंस्यते सोऽपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुंगवः ॥ ३०.६१ ॥
ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः ।
देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः ।
उपासते महात्मानः सर्वे मामिह सुव्रते ॥ ३०.६२ ॥
अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते ।
अनन्यमनसो भूत्वा मामिहोपासते सदा ॥ ३०.६३ ॥
अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति ।
स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम् ॥ ३०.६४ ॥
स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः ।
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ॥ ३०.६५ ॥
ततः प्रभृति चार्वङ्गि येऽपि क्षेत्रनिवासिनः ।
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ।
मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम् ॥ ३०.६६ ॥
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ।
इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ॥ ३०.६७ ॥
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः ।
व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः ॥ ३०.६८ ॥
देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः ।
गता एव परं मोक्षं प्रसादान्मम सुव्रते ॥ ३०.६९ ॥
जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात् ।
तमिहैव परं मोक्षं मरणादधिगच्छति ॥ ३०.७० ॥
एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम् ।
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ॥ ३०.७१ ॥
अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि ।
एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि ॥ ३०.७२ ॥
एतदेव परं ज्ञानमेतदेव परं शिवम् ।
एतदेव परं ब्रह्म एतदेव परं पदम् ॥ ३०.७३ ॥
वाराणसीति भुवनत्रयसारभूता रम्या पुरी मम सदा गिरिराजपुत्रि ।
अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः ॥ ३०.७४ ॥
एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् ।
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मोक्षाख्यमेनसि रतापि न संशयोऽत्र ॥ ३०.७५ ॥
इति स्कन्दपुराणे त्रिंशत्तमोऽध्यायः
स्कन्दपुराण 31
सनत्कुमार उवाच
एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम् ।
प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि ॥ ३१.१ ॥
भक्तो मम वरारोहे तपसा हतकिल्बिषः ।
अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि ॥ ३१.२ ॥
एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसंततः ॥ ३१.३ ॥
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ।
दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम् ॥ ३१.४ ॥
सनत्कुमार उवाच
अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने ।
अपश्यत्सगणं देवं वृषं चैवमुपाश्रितम् ॥ ३१.५ ॥
देव उवाच
बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा ।
सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः ॥ ३१.६ ॥
सनत्कुमार उवाच
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च ।
पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् ॥ ३१.७ ॥
उवाच स तदा यक्षो वरदोऽस्मीति चोदितः ।
भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे ॥ ३१.८ ॥
अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम् ।
अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा ।
एतदिच्छामि देवेश दत्तं वरमनुत्तमम् ॥ ३१.९ ॥
देव उवाच
जरामरणसंत्यक्तः सर्वशोकविवर्जितः ।
भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः ॥ ३१.१० ॥
अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥ ३१.११ ॥
महाबलो महासत्त्वो ब्रह्मण्योऽथ मम प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥ ३१.१२ ॥
उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ ।
तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥ ३१.१३ ॥
सनत्कुमार उवाच
एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम् ।
जगाम धाम देवेशः सह तेन सुरेश्वरः ॥ ३१.१४ ॥
Search
Search here.