सुदर्शन अष्टोत्तरशत नामस्तोत्रम्

नामावली  > संकीर्ण इतर नामावली Posted at 2018-03-28 02:13:41

सुदर्शनाष्टोत्तरशतनामस्तोत्रम्

॥श्रीः॥

सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहुर्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥१॥
अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनीसहस्राभः मणिकुण्डलशोभितः ॥२॥
पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः ।
हरान्तः करणोद्भूतरोषभीषणविग्रहः ॥३॥
हरिपाणिलसत्पद्मविहारारमनोहरः ।
श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥४॥
चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः ।
भक्तचान्द्रमसज्योतिः भवरोगविनाशकः ॥५॥
रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।
सर्वदैत्यग्रीवनालविभेदनमहागजः ॥६॥
भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः ।
नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः ॥७॥
रक्तमाल्यांबरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिश्शूरो रक्षःकुलयमोपमः ॥८॥
नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥९॥
बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः ।
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥१०॥
रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।
हरिमायागुणोपेतोऽव्ययोऽक्षस्वरूपभाक् ॥११॥
परमात्मा परंज्योतिः पञ्चकृत्यपरायणः ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः ॥१२॥
सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥१३॥
मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥१४॥
मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ।
स्रष्टा क्रियास्पदश्शुद्धः आधारश्चक्ररूपकः ॥१५॥
निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः ।
ओम्काररूपी पूर्णात्मा आंकारस्साध्यबन्धनः ॥१६॥
ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः ।
क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः ॥१७॥
इन्द्रार्चितमनोवेगो धरणीभारनाशकः ।
वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥१८॥
सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः'
नारायणकृपाव्यूहतेजश्चक्रस्सुदर्शनः ॥१९॥

॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं संपूर्णम॥

Search

Search here.