श्री सुदर्शन कवचम्
स्तोत्र - मंत्र > संकीर्ण इतर स्तोत्र Posted at 2018-11-02 16:13:30
॥ श्रीसुदर्शनकवचम् ॥
प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद । सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १॥
नारदः -- श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् । सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २॥
कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् । सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३॥
ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते । शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४॥
घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम । शहस्रारः शृतिं पातु कपोलं देववल्लभः ॥ ५॥
विश्वात्मा पातु मे वक्त्रं जिह्वां विध्यामयो हरिः । कण्ठं पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वरः॥ ६॥
भुजौ मे पातु विजयी करौ कैटभनाशनः । षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥ ७॥
मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् । सर्वयुधमयः पातु कटिं श्रोणिम् महाध्युतिः ॥ ८॥
सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ । गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥ ९॥
जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः । गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १०॥
सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः । य इदं कवचं दिव्यम् परमानन्द दायिनम् ॥ ११॥
सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः । तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२॥
कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः । लायन्तेऽनिशम् पीताः वर्मणोस्य प्रभावतः ॥ १३॥
कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः । नश्यन्त्येतन् मन्त्रिताम्बु पानात् सप्त दिनावधि ॥ १४॥
अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः सम्स्थिताम् । ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः ॥ १५॥
|| इति श्री भृगुसंहितोक्त श्री सुदर्शन कवचम् सम्पूर्णम् ||
Search
Search here.